सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०७/पौरुहन्मनम्(योराजा)

पौरुहन्मनम्.
पौरुहन्मनम्.

यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ।। २७३ ।। ऋ. ८.७०.१

 
(२७३।१) पौरुहन्मनम् । पुरुहन्मा बृहतीन्द्रः ॥ ।
योराजाऽ३चर्षणाइनाम् ।। यातारथे । भिराध्राऽ१इगूऽ२: । ध्राइगूऽ२ः । वाइश्वासाऽ३म् । तरुताऽ३ । तरुताऽ३ । पार्त्तानाऽ२३४नाम् ॥ ज्याइष्ठंयोवा । त्राहागाऽ२३४र्णाइ । त्रहाऽ५गृणाइ॥ होऽ५इ ॥डा॥
(दी० ५। प० १३ । मा० १३ )१७ (बि । ४७३ )


(२७३।२) प्राकर्षम् । प्रकर्षा बृहतीन्द्रः॥
योराजाच । षणाऽ३२३४इनाम्॥ यातारथेभिरध्राऽ२३इगूः । विश्वासान्तरुतापृतानाऽ२३नाम् ॥ ज्याऽ२३इष्ठाम् ॥ योवृत्रहोवाऽ३ओऽ२३४वा । गाऽ५र्णोऽ६हाइ ॥
(दी. ९ । प० ७ । मा० ९ )१८ ( थो । ४७४ )
.


टिप्पणी

सङ्ग्रामं युयुत्समानस्योदकमभिजुहुयात् सोमꣳ राजानँ वरुणमित्येतेन। तत एनं पाययेद्यो राजा चर्षणीनामिति पूर्वेण । ये चात्र मुख्याः स्युस्तानुत्तरेणाभिषिञ्चेत् ॥सामविधानब्रा. ३.६.१

अथ पौरुहन्मनम् अभ्यारम्भो यज्ञस्य प्रत्यपसारः। अभ्य् एव नवमम् अहर् आरभते प्रति सप्तमम् अपधावति। अभ्यारम्भैर् वै देवा असुरान् यज्ञाद् अन्तरायन्। पुरुहन्मा वैखानसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ पुरुहन्मा वैखानसो ऽपश्यत् तस्मात् पौरुहन्मनम् इत्य् आख्यायते। देवासुरा अस्पर्धन्त। ते देवा अकामयन्त पूर्व एवासुरान् हन्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनासुरान् पूर्वे ऽघ्नन्। तद् यत् पूर्वे ऽघ्नन् तद् व् एव पौरुहन्मनस्य पौरुहन्मनत्वम्। पूर्व एव द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद॥जैब्रा ३.२१५