← द्वितीयोध्यायः काशिकावृत्तिः
तृतीयोध्याय:
[[लेखकः :|]]
चतुर्थोध्यायः  →
  1. प्रथमोध्यायः
  2. द्वितीयोध्यायः
  3. तृतीयोध्यायः
  4. चतुर्थोध्यायः
  5. पञ्चमोध्यायः
  6. षष्टोध्यायः
  7. सप्तमोध्यायः
  8. अष्टमोध्यायः




तृतीयोऽद्यायः प्रथमः पादः ।


____________________________________________________________________


[#१७५]

  1. <प्रत्ययः># । । PS_३,१.१ । ।



_____Sठाऱ्ठ्JKव्_३,१.१ः

अधिकारोऽयं ।
प्रत्यय-शब्दः सञ्ज्ञात्वेन अधिक्रियते ।
आ पञ्चमाद्यायपरिसमाप्तेर्यानित ऊर्ध्वं अनुक्रमिष्यमः, प्रत्ययसञ्ज्ञास्ते वेदितव्याः, प्रकृत्युपपादोपाधिविकारागमान्वर्जयित्वा ।
वक्ष्यति -- तव्यत्-तव्य-अनीयरः (*३,१.९६) ।
कर्तव्यं ।
करणीयं ।
प्रत्ययप्रदेशाः - प्रत्ययलोपे प्रत्ययलक्षणं (*१,१.६२) इत्येवं आदयः । ।


____________________________________________________________________


  1. <परश्च># । । PS_३,१.२ । ।



_____Sठाऱ्ठ्JKव्_३,१.२ः

अयं अप्यधिकारो योगे योगे उपतिष्ठते, परिभाषा वा ।
परश्च स भवति धातोर्वा प्रातिपदिकाद्वा यः प्रत्यय-सञ्ज्ञः ।
कर्तव्यं ।
तैत्तिरीयं ।
चकारः पुनरस्यैव समुच्चय-अर्थः ।
तेन+उणादिषु परत्वं न विकल्प्यते । ।


____________________________________________________________________


  1. <आद्य्-उदात्तश्च># । । PS_३,१.३ । ।



_____Sठाऱ्ठ्JKव्_३,१.३ः

अयं अप्यधिकारः परिभाषा वा ।
आद्य्-उदात्तश्च स भवति ।
आद्य्-उदात्तश्च स भवति यः प्रत्यय-सञ्ज्ञः ।
अनियतस्वर-प्रत्यय-प्रसङ्गेऽनेकाक्षु च प्रत्ययेषु देशस्य अनियमे सति वचनं इदं आदेरुदात्त-अर्थं ।
कर्तव्यं ।
तैत्तिरीयं । ।


____________________________________________________________________


  1. <अनुदात्तौ सुप्-पितौ># । । PS_३,१.४ । ।



_____Sठाऱ्ठ्JKव्_३,१.४ः

पूर्वस्य अयं अपवादः ।
सुपः पितश्च प्रत्यया अनुदात्ता भवन्ति ।
दृषदौ ।
दृषदः ।
पितः खल्वपि -- पचति ।
पठति । ।


____________________________________________________________________


  1. <गुप्-तिज्-किद्भ्यः सन्># । । PS_३,१.५ । ।



_____Sठाऱ्ठ्JKव्_३,१.५ः

गुप गोपने, तिज निशाने, कित निवासे एतेभ्यो धातुभ्यः सन्प्रत्ययो भवति ।
प्रत्यय-सञ्ज्ञा च अधिकृतैव ।
जुगुप्सते ।
तितिक्षते ।
चिकित्सति ।
निन्दाक्षमाव्याधिप्रतीकारेषु सन्निषतेऽन्यत्र यथा प्राप्तं प्रत्यया भवन्ति ।
योपयति ।
तेजयति ।
सङ्केतयति ।
गुपादिष्वनुबन्धकरणं आत्मनेपदार्थं । ।


____________________________________________________________________


[#१७६]

  1. <मान्-बध-दान्-शान्भ्यो दीर्घश्च अभ्यासस्य># । । PS_३,१.६ । ।



_____Sठाऱ्ठ्JKव्_३,१.६ः

मान्पूजायाम्, बध बन्धने, दान अवखण्डने, शान अवतेजते, इत्येतेभ्यो धातुभ्यः सन्प्रत्ययो भवति, अभ्यासस्य च इकारस्य दीर्घादेशो भवति ।
मीमांसते ।
बीभत्सते ।
दीदांसते ।
शीशांसते ।
उत्तरसूत्रे वाग्रहणं सर्वस्य शेषो विज्ञायते, तेन क्वचिन्न भवत्यपि ।
मानयति ।
बाधयति ।
दानयति ।
निशानयति ।
अत्र अपि सन्नर्थ-विशेष इष्यते ।
मानेर्जिज्ञासायाम्, बधेर्वैरूप्ये, दानेरार्जवे, शानेर्निशाने । ।


____________________________________________________________________


  1. <धातोः कर्मणः समान-कर्तृकादिच्छायां वा># । । PS_३,१.७ । ।



_____Sठाऱ्ठ्JKव्_३,१.७ः

इषिकर्म यो धतुरिषिणैव समानकर्तृकः, तस्मादिच्छायां अर्थे वा सन्प्रत्ययो भवति ।
कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकं ।
कर्टुं इच्छति ।
चिकीर्षति ।
जिहीर्षति ।
धातु-ग्रहनं किं ? सोपसर्गादुत्पत्तिर्मा भूथ् ।
प्रकऋतुं ऐच्छत्प्राचिकीर्षथ् ।
कर्मणः इति किं ? करणान्मा भूथ् ।
गमनेन+इच्छति ।
समानकर्तृकतिति किं ? देवदत्तस्य भोजनं इच्छति यज्ञदत्तः ।
इच्छायां इति किं ? कर्तुं जानाति ।
वावचनाद्वाक्यं अपि भवति ।
धातोः इति विधानादत्र सनः आर्धधातुक-सञ्ज्ञा भवति, न पूर्वत्र ।
आशङ्कायां उपसंख्यानं ।
आशङ्के पतिष्यति कूलम्, पिपतिषति कूलं ।
श्वा मुमूर्षति ।
इच्छासन्नन्तात्प्रतिषेधो वक्तव्यः ।
चिकीर्षितुं इच्छति ।
विशेषणं किं ? जुगुप्सिषते ।
मीमांसिषते ।
शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः ।
सरूपः प्रत्ययो नेष्टः सनन्तान्न सनिष्यते । ।


____________________________________________________________________


  1. <सुप आत्मनः क्यच्># । । PS_३,१.८ । ।



_____Sठाऱ्ठ्JKव्_३,१.८ः

कर्मणः इच्छायां वा इत्यनुवर्तते ।
इषिकर्मणः एषितुः एव आत्मसम्बन्धिनः सुबन्तादिच्छायां अर्थे वा क्यच्प्रत्ययो भवति ।
आत्मनः पुत्रं इच्छति पुत्रीयति ।
सुब्-ग्रहणं किं ? वाक्यान्मा भूथ् ।
महान्तं पुत्रं इच्छति ।
आत्मनः इति किं ? राज्ञः पुत्रं इच्छति ।
ककारः नः क्ये (*१,४.१५) इति सामान्य्-अग्रहण-अर्थः ।
चकारस्तदविघात-अर्थः ।

[#१७७]

क्यचि मान्ताव्यय-प्रतिषेधो वक्तव्यः ।
इदं इच्छति ।
उच्चैरिच्छति ।
नीचिअरिच्छति ।
छन्दसि परेच्छायां इति वक्तव्यं ।
मा त्वा वृका अघायवो विदन् । ।


____________________________________________________________________

  1. <काम्यच्च># । । PS_३,१.९ । ।



_____Sठाऱ्ठ्JKव्_३,१.९ः

सुबन्तात्कर्मणः आत्मेच्छायां काम्यच्प्रत्ययो भवति ।
आत्मनः पुत्रं इच्छति पुत्रकाम्यति ।
वस्त्रकाम्यति ।
योगविभाग उत्तरत्र क्यचोऽनुवृत्त्य्-अर्थः ।
ककारस्य इत्-सज्ञा प्रयोजन-अभावान्न भवति, चकारादित्वाद्व काम्यचः ।
उपयट्काम्यति । ।


____________________________________________________________________


  1. <उपमानादाचारे># । । PS_३,१.१० । ।



_____Sठाऱ्ठ्JKव्_३,१.१०ः

क्यचनुवर्तते, न काम्यछ् ।
उपमनात्कर्मणः सुबन्तादाचारेऽर्थे वा क्यच्प्रत्ययो भवति ।
आचार-क्रियायाः प्रत्यय-अर्थत्वात्तदपेक्षयैव उपमानस्य कर्मता ।
पुत्रमिव आचरति पुत्रीयति छात्रं ।
प्रावारीयति कम्बलं ।
अधिकरणाच्चेति वक्तव्यं ।
प्रासादीयति कुट्यां ।
पर्यङ्कीयति मञ्चके । ।


____________________________________________________________________


  1. <कर्तुः क्यङ्सलोपश्च># । । PS_३,१.११ । ।



_____Sठाऱ्ठ्JKव्_३,१.११ः

आचारे इत्यनुवर्तते ।
उपमानात्कर्तुः सुबन्तादाचारेऽर्थे वा क्यङ्-प्रत्त्ययो भवति, सकारस्य च लोपो भवति ।
अन्वाचयशिष्तः सलोपः, तदभावेऽपि क्यङ्भवत्येव ।
श्येन इवाचरति काकः श्येनायते ।
कुमुदं पुष्करायते ।
सलोप-विधावपि वा-ग्रहणं सम्बध्यते, सा च व्यवस्थित-विभाषा भवति ।
ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया ।
{सकारस्येष्यते लोपः शब्दशास्त्रविचक्षनैः} ओजायमानं यो अहिं जघान ।
ओजायते, अप्सरायते ।
पयायते, पयस्यते ।
सलोप-विधौ च कर्तुः इति स्थान-षष्ठी सम्पद्यते, तत्र अलोऽन्त्य-नियमे सति हंसायते, सारसायते इति सलोपो न भवति ।

[#१७८]

आचारेऽवगल्भ-क्लीब-होडेभ्यः क्विब्वा वक्तव्यः ।
अवगल्भते, अवगल्भायते ।
क्लीबते, क्लीबायते ।
होडते, होडायते ।
सर्वप्रातिपदिकेभ्य इत्येके ।
अश्व इव आचरति अश्वायते, अश्वति ।
गर्दभायते, गर्दभति । ।


____________________________________________________________________


  1. <भृशादिभ्यो भुव्य्-अच्वेर्लोपश्च हलः># । । PS_३,१.१२ । ।



_____Sठाऱ्ठ्JKव्_३,१.१२ः

भृश इत्येवं आदिभ्यः प्रातिपदिकेभ्योऽच्व्यन्तेभ्यो भुवि भवत्यर्थे क्यङ्प्रत्ययो भवति, हलन्तानां च लोपः ।
अच्वेः इति प्रत्येकं अभिसम्बध्यते ।
किं अर्थं पुन रिदं उच्यते, यावता भवति योगे च्विर्विधीयते, तेनोक्तार्थत्वाच्च्व्यन्तेभ्यो न क्यङ्भविष्यति ? तत्सादृश्यप्रतिपत्त्यर्थं तर्हि च्वि-प्रतिषेधः क्रियते ।
अभूत-तद्भाव-विषयेभ्यो भृशादिभ्यः क्यङ्प्रत्ययः ।
अभृशो भृशो भवति भृशायते ।
शीघ्रायते ।
भृश ।
शीघ्र ।
मन्द ।
चपल ।
पण्डित ।
उत्सुक ।
उन्मनस् ।
अभिमनस् ।
सुमनस् ।
दुर्मनस् ।
रहस् ।
रेहस् ।
शश्वथ् ।
बृहथ् ।
वेहथ् ।
नृषथ् ।
शुधि ।
अधर ।
ओजस् ।
वर्चस् ।
भृशादिः ।
अच्वेः इति किं ? भृशीभवति । ।


____________________________________________________________________


  1. <लोहितादि-डाज्भ्यः क्यष्># । । PS_३,१.१३ । ।



_____Sठाऱ्ठ्JKव्_३,१.१३ः

लोहितादिभ्यो डाजन्तेभ्यश्च भवत्यर्थे क्यष्प्रत्ययो भवति ।
लोहितायति, लोहितयते ।
डाजन्तेभ्यः - पटपटायति, पटपटायते ।
लोहितडाज्भ्यः क्यष्वचनम्, भृशादिष्वितराणि ।
यानि लोहितादिषु पठ्यन्ते तेभ्यः क्यङेव, अपरिपठितेभ्यस्तु क्यषेव भवति ।
वर्मायति, वर्मायते ।
निद्रयति, निद्रायते ।
करुणायति, करुणायते ।
कृपायति, कृपायते ।
आकृतिगणोऽयं ।
यथा च ककारः सामान्यग्रहणार्थोऽनुबध्यते नः क्ये (*१,४.१५) इति ।
न हि पठितानां मध्ये नकारान्तः शब्दोऽस्ति ।
कृभ्वस्तिभिरिव क्यषाऽपि योगे डाज्भवति इत्येतदेव वचनं ज्ञापकं ।
अच्वेः इत्यनुवृत्तेरभूत-तद्भावे क्यष्विज्ञायते ।
लोहित ।
नील ।
हरित ।
पीत ।
मद्र ।
फेन ।
मन्द ।
लोहितादिः । ।


____________________________________________________________________


  1. <कष्टाय क्रमणे># । । PS_३,१.१४ । ।



_____Sठाऱ्ठ्JKव्_३,१.१४ः

क्यङनुवर्तते, न क्यष् ।
कष्ट-शब्दाच्चतुर्थीसमर्थात्क्रमणेऽर्थेऽनार्जवे क्यङ्प्रत्ययो भवति ।
कष्टाय कर्मणे क्रामति कष्तायते ।
अत्यल्पं इदं उच्यते ।
स्त्रकष्टकक्षकृच्छ्रगहनेभ्यः कण्वचिकीर्षायां इति वक्तव्यं ।
कन्वचिकीर्षा पापचिकीर्षा, तस्यामेतेभ्यः क्यङ्प्रत्ययो भवति ।
स्त्रायते ।
कष्तायते ।
कक्षायते ।
कृच्छ्रायते ।
गहनायते ।
कण्वचिकीर्षायां इति किं ? अजः कष्टं क्रामति । ।


____________________________________________________________________


[#१७९]

  1. <कर्मणो रोमन्थ-तपोभ्यां वर्ति-चरोः># । । PS_३,१.१५ । ।



_____Sठाऱ्ठ्JKव्_३,१.१५ः

रोमन्थ-शब्दात्तपः-शब्दाच्च कर्मणो यथाक्रमं वर्तिचरोरर्थयोः क्यङ्प्रत्ययो भवति ।
रोमन्थं वर्तयति रोमन्थायते गौः ।
हनुचलने इति वक्तव्यं ।
इह मा भूत्, कीटो रोमन्थं वर्तयति ।
तपसः परस्मैपदं च ।
तपशचरति तपस्यति । ।


____________________________________________________________________


  1. <बाष्प-ऊष्मभ्यां उद्वमने># । । PS_३,१.१६ । ।



_____Sठाऱ्ठ्JKव्_३,१.१६ः

कर्मणः इति वर्तते ।
बाष्प-शब्दादूष्म-शब्दाच्च कर्मन उद्वमनेऽर्थे क्यङ्प्रत्ययो भवति ।
बाष्पं उद्वमति बाष्पायते ।
ऊष्मायते ।
फेना च्चेति वक्तव्यं ।
फेनं उद्वमति फेनायते । ।

____________________________________________________________________

  1. <शब्द-वैर-कलह-अभ्र-कण्व-मेघेभ्यः करणे># । । PS_३,१.१७ । ।



_____Sठाऱ्ठ्JKव्_३,१.१७ः

शब्द वैर कलह अभ्र कन्व मेघ इत्येतेभयः करणे करोत्यर्थे क्यङ्प्रत्ययो भवति ।
शब्दं करोति शब्दायते ।
वैरायते ।
कलहायते ।
अभ्रायते ।
कण्वायते ।
मेघायते ।
सुदिनदुर्दिननीहरेभ्यश्चेति वक्तव्यं ।
सुदिनायते ।
दुर्दिनायते ।
नीहारायते ।
अटाट्टाशीकाकोटापोटासोटाप्रुष्टाप्लुष्टा-ग्रहणं कर्तव्यं ।
अटायते ।
अट्टायते ।
शीकायते ।
कोटायते ।
पोटायते ।
सोटायते ।
प्रुष्टायते ।
प्लुष्टायते । ।


____________________________________________________________________


[#१८०]

  1. <सुखादिभ्यः कर्तृ-वेदनायाम्># । । PS_३,१.१८ । ।



_____Sठाऱ्ठ्JKव्_३,१.१८ः

कर्म-ग्रहणसनुवर्तते ।
सुख इत्येवं आदिभ्यः कर्मभ्यः वेदनायां अर्थेऽनुभवे क्यङ्प्रत्ययो भवति, वेदयितुश्चेत्कर्तुः सम्बन्धीनि सुखादीनि भवन्ति ।
सुखं वेदयते सुखायते ।
दुःखायते ।
कर्तृ-ग्रहणं किं ? सुखं वेदयते प्रसाधको देवदत्तस्य ।
सुख ।
दुःख ।
तृप्त ।
गहन ।
कृच्छ्र ।
अस्र ।
अलीक ।
प्रतीप ।
करुण ।
कृपण ।
सोढ ।
सुखादिः । ।


____________________________________________________________________


  1. <नमो-वरिवश्-चित्रङः क्यच्># । । PS_३,१.१९ । ।



_____Sठाऱ्ठ्JKव्_३,१.१९ः

करणे इति वर्तते ।
नमस्वरिवस्चित्रङित्येतेभ्यो वा क्यच्प्रत्ययो भवति, करणविशेषे पूजादौ ।
नमसः पूजायां - नमस्यति देवान् ।
वरिवसः परिचर्यायां -- वरिवस्यति गुरून् ।
चित्रङ आश्चर्ये - चित्रीयते ।
ङकार आत्मनेपदार्थः । ।


____________________________________________________________________


  1. <पुच्छ-भान्ड-चीवराण्णिङ्># । । PS_३,१.२० । ।



_____Sठाऱ्ठ्JKव्_३,१.२०ः

करणे इति वर्तते ।
पुच्छ भाण्ड चीवर इत्येतेभ्यो णिङ्प्रत्ययो भवति करणविशेषे ।
पुच्छादुदसने पर्यसने वा ।
उत्पुच्छयते ।
परिपुच्छयते ।
भाण्डात्समाचयने ।
सम्भान्डयते ।
चीवरादर्जने परिधाने वा ।
सञ्चीवरयते भिक्षुः ।
ङकार आत्मनेपदार्थः ।
णकारः सामान्यग्रहणार्थः, णेरनिटि (*६,४.५१) इति । ।


____________________________________________________________________


[#१८१]

  1. <मुण्ड-मिश्र-श्लक्ष्ण-लवण-व्रत-वस्त्र-हल-कल-कृत-तूस्तेभ्यो णिच्># । । PS_३,१.२१ । ।



_____Sठाऱ्ठ्JKव्_३,१.२१ः

मुण्ड मिश्र श्लक्ष्ण लवण व्रत वस्त्र हल कल कृत तूस्त इत्येतेभ्यः करणे णिच्प्रत्ययो भवति ।
मुण्डं करोति मुण्डयति ।
मिश्रयति ।
श्लक्ष्णयति ।
लवणयति ।
व्रतात्भोजने तन्निवृत्तौ च - पयो व्रतयति ।
वृषलान्नं व्रतयति ।
वस्त्रात्समाच्छादने - संवस्त्रयति ।
हलिं गृह्णाति हलयति ।
कलिं गृह्णाति कलयति ।
हलिकल्योरदन्तत्व-निपातनं सन्वद्भाव-प्रतिषेधार्यं ।
अजहलथ् ।
अचकलथ् ।
कृतं गृह्णाति कृतयति ।
तूस्तानि विहन्ति वितूस्तयति केशान् ।
विशदीकरोति इत्यर्थः । ।


____________________________________________________________________


  1. <धातोरेक-अचो हल-आदेः क्रियासमभिहारे यङ्># । । PS_३,१.२२ । ।



_____Sठाऱ्ठ्JKव्_३,१.२२ः

एक-अज्यो धातुर्हलादिः क्रियासमभिहारे वर्तते तस्माद्यङ्प्रत्ययो भवति ।
पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः ।
नः पुनः पचति पापच्यते ।
यायज्यते ।
भृशं ज्वलति जाज्वल्यते ।
देदीप्यते ।
धातोः इति किं ? सोपसर्गादुत्पत्तिर्मा भूत्, भृशं प्राटति ।
एकाचः इति किं ? भृशं जागर्ति ।
हलादेः इति किं ? भृशमीक्षते ।
सूचिसूत्रमूत्र्यट्यर्त्यशूर्णोतीनां ग्रहनं यङ्विधानवेकाजहलाद्य्-अर्थं ।
सोसूच्यते ।
सोसूत्र्यते ।
मोमूत्र्यते ।
अटाट्यते ।
अरार्यते ।
अशाश्यते ।
प्रोर्णोनूयते ।
भृशं शोभते, भृशं रोचते इत्यत्र नेष्यते, अनभिधानात् । ।


____________________________________________________________________

  1. <नित्यं कौटिल्ये गतौ># । । PS_३,१.२३ । ।



_____Sठाऱ्ठ्JKव्_३,१.२३ः

गतिवचनाद्धतोः कौटिल्ये गम्यमाने नित्यं यङ्प्रत्ययो भवति ।
कुटिलं क्रामति चङ्क्रम्यते ।
दन्द्रम्यते ।
नित्य-ग्रहणं विषयनियम-अर्थं, गतिवचनान्नित्यं कौटिल्य एव भवति, न तु क्रियासमभिहारे ।
भृशं क्रामति । ।


____________________________________________________________________


  1. <लुप-सद-चर-जप-जभ-दह-दश-ग्éभ्यो भाव-गर्हायाम्># । । PS_३,१.२४ । ।



_____Sठाऱ्ठ्JKव्_३,१.२४ः

लुप सद चर जप जभ दह दश ग्é इत्येतेभ्यो भाव-गर्हायां धात्वर्थ-गर्हायां यङ्प्रत्ययो भवति ।
गर्हितं लुम्पति लोलुप्यते ।
एवं - सासद्यते ।
पञ्चऊर्यते ।
जञ्जप्यते ।
जञ्जभ्यते ।
दन्दह्यते ।
दन्दश्यते ।

[#१८२]

निजेगिल्यते ।
भावगर्हायां इति किं ? साधु जपति ।
भाव-ग्रहणं किं ? साधनगर्हायां मा भूत्, मन्त्रं जपति वृषलः ।
नित्य-ग्रहणं विषयनियम-अर्थं अनुवर्तते ।
एतेभ्यो नित्यं भावगर्हायां एव भवति, न तु क्रियासमभिहारे ।
भृशं लुम्पति । ।

____________________________________________________________________


  1. <सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्># । । PS_३,१.२५ । ।



_____Sठाऱ्ठ्JKव्_३,१.२५ः

सत्य-आदिभ्यश्चूर्णपर्यन्तेभ्यः, चुरादिभ्यश्च णिच्प्रत्ययो भवति ।
सत्यं आचष्ते सत्यापयति ।
अर्थवेदसत्यानां आपुग्वक्तव्यः ।
अर्थं आचष्ते अर्थापयति ।
देवापयति ।
आपुग्वचन-सामर्थ्याट्टिलोपो न भवति ।
पाशाद्विमोचने - विपाशयति ।
रूपाद्दर्शने - रूपयति ।
वीणयोपगायति उपवीणयति ।
तूलेनानुकुष्णाति अनुतूलयति ।
श्लोकैरुपस्तौति उपश्लोकयति ।
सेनयाभियाति अभिषेणयति ।
लोमान्यनुमार्ष्टि अनुलोमयति ।
त्वचं गृह्णाति त्वचयति ।
अकारान्तस्त्वच-शब्दः ।
वर्मणा सन्नह्यति संवर्मयति ।
वर्णं गृह्णाति वर्णयति ।
चूर्णैः अवध्वंसयति अवचूर्णयति ।
चुरादिभ्यः स्वार्थे ।
चोरयति ।
चिन्तयति ।
स्वाभाविकत्वादर्थाभिधानस्य यथास्वं प्रत्ययार्था निर्दिश्यन्ते । ।


____________________________________________________________________


  1. <हेतुमति च># । । PS_३,१.२६ । ।



_____Sठाऱ्ठ्JKव्_३,१.२६ः

हेतुः स्वतन्त्रय कर्तुः प्रयोजकः, तदीयो व्यापारः प्रेषनादि-लक्षणो हेतुमान्, तस्मिन्नभिधेये धातोः णिच्प्रत्ययो भवति ।
कटं कारयति ।
ओदनं पाचयति ।
तत्करोति इत्युपसङ्ख्यानं सूत्रयति इत्याद्यर्थं ।
सूत्रं करोति सूत्रयति ।
आख्यानात्कृतस्तदाचष्ट इति णिच्कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकं ।
आख्यानात्कृदन्त्तण्णिच्वक्तव्यः तदाचष्टे इत्येतस्मिन्नर्थे, कृल्-लुक्, प्रकृतिप्रत्यापत्तिः, प्रकृतिवच्च कारकं भवति ।
कंसवधं आचष्टे कंसं घातयति ।
बलिबन्धं आचष्टे बलिं बन्धयति ।
राजागमनं आचष्टे राजानं आगमयति ।

[#१८३]

आङ्-लोपश्च काल-अत्यन्तसंयोगे मर्यादायां ।
आरात्रि विवासं आचश्टे रात्रिं विवासयति ।
चित्रीकरणे प्रापि ।
उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं सम्भावयते सूर्यं उद्गमयति ।
नक्षत्रयोगे ज्ञि ।
पुष्ययोगं जानाति पुष्येण योजयति ।
मघभिर्योजयति । ।


____________________________________________________________________


  1. <कण्ड्व्-आदिभ्यो यक्># । । PS_३,१.२७ । ।



_____Sठाऱ्ठ्JKव्_३,१.२७ः

कण्डूञित्येवं आदिभ्यो यक्प्रत्ययो भवति ।
द्विवधाः कण्ड्व्-आदयो, धातवः प्रातिपादिकानि च ।
तत्र धात्वधिकाराद्धतुभ्यः एव प्रत्ययो विधीयते, न तु प्रातिपदिकेभ्यः ।
तथा च गुणप्रतिषेध-अर्थः ककारोऽनुबध्यते ।
धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि ।
आह च अयं इमं दीर्घं मन्ये धतुर्विभाषितः । ।
कण्डूञ्-- कण्डूयति, कण्डूयते ।
ञित्वात्कर्त्र्-अभिप्राये क्रियाफले (*१,३.७२) इत्यात्मनेपदं ।
कण्डूञ् ।
मन्तु ।
हृणीङ् ।
वल्गु ।
अस्मनस् ।
महीङ् ।
लेठ् ।
लोठ् ।
इरस् ।
इरज् ।
इरञ् ।
द्रवस् ।
मेधा ।
कुषुभ ।
मगध ।
तन्तस् ।
पम्पस् ।
सुख ।
दुःख ।
सपर ।
अरर ।
भिषज् ।
भिष्णज् ।
इषुध ।
चरण ।
चुरण ।
भुरण ।
तुरण ।
गद्गद ।
एला ।
केला ।
खेला ।
लिठ् ।
लोट् । ।


