← अध्यायः २६ अहिर्बुध्नसंहिता
अध्यायः २७
[[लेखकः :|]]
अध्यायः २८ →
अहिर्बुध्नसंहितायाः अध्यायाः


धारकयन्त्रनिरूपणं नाम सप्तविंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ।।

वृत्तानुवादपूर्वकं धारकयन्त्रविषयकः प्रश्नः
नारदः---
कथितो यन्त्रराजस्य देवदेवस्य विस्तरः।
स्वरूपं साधनं चास्य प्रकारश्च फलं तथा ।। 27.1 ।।
अद्येदं श्रोतुमिच्छामि भगवन् परमेश्वर।
एतदत्यद्भूतं दिव्यं ध्रियते 1केन भूषणम् ।। 27.2 ।।
न चास्य 2धारणे शक्तिं कस्यचित् कलयाम्यहम्।
अतिशक्तितयास्येमं संशयं छेत्तुमर्हसि ।। 27.3 ।।

तत्प्रतिवचनारम्भः
अहिर्बुध्न्यः----
सत्यं न केनचिद्धर्तुं पार्यते तन्महाद्युति।
ऋते यन्त्रान्तरादस्माद्3 देवर्षे शक्तिशालिनः ।। 27.4 ।।
श्रृणु तस्य मुनिश्रेष्ठ स्वरूपं 4वीर्यमद्य वै।


1. येन A B C E F
2.भरणे D E F
3.तस्मात् B C E F
4.रूपमद्य वै D


प्रथमं माहेन्द्रमण्डलनिर्माणम्
प्रथणं मण्डलं कृत्वा माहेन्द्रं 5वसुधात्मकम् ।। 27.5 ।।
सर्वालंकारसंयुक्तं 6यन्त्रलाच्छनलाञ्छितम्।
तत्कोणेषु भूबीजाक्षरन्यासः
भौममेतस्य कोणेषु विन्यसेद् बीजमुत्तमम् ।। 27.6 ।।
शेषाद्यैरष्टभिर्नागैर्धार्यमाणं7 समन्ततः।
मण्डलप्राग्भागे सेषगुलिकयोर्न्यासः
प्राग्भागे मण्डलस्यास्य भीषणौ भीमलोचनौ ।। 27.7 ।।
विलिखेच्छेषगुलिकौ लोकयन्तौ परस्परम्।
दक्षिणभागे वासुकिशङ्खयोः
वासुकिं शङ्खपालं च वीक्षमाणौ परस्परम् ।। 27.8 ।।
पक्षिणस्यां दिशि तथा विन्यसेदस्य साधकः।
पश्चिमे तक्षकमहाम्बुजयोः
पश्चिमायां 8लिखेदेवं तौ तक्षकमहाम्बुजौ ।। 27.9 ।।
उत्तरभागे कार्कोटकाम्बुजयोः
कार्कोटकं चाम्बुजं च लिखेदुत्तरतो मुने।
तस्य मध्ये महाज्वालामालावर्तविराजितम् ।। 27.10 ।।


5. वा सुधात्मकम् D
6.वज्रलाञ्छन A B C
7.वार्यमाणम् D
8.लिखेन्नाभौ तक्षकं महाम्बुजम् D


