ऋग्वेदः सूक्तं १.१६९
← सूक्तं १.१६८ | ऋग्वेदः - मण्डल १ सूक्तं १.१६९ अगस्त्यो मैत्रावरुणिः। |
सूक्तं १.१७० → |
दे. इन्द्रः। त्रिष्टुप्, २ चतुष्पदा विराट्। |
महश्चित्त्वमिन्द्र यत एतान्महश्चिदसि त्यजसो वरूता ।
स नो वेधो मरुतां चिकित्वान्सुम्ना वनुष्व तव हि प्रेष्ठा ॥१॥
अयुज्रन्त इन्द्र विश्वकृष्टीर्विदानासो निष्षिधो मर्त्यत्रा ।
मरुतां पृत्सुतिर्हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ ॥२॥
अम्यक्सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति ।
अग्निश्चिद्धि ष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि ॥३॥
त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम् ।
स्तुतश्च यास्ते चकनन्त वायो स्तनं न मध्वः पीपयन्त वाजैः ॥४॥
त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिदृतायोः ।
ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः ॥५॥
प्रति प्र याहीन्द्र मीळ्हुषो नॄन्महः पार्थिवे सदने यतस्व ।
अध यदेषां पृथुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः ॥६॥
प्रति घोराणामेतानामयासां मरुतां शृण्व आयतामुपब्दिः ।
ये मर्त्यं पृतनायन्तमूमैरृणावानं न पतयन्त सर्गैः ॥७॥
त्वं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः ।
स्तवानेभि स्तवसे देव देवैर्विद्यामेषं वृजनं जीरदानुम् ॥८॥
सायणभाष्यम्
' महश्चित्वम् ' इत्यष्टर्चं पञ्चमं सूक्तमैन्द्रमागस्त्यं त्रैष्टुभम् । द्वितीया चतुष्पदा विराट् 'अथ चतुष्पदा', 'विराड्दशकैः' इत्युक्तत्वात् , ‘विराजो दिशः' (पि. सू. ३.५) इति पिङ्गलनागेन सूत्रितत्वाच्च । महोऽष्टौ द्वितीया विराट्' इत्यनुक्रमणिका । समूळ्हे दशरात्रे द्वितीये छन्दोमे मरुत्वतीये इदं 'विश्वजितोऽग्निं नरः' इति खण्डे सूत्रितं-- द्वितीयस्य शंसा महां महश्चित्वमिन्द्र ' ( आश्व. श्रौ. ८. ७) इति ॥
म॒हश्चि॒त्त्वमि॑न्द्र य॒त ए॒तान्म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता ।
स नो॑ वेधो म॒रुतां॑ चिकि॒त्वान्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा॑ ॥१
म॒हः । चि॒त् । त्वम् । इ॒न्द्र॒ । य॒तः । ए॒तान् । म॒हः । चि॒त् । अ॒सि॒ । त्यज॑सः । व॒रू॒ता ।
सः । नः॒ । वे॒धः॒ । म॒रुता॑म् । चि॒कि॒त्वान् । सु॒म्ना । व॒नु॒ष्व॒ । तव॑ । हि । प्रेष्ठा॑ ॥१
महः। चित्। त्वम्। इन्द्र । यतः । एतान् । महः । चित् । असि। त्यजसः । वरूता ।
सः । नः । वेधः । मरुताम् । चिकित्वान् । सुम्ना । वनुष्व । तव । हि । प्रेष्ठा ॥ १ ॥
