← अध्यायः ३१ अहिर्बुध्नसंहिता
अध्यायः ३२
[[लेखकः :|]]
अध्यायः ३३ →
अहिर्बुध्नसंहितायाः अध्यायाः

नाडीशुद्धिवायुजययोगाङ्गप्राणायामादिनिरूपणं नाम द्वात्रिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ।।
नाडीसंख्यास्थानादिप्रश्नः
नारदः---
नाडयः कति तिष्ठन्ति कीदृश्यः किंप्रमाणकाः।
क्व वर्तन्ते शरीरेऽस्मिन् कथमासां विशोधनम्।। 32.1 ।।

वायुसंख्यादिप्रश्नः
वायवः कति तिष्ठन्ति किंनामानश्च कीदृशाः।
कानि कर्माण्यमीषां 1तु तत् 2सर्वं वक्तुमर्हसि ।। 32.2 ।।

तदुत्तरकथनारम्भः
अहिर्बुध्न्यः---
तदेतत् परमं गुह्यं शृणुष्वानन्यमानसः।


1. च D; त्वं E F
2.सत्यं D


शरीरस्य षण्णवत्यङ्गुलपरिमाणत्वम्
शरीरं सर्वजन्तूनामङ्गुलीभिरनामयम् ।। 32.3 ।।
स्वाभिः स्वाभिः सुरमुने षण्णवत्यङ्गुलात्मकम्।
सरीरमध्यभागनिर्णयः
शरीरमध्यः क इति शुश्रूषा चेन्महामुने ।। 32.4 ।।
3श्रूयतां पायुदेशात्तु द्व्यङ्गुलात् परतः परम्।
मेढ्रदेशादधस्तात्तु द्व्यङ्गुलान्मध्य उच्यते ।। 32.5 ।।
शरीरस्थवह्निमण्डलस्वरूपम्
चतुष्कोणं त्रिकोणं तद् वृत्तमाग्नेयमण्डलम्।
चतुष्पदां नृणां चैव विहंगानां यथाक्रमम् ।। 32.6 ।।
नाडीमूलस्थानम्
मेढ्रान्नवाङ्गुलादूर्ध्वं नाडीनां 4कन्द उच्यते।
चतुरङ्गलमुत्सेधं चतुरङ्गुलमायतम् ।। 32.7 ।
अण्डाकारं परिवृतं मेदोमांसास्थिशोणितैः।
नाभिचक्रस्थानम्
तत्रैव नाभिचक्रं तु द्वादशारं प्रतिष्ठितम् ।। 32.8 ।।
शरीरं ध्रियते येन तस्मिन् वसति कुण्डली।
नाभिचक्रस्यारेषु सुदर्शनमन्त्रवर्णन्यासः
सौदर्शनस्य मन्त्रस्य यानि वर्णानि सन्ति वै ।। 32.9 ।।


3.स्नायुदेशात् परस्तात्तु D
4.कन्दम् A B C E F



विभज्य तानि सर्वाणि व्यञ्जनानि स्वरांस्तथा।
चक्रेऽस्मिन् विन्यसेत् तानि प्राच्याद्यारेषु च क्रमात् ।। 32.10 ।।
शिष्टाक्षराणां चक्रमध्ये न्यासः
शेषाणि विन्यसेन्मध्ये 5चक्रस्यास्य समाहितः।
नाभिचक्रं परितः कुण्डल्यवस्थितिः।
वर्तते परितश्चक्रमष्टवक्त्राथ कुण्डली ।। 32.11 ।।
अष्टप्रकृतिरूपेण भोगेनावेष्ट्य वैष्णवी।
ब्रह्मरन्ध्रं सुषुम्नायाः 6पिदधाति मुखेन वै ।। 32.12 ।।
चक्रमध्ये अलम्बुसासुषुम्नयोः स्थितिः
अलम्बुसा सुषुम्ना च मध्ये चक्रस्य तिष्ठतः।
अन्यासां द्वादशनाडीनां स्थानभेदाः
अरे प्राच्ये सुषुम्नायाः कुहूर्नाडी वसत्यसौ ।। 32.13 ।।
अनन्तरारयुग्मे च 7वारुणा च यशस्विनी।
दक्षिणारे सुषुम्नायाः पिङ्गला वर्तते क्रमात् ।। 32.14 ।।
तदन्तरयोः पूषा वर्तते च पयस्विनी।
सुषुम्नापश्चिमे चारे स्थिता नाडी सरस्वती ।। 32.15 ।।
शङ्खिनी चैव 8गान्धारी तदनन्तरयोः स्थिते।