____________________________________________________________________


  1. <गुपू-धूप-विच्छि-पणि-पनिभ्य आयः># । । PS_३,१.२८ । ।



_____Sठाऱ्ठ्JKव्_३,१.२८ः

गुपू रक्षणे, धूप सन्तापे, विच्छ गतौ, पण व्यवहारे स्तुतौ च, पन च इत्येतेभ्यो धातुभ्यः आय-प्रत्ययो भवति ।
तोपायति ।
धूपयति ।
विच्छायति ।
पणायति ।
पनायति ।
स्तुत्य्-अर्थेन पनिना साहचर्यात्तदर्थः पणिः प्रत्ययं उत्पादयति न व्यवहार-अर्थः ।
शतस्य पणते ।
सहस्रसय पणते ।
अनुबन्धश्च केवले चरित-अर्थः, तेन आय-प्रत्यय-अन्तान्नात्मनेपदं भवति । ।


____________________________________________________________________


[#१८४]

  1. <ऋतेरीयङ्># । । PS_३,१.२९ । ।



_____Sठाऱ्ठ्JKव्_३,१.२९ः

ऋतिः सौत्रो धतुः धृणायां वर्तते, ततः ईयङ्प्रत्ययो भवति ।
ङकार आत्मनेपद-अर्थः ।
ऋतीयते, ऋतीयेते, ऋतियन्ते ।
ईयङ्-वचनं ज्ञापन-अर्थं, धातु-विहितानां प्रत्ययानां आयनादयो न भवन्ति इति । ।


____________________________________________________________________

  1. <कमेर्णिङ्># । । PS_३,१.३० । ।



_____Sठाऱ्ठ्JKव्_३,१.३०ः

कमेर्धातोः णिङ्प्रत्ययो भवति ।
णकारो वृद्ध्य्-अर्थः ।
ङकार आत्मनेपद-अर्थः ।
कामयते, कामयेते, कामयन्ते । ।


____________________________________________________________________


  1. <आयादय आर्धधातुके वा># । । PS_३,१.३१ । ।



_____Sठाऱ्ठ्JKव्_३,१.३१ः

आर्धधातुक-विषये आर्धधातुक-विवक्षायां आयादयः प्रत्यया वा भवन्ति ।
गोप्ता, गोपायिता ।
अर्तिता, ऋतीयिता ।
कमिता, कामयिता ।
नित्यं प्रत्ययप्रसङ्गे तदुत्पत्तिरार्धधातुक-विषये विकल्प्यते, तत्र यथायथं प्रत्यया भवन्ति ।
गुप्तिः ।
गोपाया । ।


____________________________________________________________________


  1. <सन्-आद्यन्ता धातवः># । । PS_३,१.३२ । ।



_____Sठाऱ्ठ्JKव्_३,१.३२ः

सनादिर्येषां ते सनादयः ।
सनादयोऽन्ते येषं ते सनाद्यन्ताः ।
सनाद्यन्ताः समुदायाः धातु-सञ्ज्ञाः भवन्ति ।
प्रत्यय-ग्रहण-परिभाषा+एव पद-सञ्ज्ञायां अन्तवचनेन लिङ्गेन प्रतिषिद्धा सती पुनरिह अन्तवचनेन प्रतिप्रसूयते ।
चिकीर्षति ।
पुत्रीयति ।
पुत्रकाम्यति । ।


____________________________________________________________________


  1. <स्यतासी ऋलुटोः># । । PS_३,१.३३ । ।



_____Sठाऱ्ठ्JKव्_३,१.३३ः

ऋ-रूपं उत्सृष्ट-अनुबन्धं सामान्यं एकं एव ।
तस्मिन्लुटि च परतो धातोर्यथा-सङ्ख्यं स्यतासी प्रत्ययौ भवतः ।
करिष्यति ।
अकरिष्यथ् ।
श्वः कर्ता ।
इदित्-करणं अनुनासिकलोप-प्रतिषेध-अर्थं ।
मन्ता ।
सङ्गन्ता । ।


____________________________________________________________________


  1. <सिब्-बहुलं लेति># । । PS_३,१.३४ । ।



_____Sठाऱ्ठ्JKव्_३,१.३४ः

धातोः सिप्प्रत्ययो भवति बहुलं लेति परतः ।
जोषिषथ् ।
तारिषथ् ।
मन्दिषथ् ।
न च भवति ।
पताति दिद्युथ् ।
उदधिं च्यावयाति । ।


____________________________________________________________________


  1. <कास्-प्रत्ययादां अमन्त्रे लिटि># । । PS_३,१.३५ । ।



_____Sठाऱ्ठ्JKव्_३,१.३५ः

कासृ शब्द-कुत्सायाम्, ततः प्रत्ययान्तेभ्यश्च धातुभ्यः आं प्रत्ययो भवति लिटि परतोऽमन्त्र-विषये ।
कासाञ्-चक्रे ।
प्रत्ययान्तेभ्यः -- लोलूयाञ्चक्रे ।
अमन्त्रे इति किं ? कृष्णो नोनाव । ।


[#१८५]

कास्यनेकाचः इति वक्तव्यं चुलुम्पाद्यर्थं ।
चकासाञ्चकार ।
दरिद्राञ्चकार ।
चुलुम्पाज्चकार ।
आमोऽमित्वं अदन्तत्वादगुणत्वं विदेस्तथा ।
आस्कासोरां विधानाच्च पररूपं कतन्तवत् । ।


____________________________________________________________________


  1. <इज्-आदेश्च गुरुमतोऽनृच्छः># । । PS_३,१.३६ । ।



_____Sठाऱ्ठ्JKव्_३,१.३६ः

इज्-आदिर्यो धातुर्गुरुमानृच्छति-वर्जितः, तस्माच्च लिटि परत आं प्रत्ययो भवति ।
ईह चेष्टायां ।
ऊह वितर्के ।
ईहाञ्चक्रे ।
ऊहाञ्चक्रे ।
इजादेः इति किं ? ततक्ष ।
ररक्ष ।
गुरुमतः इति किं ? इयज ।
उवप ।
अनृच्छः इति किं ? आनर्च्छ, आनर्च्छतुः, आनर्च्छौः ।
ऊर्णोतेश्च प्रतिषेधो वक्तव्यः ।
प्रोर्णुनाव ।
अथ वा -- वाच्य ऊर्णोर्णुवद्भावो यङ्-प्रसिद्धिः प्रयोजनं ।
आमश्च प्रतिषेध-अर्थं एकाचश्चेडुपग्रहात् । ।


____________________________________________________________________


  1. <दय-अय-आसश्च># । । PS_३,१.३७ । ।



_____Sठाऱ्ठ्JKव्_३,१.३७ः

दय दानगति-रक्षणेषु, अय गतौ, आस उपवेषने, एतेभ्यश्च लिटि परत आं प्रत्ययो भवति ।
दयञ्चक्रे ।
पलायाञ्चक्रे ।
आसाञ्चक्रे । ।

____________________________________________________________________


  1. <उष-विद-जागृभ्योऽन्यतरस्याम्># । । PS_३,१.३८ । ।



_____Sठाऱ्ठ्JKव्_३,१.३८ः

उष दाहे, विद ज्ञाने, जगृ निद्राक्षये, एतेभ्यो लिटि परतोऽन्यतरस्यां आं प्रत्ययो भवति ।
ओषाञ्चकार, उवोष ।
विदाञ्चकार, विवेद ।
जागराञ्चकार, जजागार ।
विदेरदन्तत्व-प्रतिज्ञानादामि गुणो न भवति । ।


____________________________________________________________________


  1. <भी-ह्री-भृ-हुवां श्लुवच्च># । । PS_३,१.३९ । ।



_____Sठाऱ्ठ्JKव्_३,१.३९ः

ञिभी भये, ह्री लज्जायाम्, डुभृञ्धारणपोषणयोः, हु दानादानयोः, एतेभ्यो लिटि परतः आं प्रत्ययो भवति अन्यतरस्याम्, श्लाविव च अस्मिन्कार्यं भवति ।
किं पुनस्तत्? द्वित्वं इत्त्वं च ।
बिभायाञ्चकार, विभाय ।
जिह्रयाञ्चकार, जिह्राय ।
बिभराञ्चकार, बभार ।
जुहवाञ्चकार, जुहाव । ।


____________________________________________________________________


  1. <कृञ्च अनुप्रयुज्यते लिटि># । । PS_३,१.४० । ।



_____Sठाऱ्ठ्JKव्_३,१.४०ः

आम्-प्रत्ययस्य पश्चात्कृञनुप्रयुज्यते लिटि परतः ।
कृञिति प्रत्याहारेण कृभ्वस्तयो गृह्यन्ते, तत्सामर्थ्यादस्तेर्भूभावः न भवति ।
आचयाञ्चकार ।
पाचयां बभूव ।
पाचयां आस । ।


____________________________________________________________________

[#१८६]

  1. <विदाङ्-कुर्वन्त्वित्यन्यतरस्याम्># । । PS_३,१.४१ । ।



_____Sठाऱ्ठ्JKव्_३,१.४१ः

विदाङ्-कुर्वन्तु इत्येतदन्यतरस्यां निपात्यते ।
किं पुनरिह निपात्यते ? विदेर्लोटि आं प्रत्ययः, गुणाभावः, लोटो लुक्, कृञश्च लोट्परस्य अनुप्रयोगः ।
अत्र भवन्तो विदाङ्-कुर्वन्तु, विदन्तु ।
इति-करणः प्रदर्शन-अर्थः, न केवलं प्रथमपुरुष-बहुवचनं, किं तर्हि सर्वाण्येव लोड्-वचनान्यनुप्रयुज्यन्ते, विदाङ्करोतु, विदाङ्कुरुतात्, विदाङ्कुरुताम्, विदाङ्कुरु, विदाङ्कुरुतं इत्यादि । ।


____________________________________________________________________


  1. <अभ्युत्सादयां-प्रजनयाम्-चिकयां-रमयाम्-अकः पावयाम्-क्रियाद्विदाम्-अक्रन्निति च्छन्दसि># । । PS_३,१.४२ । ।



_____Sठाऱ्ठ्JKव्_३,१.४२ः

अभ्युत्सादयां इत्येवं आदयः छन्दसि विषयेऽन्यतरस्यां निपात्यन्ते ।
सदिजनिरमीणां ण्यन्तानां लुडि आं प्रत्ययो निपात्यते ।
चिनोतेरपि तत्र+एव+आम्प्रत्ययो द्विर्वचनं कुत्वं च ।
अकरिति चतुर्भिरपि प्रत्येकं अनुप्रयोगः सम्बध्यते ।
पावयां क्रियातिति पवतेः पुनातेर्वा ण्यन्तस्य लिङि आं निपात्यते, गुणाभावश्च, अक्रनिति च अस्य अनुप्रयोगः ।
विदाम्-अक्रनिति विदेर्लुङि आं निपात्यते, गुनभावश्च, अक्रनिति च अस्य अनुप्रयोगः ।
अभ्युत्सादयां अकः ।
अभ्युदसीषदतिति भाषायां ।
प्रजनयां अकः ।
प्राजीजनतिति भाषायां ।
चिकयां अकः ।
अचैषीतिति भाषायां ।
रमयां अकः ।
अरीरमतिति भाषायां ।
पावयाङ्क्रियाथ् ।
पाव्यातिति भाषायां ।
विदां अक्रन् ।
अवेदिषुः इति भाषायां । ।


____________________________________________________________________


  1. <च्लि लुडि># । । PS_३,१.४३ । ।



_____Sठाऱ्ठ्JKव्_३,१.४३ः

धातोः च्लिः प्रत्ययो भवति लुडि परतः ।
इकार उच्चारण-अर्थः, चकारः स्वर-अर्थः ।
अस्य सिजादीनादेशान्वक्ष्यति ।
तत्र+एव+उदाहरिस्यामः । ।


____________________________________________________________________


  1. <च्लेः सिच्># । । PS_३,१.४४ । ।



_____Sठाऱ्ठ्JKव्_३,१.४४ः

च्लेः सिजादेशो भवति ।
इकार उच्चारण-अर्थः, चकारः स्वर-अर्थः ।
अकार्षीथ् ।
अहार्षीथ् ।
आगमानुदात्तत्वं हि प्रत्यय-स्वरं इव चित्स्वरं अपि बधेत इति स्थानिन्यादेशे च द्विश्चकारोऽनुबध्यते ।
स्पृशमृशकृषतृपदृपां सिज्वा वक्तव्यः ।
अस्प्राक्षीत्, अस्पार्क्षीत्, अस्पृक्षथ् ।
अम्राक्षीत्, अमार्क्षीत्, अमृक्षथ् ।
अकार्षीत्, अक्राक्षीत्, अकृक्षथ् ।
अत्राप्सीत्, आतार्प्सीत्, अतृपथ् ।
अद्राप्सीत्, अदार्प्सीत्, अदृपत् । ।


____________________________________________________________________


[#१८७]

  1. <शल इग्-उपधादनिटः क्षः># । । PS_३,१.४५ । ।



_____Sठाऱ्ठ्JKव्_३,१.४५ः

शलन्तो यो धातुरिग्-उपधस्तस्मात्परस्य च्लेः अनिटः क्ष आदेशो भवति ।
दुह - अधुक्षथ् ।
लिह - अलिक्षथ् ।
शलः इति किं ? अभैत्सीथ् ।
अच्छैत्सीथ् ।
इग्-उपधातिति किं ? अधाक्षीथ् ।
अनिटः इति किं ? अकोषीथ् ।
अमोषीत् । ।


____________________________________________________________________


  1. <श्लिष आलिङ्गने># । । PS_३,१.४६ । ।



_____Sठाऱ्ठ्JKव्_३,१.४६ः

श्लिषेः धातोः आलिङ्गन-क्रियावचनात्परस्य च्लेः क्षः आदेशो भवति ।
आलिङ्गनं उपगूहनं, परिष्वङ्गः ।
अत्र नियम-अर्थं एतथ् ।
आश्लिक्षत्कन्यां देवदत्तः ।
आलिङ्गने इति किं ? समाश्लिषज्जतु काष्ठं । ।


____________________________________________________________________


  1. <न दृशः># । । PS_३,१.४७ । ।



_____Sठाऱ्ठ्JKव्_३,१.४७ः

पूर्वेण क्षः प्राप्तः प्रतिषिध्यते ।
दृशेः धातोः परस्य च्लेः क्ष-आदेशो न भवति ।
अस्मिन्प्रतिषिद्धे इरितो वा (*३,१.४५) इति अङ्सिचौ भवतः ।
अदर्शत्, अद्राक्षीत् । ।


____________________________________________________________________


  1. <णि-श्रि-द्रु-स्रुभ्यः कर्तरि चङ्># । । PS_३,१.४८ । ।



_____Sठाऱ्ठ्JKव्_३,१.४८ः

सिज्-अपवादश्चङ्विधीयते ।
ण्य्-अन्तेभ्यो धातुभ्यः, श्रि द्रु स्रु इत्येतेभ्यश्च परस्य च्लेः चङ्-आदेशो भवति कर्तवाचिनि लुङि परतः ।
ङकारो गुण-वृद्धि-प्रतिषेध-अर्थः, चकारः चङि (*६,१.११) इति विशेषण-अर्थः ।
अचीकरथ् ।
अजीहरथ् ।
अशिश्रियथ् ।
अदुद्रुवथ् ।
असुस्रुवथ् ।
कर्तरि इति किं ? अकारयिषातां कटौ देवदत्तेन ।
कमेरुपसङ्ख्यानं ।
आयादयः आर्धधातुके वा (*३,१.३१) इति यदा णिङ्न अस्ति तदा+एततुपसङ्ख्यानं ।
अचकमत ।
णिङ्पक्षे सन्वद्भावः ।
अचीकमत ।
नाकमिष्टसुखं यान्ति सुयुक्तैर्वडवारथैः ।
अथ पत्कषिणो यान्ति येऽचीकमतभाषिणः । ।


____________________________________________________________________

  1. <विभाषा धेट्-श्व्योः># । । PS_३,१.४९ । ।



_____Sठाऱ्ठ्JKव्_३,१.४९ः

धेट्पाने, टुओश्वि गति-वृद्ध्योः, एताभ्यां उत्तरस्य च्लेर्विभाषा चङ्-आदेशो भवति ।
धेटस्तावत्- अदधाथ् ।
सिच्पक्षे विभाषा घ्रा-धेट्-शाच्-छा-सः (*२,४.७८) इति लुक् ।
अधाथ् ।
अधासीथ् ।
श्वयतेः खल्वपि ।
अशिश्वियथ् ।
अङोऽप्यत्र विकल्प इष्यते ।
अश्वथ् ।
अश्वयीथ् ।
कर्तरि इत्येव, अधिषातां गवौ वत्सेन । ।


____________________________________________________________________


[#१८८]

  1. <गुपेश्छन्दसि># । । PS_३,१.५० । ।



_____Sठाऱ्ठ्JKव्_३,१.५०ः

गुपेः परस्य च्लेः छन्दसि विषये विभाषा चङादेशो भवति ।
यत्र आय-प्रत्ययो नास्ति तत्र अयं विधिः ।
इमान्मे मित्रावरुणौ गृहञ्जुगुपतं युवं ।
अगौप्तम्, अगोपिष्टम्, अगोपायिष्टं इति वा ।
भाशायां तु चङन्तं वर्जयित्वा शिष्टं रूपत्रयं भवति । ।


____________________________________________________________________

  1. <न-उनयति-ध्वनयत्य्-एलयत्य्-अर्दयतिभ्यः># । । PS_३,१.५१ । ।



_____Sठाऱ्ठ्JKव्_३,१.५१ः
ऊन परिहाणे, ध्वन शब्दे, इल प्रेरणे, अर्द गतौ याचने च, एतेभ्यो धातुभ्यः ण्यन्तेभ्यः पूर्वेण च्लेश्चङि प्राप्ते छन्दसि विषये न भवति ।
काममूनयीः ।
औनिनः इति भाषायां ।
मा त्वाग्निर्धवनयीथ् ।
अदिध्वनतिति भषायां ।
काममिलयीथ् ।
ऐलिलतिति भाषायां ।
मैनमर्दयीथ् ।
आर्दिदतिति भाशायां । ।


____________________________________________________________________


  1. <अस्यति-वक्ति-ख्यातिभ्योऽङ्># । । PS_३,१.५२ । ।



_____Sठाऱ्ठ्JKव्_३,१.५२ः

असु क्षेपने, वच परिभाषणे ब्रूञ्-आदेशो वा, ख्या प्रकथने चक्षिङ्-आदेशो वा, एभ्यः परस्य च्लेरङ्-आदेशो भवति कर्तृ-वाचिनि लुगि परतः ।
अस्यतेः पुषादिपाठादेवाङि सिद्धे पुनर्ग्रहणं आत्मनेपद-अर्थं ।
पर्यास्थत, पर्यास्थेताम्, पर्यास्थन्त ।
वक्ति - अवोचत्, अवोचताम्, अवोचन् ।
ख्याति - आख्यत्, आख्यताम्, आख्यन् ।
कर्तरि इति किं ? पर्यासिषातां गावौ वत्सेन । ।


____________________________________________________________________


  1. <लिपि-सिचि-ह्वश्च># । । PS_३,१.५३ । ।



_____Sठाऱ्ठ्JKव्_३,१.५३ः

लिप उपदेहे षिच क्षरने, ह्वेञ्स्पर्धायाम्, एतेभ्यश्च परस्य च्लेः अङादेशो भवति ।
अलिपथ् ।
असिचथ् ।
आह्वथ् ।
पृथग्-योग उत्तर-अर्थः । ।


____________________________________________________________________


  1. <आत्मनेपदेष्वन्यतरस्याम्># । । PS_३,१.५४ । ।



_____Sठाऱ्ठ्JKव्_३,१.५४ः

पूर्वेण प्राप्ते विभषा आरभ्यते ।
लिपि-सिचि-ह्व आत्मनेपदेषु परतः च्लेः अङ्-आदेशो भवति अन्यतरस्यां ।
स्वरितञितः कर्त्र्-अभिप्राये क्रियाफले (*१,३.५२) इत्यात्मनेपदं ।
अलिपत, अलिप्त ।
असिचत, असिक्त ।
अह्वत्, अह्वास्त । ।


____________________________________________________________________


[#१८९]

  1. <पुषादि-द्युताद्य्-ऋदितः प्रस्मैपदेषु># । । PS_३,१.५५ । ।



_____Sठाऱ्ठ्JKव्_३,१.५५ः

द्युतादिभ्यश्च धातुभ्यः परस्य च्लेः परस्मैपदेषु परतः अङादेशो भवति ।
पुषादिर्दिवाद्यन्तर्गणो गृह्यते, न भ्वादि-क्र्याद्य्-अन्तर्गणः ।
पुष - अपुषथ् ।
द्युतादि - अद्युतथ् ।
अश्वितथ् ।
ऋदिद्भ्यःगमृ- अगमथ् ।
शकृ- अशकथ् ।
परस्मैपदेसु इति किं ? व्यद्योतिष्ट ।
अलोटिष्ट । ।


____________________________________________________________________


  1. <सर्ति-शास्त्य्-अर्तिभ्यश्च># । । PS_३,१.५६ । ।



_____Sठाऱ्ठ्JKव्_३,१.५६ः

सृ गतौ, शासु अनुशिष्टौ ऋ गतौ इत्येतेभ्यः परस्य च्लेः अङ्-आदेशो भवति ।
असरथ् ।
अशिषथ् ।
आरथ् ।
पृथग्योगकरणं आत्मनेपदार्थं ।
समरन्त ।
चकारः परस्मैपदेषु इत्यनुकर्षण-अर्थः तच्चोत्तरत्रोपयोगं यास्यति । ।


____________________________________________________________________


  1. <इरितो वा># । । PS_३,१.५७ । ।



_____Sठाऱ्ठ्JKव्_३,१.५७ः

इरितो धातोः परस्य च्लेः अङ्-आदेशो वा भवति ।
भिदिर्- अभिदत्, अभैत्सीथ् ।
छिदिर्- अच्छिदत्, अच्छैत्सीथ् ।
परस्मैपदेषु इत्येव, अभित्त ।
अच्छित्त । ।

____________________________________________________________________


  1. <ज्é-स्तम्भु-म्रुचु-म्लुचु-ग्रुचु-ग्लुचु-ग्लुञ्चु-श्विभ्यश्च># । । PS_३,१.५८ । ।



_____Sठाऱ्ठ्JKव्_३,१.५८ः

वा इति वर्तते ।
ज्éष्वयोहानौ, स्तम्भुः सौत्रो धातुः, म्रुचु, म्लुचु गत्यर्थे, ग्रुचु, ग्लुचु स्तेयकरणे, ग्लुञ्चु, षस्ज गतौ, टुओश्वि गति-वृद्ध्योः, एतेभ्यो धातुभ्यः परस्य च्लेर्वा अङ्-आदेशो भवति ।
अजरत्, अजारीथ् ।
अस्तभत्, अस्तम्भीथ् ।
अम्रुचत्, अम्रोचीथ् ।
अम्लुचत्, अम्लोचीथ् ।
अग्रुचत्, अग्रोचीथ् ।
अग्लुचत्, अग्लोचीथ् ।
अग्लुञ्चत्, अग्लुञ्चीथ् ।
अश्वत्, अश्वयीत्, अशीश्वियथ् ।
ग्लुचु-ग्लुज्च्वोरन्यतरोपादानेऽपि रूपत्रयं सिध्यति, अर्थभिदात्तु द्वयोरुपादानं कृतं ।
केचित्तु वर्नयन्ति द्वयोरुपादान-सामर्थ्याद्ग्लुञ्चेरनुनासिकलोपो न भवति, अग्लुञ्चतिति । ।


____________________________________________________________________


  1. <कृ-मृ-दृ-रुहिभ्यश्छन्दसि># । । PS_३,१.५९ । ।



_____Sठाऱ्ठ्JKव्_३,१.५९ः

कृ मृ दृ इत्येतेभ्यः परस्य च्लेः छन्दसि विषये अङ्-आदेशो भवति ।
शकलाङ्गुष्ठकोऽकरथ् ।
अथोऽमर ।
अदरदर्थान् ।
सानुमारुहथ् ।
अन्तरिक्षाद्दिवमारुहं ।
छन्दसि इति किं ? अकार्षीथ् ।
अमृत ।
अदारीथ् ।
अरुक्षत् । ।


____________________________________________________________________


[#१९०]

  1. <चिण्ते पदः># । । PS_३,१.६० । ।



_____Sठाऱ्ठ्JKव्_३,१.६०ः

पद गतौ, अस्माद्धातोः परस्य च्लेः चिण्-आदेसो भवति तशब्दे परतः ।
समर्थ्यादात्मनेपद-एकवचनं गृह्यते ।
उदपादि सस्यं ।
समपादि भैक्षं ।
त इति किं ? उदपत्सातां ।
उदपत्सत । ।


____________________________________________________________________


  1. <दीप-जन-बुध-पूरि-तायि-प्यायिभ्योऽन्यतरस्याम्># । । PS_३,१.६१ । ।



_____Sठाऱ्ठ्JKव्_३,१.६१ः

चिण्ते इति वर्तते ।
दीपी दीप्तौ, जनी प्रादुर्भावे, बुध अवगमने, पूरी आप्यायने, तायृ सन्तानपालनयोः, ओप्याअयी वृद्धौ, एतेभ्यः परस्य च्लेः तशब्दे परतोऽन्यतरस्यां चिण्-आदेशो भवति ।
अदीपि, अदीपिष्ट ।
अजनि, अजनिष्ट ।
अबोधि, अबुद्ध ।
अपूरि, अपूरिष्ट ।
अतायि, अतायिष्ट ।
अप्यायि, अप्यायिष्ट । ।


____________________________________________________________________


  1. <अचः कर्मकर्तरि># । । PS_३,१.६२ । ।



_____Sठाऱ्ठ्JKव्_३,१.६२ः

अजन्ताद्धातोः परस्य च्लेः कर्मक्र्तरि त-शब्दे परतः चिणादेषो भवति ।
प्राप्त-विभाषेयं ।
अकारि कटः स्वयं एव, अकृत कटः स्वयं एव ।
अलावि केदारः स्वयं एव, अलविष्ट केदारः स्वयं एव ।
अचः इति किं ? अभेदि काष्ठं स्वयं एव ।
कर्मकर्तरि इति किं ? अकारि कटो देवदत्तेन । ।


____________________________________________________________________


  1. <दुहश्च># । । PS_३,१.६३ । ।



_____Sठाऱ्ठ्JKव्_३,१.६३ः

दुह प्रपूरणे, अस्मात्परस्य च्लेः चिणादेशो भवत्यन्यतरस्यां ।
अदोहि गौः स्वयं एव, अगुग्ध गौः स्वयं एव ।
कर्मकर्तरि इत्येव, अदोहि गौर्गोपालकेन । ।


____________________________________________________________________


  1. <न रुधः># । । PS_३,१.६४ । ।



_____Sठाऱ्ठ्JKव्_३,१.६४ः

रुधिरावरणे, अस्मात्परस्य च्लेः कर्मक्र्तरि चिण्-आदेशो न भवति ।
अन्ववारुद्ध गौः स्वयं एव ।
कर्मकर्तरि इत्येव, अन्ववारोधि गौः गोपालकेन । ।


____________________________________________________________________


  1. <तपोऽनुतापे च># । । PS_३,१.६५ । ।



_____Sठाऱ्ठ्JKव्_३,१.६५ः

न इति वर्तते ।
तप सन्तापे, अस्मात्परस्य च्लेः चिणादेशो न भवति कर्मकर्तरि अनुतापे च ।
अनुतापः पश्चात्तपः ।
तस्य ग्रहणं कर्मकर्त्रर्थं, तत्र हि भावकर्मणोरपि प्रतिषेधो भवति ।
अतप्त तपस्तापसः ।
अन्ववातप्त पापेन कर्मणा । ।


____________________________________________________________________


[#१९१]

  1. <चिण्भावकर्मणोः># । । PS_३,१.६६ । ।



_____Sठाऱ्ठ्JKव्_३,१.६६ः

धातोः परस्य च्लेः चिण्-आदेशो भवति भावे कर्मणि त-शब्दे परतः ।
भावे तावत्-- अशायि भवता ।
कर्मणि खल्वपि -- अकारि कटो देवदत्तेन ।
अहारि भारो यज्ञदत्तेन ।
चिण्-ग्रहणं विस्पष्ट-अर्थं । ।

