सूर्यसिद्धान्त स्पष्टाधिकारः

Varitants for the part beginning with * are supplied in ( ) .

सूर्यसिद्धान्त अनुक्रमणिका


[स्पष्टाधिकारः]
२.०१क अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः /
२.०१ख शीघ्रमन्दोच्चपाताख्या ग्रहाणाम् गतिहेतवः //

२.०२क तद्वातरश्मिभिर् *बद्धास् तैस् सव्येतरपाणिभिः / (C नद्धास्)
२.०२ख प्राक् पश्चाद् अपकृष्यन्ते यथासन्नम् स्वदिङ्मुखम् //

२.०३क प्रवहाख्यो मरुत् ताम्स् तु स्वोच्चाभिमुखम् ईरयेत् /
२.०३ख पूर्वापराकृष्टास् ते *गतिम् यान्ति पृथग्विधाः //(C गतीर्, पृथग्विधाम्)

२.०४क ग्रहात् प्राग्भगणार्धस्थः प्राङ्मुखम् कर्षति ग्रहम् /
२.०४ख उच्चसम्ज्ञो +अपरार्धस्थस् तद्वत् पश्चान्मुखम् ग्रहम् //

२.०५क स्वोच्चापकृष्टा *भगणैः प्राङ्मुखम् यान्ति यद् ग्रहाः / (C भगणात्)
२.०५ख तत् तेषु धनम् इत्य् उक्तम् ऋणम् पश्चान्मुखेषु *च // (तु)

२.०६क *दक्षिणोत्तरतो +अप्य् एवम् पातो *राहुः स्वरम्हसा /(C दक्षिणोत्तरयोर्, राहुश् च रम्हसा)
२.०६ख विक्षिपत्य् एष विक्षेपम् चन्द्रादीनाम् अपक्रमात् //

२.०७क उत्तराभिमुखम् पातो विक्षिपत्य् अपरार्धगः /
२.०७ख ग्रहम् प्राग्भगणार्धस्थो याम्यायाम् अपकर्षति //

२.०८क बुधभार्गवयोः शीघ्रात् तद्वत् पातो *यदा स्थितः / (C यथास्थितः)
२.०८ख तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्तवत् //

२.०९क महत्वान् मण्डलस्यार्कः स्वल्पम् एवापकृष्यते /
२.०९ख मण्डलाल्पतया चन्द्रस् ततो बह्व् अपकृष्यते /

२.१०क भौमादयो +अल्पमूर्तित्वाच् छीघ्रमन्दोच्चसञ्ज्ञकैः / (C सम्ज्ञितैः)
२.१०ख दैवतैर् अपकृष्यन्ते सुदूरम् अतिवेगिताः //

२.११क अतो धनर्णम् सुमहत् तेषाम् गतिवशाद् भवेत् /
२.११ख आकृष्यमाणास् तैर् एवम् व्योम्नि यान्त्य् अनिलाहताः //

२.१२क *वक्रातिवक्रा विकला मन्दा मन्दतरा समा / (C वक्रानुवक्रा)
२.१२ख तथा शीघ्रतरा शीघ्रा ग्रहाणाम् अष्टधा गतिः //

२.१३क तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा /
२.१३ख ऋज्वीति पञ्चधा ज्ञेया *या वक्रा सातिवक्रगा //(C +अन्या वक्रादिका मता)

२.१४क तत्तद्गतिवशान् नित्यम् यथा दृक्तुल्यताम् ग्रहाः /
२.१४ख प्रयान्ति तत् प्रवक्ष्यामि स्फुटीकरणम् आदरात् //

२.१५क राशिलिप्ताष्टमो भागः प्रथमम् ज्यार्धम् उच्यते /
२.१५ख तत् तद्विभक्तलब्धोनमिश्रितम् तद् द्वितीयकम् //

२.१६क आद्येनैवम् क्रमात् पिण्डान् भक्त्वा *लब्धोनसम्युताः /(C लब्धोनितैर् युतैः)
२.१६ख *खण्डकाः स्युश् चतुर्विम्शज्यार्धपिण्डाः क्रमाद् अमी //(C खण्डकैस्)

२.१७क तत्त्वाश्विनो +अङ्काब्धिकृता रूपभूमिधरर्तवः /(२२४, ४४९, ६९१)
२.१७ख खाङ्काष्टौ पञ्चशून्येशा बाणरूपगुणेन्दवः //(८९०, ११०५, १३१५)

