← अध्यायः १० अहिर्बुध्नसंहिता
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →
अहिर्बुध्नसंहितायाः अध्यायाः


शब्दात्मकप्रमामव्यूहनिरूपणं नाम एकादशोऽध्यायः

नारदः----
1नमः समस्तगीर्वाणसुखसौभाग्यदायिने।
शंकराय गिरीशाय गौरीदयित ते नमः ।। 11.1 ।।
शब्दात्मकप्रमाणप्रश्नः
श्रुतः प्रमाणरूपोऽयं व्यूहार्थो यन्मयाखिलः।
शब्दाकारो य उद्दिष्टस्तं मे वद 2सुरेश्वर ।। 11.2 ।।
तत्प्रतिविवक्षयोपोद्धातः
अहिर्बुध्न्यः---
आदिसर्गे पुरावृत्ते नानाभावविभूषिते।
आसीच्छक्तिमतो विष्णोरियं चिन्ता सुखोदया ।। 11.3 ।।
आदिसर्गे भगवतश्चिन्ताप्रकारः
विपुलेयं कृता सृष्टिर्मया सत्त्वगुणोत्तरा।
प्रत्यसर्वधर्मार्था 3निराबाधा सुखोत्तरा ।। 11.4 ।।
प्रजेयमभिनिर्वृत्ता 4देवर्षिब्रह्मसंकुला।


1.नमः सर्वज्ञ गीर्वाणशुभ A B C E F J
2.महेश्वर D
3.निरायासा D
4.देवब्रह्मर्षि D



सत्त्वविवृद्ध्या परमपुरुषप्राप्तिपूर्वकं स्वरूपाविर्भावः
तत्त्वज्ञानसमायोगात् सद्धर्मकरणादिपि ।। 11.5 ।।
अचिरेणैव मां प्राप्य स्वीयं भावं भजिष्यते।
रजस्तमोविवृद्ध्या सत्त्वह्रासः
रजस्तमोगुणोद्रेकः 5कालेनैव भविष्यति ।। 11.6 ।।
तदुन्मेषवशेनैव सत्त्वमप्युपचोष्यते।
तदा दैत्याद्याविर्भावः
तदा प्रादुर्भविष्यन्ति दैत्यदानवराक्षसाः ।। 11.7 ।।
तैर्वैदिकमर्यादाविलोपनम्
तैरियं सात्त्विकी दिव्या मर्यादा चालयिष्यते।
ज्ञानप्रमोषात् धर्मतिरोधानम्
रजस्तमोगुणोन्मेषात् सम्यग्ज्ञाने विनाशिते ।। 11.8 ।।
ज्ञानहेतुः स धर्मोऽपि तिरोधानं गमिष्यति।
ततः प्रजाक्षोभः
ततश्चेयमनाधारा प्रजाशुद्धा विनङ्क्ष्यति ।। 11.9 ।।
तदा भगवदवताराणां लब्धावकाशता
तत्र रूपैरनेकैर्मे कृत्यं शश्वद्भविष्यति।


5.कालेन तु D


तेषूपकरणापेक्षा नानाकारा भविष्यति ।। 11.10 ।।
धर्मस्थापननिश्चयः
आविश्याविश्य भूतानि स्वेन रूपेण मायया।
तैस्तैः साधनसंभेदैर्निरस्य सुकृतद्विषः ।। 11.11 ।।
सुकरा धर्ममर्यादा तत्र तत्र भविष्यति।
अधर्मनिराससाधनद्वैविध्यम्
साधनं च द्विधा कार्यं धर्मद्वेषिनिराकृतौ ।। 11.12 ।।
शश्त्रास्त्रव्यूहरूपेण शास्त्ररूपेण चैव हि।
भगवत्संकल्पात् तदुभयोत्पत्तिः
6इत्युक्त्वार्थत्वरूपं हि शस्त्रास्त्रौघसमाकुलम् ।। 11.13 ।।
व्यूहं ससर्ज संकल्प्य स्वेन संकल्पतेजसा।
स च सौदर्शनो व्यूहो मर्यादाधारणक्षमः ।। 11.14 ।।
प्रमाणरूप उद्धिष्टो वक्ष्यते च तथा तथा।
7प्रमाणरूपशास्त्रार्थः संकल्पो वैष्णवो हि यः ।। 11.15 ।।
उदितो ब्रह्मणस्तस्माद्यथा तदवधारय।
आदिशास्त्रस्वरूपवर्णनम्
संकल्पमयमेवैकं 8सकलान्तस्तमोनुदम् ।। 11.16 ।।