____________________________________________________________________


  1. <सार्वधातुके यक्># । । PS_३,१.६७ । ।



_____Sठाऱ्ठ्JKव्_३,१.६७ः

भावकर्म-वाचिनि सार्वधातुके परतो धतोः यक्प्रत्ययो भवति ।
आस्यते भवता ।
शय्यते भवता ।
कर्मणि -- क्रियते कटः ।
गम्यते ग्रामः ।
ककारो गुणवृद्धि-प्रतिषेध-अर्थः ।
यग्-विधाने कर्मक्र्तर्य्-उपसङ्ख्यानं ।
विप्रतिषेधाद्धि यकः शपो वलीयस्त्वं ।
क्रियते कटः स्वयं एव ।
पच्यते ओदनः स्वयं एव । ।


____________________________________________________________________


  1. <कर्तरि शप्># । । PS_३,१.६८ । ।



_____Sठाऱ्ठ्JKव्_३,१.६८ः

कर्तृ-वाचिनि सार्वधातुके परतो धातोः शप्प्रत्ययओ भवति ।
पकारः स्वरार्थः ।
शकारः सार्वधातुक-सञ्ज्ञ-अर्थः ।
भवति ।
पचति । ।


____________________________________________________________________

  1. <दिव्-आदिभ्यः श्यन्># । । PS_३,१.६९ । ।



_____Sठाऱ्ठ्JKव्_३,१.६९ः

दिवित्येवं आदिभ्यः धातुभ्यः श्यन्पर्त्ययो भवति ।
शपोऽपवादः ।
नकारः स्वर-अर्थः ।
शकारः सार्वधातुक-अर्थः ।
दीव्यति ।
सीव्यति । ।


____________________________________________________________________


  1. <वा भ्राश-भ्लाश-भ्रमु-क्रमु-क्लमु-त्रसि-त्रुति-लषः># । । PS_३,१.७० । ।



_____Sठाऱ्ठ्JKव्_३,१.७०ः

उभयत्र विभाषेयं ।
टुभ्राशृ, दुभ्लाशृ दीप्तौ, भ्रमु अनवस्थाने, भ्रमु चलने, द्वयोरपि ग्रहणम्, क्रमु पादविक्षेपे, क्लमु ग्लानौ, त्रसी उद्वेगे, त्रुटी छेदने, लष कान्तौ, एतेभ्यो वा श्यन्प्रत्ययो भवति ।
भ्राश्यते, भ्राशते ।
भ्लाश्यते, भ्लाशते ।
भ्राम्यति, भ्रमति ।
क्राम्यति, क्रामति ।
क्लाम्यति, क्लामति ।
त्रस्यति, त्रसति ।
त्र्युट्यति, त्रुटति ।
लष्यति, लषति । ।


____________________________________________________________________


  1. <यसोऽनुपसर्गात्># । । PS_३,१.७१ । ।


_____Sठाऱ्ठ्JKव्_३,१.७१ः

यसु प्रयत्ने दैवादिकः ।
तस्मान्नित्यं श्यनि प्राप्तेऽनुपसर्गाद्विकल्प उच्यते ।
यसोऽनुपसर्गाद्वा श्यन्प्रत्ययो भवति ।
यस्यति, यसति ।
अनुपसर्गातिति किं ? आयस्यति ।
प्रयस्यति । ।


____________________________________________________________________


[#१९२]

  1. <संयसश्च># । । PS_३,१.७२ । ।



_____Sठाऱ्ठ्JKव्_३,१.७२ः

सोपसर्ग-अर्थ आरम्भः ।
सम्पूर्वाच्च यसेः वा श्यन्प्रत्ययो भवति ।
संयस्यति, संयसति । ।


____________________________________________________________________


  1. <स्व्-आदिभ्यः श्नुः># । । PS_३,१.७३ । ।



_____Sठाऱ्ठ्JKव्_३,१.७३ः

षूञभिषवे, इत्येवं आदिभ्यो धातुभ्यः श्नुप्रत्ययो भवति ।
शपोऽपवादः ।
सुनोति ।
सिनोति । ।

____________________________________________________________________


  1. <श्रुवः शृ च># । । PS_३,१.७४ । ।



_____Sठाऱ्ठ्JKव्_३,१.७४ः

श्रुवः श्नु-प्रत्ययो भवति, तत्संनियोगेन श्रुवः शृ इत्ययं आदेशो भवति ।
शृणोति, शृणुतः, श्éण्वन्ति । ।


____________________________________________________________________


  1. <अक्षोऽन्यतरस्याम्># । । PS_३,१.७५ । ।



_____Sठाऱ्ठ्JKव्_३,१.७५ः

अक्षू व्याप्तौ ।
भौवादिकः ।
अस्मादन्यतरस्यां श्नु-प्रत्ययो भवति ।
अक्ष्णोति, अक्षति । ।


____________________________________________________________________


  1. <तनू-करणे तक्षः># । । PS_३,१.७६ । ।



_____Sठाऱ्ठ्JKव्_३,१.७६ः

तक्षू त्वक्षू तनू-करणे, अस्मात्तनूकरणे वर्तमानातनतरस्यां श्नु-प्रत्ययो भवति ।
अनेकार्थत्वाद्धातूनां विशेषण-उपादानं ।
तक्ष्णोति काष्ठम्, तक्षति काष्ठं ।
तनूकरणे इति किं ? संतक्षति वाग्भिः । ।

____________________________________________________________________


  1. <तुद्-आदिभ्यः शः># । । PS_३,१.७७ । ।



_____Sठाऱ्ठ्JKव्_३,१.७७ः

तुद व्यथने इत्येवं आदिभ्यो धातुभ्यः श-प्रत्ययो भवति ।
शपोऽपवादः ।
शकारः सार्वधातुकसञ्ज्ञ-अर्थः ।
तुदति ।
नुदति । ।


____________________________________________________________________


  1. <रुदः-आदिभ्यः श्नम्># । । PS_३,१.७८ । ।



_____Sठाऱ्ठ्JKव्_३,१.७८ः

रुधिरावरणे इत्येवं आदिभ्यो धातुभ्यः श्नं प्रत्ययो भवति ।
शपोऽपवादः ।
मकारो देशविध्यर्थः ।
शकारः श्नान्नलोपः (*६,४.२३) इति विशेषण-अर्थः ।
रुणद्धि ।
भिनत्ति । ।


____________________________________________________________________


[#१९३]

  1. <तन्-आदि-कृञ्भ्यः उः># । । PS_३,१.७९ । ।


_____Sठाऱ्ठ्JKव्_३,१.७९ः

तनु विस्तारे इत्येवं आदिभ्यो धातुभ्यः कृञश्च उ-प्रत्ययो भवति ।
शपोऽपवादः ।
तनोति ।
सनोति ।
क्षणोति ।
कृञः खल्वपि - करोति ।
तनादि-पाठादेव उ-प्रत्यये सिद्धे करोतेरुपादानं नियम-अर्थम्, अन्यत्तन्-आदि-कार्यं मा भूतिति ।
तन्-आदिभ्यस्त-थासोः (*२,४.७९) ।
इति विभाषा सिचो लुग्न भवति ।
अकृत ।
अकृथाः । ।


____________________________________________________________________


  1. <धिन्वि-कृण्व्योर च># । । PS_३,१.८० । ।



_____Sठाऱ्ठ्JKव्_३,१.८०ः

हिवि, धिवि जिवि प्रीणन-अर्थाः, कृवि हिंसाकरणयोः, इत्येतयोः धात्वोः उ-प्रत्ययो भवति, अकारश्च अन्तादेशः ।
धिनोति ।
कृणोति ।
अतो लोपस्य स्थानिवद्भावात्गुणो न भवति । ।


____________________________________________________________________


  1. <क्र्य्-आदिभ्यः श्ना># । । PS_३,१.८१ । ।



_____Sठाऱ्ठ्JKव्_३,१.८१ः

डुक्रीञ्द्रव्यविनिमये इत्येवं आदिभ्यः धातुभ्यः श्ना प्रत्ययो भवति ।
शपोऽपवादः ।
शकारः सार्वधातुक-सञ्ज्ञ-अर्थः ।
क्रीणाति ।
प्रीणाति । ।


____________________________________________________________________


  1. <स्तम्भु-स्तुम्भु-स्कम्भु-स्कुम्भु-स्कुञ्भ्यः श्नुश्च># । । PS_३,१.८२ । ।



_____Sठाऱ्ठ्JKव्_३,१.८२ः

आद्याश्चत्वारो धातवः सौत्राः, स्कुञाप्रवणे, एतेभ्यः श्ना प्रत्ययो भवति, श्नुः च ।
स्तभ्नाति, स्तभ्नोति ।
स्तुभ्नाति, स्तुभ्नोति ।
स्कभ्नाति, स्कभ्नोति ।
स्कुभ्नाति, स्कुभ्नोति ।
स्कुनाति, स्कुनोति ।
उदित्त्व-प्रतिज्ञानात्सौत्राणां अपि धातूनां सर्वार्थत्वं विज्ञायते, न+एतद्विकरण-विषयत्वं एव । ।


____________________________________________________________________


  1. <हलः श्नः शानज्ज्ञौ># । । PS_३,१.८३ । ।



_____Sठाऱ्ठ्JKव्_३,१.८३ः

हल उत्तरस्य श्ना-प्रत्ययस्य शनज्-आदेशो भवति हौ परतः ।
मुषाण ।
पुषाण ।
हलः इति किं ? क्रीणीहि ।
हौ इति किं ? मुष्णाति ।
श्नः इति स्थानि-निर्देशः आदेश-सम्प्रत्यय-अर्थः ।
इतरथा हि प्रत्यय-अन्तरं एव सर्वविषयं विज्ञायेत । ।


____________________________________________________________________


[#१९४]

  1. <छन्दसि शायजपि># । । PS_३,१.८४ । ।



_____Sठाऱ्ठ्JKव्_३,१.८४ः

छन्दसि विषये श्नः शायचादेशो भवति, शानजपि ।
गृभाय जिह्वया मधु ।
शानचः खल्वपि - बधान देव सवितः । ।


____________________________________________________________________


  1. <व्यत्ययो बहुलम्># । । PS_३,१.८५ । ।



_____Sठाऱ्ठ्JKव्_३,१.८५ः

यथायथं विकरणाः शबादयो विहिताः, तेषां छन्दसि विषये बहुलं व्यत्ययो भवति ।
व्यतिगमनं व्यत्ययः, व्यतिहारः ।
विषयान्तरे विधानम्, क्वचिद्द्विविकरणता, क्वचित्त्रिविकरणता च ।
आण्डा शुष्णस्य भेदति ।
भिनत्ति इति प्राप्ते ।
ताश्चिन्नौ न मरन्ति ।
न म्रियन्ते इति प्राप्ते ।
द्विविकरणता - इन्द्रो वस्तेन नेषतु ।
नयतु इति प्राप्ते ।
त्रिविकरणता - इन्द्रेण युजा तरुषेम वृत्रं ।
तीर्यस्म इति प्राप्ते ।
बहुल-ग्रहणं सर्वविधि-व्यभिचार-अर्थं ।
सुप्तिङुपग्रलिङ्गनरणां कालहलच्स्वरकर्तृयङां च ।
व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बहुलकेन । ।


____________________________________________________________________


  1. <लिङ्याशिष्यङ्># । । PS_३,१.८६ । ।



_____Sठाऱ्ठ्JKव्_३,१.८६ः

आशिषि विषये यो लिङ्तस्मिन्परतः छन्दसि विषये अङ्प्रत्ययो भवति ।
शपोऽपवादः ।
छन्दस्युभयथा (*३,४.११७) इति लिङः सार्वधातुक-सञ्ज्ञाप्यस्ति ।
स्थागागमिवचिविदिशकिरुहयः प्रयोजनं ।
स्था - उपस्थेषं वृषभं तुग्रियाणां ।
गा - सत्यं उपगेषं ।
गमि - गृहं गमेम ।
वचि - मन्त्रं वोचेमाग्नये ।
विदि - विदेयमेनां मनसि प्रविष्टां ।
शकि - व्रतं चरिष्यामि तच्छकेयं ।
रुहि - स्वर्गं लोकं आरुहेयं ।
दृशेरग्वक्तव्यः ।
पितरं दृशेयं मातरं च । ।


____________________________________________________________________


[#१९५]

  1. <कर्मवत्कर्मणा तुल्यक्रियः># । । PS_३,१.८७ । ।



_____Sठाऱ्ठ्JKव्_३,१.८७ः

कर्मणि क्रिया कर्म, कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवद्भवति ।
यस्मिन्कर्मणि कर्तृभूतेऽपि तद्वत्क्रिया लक्ष्यते यथा कर्मणि, स कर्ता कर्मवद्भवति ।
कर्माश्रयाणि कार्याणि प्रतिपद्यते ।
कर्तरि शप्(*३,१.६८) इति कर्तृ-ग्रहणं इह अनुवृत्तं प्रथमया विपरिणम्यते ।
यगात्मनेपदचिण्चिण्वद्भावाः प्रयोजनं ।
भिद्यते काष्ठं स्वयं एव ।
अभेदि काष्ठं स्वयं एव ।
कारिष्यते कटः स्वयं एव ।
वत्करणं स्वाश्रयं अपि यथा स्यात्, भिद्यते कुसूलेन इति ।
अकर्मकाणां भावे लः सिद्धो भवति ।
लिङ्य्-आशि-ष्यङ्(*३,१.८६) इति द्विलकारको निर्देशः ।
तत्र लानुवृत्तेर्लान्तस्य कर्ता कर्मवद्भवति इति कुसूलाद्द्वितीया न भवति ।
कर्मणा इति किं ? करण-अधिकरण-अभ्यां तुल्यक्रियस्य मा भूथ् ।
साध्वसिश्छिनत्ति ।
साधु स्थाली पचति ।
धात्व्-अधिकारात्समाने धातौ कर्मवद्-भावः ।
इह न भवति, पचत्योदनं देवदत्तः, राध्यन्त्योदनं स्वयं एव इति ।
कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्ता कर्मवद्भवति, न कर्तृस्थाभावकानां न वा कर्तृस्थ-क्रियाणां ।
कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया ।
मासासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया । ।


____________________________________________________________________


  1. <तपस्तपः-कर्मकस्य+एव># । । PS_३,१.८८ । ।



_____Sठाऱ्ठ्JKव्_३,१.८८ः

तप सन्तापे, अस्य कर्ता कर्मवद्भावति, स च तपः-कर्मकस्य+एव न अन्यकर्मकस्य ।
क्रियाभेदाद्विध्य्-अर्थं एतथ् ।
उपवासादीनि तपांसि तापसं तपन्ति ।
दुःखयन्ति इत्यर्थः ।
स तापसस्त्वगस्थिभूतः स्वर्गाय तपस्तप्यते ।
अर्जयति इत्यर्थः ।
पूर्वेण अप्राप्तः कर्मवद्भावो विधीयते ।
तप्यते तपस्तापसः ।
अतप्त तपस्तापसः ।
तपःकर्मकस्य+एव इति किं ? उत्तपति सुवर्णं सुवर्णकारः । ।


____________________________________________________________________


  1. <न दुह-स्नु-नमां यक्-चिणौ># । । PS_३,१.८९ । ।



_____Sठाऱ्ठ्JKव्_३,१.८९ः

दुह सनु नं इत्येतेषं कर्मकर्तरि यक्-चिणौ कर्मवद्भाव-अपदिष्टौ न भवतः ।
दुहेरनेन यक्प्रतिषिध्यते ।
चिण्तु दुहश्च (*३,१.६३) इति पूर्वं एव विभाषितः ।
दुग्धे गौः स्वयं एव ।
अदुग्ध गौः स्वयं एव ।
अदोहि गौः स्वयं एव ।
प्रस्नुते गौः स्वयं एव ।
प्रास्नोष्ट गौः स्वयं एव ।
नमते दण्डः स्वयं एव ।
अनंस्त दण्डः स्वयं एव ।
यक्-चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञ्. आत्मनेपदाकर्मकाणां उपसङ्ख्यानं ।
कारयति कटं देवदत्तः ।
कारयते कटः स्वयं एव ।
अचीकरत्कटं देवदत्तः ।
अचीकरत कटः स्वयं एव ।
उत्पुच्छयते गां गोपः ।
उत्पुच्छयते गौः स्वयं एव ।
उदपुपुच्छत गौः स्वयं एव ।
श्रथ्नाति ग्रन्थं देवदत्तः ।
श्रथ्नीते ग्रन्थः स्वयं एव ।
अश्रन्थिष्ट ग्रन्थः स्वयं एव ।
ग्रथ्नाति श्लोकं देवदत्तः ।
ग्रथ्नीते श्लोकः स्वयं एव ।

[#१९६]

अग्रन्थिष्ट श्लोकः स्वयं एव ।
ब्रवीति श्लोकं देवदत्तः ।
ब्रूते श्लोकः स्वयं एव ।
अवोचत्श्लोकं देवदत्तः ।
अवोचत श्लोकः स्वयं एव ।
आत्मनेपद-विधानेऽकर्मकाणां - आहन्ति माणवकं देवदत्तः ।
आहते माणवकः स्वयं एव ।
आवधिष्ट मानवकः स्वयं एव, आहत इति वा ।
विकुर्वते सैन्धवाः स्वयं एव ।
व्यकृषत सैन्धवः स्वयं एव । ।


____________________________________________________________________


  1. <कुषि-रजोः प्राचां श्यन्परस्मैपदं च># । । PS_३,१.९० । ।



_____Sठाऱ्ठ्JKव्_३,१.९०ः

कुष निष्कर्षे, रञ्ज रागे, अनयोर्धात्वोः कर्मकर्तरि प्राचां आचार्याणां मतेन श्यन्प्रत्ययो भवति, परस्मैपदं च ।
यग्-आत्मनेपदयोरपवादौ ।
कुष्यति पादः स्वयं एव ।
रज्यति वस्त्रं स्वयं एव ।
प्राचां ग्रहणं विकल्प-अर्थं ।
कुष्यते ।
रज्यते ।
व्यवस्थित-विभाषा च+इयं ।
तेन लिट्-लिङोः स्यादि-विषये च न भवतः ।
चुकुषे पादः स्वयं एव ।
ररञ्जे वस्त्रं स्वयं एव ।
कोषिषीष्ट पादः स्वयं एव ।
रङ्क्षीष्ट वस्त्रं स्वयं एव ।
कोषिष्यते पादः स्वयं एव ।
रङ्क्ष्यते वस्त्रं स्वयं एव ।
अकोषि पादः स्वयं एव ।
अरञ्जि वस्त्रं स्वयं एव । ।


____________________________________________________________________


  1. <धातोः># । । PS_३,१.९१ । ।



_____Sठाऱ्ठ्JKव्_३,१.९१ः

धातोः इत्ययं अधिकारो वेदितवयः ।
आतृतीयाध्याय-परिसमाप्तेः यदित ऊर्ध्वं अनुक्रमिष्यामो धातोः इत्येवं तद्वेदितव्यं ।
वक्ष्यति - तव्यत्-तव्य-अनीयरः (*३,१.९६) इति ।
कर्तव्यं ।
करणीयं ।
धातु-ग्रहनं अनकर्थकं यङ्-विधौ धात्व्-अधिकाराथ् ।
कृदुपपद-सज्ञ-अर्थं तर्हि, अस्मिन्धात्व्-अधिकारे ते यथा स्यातां, पूर्वत्र मा भूतां इति ।
आर्धधातुक-सञ्ज्ञ-अर्थं च द्वितीयं धातु-ग्रहणं कर्तव्यं ।
धातोः इत्येवं विहितस्य यथा स्याथ् ।
इह मा भूत्, लूभ्याम्, लूभिः इति । ।


____________________________________________________________________


  1. <तत्र+उपपदं सप्तमीस्थम्># । । PS_३,१.९२ । ।



_____Sठाऱ्ठ्JKव्_३,१.९२ः

तत्र+एतस्मिन्धात्व्-अधिकारे तृतीये यत्सप्तमी-निर्दिष्टं तदुपपद-सञ्ज्ञं भवति ।
वक्ष्यति - कर्मण्य्-अण्(*३,२.१) ।
कुम्भकारः ।
स्थ-ग्रहणं सूत्रेषु सप्तमी-निर्देश-प्रतिपत्त्य्-अर्थं ।
इतरथा हि सप्तमी श्रूयते यत्र तत्र+एव स्यात्, स्तम्बेरमः, कर्णेजपः इति ।
यत्र वा सप्तमी-श्रुतिरस्ति सप्तम्यां जनेर्डः (*३,२.९७) इति, उपसरजः, मन्दुरजः इति ।
स्थ-ग्रहणात्तु सर्वत्र भवति ।
गुरुसञ्ज्ञा-करणं अन्वर्थसञ्ज्ञा-विज्ञाने सति समर्थ-परिभाषाव्यापार-अर्थं ।
पष्य कुम्भं, करोति कटं इति प्रत्ययो न भवति ।
उपपद-प्रदेशाः - उपपदं अतिङ्(*२,२.१९) इत्येवं आदयः । ।

____________________________________________________________________


[#१९७]

  1. <कृदतिङ्># । । PS_३,१.९३ । ।



_____Sठाऱ्ठ्JKव्_३,१.९३ः

अस्मिन्धात्व्-अधिकारे तिङ्-वर्जितः प्रत्ययः कृत्-सज्ञको भवति ।
कर्तव्यं ।
करणीयं ।
अतिङ इति किं ? चीयाथ् ।
स्तूयाथ् ।
कृत्प्रदेशाः -- कृत्-तद्धित-समासश्च (*१,२.४६) इत्येवं आदयः । ।


____________________________________________________________________


  1. <वाऽसरूपोऽस्त्रियाम्># । । PS_३,१.९४ । ।



_____Sठाऱ्ठ्JKव्_३,१.९४ः

अस्मिन्धात्व्-अधिकारेऽस्मानरूपः प्रत्ययोऽपवादो वा बाधको भवति स्त्र्यधिकार-विहित-प्रत्ययं वर्जयित्वा ।
ण्वुल्-तृचौ (*३,१.१३३) उत्सर्गौ, इगुपध-ज्ञा-प्रि-इकिरः कः (*३,१.१३५) इत्यपवादः, तद्-विषये ण्वुल्-तृचौ (*३,१.१३३) अपि भवतः ।
विक्षेपकः, विक्षेप्ता, विक्षिपः ।
असरूप इति किं ? कर्मण्य्-अण्(*३,२.१) इत्युत्सर्गः, आतोऽनुपसर्गे कः (*३,२.३) इत्यपवादः, सनित्यं बाधको भवति ।
गोदः ।
कम्बलदः ।
न अमुबन्ध-कृतं असारूप्यं ।
अस्त्रियां इति किं ? स्त्रियां कितन्(*३,३.९४) इत्युत्सर्गः, अ प्रत्ययात्(*३,३.१०२) इत्यपवदः, स बाधक एव भवति ।
चिकीर्षा जिहीर्षा । ।


____________________________________________________________________


  1. <कृत्याः प्रग्ण्वुलः># । । PS_३,१.९५ । ।



_____Sठाऱ्ठ्JKव्_३,१.९५ः

ण्वुल्-तृचौ (*३,१.१३३) इति वक्ष्यति ।
प्रागेतस्माण्ण्वुल्संशब्दनाद्यानित ऊर्ध्वं अनुक्रमिष्यामः, कृत्य-सञ्जकस्ते वेदितव्याः ।
तत्र+एव+उदाहरिस्यामः ।
कृत्य-प्रदेशः - कृत्यैरधिक-आर्थ-वचने (*२,१.३३), कृत्यानां कर्तरि वा (*२,३.७१) इत्येवं आदयः । ।


____________________________________________________________________


  1. <तव्यत्-तव्य-अनीयरः># । । PS_३,१.९६ । ।



_____Sठाऱ्ठ्JKव्_३,१.९६ः

धातोः (*३,१.९१) इति वर्तते ।
धातोः तव्यत्, तव्य, अनीयरित्येते प्रयया भवन्ति ।
तकाररेफौ स्वरार्थौ ।
कर्तव्यं ।
कर्तव्यं ।
कर्णीयं ।
वसेस्तव्यत्कर्तरि णिच्च ।
वास्तव्यः ।
केलिमर उपसङ्ख्यानं ।
पचेलिमाः माषाः ।
भिदेलिमानि काष्ठानि ।
कर्मकर्तरि च अयं इष्यते । ।


____________________________________________________________________

[#१९८]

  1. <अचो यत्># । । PS_३,१.९७ । ।



_____Sठाऱ्ठ्JKव्_३,१.९७ः

अजन्ताद्धातोः यत्प्रत्ययो भवति ।
तकारो यतोऽनावः (*६,१.२१३) इति स्वरार्थः ।
गेयं ।
पेयं ।
चेयं ।
जेयं ।
अज्-ग्रहणं किं यावता हलन्ताण्ण्यतं वक्ष्यति ? अजन्तभूत-पूर्वादपि यथा स्यात्, दित्स्यम्, धित्स्यं ।
तकिशसिचतियतिजनीनां उपसङ्ख्यानं तकि -- तक्यं ।
शसि -- शस्यं ।
चति -- चत्यं ।
यति -- यत्यं ।
जनि -- जन्यं ।
हनो वा वध च ।
वध्यम्, घात्यं । ।


____________________________________________________________________


  1. <पोरद्-उपधात्># । । PS_३,१.९८ । ।



_____Sठाऱ्ठ्JKव्_३,१.९८ः

पवर्ग-अन्ताद्धातोः अकारोपधात्यत्प्रययो भवति ।
ण्यतोऽपवादः ।
शप्- शप्यं ।
लभ - लभ्यं ।
पोः इति किं ? पाक्यं ।
वाक्यं ।
अदुपधातिति किं ? कोप्यं ।
गोप्यं ।
तपरकरणं तत्काल-अर्थं ।
आप्यं । ।


____________________________________________________________________


  1. <शकि-सहोश्च># । । PS_३,१.९९ । ।



_____Sठाऱ्ठ्JKव्_३,१.९९ः

शकृशक्तौ, षह मर्षणे, अनयोर्धात्वोः यत्प्रययो भवति ।
शक्यं ।
सह्यं । ।


____________________________________________________________________


  1. <गद-मद-चर-यमश्च अनुपसर्गे># । । PS_३,१.१०० । ।



_____Sठाऱ्ठ्JKव्_३,१.१००ः

गद व्यक्तायां वाचि, मदी हर्षे, चर गतिभक्षणयोः, यम उपरमे, एतेभ्यश्च अनुपसर्गेभ्यो यत्प्रत्ययो भवति ।
गद्यं ।
मद्यं ।
चर्यं ।
यम्यं ।
अनुपसर्गे इति किं ? प्रगाद्यं ।
प्रमाद्यं ।
यमेः पूर्वेण+एव सिद्धे अनुपसर्ग-नियम-अर्थं वचनं ।
चरेराङि चागुरौ ।
आचर्यो देशः ।
अगुरौ इति किं ? आचार्य उपनेता । ।

____________________________________________________________________


[#१९९]

  1. <अवद्य-पण्य-वर्या गर्ह्य-पणितव्य-अनिरोधेषु># । । PS_३,१.१०१ । ।



_____Sठाऱ्ठ्JKव्_३,१.१०१ः

अवद्य पण्य वर्या इत्येते शब्दा निपात्यन्ते गर्ह्य पणितव्य अनिरोध इत्येतेष्वर्थेषु यथा-सङ्ख्यं ।
अवध्यं इति निपात्यते गर्ह्यं चेत्तद्भवति ।
अवद्यं पापं ।
अनुद्यं अन्यथ् ।
वदः सुपि क्यप्च (*३,१.१०६) ।
पण्यं इति निपात्यते, पणितव्यं चेत्तद्भवति ।
पण्यः कम्बलः ।
पण्या गौः ।
पाण्यं अन्यथ् ।
वर्या इति स्त्रियां निपात्यते, अनिरोधश्चेद्भवति ।
अनिरोधोऽप्रतिबन्धः ।
शतेन वर्या ।
सहस्रेण वर्या ।
वृत्या अन्या ।
स्त्रीलिङ्ग-निर्देशः किं अर्थः ? वार्या ऋत्विजः । ।