5.चक्रनाभ्यां D
6.संदधाति D
7.वारणा D
8.गान्धारा D


उत्तरे च सुषुम्नाया इडाख्या निवसत्यरे ।। 32.16 ।।
अनन्तरं हस्तिजिह्वा ततो विश्वोदरा स्थिता।
प्रदक्षिणक्रमेणैव चक्रस्यारेषु नाडयः ।। 32.17 ।।
वर्तन्ते द्वादशस्वेता द्वादश ब्रह्मणः सुताः।
मुख्यानां चतुर्दशनाडीनां नामनि
इडा च पिङ्गला चैव सुषुम्ना च सरस्वती ।। 32.18 ।।
कुहुः पयस्विनी चैव 9वारुणा च यशस्विनी।
विश्वोदरा हस्तिजिह्वा 10गान्धारी शङ्किनी तथा ।। 32.19 ।।
अलम्बुसा च पूषा च 11मुख्यास्त्वेताश्चतुर्दश।
देहवर्तिनाडीसंख्या
द्विसप्ततिसहस्राणि12 नाडीनां देहवर्तिनाम् ।। 32.20 ।।
मुख्यास्तिस्रो नाड्यः
तासु तिस्रो मुख्यतमाः सुषुम्नेडा च पिङ्गला।
तास्वपि सुषुम्ना मुख्यतमा
तासां सुषुम्ना मुख्या स्यादामूर्धान्तं व्यवस्थिता ।। 32.21 ।।
जीवस्य नाडीचक्रे भ्रमणम्
प्राणारूढो भवेज्जीवश्चक्रेऽस्मिन् भ्रमते सदा।
ऊर्णनाभिर्यथा तन्तुपञ्जरान्तर्व्यवस्थितः ।। 32.22 ।।


9.वारणा D.
10.गान्धारा D.
11.उक्ताश्चैताः A B C E F
12.सहस्राणाम् D E F


सुषुम्नाया मध्यमरन्ध्रस्य कुण्डल्या पिधानम्
पञ्चरन्ध्र्याः सुषुम्नायाश्चत्वारो रक्तपूरिताः।
कुण्डल्या पिहितं शश्वद् ब्रह्मरन्ध्रं तु मध्यमम् ।। 32.23 ।।
नाडीनां परिमाणनिरूपणम्
प्राच्यः पार्श्वः सुषुम्नाया ललाटान्तं समुच्छ्रितः।
प्रतीच्यः कन्धरान्तस्तु द्वौ पार्श्वौ सव्यदक्षिणौ ।। 32.24 ।।
आ पार्श्वशिरसः प्राप्तौ गुह्यमेतदुदाहृतम्।
अलम्बुसाख्या नाडी स्यादापादान्तं व्यवस्थिता ।। 32.25 ।।
आमेढ्रान्तं कुहूः प्राप्ता 13वारुणा विश्वदेहगा।
आदक्षिणपदाङ्गुष्ठं संप्राप्ताथ यशस्विनी ।। 32.26 ।।
प्राप्ता दक्षिणनासान्तं पिङ्गलाख्या तु नाडिका।
पूषा पयस्विनी चैव दक्षिणाक्षिश्रुती गते ।। 32.27 ।।
जिह्वामूलममभिप्राप्ता नाडी नाम्ना सरस्वती।
शङ्खिनी वामकर्णं च 14गान्धारी वामलोचनम्।। 32.28 ।।
वामघ्राणं गता नाडी इडा नाम्नेति विश्रुता।
प्राप्ता वामपदाङ्गुष्ठं हस्तिजिह्वा तु नाडिका ।। 32.29 ।।
विश्वोदरोदरं प्राप्ता प्रोक्ता नाडीगतिर्मया।
इडापिङ्गलयोश्चन्दसूर्यावस्थितिः
इडायां वर्तते चन्द्रः पिङ्गलायां प्रभाकरः ।। 32.30 ।।