6.इत्युक्तार्थस्वरूपं स शब्दशस्त्रौघसंकुलम् A B C; शब्दशास्त्रौघ E.F
7. प्रमाणरूपशास्त्रात्मा A B C F; प्रमाणरूपः शास्त्रार्थः E
8.संकल्पं तत्तमोनुदम् A B C E F J


निर्घातशब्दवद्व्योम्नः शास्त्रमेकमभूत् तदा।
वर्णार्थैः संभृतैर्वर्णैश्चिदानन्दमहोर्मिभिः ।। 11.17 ।।
विष्णुशक्तिसमुद्रोत्थैर्मणिभिर्मौक्तिकैरिव।
प्रोतं सौदर्शनं रूपं विष्णोः संकल्पकल्पितम् ।। 11.18 ।।
तद्विज्ञानमयं शास्त्रं सद्धर्मप्रतिपादकम्।
नियुताध्यायि यत् प्रोक्तं कामपालेन शाश्वतम् ।। 11.19 ।।

तस्य सर्वशास्त्रार्थगर्भितत्वम्
पुरुषार्थैश्चतुर्भिस्तदन्वितं हेतुसंकुलम्।
ऋग्यजुःसामभिर्जुष्टमङ्गिरोभिरथर्वभिः ।। 11.20 ।।
पदवाक्यप्रमाणार्थैर्विकल्पैर्बहुभिश्चितम्।
अलंकृतं शुभैस्तैस्तैः समयैर्दिव्यमानुषैः ।। 11.21 ।।
तैस्तैर्विकल्पितैः कल्पैश्छन्दोभिर्विविधैर्वृतम्9 ।
कालोपग्रहसंख्याभिः प्रकृतिप्रत्ययैः स्वरैः ।। 11.22 ।।
विभक्तिकारकैर्लिङ्गैः 10स्वैरैः प्रकृतिसन्धिभिः।
संज्ञाभिः साधिकाराभिर्भूषितं परिभाषया ।। 11.23 ।।
आदेशैरागमैर्लोपैर्विकारैश्चाप्युपाधिभिः।
वृत्तिभिर्विविधाभिश्च वाक्यैरुपपदैरपि ।। 11.24 ।।


9.स्मृतम् A B C E F.
10.रूपैः E F J


अव्ययैरुपसर्गैश्च नामाख्यातनिपातकैः11।
मात्रावृत्तिस्वरबलैरभिनिष्टानसामभिः ।। 11.25 ।।
यमरङ्गविभागैश्च भूषितं पदभङ्गिभिः।
वर्णागमविकल्पैश्च तथा वर्णविपर्ययैः ।। 11.26 ।।
कल्पनाभिश्च 12लघ्वीभिर्विकृतेः प्रकृतेरपि।
निरुक्तकल्पैर्विविधैर्नानानिगमनैरपि ।। 11.27 ।।
13ग्रहनक्षत्रराशिस्थैर्विकल्पैर्गणनोत्थितैः।
होरास्कन्धविकल्पैश्च विधानैः फलकल्पितैः ।। 11.28 ।।
विध्यर्थवादमन्त्रोत्थैर्विचारैः 14कर्मकल्पनैः।
अङ्गयुक्तिक्रमोहैश्च तन्त्रवापातिदेशनैः ।। 11.29 ।।
अधिकारैरनेकैश्च विचारैर्वाक्यगोचरैः।
प्रमाणकल्पितैर्न्यायैर्निग्रहच्छलजातिभिः ।। 11.30 ।।
द्रव्यकर्मविकल्पैश्च गुणसामान्यकल्पनैः15।
चातुर्होत्रविकल्पैश्च चातुर्वैद्यविजृम्भितैः16 ।। 11.31 ।।
चातुराश्रम्यकल्पैश्च चातुर्वर्ण्यविकल्पितैः।
संस्कारकल्पैर्विविधैर्नितद्यकाम्यक्रियाक्रमैः ।। 11.32 ।।
इतिहासपुराणाभ्यां विविधाभ्यां समन्वितम्।
विविधैस्च प्रसंख्यानैः स्वप्रकृत्यादिकल्पितैः ।। 11.33 ।।