हे “इन्द्र “त्वं “यतः कारणात् “एतान् मरुतः “महश्चित् महतोऽपि सामर्थ्यातिशयवत्त्वात् त्वं निरपेक्षेणापि स्नेहात् न त्यजसीति शेषः । अतः कारणात् “महश्चिदसि । चित् इति पादपूरणः । महतोऽपि “त्यजसः त्यागात् । यद्वा । एतत् क्रोधनाम । क्रोधाद्वा । “वरूता वरिता रक्षिता असि भवसि । यद्वा । मरुतोऽपि त्यागात् वृष्ट्यादिविषयात् वारयितासि । यस्मादेवं तस्मात् हे “मरुतां “वेधः विधातः “सः तादृशस्त्वं चिकित्वान् चेतनावान् अस्मदनुग्रहविषयज्ञानोपेतः सन् “नः अस्मभ्यं “सुम्ना सुखानि मरुदायत्तानि वृष्ट्यादिरूपाणि “वनुष्व देहि । तानि सुन्नानि “तव “हि “प्रेष्ठा तव खलु प्रियतमानि । हिशब्दः ‘अयमिन्द्रो मरुत्सखा ' (ऋ. सं. ८.७६. २ ) इत्यादिश्रुतिषु प्रसिद्धयर्थः ॥
अयु॑ज्रन्त इन्द्र वि॒श्वकृ॑ष्टीर्विदा॒नासो॑ नि॒ष्षिधो॑ मर्त्य॒त्रा ।
म॒रुतां॑ पृत्सु॒तिर्हास॑माना॒ स्व॑र्मीळ्हस्य प्र॒धन॑स्य सा॒तौ ॥२
अयु॑ज्रन् । ते । इ॒न्द्र॒ । वि॒श्वऽकृ॑ष्टीः । वि॒दा॒नासः॑ । निः॒ऽसिधः॑ । म॒र्त्य॒ऽत्रा ।
म॒रुता॑म् । पृ॒त्सु॒तिः । हास॑माना । स्वः॑ऽमीळ्हस्य । प्र॒ऽधन॑स्य । सा॒तौ ॥२
अयुज्रन् । ते । इन्द्र । विश्वऽकृष्टीः । विदानासः । निःऽसिधः । मर्त्यऽत्रा ।
मरुताम् । पृत्सुतिः । हासमाना । स्वःऽमीळ्हस्य । प्रऽधनस्य । सातौ ॥ २ ॥
पूर्वमन्त्रे मरुतामिन्द्रसाहाय्यमुक्तम् । अत्रेन्द्रस्य मरुत्साहाय्यमुच्यते । हे “इन्द्र “ते मरुतः “अयुज्रन् युज्यन्ते त्वया सुक्ता भवन्तीत्यर्थः। कीदृशास्ते । “विश्वकृष्टीः विश्वकृष्टयो राज्यत्वेन सर्वजनवन्तः किंच “मर्त्यत्रा मर्त्येषु मर्त्यार्थं निष्षिधः निःशेषेणोदकस्य सेत्तॄन् मेघान् “विदानासः जानानाः। किंच येषां “मरुतां “पृत्सुतिः सेना स्वर्मीळ्हस्य “प्रधनस्य सुखसेक्तुः । प्रकृष्टधनवतो वृत्रादिसंग्रामस्य “सातौ लाभे जये निमित्तभूते सति सेना “हासमाना हासं कुर्वती हर्षयुक्ता भवति । यद्वा । सुखेन मिह्यते जलं यस्मिन् तादृशस्य प्रधनस्य प्रकृष्टोदकाख्यधनसाधनस्य संग्रामस्य सातौ ।। मेघभेदनायेति यावत् । येषामीदृशी सेनास्ति ते मरुतोऽयुज्रन्निति संबन्धः ॥
अम्य॒क्सा त॑ इन्द्र ऋ॒ष्टिर॒स्मे सने॒म्यभ्वं॑ म॒रुतो॑ जुनन्ति ।
अ॒ग्निश्चि॒द्धि ष्मा॑त॒से शु॑शु॒क्वानापो॒ न द्वी॒पं दध॑ति॒ प्रयां॑सि ॥३
अम्य॑क् । सा । ते॒ । इ॒न्द्र॒ । ऋ॒ष्टिः । अ॒स्मे इति॑ । सने॑मि । अभ्व॑म् । म॒रुतः॑ । जु॒न॒न्ति॒ ।
अ॒ग्निः । चि॒त् । हि । स्म॒ । अ॒त॒से । शु॒शु॒क्वान् । आपः॑ । न । द्वी॒पम् । दध॑ति । प्रयां॑सि ॥३
अम्यक् । सा । ते । इन्द्र । ऋष्टिः । अस्मे इति । सनेमि । अभ्वम् । मरुतः । जुनन्ति ।
अग्निः । चित् । हि । स्म । अतसे । शुशुक्वान् । आपः । न । द्वीपम् । दधति । प्रयांसि ॥३॥
