← अध्यायः ३४ अहिर्बुध्नसंहिता
अध्यायः ३५
[[लेखकः :|]]
अध्यायः ३६ →
अहिर्बुध्नसंहितायाः अध्यायाः


संहारास्त्रस्वरूपनिरूपणं नाम पञ्चत्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि।।
संहारास्त्रस्वरूपप्रश्नः
नारदः---
भगवन् 1पूर्वमाख्यातं संहारास्त्राण्यशेषतः।
सुदर्शनस्यापराङ्गान्निर्जग्मुरिति चेश्वर ।। 35.1 ।।
तेषां स्वरूपविज्ञाने वर्तते मे कुतूहलम्।
वक्तुमर्हस्यशेषेण 2यदि सानुग्रहो मयि ।। 35.2 ।।
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः---
तदेतत् परमं गुह्यं पुरा 3नारायणेरितम्।
भक्तोषऽसीति तव स्नेहाद् वक्ष्यामि श्रृणु नारद ।। 35.3 ।।
1.सत्यवदस्त्रम्
लोहितोऽग्निसमायुक्तः खकड्गीशो भारभूतिमान्।
आषाढयुग्मं मुण्कडश्च मायी स्यात् खड्गनायकः ।। 35.4 ।।


1.सम्यगाख्यातम् B C; सर्वमाख्यातम् E F
2.तानि D
3.नारायणोदितम् E


साग्न्याषाढयुगं पश्चात् 4क्रोधीशं निर्दिशेत् ततः।
परमेष्ठिन्निति ब्रूयादथो ऋतमिति क्रमात् ।। 35.5 ।।
पिबेति सशिरोमन्त्रः 5सत्यवानिति विश्रुतः।
2.सत्यकीर्त्यस्त्रम्
तारं ततश्च हृदयं सत्यधाम्न इति क्रमात् ।। 35.6 ।।
शमयेति द्विरावृत्तं सत्यकीर्तिरिति स्मृतम्।
3. धृष्टास्त्रम्
अत्रिः सामरनाथश्च साग्निः प़ञ्चान्तकः 6स्मृतः ।। 35.7 ।।
महाकालश्च मज्जा च साग्निश्चोमापतिस्तथा।
प्रसादयेत्यथाभ्यस्तं धृष्टमस्त्रमिदं विदुः ।। 35.8 ।।
4. रभसास्त्रम्
क्रोधी पिनाकी मायी स्यात् खड्गी मायासमन्वितः।
अत्रिः पिनाकी मुण्डश्च दीर्घयुक्तो रसस्तथा ।। 35.9 ।।
7अग्निर्द्विरण्डश्च भृगुर्दीर्घो वाली ततः परम्।
नमोऽन्त एष मन्त्रस्तु रभसः परिकीर्तितः ।। 35.10 ।।
5.प्रतीहारतरास्त्रम्

तारं 8शिरोयुतं मन्त्रं प्रतीहारतरं विदुः।


4.क्रोधिनं D
5.सत्यवादीति D
6.तथा E F
7.अत्रिः D
8. शिरोमयं D


6. पराङ्मुखास्त्रम्
लोहितो 9वह्निसंयुक्तः स्तुतेति च पदं ततः ।। 35.11 ।।
स्तोभात्मने इति ब्रूयात् पराङ्मुख इति क्रमात्।
आयेति च हृदन्तं तु पराङ्मुखमुदाहृतम् ।। 35.12 ।।
7. अवाङ्मुखास्त्रम्
अमरेशस्तथात्रिश्च सवाल्याषाढनायकः।
विद्रावणायेति 10पदमवेति तदनन्तरम् ।। 35.13 ।।
नतेति च प्रयोक्तव्यं 11फलाय तदनन्तरम्।
शिरोयुक्तमिमं मन्त्रं मन्त्रिणोऽवाङ्मुखं विदुः ।। 35.14 ।।
8.लक्षाक्षास्त्रम्
नियुतापरपर्यायं 12भेदिने इत्यनन्तरम्।
निरासकेति चावृत्तं पदमायेति चेत्यथ ।। 35.15 ।।
हृदयान्तमिमं मन्त्रं लक्षाक्षं परिचक्षते।
9.विषमास्त्रम्
खड्गीशो मायया युक्तः कूर्मो मायासमन्वितः।। 35.16 ।।
आषाढो वह्निसहितो 13लोहितश्चाग्निसंयुतः।
भृगुः सदीर्घो वह्निश्च मर्षयेति द्विरभ्यसेत् ।। 35.17 ।।
एतद्विषममित्युक्तमस्त्रं परमदुर्जयम्।


