← सूक्तं ३.३० ऋग्वेदः - मण्डल ३
सूक्तं ३.३१
कुशिक ऐषीरथिः, गाथिनो विश्वामित्रो वा।
सूक्तं ३.३२ →
दे. इन्द्रः। त्रिष्टुप्



शासद्वह्निर्दुहितुर्नप्त्यं गाद्विद्वाँ ऋतस्य दीधितिं सपर्यन् ।
पिता यत्र दुहितुः सेकमृञ्जन्सं शग्म्येन मनसा दधन्वे ॥१॥
न जामये तान्वो रिक्थमारैक्चकार गर्भं सनितुर्निधानम् ।
यदी मातरो जनयन्त वह्निमन्यः कर्ता सुकृतोरन्य ऋन्धन् ॥२॥
अग्निर्जज्ञे जुह्वा रेजमानो महस्पुत्राँ अरुषस्य प्रयक्षे ।
महान्गर्भो मह्या जातमेषां मही प्रवृद्धर्यश्वस्य यज्ञैः ॥३॥
अभि जैत्रीरसचन्त स्पृधानं महि ज्योतिस्तमसो निरजानन् ।
तं जानतीः प्रत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः ॥४॥
वीळौ सतीरभि धीरा अतृन्दन्प्राचाहिन्वन्मनसा सप्त विप्राः ।
विश्वामविन्दन्पथ्यामृतस्य प्रजानन्नित्ता नमसा विवेश ॥५॥
विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः ।
अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात् ॥६॥
अगच्छदु विप्रतमः सखीयन्नसूदयत्सुकृते गर्भमद्रिः ।
ससान मर्यो युवभिर्मखस्यन्नथाभवदङ्गिराः सद्यो अर्चन् ॥७॥
सतःसतः प्रतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम् ।
प्र णो दिवः पदवीर्गव्युरर्चन्सखा सखीँरमुञ्चन्निरवद्यात् ॥८॥
नि गव्यता मनसा सेदुरर्कैः कृण्वानासो अमृतत्वाय गातुम् ।
इदं चिन्नु सदनं भूर्येषां येन मासाँ असिषासन्नृतेन ॥९॥
सम्पश्यमाना अमदन्नभि स्वं पयः प्रत्नस्य रेतसो दुघानाः ।
वि रोदसी अतपद्घोष एषां जाते निष्ठामदधुर्गोषु वीरान् ॥१०॥
स जातेभिर्वृत्रहा सेदु हव्यैरुदुस्रिया असृजदिन्द्रो अर्कैः ।
उरूच्यस्मै घृतवद्भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः ॥११॥
पित्रे चिच्चक्रुः सदनं समस्मै महि त्विषीमत्सुकृतो वि हि ख्यन् ।
विष्कभ्नन्त स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् ॥१२॥
मही यदि धिषणा शिश्नथे धात्सद्योवृधं विभ्वं रोदस्योः ।
गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः ॥१३॥
मह्या ते सख्यं वश्मि शक्तीरा वृत्रघ्ने नियुतो यन्ति पूर्वीः ।
महि स्तोत्रमव आगन्म सूरेरस्माकं सु मघवन्बोधि गोपाः ॥१४॥
महि क्षेत्रं पुरु श्चन्द्रं विविद्वानादित्सखिभ्यश्चरथं समैरत् ।
इन्द्रो नृभिरजनद्दीद्यानः साकं सूर्यमुषसं गातुमग्निम् ॥१५॥
अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद्विश्वश्चन्द्राः ।
मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः ॥१६॥
अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे ।
परि यत्ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः ॥१७॥
पतिर्भव वृत्रहन्सूनृतानां गिरां विश्वायुर्वृषभो वयोधाः ।
आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ॥१८॥
तमङ्गिरस्वन्नमसा सपर्यन्नव्यं कृणोमि सन्यसे पुराजाम् ।
द्रुहो वि याहि बहुला अदेवीः स्वश्च नो मघवन्सातये धाः ॥१९॥
मिहः पावकाः प्रतता अभूवन्स्वस्ति नः पिपृहि पारमासाम् ।
इन्द्र त्वं रथिरः पाहि नो रिषो मक्षूमक्षू कृणुहि गोजितो नः ॥२०॥
अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णाँ अरुषैर्धामभिर्गात् ।
प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः ॥२१॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥२२॥


सायणभाष्यम्

‘शासद्वह्निः' इति द्वाविंशत्यृचं द्वितीय सूक्तम् । अत्रानुक्रमणिका -- शासत् कुशिको विश्वामित्र एव वा श्रुतेः' इति । इषीरथस्य पुत्रः कुशिको विश्वामित्र एव वा ऋषिः । इन्द्रो देवता । त्रिष्टुप्छन्दः । चातुर्विंशिकेऽहनि माध्यंदिने सवने अच्छावाकशस्त्र आरम्भणीयाया ऊर्ध्वमहीनसूक्तसंज्ञकमेतत्सूक्तं शंसनीयम् । सूत्रितं च - अस्मा इदु प्रतवसे शासद्वह्निरितीतरावहीनसूक्ते' (आश्व. श्रौ. ७. ४ ) इति । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि माध्यंदिनसवनेऽच्छावाकशस्त्रेऽहीनसूक्तस्य स्थाने त्रीणि संपातसूक्तानि । तत्रेदं तृतीयं संपातसूक्तम् । ‘इमामू ष्विच्छन्ति वा शासद्वह्निरिति संपाताः' ( आश्व. श्रौ. ७.५ ) इति ॥


शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं॑ गाद्वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् ।

पि॒ता यत्र॑ दुहि॒तुः सेक॑मृं॒जन्त्सं श॒ग्म्ये॑न॒ मन॑सा दध॒न्वे ॥१

शास॑त् । वह्निः॑ । दु॒हि॒तुः । न॒प्त्य॑म् । गा॒त् । वि॒द्वान् । ऋ॒तस्य॑ । दीधि॑तिम् । स॒प॒र्यन् ।

पि॒ता । यत्र॑ । दु॒हि॒तुः । सेक॑म् । ऋ॒ञ्जन् । सम् । श॒ग्म्ये॑न । मन॑सा । द॒ध॒न्वे ॥१

शासत् । वह्निः । दुहितुः । नप्त्यम् । गात् । विद्वान् । ऋतस्य । दीधितिम् । सपर्यन् ।

पिता । यत्र । दुहितुः । सेकम् । ऋञ्जन् । सम् । शग्म्येन । मनसा । दधन्वे ॥१

कुशिकः प्रसङ्गात् कंचित् शास्त्रार्थं ब्रूते- अपुत्रस्य पितुः पुत्री दायादा पुत्रिका सती । यतः संतानकृत्तस्याः पुत्र इत्यनयोच्यते इति । अपुत्रो यः पिता कन्यामन्यकुलं प्रापयति स “वह्निः इत्युच्यते । स पिता “शासत् ।' अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति' ( वासिष्ठ. १७. १७) स्मृत्युक्तम् अनुशासनं कुर्वन् “दुहितुः पुत्रिकायाः “नप्त्यं नप्तृभवं पिण्डदानादिकं कर्तव्यतया “गात् गच्छति । किं कुर्वन् । “विद्वान् अस्यां दुहितरि जातः पुत्रो मम स्वधाकरो भविष्यतीति जानन् “ऋतस्य सत्यस्य पुत्रोत्पादनसमर्थस्य रेतसः “दीधितिं धर्तारं जामातरं तत्पतिं “सपर्यन् वस्त्रालंकारादिना पूजयन् “पिता नप्तृभवं गच्छति । “यत्र यस्याः "दुहितुः पिता पालकः पतिर्जामाता “सेकं तस्यां रेतःसेकम् “ऋञ्जन् प्रसाधयन् यः "शग्म्येन केवलं सुखनिमित्तेन मनसा तया स्वशरीरं "सं “दधन्वे संधत्ते । न तु पुत्रनिमित्तेन मनसा । एतमर्थं यास्कोऽप्याह- प्रशास्ति वोढा सन्तानकर्मणे दुहितुः पुत्रभावम् । दुहिता दुर्हिता दूरे हिता दोग्धेर्वा । नप्तारमुपागमद्दौहित्रं पौत्रमिति । विद्वान्प्रजननयज्ञस्य रेतसो वाङ्गादङ्गात्संभूतस्य हृदयादधिजातस्य मातरि प्रत्यृतस्य विधानं पूजयन्' (निरु. ३. ४ ) इत्यादिना ॥ शासत् । शासेः शतरि अभ्यस्तत्वान्नुमभावः । दुहितुः । ‘दुह प्रपूरणे'। • नप्तृनेष्ट्र° ' इत्यादिना तृचि निपातनादिडागमः । चित्स्वरः । नप्त्यम् । नप्तरि भवम् । ‘भवे छन्दसि' इति यत् । 'रीङृतः' इति रीङादेशः । 'यस्य' इति लोपः । रेफलोपश्छान्दसः । गात् । इण् गतौ' इत्यस्य छान्दसे लुङि रूपम् । ऋञ्जन्। ऋञ्जतिः प्रसाधनकर्मा । शग्म्येन । शं सुखं गच्छन्तीति गमेरौणादिकः कप्रत्ययः । कित्त्वात् ‘गमहन' इत्यादिनोपधालोपः । शग्मे साधुः इति तत्र साधुः' इति यत्प्रत्ययः । वीरवीर्यौ च इत्यत्र यतोऽनावः' इत्यस्य अनित्यत्वज्ञापितत्वादत्र० तित्स्वरः । दधन्वे । धवि सौत्रो धातुः । लिटि रूपम् । प्रत्ययस्वरः । यद्योगादनिघातः ॥