हे "इन्द्र "ते तव "सा प्रसिद्धा “ऋष्टिः वज्राख्यायुधविशेषः "अस्मे अस्मद्वृष्ट्यर्थम् “अम्यक् प्राप्नोति मेघसमीपे । एवं च सति “मरुतः अपि ।' सनेमि अह्राय' ' (नि. ३. २७. ४ ) इति षट् पुराणनामानि इत्युक्तत्वात् "सनेमि इति पुराणनाम' । पुराणं चिरकालं संगृहीतम् "अभ्वम् उदकं "जुनन्ति क्षिपन्ति वर्षन्तीत्यर्थः । वृष्ट्या सस्यादिसमृद्धौ सत्याम् “अग्निश्चिद्धि “ष्म । हि स्म इति पूरणे । अग्निरपि "अतसे संतते कर्मणि निमित्तभूते सति “शुशुक्वान् दीप्यमानो वर्तते । पश्चात् 'प्रयांसि चरुपुरोडाशादिहवींषि दधति धारयन्ति ददति वा यजमानाः । किमिव । "आपो "न “द्वीपम् । द्विपार्श्वस्थोदकवान्पर्वतादिद्वीपः । तं यथा आपो धारयन्ति तद्वत् । यद्वा । आयुधमेवोच्यते । वज्राख्यायुधविशेषोऽतसे काष्ठसमूहे शुशुक्वान् दीपयन्नग्निश्चित् । चिच्छब्दः उपमार्थे ' दधि चिदित्युपमार्थे ' ( निरु. १. ४ ) इति यास्केनोपमार्थस्योक्तत्वात् । काष्ठे ज्वलन्नग्निरिव तद्वद्दीप्तो वर्तते । एतदेव दीप्तत्वमपेक्ष्य सेत्युक्तम् । एवं च सति आपो द्वीपमिव वृष्ट्युदकानि प्रयांसि सस्याद्यन्नानि दधति धारयन्ति । एतत्सर्वं महानुभावस्येन्द्रस्य ऋष्टेः सामर्थ्यमितीन्द्रस्य स्तुतिः ॥
त्वं तू न॑ इन्द्र॒ तं र॒यिं दा॒ ओजि॑ष्ठया॒ दक्षि॑णयेव रा॒तिम् ।
स्तुत॑श्च॒ यास्ते॑ च॒कन॑न्त वा॒योः स्तनं॒ न मध्व॑ः पीपयन्त॒ वाजै॑ः ॥४
त्वम् । तु । नः॒ । इ॒न्द्र॒ । तम् । र॒यिम् । दाः॒ । ओजि॑ष्ठया । दक्षि॑णयाऽइव । रा॒तिम् ।
स्तुतः॑ । च॒ । याः । ते॒ । च॒कन॑न्त । वा॒योः । स्तन॑म् । न । मध्वः॑ । पी॒प॒य॒न्त॒ । वाजैः॑ ॥४
त्वम् । तु । नः । इन्द्र । तम् । रयिम् । दाः । ओजिष्ठया । दक्षिणयाऽइव । रातिम् ।
स्तुतः । च । याः । ते । चकनन्त । वायोः । स्तनम् । न । मध्वः। पीपयन्त । वाजैः ॥४॥
हे “इन्द्र “त्वं “तु । तुः अवधारणे । त्वमेव “तं रयिं त्वद्दानयोग्यं गवादिधनं “दाः देहि । यस्मादितरेभ्योऽपि त्वमेव बहुप्रदः अतोऽतिमहद्धनं देहीत्यर्थः । वयं तु "ओजिष्ठया ओजस्वितमया परिक्रमणार्हया "दक्षिणया समृद्धिसाधनया गवादिलक्षणया ऋत्विजम् "इव "रातिं दातारं त्वां प्रीणयाम इति शेषः । यद्वा । दक्षिणाशब्दो देयद्रव्यसामान्यवचनः । रातिशब्दो बन्धुवचनः । हिरण्यादिसारवद्द्रव्यप्रदानेन बन्धुं यथा वशीकुर्वन्ति तद्वत् त्वां वशीकुर्म इत्यर्थः। किंच “वायोः धौतयुवक्षेपिष्ठस्य शीघ्रवरप्रदस्य “ते ॥ कर्मणि षष्ठी । वायुं त्वां “स्तुतः येऽस्मदीयाः स्तोतारः “चकनन्त कामयन्ते अस्तवन् । “याः स्तुतयः त्वामेव अकामयन्तेति वा योजना ॥ कनतेर्ण्यन्तात् लुङि चङि रूपम् । ‘चङ्यन्यतरस्याम् ' इति चङः पूर्वमक्षरमुदात्तम् ॥ त्वां होत्रादयः “वाजैः हविर्लक्षणैरन्नैः "पीपयन्त आप्याययन्ति । तत्र दृष्टान्तः । "मध्वः मधुरस्य स्तन्यस्य लाभाय वाजैः सारवद्भिरन्नविशेषैः "स्तनं “न । तं यथा आप्याययन्ति तद्वद्वयं त्वां बहुकृतप्रदानाय स्तुत्या हविषा आप्याययामः । एवं तु दातव्यत्वेन प्रसिद्धं धनं सर्वदा देहीत्यर्थः । ।
