सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/अदारसृक्
९.६६.२५ पवमानस्य जङ्घ्नतो इति
पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
जीरा अजिरशोचिषः ।। १३१० ।। ऋ. ९.६६.२५
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
हरिश्चन्द्रो मरुद्गणः ।। १३११ ।।
पवमान व्यश्नुहि रश्मिभिर्वाजसातमः ।
दधत्स्तोत्रे सुवीर्यं ।। १३१२ ।।
१४. अदारसृक् ॥ भरद्वाजः। गायत्री। पवमानस्सोमः॥
हाउपवमाना ॥ स्यजाऽ२इघ्नाताऽ२ः । हरेश्चन्द्राअसाऽ२र्क्षाताऽ२ । जीराऽ२आजाऽ२इ ॥ रशो। चाऽ२इषाऽ२३४औहोवा ॥ श्रीः ॥ हाउपवमानाः ॥ रथाऽ२इतामाऽ२ः । शुभ्रेभिश्शुभ्रशाऽ२स्तामाऽ२ः ॥ हराऽ२इश्चान्द्राऽ२ः ॥ मरुत् । गाऽरणाऽ२३४औहोवा ।। श्रीः॥ हाउपवमाना ॥ वियाऽ२श्नूहाऽ२इ । रश्मिभिर्वाजसाऽ२तामाऽ२ः ॥ दधाऽ२त्स्तोत्राऽ२इ ॥
सुवी।राऽ२याऽ२३४औहोवा॥ अस्मभ्यंगातुवित्तमाऽ२३४५म् ॥
दी. २०. उत्. १०. मा. २३. मि. ॥१७४।।
अदारसृक् १.९.१४
सुरूपोत्तरम् १.९.१५
हरिश्रीनिधनम् १.९.१६
सैन्धुक्षितम् १.९.१७
गतनिधनबाभ्रवम् १.९.१८
इडानां संक्षारः १.९.१९
ऋषभः पवमानः १.९.२०
टिप्पणी
पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत"इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानामयातयामतायै। पवमानस्य जिघ्नत"इति वै बृहतो रूपंऽऽहरेश्चन्द्रा असृक्षत"इति जगत्या उभयोः सहरूपमुपैति साम्नश्च छन्दसश्च। ....भरद्वाजस्यादारसृद्भवति। दिवोदासं वै भरद्वाजपुरोहितं नानाजनाः पर्ययतन्त स उपासीददृषे गातुं मे विन्देति तस्मा एतेन साम्ना गातुमविन्दद्गातुविद्वा एतत्सामानेन दारे नासृन्मेति तददारसृतोऽदारसृत्त्वं विन्दते गातुं न दारे धावत्यदारसृता तुष्टुवानः - तां.ब्रा. १५.३.२
पवमानस्य जिघ्नत इति बृहतो रूपं, हरेश् चन्द्रा इति जगत्यै। पवमानो रथीतमश् शुभ्रेभिश् शुभ्रशस्तमः। हरिश्चन्द्रो मरुद्गणः॥ इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। पवमान व्य् अश्नुहीति वैश्वदेवं रूपम् उपगच्छन्ति। वैश्वदेवं ह्य् एतद् अहः। ता घ्नद्वतीर् भवन्ति। अन्तो नवमम् अहः। अन्तम् एवैतद् आगत्यैताभिस् सर्वं पाप्मानम् अपघ्नते।....अथ गातुविन्निधनम्। गातुं विन्दामहा इति सत्रम् आसते। गातुम् एव विन्दन्ते। तद् उपरिष्टोभवद् भवति बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। तद् व् एवाचक्षते भरद्वाजस्यादारसृद् इति। - जैब्रा. ३.२४५
सो ऽब्रवीद् भरद्वाजो - न वै दारे ऽसृन्मेति। यद् अब्रवीद् भरद्वाजो - न वै दारे ऽसृन्मेति, तद् एवादारसृतो ऽदारसृत्वम्। तद् एतद् विजितिर् भ्रातृव्यहा साम। विजयते हन्ति द्विषन्तं भ्रातृव्यं, दारे द्विषन्तं भ्रातृव्यं सारयति, नात्मना दारे धावयति। अथो सेन्द्रम् एव। इन्द्रो वा एषाम् एतेन हवम् अगच्छद्, आस्येन्द्रो हवं गच्छति य एवं वेद। तद् व् अष्टाक्षरणिधनं भवत्य् - अष्टाक्षरा वै गायत्री। अष्टाशफाः पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। यद् उ भरद्वाजो ऽपश्यत् तस्माद् भरद्वाजस्यादारसृद् इत्य् आख्यायते॥जैब्रा. ३.२४८॥
गातु पु० गै गाने गाङ्गतौ गास्तुतौ वा कर्त्तृभावादौ तुन् । १ कोकिले २ भ्रमरे ३ गन्धर्वे च मेदिनिः । ४ रोषणे त्रि० मेदि० । ५ गायने त्रि० उणादि० । ६ गाने “गातुं कृण्वन्नुषसो जनाय” ऋ० ४ । ५१ । १ । “गातुं गानम्” भा० । ७ गन्तव्ये मार्गादौ “उरुं नो गातुं कृणु सोम मीढ्वः” ९ । ८५ । ४ । “गातुं मनुषे च विन्दः” १० । १०४ । ८ । “गातुं गन्तव्यमार्गम्” भा० ८ उपाये “ मित्रो अंहोश्चिदादुरु क्षयाय गातुं वनते” ५, ६५ । ४ । “गातुमुपायम्” भा० । गच्छत्यत्र गागतौ आधारे तुन् । ९ पृथिव्यां निघ० । “साकं सूर्य्यमुषसं गातुमग्निम्” ३ । ३१ । १५ । “गातुं पृथिवीम्” भा० । “गोभ्यो गातुं निरेतवे” ८ । ४५ । ३० । “गातुं भूमिम्” भा० । १० स्तवे । “य ईवते ब्रह्मणे गातु मैरत्” ४ । ४ । ६ । “गातुं स्तवम्” भा० । गातुमिच्छति क्यच् गातूयति । “ये स्मा पुरा गातूयन्तीव देवाः” १ । १६९ । ५ । गातुं वेत्ति विदक्विप्र् । गातुविद् मार्गादिवेत्तरि । “सोमो जिगाति गातुविद् देवानामेति निष्कृतम्” ३ । ६२ । १३ । - वाचस्पत्यम्
अदारसृक् (पवस्व दक्षसाधनो) (संवत्सरसत्र)