न जा॒मये॒ तान्वो॑ रि॒क्थमा॑रैक्च॒कार॒ गर्भं॑ सनि॒तुर्नि॒धानं॑ ।

यदी॑ मा॒तरो॑ ज॒नयं॑त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो॑र॒न्य ऋं॒धन् ॥२

न । जा॒मये॑ । तान्वः॑ । रि॒क्थम् । अ॒रै॒क् । च॒कार॑ । गर्भ॑म् । स॒नि॒तुः । नि॒ऽधान॑म् ।

यदि॑ । मा॒तरः॑ । ज॒नय॑न्त । वह्नि॑म् । अ॒न्यः । क॒र्ता । सु॒ऽकृतोः॑ । अ॒न्यः । ऋ॒न्धन् ॥२

न । जामये । तान्वः । रिक्थम् । अरैक् । चकार । गर्भम् । सनितुः । निऽधानम् ।

यदि । मातरः । जनयन्त । वह्निम् । अन्यः । कर्ता । सुऽकृतोः । अन्यः । ऋन्धन् ॥२

अभ्रातृकाया दुहितुः पुत्रिकाकरणात् सा रिक्थभाक् इत्युक्तम् । भ्रातृमत्यास्तस्या रिक्थभाक्त्वं नास्तीति ब्रूते । "तान्वः तनूज औरसः पुत्रः "जामये भगिन्यै "रिक्थं पित्र्यं धनं न "अरैक् न प्ररेचयति न प्रददाति । किं तर्हि । “सनितुः एनां संभजमानस्य भर्तुः "गर्भम् । षष्य्िर्थे द्वितीया ।। गर्भस्य "निधानं रेतःसेकनिधानीमेनां “चकार। पाणिग्रहणेन संस्कृताम् एनां करोति । न तु तस्यै रिक्थं ददातीत्यभिप्रायः । ' असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । भगिन्यश्च निजादंशाद्दत्त्वांशं तु तुरीयकम् ' ( याज्ञ. २. १२४ ) इति याज्ञवल्क्यस्मरणात् । स्त्रीपुंसलक्षणस्यापत्त्यस्यैकोत्पाद्य त्वाविशेषात् पुमपत्यस्य को विशेष इत्याशङ्क्य विशेषं दर्शयति । "यदि यद्यपि “मातरः मातापितरौ "वह्निम् । अवह्निः स्त्री वह्निः पुमान् स्वभार्याया वोढ़ृत्वात् । अवह्निश्च वह्निश्च । तादृशं स्त्रीपुंसलक्षणमपत्यं "जनयन्त । तथापि तयोर्मध्ये "अन्यः पुंलक्षणः "सुकृतोः शोभनय पिण्डदानादेः कर्मणः “कर्ता भवति । "अन्यः स्त्रीलक्षणः “ऋन्धन् वस्त्रालंकारादिना ऋध्यमान एव भवति । पिण्डदानादिकर्तृत्वात् पुत्रो दायार्हः दुहितुस्तथात्वं नेति न दायार्हा सा तु केवलं परस्मै दीयते। तथा च निरुक्तं’--न जामये भगिन्यै । जामिरन्येऽस्यां जनयन्ति जामपत्यं जमतेर्वा स्याद्गतिकर्मणो निर्गमनप्राया भवति । तान्व आत्मजः पुत्रो रिक्थं प्रारिचत्प्रादाच्चकारैनां गर्भनिधानीं सनितुर्हस्तग्राहस्य यदिह मातरोऽजनयन्त वह्निं पुत्रमवह्निं च स्त्रियमन्यतरः संतानकर्ता भवति पुमान्दायादोऽन्यतरोऽर्धयित्वा जामिः प्रदीयते परस्मै ' (निरु. ३. ६ ) इति ॥ तान्वः । तन्वाः प्राणाधिष्ठितत्वात्तनूः प्राणवती । तद्विकार इत्यर्थे ' प्राणिरजतादिभ्योऽञ्' इत्यञ् । संज्ञापूर्वकस्य विधेनित्यत्वाद्गुणाभावः । रिक्थम् । • रिचिर् विरेचने ।‘पातॄतुदिवचिरिचिभ्यस्थक्'। प्रत्ययस्वरः। अरैक्।' रिचिर् विरेचने' इत्यस्य लुङि सिचि ‘वदव्रज°' इत्यादिना वृद्धिः । 'बहुलं छन्दसि' इतीडभावः । हल्ङ्यादिसंयोगान्तलोपौ । निघातः । सनितुः । ‘षण संभक्तौ ' इत्यस्य तृचि रूपम् । निधानम् । दधातेर्ल्युटि रूपम् । लित्स्वरः। मातरः । ‘पिता मात्रा ' इति पितुः शेषे प्राप्ते मातुः शेषश्छान्दसः । द्विर्वचनस्य बहुवचनं पूजार्थम् । जनयन्त । जनेर्णिचि रूपम् । वह्निम् । पुमान् स्त्रिया ' ( पा. सू. १. २. ६७ ) इति वह्नेः शेषः । सुकृतोः । करोतेरौणादिकः क्तुप्रत्ययः । ऋन्धन् । 'ऋधु वृद्धौ' । व्यत्ययेन श्नम् ॥


अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒३॒॑ रेज॑मानो म॒हस्पु॒त्राँ अ॑रु॒षस्य॑ प्र॒यक्षे॑ ।

म॒हान्गर्भो॒ मह्या जा॒तमे॑षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ॥३

अ॒ग्निः । ज॒ज्ञे॒ । जु॒ह्वा॑ । रेज॑मानः । म॒हः । पु॒त्रान् । अ॒रु॒षस्य॑ । प्र॒ऽयक्षे॑ ।

म॒हान् । गर्भः॑ । महि॑ । आ । जा॒तम् । ए॒षा॒म् । म॒ही । प्र॒ऽवृत् । हरि॑ऽअश्वस्य । य॒ज्ञैः ॥३

अग्निः । जज्ञे । जुह्वा । रेजमानः । महः । पुत्रान् । अरुषस्य । प्रऽयक्षे ।

महान् । गर्भः । महि । आ । जातम् । एषाम् । मही । प्रऽवृत् । हरिऽअश्वस्य । यज्ञैः ॥३

हे इन्द्र “अरुषस्य रोचमानस्य तव “प्रयक्षे यज्ञार्थं "जुह्वा ज्वालाभिः "रेजमानः कम्पमानः “अग्निः "महः प्रभूतानु “पुत्रान् रश्मीन् "जज्ञे उत्पादयामास । "एषां रश्मीनां “गर्भः जलात्मना क्रोडीकारः "महान् आसीत् । किंच एषां रश्मीनां मेलनम् "आ "जातं सर्वत ओषध्यात्मना जातं "महि महदभूत् । किंच एषां रश्मीनां "प्रवृत् अनेन प्रकारेण प्रवृत्तिः "हर्यश्वस्य इन्द्रस्य "यज्ञैः यजनार्हैः सोमाज्याहुतिभिः “मही महती भवति ॥ जज्ञे । “जनी प्रादुर्भावे ' इत्यस्य लिटि रूपम् । अन्तर्भावितण्यर्थः । जुह्वा । ‘जुहोतेर्द्वे दीर्घश्च' इति क्विप् द्विर्वचनं दीर्घश्च धातोः । ‘उदात्तस्वरितयोः इति स्वरितत्वम् । हर्यश्वस्य । हरी अश्वौ यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ।।


अ॒भि जैत्री॑रसचंत स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् ।

तं जा॑न॒तीः प्रत्युदा॑यन्नु॒षासः॒ पति॒र्गवा॑मभव॒देक॒ इंद्रः॑ ॥४

अ॒भि । जैत्रीः॑ । अ॒स॒च॒न्त॒ । स्पृ॒धा॒नम् । महि॑ । ज्योतिः॑ । तम॑सः । निः । अ॒जा॒न॒न् ।

तम् । जा॒न॒तीः । प्रति॑ । उत् । आ॒य॒न् । उ॒षसः॑ । पतिः॑ । गवा॑म् । अ॒भ॒व॒त् । एकः॑ । इन्द्रः॑ ॥४

अभि । जैत्रीः । असचन्त । स्पृधानम् । महि । ज्योतिः । तमसः । निः । अजानन् ।

तम् । जानतीः । प्रति । उत् । आयन् । उषसः । पतिः । गवाम् । अभवत् । एकः । इन्द्रः ॥४