मध्ये वह्निमण्डलकल्पना
कोणषट्कयुतं वह्निमण्डलं बीजसंयुतम्।
तन्मध्ये वायुमण्डलविन्यासः
समालिख्य च तन्मध्ये वायव्यं मण्कडलं लिखेत् ।। 27.11 ।।
वर्तुलं बिन्दुसंयुक्तं तद्बीजेन समन्वितम्।
तन्मध्ये दशारचक्रलेखनम्
तन्मध्ये चक्रमतुलं प्रोज्ज्वलन्नेमिमण्डलम् ।। 27.12 ।।
अरैर्दशभिराकीर्णं विन्यसेदरिमर्दनम्।
अरेषु सुदर्शननारसिंहमन्त्रन्यासः
मन्त्रं सौदर्शनस्यास्य नारसिंहस्य विन्यसेत् ।। 27.13 ।।
द्वाभ्यां द्वाभ्यां तु वर्णाभ्यामरेषु नवसु क्रमात्।
दशमे हनशब्दं तु विन्यसेदरकेऽस्य वै ।। 27.14 ।।
चक्रमध्ये अष्टदलपद्मलेखनम्
चक्रमध्ये न्यसेत् पद्मं दलैरष्टभिरन्वितम्।
कर्णिकाघटितं रम्यं केसरैरुपशोभितम् ।। 27.15 ।।
कर्णिकायां प्रणवन्यासः
तत्कर्णिकायां विलिखेत् तारं संसारतारकम्।
तत्रैवाभीष्टर्थसाध्यनाम्नोर्विलेखनम्
अभीष्टमर्थं साध्यस्य नामधेयमतः परम् ।। 27.16 ।।
एवंभूतेन धारकयन्त्रेण सकलार्थसिद्धिः
तदेतत् परमं दिव्यं मङ्गलानां च मङ्गलम्।
पवित्राणां पवित्रं च 9चोरपीडानिवारणम् ।। 27.17 ।।
सर्वार्थसाधकं घोरं 10विश्ववन्द्यमनुत्तमम्।
यन्त्रेणानेनेन्द्रस्य शत्रुजयप्राप्तिः
पुरा देवेषु दैतेयैरभिभूतेषु वासवः ।। 27.18 ।।
11बृहस्पतिं समाहूय प्रोवाचेदं वचस्तदा।
बाधन्ते नितरामस्मानिमे दैतेयदानवाः ।। 27.19 ।।
केनोपायेन भगवन् विजेष्यामो महासुरान्।
बलहानिः कथं वैषां भविता भगवन् वद ।। 27.20 ।।
एवं मघवता प्रोक्तः प्रोवाचेदं बृहस्पतिः।
12सौदर्शननृसिंहस्य यन्त्रस्य करणादिह ।। 27.21 ।।
नश्यन्ति शत्रवः सर्वे सुराणां बलसूदन।
इत्युक्त्वा स्थापयामास यन्त्रं मघवतः पुरे ।। 27.22 ।।
मणिविद्रुममुक्ताढ्यं सौवर्णममितप्रभम्।
ततः प्रभृति दैतेया नष्टश्रीका हतत्विषः ।। 27.23 ।।
पराजिता विद्रवन्ति दिशो नष्टनिकेतनाः ।
तदेतदतिवीर्यं तु यन्त्रं सुरसुपूजितम् ।। 27.24 ।।


9. चोरव्याधि D
10.विश्ववश्यम् D
11.बृहस्पतिमुपाहूय D
12.सौदर्शनेर्नृसिंहस्य A B C


अस्यैव यन्त्रस्य पूर्वोक्तमहासुदर्शनयन्त्रधारकत्वम्
तदेतेनैव यन्त्रेण यन्त्रं सौदर्शनं परम्।
धार्यते तत् सुरमुने विचित्रं विष्टरात्मना ।। 27.25 ।।
यन्त्रमेतन्मयाख्यातमेवं माहासुदर्शनम्।
धृतं यन्त्रेण वीर्यात्तु सुदर्शननृसिंहयोः ।। 27.26 ।।
राजन्वद्देशस्यैव यथोक्तयन्त्रभरणक्षमत्वम्
एतस्य तु विशिष्टस्य भरणे सैव भूः क्षमा।
यस्याः पालयिता राजा धार्मिको दृढविक्रमः ।। 27.27 ।।
देवद्विजगुरुप्राज्ञपूजकः परमास्तिकः।
राज्ञो नित्यमेतदभ्यर्चनविधिः
एतदभ्यर्चयेद्राजा चक्राकारमतन्द्रितः ।। 27.28 ।।
पुरुषाकारमपि वा तथैवोभयतोमुखम्।
एतन्मन्त्रप्रदातुर्विशेषतः पूज्यत्वम्
13एतन्मन्त्रप्रदातारं विशिष्टं पूजयेद् बुधः ।। 27.29 ।।
एतन्मन्त्रविधिना कर्षणादिप्रतिष्ठान्तकर्मविधिः
कर्षणादीनि कर्माणि प्रतिष्ठान्तान्यमुष्य तु।
एतन्मन्त्रोक्तमार्गेण कारयेन्नृपतिः स्वयम् ।। 27.30 ।।


