लघुसिद्धान्तकौमुदी/समासान्तप्रकरणम्
(समासान्तप्रकरणम् इत्यस्मात् पुनर्निर्दिष्टम्)
← द्वन्द्वसमासः | लघुसिद्धान्तकौमुदी समासान्तप्रकरणम् वरदराजः |
तद्धिते साधारणप्रत्ययप्रकरणम् → |
अथ समासान्ताः
ऋक्पूरब्धूःपथामानक्षे॥ लसक_९९६ = पा_५,४.७४॥
अ अनक्षे इतिच्छेदः। ऋगाद्यन्तस्य समासस्य अप्रत्ययो ऽन्तावयवो ऽक्षे या धूस्तदन्तस्य तु न। अर्धर्चः। विष्णुपुरम्। विमलापं सरः। राजधुरा। अक्षे तु अक्षधूः। दृढधूरक्षः। सखिपथः। रम्यपथो देशः॥
अक्ष्णो ऽदर्शनात्॥ लसक_९९७ = पा_५,४.७६॥
अचक्षुःपर्यायादक्ष्णो ऽच् स्यात्समासान्तः। "गवामक्षीव गवाक्षः&८२१७॑॥
उपसर्गादध्वनः॥ लसक_९९८ = पा_५,४.८५॥
प्रगतो ऽध्वानं प्राध्वो रथः॥
न पूजनात्॥ लसक_९९९ = पा_५,४.६९॥
पूजनार्थात्परेभ्यः समासान्ता न स्युः। सुराजा। अतिराजा॥
इति समासान्ताः॥