____________________________________________________________________


  1. <वह्यं करणम्># । । PS_३,१.१०२ । ।



_____Sठाऱ्ठ्JKव्_३,१.१०२ः

वहेर्धातोः करणे यत्प्रत्ययो निपात्यते ।
वहत्यनेन इति वह्यं शकटं ।
करणे इति किं ? वाह्यं अन्यत् । ।

____________________________________________________________________


  1. <अर्यः स्वमि-वैश्ययोः># । । PS_३,१.१०३ । ।



_____Sठाऱ्ठ्JKव्_३,१.१०३ः

ऋ गतौ, अस्माण्ण्यति प्राप्ते स्वामि-वैश्ययोः अभिधेययोः यत्प्रत्ययो निपत्यते ।
अर्यः स्वामी ।
अर्यो वैश्यः ।
यतोऽनावः (*६,१.२१३) इत्याद्य्-उदात्तत्वे प्राप्ते - स्वामिन्यन्तोदात्तत्वं च वक्तव्यं ।
स्वामि-वैश्ययोः इति किं ? आर्यो ब्राह्मणः । ।


____________________________________________________________________


  1. <उपसर्या काल्या प्रजने># । । PS_३,१.१०४ । ।



_____Sठाऱ्ठ्JKव्_३,१.१०४ः

उपसर्या इति निपात्यते काल्या चेत्प्रजने भवति ।
उपपूर्वात्सर्तेः यत्प्रत्ययः ।
प्रप्तकाला काल्या ।
प्रजनः प्रजननं, प्रथमगर्भ-ग्रहणं ।
गर्भ-ग्रहणे प्रप्तकाला ।
उपसर्या गौः ।
उपसर्या वडवा ।
काल्या प्रजने इति किं ? उपसार्या शरदि मधुरा । ।


____________________________________________________________________


  1. <अजर्यं सङ्गतम्># । । PS_३,१.१०५ । ।


_____Sठाऱ्ठ्JKव्_३,१.१०५ः

अजर्यं इति निपात्यते, सङ्गतं चेद्भवति ।
जीर्यतेः नञ्पूर्वात्सङ्गते सङ्गमने कर्तरि यत्प्रययो निपात्यते ।
न जीर्यति इति अजर्यं ।
अजर्यं आर्य-सङ्गतं ।
अजर्यं नोऽस्तु सङ्गतं ।
सङ्गतं इति किं ? अजरिता कम्बलः । ।


____________________________________________________________________


[#२००]

  1. <वदः सुपि क्यप्च># । । PS_३,१.१०६ । ।



_____Sठाऱ्ठ्JKव्_३,१.१०६ः

अनुपसर्गे इति वर्तते ।
वदेर्धातोः सुबन्तोः उपपदे अनुपसर्गे क्यप्प्रत्ययो भवति, चकाराद्यत्च ।
ब्रह्मोद्यम्, ब्रह्मवद्यं ।
सत्योद्यम्, सत्यवद्यं ।
सुपि इति किं ? वाद्यं ।
अनुपसर्गे इत्येव, प्रवाद्यं । ।


____________________________________________________________________


  1. <भुवो भावे># । । PS_३,१.१०७ । ।



_____Sठाऱ्ठ्JKव्_३,१.१०७ः

सुप्यनुपसर्गे इत्यनुवर्तते ।
भवतेर्धातोः सुबन्ते उपपदेऽनुपसर्गे भावे क्यप्प्रत्ययो भवति ।
यत्तु न अनुवर्तते ।
ब्रह्म-भूयं गतः ब्रहंत्वं गतः ।
देव-भूयं, देवत्वं गतः ।
भाव-ग्रहणं उत्तर-अर्थं ।
सुपि इत्येव, भव्यं ।
अनुपसर्गे इत्येव, प्रभव्यं । ।


____________________________________________________________________


  1. <हनस्त च># । । PS_३,१.१०८ । ।



_____Sठाऱ्ठ्JKव्_३,१.१०८ः

सुप्यनुपसर्गे इति वर्तते, भावे इति च ।
हन्तेर्धातोः सुबन्त उपपदेऽनुपसर्गे भावे क्यप्प्रत्ययो भवति, तकारश्चान्तादेशः ।
ब्रहमहत्या ।
अश्वहत्या ।
सुपि इत्येव, घातः ।
ण्यत्तु भावे न भव्त्यनभिधानाथ् ।
अनुपसर्गे इत्येव, प्रघातो वर्तते । ।


____________________________________________________________________


  1. <एति-स्तु-शास्-वृ-दृ-जुषः क्यप्># । । PS_३,१.१०९ । ।



_____Sठाऱ्ठ्JKव्_३,१.१०९ः

सुप्यनुपसर्गे भावे इति निवृत्तं ।
सामान्येन विधानमे तथ् ।
एति स्तु शास्वृ दृ जुषित्येतेभ्यः क्यप्प्रत्ययो भवति ।
इत्यः ।
स्तुत्यः ।
शिष्यः ।
वृत्यः ।
आदृत्यः ।
जुष्यः ।
क्यपिति वर्तमाने पुनः क्यब्-ग्रहणं बाधक-बाधन-अर्थं ।
ओरावश्यके (*३,१.१२५) इति ण्यतं बाधित्वा क्यबेव भवति ।
अवश्य्स्तुत्यः ।
वृ-ग्रहणे वृञो ग्रहणं इष्यते, न वृङः ।
वार्याः ऋत्विजः ।
शंसिदुहिगुहिभ्यो वेति वक्तव्यं ।
शस्यम्, शंस्यं ।
दुह्यम्, दोह्यं , गुह्यम्, गोह्यं ।
आङ्-पूर्वादञ्जेः सञ्ज्ञायां उपसङ्ख्यानं ।
आज्यं घृतं ।
कथं उपेयं ? एः एतद्रूपं, न इणः । ।


____________________________________________________________________


[#२०१]

  1. <ऋदुपधाच्च अकृपि-चृतेः># । । PS_३,१.११० । ।



_____Sठाऱ्ठ्JKव्_३,१.११०ः

ऋकार-उपधाच्च धातोः क्यप्प्रत्ययो भवति कृपि-चृती वर्जयित्वा ।
वृतु - वृत्यं ।
वृधु - वृध्यं अकृपि-चृतेः इति किं ? कल्प्यं ।
चर्त्यं ।
तपरकरणं किं ? क्éत संशब्दने ।
ण्यदेव भवति कीर्त्यं ।
पाणौ सृजेर्ण्यद्वक्तव्यः ।
पाणिसर्ग्या रज्जुः ।
समवपूर्वाच्च ।
समवसर्ग्या । ।

____________________________________________________________________


  1. <ई च खनः># । । PS_३,१.१११ । ।



_____Sठाऱ्ठ्JKव्_३,१.१११ः

खनेर्धातोः क्यप्प्रत्ययो भवति, ईकारश्च अन्तादेशः ।
खेयं ।
दीर्घ-निर्देशः प्रश्लेष-अर्थः ।
तत्र द्वितीय इकारो ये विभाषा (*६,४.४३) इति आत्त्वबाधनार्थः । ।


____________________________________________________________________


  1. <भृञोऽसञ्ज्ञायाम्># । । PS_३,१.११२ । ।



_____Sठाऱ्ठ्JKव्_३,१.११२ः

भृञो धतोः असञ्ज्ञायां विषये क्यप्प्रययो भवति ।
भृत्याः कर्मकराः ।
भर्तव्याः इत्यर्थः ।
असञ्ज्ञायां इति किं ? भार्यो नाम क्षत्रियः ।
सम्पूर्वाद्विभाषा ।
सम्भृत्याः, सम्भार्याः ।
सञ्ज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति ।
स्त्रियां भाव-अधिकारोऽस्ति तेन भार्य प्रसिध्यति । ।


____________________________________________________________________


  1. <मृजेर्विभाषा># । । PS_३,१.११३ । ।


_____Sठाऱ्ठ्JKव्_३,१.११३ः

मृजेर्धातोः विभाषा क्यप्प्रत्ययो भवति ।
ऋद्-उपधत्वात्प्राप्त-विभाषेयं ।
परिमृज्यः, परिमार्ग्यः । ।


____________________________________________________________________


[#२०२]

  1. <राजसूय-सूर्य-मृषोद्य-रुच्य-कुप्य-कृष्टपच्य-अव्यथ्याः># । । PS_३,१.११४ । ।



_____Sठाऱ्ठ्JKव्_३,१.११४ः

राजसुय सुर्य मृषोद्य रुच्य कुप्य कृष्टपच्य अव्यथ्य इत्येते शब्दाः क्यपि निपात्यन्ते ।
राज्ञा सोतव्यः, राजा वा इह सूयते राजसूयः क्रतुः ।
सूसर्तिभ्यां क्यप्, सर्तेरुत्वं, सुबतेर्वा रुडागमः ।
सरति सुवति व सूर्यः ।
मृषापूर्वस्य वदतेः पक्षे यति प्राप्ते नित्यं क्यब्निपात्यते ।
मृषा-पूर्वस्य मृषोद्यं ।
रोचतेऽसौ रुच्यः ।
कर्तरि क्यप् ।
गुपेरादेः क्त्वं च सज्ञायां ।
कुप्यं ।
गोप्यं अन्यथ् ।
कृष्टे पच्यन्ते कृष्टप्च्याः ।
कर्मकर्तरि निपातनं ।
न व्यथते अव्यथ्यः । ।


____________________________________________________________________


  1. <भिद्य-उद्ध्यौ नदे># । । PS_३,१.११५ । ।


_____Sठाऱ्ठ्JKव्_३,१.११५ः

भिदेरुज्झेश्च क्यप्निपात्यते नदेऽभिधेये ।
उज्झेर्धत्त्वं च ।
भिनत्ति कूलं भिद्यः ।
उज्झति उदकं उद्ध्यः ।
नदे इति किं ? भेत्ता ।
उज्झिता । ।


____________________________________________________________________


  1. <पुष्य-सिद्ध्यौ नक्षत्रे># । । PS_३,१.११६ । ।



_____Sठाऱ्ठ्JKव्_३,१.११६ः

पुषेः सिधेश्च अधिकरणे क्यप्निपात्यते नक्षत्रे अभिधेये ।
पुष्यन्ति अस्मिन्नर्थाः इति पुष्यः ।
सिध्यन्ति अस्मिन्निति सिद्ध्यः ।
नक्षत्रे इति किं ? पोषणं ।
सेधनं । ।


____________________________________________________________________


  1. <विपूय-विनीय-जित्या मुङ्ज-कल्क-हलिषु># । । PS_३,१.११७ । ।



_____Sठाऱ्ठ्JKव्_३,१.११७ः

निपूय विनीय जित्य इत्येते शब्दा निपात्यन्ते यथा-सङ्ख्यं मुञ्ज कल्क हलि इत्येतेषु अर्थेषु वोध्येषु ।
विपूर्वात्पवतेर्नयतेश्च तथा जयतेर्यति प्राप्ते कर्मणि क्यब्निपात्यते ।
विपूयो मुञ्जः ।
विपाव्यं अन्यथ् ।
विनीयः क्ल्कः ।
विनेयं अन्यथ् ।
जित्यो हलिः ।
जेयं अन्यत् । ।


____________________________________________________________________


  1. <प्रत्य्-अपिभ्यां ग्रहेश्छन्दसि># । । PS_३,१.११८ । ।



_____Sठाऱ्ठ्JKव्_३,१.११८ः

प्रति अपि इत्येवं पूर्वाद्ग्रहेः क्यप्प्रत्ययो भवति छन्दसि विषये ।
मत्तस्य न प्रतिग्रृह्यं ।
तस्मान्न अपिगृह्यं ।
छन्दसि इति किं ? प्रतिग्राह्यं ।
अपिग्राह्यं । ।


____________________________________________________________________


[#२०३]

  1. <पद-अस्वैरि-बाह्या-पक्ष्येषु च># । । PS_३,१.११९ । ।



_____Sठाऱ्ठ्JKव्_३,१.११९ः

पदे अस्वैरिणि बाह्यायां पक्ष्ये चर्थे ग्रहेर्धातोः क्यप्प्रत्ययो भवति ।
पदे तावत्-- प्रगृह्यं पदम्, यस्य प्रगृह्य-सञ्ज्ञा विहिता ।
अवगृह्यं पदम्, यस्य अवग्रहः क्रियते ।
अस्वैरी परतन्त्रः ।
गृह्यका इमे ।
गृहीतका इत्यर्थः ।
बाह्यायं -- ग्राम-गृह्या सेना ।
नगर-गृह्या सेना ।
ग्राम.-नगर-अभ्यां बहिर्-भूता इत्यर्थः ।
स्त्रीलिङ्गः निर्देशादन्यत्र न भवति ।
पक्षे भवः पक्ष्यः ।
वासुदेव-गृह्याः ।
अर्जुन-गृह्याः ।
तत्पक्षाश्रिताः इत्यर्थः । ।


____________________________________________________________________


  1. <विभाषा कृ-वृषोः># । । PS_३,१.१२० । ।



_____Sठाऱ्ठ्JKव्_३,१.१२०ः

कृञो वृषश्च विभाषा क्यप्प्रत्ययो भवति ।
करोतेर्ण्यति प्राप्ते वर्षतेः ऋदुपधत्वात्नित्ये क्यपि प्राप्ते विभाषार्भ्यते ।
कृत्यम्, कार्यं ।
वृष्यम्, वर्ष्यं । ।


____________________________________________________________________


  1. <युग्यं च पत्रे># । । PS_३,१.१२१ । ।



_____Sठाऱ्ठ्JKव्_३,१.१२१ः

युग्यं इति निपात्यते पत्रं चेत्तद्भवति ।
पतत्यनेन इत्पत्रं वाहनं उच्यते ।
युग्यो गौः ।
युग्योऽश्वः ।
युग्यो हस्ती ।
युजेः क्यप्कुत्वं च निपात्यते ।
पत्रे इति किं ? योग्यं अन्यत् । ।

____________________________________________________________________


  1. <अमावस्यद्-अन्यतरस्याम्># । । PS_३,१.१२२ । ।



_____Sठाऱ्ठ्JKव्_३,१.१२२ः

अमा-शब्दः सहार्थे वर्तते ।
तस्मिन्नुपपदे वसेर्धातोः कालेऽधिकरणे ण्यत्प्रत्ययो भवति, तत्र अन्यतरस्यां वृद्ध्यभावो निपात्यते ।
सह वसतोऽस्मिन्काले सूर्याचन्द्रमसौ इति अमावास्य, अमावस्या ।
एकदेशविकृतस्य अनन्यत्वादमावास्याया वा (*४,३.३०) इत्यत्र अमावस्या-शब्दस्य अपि ग्रहणं भवति ।
अमावसोरहं ण्यतोर्निपातयाम्यवृद्धितां ।
तथैकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति । ।


____________________________________________________________________


  1. <छन्दसि निष्टर्क्य-देवहूय-प्रणीय-उन्नीय-उच्छिष्य-मर्य-स्तर्य-ध्वर्य-खन्य-खान्य-देवयज्या-आपृच्छ्य-प्रतिषीव्य-ब्रह्मवाद्य-भाव्य-स्ताव्य-उपचाय्यपृडानि># । । PS_३,१.१२३ । ।



_____Sठाऱ्ठ्JKव्_३,१.१२३ः

निष्टर्क्य-आदयः शब्दाश्छन्दसि विषये निपात्यन्ते ।
यदिह लक्षणेन अनुपपन्नं तत्सर्वं निपातनात्सिद्धं ।
निष्टर्क्यः इति कृती छेदने इत्यस्मान्निस्पूर्वात्क्यपि प्राप्ते ण्यत्, आद्यन्त-विपर्ययश्च, निसश्च षत्वं निपात्यते ।
निष्टर्क्यं चिन्वीत पशुकामः ।
देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा क्यप्, दीर्घस्तुगभावश्च ।
देव-हूयः ।
प्रपूर्वादुत्पूर्वाच्च नयतेः क्यप् ।

[#२०४]

प्रणीयः ।
उन्नीयः ।
उत्पूर्वाच्छिषेः क्यप् ।
उच्छिष्यः ।
मृङ्प्राणत्यागे, स्तृञाच्छन्दने, ध्वृ हूर्च्छने, एतेभ्यो यत्प्रत्ययः ।
मर्यः ।
स्तर्या ।
स्त्रियां एव निपातनं ।
ध्वर्यः ।
खनेर्यथ् ।
खन्या ।
एतस्मादेव ण्यथ् ।
खान्यः ।
देवशब्दे उपपदे यजेर्यथ् ।
देवयज्या ।
स्त्रीलिङ्ग-निपातनं ।
आङ्पूर्वात्पृच्छेः क्यप् ।
आपृच्छ्यः ।
प्रतिपूर्वत्सीव्यतेः क्यप्षत्वं च ।
प्रतिषीव्यः ।
ब्रह्मण्युपपदे वदेर्ण्यथ् ।
ब्रहमवाद्यं ।
भवतेः स्तौतेश्च ण्यत्, आवदेशश्च भवति ।
भाव्यं ।
स्ताव्यः ।
उपपूर्वस्य चिनोतेः ण्यदायादेशौ ।
उपचाय्यपृडं ।
पृडे चोत्तरपदे निपातनमेतथ् ।
हिरण्य इति वक्तव्यं ।
हिरण्यादन्यत्र उपचेयपृडं एव ।
निष्टर्क्ये व्यत्ययं विद्यान्निसः षत्वं निपातनाथ् ।
ण्यदायादेश इत्येतावुपचाय्ये निपाततौ । ।
ण्यदेकस्माच्चतुर्घ्यः क्यप्चतुर्भ्यश्च यतो विधिः ।
ण्यदेकस्माद्य-शब्दश्च द्वौ क्यपौ ण्यद्विधिश्चतुः । ।


____________________________________________________________________


  1. <ऋ-हलोर्ण्यत्># । । PS_३,१.१२४ । ।



_____Sठाऱ्ठ्JKव्_३,१.१२४ः

पञ्चम्य्-अर्थे षष्ठी ।
ऋवर्ण-अन्ताद्धातोर्हलन्ताच्च ण्यत्प्रत्ययो भवति ।
कार्यं ।
हार्यं ।
धार्यं वाक्यं ।
पाक्यं । ।


____________________________________________________________________


  1. <ओरावश्यके># । । PS_३,१.१२५ । ।



_____Sठाऱ्ठ्JKव्_३,१.१२५ः

अवश्यं भावः आवश्यकं ।
उवर्ण-अन्ताद्धातोः ण्यत्प्रययो भवति आवश्यके द्योत्ये ।
यतोऽपवादः ।
लाव्यं ।
पाव्यं ।
अवश्यके इति किं ? लव्यं ।
आवश्यके द्योत्ये इति वेत्, स्वरसमास-अनुपपत्तिः, अवश्यलाव्यम्, अवश्यपाव्यं इति ? नैष दोषः ।
मयूरव्यं सकादित्वात्समासः ।
उत्तरपद-प्रकृति-स्वरे च यत्नः करिष्यते । ।


____________________________________________________________________


[#२०५]

  1. <आसु-यु-वपि-रपि-लपि-त्रपि-चमश्च># । । PS_३,१.१२६ । ।



_____Sठाऱ्ठ्JKव्_३,१.१२६ः
आङ्-पूर्वात्सुनोतेः यु वपि रपि लपि त्रपि चम इत्येतेभ्यश्च ण्यत्प्रत्ययो भवति ।
यतोऽपवादः आसाव्यं ।
याव्यं ।
वाप्यं ।
राप्यं ।
लाप्यं ।
त्राप्यं ।
आचाम्यं ।
अनुक्त-समुच्चय-अर्थश्चकारः ।
दभि - दाभ्यं । ।


____________________________________________________________________


  1. <आनाय्योऽनित्ये># । । PS_३,१.१२७ । ।



_____Sठाऱ्ठ्JKव्_३,१.१२७ः

आनाय्यः इति निपात्यते अनित्येऽभिधेये ।
नयतेराङ्पूर्वाण्ण्यदायादेशौ निपात्येते ।
आनाय्यो दक्षिणाग्निः ।
रूढिरेषा ।
तस्माद्नित्य-विशेषे दक्षिण-अग्नावेव अवतिष्ठते ।
तस्य च अनित्यत्वं नित्यं अजागरणाथ् ।
यश्च गार्हपत्यादानीयते दक्षिणाग्निराहवनीयेन सह एकयोनिः, तत्र तन्निपातनं, न दक्षिणाग्निं आत्रे ।
तस्य हि योनिर्विकल्प्यते वैश्यकुलाद्वित्तवतो भ्राष्ट्राद्वा गार्हपत्याद्वा इति ।
आनाय्योऽनित्य इति चेद्दक्षिणाग्नौ कृतं भवेथ् ।
एकयोनौ तु तं विद्यादानेयो ह्यन्यथा भवेत् । ।


____________________________________________________________________


  1. <प्रणाय्योऽसम्मतौ># । । PS_३,१.१२८ । ।



_____Sठाऱ्ठ्JKव्_३,१.१२८ः

अविद्यमाना सम्मतिरस्मिनित्यसम्मतिः ।
सम्मननं सममतिः, सम्मतता, पूजा ।
प्रणाय्यः इति निपात्यतेऽसम्मतावभिधेये ।
प्रणाय्यश्चोरः ।
असम्मतौ इति किं ? प्रणेयोऽन्यः ।
यद्येवं कथं एतत्, ज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात्प्रणाय्यान्तेवासिने, न अन्यस्मै कस्मैचन इति ? सम्मतिरभिलाषोऽप्युच्यते ।
तदभावेन निष्कामतया असम्मतिरन्तेवासी भवति ।
तस्मै निष्कामाय मोक्ष-अर्थं यतमानायान्तेवासिने प्रणाय्याय ब्रह्म ब्रूयातिति युज्यते । ।


____________________________________________________________________


  1. <पाय्य-सान्-नाय्य-निकाय्य-धाय्या मान-हविर्-निवास-सामिधेनीषु># । । PS_३,१.१२९ । ।


_____Sठाऱ्ठ्JKव्_३,१.१२९ः

पाय्यादयः शब्दा निपात्यन्ते यथा-सङ्ख्यं माने हविषि निवासे सामिधेन्यां च अभिधेयायां ।
पाय्य इति माङो ण्यत्-प्रत्ययः, आदेः पत्वं च निपात्यते माने ।
पाय्यं मानं मेयं अन्यथ् ।
सम्पूर्वान्नयतेर्ण्यदायादेशावुपसर्ग-दीर्घत्वं च निपात्यते ।
सानाय्यं हविः ।
संनेयमन्यथ् ।
रूढित्वाच्च हविर्-विशेष एव अवतिष्ठते ।
निपूर्वाच्चिनोतेः ण्यदायादेशावादिकुवं च निपात्यते ।
निकाय्यो निवासः ।
निचेयं अन्यथ् ।
सामिधेनी-शब्द ऋग्-विशेषस्य वाचकः ।
तत्र च धाय्या इति न सर्वा सामिधेनी उच्यते, किं तर्हि, काचिदेव ।
रूधि-शब्दो ह्ययं ।
तथा च असामिधेन्यां अपि दृश्यते, धाय्याः शंसत्यग्निर्नेता तं सोमक्रतुभिः इति । ।


____________________________________________________________________

[#२०६]

  1. <क्रतौ कुण्डपाय्य-सञ्चाय्यौ># । । PS_३,१.१३० । ।



_____Sठाऱ्ठ्JKव्_३,१.१३०ः

कुण्डपाय्य सञ्चाय्य इत्येतौ शब्दौ निपात्येते क्रतावभिधेये ।
कुण्ड-शब्दे तृतीयान्त उपपदे पिबतेर्धातोरधिकरणे यत्प्रत्ययो निपात्यते युक्च ।
कुण्डेन पीयतेऽस्मिन्सोमः इति कुण्डपाय्यः क्रतुः ।
यतोऽनावः इति स्वरः ।
सम्पूर्वाच्चिनोतेः ण्यदायादेशौ निपात्येते ।
सञ्चीयतेऽस्मिन्सोमः इति सञ्चाय्यः क्रतुः ।
क्रतौ इति किं ? कुण्डपानं ।
सञ्चेयः । ।


____________________________________________________________________


  1. <अग्नौ परिचाय्य-उपचाय्य-समूह्याः># । । PS_३,१.१३१ । ।



_____Sठाऱ्ठ्JKव्_३,१.१३१ः

परिचाय्य उपचाय्य समूह्य इत्येते शब्दा निपात्यन्ते अग्नावभिधेये ।
परिपूर्वतुपपूर्वाच्च चिनोतेर्ण्य दायादेशौ निपात्येते ।
परिचाय्यं ।
उपचाय्यः ।
सम्पूर्वाद्वहेः सम्प्रसारणं दीर्घत्वं च निपात्यते ।
समूह्यं चिन्वीत पशुकामः ।
अग्नौ इति किं ? परिचेयं ।
उपचेयं ।
संवाह्यं । ।


____________________________________________________________________

  1. <चित्य-अग्निचित्ये च># । । PS_३,१.१३२ । ।



_____Sठाऱ्ठ्JKव्_३,१.१३२ः

चित्यशब्दोऽग्निचित्या-शब्दश्च निपात्येते ।
नीयतेऽसौ चित्योऽग्निः ।
अग्निचयनं एव अग्निचित्या ।
भावे यकर-प्रत्ययः तुक्च ।
तेन अनतोदात्तत्वं भवति ।
अग्नावित्येव ।
चेयं अन्यत् । ।


____________________________________________________________________


  1. <ण्वुल्-तृचौ># । । PS_३,१.१३३ । ।



_____Sठाऱ्ठ्JKव्_३,१.१३३ः

धातोः इति वर्तते ।
सर्वधातुभ्यो ण्वुल्-तृचौ प्रत्ययौ भवतः ।
कारकः ।
कर्ता ।
हारकः ।
हर्ता ।
चकारः सामान्य-ग्रहणा-विधात-अर्थः, तुश्छन्दसि (*५,३.५९), तुरिष्ठ-ईमेयस्सु (*६,४.१५४) इति । ।


____________________________________________________________________


  1. <नन्दि-ग्रहि-पचादिभ्यो ल्यु-णिन्य्-अचः># । । PS_३,१.१३४ । ।



_____Sठाऱ्ठ्JKव्_३,१.१३४ः
आदि-शब्दः प्रयेकं सम्बध्यते ।
त्रिभ्यो गणेभ्यः त्रयः प्रत्ययाः यथासङ्ख्यं भवन्ति ।
नन्द्य-आदिभ्यो ल्युः, ग्रहादिभ्यो णिनिः, पचादिभ्योऽछ् ।
नन्दि-ग्रह-पचादयश्च न धातु-पाठतः सन्निविष्टा गृह्यन्ते, किं तर्हि, नन्दन रमण इत्येवं आदिषु प्रातिपदिक-गणेषु अपोद्धृत्य प्रकृतयो निर्दिश्यन्ते ।

[#२०७]