11.निपातनैः A
12.बह्वीभिः A B C J; लध्वीभिः प्रकृतेर्विकृतेरपि D
13.ग्रहनक्षत्रराशीभिः A B C E F J
14.मन्त्रकल्पनैः B C D
15.कल्पितैः D.J.
16.विकल्पितैः A B C E F


पुमीश्वरविकल्पैश्च परिणामविकल्पितैः।
अवस्थालक्षणव्याख्याधर्मक्लृप्तिविचित्रितम्17 ।। 11.34 ।।
प्रमाणानां ससर्गाणां नानाकल्पनयान्वितम्।
18लेपालेपविचारैश्च पुरुषाव्यक्तगोचरैः ।। 11.35 ।।
तत्त्वातात्त्विककल्पैश्च नानागतिविचिन्तनैः।
मुक्तिक्रमविचारैश्च ख्यातिकल्पैरनेकशः ।। 11.36 ।।
ज्ञानाज्ञानसमाख्यातगुणदोषविचारणैः।
गुणत्रयविकल्पैश्च 19सर्गसंयोगचिन्तनैः ।। 11.37 ।।
20अन्वितं विविधैः सांख्यैः प्रसंख्यानकृतक्रमैः।
योगप्रकारकल्पैश्च वृत्तीनां कल्पनैरपि ।। 11.38 ।।
अभ्यासकल्पैर्विविधैश्चातुर्वैराग्यकल्पनैः।
अन्तरङ्गबहिर्भूतयोगाङ्गपरिचिन्तनैः ।। 11.39 ।।
क्लेशकर्मविपाकानामाशयानां च वर्णनैः।
तापसंस्कारचिन्ताभिर्दुःखभेदविचिन्तनैः ।। 11.40 ।।
तैस्तैश्चतुरधिष्ठानकल्पनैः 21कल्पितं पृथक्।
उपादेयस्य हेयस्य हानोपादानयोरपि ।। 11.41 ।।
स्वरूपचिन्तनैश्चित्रैर्भोगकामविकल्पनैः22।


17.कर्मक्लृप्तिविचित्रितम् A B C; धर्मकल्पविचित्रितम् J
18.तावत्तावद्विचारैश्च J.
19.परिणामविकल्पनैः D
20.आस्थितम् D
21.परिकल्पितम् B C
22.योगकार्मावकल्पनैः D


क्रियायोगैरनेकैश्च चित्तसंस्कारसाधनैः ।। 11.42 ।।
सिद्धिभिश्च विचित्राभिश्चित्तस्थाभिरलंकृतम्।
पतिपाशपशुव्याख्याविकल्पैर्हेतुचित्रितैः ।। 11.43 ।।
शुद्धाध्वकल्पनाभिश्च क्रियाज्ञानविभेदतः।
अर्थपञ्चकचिन्ताभिरनेकाभिरलंकृतम् ।। 11.44 ।।
शक्तिपञ्चकचिन्ताभिर्मलत्रयविचारणैः।
भोगोपकारणाख्यानैः पुंसां रूपविकल्पनैः ।। 11.45 ।।
दीक्षाप्रतिष्ठाकल्पैश्च धर्मैः पाशुपतैरपि।
इति नानाविधाकारबुद्धिकल्पविचित्रया ।। 11.46 ।।
युक्तं कल्पनया शश्वत् क्लृप्तनानाधिकारया।
अधिकारेण सद्धर्मान् व्याचक्षाणमनेकधा ।। 11.47 ।।
नियुताध्यायकं पूर्वमासीत् संकर्षणोदितम्।
संकल्पमयमाद्यस्य विष्णोः संकल्पजात् किल ।। 11.48 ।।

तस्य शास्त्रस्य भगवत्प्रीतिहेतुत्वम्
तेन शास्त्रेण ते दिव्या मनवो मानवाश्च ते।
ये प्रोक्ता आदिसर्गे ते तथा मानवमानवाः ।। 11.49 ।।
23सत्क्रियाभिरनल्पाभिर्नारायणमतोषयन्।

तस्य शास्त्रस्य मन्दप्रचारता
अथ कालविपर्यासाद्युगभेदसमुद्भवे ।। 11.50 ।।


23. सत्क्रियाभिरकल्पाभिः D.