13.एवं मन्त्रप्रदातैव D


तन्त्रस्यास्य सात्त्वतादिभिरेकतन्त्रत्वम्
सात्त्वतादिषु तन्त्रेषु विहितेनैव चाध्वना।
सुदर्शनस्य मन्त्रस्य नारसिंहस्य वा मुने ।। 27.31 ।।
कल्पप्रयुक्ता विधयः सर्वे चैतस्य संनिधौ।
भवन्ति सकलाश्चैतत्प्रभावेण प्रयोजिताः ।। 27.32 ।।
तस्माद्यथोक्तमार्गेण प्रतिष्ठाप्यैतदर्चयेत्।
राज्ञामेतदर्चनेन राज्यादिलाभः
राजा राज्यं 14जयं भूतिमायुरारोग्यमाप्नुयात् ।। 33 ।।
नित्यमर्चयतः फलविशेषः
नित्यमर्चयतो राज्ञः सप्तद्वीपवती मही।
15समुद्रवसना चैषा विश्वा वश्या भविष्यति ।। 27.34 ।।
होमार्थं प्रासादकुण्डयोर्निर्माणम्
16प्रासादं लक्षणोपेतं विधाय परमासनम्।
तत्रैव कारयेत् कुण्डं मन्त्रस्यास्य यथाविधि ।। 27.35 ।।
साधकेन तत्र होमादिनिर्वर्तनम्
भूपतेर्यानि कर्माणि 17साधयंस्तानि साधकः।
मन्त्रेणानेन जुहुयादस्मिन् कुण्डे समाहितः ।। 27.36 ।।


14.प्रियं A B C E F
15.ससमुद्रवना A B C E F
16.प्रसाद D; प्रसादं ल E F
17. साधयंस्तत्र A B C; साधयंस्तस्य E.F



वैकल्पिकप्रदेशान्तरविधिः
अनेनैव तु मन्त्रेण राज्ञो रक्षाविधिर्यदि।
विष्णोरायतने रम्ये 18मण्डपे मण्डितेऽथवा ।। 27.37 ।।
कृत्वैतत् कुण्डमत्रैव राजाभ्यर्च्य महाधनैः।
19एतन्मन्त्रप्रदातारं स्वकर्माण्येव कारयेत् ।। 27.38 ।।
पुनर्यन्त्रार्चनफलविशेषकथनम्
अनेन 20कृतकृत्यस्तु राजा राज्यमवाप्नुयात्।
नीरोगो निःसपत्नश्च दीर्घायुश्च भविष्यति ।। 27.39 ।।
नागैरनेकसाहस्रैरसंख्येयैश्च वाजिभिः।
स्यन्दनैर्नरवर्यैश्च पूर्णा तस्य पुरी भवेत् ।। 27.40 ।।
21यश्चैनमर्चयेद्राजा यन्त्रराजमनुत्तमम्।
सर्वमन्त्रविशिष्टत्वादर्चितास्तेन22 देवताः ।। 27.41 ।।
यदर्थं योऽर्चयेदेनमात्मार्थे यतते परम्।
सर्वेषामेव भूतानां राज्ञश्च कुरुते हितम् ।। 27.42 ।।
अस्मिन् मन्त्रे यन्त्रे च राज्ञामेवाधिकारः
अयं मन्त्रश्च यन्त्रं राज्ञामेव विधीयते।
सर्वसाधारणार्थानि मन्त्रजातानि नारद ।। 27.43 ।।


18.मण्डले D
19.एवं तत्र प्रदातारं स्वकर्मानेन कारयेत् D
20 कृतरक्षस्तु A B C E F
21. त्रिसंध्यमर्चयेद्क्त्या A B C E F
22.स्तस्य A B C E F


एतदभ्यर्चनपरा मन्त्रिणो यस्य भूपतेः।
अभिरक्षन्ति राजानमरिष्ठमुखतोऽपि ते ।। 27.44 ।।
एतत्प्रणामादीनामपि तत्तत्फलसाधनत्वम्

एतत्प्रणामेन समर्चनेन
संकीर्तनेन स्मरणेन वाऽपि।
संतोषयेत् संततमस्य सर्वं
मनीषितं हस्तगतं प्रपश्येत् ।। 27.45 ।।

अध्यायार्थनिगमनम्
इति निगदितमेतद्यन्त्ररूपं समन्त्रं
सकलदुरितभेदव्यापृतं संश्रितानाम्।
तदिह कृतविधेयो भूपतिः पूर्णकामो
भुवनतलमशेषं प्राप्नुयाच्चक्रवर्ती ।। 27.46 ।।

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां धारकयन्त्रनिरूपणं नाम सप्तविंशोऽध्यायः
आदितः श्लोकाः 1611
-------------******---------------