नन्दिवासिपदिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः सञ्ज्ञायां ।
नन्दनः ।
वासनः ।
मदनः ।
दूषणः ।
साधनः ।
वर्धनः ।
शोभनः ।
रोचनः ।
सहितपिदमेः सञ्ज्ञायां ।
सहनः ।
तपनः ।
दमनः ।
जल्पनः ।
रमणः ।
दर्पणः ।
सङ्क्रन्दनः ।
सङ्कर्षणः ।
जनार्दनः ।
यवनः ।
मधुसूदनः ।
विभीषणः ।
लवणः ।
निपातनाण्णत्वं ।
चित्तविनाशनः ।
कुलदमनः ।
शत्रुदमनः ।
इति नन्द्य्-आदिः ।
ग्रह ।
उत्सह ।
उद्दस ।
उद्भास ।
स्था ।
मन्त्र ।
सम्मर्द ।
ग्राही ।
उत्साही ।
उद्दासो ।
उद्भासी ।
स्थायी ।
मन्त्री ।
सम्मर्दी ।
रक्षश्रुवसवपशां नौ ।
निरक्षी ।
निश्रावी ।
निवासी ।
निवापी ।
निशायी ।
याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानां ।
अयाची ।
अव्याहारी ।
असंव्याहारी ।
अव्राजी ।
अवादी ।
अवासी ।
अचामचित्तकर्तृकाणां ।
प्रतिषिद्धानां इत्येव ।
अकारी ।
अहारी ।
अविनायी ।
अविशायी ।
विशयी ।
विशयी देशे ।
विशयो, विषयी देशः ।
अभिभावी भूते ।
अभिभावी ।
अपराधी ।
उपरोधी ।
परिभवी ।
परिभावी ।
इति ग्रह्यादिः ।
पच ।
वप ।
वद ।
चल ।
शल ।
तप ।
पत ।
नदठ् ।
भषठ् ।
वस ।
गरठ् ।
प्लवठ् ।
चरठ् ।
तरठ् ।
चोरठ् ।
ग्राहठ् ।
जर ।
मर ।
क्षर ।
क्षम ।
सूदठ् ।
देवठ् ।
मोदठ् ।
सेव ।
मेष ।
कोप ।
मेधा ।
नर्त ।
व्रण ।
दर्श ।
दंश ।
दम्भ ।
जारभरा ।
श्वपच ।
पचादिराकृतिगणः ।
अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः ।
अण्बाधन-अर्थं एव स्यात्सिध्यन्ति श्वपचादयः । ।


____________________________________________________________________


  1. <इगुपध-ज्ञा-प्री-किरः कः># । । PS_३,१.१३५ । ।



_____Sठाऱ्ठ्JKव्_३,१.१३५ः

इग्-उपधेभ्यः जानातेः प्रीणातेः किरतेश्च कप्रत्ययः भवति ।
विक्षिपः ।
विलिखः ।
बुधः ।
कृशः ।
जानाति इति ज्ञः ।
प्रीणाति इति प्रियः ।
किरति इति किरः ।
देवसेवमेषादयः पचादौ पठितव्याः । ।


____________________________________________________________________


  1. <आतश्च+उपसर्गे># । । PS_३,१.१३६ । ।



_____Sठाऱ्ठ्JKव्_३,१.१३६ः

आकारान्तेभ्यो धातुभ्यः उपसर्ग उपपदे कप्रत्ययो भवति ।
णस्यापवादः ।
प्रस्थः ।
सुग्लः ।
सुम्लः । ।


____________________________________________________________________

[#२०८]

  1. <पा-घ्रा-ध्मा-धेट्-दृशः शः># । । PS_३,१.१३७ । ।



_____Sठाऱ्ठ्JKव्_३,१.१३७ः

पादिभ्यो धातुभ्यः उपसर्गे उपपदे श-प्रत्ययो भवति ।
उत्पिबः ।
विपिबः ।
उज्जिघ्रः ।
विजिघ्रः ।
उद्धमः ।
विधमः ।
उद्धयः ।
विधयः ।
उत्पश्यः ।
विपश्यः ।
उपसर्गे इति केचिन्न अनुवर्तयन्ति ।
पश्यति इति पश्य ।
जिघ्रतेः सञ्ज्ञायां प्रतिषेधो वक्तव्यः ।
व्याघ्रः । ।


____________________________________________________________________


  1. <अनुपसर्गाल्लिम्प-विन्द-धारि-पारि-वेद्य्-उदेजि-चेति-साति-साहिभ्यश्च># । । PS_३,१.१३८ । ।



_____Sठाऱ्ठ्JKव्_३,१.१३८ः

अनुपसर्गेभ्यो लिम्प-आदिभ्यः श-प्रत्ययो भवति ।
लिम्पति इति लिम्पः ।
विन्दति ति विन्दः ।
धारयति इति धारयः ।
पारयति इति पारयः ।
वेदयति इति वेदयः ।
उदेजाति इति उदेजयः ।
चेतयति इति चेतयः ।
सातिः सौत्रो धातुः ।
सातयः ।
साहयः ।
अनुपसर्गातिति किं ।
प्रलिपः ।
नौ लिम्पेरिति वक्तव्यं ।
निलिम्पा नाम देवाः ।
गवादिषु विन्देः सञ्ज्ञायां ।
गोविन्दः ।
अरविन्दः । ।


____________________________________________________________________


  1. <ददाति-दधात्योर्विभाषा># । । PS_३,१.१३९ । ।



_____Sठाऱ्ठ्JKव्_३,१.१३९ः

दाञो धाञश्च विभाषा श-प्रत्ययो भवति ।
णस्य अपवादः ।
ददः, दायः ।
दधः, धायः ।
अनुपसर्गातित्येव, प्रदः, प्रधः । ।


____________________________________________________________________


  1. <ज्वलिति-कसन्तेभ्यो णः># । । PS_३,१.१४० । ।



_____Sठाऱ्ठ्JKव्_३,१.१४०ः

इति-शब्दः आद्यर्थः ।
ज्वल दीप्तौ इत्येवं आदिभ्यो धातुभ्यः कस गतौ इत्येवं अन्तेभ्यो विभाषा ण-प्रत्ययो भवति ।
अचोऽपवादः ।
ज्वालः, ज्वलः ।
चालः, चलः ।
अनुपसर्गातित्येव, प्रज्वलः ।
तेनोतेर्णस्य+उपसङ्ख्यानं कर्तव्यं ।
अवतनोति इति अवतानः । ।


____________________________________________________________________


[#२०९]

  1. <श्या-आद्-व्यध-आस्रु-संस्र्व्-अतीण्-अवसा-अवहृ-लिह-श्लिष-श्वसश्च># । । PS_३,१.१४१ । ।



_____Sठाऱ्ठ्JKव्_३,१.१४१ः

अनुपसर्गातिति, विभाषा इति च निवृत्तं ।
श्यैङः, आकार-अन्तेभ्यश्च धातुभ्यः, व्यध आस्रौ संस्रौ अतीणवसा अवहृ लिह श्लिष श्वस इत्येतेभ्यश्च ण प्रत्ययो भवति ।
आकार-अन्तत्वादेव श्यायतेः प्रत्यत्ये सिद्धे पुनर्वचनं बाधकबाधन-अर्थं ।
उपसर्गे कं बाधित्वाऽयं एव भवति ।
अवश्यायः ।
प्रतिश्यायः ।
दायः ।
धायः ।
व्याधः ।
आस्रावः ।
संस्रावः ।
अत्यायः ।
अवसायः ।
अवहारः ।
लेहः ।
श्लेषः ।
श्वासः । ।

____________________________________________________________________


  1. <दु-न्योरनुपसर्गे># । । PS_३,१.१४२ । ।



_____Sठाऱ्ठ्JKव्_३,१.१४२ः

दुनोतेर्नयतेश्च अनुपसर्गे ण-प्रत्ययो भव्ति ।
दुनोति इति दावः ।
नयति इति नायः ।
अनुपसर्गे इति किं ? प्रदवः ।
प्रणयः । ।


____________________________________________________________________


  1. <विभाशा ग्रहः># । । PS_३,१.१४३ । ।



_____Sठाऱ्ठ्JKव्_३,१.१४३ः

विभाषा ग्रहेः धातोः ण-प्रत्ययो भवति ।
अचः अपवादः ।
ग्राहः, ग्रहः ।
व्यवस्थित-विभाषा च+इयं ।
जलचरे नित्यं ग्राहः ।
ज्योतिषि नेस्यते, तत्र ग्रहः एव ।
भवतेश्च इति वक्तव्यं ।
भवति इति भावः, भवः । ।


____________________________________________________________________


  1. <गेहे कः># । । PS_३,१.१४४ । ।


_____Sठाऱ्ठ्JKव्_३,१.१४४ः

ग्रहेर्धातोः क-प्रत्ययो भवति गेहे कर्तरि ।
गृहं वेश्म ।
तात्स्थ्यात्दाराश्च ।
गृह्णन्ति इति गृहाः दाराः ।
गृहाणि वेश्मानि । ।


____________________________________________________________________


  1. <शिल्पिनि ष्वुन्># । । PS_३,१.१४५ । ।



_____Sठाऱ्ठ्JKव्_३,१.१४५ः

धातोः ष्वुन्प्रत्ययो भवति शिल्पिनि कर्तरि ।
नृतिखनिरञ्जिभ्यः परिगणनं कर्तव्यं ।
नर्तकः ।
खनकः ।
रजकः ।
नर्तकी ।
खनकी ।
रजकी ।
रञ्जेरनुनासिकलोपश्च । ।


____________________________________________________________________


[#२१०]

  1. <गस्थकन्># । । PS_३,१.१४६ । ।



_____Sठाऱ्ठ्JKव्_३,१.१४६ः

गायतेः थकन्प्रत्ययो भवति शिल्पिनि कर्तरि ।
गाथकः, गाथिका । ।


____________________________________________________________________


  1. <ण्युट्च># । । PS_३,१.१४७ । ।



_____Sठाऱ्ठ्JKव्_३,१.१४७ः

चकारेण गः इत्यनुकृष्यते ।
गायतेः ण्युट्प्रत्ययो भवति शिल्पिनि कर्तरि ।
गायनः, गायनी ।
योग-विभागः उत्तर-अर्थः । ।


____________________________________________________________________


  1. <हश्च व्रीहि-कालयोः># । । PS_३,१.१४८ । ।



_____Sठाऱ्ठ्JKव्_३,१.१४८ः

चकारेण गः इत्यनुकृस्यते ।
गायतेः ण्युट्प्रत्ययो भवति शिल्पिति कर्तरि ।
गायनः, गायनी ।
योग-विभागः उत्तर-अर्थः । ।


____________________________________________________________________


  1. <प्रु-सृ-ल्वः समभिहारे वुन्># । । PS_३,१.१४९ । ।



_____Sठाऱ्ठ्JKव्_३,१.१४९ः

प्रु सृ लू इत्येतेभ्यः धातुभ्यः समभिहारे वुन्प्रत्ययो भवति ।
प्रवकः ।
सरकः ।
लवकः ।
समभिहार-ग्रहणेन अत्र सधुकारित्वं लक्ष्यते ।
साधुकारिणि वुन्विधानात्सकृदपि यः सुष्ठु करोति तत्र भवति ।
बहुशो यो दुष्टं करोति तत्र न भवति । ।


____________________________________________________________________


  1. <आशिषि च># । । PS_३,१.१५० । ।



_____Sठाऱ्ठ्JKव्_३,१.१५०ः

आशिषि गम्यमानायां धातुं आत्रात्वुन्प्रत्ययो भवति ।
जीवतात्जीवकः ।
नन्दतात्नन्दकः ।
आशीः प्रार्थना-विशेषः ।
स च+इह क्रियाविषयः ।
अमुष्याः क्रियायः कर्ता भवेतित्येवं आशास्यते । ।
इति श्रीज्यादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य प्रथमः पादः । ।


______________________________________________________

[#२११]

तृतीयाध्यायस्य द्वितीयः पादः ।


____________________________________________________________________


  1. <कर्मण्यण्># । । PS_३,२.१ । ।



_____Sठाऱ्ठ्JKव्_३,२.१ः

त्रिविधं कर्म, निर्वर्त्यं, विकार्यं, प्राप्यं च+इति ।
सर्वत्र कर्मणि उपपदे धातोः अण्प्रत्ययो भवति ।
निर्वर्त्यं तावत्-- कुम्भकारः ।
नगरकारः ।
विकार्यं -- काण्डलावः ।
शरलावः ।
प्राप्यं - वेदाध्यायः ।
चर्चापारः ।
ग्रामं गच्छति, आदित्यं पश्यति, हिमवन्तं शृणोति इत्यत्र न भवति, अनभिधानाथ् ।
शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपद-प्रकृतिस्वरत्वं च वक्तव्यं ।
मांसशीलः, मांसशीला ।
मांसकामः, मांसकामा ।
मांसभक्षः, मांसभक्षा ।
कल्याणाचारः, कल्याणाचारा ।
ईक्षक्षमिभ्यां च+इति वक्तव्यं ।
सुखप्रतीक्षः, सुखप्रतीक्षा ।
बहुक्षमः, बहुक्षमा । ।


____________________________________________________________________


  1. <ह्वा-वा-अमश्च># । । PS_३,२.२ । ।



_____Sठाऱ्ठ्JKव्_३,२.२ः

ह्वेञ्स्पर्धायां शब्दे च, वेञ्तन्तुसन्ताने, माङ्माने इत्येतेभ्यश्च कर्मण्य्-उपपदे अण्प्रत्ययो भवति ।
कप्रत्ययस्य अपवादः ।
स्वर्गह्वायः ।
तन्तुवायः ।
धान्यमायः । ।

____________________________________________________________________


  1. <आतोऽनुपसर्गे कः># । । PS_३,२.३ । ।



_____Sठाऱ्ठ्JKव्_३,२.३ः

आकार-अन्तेभ्यः अनुपसर्गेभ्यः कर्मण्य्-उपपदे कप्रत्ययो भवति ।
अणोऽपवादः ।
गोदः ।
कम्बलदः ।
पार्ष्णित्रं ।
अङ्गुलित्रं ।
अनुपसर्गे इति किं ? गोसन्दायः ।
वडवासन्दायः । ।


____________________________________________________________________


  1. <सुपि स्थः># । । PS_३,२.४ । ।



_____Sठाऱ्ठ्JKव्_३,२.४ः

सुबन्ते उपपदे तिष्ठतेः कप्रत्ययो भवति ।
समस्थः ।
विषमस्थः ।
अत्र योगविभागः कर्तव्यः सुपि इति ।
सुपि आकारान्तेभ्यः कप्रत्ययो भवति ।
द्वाभ्यां पिबति इति द्विपः ।
पादपः ।
कच्छपः ।
ततः स्थः इति ।
स्थश्च सुपि कप्रत्ययो भवति ।
किमर्थं इदं ? कर्तरि पूर्वयोगः ।
अनेन भावेऽपि यथा स्याथ् ।
आखूनां उत्थानं आखूत्थः ।
शलभोत्थः ।
इति उत्तरं कर्मणि इति च सुपि इति च द्वयं अप्यनुअवर्तते ।
तत्र सकर्मकेषु धातुषु क्र्मणि इत्येतदुपतिष्ठते ।
अन्यत्र सुपि इति । ।


____________________________________________________________________


[#२१२]

  1. <तुन्द-शोकयोः परिमृज-अपनुदोः># । । PS_३,२.५ । ।



_____Sठाऱ्ठ्JKव्_३,२.५ः

तुन्द-शोकयोः कर्मणोरुपपदयोः परिमृज-अपनुदोः धात्वोः कप्रत्ययो भवति ।
तुन्द-परिमृज आस्ते ।
शोक-अपनुदः पुत्रो जातः ।
आलस्य सुखाहरणयोः इति वक्तव्यं ।
अलसस्तुन्द-प्रिमृज उच्यते ।
तुन्द-परिमार्जः एव अन्यः ।
सुखस्य अहर्ता शोक-अपनुदः ।
शोक-अपनोदः एव अन्यः ।
कप्रकरणो मूल-विभुजादिभ्यः उपसङ्ख्यानं ।
मूलानि विभुजादिभ्यः उपसङ्ख्यानं ।
मूलानि विभुजति इति मूलविभुजो रथः ।
नखमुचानि धनूंषि ।
काकनुहस्तिलाः ।
कौ मोदते कुमुदं । ।


____________________________________________________________________


  1. <प्रे दा-ज्ञः># । । PS_३,२.६ । ।


_____Sठाऱ्ठ्JKव्_३,२.६ः

सोपसर्ग-अर्थ आरम्भः ।
ददातेः जानातेश्च धातोः प्रेणोपसृष्टात्कर्मण्य्-उपपदे कप्रत्ययो भवति ।
अणोऽपवादः ।
सर्वप्रदः ।
पथिप्रज्ञः ।
प्रे इति किं ? गोसन्दायः । ।


____________________________________________________________________


  1. <समि ख्यः># । । PS_३,२.७ । ।



_____Sठाऱ्ठ्JKव्_३,२.७ः

सोपसर्ग-अर्थः आरम्भः ।
संपूर्वात्ख्या इत्येतस्माद्धातोः कर्मण्य्-उपपदे कप्रत्ययो भवति ।
अणोऽपवादः ।
गां संचष्टे गोसङ्ख्यः । ।


____________________________________________________________________


  1. <गा-पोष्टक्># । । PS_३,२.८ । ।



_____Sठाऱ्ठ्JKव्_३,२.८ः

कर्मण्य्-अनुपसर्गे इति वर्तते ।
गायतेः पिबतेश्च धातोः कर्मण्य्-उपपदेऽनुपसर्गे टक्प्रत्ययो भवति ।
कस्य अपवादः ।
शक्रं गायति शक्रगः, शक्रगी ।
सामगः, सामगी ।
सुराशीध्वोः पिबतेरिति वक्तव्यं ।
सुरापः, सुरापी ।
शीधुपः, शीधुपी ।
सुराशीध्वोः इति किं ? क्षीरपा ब्राह्मणी ।
पिबतेः इति किं ? सुरां पाति इति सुरापा ।
अनुपसर्गे इत्येव, शक्रसङ्गायः ।
सामसङ्गायः ।
बहुलं छन्दसि इति वक्तव्यं ।
या बाह्मणी सुरापी भवति नैनां देवाः पतिलोकं नयन्ति ।
या ब्रह्मणी सुरापा भवति नैनां देवाः पतिलोकं नयन्ति । ।


____________________________________________________________________


[#२१३]

  1. <हरतेरनुद्यमनेऽच्># । । PS_३,२.९ । ।



_____Sठाऱ्ठ्JKव्_३,२.९ः

हरतेर्धातोरनुद्यमने वर्तमानात्कर्मणि उपपदे अच्प्रत्ययो भवति ।
अणोऽपवादः ।
उद्यमनं उत्क्षेपणं ।
अंशं हरति अंशहरः ।
रिक्थहरः ।
अनुद्यमने इति किं ? भारहारः ।
अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधौष्षु ग्रहेरुपसङ्ख्यानं ।
शक्तिग्रहः ।
लाङ्गलग्रहः ।
अङ्कुशग्रहः ।
यष्टिग्रहः ।
तोमरग्रहः ।
घटग्रहः ।
घटीग्रहः ।
धनुर्ग्रहः ।
सूत्रे च धार्यर्थे ।
सूत्रग्रहः ।
सूत्रं धारयति इत्यर्थः ।
सूत्रग्राहः एव अन्यः । ।


____________________________________________________________________


  1. <वयसि च># । । PS_३,२.१० । ।



_____Sठाऱ्ठ्JKव्_३,२.१०ः

वयसि गम्यमाने हरतेः कर्मण्य्-उपपदे अच्प्रत्ययो भवति ।
उद्यमन-अर्थोऽयं आरम्भः ।
कालकृता शरीरावस्था यौवनादिर्वयः ।
यदुद्यमनं क्रियमाणं सम्भाव्यमानं वा वयो गमयति, तत्र अयं विधिः ।
अस्थिहरः श्वा ।
कवछरः क्षत्रिय-कुमारः । ।


____________________________________________________________________

  1. <आङि ताच्छील्ये># । । PS_३,२.११ । ।



_____Sठाऱ्ठ्JKव्_३,२.११ः

आङ्-पूर्वाद्हरतेः कर्मण्य्-उपपदे अच्प्रत्ययो भवति ताच्छील्ये गम्यमाने ।
ताच्छील्यं तत्-स्वभावता ।
पुष्पाहरः ।
फलाहरः ।
पुष्पाद्य्-आहरने स्वाभाविकी फलानपेक्षा प्रवृत्तिरस्य इत्यर्थः ।
ताच्छीओये इति किं ? भारं आहरति इति भाराहारः । ।


____________________________________________________________________

  1. <अर्हः># । । PS_३,२.१२ । ।



_____Sठाऱ्ठ्JKव्_३,२.१२ः

अर्ह पूजायाम्, अस्माद्धातोः कर्मण्य्-उपपदे अच्प्रत्ययओ भवति ।
अणोऽपवादः ।
स्त्रीलिङ्गे विशेषः ।
पूजार्हा ।
गन्धार्ह ।
मालार्हा । ।


____________________________________________________________________


  1. <स्तम्ब-कर्णयो रमि-जपोः># । । PS_३,२.१३ । ।



_____Sठाऱ्ठ्JKव्_३,२.१३ः

स्तम्ब कर्ण इत्येतयोः सुबन्तयोरुपपदयोर्यथा-सङ्ख्यं रमि-जपोः धात्वोः अच्प्रत्ययो भवति ।
रमेः अकर्मकत्वात्, जपेः शब्द-कर्मकत्वात्कर्म न सम्भवति इति सुपि इत्येतदिह अभिसम्बध्यते ।
हस्तिसूचकयोरिति वक्तव्यं ।
स्तम्बे रमते इति स्तम्बेरमः हर्ती ।
कर्णे जपति इति कर्णेजपः सूचकः ।
हस्तिसूचकयोः इति किं ? स्तम्बे रन्ता ।
कर्णे जपिता मशकः । ।


____________________________________________________________________


[#२१४]

  1. <शमि धातोः सञ्ज्ञायाम्># । । PS_३,२.१४ । ।



_____Sठाऱ्ठ्JKव्_३,२.१४ः

शम्युपपदे धातु-मात्रात्सञ्ज्ञायां विषये अच्प्रत्ययओ भवति ।
शङ्करः ।
शंभवः ।
शंवदः ।
धातु-ग्रहणं किं यावता धातोः इति वर्तत एव ? शमि-सञ्ज्ञायां इति सिद्धे धातु-ग्रहणं कृञो हेत्वादिषु टप्रतिषेध-अर्थं ।
शङ्करा नाम परिव्राजिका ।
शङ्करा नाम शकुनिका ।
तच्छीला च । ।


____________________________________________________________________


  1. <अधिकरणे शेतेः># । । PS_३,२.१५ । ।



_____Sठाऱ्ठ्JKव्_३,२.१५ः

सुपि इति सम्बध्यते ।
शेतेर्धातोरधिकरणे सुबन्त उपपदे अच्प्रत्ययो भवति ।
खे शेते खशयः ।
गर्तशयः ।
पार्श्वादिषु उपसङ्ख्यानं ।
पार्श्वाभ्यां शेते पार्श्वशयः ।
उदरशयः ।
पृष्ठशयः ।
दिग्धसहपूर्वाच्च ।
दिग्धेन सह शेते दिग्ध-सहशयः ।
उत्तानादिषु कर्तृषु ।
उत्तानः शेते उत्तानशयः ।
अवमूर्धा शेते अवमूर्धशयः ।
गिरौ डश्छन्दसि ।
गिरौ शेते गिरिशः । ।


____________________________________________________________________

  1. <चरेष्टः># । । PS_३,२.१६ । ।



_____Sठाऱ्ठ्JKव्_३,२.१६ः

अधिकरणे इति वर्तते ।
चरेर्धातोरधिकरणे सुबन्त उपपदे टप्रत्ययो भवति ।
कुरुषु चरति कुरुचरः ।
मद्रचरः ।
कुरुचरी ।
मद्रचरी ।
प्रत्ययान्तरकरणं ङीब्-अर्थं । ।


____________________________________________________________________


  1. <भिक्षा-सेना-आदायेषु च># । । PS_३,२.१७ । ।



_____Sठाऱ्ठ्JKव्_३,२.१७ः

अनधिकरण-अर्थः आरम्भः ।
भिक्षा सेना आदाय इत्येतेषु उपपदेषु चरेः धतोः टप्रत्ययो भवति ।
भिक्षाचरः ।
सेनाचरः ।
आदायचरः । ।


____________________________________________________________________


[#२१५]

  1. <पुरोऽग्रतोऽग्रेषु सर्तेः># । । PS_३,२.१८ । ।



_____Sठाऱ्ठ्JKव्_३,२.१८ः

पुरसग्रतसग्रे इत्येतेषु उपपदेषु सर्तेः धातोः टप्रत्ययो भवति ।
पुरः सरति पुरःसरः ।
अग्रतःसरः ।
अग्रेसरः । ।


____________________________________________________________________


  1. <पूर्वे कर्तरि># । । PS_३,२.१९ । ।



_____Sठाऱ्ठ्JKव्_३,२.१९ः

पूर्व-शब्दे कर्तृ-वाचिन्य्-उपपदे सर्तेर्धातोः टप्रत्ययः भवति ।
पूर्वः सरति इति पूर्वसरः ।
कर्तरि इति किं ? पूर्वं देशं सरति इति पूर्वसारः । ।


____________________________________________________________________


  1. <कृञो हेतु-ताच्छील्य-आनुलोम्येषु># । । PS_३,२.२० । ।



_____Sठाऱ्ठ्JKव्_३,२.२०ः

कर्मणि उपपदे करोतेः धातोः टप्रत्ययो भवति हेतौ ताच्छील्ये आनुलोम्ये च गम्यमाने ।
हेतुः ऐकान्तिकं करणं ।
ताच्छील्यं तत्स्वभावता ।
आनुलोम्यं अनुकूलता ।
हेतौ तावत्- शोककरी कन्या ।
यशस्करी विद्या ।
कुलकरं धनं ।
ताच्छील्ये - श्राद्धकरः ।
अर्थकरः ।
आनुलोम्ये - प्रैषकरः ।
वचनकरः ।
एतेसु इति किं ? कुम्भकारः ।
नगरकारः । ।


____________________________________________________________________


  1. <दिवा-विभा-निशा-प्रभा-भास्-कार-अन्त-अनन्त-आदि-बहु-नान्दी-किं-लिपि-लिबि-बलि-भक्ति-कर्तृ-चित्र-क्षेत्र-सङ्ख्या-जङ्घा-बाह्व्-अहर्-यत्-तद्-धनुर्-अरुष्षु># । । PS_३,२.२१ । ।



_____Sठाऱ्ठ्JKव्_३,२.२१ः

कर्मणि सुपि इति च द्वयं अप्यनुवर्तते ।
तत्र यथायोगं सम्बन्धः ।
दिवा-आदिषु उपपदेषु करोतेर्धातोः टप्रत्ययो भवति ।
अहेत्वाद्य्-अर्थ आरम्भः ।
दिवा-शब्दो अधिकरण-वचनः सुपि इत्यस्य विशेषणं ।
दिवा करोति प्राणिनशचेष्टायुक्तानिति दिवाकरः ।
विभां करोति इति विभाकरः ।
निशाकरः ।
प्रभाकरः ।
भास्करः ।
सकारस्य निपातनाद्विसर्जनीय-जिह्वामूलीयौ न भवतः ।
कारकरः ।
अन्तकरः ।
अनन्तकरः ।
आदिकरः ।
बहुकरः ।
नान्दीकरः ।
किङ्करः ।
लिपिकरः ।
लिबिकरः ।
बलिकरः ।
भक्तिकरः ।
कर्तृकरः ।
चित्रकरः ।
क्षेत्रकरः ।
सङ्ख्या - एककरः, द्विकरः, त्रिकरः ।
जङ्घाकरः ।
बाहुकरः ।
अहस्करः ।
यत्करः ।
तत्करः ।
धनुष्करः ।
अरुष्करः ।
किंयत्तद्बहुषु कृञोऽज्विधानं ।
किङ्करा ।
यत्करा ।
तत्करा ।
बहुकरा ।
अथवा अजादिषु पाठः करिस्यते । ।


____________________________________________________________________


[#२१६]

  1. <कर्मणि भृतौ># । । PS_३,२.२२ । ।



_____Sठाऱ्ठ्JKव्_३,२.२२ः

कर्मणि इति स्वरूप-ग्रहनं ।
करम-शब्दे उपपदे कर्म-वाचिनि करोतेः टप्रत्ययो भवति भृतौ गम्यमानायां ।
भृतिः वेतनं, कर्मनिर्वेशः ।
कर्म करोति इति कर्मकरः भृतकः इत्यर्थः ।
भृतौ इति किं ? करकारः । ।


____________________________________________________________________


  1. <न शब्द-श्लोक-कलह-गाथा-वैर-चाटु-सूत्र-मन्त्र-पदेषु># । । PS_३,२.२३ । ।


_____Sठाऱ्ठ्JKव्_३,२.२३ः

शब्दादिषु उपपदेषु करोतेः टप्रत्ययो न भवति ।
हेत्वादिषु प्राप्तः प्रतिषिध्यते ।
शब्दकारः ।
श्लोककारः ।
कलहकारः ।
गाथाकारः ।
वैरकारः ।
चाटुकारः ।
चटुकारः ।
सूत्रकारः ।
मन्त्रकारः ।
पदकारः । ।