13.वारणा D
14.गान्धारा A B C F


द्वावेव कुरुतः कालं भुङ्क्ते तं ब्रह्मनाडिका।
शारीरवायुवृत्तान्तकथनम्
श्रूयतां वायुवृत्तान्तः शरीरान्तरवस्थितः ।। 32.31 ।।
शरीरे दश वायवः
प्राणापानसमानाश्चाप्युदानो व्यान एव च।
नागः कूर्मश्च कृकरो देवदत्तो धनंजयः ।। 32.32 ।।
प्राणादिवायूनां स्थाननिरूपणम्
सदा निवसति प्राणो नाभिचक्रे समीरणः।
15आस्यनासिकयोर्मध्ये हृदि प्राणः प्रकाशते ।। 32.33 ।।
अपानो वसति प्रायो गुदमेढ्रोरुजानुषु।
उदरे 16वृषणे कट्यां जङ्घानाभ्योः प्रदीपवत् ।। 32.34 ।।
गुदाग्न्यगारयोस्तिष्ठन् मध्येऽपानः प्रकाशते।
व्यानः श्रोत्राक्षिमध्ये च कृकाट्यां गुल्फयोरपि ।। 32.35 ।।
घ्राणे गले च स्फिग्देशे 17वसत्यत्र न संशयः।
उदानः सर्वसंधिस्थः पादयोर्हस्तयोरपि ।। 32.36 ।।
समानः सर्वगात्रेषु सर्वं व्याप्य व्यवस्थितः।
प्राणादीनां वृत्तिनिरूपणम्
निश्वासोच्छ्वासकादीनि प्राणकर्म इतीष्यते ।। 32.37 ।।


15.आस्यनाडिकयोः E
16.वङ्क्षणे B C
17.तिष्ठत्यत्र D


हानोपादनकर्मैव व्यानकर्मेति चेष्यते।
उदानकर्म तत् प्रोक्तं देहस्योन्नयनादिकम् ।। 32.38 ।।
पोषणादि समानस्य शरीरे कर्म कीर्तितम्।
उद्गरादिगुणो यस्तु नागकर्मेति चेरितम् ।। 32.39 ।।
निमीलनादि कूर्मस्य क्षुतं कृकरकस्य च।
देवदत्तस्य देवर्षे तन्द्रीकर्मेति चेरितम् ।। 32.40 ।।
धनंजयस्य शोफादि सर्वकर्म प्रकीर्तितम्।
एवं वायुगतिः सर्वा कर्म तेषां च कीर्तितम् ।। 32.41 ।।
नाडीशोधनविधिः
ततश्च सर्वनाडीनां कुर्याच्छोधनमात्मवान्।
तच्छोधनप्रकारः
इडया वायुमापूर्य बाह्यं षोडशमात्रकैः ।। 32.42 ।।
18धारयन्नुदरे वायुं मात्रा द्वात्रिंशतं ततः।
स्मरेत् स्वमणडले वह्निं तत्र रेफं सबिन्दुकम् ।। 32.43 ।।
नासाग्रे शशिनो बिम्बं स्मरेत् पीयूषवर्षिणम्।
स्मृत्वा चन्द्रे वकारं च सबिन्दुं रेचयेत् ततः ।। 32.44 ।।
पुनः पिङ्गलयापूर्य यथोक्तेनैव वर्त्मना।
19धृत्वा च मातरिश्वानमिडया रेचयेत् पुनः ।। 32.45 ।।
एवं त्रिसंध्यां त्रिः कृत्वा कुर्यान्नित्यं समाहितः।