२.१८क शून्यलोचनपञ्चैकाश् छिद्ररूपमुनीन्दवः /(१५२०, १७१९)
२.१८ख वियच्चन्द्रातिधृतयो गुणरन्ध्राम्बराश्विनः //(१९१०, २०९३)

२.१९क मुनिषड्यमनेत्राणि चन्द्राग्निकृतदस्रकाः /(२२६७, २४३१)
२.१९ख पञ्चाष्टविषयाक्षीणि कुञ्जराश्विनगाश्विनः //(२५८५, २७२८)

२.२०क रन्ध्रपञ्चाष्टकयमा वस्वद्र्यङ्कयमास् तथा /(२८५९, २९७८)
२.२०ख कृताष्टशून्यज्वलना नगाद्रिशशिवह्नयः //(३०८४, ३१७९)

२.२१क षट्पञ्चलोचनगुणाश् चन्द्रनेत्राग्निवह्नयः /(३२५६, ३३२१)
२.२१ख यमाद्रिवह्निज्वलना रन्ध्रशून्यार्नवाग्नयः //(३३७२), ३४०१)

२.२२क रूपाग्निसागरगुणा वस्वग्निकृतवह्नयः /(३४३१, ३४३८)
२.२२ख प्रोज्झ्योत्क्रमेण व्यासार्धाद् उत्क्रमज्यार्धपिण्डिकाः //

२.२३क मुनयो रन्ध्रयमला रसषट्का मुनीश्वराः /(७, २९, ६६, ११७)
२.२३ख द्व्यष्टैका रूपषड्दस्राः सागरार्थहुताशनाः /(१८२, २६१, ३५४)

२.२४क खर्तुवेदा नवाद्र्यर्था दिङ्नागास् त्र्यर्थकुञ्जराः /(४६०, ७१०, ८५३)
२.२४ख नगाम्बरवियच्चन्द्रा रूपभूधरशङ्कराः //(१००७, ११७१)

२.२५क शरार्णवहुताशैका भुजङ्गाक्षिशरेन्दवः /(१३४५, १५२८)
२.२५ख नवरूपमहीध्रैका गजैकाङ्कनिशाकराः //१७१९, १९१८)

२.२६क गुणाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः /(२१२३, २३३३)
२.२६ख वस्वर्णवार्थयमलास् तुरङ्गर्तुनगाश्विनः //(२५४८, २७६७)

२.२७क नवाष्टनवनेत्राणि पावकैकयमाग्नयः /(२९८९, ३२९३)
२.२७ख गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाः //(३४३८)

२.२८क परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दवः /(१३९७)
२.२८ख तद्गुणा ज्या त्रिजीवाप्ता तच्चापम् क्रान्तिर् उच्यते //(C इष्यते)

२.२९क ग्रहम् सम्शोध्य मन्दोच्चात् तथा शीघ्राद् विशोध्य च /
२.२९ख शेषम् केन्द्रपदम् तस्माद् भुजज्या कोटिर् एव च //(C केन्द्रम् पदम्)

२.३०क गताद् भुजज्या विषमे गम्यात् कोटिः पदे भवेत् /
२.३०ख *युग्मे तु गम्याद् बाहुज्या कोटिज्या तु गताद् भवेत् //(C समे)

२.३१क लिप्तास् तत्त्वयमैर् भक्ता *लब्धम् ज्यापिण्डिकम् गताम् /(C लब्धा ज्यापिण्डिका गताः)
२.३१ख गतगम्यान्तराभ्यस्तम् विभजेत् तत्त्वलोचनैः //(२२५)

२.३२क तदवाप्तफलम् योज्यम् ज्यापिण्डे *गतसम्ज्ञके /(C गतसम्ज्ञिते)
२.३२ख स्यात् क्रमज्याविधिर् अयम् उत्क्रमज्यास्व् अपि स्मृतः //

२.३३क ज्याम् *प्रोज्झ्य शेषम् तत्त्वाश्विहतम् तद्विवरोद्धृतम् /(C प्रोज्झ्यान्यत्तत्त्वयमैर् हत्वा)(२२५)
२.३३ख सम्ख्यातत्त्वाश्विसम्वर्गे *सम्योज्य धनुर् उच्यते //(C सम्योज्यम्) (२२५)

२.३४क रवेर् मन्दपरिध्यम्शा मनवः शीतगो रदाः / (१४, ३२)
३.३४ख युग्मान्ते विषमान्ते तु नखलिप्तोनितास् तयोः //