त्वे राय॑ इन्द्र तो॒शत॑माः प्रणे॒तार॒ः कस्य॑ चिदृता॒योः ।
ते षु णो॑ म॒रुतो॑ मृळयन्तु॒ ये स्मा॑ पु॒रा गा॑तू॒यन्ती॑व दे॒वाः ॥५
त्वे इति॑ । रायः॑ । इ॒न्द्र॒ । तो॒शऽत॑माः । प्र॒ऽने॒तारः॑ । कस्य॑ । चि॒त् । ऋ॒त॒ऽयोः ।
ते । सु । नः॒ । म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । ये । स्म॒ । पु॒रा । गा॒तु॒यन्ति॑ऽइव । दे॒वाः ॥५
त्वे इति । रायः । इन्द्र । तोशऽतमाः । प्रऽनेतारः । कस्य । चित् । ऋतऽयोः ।
ते। सु । नः । मरुतः । मृळयन्तु । ये । स्म । पुरा । गातुयन्तिऽइव । देवाः ॥ ५ ॥
हे “इन्द्र “त्वे तव "रायः धनविशेषाः “तोशतमाः अतिशयेन प्रीणयितारः ॥ तुष्यतेस्तोषः । छान्दसं शत्वम् ॥ यद्वा । ते रायो रातयो बन्धवो बन्धुभूताः सखिभूता मरुतः तोशतमाः । तोशतिर्वधकर्मा, नितोशयति निबर्हयति' ( नि. २. १९. २९) इति तन्नामसु पाठात् । तोशतमा हिंसितृतमा अवर्षकाणां मेघानाम् । "कस्य चिदृतायोः । ऋतमिति यज्ञनाम। कस्यापि यज्ञेच्छोर्यजमानस्य "प्रणेतारः प्रकर्षेण निर्वोढारः। "ते "मरुतः "नः अस्मान् सुष्टु "मृळयन्तु । के ते। "ये “स्म ये खलु "देवाः द्योतनशीला मरुतः "पुरा पूर्वं "गातुयन्तीव यज्ञगमनमिच्छन्तीव ते आगत्य मृळयन्तु ॥ ॥ ८ ॥
प्रति॒ प्र या॑हीन्द्र मी॒ळ्हुषो॒ नॄन्म॒हः पार्थि॑वे॒ सद॑ने यतस्व ।
अध॒ यदे॑षां पृथुबु॒ध्नास॒ एता॑स्ती॒र्थे नार्यः पौंस्या॑नि त॒स्थुः ॥६
प्रति॑ । प्र । या॒हि॒ । इ॒न्द्र॒ । मी॒ळ्हुषः॑ । नॄन् । म॒हः । पार्थि॑वे । सद॑ने । य॒त॒स्व॒ ।
अध॑ । यत् । ए॒षा॒म् । पृ॒थु॒ऽबु॒ध्नासः॑ । एताः॑ । ती॒र्थे । न । अ॒र्यः । पौंस्या॑नि । त॒स्थुः ॥६
प्रति । प्र । याहि । इन्द्र । मीळ्हुषः । नॄन् । महः । पार्थिवे । सदने । यतस्व ।
अध । यत् । एषाम् । पृथुऽबुध्नासः । एताः । तीर्थे । न । अर्यः । पौंस्यानि । तस्थुः ॥ ६ ॥
हे "इन्द्र त्वं "मीळ्हुषः उदकसेक्तॄन् "नॄन् जगन्नेतॄन् नराकारान् वा "महः महतः मेघान् “प्रति “प्र याहि अभिगच्छ । मेघानां वृत्ररूपेण नराकारत्वं युक्तम् । गत्वा च "पार्थिवे "सदने । पृथिवीत्यन्तरिक्षनाम । तत्संबन्धिनि स्थाने "यतस्व प्रयत्नं कुरु । तैः सह युध्यस्वेत्यर्थः । यद्वा । हविष्प्रदातॄन् कर्मनिर्वाहकान् महतो यजमानान् प्रति गच्छ। गत्वा च पार्थिवे सदने देवयजने यतस्व । यत्नं कुरु हविर्भोजनाय । अध अपि "यत् यदा “एषां त्वत्साहाय्यकारिणां मरुतां संबन्धिनः “पृथुबुध्नासः विस्तीर्णमूलाः “एताः पृषद्वर्णा गन्तारो वा अश्वाः "अर्यः अरेः शत्रोः "पौंस्यानि "तीर्थे “न युद्धमार्गं इव “तस्थुः तिष्ठन्ति मेघानाक्रमन्ते । यद्वा । एषां मरुतां पृथुबुध्नासो बृहन्मूला एताः कृष्णवर्णा मेघास्तिष्ठन्ति । तत्र दृष्टान्तः । अर्यः अरणीयस्य स्वामिनः पौंस्यानि बलानि तीर्थं न राजवीथ्यां यथा तिष्ठन्ति तद्वत् ॥
