सूर्यसिद्धान्त सूर्यग्रहणाधिकारः

Varitants for the part beginning with * are supplied in ( ) .

सूर्यसिद्धान्त अनुक्रमणिका


[सूर्यग्रहण]
५.०१क मध्यलग्नसमे भानौ हरिजस्य न सम्भवः /
५.०१ख अक्षोदङ्मध्यभक्रान्तिसाम्ये नावनतेर् अपि //

५.०२क देशकालविशेषेण यथावनतिसम्भवः /
५.०२ख लम्बनस्यापि पूर्वान्यदिग्वशाच् च तथोच्यते //

५.०३क लग्नम् पर्वान्तनाडीनाम् कुर्यात् स्वैर् उदयासुभिः /
५.०३ख तज्ज्यान्त्यापक्रमज्याघ्नी लम्बज्याप्तोदयाभिधा //

५.०४क तदा लङ्कोदयैर् लग्नम् मध्यसम्ज्ञम् यथोदितम् /
५.०४ख तत्क्रान्त्यक्षाम्शसम्योगो दिक्साम्ये +अन्तरम् अन्यथा //

५.०५क शेषम् नताम्शास् तन्मौर्वी मध्यज्या साभिधीयते /
५.०५ख मध्योदयज्ययाभ्यस्ता त्रिज्याप्ता वर्गितम् फलम् //

५.०६क मध्यज्यावर्गविश्लिष्टम् दृक्क्षेपः शेषतः पदम् /
५.०६ख तत्त्रिज्यावर्गविश्लेषान् मूलम् शङ्कुः स दृग्गतिः //

५.०७क नताम्शबाहुकोटिज्ये +अस्फुटे दृक्क्षेपदृग्गती /
५.०७ख एकज्यार्धगतश् छेदो लब्धम् दृग्गतिजीवया //

५.०८क मध्यलग्नार्कविश्लेषज्या छेदेन विभाजिता /
५.०८ख रवीन्द्वोर् लम्बनम् ज्ञेयम् प्राक्पश्चाद् घटिकादिकम् //

५.०९क मध्यलग्नाधिके भानौ तिथ्यन्तात् प्रविशोधयेत् /
५.०९ख धनम् ऊने +असकृत् कर्म यावत् सर्वम् स्थिरीभवेत् //

५.१०क दृक्क्षेपः शीततिग्माम्श्वोर् मध्यभुक्त्यन्तराहतः /
५.१०ख तिथिघ्नत्रिज्यया भक्तो लब्धम् सावनतिर् भवेत् //

५.११क दृक्क्षेपात् सप्ततिहृताद् भवेद् वावनतिः फलम् /
५.११ख अथवा त्रिज्यया भक्तात् सप्तसप्तकसङ्गुणात् //

५.१२क मध्यज्यादिग्वशात् सा च विज्ञेया दक्षिणोत्तरा /
५.१२ख सेन्दुविक्षेपदिक्साम्ये युक्ता विश्लेषितान्यथा //

५.१३क तया स्थितिविमर्दार्धग्रासाद्यम् तु यथोदितम् /
५.१३ख प्रमाणम् वलनाभीष्टग्रासादि हिमरश्मिवत् //

५.१४क स्थित्यर्धोनाधिकात् प्राग्वत् तिथ्या(?)न्तलाल् लम्बनम् पुनः /
५.१४ख ग्रासमोक्षोद्भवम् साध्यम् तन्मध्यहरिजान्तरम् //

५.१५क प्राक्कपाले +अधिकम् मध्याद् भवेत् प्राग्रहणम् यदि /
५.१५ख मौक्षिकम् लम्बनम् हीनम् पश्चार्धे तु विपर्ययः //

५.१६क तदा मोक्षस्थितिदले देयम् प्रग्रहणे तथा /
५.१६ख हरिजान्तरकम् शोध्यम् यत्रैतत् स्याद् विपर्ययः //

५.१७क एतद् उक्तम् कपालैक्ये तद्भेदे लम्बनैकता /
५.१७ख स्वे स्वे स्थितिदले योज्या विमर्दार्धे +अपि चोक्तवत् //

सूर्यसिद्धान्त अनुक्रमणिका

संबंधित कड़ियाँ सम्पाद्यताम्

बाहरी कड़ियाँ सम्पाद्यताम्