“जैत्रीः जित्वर्यो विशो मरुतः “स्पृधानं वृत्रेण सह स्पर्धमानमिन्द्रम् "अभि "असचन्त सर्वतः समगच्छन् । ते च मरुतः “महि महत् “ज्योतिः सूर्याख्यं तेजः “तमसः तमोरूपात् वृत्रात् निरजानन् निर्गतमज्ञासिषुः । उदितं सूर्यं “जानतीः जानानाः “उषसः “तं “प्रति “उत् अभिलक्ष्यैव “आयन् प्राप्नुवन् । अथ तत्रोद्भूतानां “गवां रश्मीनाम् “एकः अद्वितीय एव “इन्द्रः “पतिः “अभवत् ॥ जैत्रीः। जयतेः तृनि रूपम् । गुणस्य स्थाने व्यत्ययेन वृद्धिः। नित्स्वरः। असचन्त । ‘पच समवाये' इत्यस्य लङि रूपम् । स्पृधानम् ।' स्पर्ध संघर्षे '। छन्दसि कानजादेशः । छन्दसि द्विर्वचनस्य विकल्पितत्वात् द्विर्वचनाभावः । चित्स्वरः । अजानन्। 'ज्ञा अवबोधने ' इत्यस्य लङि रूपम् । निघातः । आयन् । 'अय गतौ ' इत्यस्य लङि रूपम् ॥


वी॒ळौ स॒तीर॒भि धीरा॑ अतृंदन्प्रा॒चाहि॑न्व॒न्मन॑सा स॒प्त विप्राः॑ ।

विश्वा॑मविंदन्प॒थ्या॑मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ॥५

वी॒ळौ । स॒तीः । अ॒भि । धीराः॑ । अ॒तृ॒न्द॒न् । प्रा॒चा । अ॒हि॒न्व॒न् । मन॑सा । स॒प्त । विप्राः॑ ।

विश्वा॑म् । अ॒वि॒न्द॒न् । प॒थ्या॑म् । ऋ॒तस्य॑ । प्र॒ऽजा॒नन् । इत् । ता । नम॑सा । आ । वि॒वे॒श॒ ॥५

वीळौ । सतीः । अभि । धीराः । अतृन्दन् । प्राचा । अहिन्वन् । मनसा । सप्त । विप्राः ।

विश्वाम् । अविन्दन् । पथ्याम् । ऋतस्य । प्रऽजानन् । इत् । ता । नमसा । आ । विवेश ॥५

पुरा किलाङ्गिरसां गावः पणिनामकैरसुरैरपहृत्य निगूढे कस्मिंश्चिपर्वते स्थापिताः । ते चाङ्गिरसस्तत्प्राप्त्यर्थमिन्द्रं तुष्टवुः । स्तुतश्च सः इन्द्रो गवान्वेषणाय देवशुनीं प्राहिणोत् । सा च गवां गवेषणपरा सती तत्स्थानमलभत । तया विज्ञापित इन्द्रस्ता गाः आनीयाङ्गिरोभ्यः प्रादादित्यैतिहासिकी कथा । तथा चास्या ऋचोऽयमर्थः । “धीराः धीमन्तः “सप्त “विप्राः मेधाविनः सप्तसंख्याका अङ्गिरसः “वीळौ दृढे पर्वते “सतीः निगूढाः सतीर्गाः “अभि अभिलक्ष्य “अतृन्दन् उपेक्षामकुर्वन् । ततस्तेऽङ्गिरसः पर्वतबिले गावः सन्तीति “मनसा निश्चित्य “प्राचा येन मार्गेण प्रविष्टास्तेनैव प्राचीनेन मार्गेण ता गाः “अहिन्वन् निरगमयन् । यद्वा प्राचा । प्रकर्षणेन्द्रमञ्चति प्राप्नोतीति प्राक् । तेनेन्द्रविषयेण मनसा । मन्यत इति मनः स्तोत्रम् । तेन स्तोत्रेणाहिन्वन् अवर्धयन् इन्द्रं तुष्टमकुर्वन् । स्तुत्वा च “ऋतस्य “पथ्यां यज्ञस्य मार्गे साधुभूतां “विश्वां सर्वामपहृतां गाम् “अविन्दन् अलभन्त । ततः स इन्द्रः “ता तान्यङ्गिरसां कर्माणि "प्रजानन् इत् प्रकर्षेण जानन्निन्द्रो “नमसा नमस्कारेणाङ्गिरसः संभावयन् तैरधिष्ठितं पर्वतम् “आ “विवेश ॥ अतृन्दन् । ‘उतृदिर् हिंसानादरयोः' इत्यस्य लङि रुधादित्वात् श्नम् । तस्य ‘श्नसोः' इत्यल्लोपः । निघातः । प्राचा । ‘अञ्चेश्छन्दस्यसर्वनामस्थानम् ' इति विभक्तेरुदात्तत्वम् । अहिन्वन् । ' हि गतिवर्धनयोः' इत्यस्य लङि रूपम् । अविन्दन् । 'विद्लृ लाभे' इत्यस्य लङि मुचादित्वान्नुम् । निघातः । पथ्याम् । पथि साधुरित्यर्थे ' तत्र साधुः' इति यत्प्रत्ययः । 'यचि भम्' इति भसंज्ञायां ‘नस्तद्धिते' इति टिलोपः । ‘यतोऽनावः' इत्यस्यानित्यत्वात् ‘तित्स्वरितः' इति स्वरितः । विवेश । ‘विश प्रवेशने ' इत्यस्य लिटि रूपम् ॥ ॥ ५ ॥


वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः ।

अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ॥६

वि॒दत् । यदि॑ । स॒रमा॑ । रु॒ग्णम् । अद्रेः॑ । महि॑ । पाथः॑ । पू॒र्व्यम् । स॒ध्र्य॑क् । क॒रिति॑ कः ।

अग्र॑म् । न॒य॒त् । सु॒ऽपदी॑ । अक्ष॑राणाम् । अच्छ॑ । रव॑म् । प्र॒थ॒मा । जा॒न॒ती । गा॒त् ॥६

विदत् । यदि । सरमा । रुग्णम् । अद्रेः । महि । पाथः । पूर्व्यम् । सध्र्यक् । करिति कः ।

अग्रम् । नयत् । सुऽपदी । अक्षराणाम् । अच्छ । रवम् । प्रथमा । जानती । गात् ॥६

"यदि यदा "सरमा इन्द्रेण गवान्वेषणार्थं प्रेषिता सरमा नाम देवशुनी “अद्रेः “रुग्णं भग्नं द्वारं "विदत् अलभत तदानीमिन्द्रः “महि महत् “पूर्व्यं पूर्वं प्रेषणकालेऽन्नादिनीं ते प्रजां करिष्यामि इति प्रतिज्ञातं “सध्र्यक् इतरैरपि भोज्यैः सध्रीचीनं "पाथः गव्यादिलक्षणमन्नं कः अकार्षीत् तस्यै दत्तवान् । ततः “सुपदी शोभनपादयुक्ता सा सरमा “अक्षराणां क्षयरहितानां गवाम् “अग्रं प्रान्तं "नयत् प्राप्नोत् । कुत इत्यत आह । यतः “रवं तेषां हम्भारवं “प्रथमा प्रथमं “जानती सती “अच्छ शब्दाभिमुख्येन “गात् जगाम ॥ विदत् । “विद्लृ लाभे ' इत्यस्य लुङि लृदित्त्वात् च्लेरादेशः। तस्य स्वरः । सरमा। सृ गती ' । औणादिकोऽमप्रत्ययः । सरतीति सरमा। ‘सरमा सरणात् ' ( निरु. ११. २४ ) इति यास्कः । प्रत्ययस्वरः । रुग्णम् । ‘रुजो भङ्गे' इत्यस्य निष्ठायाम् ‘ओदितश्च' इति नत्वम् । प्रत्ययस्वरः । पाथः । ‘पा रक्षणे ' ।' अन्ने च ' ( उ. सू. ४. ६४४ ) इत्यसुन्प्रत्ययः । थुडागमः । पातीति पाथोऽन्नम् । नित्स्वरः । सध्र्यक्। 'अञ्चु गतिपूजनयोः । ‘ऋत्विक् ' इत्यादिना क्विन् । सहाञ्चतीति । सहस्य सध्रिः ' इति सध्र्यादेशः । क्विन्प्रत्ययस्य कुत्वम् । ‘अद्रिसध्र्योः अन्तोदात्तत्वनिपातनं कृत्स्वरनिवृत्त्यर्थम् ' ( पा. सू. ६. ३. ९५. १ ) इति सध्रि इत्यादेशोऽन्तोदात्तः । यणादेशे कृते ‘ उदात्तस्वरितयोर्यणः स्वरितः' इति यणः स्वरितत्वम् । कः । करोतेर्लुङि सिपि च्लेः ' मन्त्रे घसह्वर ' इत्यादिना लुक् । गुणे कृते हल्या कदिना सिपो लोपः । विसर्जनीयः । निघातः । नयत् । नयतेर्लङि रूपम् । सुपदी । ‘पादोऽन्यतरस्याम् ' (पा. सू. ४. १. ८) इति ङीप् । गात् । इणो लुङि रूपम् ॥


अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू॑दयत्सु॒कृते॒ गर्भ॒मद्रिः॑ ।

स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा॑भव॒दंगि॑राः स॒द्यो अर्च॑न् ॥७

अग॑च्छत् । ऊं॒ इति॑ । विप्र॑ऽतमः । स॒खि॒ऽयन् । असू॑दयत् । सु॒ऽकृते॑ । गर्भ॑म् । अद्रिः॑ ।