9.बिन्दुसंयुक्तः D
10.पदं द्रवेति B C
11.फलायेत्यप्यनन्तरम् D
12.भेदेति इत्यनन्तरम् B.C; भेदेने तदनन्तरम् D
13. लोहितश्चात्रि D


10.दृढनाभास्त्रम्
शान्तिं पदं न्यसेत् पूर्वं कुर्वित्येतदतः परम् ।। 35.18 ।।
निबिडेति ततो न्यस्य गात्रशब्दं ततः परम्।
विष्कम्भेति 14शिरोऽन्तं च दृढनाभमुदाहृतम् ।। 35.19 ।।
11.संहारकास्त्रम्
हास्वा यक्राचतसृवि मोन ओं व्युत्क्रमो मनुः।
संहारकमिदं चास्त्रं विदुः पूर्वे महर्षयः ।। 35.20 ।।
12. दशाक्षास्त्रम्
खड्गीशो मायया युक्तस्तेन युक्तो बकस्तथा।
15वान्तो दीर्घसमायुक्त आषाढो मुण्ड एव च ।। 35.21 ।।
16दीर्घी खड्गेश्वरो वह्निरुमेशो दीर्घसंयुतः।
वाली हृदन्तो मन्त्रोऽयं दशाक्षः परिपठ्यते ।। 35.22 ।।
13.दशशीर्षास्त्रम्
तारपूर्वं च हृदयं चलगण्डं ततो न्यसेत्।
अम्बरं सामराधीशं वक्त्रायेति पदं ततः ।। 35.23 ।।
वज्रवारणशब्दौ च 17आयान्तं शतवक्त्रकम्।
शिवोत्तमः 18सदन्तः स्यादग्निर्दीर्घसमन्वितः ।। 35.24 ।।
भृगुराषाढवान् साग्निः कर्तनायेति विन्यसेत्।


14.शिरोऽन्तश्च B C E F
15.लान्तो B C E F
16.दीर्घः D
17.आयातं D
18.सदन्तिः D


दशेति च पदं पश्चाच्छीर्षायेति पदं ततः ।। 35.25 ।।
शिरोऽन्त एष मन्त्रस्तु दशशीर्षमुदाहृतम्।
14.शतोदरास्त्रम्
तारं प्रणामपर्यायं लुप्तास्त्रेति पदं ततः ।। 35.26 ।।
जालायेति प्रयोक्तव्यं बहूदरपदं ततः।
आयेत्यन्ते प्रयोक्तव्यं शतोदरमिदं विदुः ।। 35.27 ।।
15.पद्मनाभास्त्रम्
लोहितः पावकश्चैव नकुलीशस्ततः परम्।
आषाढो मायया युक्तः प्रवृत्त इति च क्रमात् ।। 35.28 ।।
नाशनायेत्यथाभ्यस्तं स्वस्त्यन्तं पद्मनाभकम्।
16. महानाभास्त्रम्
महाकालोऽम्बरं दीर्घं लोहितो दीर्घसंयुतः ।। 35.29 ।।
बकः खड्गीश्वरो मायी नाशनायेति च न्यसेत्।
चक्रान्मन इति ब्रूयात् स्वस्त्यन्तो मन्त्रनायकः ।। 35.30 ।।
महानाभमिदं प्राज्ञा वदन्त्यखिलसाधकम्।
17.दुन्दुनाभास्त्रम्
बकश्चैव महाकालो मायी चाषाढनायकः ।। 35.31 ।।
शूलायेति प्रयोक्तव्यं चण्डनाभाय 19चेत्यतः।
स्वस्ति चैव द्विरभ्यस्तं दुन्दुनाभमिदं विदुः ।। 35.32 ।।