____________________________________________________________________


  1. <स्तम्ब-शकृतोरिन्># । । PS_३,२.२४ । ।



_____Sठाऱ्ठ्JKव्_३,२.२४ः

स्तम्ब शकृतित्येतयोः कर्मणोरुपपदयोः इन्प्रत्ययो भवति ।
व्रीहिवत्सयोरिति वक्तव्यं ।
स्तम्बकरिर्व्रीहिः ।
शकृत्करिर्वत्सः ।
व्रीहिवत्सयोः इति किं ? स्तम्बकारः ।
शकृत्करः । ।


____________________________________________________________________


  1. <हरतेर्दृति-नाथयोः पशौ># । । PS_३,२.२५ । ।


_____Sठाऱ्ठ्JKव्_३,२.२५ः

दृति नाथ इत्येतयोः कर्मणोरुपपदयोः हरतेर्धातोः पशौ कर्तरि इन्प्रत्ययो भवति ।
दृतिं हरति दृतिहरिः पशुः ।
नाथहरिः पशुः ।
पशौ इति किं ? दृतिहारः ।
नाथहारः । ।


____________________________________________________________________


  1. <फलेग्रहिर्-आत्मम्भरिश्च># । । PS_३,२.२६ । ।



_____Sठाऱ्ठ्JKव्_३,२.२६ः

फलेग्रहिः आत्मम्भरिः इत्येतौ शब्दौ निपात्येते ।
फल-शब्दस्य उपपदस्य एकारान्तत्वं इन्प्रत्ययश्च ग्रहेर्निपात्यते ।
फलानि गृह्णाति इति फलेग्रहिर्वृक्षः ।
आत्म-शब्दस्य उपपदस्य मुमागम इन्प्रत्ययश्च भृञो निपात्यते ।
आत्मानं बिभर्ति आत्मम्भरिः ।
अनुक्त-समुच्चय-अर्थश्चकारः ।
कुक्षिम्भरिः ।
उदरम्भरिः । ।


____________________________________________________________________


  1. <छन्दसि वन-सन-रक्षि-मथाम्># । । PS_३,२.२७ । ।



_____Sठाऱ्ठ्JKव्_३,२.२७ः

वन षण सम्भक्तौ, रक्ष पालने, मन्थ विलोडने, एतेभ्यः कर्मण्य्-उपपदे छन्दसि विषये इन्प्रत्ययो भवति ।
ब्रह्मवनिं त्वा क्षत्रवनिं सुप्रजावनिं रायस्पोषवनिं पर्यूहामि ।
गोसनिं वाचमुदेयं ।
यौ पथिरक्षी श्वानौ ।
हविर्मथीनामभ्या ३ विवासतां । ।


____________________________________________________________________


[#२१७]

  1. <एजेः खश्># । । PS_३,२.२८ । ।



_____Sठाऱ्ठ्JKव्_३,२.२८ः

एजृ कम्पने इत्यस्मात्ण्यन्तात्कर्मण्य्-उपपदे खश्प्रत्ययो भवति ।
खकारो मुमथः ।
शकारः सार्वधातुक-सञ्ज्ञ-अर्थः ।
अङ्गमेजयति अङ्गमेजयः ।
जनमेजयः ।
खश्प्रयये वात्शुनीतिलशर्धेष्वजधेट्तुदजहातीनां उपसङ्ख्यानं ।
वातमजा मृगाः ।
शुनिन्धयः ।
तिलन्तुदः ।
शर्धञ्जहा माषाः । ।


____________________________________________________________________


  1. <नासिका-स्तनयोर्ध्मा-धेटोः># । । PS_३,२.२९ । ।



_____Sठाऱ्ठ्JKव्_३,२.२९ः

नासिकास्तनयोः कर्मणोरुपपदयोः ध्माधेटोर्धात्वोः खश्प्रत्ययो भवति ।
यथासङ्ख्यमत्र नेष्यते ।
स्तने धेटः ।
सत्नन्धयः ।
नासिकायां तु ध्मश्च धेटश्च ।
नासिकन्धमः, नासिकन्धयः ।
तच्च+एतन्नासिक-स्तनयोरिति लक्षणव्यभिचारचिह्नादल्पाच्तरस्य अपूर्वनिपातनाल्लभ्यते ।
धेटः टित्वात्स्त्रियां ङीप्प्रत्ययो भवति ।
स्तनन्धयी । ।


____________________________________________________________________


  1. <नाडी-मुष्ट्योश्च># । । PS_३,२.३० । ।



_____Sठाऱ्ठ्JKव्_३,२.३०ः

नाडी मुष्ति इत्येतयोः कर्मणोरुपपदयोः ध्माधेटोः खश्प्रत्ययो भवति ।
अत्र अपि घ्यन्तस्य अपूर्वनिपातो लक्षणव्यभिचारचिह्नं ।
तेन सङ्ख्यातानुदेशो न भवति ।
नाडिन्धमः ।
मुष्टिन्धमः ।
नाडिन्धयः ।
मुष्टिन्धयः ।
अनुक्तसमुच्चय-अर्थश्चकारः ।
घटिन्धमः ।
घटिन्धयः ।
खारिन्धमः ।
खारिन्धयः ।
वातन्धमः पर्वतः ।
वातन्धयः । ।


____________________________________________________________________


  1. <उदि कूले रुजि-वहोः># । । PS_३,२.३१ । ।



_____Sठाऱ्ठ्JKव्_३,२.३१ः
रुजो भङ्गे, वह प्रापणे इत्येताभ्यां उत्पूर्वाभ्यां कूले कर्मणि उपपदे खश्प्रत्ययो भवति ।
कूलं उद्रुजति इति कूलमुद्रुजो रथः ।
कूलमुद्वहः । ।


____________________________________________________________________


  1. <वह-अभ्रे लिहः># । । PS_३,२.३२ । ।



_____Sठाऱ्ठ्JKव्_३,२.३२ः

वह अभ्र इत्येतयोः करम्णोरुपपदयोः लिहेर्धातोः खश्प्रत्ययो भवति ।
वहं लेढि इति वहंलिहो गौः ।
अभ्रंलिहो वायुः । ।


____________________________________________________________________


[#२१८]

  1. <परिमाणे पचः># । । PS_३,२.३३ । ।



_____Sठाऱ्ठ्JKव्_३,२.३३ः

परिमाणं प्रस्थादि, तस्मिन्कर्मण्य्-उपपदे पचेः खश्प्रत्ययो भवति ।
प्रस्थं पचति प्रस्थंपचा स्थाली ।
द्रोणंपचः ।
खारिंपचः कटाहः । ।


____________________________________________________________________


  1. <मित-नखे च># । । PS_३,२.३४ । ।


_____Sठाऱ्ठ्JKव्_३,२.३४ः

मित नख इत्येतयोः कर्मणोरुपपदयोः पचेः खश्प्रत्ययो भवति ।
अपरिमाण-अर्थः आरम्भः ।
मितं पचति मितम्पचा ब्राह्मणी ।
नखंपचा यवागूः । ।


____________________________________________________________________


  1. <विध्व्-अरुषोस्तुदः># । । PS_३,२.३५ । ।



_____Sठाऱ्ठ्JKव्_३,२.३५ः

विधु अरुसित्येतयोः कर्मणोरुपपदयोः तुदेर्धातोः खश्प्रत्ययो भवति ।
विधुन्तुदः राहुः ।
अरुनतुदः । ।


____________________________________________________________________


  1. <असूर्य-ललाटयोर्दृशि-तपोः># । । PS_३,२.३६ । ।



_____Sठाऱ्ठ्JKव्_३,२.३६ः

असूर्य ललाट इत्येतयोः कर्मणोरुपपदयोः दृशि-तपोः धात्वोः खश्प्रत्ययो भवति ।
असूर्यंपश्या राजदाराः ।
ललाटंतपः आदित्यः ।
असूर्य इति च असमर्थ-समासोऽयं, दृशिना नञः सम्बन्धात्, सूर्यं न पश्यन्ति इति ।
गुप्तिपरं चैतथ् ।
एवं नाम गुप्ता यदपरिहार्य-दर्शनं सूर्यं अपि न पश्यन्ति इति । ।


____________________________________________________________________


  1. <उग्रम्पश्य-इरम्मद-पाणिन्धमाश्च># । । PS_३,२.३७ । ।



_____Sठाऱ्ठ्JKव्_३,२.३७ः

उग्रम्पश्य इरम्मद पाणिन्धम इत्येते शब्दा निपात्यन्ते ।
उग्रं पश्यति इति उग्रम्पश्यः ।
इरया माद्यति इति इरम्मदः ।
पाणयो ध्मायन्ते एषु इति पाणिन्धमाः पन्थानः । ।

____________________________________________________________________


  1. <प्रियवशे वदः खच्># । । PS_३,२.३८ । ।



_____Sठाऱ्ठ्JKव्_३,२.३८ः

प्रिय वश इत्येतयोः करम्णोः उपपदयोः वदेः धातोः खच्प्रत्ययो भवति ।
प्रियं वदति इति प्रियंवदः ।
वशंवदः ।
चकारः खचि ह्रस्वः (*६,४.९४) इति विशेषण-अर्थः ।
खकारो मुमर्थः ।
प्रत्ययान्तरकरणमुत्तरार्थं ।

[#२१९]

खच्प्रकरणे गमेः सुप्युपसङ्ख्यानं ।
मितङ्गमो हस्ती ।
मितङ्गमा हस्तिनी ।
विहायसो विह च ।
विहायसा गच्छति विहङ्गमः ।
खच्च डिद्वा वक्तव्यः ।
विहङ्गः, विहङ्गमः ।
डे च विहायसो विहादेशो वक्तव्यः ।
विहगः ।


____________________________________________________________________


  1. <द्विषत्-परयोस्तापेः># । । PS_३,२.३९ । ।



_____Sठाऱ्ठ्JKव्_३,२.३९ः

द्विषत्-परयोः कर्मणोरुपपदयोः तापेः छातोः खच्प्रत्ययो भवति ।
तप दाहे चुरादिः, तपसन्तापे भ्वादिः, द्वयोरपि ग्रहणं ।
द्विषन्तं तापयति द्विषन्तपः ।
परन्तपः ।
द्विषत्परयोः इति द्वितकारको निर्देशः ।
तेन स्त्रियां न भवति ।
द्विषतीं तापयति द्विषतीतापः । ।


____________________________________________________________________


  1. <वाचि यमो व्रते># । । PS_३,२.४० । ।



_____Sठाऱ्ठ्JKव्_३,२.४०ः

वाक्शब्दे कर्मणि उपपदे यमेः धातोः खच्प्रययो भवति व्रते गम्यमाने ।
व्रत इति शस्त्रितो नियमः उच्यते ।
वाचंयमः आस्ते ।
व्रते इति किं ? वाग्यामः । ।


____________________________________________________________________


  1. <पूः-सर्वयोर्दारि-सहोः># । । PS_३,२.४१ । ।



_____Sठाऱ्ठ्JKव्_३,२.४१ः

पुर्सर्व इत्येतयोः करमणोः उपपदयोः यथासङ्ख्यं दारिसहोः धात्वोः खच्प्रत्ययो भवति ।
पुरं दारयति पुरन्दरः ।
सर्वंसहो राजा ।
भवे च दारेरिति वक्तव्यं ।
भगन्दरः । ।


____________________________________________________________________


  1. <सर्व-कूल-अभ्र-करीषेषु कषः># । । PS_३,२.४२ । ।



_____Sठाऱ्ठ्JKव्_३,२.४२ः

सर्वकूल अभ्र करीर इत्येतेषु कर्मसु उपपदेषु कषेः धातोः खच्प्रत्ययो भवति ।
सर्वं कषति सर्वंकषः खलः ।
कूलङ्कषा नदी ।
अभ्रङ्कषो गिरिः ।
करीषङ्कषा वात्या । ।


____________________________________________________________________


[#२२०]

  1. <मेघ-र्ति-भयेषु कृञः># । । PS_३,२.४३ । ।



_____Sठाऱ्ठ्JKव्_३,२.४३ः

मेघ ऋति भय इत्येतेषु कर्मसु उपपदेषु कऋञः खच्प्रत्ययो भवति ।
मेघङ्करः ।
ऋतिङ्करः ।
भयङ्करः ।
उपपद-विधौ भयादि-ग्रहणं तदन्तविधिं प्रयोजयति ।
अभयङ्करः । ।


____________________________________________________________________


  1. <क्षेम-प्रिय-मद्रेऽण्च># । । PS_३,२.४४ । ।



_____Sठाऱ्ठ्JKव्_३,२.४४ः

क्षेम प्रिय मद्र इत्येतेषु कर्मसु उपपदेषु करोतेः अण्प्रत्ययो भवति, चकारात्खच्च ।
क्षेमकारः, क्षेमङ्करः ।
प्रियकारः, प्रियङ्करः ।
मद्रकारः, मद्रङ्करः ।
वा इति वक्तव्ये पुनरण्-ग्रहनं हेत्वादिषु टप्रतिषेध-अर्थं । ।


____________________________________________________________________


  1. <आशिते भुवः करण-भावयोः># । । PS_३,२.४५ । ।



_____Sठाऱ्ठ्JKव्_३,२.४५ः

अत्र सुपि इत्युपतिष्ठते ।
आशित-शब्दे सुबन्ते उपपदे भवतेर्धातोः करणे भावे च-अर्थे खच्प्रत्ययो भवति ।
आशितो भवति अनेन आशितम्भव ओदनः ।
भावे - आशितस्य भवनं आशितम्भवं वर्तते । ।


____________________________________________________________________

  1. <सञ्ज्ञायां भृ-त्é-वृ-जि-धारि-सहि-तपि-दमः># । । PS_३,२.४६ । ।



_____Sठाऱ्ठ्JKव्_३,२.४६ः

कर्मणि इति सुपि इति च प्रकृतं सज्ञावशाद्यथासम्भवं सम्बध्यते ।
भृ त्é वृ जि धारि सहि तपि दम इत्येतेभ्यो धातुभ्यः सञ्ज्ञायां विषये खच्प्रत्ययो भवति ।
विश्वम्भरा वसुन्धरा ।
रथन्तरं साम ।
पतिंवरा कन्या ।
शत्रुञ्जयो हस्ती ।
युगन्धरः पर्वतः ।
शत्रुंसहः ।
शत्रुंतपः ।
अरिंदमः ।
सज्ञायां इति किं ? कुटुम्बं बिभर्ति इति कुटुम्बभारः । ।


____________________________________________________________________


  1. <गमश्च># । । PS_३,२.४७ । ।



_____Sठाऱ्ठ्JKव्_३,२.४७ः

गमेः धातोः सुपि उपपदे सञ्ज्ञायां विषये खच्प्रत्ययो भवति ।
सुतङ्गमो नाम, यस्य पुत्रः सौतङ्गमिः ।
योगविभागः उत्तरार्थः । ।


____________________________________________________________________


  1. <अन्त-अत्यन्त-अध्व-दूर-पार-सर्व-अनन्तेषु डः># । । PS_३,२.४८ । ।



_____Sठाऱ्ठ्JKव्_३,२.४८ः
सञ्ज्ञायां इति न अनुवर्तते ।
अन्त अत्यन्त अध्वन्दुर पार सर्व अनन्त इत्येतेषु कर्मसु उपपदेषु गमेः डप्रत्ययो भवति ।
अन्तगः अत्यन्तगः ।
अध्वगः ।
दूरगः ।
पारगः ।
सर्वगः ।
अनन्तगः ।
अनन्तगः ।
डकरः टिलोपार्थः, डित्यभस्य अप्यनुबन्धकरण-सामर्थ्यातिति । ।


[#२२१]

डप्रकरणे सर्वत्रपन्नयोरुपसङ्ख्यानं ।
सर्वत्रगः ।
पन्नगः ।
उरसो लोपश्च ।
उरसा गच्छति इति उरगः ।
सुदुरोरधिकरणे ।
सुखेन गच्छत्यस्मिनिति सुगः ।
दुर्गः ।
निरो देशे ।
निर्गो देशः ।
अप्र आह - डप्रकरणेऽन्येष्वपि दृश्यते इति ।
स्त्र्यगारगः ।
ग्रामगः ।
गुरुतल्पगः । ।


____________________________________________________________________


  1. <आशिषि हनः># । । PS_३,२.४९ । ।



_____Sठाऱ्ठ्JKव्_३,२.४९ः

ड इति वर्तते ।
आशिषि गम्यमानायां हन्तेर्धातोः कर्मण्य्-उपपदे डप्रययो भवति ।
तिमिं वध्यात्तिमिहः ।
शत्रुहः ।
आशिषि इति किं ? शत्रुघातः ।
दारावाहनोऽणन्तस्य च टः सञ्ज्ञायां ।
दारावुपपदे आङ्पूर्वाद्हन्तेः अण्प्रत्ययो भवति, अन्तस्य च ट कारादेशो भवति, सञ्ज्ञायां विषये ।
दारु आहन्ति दार्वाघाटः ।
चारौ वा ।
आङ्पूर्वात्हन्तेश्चारावुपपदे अण्, अन्तस्य वा टकारादेशः ।
चार्वाघाटः, चार्वाद्घातः ।
कर्मणि समि च ।
कर्मण्य्-उपपदे सम्पूर्वात्हन्तेः धातोः अण्प्रत्ययो भवति, अन्तस्य च वा टकारदेशः ।
वर्णान्संहन्ति वर्णसङ्घाटः, वर्णसङ्घातः ।
पदानि संहन्ति पदसङ्घाटः, पदसङ्घातः । ।


____________________________________________________________________


[#२२२]

  1. <अपे क्लेश-तमसोः># । । PS_३,२.५० । ।



_____Sठाऱ्ठ्JKव्_३,२.५०ः

अपपूर्वात्हन्तेः धातोः क्लेश-तमसोः कर्मणोरुपपदयोः डप्रत्ययो भवति ।
क्लेशापहः पुत्रः ।
तमोपहः सूर्यः ।
अनाशीरर्थ आरम्भः । ।


____________________________________________________________________


  1. <कुमार-शीर्षयोर्णिनिः># । । PS_३,२.५१ । ।


_____Sठाऱ्ठ्JKव्_३,२.५१ः

हन इति वर्तते ।
कुमार शीर्ष इत्येतयोः उपपदयोः हन्तेः णिनिः प्रत्ययो भवति ।
कुमार-घाती ।
शीर्ष-घाती ।
निपातनाच्छिरसः शीर्षभावः । ।


____________________________________________________________________


  1. <लक्षणे जाया-पत्योष्टक्># । । PS_३,२.५२ । ।



_____Sठाऱ्ठ्JKव्_३,२.५२ः

हन्तेः जायापत्योः कर्मणोः उअपपदयोः लक्षणवति कर्तरि टक्प्रत्ययो भवति ।
जायाघ्नो ब्राह्मणः पतिघ्नी वृषली ।
अथ वा लक्षणे द्योत्ये टक्प्रत्ययः । ।


____________________________________________________________________


  1. <अमनुष्यकर्तृके च># । । PS_३,२.५३ । ।



_____Sठाऱ्ठ्JKव्_३,२.५३ः

अमनुष्यकर्तृके वर्तमानाद्हन्तेः धातोः कर्मणि उपपदे टक्प्रत्ययो भवति ।
जायाघ्नस्तिलकालकः ।
पतिघ्नी पाणिरेखा ।
श्लेष्मघ्नं मधु ।
पित्तघ्नं घृतं ।
अमनुष्यकर्तृके इति किं ? आखुघातः शूद्रः ।
इह कर्मान्न भवति, चौरघातो हस्ती ? कृत्य-ल्युटो बहुलं (*३,३.११३) इति बहुल-वचनादण्भवति । ।

____________________________________________________________________


  1. <शक्तौ हस्ति कपाटयोः># । । PS_३,२.५४ । ।



_____Sठाऱ्ठ्JKव्_३,२.५४ः

शक्तौ गम्यमानायां हस्ति कपाटयोः कर्मणोरुपपदयोः हन्तेः टक्प्रत्ययो भवति ।
मनुष्यकर्तृक-अर्थ आरम्भः ।
हस्तिनं हन्तुं शक्तः हस्तिघ्नः मनुष्यः ।
कं पाटयति प्रविशत इति कपाटघ्नश्चौरः ।
शक्तौ इति किं ? विषेण हस्तिनं हन्ति हस्तिघातः । ।


____________________________________________________________________


  1. <पाणिघ-ताडघौ शिल्पिनि># । । PS_३,२.५५ । ।



_____Sठाऱ्ठ्JKव्_३,२.५५ः

पाणिघ ताडघ इत्येतौ शब्दौ निपात्येते शिल्पिनि कर्तरि ।
पाणि ताड इत्येतयोः कर्मणोः उपपदयोः हन्तेः धतोः टक्प्रत्ययो भवति,

[#२२३]

तस्मिंश्च परतो हन्तेः टिलोपो घत्वं च निपात्यते ।
पाणिघः ।
ताडघः ।
शिल्पिनि इति किं ? पाणिघातः ।
ताडघातः ।
राजघ उपसङ्ख्यानं ।
राजानं हन्ति राजघः । ।


____________________________________________________________________

  1. <आढ्य-सुभग-स्थूल-पलित-नग्न-अन्ध-प्रियेषु च्व्य्-अर्थेष्वच्वौ कृञः करणे ख्युन्># । । PS_३,२.५६ । ।



_____Sठाऱ्ठ्JKव्_३,२.५६ः

आढ्यादिषु कर्मसु उपपदेषु च्व्य्-अर्थेषु अच्व्यन्तेषु करोतेः धातोः करणे कारके ख्युन्प्रत्ययो भवति ।
च्वेर्विकल्पेन विधानाद्द्विविधाः च्व्यर्थाः, च्व्यन्ता अच्व्यन्ता श्च ।
तत्र च्व्यन्ताः पर्युदस्यन्ते ।
अनाढ्यं आढ्यं कुर्वन्ति अनेन आढ्यङ्करणं ।
सुभगङ्करणं ।
स्थूलङ्करणं ।
पलितङ्करणं ।
नग्नङ्करणं ।
अन्धङ्करणं ।
प्रियङ्करणं ।
च्व्यर्थेषु इति किं ? आढ्यं तैलेन कुर्वन्ति अभ्यञ्जयन्ति इत्यर्थः ।
प्रकृतेरविवक्षायां अभूतप्रादुर्भावेऽपि प्रत्युदाहरणं भवति ।
अच्वौ इति किं ? आढ्यीकुर्वन्त्यनेन ।
ननु च ख्युना मुक्ते ल्युटा भवितव्यम्, न च ल्युटः ख्युनश्च विशेषोऽस्ति, तत्र किं प्रतिषेधेन ? एवं तर्हि प्रतिषेध-सामर्थ्यात्ख्युनि असति ल्युडपि न भवति, तेन ल्युटोऽप्ययं अर्थतः प्रतिषेधः ।
उत्तरार्थश्च च्वि-प्रतिषेधः क्रियते । ।


____________________________________________________________________


  1. <कर्तरि भुवः खिष्णुच्-खुकञौ># । । PS_३,२.५७ । ।



_____Sठाऱ्ठ्JKव्_३,२.५७ः

आढ्यादिसु सुबन्तेषु उपपदेषु च्व्यर्थेषु अच्व्यन्तेषु भवतेर्धातोः कर्तरि कारके खिष्णुच्, खुकञित्येतौ प्रत्ययौ भवतः ।
अनाढ्य आढ्यो भवति आढ्यंभविष्णुः, आढ्यंभावुकः ।
सुभवंभविष्णु, सुभगंभावुकः ।
स्थूलंभविष्णुः, स्थूलंभावुकः ।
पलितंभविष्णुः, पलितंभावुकः ।
नग्नंभविष्णुः, नग्नंभावुकः ।
अन्धंभविष्णुः, अन्धंभावुकः ।
प्रियंभविष्णुः, प्रियंभावुकः ।
कर्तरि इति किं ? करणे मा भूथ् ।
च्व्यर्थेसु इत्येव, आढ्यो भविता ।
अच्वौ इत्येव, आढ्यीभविता ।
उदात्तत्वाद्भुवः सिद्धं इकारादित्वं इष्णुचः ।
नञ्स्तु स्वरसिद्ध्यर्थं इकारादित्वं इष्यते । ।


____________________________________________________________________


  1. <स्पृशोऽनुदके क्विन्># । । PS_३,२.५८ । ।



_____Sठाऱ्ठ्JKव्_३,२.५८ः

स्पृशे र्धातोरनुदके सुबन्त उपपदे क्विन्प्रत्ययो भवति ।
ननु सकर्मकत्वात्स्पृशेः कर्मैवोपपदं प्राप्नोति ? न+एष दोषः ।
कर्तरि इति पूर्वसूत्रादनुवर्तते, तत्कर्तृप्रचय-अर्थं विज्ञायते ।
सुबन्तमात्रे च+उपपदे कर्तृपचयो लभ्यते घृतं स्पृशति घृतस्पृक् ।
मन्त्रेण स्पृशति मन्त्रस्पृक् ।
जलेन स्पृशति जलस्पृक् ।
अनुदके इति किं ? उदकस्पर्शः ।
नकारः क्विन्-प्रत्ययस्य कुः (*८,२.६२) इति विशेषण-अर्थः । ।


____________________________________________________________________


[#२२४]

  1. <ऋत्विग्-दधृक्-स्रग्-दिग्-उष्णिग्-अञ्चु-युजि-क्रुञ्चां च># । । PS_३,२.५९ । ।



_____Sठाऱ्ठ्JKव्_३,२.५९ः

ऋत्विगादयः पञ्च-शब्दाः क्विन्-प्रत्ययान्ताः निपात्यन्ते, अपरे त्रयो धात्वो निर्दिष्यन्ते ।
ऋतु-शब्द उपपदे यजेर्धतोः क्विन्प्रत्ययो निपात्यते ।
ऋतौ यजति, ऋतुं वा यजति, ऋतुप्रयुक्तो वा यजति ऋत्विक् ।
रूढिरेषा यथा कथंचिदनुगन्तव्या ।
धृषेः क्विन्प्रत्ययः, द्विर्वचनम्, अन्तोदात्तत्वं च निपात्यते ।
धृष्णोति इति दधृक् ।
सृजेः कर्मणि क्विन्, अमागमः च निपात्यते ।
सृजन्ति तं इति स्रक् ।
दिषेः कर्मणि क्विन्निपात्यते ।
दिशन्ति तां इति दिक् ।
उत्पूर्वात्स्निहेः क्विन्, उपसर्गान्त-लोपः, षत्वं च निपात्यते ।
उष्णिक् ।
अञ्चु युजि क्रुञ्च इत्येतेषां धातूनां क्विन्प्रत्ययो भवति ।
निपातनैः सह निर्देशातत्र अपि किंचिदलाक्षणिकं कार्यं अस्ति ।
अञ्चतेः सुब्नत-मात्र उपपदे क्विन्प्रत्ययो भवति ।
प्राङ् ।
प्रत्यङ् ।
उदङ् ।
युजेः क्रुञ्चेश्च केवलादेव ।
युङ्, युञ्जौ, युञ्जः ।
सोपपदात्तु सत्सूद्विष (*३,२.६१) इत्यादिना क्विप्भवति ।
अश्वयुक्, अश्वयुजौ, अश्वयुजः ।
क्रुङ्, क्रुञ्चौ, क्रुञ्चः ।
नलोपः कस्मान्न भवति ? निपातन-साहचर्यात् । ।