18.धारयेदुदरे D.
19.स्मृत्वा A B



उक्तक्रमेण शोधयतो मासत्रयेण नाडीशुद्धिसिद्धिः
एवं नियमयुक्तस्य 20कुर्वतः सर्वनाडयः ।। 32.46 ।।
मासत्रयेण 21शुद्धाः स्युरिति योगविदो विदुः।
ततो वायुजयः
ततश्च मरुतां कुर्युर्विजयं देहवर्तिनाम् ।। 32.47 ।।
वायुजयान्मनसः स्थैर्यम्
ततश्च वायवो देहे यत्र यत्र वसन्ति वै।
तत्र तत्र मनःस्थैर्यं वह्निना सह नारद ।। 32.48 ।।
प्राणायामविधिः
प्राणायामं ततः कुर्यात् सर्वपापप्रणाशनम्।
शिखादिस्थानेषु मनोः षडक्षरन्यासः
22शिखास्थाने नाभिचक्रे हृदयाम्बुरुहे ततः ।। 32.49 ।।
23कण्ठकूपे भ्रुवोर्मध्ये जिह्वामूले तथैव च।
मनोः षडक्षराण्येषु क्रमेणैव विचिन्तयेत् ।। 32.50 ।।
प्राणायामप्रकारः
वायुं षोडशमात्राभिरिडयापूर्य चिन्तयेत्।
हृन्मध्ये परमात्मानं चक्ररूपिणमव्ययम् ।। 32.51 ।।


20. सर्वतः D
21. सिद्धाः D
22.शिखि D
23.कर्णकूपे B C


यावच्छक्रि जपेन्मन्त्रमिमं सौदर्शनं स्मरन्।
पुनः षोडशमात्राभी रेचयेत् पिङ्गलाह्वया24 ।। 32.52 ।।
अनया पुनरारोप्य धृत्वा चेतरया त्यजेत्।
पूरणे कुम्भके चैव रेचने प्रणवं जपेत् ।। 32.53 ।।
दश 25पञ्चाशतं चैव चतुर्दश शतं क्रमात्।
गायत्रीं यदि वा जप्त्वा कुर्यादुक्तेन वर्त्मना ।। 32.54 ।।
एवं प्रतिदिनं कुर्यात् प्राणायामांस्तु षोडश।
एते पुनन्ति मासेन महापातकिनं नरम् ।। 32.55 ।।
प्रत्याहारनिरूपणम्
प्रत्याहारं ततः कुर्यादङ्गैः पञ्चभिरन्वितम्।
स्वबावेनेन्द्रियार्थेषु प्रवृत्तं मानसं बुधैः ।। 32.56 ।।
तद्दोषदर्शनात् तेभ्यः समाहृत्य बलेन तु।
निवेशनं भगवति प्रत्याहार इति स्मृतः ।। 32.57 ।।
धारणानिरूपणम्
विषयेषु च वैराग्यादभ्यासाद् गुणदर्शनात्।
परमात्मनि संरोधो मनसो धारणा स्मृता ।। 32.58 ।।
ध्याननिरूपणम्
तदेवं धृतचित्तस्तु चक्ररूपं जनार्दनम्।
ध्यायीत नियतस्तस्मिन् युञ्जानः प्रथमं मनः ।। 32.59 ।।