स॒सान॑ । मर्यः॑ । युव॑ऽभिः । म॒ख॒स्यन् । अथ॑ । अ॒भ॒व॒त् । अङ्गि॑राः । स॒द्यः । अर्च॑न् ॥७

अगच्छत् । ऊं इति । विप्रऽतमः । सखिऽयन् । असूदयत् । सुऽकृते । गर्भम् । अद्रिः ।

ससान । मर्यः । युवऽभिः । मखस्यन् । अथ । अभवत् । अङ्गिराः । सद्यः । अर्चन् ॥७

“विप्रतमः अतिशयेन मेधावी “सखीयन् अङ्गिरोभिः साकमात्मनः सखित्वमिच्छन् इन्द्रः “अगच्छत् “उ । गोभिरधिष्ठितं पर्वतमगमदेव । सः “अद्रिः सखित्वमिच्छन् “सुकृते सुष्ठु युद्धकर्त्रे इन्द्राय "गर्भं गवात्मकं गर्भम् “असूदयत् निरगमयत् । “युवभिः नित्यतरुणैर्मरुद्भिः सह “मखस्यन् गोधनमङ्गिरसामिच्छन् “मर्यः असुराणां मारयितेन्द्रः “ससान असुरैरपहृताः ताः गाः भेजे । “अथ अनन्तरम् “अङ्गिराः सप्तानामङ्गिरसां मध्ये वरिष्ठोऽङ्गिरा ऋषिः इन्द्रात् ता गा लब्ध्वा “सद्यः तदानीमेव “अर्चन् इन्द्रं पूजयन् “अभवत् ॥ अगच्छत् । गमेर्लङि रूपम् । सखीयन् । सुप आत्मनः क्यच् । असूदयत् । ‘षूद निरासे' इत्यस्य ण्यन्तस्य लङि रूपम् । ससान। ‘षण संभक्तौ' इत्यस्य लिटि णलि रूपम् । लित्स्वरः। मखस्यन् । 'छन्दसि परेच्छायाम्' इति" परेच्छायामपि क्यच् । सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्यः इति सुगागमः । एकादेशस्वरः । अङ्गिराः ।' सृ गतौ' । अङ्गारशब्द उपपदे सर्तेर्धातोरसुन्प्रत्ययः । उपपदे गकारात् परस्याकारस्येत्वम् अन्त्यलोपश्च धातोर्लोपश्च ‘अङ्गिराः' इति सूत्रेण निपात्यते। भूतकालेऽङ्गारेभ्यः सृत इति अङ्गिरा ऋषिः । ‘अङ्गारेष्वङ्गिराः ' ( निरु. ३. १७ ) इति यास्कः । नित्स्वरः ॥


स॒तःस॑तः प्रति॒मानं॑ पुरो॒भूर्विश्वा॑ वेद॒ जनि॑मा॒ हंति॒ शुष्णं॑ ।

प्र णो॑ दि॒वः प॑द॒वीर्ग॒व्युरर्च॒न्त्सखा॒ सखीँ॑रमुंच॒न्निर॑व॒द्यात् ॥८

स॒तःऽस॑तः । प्र॒ति॒ऽमान॑म् । पु॒रः॒ऽभूः । विश्वा॑ । वे॒द॒ । जनि॑म । हन्ति॑ । शुष्ण॑म् ।

प्र । नः॒ । दि॒वः । प॒द॒ऽवीः । ग॒व्युः । अर्च॑न् । सखा॑ । सखी॑न् । अ॒मु॒ञ्च॒त् । निः । अ॒व॒द्यात् ॥८

सतःऽसतः । प्रतिऽमानम् । पुरःऽभूः । विश्वा । वेद । जनिम । हन्ति । शुष्णम् ।

प्र । नः । दिवः । पदऽवीः । गव्युः । अर्चन् । सखा । सखीन् । अमुञ्चत् । निः । अवद्यात् ॥८

योऽयमिन्द्रः “सतःसतः उत्तमस्य वसुनः “प्रतिमानम् । प्रतिमीयत उपमीयतेऽनेन सर्वमिति प्रतिमानं प्रतिनिधिः । यद्वा सतःसतो जातस्य सर्वस्य प्रतिमानं स्वस्य महत्त्वेन प्रतिमातीयत्तया सर्वं परिच्छिनत्तीत्यर्थः । “पुरोभूः युद्धे पुरतः शत्रूनवाप्नोतीति पुरोभूश्च “विश्वा “जनिम सर्वाणि जातानि “वेद जानाति । “शुष्णं शुष्णनामानम् असुरं “हन्ति । “पदवीः कवितमः “गव्युः गोधनम् अङ्गिरसामिच्छन् अस्माकं “सखा इन्द्रः “सखीन् “नः अस्मान् "दिवः द्युलोकादागत्य “प्र “अर्चन प्रकर्षेण पूजयन् “अवद्यात् वृत्रबाधरूपात् दोषात् “निः "अमुञ्चत् नितरां मुञ्चतु ॥ प्रतिमानम् । मातीति मानम् । औणादिको नन्प्रत्ययः । यद्वा करणे ल्युट् । पुरोभूः ।‘भू प्राप्तौ'। क्विप् । वेद । वेत्तेर्लटि रूपम् । जनिम। ‘जनी प्रादुर्भावे । जनिहृभ्यामिमनिन् ' इति इमनिन्प्रत्ययः । भूतकाले जातानीति जनिम ।' सुपां सुलुक्' इति सुपो लुक् । नित्स्वरः । हन्ति । हन्तेर्लटि रूपम् । वाक्यभेदादनिघातः। शुष्णम् । शोषयतीति शुष्णः । प्र णः ।' उपसर्गाद्बहुलम्' इति संहितायां णत्वम् । पदवीः । वी कान्त्यादिषु । क्विप् । पदानि वेत्ति परस्परसंगतानि करोतीति पदवीः कविः । गव्युः । गोशब्दात् परेच्छायां छन्दसि' इति क्यच् । 'वान्तो यि प्रत्यये' इति वान्तादेशः । ‘क्याच्छन्दसि' इत्युप्रत्ययः । प्रत्ययस्वरः । अर्चन् । अर्चतेः शतरि रूपम् । सखीन् । संहितायां नकारस्य ‘दीर्घादटि' इति रुः । पूर्वस्य वर्णस्य अत्रानुनासिकः' इत्यनुनासिकादेशः । अमुञ्चत् । ‘मुच्लृ मोक्षणे' इत्यस्य लङि ‘शे मुचादीनाम्' इति नुमागमः । निघातः । अवद्यात् ।' वद व्यक्तायां वाचि' इत्यस्य नञ्पूर्वस्य गर्ह्यार्थे ' अवद्यपण्यवर्याः' (पा. सू. ३. १. १०१ ) इति निपातनात् यत्प्रत्ययः ॥


नि ग॑व्य॒ता मन॑सा सेदुर॒र्कैः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुं ।

इ॒दं चि॒न्नु सद॑नं॒ भूर्ये॑षां॒ येन॒ मासाँ॒ असि॑षासन्नृ॒तेन॑ ॥९

नि । ग॒व्य॒ता । मन॑सा । से॒दुः॒ । अ॒र्कैः । कृ॒ण्वा॒नासः॑ । अ॒मृ॒त॒ऽत्वाय॑ । गा॒तुम् ।

इ॒दम् । चि॒त् । नु । सद॑नम् । भूरि॑ । ए॒षा॒म् । येन॑ । मासा॑न् । असि॑सासन् । ऋ॒तेन॑ ॥९

नि । गव्यता । मनसा । सेदुः । अर्कैः । कृण्वानासः । अमृतऽत्वाय । गातुम् ।

इदम् । चित् । नु । सदनम् । भूरि । एषाम् । येन । मासान् । असिसासन् । ऋतेन ॥९

“गव्यता गा इच्छता “मनसा युक्ताः "अर्कैः अर्चनीयैः स्तोत्रैः “अमृतत्वाय देवत्वप्राप्त्यर्थं “गातुम् । गच्छन्त्यनेनेति गातुर्मार्गः । अमृतत्वप्राप्त्युपायभूतं मार्गं “कृण्वानासः कुर्वाणास्तेऽङ्गिरसः “नि "सेदुः सत्राख्ये कर्मणि आसीदन् । “एषाम् अङ्गिरसाम् “इदं “चित् “सदनम् इदमेव सत्राख्ये कर्मणि आसदनं “भूरि “नु प्रभूतम् । अमृतत्वप्राप्त्यर्थं महानुपायः खलु । कुत इत्यत आह । “ऋतेन सत्यभूतेन "येन सत्रकर्मणा तेऽङ्गिरसः “मासान् अभिप्लवपृष्ठ्यषडहै। कल्पितान् मासान् “असिसासन् संभक्तुमैच्छन् ॥ गव्यता । गोशब्दात् क्यचि रूपम् । ‘वान्तो यि प्रत्यये' इति वान्तादेशः। एकादेशस्वरः । सेदुः । सदेर्लिटि ‘अत एकहल्मध्येऽनादेशादेर्लिटि' इत्येत्वाभ्यासलोपौ । निघातः । कृण्वानासः । ‘कृवि हिंसाकरणयोः' इत्यस्य ताच्छीलिकश्चानश् ।' धिन्विकृण्व्योरच ' इत्युप्रत्ययः । चित्स्वरः । गातुम् । गाङ् गतौ'। 'कमिमनिजनिगाभापायाहिभ्यः' इति करणे तुप्रत्ययः। प्रत्ययस्वरः । असिषासन् । ‘षण संभक्तौ' इत्यस्य सनि “ जनसनखनां सञ्झलोः' इत्यात्वम् । अभ्यासस्य ‘सन्यतः' इतीत्वम् । सनोतेरनः' इति संहितायां षत्वम् । तदन्ताल्लङि रूपम् । यद्वृत्त योगादनिघातः ॥