____________________________________________________________________


  1. <त्यदादिषु दृशोऽनालोचने कञ्च># । । PS_३,२.६० । ।



_____Sठाऱ्ठ्JKव्_३,२.६०ः

त्यदादिषु उपपदेषु दृशेर्धातोरनालोचनेऽर्थे वर्तमानात्कञ्प्रत्ययो भवति, चकारात्क्विन्च ।
त्यादृशः, त्यादृक् ।
तादृशः, तादृक् ।
यादृशः, यादृक् ।
कञो ञकारो विशेषण-अर्थः, ठक्ठञ्कञिति ।
अनालोचने इति किं ? तं पश्यति तद्दर्शः ।
तादृगादयो हि रूढिशब्द-प्रकाराः, न+एव अत्र दर्शनक्रिया विद्यते ।
समानान्ययोश्चेति वक्तव्यं ।
सदृशः, सदृक् ।
अन्यादृशः, अन्यादृक् ।
दृशेः क्षश्च वक्तव्यः ।
तादृक्षः ।
यादृक्षः ।
अन्यादृक्षः ।
कीदृक्षः । ।


____________________________________________________________________


[#२२५]

  1. <सत्-सू-द्विष-द्रुह-दुह-युज-विद-भिदच्-छिद-जि-नी-राजां उअसर्गेऽपि क्विप्># । । PS_३,२.६१ । ।



_____Sठाऱ्ठ्JKव्_३,२.६१ः

सुपि इत्यनुवर्तते ।
कर्म-ग्रहणं तु स्पृशोऽनुदके क्विन्(*३,२.५८) इत्यतः प्रभृति न व्याप्रियते ।
सदादिभ्यः धातुभ्यः सुबन्ते उपपदे उपसर्गेऽपि अनुपसर्गेऽपि क्विप्प्रत्ययो भवति ।
उपसर्ग-ग्रहणं ज्ञापनार्थम्, अन्यत्र सुब्-ग्रहणे उपसर्ग-ग्रहणं न भवति इति, वदः सुपि क्यप्च (*३,१.१०६) इति ।
सू इति द्विषा साहचर्यात्सूतेः आदादिकस्य ग्रहणं, न सुवतेः तौदादिकस्य ।
युजिर्योगे, युज समाधौ, द्वयोरपि ग्रहणं ।
विद ज्ञाने, विद सत्तायाम्, विद विचारणे, त्रयाणां अपि ग्रहणं ।
न लाभ-अर्थस्य विदेः, अकारस्य विवक्षतत्वाथ् ।
सद्- शुचिषथ् ।
अन्तरिक्षसथ् ।
उपसथ् ।
सू - अण्डसूः ।
शतसूः ।
प्रसूः ।
द्विष - मित्रद्विठ् ।
प्रद्विठ् ।
द्रुह - मित्रध्रुक् ।
प्रध्रुक् ।
दुह - गोधुक् ।
प्रधुक् ।
युज - अश्वयुक् ।
प्रयुक् ।
विद - वेदविथ् ।
प्रविथ् ।
ब्रह्मविथ् ।
भिद - काष्ठभिथ् ।
प्रभिथ् ।
छिद - रज्जुच्छिद् ।
प्रच्छिद् ।
जि - शत्रुजिथ् ।
प्रजिथ् ।
नी - सेनानीः ।
प्रणीः ।
ग्रामणीः ।
अग्रणीः ।
कथं अत्र णत्वं ? स एषां ग्रामणीः (*५,२.७८) इति निपातनात्, नयतेः पूर्वपदात्सज्ञायां अगः (*८,४.३) इति णत्वं ।
राज - राठ् ।
विराठ् ।
सम्राठ् ।
मो राजि समः क्वौ (*८,२.३५) इति मत्वं ।
अन्येभ्योऽपि दृश्यते (*३,२.१७८), क्विप्च (*३,२.७६) इति सामान्येन वक्ष्यति, तस्य+एव अयं प्रपञ्चः । ।


____________________________________________________________________


  1. <भजो ण्विः># । । PS_३,२.६२ । ।



_____Sठाऱ्ठ्JKव्_३,२.६२ः

उपसर्गे सुपि इति वर्तते ।
भजेर्धातोः सुबन्त उपपदे उपसर्गेऽपि - प्रभाक् । ।


____________________________________________________________________


  1. <छन्दसि सहः># । । PS_३,२.६३ । ।



_____Sठाऱ्ठ्JKव्_३,२.६३ः

उपसर्गे सुपि इत्येव ।
छन्दसि विषये सहेर्धातोः सुबन्ते उपपदे ण्वि-प्रत्ययो भवति ।
तुराषाठ् ।
सहेः साडः सः (*८,३.५६) इति षत्वम्, अन्येषां अपि दृश्यते (*६,३.१३७) इति दीर्घत्वं । ।


____________________________________________________________________


[#२२६]

  1. <वहश्च># । । PS_३,२.६४ । ।



_____Sठाऱ्ठ्JKव्_३,२.६४ः

वहेर्धातोः छन्दसि विषये सुबन्त उपपदे ण्विप्रत्ययो भवति ।
प्रष्ठवाठ् ।
दिव्यवाठ् ।
योग-विभाग उत्तर-अर्थः । ।


____________________________________________________________________


  1. <कव्य-पुरीष-पुरीष्येषु ञ्युट्># । । PS_३,२.६५ । ।



_____Sठाऱ्ठ्JKव्_३,२.६५ः

कव्य पुरीष पुरीष्य इत्येतेषु उपपदेषु छन्दसि विषये वहेर्धातोः ण्युट्प्रत्ययो भवति ।
कव्यवाहनः पित्éणां ।
पुरीषवाहणः ।
पुरीष्यवाहनः । ।


____________________________________________________________________


  1. <हव्येऽनन्तःपादाम्># । । PS_३,२.६६ । ।



_____Sठाऱ्ठ्JKव्_३,२.६६ः

हव्य-शब्दे उपपदे छन्दसि विषये वहेर्धातोः ञ्युट्प्रत्ययो भवति, अनन्तः-पादं चेद्वहिर्वर्तते ।
अग्निश्च हव्य-वाहनः अनन्तःपादं इति किं ? हव्यवाडग्निरजरः पिता नः । ।


____________________________________________________________________


  1. <जन-सन-खन-क्रम-गमो विट्># । । PS_३,२.६७ । ।



_____Sठाऱ्ठ्JKव्_३,२.६७ः

छन्दसि उपसर्गे सुपि इति अनुवर्तते ।
जन जनने, जनी प्रदुर्भावे, द्वयोरपि ग्रहणं ।
तथा षणु दाने, वन षने संभक्तौ, द्वयोरपि ग्रहणं ।
जनादिभ्यः धातुभ्यः सुबन्त उपपदे छन्दसि विषये विट्प्रत्ययो भवति ।
टकारः सामान्य-ग्रहण-अविघात-अर्थः वेरपृक्तस्य (*६,१.६७) इति, विषेषण-अर्थश्च विड्वनोरनुनासिकस्यात्(*६,४.४१) इति ।
जन - अब्जाः गोजाः ।
सन - गोषा इन्दो नृषा असि ।
खन - बिसखाः ।
कूपखाः ।
क्रम - दधिक्राः ।
गम - अग्रेगा उन्नत्éणां । ।

____________________________________________________________________


  1. <अदोऽनन्ने># । । PS_३,२.६८ । ।



_____Sठाऱ्ठ्JKव्_३,२.६८ः

छन्दसि इति निवृत्तं ।
अदेर्धातोरनन्ने सुप्युपपदे विट्प्रत्ययो भवति ।
आममत्ति आमाथ् ।
सस्याथ् ।
अनन्ने इति किं ? अन्नादः । ।


____________________________________________________________________


  1. <क्रव्ये च># । । PS_३,२.६९ । ।



_____Sठाऱ्ठ्JKव्_३,२.६९ः

क्रव्य-शब्द उपपदे अदेर्धातोः विट्प्रत्ययो भवति ।
क्रव्यमत्ति क्रव्याथ् ।
पूर्वेण+एव सिद्धे वचनं असरूपबाधन-अर्थं ।
तेन अण्न भवति ।
कथं तर्हि क्रव्यादः ? कृत्तविकृत्त-शब्दे उपपदे अण्, तस्य च पृषोदरादिपाठात्क्रव्यभावः ।
कृत्तविकृत्तपक्वमांसभक्षः क्रव्याद उच्यते, आममांसभक्षः क्रव्यातिति । ।


____________________________________________________________________


[#२२७]

  1. <दुहः कब्घश्च># । । PS_३,२.७० । ।


_____Sठाऱ्ठ्JKव्_३,२.७०ः

दुहेर्धातोः सुप्युपपदे कप्प्रत्ययो भवति, घकारश्चान्तादेशः ।
कामदुघा धेनुः ।
अर्घदुघा ।
धर्मदुघ । ।


____________________________________________________________________


  1. <मन्त्रे श्वेत-वह-उक्थशस्-पुरोडाशो ण्विन्># । । PS_३,२.७१ । ।



_____Sठाऱ्ठ्JKव्_३,२.७१ः

श्वेतवह उक्थशस्पुरोडाशित्येतेभ्यो ण्विन्प्रत्ययो भवति मन्त्रे विषये ।
धातु-उपपद-समुदाया निपात्यन्ते अलाक्षणिककार्य-सिद्ध्य्-अर्थं ।
प्रत्ययस्तु विधीयत एव ।
श्वेत-शब्दे कर्तृ-वाचिनि उपपदे वहेर्धातोः करणि कारके ण्विन्प्रत्ययो भवति ।
श्वेता एनं वहन्ति श्वेतवा इन्द्रः ।
उक्थ-शब्दे कर्मणि करणे वा उपपदे शंसतेर्धातोः ण्विन्प्रत्ययो भवति, नलोपश्च निपात्यते ।
उक्थानि शंसति, उक्थैर्वा शंसति, उक्थशा यजमानः ।
दाशृ दाने इत्येतस्य पुरःपूर्वस्य डत्वम्, कर्मणि च प्रत्ययः ।
पुरो दाशन्त एनं प्रोडाः ।
श्वेतवहादीनां डस्पदस्य+इति वक्तव्यं ।
श्वेतवोभ्यां ।
श्वेतवोभिः ।
पदस्य इति किं ? श्वेतवाहौ ।
श्वेतवाहः । ।


____________________________________________________________________


  1. <अवे यजः># । । PS_३,२.७२ । ।



_____Sठाऱ्ठ्JKव्_३,२.७२ः

अवे उपपदे यजेः धातोः ण्विन्प्रत्ययो भवति मन्त्रे विषये ।
त्वं यज्ञे वरुणस्य अवया असि ।
योगविभाग उत्तर-अर्थः । ।


____________________________________________________________________


  1. <विजुपे छन्दसि># । । PS_३,२.७३ । ।



_____Sठाऱ्ठ्JKव्_३,२.७३ः

उपे उपपदे यजेः छन्दसि विषये विच्प्रत्ययो भवति ।
उपयड्भिरूर्ध्वं वहन्ति ।
उपयट्त्वं ।
छन्दो-ग्रहणं ब्राह्मण-अर्थं ।
विचः चित्करणं सामान्य-ग्रहण-अविघात-अर्थं वेरपृक्तस्य (*६,१.६७) इति ।
किं अर्थं इदं उच्यते, यावत अन्येभ्योऽपि दृश्यन्ते (*३,२.७५) इति यजेरपि विच्सिद्ध एव ? यजेर्नियम-अर्थं एतत्, उपयजेः छन्दस्य+इव, न भाषायां इति । ।


____________________________________________________________________


[#२२८]

  1. <आतो मनिन्-क्वनिब्-वनिपश्च># । । PS_३,२.७४ । ।



_____Sठाऱ्ठ्JKव्_३,२.७४ः

छन्द्सि इति वर्तते, सुपि उपसर्गेऽपि इति च ।
आकारान्तेभ्यो धातुभ्यः सुपि उपप्दे छन्द्सि विषये मनिन्क्वनिप्वनिपित्येते प्रत्यया भवन्ति ।
चकरात्विच्भवति ।
सुदामा ।
अश्वत्थामा ।
क्वनिप्- सुधीवा ।
सुपीवा ।
वनिप्- भूरिदावा ।
घृतपावा ।
विच्खल्वपि - कीलालपाः ।
शुभंयः ।
रामस्य+उपदाः । ।


____________________________________________________________________


  1. <अन्येभ्योऽपि दृश्यन्ते># । । PS_३,२.७५ । ।



_____Sठाऱ्ठ्JKव्_३,२.७५ः

छन्दसि इति निवृत्तं ।
अन्येभ्योऽपि धातुभ्योऽनाकारान्तेभ्यो मनिन्क्यनिप्वनिपित्येते प्रत्यया दृश्यन्ते, विच्च ।
सुशर्मा ।
क्वनिप्- प्रातरित्वा ।
प्रातरित्वानौ ।
वनिप्- विजावाग्ने ।
अग्रेयावा ।
विच्खल्वपि - रेडसि ।
अपि-शब्दः सर्व-उपाधिव्यभिचार-अर्थः ।
निरुपपदादपि भवति ।
धीवा ।
पीवा ।
दृशि-ग्रहणं प्रयोग-अनुसरण-अर्थं । ।


____________________________________________________________________


  1. <क्विप्च># । । PS_३,२.७६ । ।



_____Sठाऱ्ठ्JKव्_३,२.७६ः

सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि भाषायां च क्विप्प्रत्ययो भवति ।
उखायाः स्रंसते उखास्रथ् ।
पर्णध्वथ् ।
वाहात्भ्रश्यति, वाहाभ्रठ् ।
अन्येषं अपि दृश्यते (*६,३.१३७) इति दीर्घः । ।


____________________________________________________________________


  1. <स्थः क च># । । PS_३,२.७७ । ।



_____Sठाऱ्ठ्JKव्_३,२.७७ः

सुपि उपसर्गेऽपि इति च वर्तते ।
स्था इत्येतस्माद्धातोः सुपि उपपदे कप्रत्ययो भवति, क्विप्च ।
किमर्थं इदं उच्यते, यवता सुपि स्थः (*३,२.४) इति कः सिद्ध एव, अन्येभ्योऽपि दृश्यते (*३,२.१७८) इति क्विप्? बाधकबाधन-अर्थं पुनर्वचनं ।
शमि धातोः सञ्ज्ञायां (*३,२.१४) अचं बाधते - शंस्थः ।
शंस्थाः । ।


____________________________________________________________________


[#२२९]

  1. <सुप्यजातौ णिनिस्ताच्छील्ये># । । PS_३,२.७८ । ।



_____Sठाऱ्ठ्JKव्_३,२.७८ः

अजाति-वाचिनि सुबन्त उपपदे ताच्छील्ये गम्यमाने धातोः णिनिः प्रत्ययो भवति ।
उष्णभोजी ।
शीतभोजी ।
अजातौ इति किं ? ब्राह्मणानामन्त्रयिता ।
ताछ्हील्ये इति किं ? उष्णं भुङ्क्ते कदाचिथ् ।
सुपि इति वर्तमाने पुनः सुब्-ग्रहणं उपसर्गनिवृत्त्य्-अर्थं ।
उत्प्रतिभ्यां आङि सर्तेरुपसङ्ख्यानं ।
उदासारिण्यः ।
प्रत्यासारिण्यः ।
साधुकारिणि च ।
सधुकारी ।
साधुदायी ।
ब्रह्मणि वदः ।
ब्रह्मवादिनो वदन्ति । ।


____________________________________________________________________


  1. <कर्तर्युपमामे># । । PS_३,२.७९ । ।



_____Sठाऱ्ठ्JKव्_३,२.७९ः

कर्तृ-वाचिनि उपमाने उपपदे धातोः णिनि-प्रत्ययो भवति ।
उपपदकर्ता प्रत्यय-अर्थस्य कर्तुरुपमानं ।
उष्ट्र इव क्रोशति उष्ट्रक्रोशी ।
ध्वाङ्क्षरावी ।
अताच्छील्य-अर्थ आरम्भः, जात्यर्थो वा ।
कर्तरि इति किं ? अपूपानिव भक्षयति माषान् ।
उपमने इति किं ? उष्ट्रः क्रोशति । ।


____________________________________________________________________


  1. <व्रते># । । PS_३,२.८० । ।



_____Sठाऱ्ठ्JKव्_३,२.८०ः

व्रत इति शास्त्रतो नियम उच्यते व्रते गम्यमाने सुबन्त उपपदे धातोः णिनिः प्रत्ययो भवति ।
समुदायोपधिश्च अयं ।
धतु-उपपद-प्रत्ययसौदयेन व्रतं गम्यते ।
स्थण्डिलशायी ।
अश्राद्धभोजी ।
कामचारप्राप्तौ नियमः ।
सति शयने स्थण्डिल एव शेते न अन्यत्र ।
सति भोजनेऽश्राद्धं एव भुङ्क्ते न श्राद्धं इति ।
व्रते इति किं ? स्थाण्डिले शेते देवदत्तः ।
अतच्छील्य-अर्थ आरम्भः, जात्य्-अर्थो वा । ।


____________________________________________________________________


[#२३०]

  1. <बहुलं आभीक्ष्ण्ये># । । PS_३,२.८१ । ।



_____Sठाऱ्ठ्JKव्_३,२.८१ः

आभीक्ष्ण्ये गम्यमाने धातोः बहुलं णिनिः प्रत्ययो भवति ।
अभीक्ष्ण्यं पौनःपुन्यं ।
तात्पर्यं आसेवैव, ताच्छील्यादन्यथ् ।
कषायपायिणो गन्धाराः ।
क्षीरपायिणः उशीनराः ।
सौवीरपायिणो बाह्लीकाः ।
बहुल-ग्रहणत्कुल्माषखादः इत्यत्र न भवति । ।


____________________________________________________________________


  1. <मनः># । । PS_३,२.८२ । ।



_____Sठाऱ्ठ्JKव्_३,२.८२ः

सुपि इति वर्तते ।
मन्यतेः सुबन्ते उपपदे णिनिः प्रत्ययो भवति ।
दर्शनीयमानी ।
शोभनमानी ।
बहुल-ग्रहण-अनुवृत्तेः मन्यतेः ग्रहणं न मनुतेः ।
उत्तरसूत्रे हि खश्-प्रत्यये विकरणकृतो विशेषः स्यात् । ।


____________________________________________________________________


  1. <आत्ममाने खश्च># । । PS_३,२.८३ । ।



_____Sठाऱ्ठ्JKव्_३,२.८३ः

आत्मनो मननं आत्ममानः ।
आत्ममाने वर्तमानान्मन्यतेः सुप्युपपदे खश्-प्रत्ययो भवति ।
चकाराण्णिनिः च ।
यदा प्रत्यय-अर्थः कर्ता आत्मानं एव दर्शनीयत्वादिना धर्मेण युक्तं मन्यते, तदाऽयं विधिः ।
दर्शनीयं आत्मानं मन्यते दर्शनीयंमन्यः, दर्शनीयमानी ।
पण्डितं मन्यः, पण्डितमानी ।
आत्ममाने इति किं ? दर्शनीयमनी देवदत्तस्य यज्ञदत्तः । ।


____________________________________________________________________


  1. <भूते># । । PS_३,२.८४ । ।



_____Sठाऱ्ठ्JKव्_३,२.८४ः

भूते इत्यधिकारो वर्तमने लट्(*३,२.१२३) इति यवथ् ।
यदित ऊर्ध्वं अनुक्रमिष्यामः भूते इत्येवं तद्वेदितव्यं ।
धात्व्-अधिकाराच्च धात्व्-अर्थे भूते इति विज्ञायते ।
वक्ष्यति - करणे यजः (*३,२.८५), अग्निष्टोमेन इष्टवानग्निष्टोमयाजी ।
भूते इति किं ? अग्निष्टोमेन यजते । ।

____________________________________________________________________


  1. <करणे यजः># । । PS_३,२.८५ । ।



_____Sठाऱ्ठ्JKव्_३,२.८५ः

णिनिः अनुवर्तते, न खश् ।
यजतेर्धातोः करणे उपपदे णिनिप्रत्ययो भवति भूते ।
अग्निष्टोमयाजी ।
अग्निष्तोमः फलभावनायां करणं भवति । ।


____________________________________________________________________


[#२३१]

  1. <करमणि हनः># । । PS_३,२.८६ । ।



_____Sठाऱ्ठ्JKव्_३,२.८६ः

करणि उपपदे हन्तेर्धातोः णिनिः प्रत्ययो भवति भूते कले ।
पितृव्यघाती ।
मातुलघाती ।
कुग्सितग्रहणं कर्तव्यं ।
इति मा भूत्, चौरं हतवान् । ।


____________________________________________________________________


  1. <ब्रह्म-भ्रूण-वृत्रेषु क्विप्># । । PS_३,२.८७ । ।



_____Sठाऱ्ठ्JKव्_३,२.८७ः

कर्मणि इति वर्तते ।
ब्रह्मादिषु कर्मसु उपपदेषु हन्तेर्धातोः क्विप्प्रत्ययो भवति भूते ।
ब्रह्महा ।
ब्रूणहा ।
वृत्रहा ।
किमर्थं इदं उच्यते यावता सर्वधातुभ्यः क्विप्विहित एव ? ब्रह्मादिषु हन्तेः क्विब्-वचनं नियम-अर्थं ।
चतुर्विधश्च अत्र नियम इष्यते ।
ब्रह्मादिष्वेव हन्तेः, न अन्यस्मिन्नौपपदे, पुरुषं हतवानिति ।
ब्रह्मादिषु हन्तेरेव, न अन्यस्मात्स्यात्, ब्रह्म अधीतवानिति ।
ब्रह्मादिषु हन्तेर्भूतकाले क्विपेव न अन्यः प्रत्ययः, तथा भूतकाले एव न अन्यस्मिन्, ब्रह्माणं हन्ति हनिष्यति वा इति ।
तदेतद्वक्ष्यमाण-बहुल-ग्रहणस्य पुरस्ताअदपकर्षणाल्लभ्यते । ।


____________________________________________________________________


  1. <बहुलं छन्दसि># । । PS_३,२.८८ । ।



_____Sठाऱ्ठ्JKव्_३,२.८८ः

पूर्वेण नियमादप्राप्तः क्विप्प्रत्ययः विधीयते ।
छन्दसि विषये उपपदन्तरेष्वपि हन्तेर्बहुलं क्विप्प्रत्ययो भवति ।
मतृहा सप्तमं नरकं व्रजेथ् ।
पितृहा ।
न च भवति ।
मातृघातः ।
पितृघातः । ।


____________________________________________________________________


  1. <सु-कर्म-पाप-मन्त्र-पुण्येषु कृञः># । । PS_३,२.८९ । ।



_____Sठाऱ्ठ्JKव्_३,२.८९ः

कर्मणि इति वर्तते ।
तद्-असम्भवात्सु-शब्दं वर्जयित्वा परिशिष्टानां विशेषणं भवति ।
स्वादिषु कर्मसु उपपदेषु करोतेर्धातोः क्विप्प्रत्ययो भवति ।
सुकृथ् ।
कर्मकृथ् ।
पापकृथ् ।
मन्त्रकृथ् ।
पुण्यकृथ् ।
अयं अपि नियम-अर्थ आरम्भः ।
त्रिविधश्च अत्र नियम इष्यते ।
धातुनियमं वर्जयित्वा कालोपपद-प्रत्ययनियमः ।
धतोरनियतत्वादन्यस्मिन्नुपपदे अपि भवति ।
शास्त्रकृथ् ।
भाष्यकृट् । ।


____________________________________________________________________


  1. <सोमे सुञः># । । PS_३,२.९० । ।



_____Sठाऱ्ठ्JKव्_३,२.९०ः

कर्मणि इति वरते ।
सोमे कर्मणि उपपदे सुनोतेर्धातोः क्विप्प्रत्ययो भवति ।
सोमसुत्, सोमसुतौ, सोमसुतः ।
अयं अपि नियम-अर्थ आरम्भः ।
चतुर्विधश्च अत्र नियमः इष्यते, धातुकाल-उपपद-प्रत्यय-विषयः । ।


____________________________________________________________________


[#२३२]

  1. <अग्नौ चेः># । । PS_३,२.९१ । ।



_____Sठाऱ्ठ्JKव्_३,२.९१ः

कर्मणि इत्येव ।
अग्नौ कर्मण्युपपदे चिनोतेर्धातोः क्विप्प्रत्ययो भवति ।
अग्निचित्, अग्निचितौ, अग्निचितः ।
अत्र अपि पूर्ववच्चतुर्विधो नियम इष्यते । ।


____________________________________________________________________


  1. <कर्मण्य्-अग्न्य्-आख्यायाम्># । । PS_३,२.९२ । ।



_____Sठाऱ्ठ्JKव्_३,२.९२ः

चेः कर्मणि इति वर्तते ।
कर्मणि उपपदे चिनोतेः कर्मण्येव कारके क्विप्प्रत्ययो भवति अग्न्य्-आख्यायां, धातूपपद-प्रत्यय-समुदायेन चेदग्न्याख्या गम्यते ।
श्येन इव चीयते श्येनचिथ् ।
कङ्कचिथ् ।
आख्या-ग्रहणं रूढिसम्प्रत्ययार्थं ।
अग्न्य्-अर्थो हि इष्टकाचय उच्यते श्येनचितिति । ।


____________________________________________________________________


  1. <कर्मणि इनिर्विक्रियः># । । PS_३,२.९३ । ।



_____Sठाऱ्ठ्JKव्_३,२.९३ः

कर्मणि उपपदे वि-पूर्वत्क्रीणातेर्धातोः इनिः प्रत्ययो भवति ।
कर्मणि इति वर्तमाणे पुनः कर्म-ग्रहणं कर्तुः कुत्सानिमित्ते कर्मणि यथा स्यात्, कर्म-मात्रे मा भूथ् ।
सोमविक्रयी ।
रसविक्रयी ।
इह न भवति, धान्य-विक्रायः । ।


____________________________________________________________________


  1. <दृशेः क्वनिप्># । । PS_३,२.९४ । ।



_____Sठाऱ्ठ्JKव्_३,२.९४ः

कर्मणि इत्येव ।
दृशेः धातोः कर्मणि उपपदे क्वनिप्प्रत्ययो भवति ।
मेरुदृश्वा ।
परलोकदृश्वा ।
अन्येभ्योऽपि दृश्यन्ते (*३,२.७५) इति क्वनिपि सिद्धे पुनर्वचनं प्रत्ययान्तर-निवृत्त्य्-अर्थं । ।


____________________________________________________________________


  1. <राजनि युधिकृञः># । । PS_३,२.९५ । ।



_____Sठाऱ्ठ्JKव्_३,२.९५ः

कर्मणि इत्येव ।
राजन्-शब्दे कर्मणि उपपदे युध्यतेः करोतेश्च क्वनिप्प्रत्ययो भवति ।
ननु च युधिरकर्मकः ? अन्तर्भावितण्य्-अर्थः सकर्मको भवति ।
राजयुध्वा ।
राजानं योधितवानित्यर्थः ।
राजकृत्वा । ।


____________________________________________________________________


  1. <सहे च># । । PS_३,२.९६ । ।



_____Sठाऱ्ठ्JKव्_३,२.९६ः

सह-शब्दे च+उपपदे युधिकृञोः धात्वोः क्वनिप्प्रत्ययो भवति ।
असत्त्ववाचित्वान्न+उपपदं कर्मणा विशेष्यते ।
सहयुध्वा ।
सहकृत्वा । ।


____________________________________________________________________


  1. <सप्तम्यां जनेर्डः># । । PS_३,२.९७ । ।



_____Sठाऱ्ठ्JKव्_३,२.९७ः

सप्तम्यन्त उपपदे जनेर्धतोः डः प्रत्ययो भवति ।
उपसरे जातः उपसरजः ।
मन्दुरजः । ।


____________________________________________________________________


[#२३३]

  1. <पञ्चम्यां अजातौ># । । PS_३,२.९८ । ।



_____Sठाऱ्ठ्JKव्_३,२.९८ः

पञ्चम्यन्त उपपदे जातिवर्जिते जनेर्डः प्रत्ययो भवति ।

[#२३२]

बुद्धिजः ।
संस्कारञः ।
दुःखजः ।
अजातौ इति किं ? हस्तिनो जातः ।
अश्वाजातः । ।


____________________________________________________________________


[#२३३]

  1. <उपसर्गे च सञ्ज्ञायाम्># । । PS_३,२.९९ । ।



_____Sठाऱ्ठ्JKव्_३,२.९९ः

उपसर्गे च उपपदे जनेः डः प्रत्ययो भवति सञ्ज्ञायां विषये ।
समुदायोपाधिः सञ्ज्ञा ।
अथेमा मानवीः प्रजाः । ।