त्रेतादौ सत्त्वसंकोचाद्रजसि प्रविजृम्भिते।
कामं कामयमानेषु ब्राह्मणेषु महात्मसु ।। 11.51 ।।
मन्दप्रचारमासीत् तच्छासनं यत् सुदर्शनम्।

वाच्यायनादिभिस्तच्छास्त्रविभजनम्
ततो मोहाकुले लोके लोकतन्त्रविधायिनः ।। 11.52 ।।
संभूय लोककर्तारः कर्तव्यं समचिन्तयन्।
अपान्तरतपा नाम मुनिर्वाक्संभवो हरेः ।। 11.53 ।।
कपिलश्च पुराणर्षिरादिदेवसमुद्भवः।
हिरण्यागर्भो लोकादिरहं पशुपतिः शिवः ।। 11.54 ।।
एते तप्त्वा तपस्तीव्रं वर्षाणामयुतं शतम्।
आदिदेवमनुज्ञाप्य देवदेवेन चोदिताः ।। 11.55 ।।
सुदर्शनस्य लेशेन तत्संकल्पेन संयुताः।
विज्ञानबलमासाद्य 24धर्माद्देवप्रसादजात् ।। 11.56 ।।
आविर्भूतं तु तत्छास्त्रमंशतस्ते ततक्षिम।

तत्र वाच्यायनेन वेदविभजनम्
ततक्ष भगवान्पूर्वमपान्तरतपा मुनिः ।। 11.57 ।।
हरेर्वाच्यायनः 25पुत्रो यावदात्तं च वै ततः।
उदभूत् तत्र धीरूपमृग्यजुः सामसंकुलम् ।। 11.58 ।।
विष्णुसंकल्पसंभूतमेतद्वाच्यायनेरितम्।


24.धर्मं देवप्रसादजम् D.
25.वात्स्यायनः B C D


कपिलेन सांख्यविभजनम्
ततक्ष कपिलः शास्त्राद्यावदंशमुदारधीः ।। 11.59 ।।
तत् सांख्यम भवच्छास्त्रं प्रसंख्यानपरायणम्।

हिरण्यगर्भेण योगसास्त्रविभजनम्
हिरण्यगर्भो लोकादिर्यत् ततक्षादिशासनात् ।। 11.60 ।।
यमाद्यङ्गमभूदेतद् दिव्यं योगानुशासनम्।

शिवेन पाशुपतविभजनम्
अहं ततक्ष यच्छास्त्रादंशान्नानाव्रताकुलात् ।। 11.61 ।।
अभूत् पाशुपताख्यं तत् पशुपाशविमोचनम्।

भगवता पाञ्चरात्रविभजनम्
सदागममयात् तस्मात् केवलाद् दिव्यशासनात् ।। 11.62 ।।
निर्ममे सारमुद्धृत्य स्वयं विष्णुरसंकुलम्।
तत् परव्यूविभवस्वभावादिनिरूपणम् ।। 11.63 ।।
पञ्चरात्राह्वयं तन्त्रं मोक्षैकफललक्षणम्।
सुदर्शनाह्वयो योऽसौ संकल्पो वैष्णवः परः ।। 11.64 ।।
स स्वयं बिभिदे तेन पञ्चधा पञ्चवक्त्रगः26।

अध्यायार्थनिगमनम्
विष्णुसंकल्परूपोऽयं प्रमाणव्यूह ईरितः।
शस्त्रशास्त्रविभेदेन किं भूयः श्रोतुमिच्छसि ।। 11.65 ।।

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शब्दात्मकप्रमाणव्यूहनिरूपणं नामैकादशोऽध्यायः
आदितः श्लोकाः 683



26.वक्त्रशः E.J.