सं॒पश्य॑माना अमदन्न॒भि स्वं पयः॑ प्र॒त्नस्य॒ रेत॑सो॒ दुघा॑नाः ।

वि रोद॑सी अतप॒द्घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ॥१०

स॒म्ऽपश्य॑मानाः । अ॒म॒द॒न् । अ॒भि । स्वम् । पयः॑ । प्र॒त्नस्य॑ । रेत॑सः । दुघा॑नाः ।

वि । रोद॑सी॒ इति॑ । अ॒त॒प॒त् । घोषः॑ । ए॒षा॒म् । जा॒ते । निः॒ऽस्थाम् । अद॑धुः । गोषु॑ । वी॒रान् ॥१०

सम्ऽपश्यमानाः । अमदन् । अभि । स्वम् । पयः । प्रत्नस्य । रेतसः । दुघानाः ।

वि । रोदसी इति । अतपत् । घोषः । एषाम् । जाते । निःऽस्थाम् । अदधुः । गोषु । वीरान् ॥१०

“स्वं स्वकीयं गोधनम् “अभि अभिलक्ष्य “संपश्यमानाः मदीया एता गाव इत्यात्मीयतया जानानाः तेऽङ्गिरसः “प्रत्नस्य पुरा जातस्य “रेतसः तदुपलक्षितस्य पुत्रस्य धारणार्थं “पयः “दुघानाः ता गाः पयो दुहन्तः सन्तः “अमदन् हृष्टा अभूवन् । “एषाम् अङ्गिरसां “घोषः हर्षादुत्पन्नो महाध्वनिः स्तुतिजातः । वा रोदसी द्यावापृथिव्यौ "वि “अतपत् ते व्याप्य अतपिष्ट। ततस्तेऽङ्गिरसः “जाते आत्मीयतया संपन्ने चराचरात्मके वस्तुनि “निःष्ठां पूर्वं यथा स्थितिमकार्षुः । तथा “गोषु आहृतासु “वीरान् रक्षाकर्मण्यतिशूरान् पुरुषान् “अदधुः स्थापयामासुः ॥ संपश्यमानाः । संपूर्वस्य दृशेः ' 'दृशेश्चेति वक्तव्यम्' इत्यात्मनेपदम् । शानचो लसार्वधातुकस्वरेणानुदात्तत्वे कृते धातुस्वरः । अमदन् । मदी हर्षे' इत्यस्य लुङि सिच्यङि रूपम् । निघातः । दुघानाः । ‘दुह प्रपूरणे' इत्यस्मात् शानच् । अदादित्वाच्छपो लुक् । घत्वं छान्दसम् । वृषादित्वादाद्युदात्तः । अतपत् । विपूर्वस्य तपतेरत्र सकर्मकत्वादात्मनेपदाभावः । लङि रूपम् । घोषः। 'घुष संशब्दने'। घञन्तः । ञित्स्वरः । निःष्ठाम् । ‘ष्ठा गतिनिवृत्तौ ' ।' स्थः क च ' ( पा. सू. ३. २. ७७ ) इति क्विप् । कृदुत्तरस्वरः । अदधुः । दधातेर्लङि झेः ' सिजभ्यस्त ' इति जुसादेशः । वाक्यभेदान्निघाताभावः । गोषु । ‘सावेकाचः' इति विभक्तेरुदात्तत्वे प्राप्ते ‘न गोश्वन्' इति प्रतिषिद्धत्वात् प्रातिपदिकस्वरः ॥ ॥६।।


स जा॒तेभि॑र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया॑ असृज॒दिंद्रो॑ अ॒र्कैः ।

उ॒रू॒च्य॑स्मै घृ॒तव॒द्भरं॑ती॒ मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ॥११

सः । जा॒तेभिः॑ । वृ॒त्र॒ऽहा । सः । इत् । ऊं॒ इति॑ । ह॒व्यैः । उत् । उ॒स्रियाः॑ । अ॒सृ॒ज॒त् । इन्द्रः॑ । अ॒र्कैः ।

उ॒रू॒ची । अ॒स्मै॒ । घृ॒तऽव॑त् । भर॑न्ती । मधु॑ । स्वाद्म॑ । दु॒दु॒हे॒ । जेन्या॑ । गौः ॥११

सः । जातेभिः । वृत्रऽहा । सः । इत् । ऊं इति । हव्यैः । उत् । उस्रियाः । असृजत् । इन्द्रः । अर्कैः ।

उरूची । अस्मै । घृतऽवत् । भरन्ती । मधु । स्वाद्म । दुदुहे । जेन्या । गौः ॥११

"सः “इन्द्रः "जातेभिः सहायतया संपन्नैर्मरुद्भिः सहितः सन् "वृत्रहा वृत्रस्यासुरस्य हन्ता भवति । "सेदु स एव इन्द्रः "अर्कैः अर्चनीयैः अत एव “हव्यैः होतव्यैर्मरुद्भिः सहितः सन् "उस्रियाः। ऊर्ध्वं वसत्यासु क्षीरादिरूपं हविरित्युस्रिया गावः । यद्वा ऊर्ध्वं क्षीरदधिनवनीतादि क्रमेणासु वसतीति । ‘उस्रियेति गोनामोत्स्राविणोऽस्यां भोगाः । ( निरु. ४. १९ ) इति यास्कः । ता गाः “उत “असृजत् यज्ञार्थं सम्यक् ससर्ज । यस्मादेवं तस्मात् “घृतवत् घृतोपेतं क्षीरादिकं हविः “भरन्ती बिभ्राणा अत एव “उरूची । उरु प्रभूतमग्निहोत्रादिकम् अञ्चति हविः प्रदातुं प्राप्नोतीत्युरूची । “जेन्या जेतव्या प्रशस्ता “गौः “अस्मै यजमानाय “स्वाद्म स्वादुतरं क्षीरादि दुदुहे दुह्यते स्म ॥ उस्रियाः । वस निवासे' इत्यस्मात् ' स्फायितच्चि° ' इत्यादिना रक्प्रत्ययः । उस्रशब्दात् स्वार्थे पृषोदरादित्वात् घप्रत्ययः । प्रत्ययस्वरः। यद्वा । ‘सृ गतौ'। उत्पूर्वस्य सरतेः कप्रत्ययः । पूर्वपदस्यान्त्यलोपश्छान्दसः। अत्रापि स्वार्थिको घप्रत्ययः । असृजत् ।' सृज विसर्गे' इत्यस्य लङि रूपम् । उरूची । उरु अञ्चतीति क्विन् ।' अञ्चतेश्चोपसंख्यानम् ' इति ङीप् । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । दुदुहे। ‘दुह प्रपूरणे' इत्यस्य लिटि रूपम् । जेन्या । जयतेः कृत्यार्थे केन्यप्रत्ययः । इकारलोपश्छान्दसः । प्रत्ययस्वरः ॥


पि॒त्रे चि॑च्चक्रुः॒ सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी॑मत्सु॒कृतो॒ वि हि ख्यन् ।

वि॒ष्क॒भ्नंतः॒ स्कंभ॑नेना॒ जनि॑त्री॒ आसी॑ना ऊ॒र्ध्वं र॑भ॒सं वि मि॑न्वन् ॥१२

पि॒त्रे । चि॒त् । च॒क्रुः॒ । सद॑नम् । सम् । अ॒स्मै॒ । महि॑ । त्विषि॑ऽमत् । सु॒ऽकृतः॑ । वि । हि । ख्यन् ।

वि॒ऽस्क॒भ्नन्तः॑ । स्कम्भ॑नेन । जनि॑त्री॒ इति॑ । आसी॑नाः । ऊ॒र्ध्वम् । र॒भ॒सम् । वि । मि॒न्व॒न् ॥१२

पित्रे । चित् । चक्रुः । सदनम् । सम् । अस्मै । महि । त्विषिऽमत् । सुऽकृतः । वि । हि । ख्यन् ।

विऽस्कभ्नन्तः । स्कम्भनेन । जनित्री इति । आसीनाः । ऊर्ध्वम् । रभसम् । वि । मिन्वन् ॥१२