प्रति॑ घो॒राणा॒मेता॑नाम॒यासां॑ म॒रुतां॑ शृण्व आय॒तामु॑प॒ब्दिः ।
ये मर्त्यं॑ पृतना॒यन्त॒मूमै॑रृणा॒वानं॒ न प॒तय॑न्त॒ सर्गै॑ः ॥७
प्रति॑ । घो॒राणा॑म् । एता॑नाम् । अ॒यासा॑म् । म॒रुता॑म् । शृ॒ण्वे॒ । आ॒ऽय॒ताम् । उ॒प॒ब्दिः ।
ये । मर्त्य॑म् । पृ॒त॒ना॒ऽयन्त॑म् । ऊमैः॑ । ऋ॒ण॒ऽवान॑म् । न । प॒तय॑न्त । सर्गैः॑ ॥७
प्रति । घोराणाम् । एतानाम् । अयासम् । मरुताम् । शृण्वे । आऽयताम् । उपब्दिः ।
ये । मर्त्यम् । पृतनाऽयन्तम् । ऊमैः । ऋणऽवानम् । न । पतयन्त । सर्गैः ॥ ७ ॥
हे इन्द्र ते संबन्धिनां “घोराणां भयानकानां शब्दाभिमानानां वा “एतानाम् एतवर्णानाम् “अयासाम् अयमानानां गमनशीलानां "मरुताम् “आयताम् आगन्तॄणां मरुताम् “उपब्दिः उप गुर्वादिसमीपे गम्यते ज्ञायते उपपद्यते इति वा उपब्दिर्वाक्। “शृण्वे श्रूयते ।। कर्मणि कर्तृप्रत्ययः । ते एव विशिष्यन्ते। "ये मरुतः "मर्त्यं मरणधर्माणम् "ऊमैः स्वरक्षणैरुदकनिगमनसाधनैर्वा "पृतनायन्तं पृतनामात्मन इच्छन्तं वैरिणं मेघं वा सर्गैः सृष्टैः स्वकीयप्रहारविशेषैः "पतयन्त पातयन्ति तेषामेव ध्वनिः श्रूयते इत्यर्थः । पातने दृष्टान्तः । “सर्गैः “ऋणवानं “न ॥ ‘छन्दसीवनिपौ° ' इति वनिप् ॥ ऋणवन्तम् अधम वैरिणमिव। तं यथा पीडयित्वा तदीयं धनमपहरन्ति तद्वत् । एवंमहानुभावा मरुतस्तवानुगा इतीन्द्रस्य स्तुतिः ॥
त्वं माने॑भ्य इन्द्र वि॒श्वज॑न्या॒ रदा॑ म॒रुद्भि॑ः शु॒रुधो॒ गोअ॑ग्राः ।
स्तवा॑नेभिः स्तवसे देव दे॒वैर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥८
त्वम् । माने॑भ्यः । इ॒न्द्र॒ । वि॒श्वऽज॑न्या । रद॑ । म॒रुत्ऽभिः॑ । शु॒रुधः॑ । गोऽअ॑ग्राः ।
स्तवा॑नेभिः । स्त॒व॒से॒ । दे॒व॒ । दे॒वैः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥८
त्वम् । मानेभ्यः । इन्द्र । विश्वऽजन्या । रद । मरुत्ऽभिः । शुरुधः। गोऽअग्राः ।
स्तवानेभिः । स्तवसे । देव । देवैः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ ८ ॥
हे "इन्द्र "त्वं "मानेभ्यः मानार्थम् । चित्तेनेत्यर्थः ॥ तादर्थ्ये चतुर्थी । "विश्वजन्या विश्वजन्यः । सोः आंकारः ।। विश्वे प्राणिनः उत्पादनीया यस्य तादृशस्त्वं सर्वजनहितशक्त्या वा “मरुद्भिः सह “शुरुधः शोकस्य रोधयित्रीः शोषिका: "गोअग्राः गर्जितमुदकं वा अग्रे पुरतो यासां ता मेघपङ्क्तीः “रद विलिख विदारय । हे "देव द्योतमान त्वं "स्तवानेभिः स्तूयमानैः "देवैः अन्यैर्मरुदादिभिर्ऋत्विग्भिर्वा "स्तवसे स्तूयसे । उभयत्र कर्मणि कर्तृप्रत्ययः ।। विद्यामेत्ययं व्याख्यातः । ॥ ९ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|