सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ३/द्वन्द्वपर्व/शुक्रसाम

द्वन्द्वपर्व । १४८-१४९

शुक्रसाम

॥ गृत्समदः शौनकः । वायुः । गायत्री । ( ऋ० २ । ४१ । २)


नियुत्वान्वायवा गह्ययꣳ शुक्रो अयामि ते ।
गन्तासि सुन्वतो गृहम् ॥ ६०० ।।

शुक्रचन्द्रे द्वे, शुक्रसाम । प्रजापतिर्गायत्रीवायुः ॥

हाउहाउहाउ । शुक्रम् । ( त्रिः) । शुक्रꣳशुक्रम् ।( त्रिः) । शुक्रꣳशूक्रम् । ( त्रिः) । नियुत्वान्वायऽ३वागाऽ१हीऽ२॥ अयꣳशुक्राअऽ३यामाऽ१इताऽ२इ ॥ गन्तासिसुन्वऽ३तोगॄऽहाऽ२३म् ॥ हाउहाउहाउ । शुक्रम् । ( त्रिः) । शुक्रꣳशुक्रम् । ( त्रिः) । शुक्रꣳशूक्रम् । ( त्रिः) । शुक्रम् । शूऽ२ । क्राऽ२३४ । औहोवा ॥ ए। शुक्रम् । (द्वे त्रिः)॥

(दी० १५ । प० ३२ । मा० ३१ )७( फ । १४८)


[साम-तन्त्र-सूत्राणि १४८]७[१४९]८ ( पृथक् सूत्राणि न सन्ति )

सम्पाद्यताम्

टिप्पणी

गार्हपत्यखरस्य पार्श्वे स्थितस्य प्रवर्ग्यखरे रुक्मोपधानसमये अस्य साम्नः गानं करणीयमस्ति। रुक्मोपधानानन्तरं तस्योपरि महावीरपात्रः स्थापनीयः।