24. ख्यया D
25. पञ्चशतं B C



वर्णाश्रमधर्माणं ध्यानेतिकर्तव्यतात्वम्
रमणीये शुचौ देशे विविक्ते सजले वने।
वर्णाश्रमोचिते धर्मे वर्तमानः प्रसन्नधीः ।। 32.60 ।।
शान्तः सर्वगुणोपेतः सममासनमास्थितः।
ऋजुकायः स्वनासाग्रन्थस्तदृग् भक्तिमान् हरौ ।। 32.61 ।।
प्राणायामोत्थितेनैव वायुना साग्निना मुखम्।
कुण्डल्यास्तु विनिर्भिद्य सुषुम्नामध्यवर्तिना ।। 32.62 ।।
विकास्य हृदयाम्भोजे तदाकाशे 26शिखास्पदे।
स्फुरद्वह्निशिकामध्ये चिन्तयेदद्भुताकृतिम् ।। 32.63 ।।
ध्यानालम्बनभूतध्येयस्वरूपनिरूपणम्
पिङ्गाक्षं पिङ्गकेशाढ्यं ज्वलज्ज्वलनतेजसम्।
दंष्ट्राकरालवदनं भ्रुकुटीभीमदर्शनम् ।। 32.64 ।।
27विद्युत्पुञ्जप्रतीकाशैरूर्ध्वकेशैर्विराजितम्28।
विचित्रानन्दमाणिक्यमुक्ताढ्यमुकुटोज्ज्वलम्29 ।। 32.65 ।।
30पूर्णचन्द्रप्रतीकाशमणिताटङ्कमण्डितम्।
31भुजाभिरष्टभिर्युक्तं 32रत्नाम्बरधरं विभुम् ।। 32.66 ।।
शङ्खचक्रगदाशार्ङ्गमुसलैः परमायुधैः।


26.अखिलास्पदे A B C E F
27.विद्युत्पिङ्ग A E F
28.प्रतीकाशकेशपाशविराजितम् D
29.सुमुक्तामुकुटोज्ज्वलम् A B
30.C. Gap from here up to the end of verse 39 in the next chapter
31.भुजैरष्टभिरायुक्तं D
32.रक्ताम्बर E F.


पाशाङ्कुशाम्बुजैरन्यैरुपेतं परदारुणैः ।। 32.67 ।।
दिव्यमाल्याम्बरधरं दिव्यचन्दनचर्चितम्।
हारकेयूरकटककाञ्चीमञ्जीरमण्डितम्33 ।। 32.68 ।।
अन्यैश्च विविधैश्चित्रैर्भूषणैरुपशोभितम्।
पद्मासनस्थं भक्तानां विश्वेषामभयप्रदम् ।। 32.69 ।।
एवं ध्यायन् विमुच्यते 34मुक्तः सकलकिल्बिषैः।
समाधिनिरूपणम्
35तदेवं स्मृतिसंतानजनितोत्कर्षणं36 क्रमात् ।। 32.70 ।।
37अर्थमात्रावभासं तु समाधिं योगिनो विदुः।

समाधिनिष्ठस्य महिमानुवर्णनम्
ततः समाधिमास्थाय तन्मयत्वमुपागतः ।। 32.71 ।।
तस्य प्रभावमखिलमश्नुते शक्तिशालिनः ।
अणिमादिगुणाः सर्वे भवन्त्यस्य महात्मनः ।। 32.72 ।।
निःसहायः सपत्नानामनीकानि बहून्यपि।
हिनस्त्येष यथा चक्रं चक्रं दैतेयरक्षसाम् ।। 32.73 ।।
मनीषितानि सर्वाणि स्वयमस्योपयान्ति वै।
सिद्धा विद्याधरा यक्षाः कैंकर्यं तस्य कुर्वते ।। 32.74 ।।
38देवाश्च ऋषयः सर्वे गन्धर्वाप्सरसां गणाः39।


33.काञ्चीगुणसमन्वितम् A B C
34.युक्तः
35.तदेव D
36.ज्वलितोत्कर्षणं D
37.अत्र मन्त्रावभासं तु A B
38.देवा महर्षयः E
39.सर्वे चाप्सरसां गणाः A B




तदाज्ञाकारिणः सर्वे पिशाचोरगराक्षसाः ।। 32.75 ।।
निखिलभुवनजन्मस्थेमभङ्गैकहेतु-
र्भवति सकलवेत्ता सर्वदृक् सर्वशक्तिः।
अभिमतबहुरूपो दैत्यरक्षांसि निघ्नन्
परिहृतपरिवारो वर्तते पूर्णकामः ।। 32.76 ।।
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां नाडीशुद्धिवायुजययोगाङ्गप्राणायामादिनिरूपणं नाम द्वात्रिंशोऽध्यायः
आदितः श्लोकाः 1948
-----------******--------------