सत्रमनुतिष्ठन्तोऽङ्गिरसः “पित्रे “चित् पालकाय “अस्मै इन्द्राय “महि महत् “त्विषीमत् दीप्तिमत् “सदनम् उन्नतं स्थानं "सं “चक्रुः । कथमिति तदुच्यते । यतः “सुकृतः समुपार्जितसुकृतकर्माणः तेऽङ्गिरसस्तादृशमिन्द्रस्य उचितं स्थानं "वि “हि “ख्यन् विशेषेणादर्शयन् खलु । कुत इत्यत आह । “आसीनाः सत्रम् उपतिष्ठन्तः तेऽङ्गिरसः “जनित्री सर्वस्य जगतो जनयित्र्यौ द्यावापृथिव्यौ "स्कम्भनेन स्तम्भनसाधनेन अन्तरिक्षेण 'विष्कभ्नन्तः यथा ते रोदस्यौ अधो न पततस्तथा विष्टब्धे कुर्वन्तः सन्तः “रभसं वेगवन्तं तमिन्द्रम् “ऊर्ध्वं द्युलोके “वि “मिन्वन् हविःस्वीकरणार्थं विशेषेणास्थापयन् ॥ चक्रुः । करोतेर्लिट्युसि रूपम् । निघातः । ख्यन् ।' ख्या प्रकथने ' । अस्य लुङि च्लेः । अस्यतिवक्तिख्यातिभ्योऽङ् ' इत्यादेशः । आतो लोप इटि ' इत्याकारलोपः। हियोगादनिघातः । विष्कभ्नन्तः । ‘स्कम्भु रोधने' । सौत्रो धातुः । तस्मात् शतरि रूपम् । वेः स्कभ्नातेर्नित्यम्' (पा. सू. ८. ३. ७७ ) इति षत्वम् । शतृप्रत्ययस्वरः । जनित्री। ऋन्नेभ्यो ङीप् ।' जनिता मन्त्रे ' इति निपातनात् णिलोपः । ‘वा छन्दसि ' इति सवर्णदीर्घः । असीनाः । ‘आस उपवेशने' इत्यस्मात् शानच् । 'ईदासः ' ( पा. सू. ७. २. ८३ ) इतीकारः । शानचो लसार्वधातुकस्वरे कृते धातुस्वरः । मिन्वन् । डुमिञ् प्रक्षेपणे ' इत्यस्य लङि रूपम् । निघातः ॥


म॒ही यदि॑ धि॒षणा॑ शि॒श्नथे॒ धात्स॑द्यो॒वृधं॑ वि॒भ्वं१॒॑ रोद॑स्योः ।

गिरो॒ यस्मि॑न्ननव॒द्याः स॑मी॒चीर्विश्वा॒ इन्द्रा॑य॒ तवि॑षी॒रनु॑त्ताः ॥१३

म॒ही । यदि॑ । धि॒षणा॑ । शि॒श्नथे॑ । धात् । स॒द्यः॒ऽवृध॑म् । वि॒ऽभ्व॑म् । रोद॑स्योः ।

गिरः॑ । यस्मि॑न् । अ॒न॒व॒द्याः । स॒म्ऽई॒चीः । विश्वाः॑ । इन्द्रा॑य । तवि॑षीः । अनु॑त्ताः ॥१३

मही । यदि । धिषणा । शिश्नथे । धात् । सद्यःऽवृधम् । विऽभ्वम् । रोदस्योः ।

गिरः । यस्मिन् । अनवद्याः । सम्ऽईचीः । विश्वाः । इन्द्राय । तविषीः । अनुत्ताः ॥१३

“मही महती “धिषणा अस्माभिः क्रियमाणेन्द्रविषया स्तुतिः “रोदस्योः “शिश्नथे द्यावापृथिव्योरन्योन्यविश्लेषाय “सद्योवृधं तदानीमेव वर्धमानं “विभ्वं विभुं तयोर्धारणसमर्थं साधनं “यदि “धात् अकरोत् ततस्तत्र वर्तमाने "यस्मिन् इन्द्रे “अनवद्याः दोषरहिताः “गिरः स्तुतिलक्षणा वाचः “समीचीः संगता भवन्ति । इन्द्राय इति विभक्तिव्यत्ययः । तादृशस्येन्द्रस्य “विश्वाः “तविषीः सर्वाणि बलानि “अनुत्ताः अपरप्रेषितानि स्वभावसिद्धान्येव ॥ धिषणा । ‘ञिधृषा प्रागल्भ्ये ' । धृषेः ‘धिष च संज्ञायाम् ' इति क्युप्रत्ययः । धातोर्धिषादेशः । धृष्णोत्यनयेति धिषणा स्तुतिः । प्रत्ययस्वरः। शिश्नथे। श्नथ हिंसार्थः । अस्मात् क्विप्। 'छन्दस्युभयथा' इति तस्य सार्वधातुकत्वात् शप्। तस्य ‘बहुलं छन्दसि' इति श्लुः । ‘बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् । धातुस्वरः । धात् । दधातेश्छान्दसे लुङि रूपम् । यदियोगादनिघातः । विभ्वम् । भवतेः क्विप् । 'छन्दस्युभयथा' इति यणादेशः । उदात्तस्वरितयोर्यणः' इति स्वरितत्वम् । अनुत्ताः । ‘णुद प्रेरणे' इत्यस्य नञ्पूर्वस्य निष्ठायां ' नसत्तनिषत्तानुत्त' इत्यादिना निपातनान्निष्ठातकारस्य नत्वाभावः । नञः स्वरः ।।


मह्या ते॑ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो॑ यंति पू॒र्वीः ।

महि॑ स्तो॒त्रमव॒ आग॑न्म सू॒रेर॒स्माकं॒ सु म॑घवन्बोधि गो॒पाः ॥१४

महि॑ । आ । ते॒ । स॒ख्यम् । व॒श्मि॒ । श॒क्तीः । आ । वृ॒त्र॒ऽघ्ने । नि॒ऽयुतः॑ । य॒न्ति॒ । पू॒र्वीः ।

महि॑ । स्तो॒त्रम् । अवः॑ । आ । अ॒ग॒न्म॒ । सू॒रेः । अ॒स्माक॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒पाः ॥१४

महि । आ । ते । सख्यम् । वश्मि । शक्तीः । आ । वृत्रऽघ्ने । निऽयुतः । यन्ति । पूर्वीः ।

महि । स्तोत्रम् । अवः । आ । अगन्म । सूरेः । अस्माकम् । सु । मघऽवन् । बोधि । गोपाः ॥१४

हे इन्द्र “ते तव “महि महत् “सख्यम् “आ “वश्मि आकामये । "शक्तीः त्वत्संबन्धीनि दानानि चाकामये । “वृत्रघ्ने वृत्रासुरस्य हन्त्रे तुभ्यं “पूर्वीः बह्व्यः “नियुतः वडवाः “आ “यन्ति वहनार्थमागच्छन्ति । “सूरेः विदुषस्तव "महि महत् स्तोत्रम् “अवः हविर्लक्षणमन्नं च “आ “अगन्म प्रापयामः। हे “मघवन् इन्द्र तादृशस्त्वं “अस्माकं “सु" सुष्ठु “गोपाः पालयिता भवामीति "बोधि बुध्यस्व ॥ सख्यम् । “सख्युर्यः' इति भावार्थे यप्रत्ययः । प्रत्ययस्वरः । वश्मि । ‘वश कान्तौ । लटि रूपम् । नियुतः । ‘यु मिश्रणे'। क्विप् । नितरां युवन्ति मिश्रयन्त्यात्मानं रथेष्विति नियुतो वडवाः । अगन्म । गमेर्लङ्युत्तमबहुवचने ‘बहुलं छन्दसि' इति शपो लुक् । ‘म्वोश्च ' इति मकारस्य नकारः । निघातः । बोधि । बुधेर्लोटि हेर्धौ रूपम् । निघातः । गोपाः । ‘गुपू रक्षणे '। ‘गुपूधूप' इत्यादिना आयप्रत्ययः। तदन्तात् क्विप् । अतोलोपयलोपौ । प्रत्ययस्वरः॥


महि॒ क्षेत्रं॑ पु॒रु श्चं॒द्रं वि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒ समै॑रत् ।

इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कं सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निं ॥१५

महि॑ । क्षेत्र॑म् । पु॒रु । च॒न्द्रम् । वि॒वि॒द्वान् । आत् । इत् । सखि॑ऽभ्यः । च॒रथ॑म् । सम् । ऐ॒रत् ।

इन्द्रः॑ । नृऽभिः॑ । अ॒ज॒न॒त् । दीद्या॑नः । सा॒कम् । सूर्य॑म् । उ॒षस॑म् । गा॒तुम् । अ॒ग्निम् ॥१५

महि । क्षेत्रम् । पुरु । चन्द्रम् । विविद्वान् । आत् । इत् । सखिऽभ्यः । चरथम् । सम् । ऐरत् ।

इन्द्रः । नृऽभिः । अजनत् । दीद्यानः । साकम् । सूर्यम् । उषसम् । गातुम् । अग्निम् ॥१५