२.३५क युग्मान्ते +अर्थाद्रयः *खाग्निसुराः सूर्या नवार्णवाः /(C खाग्निः सुरास्)(७५, ३०, ३३, १२, ४९)
२.३५ख ओजे द्व्यगा वसुयमा रदा रुद्रा गजाब्दयः //

२.३६क कुजादीनाम् *अतः शीघ्रा युग्मान्ते +अर्थाग्निदस्रकाः /(C ततश् शैघ्र्या)(२३५)
२.३६ख गुणाग्निचन्द्राः *खनगा द्विरसाक्षीणि गो+अग्नयः //(C खागाश् च)(१३३, ७०, २६२, ३९)

२.३७क ओजान्ते *द्वित्रियमला द्विविश्वे यमपर्वताः /(C द्वित्रिकयमाः)(१३२, ७२)
२.३७ख खर्तुदस्रा वियद्वेदाः शीघ्रकर्मणि कीर्तिताः //(२६०,४०)

२.३८क ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धृता /
२.३८ख *युग्मे वृत्ते धनर्णम् स्याद् ओजाद् ऊनाधिके स्फुटम् // (C युग्मवृत्ते)

२.३९क तद्गुणे भुजकोटिज्ये भगणाम्शविभाजिते /
२.३९ख तद्भुजज्याफलधनुर् मान्दम् लिप्तादिकम् फलम् //

२.४०क *शैघ्र्यम् कोटिफलम् केन्द्रे मकरादौ धनम् स्मृतम् /(C शैघ्रे)
२.४०ख सम्शोध्यम् तु *त्रिजीवायाम् कर्क्यादौ कोटिजम् फलम् //(C त्रिजीवातः)

२.४१क तद्बाहुफलवर्गैक्यान् मूलम् कर्णश् चलाभिधः /
२.४१ख त्रिज्याभ्यस्तम् भुजफलम् चलकर्णविभाजितम् //

२.४२क लब्धस्य चापम् लिप्तादिफलम् *शैघ्र्यम् इदम् स्मृतम् / (C शैघ्रम्)
२.४२ख एतद् आद्ये कुजादीनाम् चतुर्थे चैव कर्मणि //

२.४३क मान्दम् कर्मैकम् अर्केन्दोर् भौमादीनाम् अथोच्यते /
२.४३ख *शैघ्र्यम् मान्दम् पुनर् मान्दम् शैघ्र्यम् चत्वार्य् अनुक्रमात् //(C शैघ्रम्)

२.४४क मध्ये शीघ्रफलस्यार्धम् मान्दम् अर्धफलम् तथा /
२.४४ख मध्यग्रहे *मन्दफलम् सकलम् शैघ्र्यम् एव च //(C पुनर् मान्दम्)


२.४५क अजादिकेन्द्रे सर्वेषाम् *शैघ्र्ये मान्दे च कर्मणि /(C मान्दे शैघ्रे)
२.४५ख धनम् ग्रहाणाम् लिप्तादि तुलादाव् र्णम् एव च //

२.४६क अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिर् विभाजिता /
२.४६ख भचक्रकलिकाभिस् तु लिप्ताः कर्या ग्रहे +अर्कवत् //

२.४७क स्वमन्दभुक्तिसम्शुद्धा मध्यभुक्तिर् निशापतेः /
२.४७ख दोर्ज्यान्तरादिकम् कृत्वा भुक्ताव् ऋणधनम् भवेत् //

२.४८क ग्रहभुक्तेः फलम् कार्यम् ग्रहवन् मन्दकर्मणि /
२.४८ख दोर्ज्यान्तरगुणा भुक्तिस् तत्त्वनेत्रोद्धृता पुनः // (२२५)

२.४९क स्वमन्दपरिधिक्षुण्णा भगणाम्शोद्धृता कलाः /]
२.४९ख कर्क्यादौ तु धनम् तत्र मकरादाव् ऋणम् स्मृतम् //

२.५०क मन्दस्फुटीकृताम् भुक्तिम् प्रोज्झ्य शीघ्रोच्चभुक्तितः /
२.५०ख तच्छेशम् विवरेणाथ हन्यात् त्रिज्यान्त्यकर्णयोः //

२.५१क चलकर्णहृतम् भुक्तौ कर्णे त्रिज्याधिके धनम् /
२.५१ख ऋणम् ऊने +अधिके प्रोज्झ्य शेषम् वक्रगतिर् भवेत् //