19. चेत्यथ B


18.धृतिमाल्यस्त्रम्
मेषो मायी च साङ्घ्रीशो भृगुश्चैवात्रिरेव च।
मायायुक्तस्तथाषाढो दीर्घदण्डसमन्वितः ।। 35.33 ।।
क्रीधी च 20सामरेशः स्याद् बको दीर्घसमन्वितः।
वाली दीर्घसमायुक्तो निवारितपदं ततः ।। 35.34 ।।
तेजसे इति च ब्रूयात् स्वस्त्य्न्तोऽयं 21महामनुः।
22धृतिमालीति विख्यातः सर्वलोकेषु पूजितः ।। 35.35 ।।
19. रुचिरास्त्रम्
संवर्तकः सामरेशो मीनो 23बिन्दुसमन्वितः।
मायी च क्षामयेत्येतदावृत्तं 24वृत्तिमान् मनुः ।। 35.36 ।।
25द्विरावृत्तः प्रहरणं शं तनोतु पदं ततः।
शिरोऽन्त एष मन्त्रस्तु रुचिरः परिकीर्तितः ।। 35.37 ।।
20. पितृसौमनसास्त्रम्
लोहितो मायया युक्त आषाढो भारभूतिमान्।
देवसारेत्यतः पाठ्यं सर्वाभयपदं ततः ।। 35.38 ।।
प्रदेत्येतत् प्रयोक्तव्यं सर्वशान्तिकराय च।
शिरोऽन्त एष मन्त्रस्तु पितृसौमनसं स्मृतम् ।। 35.39 ।।


20. साम खड्गी D
21.महामुने B C
22.धृतिमायी इति ख्यातः D
23.मेषसमन्वितः D
24.वृत्तिमात्मनः D
25.द्विरावृत्तं B C E F



21. विधूतास्त्रम्
तारं तथा च हृदयं खड्गीशो मायया युतः।
मीनश्चाङ्घ्रीशसंयुक्त आषाढो दीर्घसंयुतः ।। 35.40 ।।
चण्डो मायी पिनाकी चाप्याषाढो दीर्घसंयुतः।
लोहितश्च करायेति पदं तत उदीर्य च ।। 35.41 ।।
परमेत्यथ धाम्ने च विधूतमिदमुत्तमम्।
22. मकरास्त्रम्
नमस्त्रुटितशब्दौ च पठित्वा प्रथमं ततः ।। 35.42 ।।
शस्त्रास्त्रशब्दौ चोच्चार्य शक्तये इत्यनन्तरम्।
शक्तिशालिन इत्युक्त्वा मकरायेति च क्रमात् ।। 35.43 ।।
प्रवृत्तास्त्रपदे चैव महार्णवपदं ततः।
विभेदिन इति ब्रूयादेतन्मकरमुत्तमम् ।। 35.44 ।।
23. करवीरसमास्त्रम्
तारपूर्वं नमश्चोक्त्वा तिरस्कृतपदं ततः।
गदाशब्दं समुच्चार्य 20वीर्यायेति ततः पठेत् ।। 35.45 ।।
शिरोऽन्त एष मन्त्रस्तु 27करवीरसमं स्मृतम्।
24.धनास्त्रम्
तारं प्रणामपर्यायं लोहितं वह्निसंयुतम् ।। 35.46 ।।
आषाढोऽनन्तसंयुक्तो लोहितो मीनं एव च।