योऽयम् इन्द्रः “महि महत् “क्षेत्रं केदारादि “पुरु प्रभूत “चन्द्रं हिरण्यं च “विविद्वान अर्थिभ्यः “सखिभ्यः अस्मभ्यं लम्भयन् । “आदित् अनन्तरं "चरथं चरात्मकं गवादिकं च “समैरत् सम्यक् प्रैरयत् । दत्तवानित्यर्थः । "दीद्यानः दीप्यमानः सोऽयम् “इन्द्रः “नृभिः नेतृभिः कर्मसहायभूतैर्मरुद्भिः “साकं सहितः सन् “सूर्यं कालस्य निर्वाहकम् आदित्यम् “उषसम् उषःकालं “गातुम् । गायन्ति स्तुवन्त्यस्यामिन्द्रादिदेवानिति गातुः पृथिवी । ताम् । “अग्निम् अग्निहोत्रादिकर्मसाधनभूतम् आहवनीयादिलक्षणमग्निं च "अजनत् अजनयत् ॥ पुरु चन्द्रम् । संहितायां ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे इति सुडागमः । तस्य श्रुत्वेन शकारः । पदकाले नास्ति सुडागमः । पुरु । कुप्रत्ययस्वरः । चन्द्रम् । रक् । प्रत्ययस्वरः । चरथम् । चर गत्यर्थः । अस्मादौणादिकोऽथप्रत्ययः । प्रत्ययस्वरः । ऐरत् । ‘ईर गतौ ' इत्यस्य लङि • आडजादीनाम्' इत्याडागमः । निघातः । अजनत् । जनेर्ण्य॑न्तस्य लङि रूपम् । ‘बहुलमन्यत्रापि संज्ञाच्छन्दसोः' इति णिलुक् । गातुम् । ‘गै शब्दे'। ‘°गापायाहिभ्यः' इति तुप्रत्ययः । प्रत्ययस्वरः ॥ ॥ ७ ॥


अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॒॑ दमू॑नाः॒ प्र स॒ध्रीची॑रसृजद्वि॒श्वश्चं॑द्राः ।

मध्वः॑ पुना॒नाः क॒विभिः॑ प॒वित्रै॒र्द्युभि॑र्हिन्वंत्य॒क्तुभि॒र्धनु॑त्रीः ॥१६

अ॒पः । चि॒त् । ए॒षः । वि॒ऽभ्वः॑ । दमू॑नाः । प्र । स॒ध्रीचीः॑ । अ॒सृ॒ज॒त् । वि॒श्वऽच॑न्द्राः ।

मध्वः॑ । पु॒ना॒नाः । क॒विऽभिः॑ । प॒वित्रैः॑ । द्युऽभिः॑ । हि॒न्व॒न्ति॒ । अ॒क्तुऽभिः॑ । धनु॑त्रीः ॥१६

अपः । चित् । एषः । विऽभ्वः । दमूनाः । प्र । सध्रीचीः । असृजत् । विश्वऽचन्द्राः ।

मध्वः । पुनानाः । कविऽभिः । पवित्रैः । द्युऽभिः । हिन्वन्ति । अक्तुऽभिः । धनुत्रीः ॥१६

"दमूनाः । दान्तं मनो यस्यासौ दमूनाः दन्तमनाः । यद्वा दाम्यतीति दमूनाः । उपरत इत्यर्थः । स “एषः एवेन्द्रः “विभ्वः व्याप्तः "सधीचीः परस्परसंगता: “विश्वश्चन्द्राः विश्वस्याह्लादयित्रीः। विश्वस्याह्लादो याभ्यस्ता इति वा । एवंभूताः “अपः “प्र “असृजत् सृष्टवान् । सृष्टाश्च ता आपः “मध्वः माधुर्योपेतान् सोमान् “कविभिः “पवित्रैः अग्निवायुसूर्यैः “पुनानाः शोधयित्र्यः “धनुत्रीः सर्वस्य जगतः प्रीणयित्र्यः सत्यः “द्युभिः दिवसैः "अक्तुभिः “चित् रात्रिभिः च “हिन्वन्ति । रात्रिंदिवं सर्वं जगत् स्वस्वव्यापारप्रवणं कुर्वन्तीत्यर्थः ॥ दमूनाः। 'दमु उपशमे । ‘दमेरूनसिः' इत्यूनसिप्रत्ययः । दाम्यतीति दमूनाः । यद्वा दान्तशब्दस्य दभावो मनसो मकारात् परस्याकारस्य ऊकारश्छान्दसः । असृजत् ।' सृज विसर्गे'। हिन्वन्ति । ' हि गतौ । निघातः । धनुत्रीः । ‘धन धान्ये ' इत्यस्मात् अशित्रादित्वात् उत्रप्रत्ययः । शार्ङ्गरवादिषु ङीन् द्रष्टव्यः । नित्स्वरः ॥


अनु॑ कृ॒ष्णे वसु॑धिती जिहाते उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे ।

परि॒ यत्ते॑ महि॒मानं॑ वृ॒जध्यै॒ सखा॑य इंद्र॒ काम्या॑ ऋजि॒प्याः ॥१७

अनु॑ । कृ॒ष्णे इति॑ । वसु॑धिती॒ इति॒ वसु॑ऽधिती । जि॒हा॒ते॒ इति॑ । उ॒भे इति॑ । सूर्य॑स्य । मं॒हना॑ । यज॑त्रे॒ इति॑ ।

परि॑ । यत् । ते॒ । म॒हि॒मान॑म् । वृ॒जध्यै॑ । सखा॑यः । इ॒न्द्र॒ । काम्याः॑ । ऋ॒जि॒प्याः ॥१७

अनु । कृष्णे इति । वसुधिती इति वसुऽधिती । जिहाते इति । उभे इति । सूर्यस्य । मंहना । यजत्रे इति ।

परि । यत् । ते । महिमानम् । वृजध्यै । सखायः । इन्द्र । काम्याः । ऋजिप्याः ॥१७

हे “इन्द्र सूर्यस्य सुष्ठु जगतः प्रेरकस्य तव "मंहना महत्त्वेन सामर्थ्येन “वसुधिती वस्तव्यपदार्थधारणोपेते “यजत्रे यजनार्हे ते “उभे “कृष्णे अहोरात्रे “अनु “जिहाते पुनःपुनरावृत्य वर्तेते । किंच। “ऋजिप्याः ऋजुगतयः “सखायः ते मित्रभूताः “काम्याः कमनीया मरुतः “वृजध्यै कर्मविघ्नकारिणामसुराणां वर्जनाय परिभवाय । “यत् यस्य ते तव “महिमानं सामर्थ्यमनुसृत्य "परि परितः प्रभवन्ति ॥ जिहाते । “ओहाङ् गतौ' । जुहोत्यादिः । ‘भृञामित्' इत्यभ्यासस्येत्वम् । निघातः । मंहना । ' महि वृद्धौ ' । ल्युट् । लित्स्वरः । वृजध्यै । ' वृजी वर्जने' । तुमर्थे कध्यैप्रत्ययः । कित्त्वाद्गुणाभावः । प्रत्ययस्वरः । काम्याः । कमेर्ण्यन्तस्य ' अचो यत्' इति यत्प्रत्ययः । यतोऽनावः' इत्याद्युदात्तत्वम् । ऋजिप्याः । ‘ओप्यायी वृद्धौ ' । क्विप् । लोपो व्योर्वलि ' इति यलोपः । पूर्वपदस्योकारस्येकारो व्यत्ययेन । बहुवचनस्यैकवचनं छान्दसम् । कृदुत्तरपदप्रकृतिस्वरः ॥


पति॑र्भव वृत्रहन्त्सू॒नृता॑नां गि॒रां वि॒श्वायु॑र्वृष॒भो व॑यो॒धाः ।

आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ॥१८

पतिः॑ । भ॒व॒ । वृ॒त्र॒ऽह॒न् । सू॒नृता॑नाम् । गि॒राम् । वि॒श्वऽआ॑युः । वृ॒ष॒भः । व॒यः॒ऽधाः ।

आ । नः॒ । ग॒हि॒ । स॒ख्येभिः॑ । शि॒वेभिः॑ । म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ । स॒र॒ण्यन् ॥१८

पतिः । भव । वृत्रऽहन् । सूनृतानाम् । गिराम् । विश्वऽआयुः । वृषभः । वयःऽधाः ।

आ । नः । गहि । सख्येभिः । शिवेभिः । महान् । महीभिः । ऊतिऽभिः । सरण्यन् ॥१८

हे वृत्रहन् इन्द्र "विश्वायुः । विश्वं संपूर्णमायुर्यस्यासौ विश्वायुः । अविनाशी “वृषभः कामानां वर्षिता “वयोधाः अन्नस्य दाता तादृशस्त्वं "सूनृतानां “गिराम् अस्माभिः क्रियमाणानां प्रियतमानां वाचां “पतिः स्वामी "भव । “सरण्यन् सरणं यज्ञार्थं गमनमिच्छन् “महान् “महीभिः महतीभिः “ऊतिभिः रक्षाभिः “शिवेभिः कल्याणैः सख्येभिः फलप्रदानरूपोपकारलक्षणैः सख्यैश्च सहितस्त्वं “नः अस्मान् प्रति “आ “गहि यज्ञार्थमागच्छ ॥ सुनृतानाम् । ‘ऊन परिहाणे'। सुतरामूनयत्यप्रियमिति सूनिति प्रियमुच्यते । तच्च तदृतं सत्यं चेति सूनृतम् । परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । वयोधाः । वयस्युपपदे दधातेर्विच् । गहि । गमेर्लोटि • बहुलं छन्दसि ' इति शपो लुक् । सेर्हिरादेशः । अपिच्च । तस्य ङित्त्वात् ' अनुदात्तोपदेश° ' इत्यादिना मलोपः । तस्यासिद्धत्वात ‘ अतो हेः' इति हेर्लुक् न भवति । निघातः । सरण्यन् । सरणशब्दात् क्यच् । एकादेशस्वरः ॥