२.५२क दूरस्थितः स्वशीघ्रोच्चाद् ग्रहः शिथिलरश्मिभिः /
२.५२ख सव्येतराकृष्ततनुर् भवेत् वक्रगतिस् तदा //

२.५३क कृतर्तुचन्द्रैर् वेदेन्द्रैः शून्यत्र्येकैर् गुणाष्टभिः /(१६४, १४४, १३०, ८३)
२.५३ख शररुद्रैश् चतुर्थेषु केन्द्राम्शैर् भूसुतादयः //(११५)

२.५४क भवन्ति वक्रिणस् तैस् तु स्वैः स्वैश् चक्राद् विशोधितैः /
२.५४ख अवशिष्टाम्शतुल्यैः स्वैः केन्द्रैर् उज्झन्ति वक्रताम् //

२.५५क महत्त्वाच् छीघ्रपरिधेः सप्तमे भृगुभूसुतौ /
२.५५ख अष्टमे जीवशशैजौ नवमे तु शनैश्चरः //

२.५६क कुजार्किगुरुपातानाम् ग्रहवच् छीघ्रजम् फलम् /
२.५६ख वामम् तृतीयकम् मान्दम् बुधभार्गवयोः फलम् //

२.५७क स्वपातोनाद् ग्रहाज् जीवा शीघ्राद् भृगुजसौम्ययोः /
२.५७ख विक्षेपघ्न्य् अन्त्यकर्णाप्ता विक्षेपस् त्रिज्यया विधोः //

२.५८क विक्षेपापक्रमैकत्वे क्रान्तिर् विक्षेपसम्युता /
२.५८ख दिग्भेदे वियुता स्पष्टा भास्करस्य यथागता //

२.५९क ग्रहोदयप्राणहता खखाष्टैकोद्धृता गतिः /
२.५९ख चक्रासवो लब्धयुता स्वाहोरात्रासवः स्मृताः //

२.६०क क्रान्तेः क्रमोत्क्रम्मज्ये द्वे कृत्वा तत्रोत्क्रमज्यया /
२.६०ख हीना त्रिज्या दिनव्यासदलम् तद्दक्षिणोत्तरम् //

२.६१क क्रान्तिज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता /
२.६१ख त्रिज्यागुणाहोरात्रार्धकर्णाप्ता चरजासवः //

२.६२क तत्कार्मुकम् उदक्क्रान्तौ *धनशनी पृथक्स्थिते /(C धनहानी)
२.६२ख स्वाहोरात्रचतुर्भागे दिनरात्रिदले स्मृते //

२.६३क याम्यक्रान्तौ विपर्यस्ते द्विगुणे तु दिनक्षपे /
२.६३ख विक्षेपयुक्तोनितया क्रान्त्या भानाम् अपि स्वके //

२.६४क भभोगो +अष्टशतीलिप्ताः खाश्विशैलास् तथा तिथेः /
२.६४ख ग्रहलिप्ताभभोगाप्ता भानि भुक्त्या दिनादिकम् //

२.६५क रवीन्दुयोगलिप्ताभ्यो योगा भभोगभाजिताः /
२.६५ख गता गम्याश् च षष्टिघ्न्यो भुक्तियोगाप्तनाडिकाः //

२.६६क अर्कोनचन्द्रलिप्ताभ्यस् तिथयो भोगभाजिताः /
२.६६ख गता गम्याश् च षष्टिघ्न्यो नाड्यो भुक्त्यन्तरोद्धृताः //

२.६७क ध्रुवाणि शकुनिर् नागम् तृतीयम् तु चतुष्पदम् /
२.६७ख किम्स्तुघ्नम् तु चतुर्दश्याः कृष्णायाश् चापरार्धतः //

२.६८क बवादीनि ततः सप्त चराख्यकरणानि च /
२.६८ख मासे +अष्टकृत्व एकैकम् करणानाम् प्रवर्तते //

२.६९क तिथ्यर्धभोगम् सर्वेषाम् करणानाम् प्रकल्पयेत् /

२.६९ख एषा स्फुतगतिः प्रोक्ता सूर्यादीनाम् खचारिणाम् //

सूर्यसिद्धान्त अनुक्रमणिका

संबंधित कड़ियाँ सम्पाद्यताम्

बाहरी कड़ियाँ सम्पाद्यताम्