26.वीरायेति D
27.करवीरकरं D


मुण्डः शिवं कुरुपदं द्विरावृत्तं धनं स्मृतम् ।। 35.47 ।।
25. धान्यास्त्रम्
वेतवाजीर्तरापेति व्युत्क्रमेण समीरितम्।
शिरोऽन्त एष मन्त्रस्तु धान्यमित्युच्यते बुधैः ।। 35.48 ।।
26.ज्यैतिषास्त्रम्
लोहितो वह्निसंयुक्तश्चण्डाद्यन्तौ28 ततः क्रमात्।
बको मुण्डः समायी स्यात् सवह्निर्लोहितस्यथा ।। 35.49 ।।
बको विषं ततो मुण्डो मायी प्रकटितेति च।
अथ विश्वं पदं चोक्त्वा ततः प्रशमयेति च ।। 35.50 ।।
द्विरभ्यस्तमिमं मन्त्रं ज्यौतिषं परिचक्षते।
27.कृशनास्त्रम्
क्रोधी पिनाकी मायी स्यादाषाढं च ततः परम् ।। 35.51 ।।
क्रोधी 29चानन्तसहितो बकयुग् दीर्घमग्निमत्30।
मुण्डो वाली शिरोऽन्तश्च कृशनं समुदाहृतम् ।। 35.52 ।।
28. नैराश्यास्त्रम्
मायी खड्गी शिखी चैव महामायी पिनाकवान्।
कृतचक्रेति शब्दौ च चक्रायेति च निर्दिशेत् ।। 35.53 ।।
वषडन्तमिमं मन्त्रं नैराश्यं परिचक्षते।


28.चण्डाद्यन्तः
29.चानन्द F
30.दीर्घवह्निमान् E F


29.विमलास्त्रम्
31खड्गेशः प्रथमं मायी चाषाढो दीर्घवह्निमान् ।। 35.54 ।।
भृगुश्च मायासंयुक्त आषाढो दीर्घसंयुतः।
मायी चण्डः पिनाकी च सानन्तोऽतः परं क्रमात् ।। 35.55 ।।
भृगुः साषाढदीर्घाग्निर्वाली च तदनन्तरम्।
विमलायेति चोच्चार्य शिरोऽन्तं विमलं स्मृतम् ।। 35.56 ।।
30.योगंधरास्त्रम्
भृगुर्लान्तः सवह्निश्च मायाशब्दं पठेत् ततः।
मयास्त्रायेति च पदं तमोबर्हण इत्यपि ।। 35.57 ।।
मूर्तये इति निर्दिश्य योगं चेति ततः पठेत्।
धरायेति पदं चापि महते इत्यनन्तरम् ।। 35.58 ।।
भीषणायेति च ब्रूयादभ्यस्तं हृदयं ततः।
योगंधरमिदं प्रोक्तमस्त्रं निखिलवन्दितम् ।। 35.59 ।।
31. विनिद्रास्त्रम्
मुण्डो मायी तथाकाश आषाढश्च ततः परम्।
मेषो मायायुतोऽत्रिश्च सदीर्घाग्निस्ततः परम् ।। 35.60 ।।
मुद्रायेति शिरोऽन्तोऽयं 32विनिद्रमभिधीयते।
32.नैद्रास्त्रम्
विषमग्न्यनिलोपेतं सषष्ठस्वरबिन्दुकम् ।। 35.61 ।।


31. खड्गी च B; खड्गीशः E F
32. भद्रमित्यभिधीयते D


पिण्डमेतच्छिरोऽन्तं च नैद्रमस्त्रविदो विदुः33।
33.प्रमथनास्त्रम्
प्रथमं तारमुच्चार्य हृदयं च ततः परम् ।। 35.62 ।।
विषं ततश्च दण्डीशं मायया च समन्वितम्।
आषाढं च बकं चैव पठित्वा तदनन्तरम् ।। 35.63 ।।
ततः क्रोधी च साषाढश्चण्डीशेन समन्वितः।
प्रसादयेत्यथावृत्तमस्त्रं प्रमथनं स्मृतम् ।। 35.64 ।।
34. सार्चिर्माल्यस्त्रम्
वरुणेन समायुक्तो दीर्घयुक्तश्चतुर्मुखः।
ततः पिनाकी सानन्तो लान्तो मायी ततः परम् ।। 35.65 ।।
ज्वालान्तो मायया युक्तः पिनाकी च ततः परम्।
आद्यं चतुर्थवर्गस्य महासीति पठेत् ततः ।। 35.66 ।।
शक्त इत्यपि वक्तव्यं महामहस इत्यपि।
मर्षयेति द्विरभ्यस्तं सार्चिर्मालिरयं मनुः ।। 35.67 ।।
35. कामरूपास्त्रम्
हास्वा नञ्जभरञ्चासरपत्तवृप्र इत्यपि।
रस्वा इति व्युत्क्रमेण कामरूपमिदं स्मृतम् ।। 35.68 ।।
36.कामरुच्यस्त्रम्
ओं नमो इत्युपक्रम्य मुण्डो मायासमन्वितः।