तमं॑गिर॒स्वन्नम॑सा सप॒र्यन्नव्यं॑ कृणोमि॒ सन्य॑से पुरा॒जां ।

द्रुहो॒ वि या॑हि बहु॒ला अदे॑वीः॒ स्व॑श्च नो मघवन्त्सा॒तये॑ धाः ॥१९

तम् । अ॒ङ्गि॒र॒स्वत् । नम॑सा । स॒प॒र्यन् । नव्य॑म् । कृ॒णो॒मि॒ । सन्य॑से । पु॒रा॒ऽजाम् ।

द्रुहः॑ । वि । या॒हि॒ । ब॒हु॒लाः । अदे॑वीः । स्व१॒॑रिति॑ स्वः॑ । च॒ । नः॒ । म॒घ॒ऽव॒न् । सा॒तये॑ । धाः॒ ॥१९

तम् । अङ्गिरस्वत् । नमसा । सपर्यन् । नव्यम् । कृणोमि । सन्यसे । पुराऽजाम् ।

द्रुहः । वि । याहि । बहुलाः । अदेवीः । स्वरिति स्वः । च । नः । मघऽवन् । सातये । धाः ॥१९

हे इन्द्र "अङ्गिरस्वत् अङ्गिरस इव "नमसा स्तोत्रेण "सपर्यन् पूजयन् विश्वामित्रोऽहं "तं तादृशमहिमोपेतं "पुराजां पुरातनं त्वां "सन्यसे संभजनाय "नव्यं "कृणोमि । स्तोतव्यतयाभिनवं करोमि । "अदेवीः तमोरूपत्वेनाद्योतमानान् "बहुलाः बहून् "द्रुहः द्रोग्धॄन् शत्रुभूतान् राक्षसान् "वि "याहि विशेषेण मृतिं प्रापय । हे “मघवन् इन्द्र "नः अस्मभ्यं "स्वः स्वं धनं च "सातये संभजनार्थं “धाः धेहि ॥ अङ्गिरस्वत् । अङ्गिरस इव । तेन तुल्यम्' इति वतिप्रत्ययः ।' नभोऽङ्गिरोमनुषां वत्युपसंख्यानम्' इति भसंज्ञायां सकारस्य रुत्वाभावः। सपर्यन् । सपरशब्दः कण्ड्वादिः। नव्यम् । ‘णु स्तुतौ' इत्यस्मात् ‘ अचो यत्' इति यत्प्रत्ययः । ‘धातोस्तन्निमित्तस्य' इति वान्तादेशः। यतोऽनावः ' इत्याद्युदात्तत्वम् । कृणोमि । कृवेर्लटि रूपम् । सन्यसे । सनतेर्भावे क्विप् । “यसु प्रयत्ने'। अस्मात् क्विप् । सनः संभजनस्य यसे यत्नाय । संभजनार्थमित्यर्थः। पुराजाम्। जनेर्विटि आत्वे रूपम्। याहि । यातेर्लोटि रूपम् । स्वः । ‘स्वरादिनिपातमव्ययम्' इत्यव्ययसंज्ञायाम् ‘अव्ययादाप्सुपः' इति सुपो लुक् । सातये । ‘षण संभक्तौ । भावे क्तिन् । ' जनसन' इत्यादिना आत्वम् ।' ऊतियूति°' इत्यादिना निपातनादुदात्तः ॥


मिहः॑ पाव॒काः प्रत॑ता अभूवन्त्स्व॒स्ति नः॑ पिपृहि पा॒रमा॑सां ।

इंद्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः ॥२०

मिहः॑ । पा॒व॒काः । प्रऽत॑ताः । अ॒भू॒व॒न् । स्व॒स्ति । नः॒ । पि॒पृ॒हि॒ । पा॒रम् । आ॒सा॒म् ।

इन्द्र॑ । त्वम् । र॒थि॒रः । पा॒हि॒ । नः॒ । रि॒षः । म॒क्षुऽम॑क्षु । कृ॒णु॒हि॒ । गो॒ऽजितः॑ । नः॒ ॥२०

मिहः । पावकाः । प्रऽतताः । अभूवन् । स्वस्ति । नः । पिपृहि । पारम् । आसाम् ।

इन्द्र । त्वम् । रथिरः । पाहि । नः । रिषः । मक्षुऽमक्षु । कृणुहि । गोऽजितः । नः ॥२०

हे "इन्द्र ते "पावकाः पापानां शोधयित्र्यः "मिहः सेचनसाधनान्यापः "प्रतताः लोके प्रकर्षेण विस्तृताः "अभूवन् । “आसाम् अपां "स्वस्ति विनाशरहितं "पारं तीरं “नः अस्मदर्थं "पिपृहि जलैः संपूर्णं कुरु । जलमवारपारीणं कुर्वित्यर्थः । "रथिरः रथवान् "त्वं "रिषः हिंसकात् शत्रोः सकाशात् “नः अस्मान् "पाहि पालय । अनन्तरं "नः अस्मान् "मक्षुमक्षु अतिशीघ्रं “गोजितः गवादिपशूनां जेतॄन् “कृणुहि कुरु । वृष्टिप्रदानेन तटाकादिजलाशयान् संपूर्णान् कृत्वा गवादिधनयुक्तान् कुर्विति भावः ॥ अभूवन् ।' भू सत्तायाम्' इत्यस्य लुङि रूपम् । निघातः । पिपृहि । 'पॄ पालनपूरणयोः' । जुहोत्यादिः । ‘अर्तिपिपर्त्योश्च' इत्यभ्यासस्येत्वम् । हेर्ङित्त्वादगुणः । निघातः । रथिरः । मत्वर्थे ‘मेधारथभ्यामिरन्निरचौ ' इतीरच्प्रत्ययः । रिषः । ‘रिष हिंसायाम् ' । क्विप् । 'सावेकाच: ' इति विभक्तेरुदात्तत्वम् । मक्षूमक्षू ।' नित्यवीप्सयोः' इति द्विर्वचनम् । संहितायाम् ऋचि तुनुघमक्षुतङ्' इति दीर्घः ॥


अदे॑दिष्ट वृत्र॒हा गोप॑ति॒र्गा अं॒तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात् ।

प्र सू॒नृता॑ दि॒शमा॑न ऋ॒तेन॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥२१

अदे॑दिष्ट । वृ॒त्र॒ऽहा । गोऽप॑तिः । गाः । अ॒न्तरिति॑ । कृ॒ष्णान् । अ॒रु॒षैः । धाम॑ऽभिः । गा॒त् ।

प्र । सू॒नृताः॑ । दि॒शमा॑नः । ऋ॒तेन॑ । दुरः॑ । च॒ । विश्वाः॑ । अ॒वृ॒णो॒त् । अप॑ । स्वाः ॥२१

अदेदिष्ट । वृत्रऽहा । गोऽपतिः । गाः । अन्तरिति । कृष्णान् । अरुषैः । धामऽभिः । गात् ।

प्र । सूनृताः । दिशमानः । ऋतेन । दुरः । च । विश्वाः । अवृणोत् । अप । स्वाः ॥२१

"वृत्रहा वृत्रस्य हन्ता "गोपतिः गवां स्वामी सन्निन्द्रः “गाः "अदेदिष्ट अस्मभ्यं दिशतु । तथा "कृष्णान् कर्मविघ्नकारिणोऽसुरान् "अरुषैः आरोचमानैः “धामभिः तेजोभिः "अन्तर् अन्तर्धानं विनाशं “गात् गमयतु । तथा “सूनृताः प्रियतमा गाः “ऋतेन प्रतारणवर्जितेन’ सत्येन वाक्येन “प्र “दिशमानः अङ्गिरोभ्यः प्रदिशन्निन्द्रः "विश्वाः सर्वाणि "दुरः गवां स्वेच्छया निर्गमनद्वाराणि "स्वाः स्वकीया गाः "च "अप अवृणोत् । व्रजे गाः स्थापयित्वा तानि द्वाराण्याच्छादितवानित्यर्थः । अदेदिष्ट । *दिश अतिसर्जने' इत्यस्मात् यङ्लुकि लङि व्यत्ययेनात्मनेपदम् । अडागमस्वरः । गोपतिः । ‘पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरः । गात् । ‘इण् गतौ ' । अन्तर्भावितण्यर्थः । दिशमानः । दिशेः व्यत्ययेन शानच् । तस्य लसार्वधातुकस्वरेणानुदात्तत्वे शस्वरः । अवृणोत् । ‘वृञ् वरणे' इत्यस्य लङि रूपम् ॥


शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥२२

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥२२

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥२२

व्याख्यातेयमृक् ॥ ॥ ८ ॥

३.३१.२

होता यक्षदिति प्रैषः को अद्येति तु विस्मयः । जामयेऽपह्नवो नैषा विततादिः प्रवल्हिका ।।बृहद्देवता १.५७ ।।

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.३१&oldid=330507" इत्यस्माद् प्रतिप्राप्तम्