33.मन्त्रविदो विदुः E F


तृतीयस्वरसंयुक्तश्चण्डो रान्तस्ततः परम् ।। 35.69 ।।
कबन्धेति पदं ब्रूयात् संधानायेति चान्ततः।
शिखान्तोऽयं कामरुचिर्मन्त्रः पूर्वैः समीरितः ।। 35.70 ।।
37. मोहनास्त्रम्
भौतिकं दण्डसंयुक्तमङ्कुशं च ततो वदेत्।
34मोहवारिणिशब्दं च शिरोऽन्तं मोह उच्यते ।। 35.71 ।।
38. आवरणास्त्रम्
खड्गीशो दीर्घसंयुक्तो वह्निर्मायासमन्वितः।
आषाढश्च महाकालो व्योम दीर्घान्वितं ततः ।। 35.72 ।।
महाकालश्च सानन्तो वाली चण्डीशसंयुतः।
शिरोऽन्तोऽयं महामन्त्रः प्रोक्तमावरणं बुधैः ।। 35.73 ।।
39. जृम्भकास्त्रम्
द्विरण्डौ द्वौ क्रमान्न्यस्य सदण्डौ चतुराननम्।
मुण्डमुच्चार्य परतः स्वस्तीति पदमुद्धरेत् ।। 35.74 ।।
शिरोऽन्तोऽयं महामन्त्रो जृम्भकः परिकीर्तितः।
40. सर्वनाभकास्त्रम्
चण्डोऽनन्तसमायुक्तो मायी चात्रिस्ततः परम् ।। 35.75 ।।
आद्यश्चतुर्थवर्गस्य सेनापदमनन्तरम्।


34.मोहवारीणि B; मोहवारुणि D


जीवातव इति ब्रूयाच्छिरोऽन्तं सर्वनाभकम् ।। 35.76 ।।
41. भृशाश्वतनयास्त्रम्
वेगाद्यन्तौ क्रमादुक्त्वा विश्वाद्यं च ततः परम्।
जितशब्दमथोच्चार्य वैनतेयाय इत्यपि ।। 35.77 ।।
शिरोऽन्तोऽयं मनुः प्रोक्तो भृशाश्वतनया 35इति।
42. संधानास्त्रम्
भृगुश्च वरुणः साग्निर्मुण्डो मायी ततः क्रमात् ।। 35.78 ।।
खड्गीशः साग्निदीर्घश्च 36लोहितोऽथ उमापतिः।
शं कुर्विति द्विरभ्यस्तो मन्त्र संधानमुच्यते ।। 35.79 ।।
43. वारुणास्त्रम्
भृगुर्लान्तोऽग्निसहितो दण्डेन च समन्वितः।
भृगुर्व्योमाथ जीवश्च वरुणेन समन्वितः ।। 35.80 ।।
शिरोऽन्त एष मन्त्रस्तु वारुणं परिकीर्तितम्।
अस्त्राणां मूर्तत्वामूर्तत्वजिज्ञासया नारदेनाहिर्बुध्न्यस्तुतिः
नारदः---
भगवन् देवदेवेश सर्वलोकनमस्कृत ।। 35.81 ।।
सर्वाध्यक्षाप्रमेयात्मन्नचिन्त्यज्ञानगोचर।
त्वामाश्रित्य सुराः सर्वे लभन्ते काङ्क्षितं फलम्।। 35.82 ।।


35.इमे D
36.लोहितो य उमापतिः D


त्वत्तः सर्वं समुद्भूतं जगत् स्थावरजङ्गमम्।
त्वयैव 37पालितं सर्वं संहृतं च महेश्वर ।। 35.83 ।
त्वमादिः सर्वजगतामनादिस्त्वं जगन्मय।
पुरुषस्त्वं त्वमव्यक्तो व्यक्तस्त्वं विश्वभावन ।। 35.84 ।।
यज्ञस्त्वमिज्यो यष्टा त्वमग्नयस्त्वं त्वमाहुतिः।
वषट्कारस्त्वमोंकारो 38वेदवेद्यस्तथा भवान् ।। 35.85 ।।
त्वत्त एव च भूतानि प्रवर्तन्ते महेश्वर।
करणं कारणं कर्ता कार्यं कर्म फलं विभो ।। 35.86 ।।
त्वमेव भूतं भव्यं च भवच्च परमेश्वर।
निर्गुणस्त्वं जगत्सृष्टौ जुषमाणो 39गुणानसि ।। 35.87 ।।
अणीयसामणीयांस्त्वं महांश्च त्वं महीयसाम्।
अनुरक्तस्त्वयीशान प्रयाति परमां गतिम् ।। 35.88 ।।
अपरक्तो व्रजत्येव निरयं 40विकृतिर्न ते।
कलाकाष्ठामुहूर्तादिकालश्च41 त्वं कलात्मकः ।। 35.89 ।।
सर्वदा सर्वभूतेषु निवसन्नपि शंकर।
न लिप्यसे तद्विकारैः पद्मपत्रमिवाम्भसा ।। 35.90 ।।
करामलकवत् सर्वं सर्वदा कलयस्यतः।
प्रोक्तवानसि सर्वास्त्रस्वरूपं पृच्छतो मम ।। 35.91 ।।


37.साधितं D
38.वेदावेद्यं D; वेदो वेद्यः E F
39.गुणानपि D
40.प्रकृतिर्न D
41. कालस्तत्त्वं D



अस्त्राणां मूर्तत्वामूर्तत्वप्रश्नः
किमेषां मूर्तयः सन्ति किं वामूर्तान्यमूनि वै।
छेत्तुमर्हसि देवेस तमिमं संशयं विभो ।। 35.92 ।
तेषां मूर्तत्पप्रतिपादनम्
अहिर्बुध्न्यः---
तेषां भवन्ति गात्राणि भीमरूपाणि नारद।
42वक्रभीषणदंष्ट्रोग्रमुखत्रस्तजनानि वै ।। 35.93 ।।
भीषिताघूर्णितारक्तवृत्तनेत्रयुतानि वै।
विद्युत्पुञ्जप्रतीकाशकेशभीमानि नारद ।। 35.94 ।।
कानिचिद्धूम्रवर्णानि भास्कराभानि कानिचित्।
कानिचिच्छुक्लवर्णानि वह्निकल्पानि कानिचित् ।। 35.95 ।।
महापरिघसंकाशभीमरूपैः करैः परैः।
यथास्वं धृतशस्त्राणि महान्ति बलवन्ति च ।। 35.96 ।।
वेगवन्ति प्रमाथीनि वैरिदर्पद्रुहाणि च।
उपासितानि सततं सुरासुरवरैरपि ।। 35.97 ।।
एवंभूतान्यधिष्ठाय गात्राण्यस्त्राणि नारद।
विचरन्ति यथाकाममकुतोभीतिमन्ति च ।। 35.98 ।।


42.चक्र A B C E F


अकलितमहिमानि भीषणानि
ज्वलितवपूंषि समुद्यतायुधानि।
अविहतगमनानि चास्त्रमुख्या-
न्यनवरतं भुवनेषु संचरन्ति ।। 35.99 ।।

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां संहारास्त्रस्वरूपनिरूपणं नाम पञ्चत्रिंशोऽध्यायः
आदितः श्लोकाः 2252
------------*******-------------