____________________________________________________________________


  1. <अनौ कर्मणि># । । PS_३,२.१०० । ।



_____Sठाऱ्ठ्JKव्_३,२.१००ः

अनुपूर्वात्जनेः कर्मणि उपपदे डः प्रत्ययो भवति ।

[#२३२]

पुमांसमनुजातः पुमनुजः ।
स्त्र्यनुजः । ।


____________________________________________________________________


[#२३३]

  1. <अन्येष्वपि दृश्यते># । । PS_३,२.१०१ । ।



_____Sठाऱ्ठ्JKव्_३,२.१०१ः

अन्येष्वपि उपपदेषु कारकेषु जनेः डः प्रत्ययो दृश्यते ।
सप्तम्यां इत्युकतम सप्तम्यां अपि दृश्यते ।
न जायते इति अजः ।
द्विर्जाताः द्विजाः ।
पञ्चम्यां अजातौ (*३,२.९८) इत्युक्तं, जातवपि दृश्यते ।
ब्राह्मणजो धर्मः ।
क्षत्रियजं युद्धं ।
उपसर्गे च सञ्ज्ञायां (*३,२.९९) इत्युक्तम्, असञ्ज्ञायां अपि दृश्यते ।
अभिजाः, परिजाः केशाः ।
अनु कर्मणि (*३,२.१००) इत्युक्तम्, अकर्मण्यपि दृश्यते ।
अनुजातः अनुजः ।
अपि-शब्दः सर्वोपाधिव्यभिचार-अर्थः ।
तेन धात्वन्तरादपि भवति, कारकन्तरेऽपि ।
परितः खाता परिखा ।
आखा । ।


____________________________________________________________________


  1. <निष्ठा># । । PS_३,२.१०२ । ।



_____Sठाऱ्ठ्JKव्_३,२.१०२ः

क्तक्तवतू निष्ठा (*१,१.२६) इत्युक्तं, स निष्ठ-सञ्ज्ञकः प्रत्ययो भूते भवति ।
कृतं ।
कृतवान् ।
भुक्तं ।
भुक्तवान् ।
निष्ठायां इतरेतराश्रयत्वादप्रसिद्धिः ।
सञ्ज्ञायां क्तक्तवतू भाव्येते, सतोश्चानयोः सञ्ज्ञाया भाव्यं ।
न+एष दोषः ।
भाविनी सञ्ज्ञा विज्ञायते ।
स भूते भवति, यस्योत्पन्नस्य निष्ठा इत्येषा सञ्ज्ञा भवति ।
समर्थ्यात्क्तक्तवत्वोर्विधानं एतथ् ।
आदिकर्मणि निष्ठ वक्तव्या ।
प्रकृतः कटं देवदत्तः ।
प्रकृतवान्कटं देवदत्तः । ।


____________________________________________________________________


[#२३४]

  1. <सु-यजोर्ङ्वनिप्># । । PS_३,२.१०३ । ।



_____Sठाऱ्ठ्JKव्_३,२.१०३ः

सुनोतेर्यजतेश्च ङ्वनिप्प्रत्ययो भवति ।
सुत्वा ।
यज्वा । ।


____________________________________________________________________


  1. <जीर्यतेरतृन्># । । PS_३,२.१०४ । ।



_____Sठाऱ्ठ्JKव्_३,२.१०४ः

भूते (*३,२.७४) इति वर्तते ।
जीर्यतेः अतृन्प्रत्ययो भवति भूते ।
जरन्, जरन्तौ, जरन्तः ।
वा+असरूपेण निष्ठा, जीर्णः, जीर्णवानिति । ।


____________________________________________________________________


  1. <छन्दसि लिट्># । । PS_३,२.१०५ । ।



_____Sठाऱ्ठ्JKव्_३,२.१०५ः

भूते इत्येव ।
छन्दसि विषये धातोः लिट्प्रत्ययो भवति ।
अहं सूर्यमुभयतो ददर्श ।
अहं ध्यावापृथिवी आततान ।
ननु च छ्न्दसि लुड्-लङ्-लिटः (*३,४.६) इति सामान्येन लिट्विहित एव ? धातु-सम्बन्धे स विधिः, अयं त्वविषेषेण । ।


____________________________________________________________________


  1. <लिटः कानज्वा># । । PS_३,२.१०६ । ।



_____Sठाऱ्ठ्JKव्_३,२.१०६ः

छन्दसि लिटः कानज्-आदेशो भवति वा ।
अग्निं चिक्यानः ।
सोमं सुषुवाणः ।
वरुणं सुषुवानं ।
न च भवति ।
अहं सूर्यमुभयतो ददर्श ।
अहं द्यावापृथिवी आततान ।
लिड्-ग्रहणं किम्, न पूर्वस्य+एव प्रकृतस्य आदेशाविधाने विभक्ति-विपरिणामो भविष्यति ? लिण्मात्रस्य यथा स्यात्, योऽपि परोक्षे विहितस्तस्य अप्ययं आदेशो भवति । ।


____________________________________________________________________

  1. <क्वसुश्च># । । PS_३,२.१०७ । ।



_____Sठाऱ्ठ्JKव्_३,२.१०७ः

छन्दसि लिटः क्वसुरादेशः भवति ।
जक्षिवान् ।
पपिवान् ।
न च भवति ।
अहं सूर्यमुभयतो ददर्श ।
योगविभाग उत्तरार्थः । ।


____________________________________________________________________


  1. <भाषायां सद-वस-श्रुवः># । । PS_३,२.१०८ । ।



_____Sठाऱ्ठ्JKव्_३,२.१०८ः

सद वस श्रु इत्येतेभ्यः परस्य लिटो भाषायां विषये वा क्वसुरादेशो भवति ।
आदेश-विधानादेव लिडपि तद्विषयोऽनुमीयते ।
उपसेदिवान्कौत्सः पाणिनिं ।
तेन मुक्ते यथाप्राप्तं प्रत्यया भवन्ति ।
उपासदथ् ।
उपासीदथ् ।
उपससाद ।
अनूषीवान्कौत्सः पाणिनिं ।
अन्ववात्सीथ् ।
अन्ववसथ् ।
अनूवास ।
उपशुश्रुवान्कौत्सः पाणिनिं ।
उपाश्रौषीथ् ।
उपाशृणोथ् ।
उपशुश्राव ।
लुङ्-लङ्-विषये परस्तादनुवृत्तेः क्वसुर्भवति । ।

____________________________________________________________________


[#२३५]

  1. <उपेयिवाननाश्वाननूचानश्च># । । PS_३,२.१०९ । ।



_____Sठाऱ्ठ्JKव्_३,२.१०९ः

उपेयिवाननाश्वाननूचान इत्येते शब्दा निपात्यन्ते ।
उपपूर्वादिणः क्वसुः, द्विर्वचनं अभ्यास-दीर्घत्वं तत्सामर्थ्यादेकादेश-प्रतिबन्धः, तत्र वस्वेक-अज्-आद्-धसां (*७,२.६७) इत्यनेकाच्त्वादिण्न प्राप्नोति, स निपात्यते, अभ्यासस्य श्रवणं धातुरूपस्य यणादेशः ।
उपेयिवान् ।
क्रादिनियमात्प्राप्तश्च वस्वेक-अज्-आद्-धसां (*७,२.६७) इति प्रतिषिद्धः, स पुनरिट्प्रतिप्रसूयते, तेन अजादौ न भवति ।
उपेयुषः ।
उपेयुषा ।
न च अत्र+उपसर्गास्तन्त्रम्, अन्योपसर्ग-पूर्वान्निरुपसर्गाच्च भवत्येव ।
समीयिवान् ।
ईयिवान् ।
वावचन-अनुवृत्तेश्च पूर्ववल्लुड्-आदयोऽपि भवन्ति ।
उपागाथ् ।
उपैथ् ।
उपेपाय ।
अश्नातेर्नञ्पूर्वात्क्वसुर्निपत्यते, इडभावश्च ।
अनाश्वान् ।
नाशीथ् ।
नश्नाथ् ।
नाश ।
वचेरनुपूर्वात्कर्तरि कानज्निपात्यते ।
अनूचानः ।
अन्ववोचथ् ।
अन्वब्रवीथ् ।
अनूवाच । ।


____________________________________________________________________

  1. <लुङ्># । । PS_३,२.११० । ।



_____Sठाऱ्ठ्JKव्_३,२.११०ः

भूते इत्येव ।
बूतेऽर्थे वर्तमानाद्धातोः लुङ्प्रत्ययो भवति ।
अकार्षीथ् ।
अहार्षीथ् ।
वसतेर्लुङ्रात्रि-विशेषे जागरणसन्ततौ वक्तव्यः ।
क्व भवानुषितः ।
अहमत्रावात्सं । ।


____________________________________________________________________


  1. <अनद्यतने लङ्># । । PS_३,२.१११ । ।



_____Sठाऱ्ठ्JKव्_३,२.१११ः

भूते इत्येव ।
अनद्यतने इति बहुव्रीहि-निर्देशः ।
अविद्यमानाद्यतने भूतेऽर्थे वर्तमानाद्धातोर्लङ्प्रत्ययो भवति ।
अकरोथ् ।
अहरथ् ।
बहुव्रीहि-निर्देशः किं अर्थः ? अद्य ह्यो वा अभुक्ष्महि इति व्यामिश्रे मा भूथ् ।
परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शन-विषये लङ्वक्तव्यः ।
अरुणद्यवनः साकेतं ।
अरुणद्यवनो माद्यमिकानिति । ।


____________________________________________________________________


  1. <अभिज्ञा-वचने लृट्># । । PS_३,२.११२ । ।


_____Sठाऱ्ठ्JKव्_३,२.११२ः

अभिज्ञा स्मृतिः ।
तद्वचने उपपदे भूतानद्यतने लृट्प्रत्ययो भवति ।
लङोऽपवादः अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः ।
वचन-ग्रहणं पर्याय-अर्थम्, अभिजानासि, स्मरसि, बुद्यसे, चेतयसे इति । ।


____________________________________________________________________


[#२३६]

  1. <न यदि># । । PS_३,२.११३ । ।



_____Sठाऱ्ठ्JKव्_३,२.११३ः

यच्-छब्द-सहिते अभिज्ञा-वचन उपपदे लृट्प्रत्ययो न भवति ।
पूर्वेण प्राप्तः प्रतिषिद्यते ।
अभिजानासि देवदत्त यत्कश्मीरेष्ववसाम ।
वासमात्रं स्मर्यते, न तु अपरं किंचिल्लक्ष्यते ।
तेन उत्तर-सूत्रस्य न अयं विषयः । ।


____________________________________________________________________


  1. <विभाषा साकाङ्क्षे># । । PS_३,२.११४ । ।



_____Sठाऱ्ठ्JKव्_३,२.११४ः

यदि इति न अनुवर्तते ।
उभयत्र विभाशेयं ।
अभिज्ञा-वचने उपपदे यच्-छब्द-सहिते केवले च विभाषा लृट्प्रत्ययो भवति, साकाङ्क्षश्चेत्प्रयोक्ता ।
लक्ष्य-लक्षणयोः सम्बन्धे प्रयोक्तुराकाङ्क्षा भवति ।
अभिजानसि देवदत्त कश्मीरेषु वत्स्यामस्तत्र उदनं भोक्ष्यामहे ।
अभिजानासि देवदत्त मगधेषु वत्स्यामः, तत्र उदनं भोक्ष्यामहे ।
यदि खल्वपि - अभिजानासि देवदत्त यत्कश्मीरेषु वत्स्यामः, यत्तत्र उदनं भोक्ष्यामहे ।
अभिजानसि देवदत्त यत्कश्मीरेष्ववसाम, यत्तत्र उदनं अभुञ्ज्महि ।
वासो लक्षणं, भोजनं लक्ष्यं । ।


____________________________________________________________________


  1. <परोक्षे लिट्># । । PS_३,२.११५ । ।



_____Sठाऱ्ठ्JKव्_३,२.११५ः

भूतानद्यतने इति वर्तते ।
तस्य विशेषणं परोक्ष-ग्रहणं ।
घूतानद्यतन-परोक्षेऽर्थे वर्तमनाद्धातः लिट्प्रत्ययो भवति ।
ननु धात्व्-अर्थः सर्वः परोक्ष एव ? सत्यं एतथ् ।
अस्ति तु लोके धात्व्-अर्थेन अपि कारकेषु प्रत्यक्षाभिमनः ।
स यत्र न अस्ति तत्परोक्षं इत्युच्यते ।
चकार ।
जहार ।
उत्तम-विषयेऽपि चित्तव्याक्षेपात्परोक्षता सम्भवत्येव ।
तद्यथा - सुप्तोऽहं किल विललाप ।
अत्यन्तापह्नवे च लिड्वक्तव्यः ।
कलिङ्गेषु स्थितोऽसि ? हानं कलिङ्गञ्जगाम ।
दक्षिणापथं प्रविष्टोऽसि ? नाहं दक्षिणापथं प्रविवेश । ।


____________________________________________________________________


  1. <ह-शश्वतोर्लङ्च># । । PS_३,२.११६ । ।



_____Sठाऱ्ठ्JKव्_३,२.११६ः

भूतानद्यतन-परोक्षेऽर्थे लिटि प्राप्ते हाश्वतोः उपपदयोः लङ्प्रत्ययो भवति, चकाराल्लिट्च ।
इति ह अकरोत्, इति ह चकार ।
शश्वदकरोत्, शश्वच्चकार । ।


____________________________________________________________________


[#२३७]

  1. <प्रश्ने च आसन्न-कले># । । PS_३,२.११७ । ।



_____Sठाऱ्ठ्JKव्_३,२.११७ः

भुतानद्यतन-परोक्षे इति वर्तते ।
तस्य विशेषणं एतथ् ।
प्रष्टव्यः प्रश्नः ।
आसनकाले पृच्छ्यमने भूतानद्यतन-परोक्षेऽर्थे वर्तमानाद्धातोः लङ्-लिटौ प्रत्ययौ भवतः ।
कश्चित्कञ्चत्पृच्छति ।
अगच्छद्देवदत्तः ? जगाम देवदत्तः ? अयजद्देवदत्तः ? इयाज देवदत्तः ? प्रश्ने इति किं ? जगाम देवदत्तः ।
आसनकाले इति किं ? भवन्तं पृच्छामि, जघान कंसं किल वासुदेवः ? । ।


____________________________________________________________________


  1. <लट्स्मे># । । PS_३,२.११८ । ।



_____Sठाऱ्ठ्JKव्_३,२.११८ः

भूतानद्यतन-परोक्षे इति वर्तते ।
स्म-शब्दे उपपदे भूतानद्यतन-परोक्षे लट्प्रत्ययो भवति ।
लिटोऽपवादः ।
नडेन स्म पुराधीयते ।
ऊर्णया स्म पुराधीयते । ।


____________________________________________________________________


  1. <अपरोक्षे च># । । PS_३,२.११९ । ।



_____Sठाऱ्ठ्JKव्_३,२.११९ः

अपरोक्षे च भूतानद्यतनेऽर्थे वर्तमानाद्धातोः स्मे उपपदे लट्प्रत्ययओ भवति ।
एवं स्म पिता ब्रवीति ।
इति स्म-उपाद्यायः कथयति । ।


____________________________________________________________________


  1. <ननौ पृष्ट-प्रति-वचने># । । PS_३,२.१२० । ।



_____Sठाऱ्ठ्JKव्_३,२.१२०ः

अनद्यतने परोक्षे इति निवृत्तं ।
भूतसामान्ये विधिरयं ।
ननु-शब्दे उपपदे प्रश्न-पूर्वके प्रतिवचने भूतेऽर्थे लट्प्रययो भवति ।
लुङोऽपवादः ।
अकार्षीः कटं देवदत्त ? ननु करोमि भोः ।
अवोचस्तत्र किंचिद्देवदत्त ? ननु ब्रवीमि भोः ।
पृष्ट-प्रतिवचने इति किं ? ननु अकार्षीत्माणवकः । ।


____________________________________________________________________


  1. <न-न्वोर्विभाषा># । । PS_३,२.१२१ । ।



_____Sठाऱ्ठ्JKव्_३,२.१२१ः

भूते इत्येव ।
न-शब्दे नु-शब्दे च उपपदे पृष्ट-प्रतिवचने विभषा लट्प्रत्ययो भवति भूते ।
अकार्षीः कटं देवदत्त ? न क्रोमि भोः, नाकार्षं ।
अहं नु करोमि, अहं नु अकार्षं । ।


____________________________________________________________________


  1. <पुरि लुङ्च अस्मे># । । PS_३,२.१२२ । ।



_____Sठाऱ्ठ्JKव्_३,२.१२२ः

अनद्यतन-ग्रहणं इह मण्डूक-प्लुत्याऽनुवर्तते ।
पुरा-शब्दे उपपदे स्म-शब्द-वर्जिते भूतानद्यतनेऽर्थे विभाषा लुङ्प्रत्ययो भवति, लट्च ।
ताभ्यां मुक्ते पक्षे यथा-विषयमन्येऽपि प्रत्यया भवन्ति ।
वसन्ति इह पुरा छात्राः, अवात्सुरिह पुरा छात्राः, अवसन्निह पुरा छात्राः, ऊषुरिह पुरा छात्राः ।
अस्मे इति किं ? नडेन सं पुरा अधीयते । ।


____________________________________________________________________


[#२३८]

  1. <वर्तमाने लट्># । । PS_३,२.१२३ । ।



_____Sठाऱ्ठ्JKव्_३,२.१२३ः

आरब्धोऽपरिसमाप्तश्च वर्तमानः ।
तस्मिन्वर्तमानेऽर्थे वर्तमनाद्धातोः लट्प्रत्ययो भवति ।
पचति ।
पठति । ।


____________________________________________________________________

  1. <लटः शतृ-शानचावप्रथमा-समानाधिकरणे># । । PS_३,२.१२४ । ।



_____Sठाऱ्ठ्JKव्_३,२.१२४ः

लटः शतृशानचौ इत्येतावादेशौ भवतः, अप्रथमान्तेन चेत्तस्य सामानाधिकरण्यं भवति ।
पचन्तं देवदत्तं पश्य ।
पचमानं देवदत्तं पश्य ।
पचता कृतं ।
पचमनेन कृतं ।
अप्रथमा-समानाधिकरणे इति किं ? देवदत्तः पचति ।
लटिति वर्तमने पुनर्लङ्-ग्रहणं अधिकविधान-अर्थं ।
क्वचित्प्रथमा-समानाधिकरणेऽपि भवति ।
सन्ब्राह्मणः ।
अस्ति ब्राह्मणः ।
विद्यमानः ब्राह्मणः ।
विद्यते ब्राह्मणः ।
जुह्वथ् ।
जुहोति ।
अधीयानः ।
अधीते । ।
माङ्याक्रोशे ।
मा पचन् ।
मा पचमानः ।
केचिद्विभाषा-ग्रहणं अनुवर्तयन्ति न-न्वोर्विभाषा (*३,२.१२१) इति ।
सा च व्यवस्थिता ।
तत्र यथा-दर्शनं प्रयोगा नेतव्याः । ।


____________________________________________________________________


  1. <सम्बोधने च># । । PS_३,२.१२५ । ।



_____Sठाऱ्ठ्JKव्_३,२.१२५ः

प्रथमा-समनाधिकरण-अर्थ आरम्भः ।
सम्भोधने च विषये लटः शतृशानचौ प्रत्ययौ भवतः ।
हे पचन् ।
हे पचमान । ।


____________________________________________________________________


  1. <लक्षण-हेत्वोः क्रियायाः># । । PS_३,२.१२६ । ।



_____Sठाऱ्ठ्JKव्_३,२.१२६ः

लक्ष्यते चिह्न्यते तल्लक्षणं ।
जनको हेतुः ।
धात्व्-अर्थ-विशेषणं चैतथ् ।
लक्षणे हेतौ च अर्थे वर्तमनाद धातोः परस्य लटः शतृशानचौ आदेशौ भवतः, तौ चेल्लक्षण-हेतू क्रिया-विषयौ भवतः ।
लक्षणे - शयाना भुञ्जते यवनाः ।
तिष्ठन्तोऽनुशासति गणकाः ।
हेतौ - अर्जयन्वसति ।
अधीयानो वसति ।
लषणहेत्वोः इति किं ? पचति, पठति ।
क्रियायाः इति किं ? द्रव्य-गुणयोर्मा भूथ् ।
यः कम्पते सोऽश्वत्थः ।
यदुत्प्लवते तल्लघु ।
यन्निषीदति तद्गुरु ।
लक्षण-हेत्वोः इति निर्देशः पूर्व-निपात-व्यभिचार-लिङ्गं । ।


____________________________________________________________________


[#२३९]

  1. <तौ सत्># । । PS_३,२.१२७ । ।



_____Sठाऱ्ठ्JKव्_३,२.१२७ः

तौ शतृशानचौ सत्सञ्ज्ञौ भवतः ।
तौ-ग्रहणं उपाद्यसंसर्ग-अर्थं ।
शतृशानज्-मात्रस्य सञ्ज्ञा भवति ।
ब्राह्मणस्य कुर्वन् ।
ब्राह्मणस्य कुर्वाणः ।
ब्राह्मणस्य करिष्यन् ।
ब्राह्मणस्य करिष्यमाणः ।
सत्प्रदेशाः - पूरण-गुण-सुहितार्थ-सद्. अव्यय-तव्य-समानाधिकरणेन (*२,२.११) इत्येवं आदयः । ।


____________________________________________________________________


  1. <पूङ्यजोः शानन्># । । PS_३,२.१२८ । ।



_____Sठाऱ्ठ्JKव्_३,२.१२८ः

पूङो यजेश्च धातोः शानन्प्रत्ययो भवति ।
पवमानः ।
यजमानः ।
यदि प्रत्ययाः शानन्नादयः न ल-आदेशाः, कथं सोमं पवमानः, नडमाघ्नानः इति षष्ठी-प्रतिषेधः ? तृनिति प्रत्याहार-निर्देशाथ् ।
क्व संनिविष्टानां प्रत्याहारः ? लटः शतृ-शानचावप्रथमा-समानाधिकरणे (*३,२.१२४) इत्यतः प्रभृति आ तृनो नकाराथ् ।
द्विषः शतुर्वा वचनं ।
चौरस्य द्विषन्, चौरं द्विषन् । ।


____________________________________________________________________


  1. <ताच्छीय-वयोवचन-शक्तिषु चानश्># । । PS_३,२.१२९ । ।



_____Sठाऱ्ठ्JKव्_३,२.१२९ः
ताच्छील्यं तत्स्वभावता ।
वयः शरीरावस्था यौवनादिः ।
शक्तिः सामर्थ्यं ।
ताच्छील्यादिषु धातोः चानश्प्रत्ययो भवति ।
ताच्छील्ये तावत्- कतीह मुण्डयमानाः ।
कतीह भूषयमाणाः ।
वयोवचने - कतीह कवचं पर्यस्यमानाः ।
कतीह शिखण्डं वहमानाः ।
शक्तौ - कतीह निघ्नानाः ।
कतीह पचमानः । ।


____________________________________________________________________


  1. <इङ्-धार्योः शत्र-कृच्छ्रिणि># । । PS_३,२.१३० । ।



_____Sठाऱ्ठ्JKव्_३,२.१३०ः

इङो धारेश्च धात्वोः शतृप्रत्ययो भवति अकृच्छ्रिणि कर्तरि ।
अकृच्छ्रः सुखसाद्यो यसय्कर्तुर्धात्व्-अर्थः सोऽकृच्छ्री ।
अधीयन्पारायणं ।
धारयन्न्-उपनिषदं ।
अकृच्छ्रिणि इति किं ? कृच्छ्रेण अधीते ।
कृच्छ्रेण धरयति । ।


____________________________________________________________________


  1. <द्विषोऽमित्रे># । । PS_३,२.१३१ । ।



_____Sठाऱ्ठ्JKव्_३,२.१३१ः

अमित्रः शत्रुः ।
अमित्रे कर्तरि द्विषेर्धातोः शतृ-प्रत्ययो भवति ।
द्विषन्, द्विषन्तौ, द्विषन्तः ।
अमित्रे इति किं ? द्वेष्टि भार्या पतिं । ।


____________________________________________________________________


[#२४०]

  1. <सुञो यज्ञसंयोगे># । । PS_३,२.१३२ । ।



_____Sठाऱ्ठ्JKव्_३,२.१३२ः

यज्ञेन संयोगः यज्ञसंयोगः ।
यज्ञसंयुक्तेऽभिषवे वर्तमानात्सुनोतेर्धातोः शतृ-प्रत्ययो भवति ।
सर्वे सुन्वन्तः ।
सर्वे यजमानाः सत्रिण उच्यन्ते ।
संयोग-ग्रहणं प्रधान-कर्तृ-प्रतिपत्त्य्-अर्थं ।
याजकेसु मा भूथ् ।
यज्ञसंयोगे इति किं ? सुनोति सुरां । ।


____________________________________________________________________


  1. <अर्हः प्रशंसायाम्># । । PS_३,२.१३३ । ।



_____Sठाऱ्ठ्JKव्_३,२.१३३ः

प्रशंसा स्तुतिः ।
अर्हतेर्धातोः प्रशंसायां शतृ-प्रत्ययो भवति ।
अर्हन्निह भवान्विद्यां ।
अर्हन्निह भवान्पूजां ।
प्रशंसायां इति किं ? अर्हति चौरो वधं । ।


____________________________________________________________________

  1. <आ क्वेः तच्छील-तद्धर्म-तत्साधुकारिषु># । । PS_३,२.१३४ । ।



_____Sठाऱ्ठ्JKव्_३,२.१३४ः

भ्राज-भास-धुर्वि-द्युत-ऊर्जि-प्é-जु-ग्रावस्तुवः क्विप्(*३,२.१७७) इति क्विपं वक्ष्यति ।
आ एतस्मात्क्विप्सं-शब्दाद्यानित ऊर्ध्वम्-अनुक्रमिष्यामस्तच्छीलादिषु कर्तृषु ते वेदितव्याः ।
अभिविधौ च अयं आङ् ।
तेन क्विपोऽप्ययं अर्थ-निर्देशः ।
तदिति धात्व्-अर्थः शीलादि विशेषणत्वेन निर्दिश्यते ।
तच्छीलो यः स्वभावतः फल-निरपेक्षस्तत्र प्रवर्तते ।
तद्धर्मा तदाचारः, यः स्वधर्मे ममायमिति प्रवर्तते विनापि शीलेन ।
तत्साधुकरी यो धात्व्-अर्थं साधु करोति ।
उत्तरत्रैव+उदाहरिष्यामः । ।


____________________________________________________________________


  1. <तृन्># । । PS_३,२.१३५ । ।



_____Sठाऱ्ठ्JKव्_३,२.१३५ः

सर्वधातुभ्यः तृन्-प्रत्ययो भवति तच्छीलादिषु कर्तृषु ।
नकारः स्वर-अर्थः ।
तच्छीले तावत्- कर्ता कटान् ।
वदिता जनापवादान् ।
तद्धर्मणि - मुण्डयितारः श्राविष्ठायनाः भवन्ति वधूमूढां ।
अन्नमपहर्तारः आह्वरकाः भवन्ति श्राद्धे सिद्धे ।
उन्नेतारः तौल्वलायनाः भवन्ति पुत्रे जाते ।
तत्साधुकारिणि - कर्ताकटं ।
गन्ता खेटं ।
तृन्विधावृत्विक्षु च अनुपसर्गस्य ।
होता ।
पोता ।
अनुपसर्गस्य इति किं ? उद्गाता ।
प्रतिहर्ता ।
तृजेव भवति ।
स्वरे विशेषः ।
नयतेः षुक्च ।
नेष्टा ।

[#२४१]

त्विषेर्देवतायां अकारश्च+उपधाया अनिट्त्वं च ।
त्वष्टा ।
क्षदेश्च नियुक्ते ।
क्षत्ता ।
क्वचिदधिकृत उच्यते ।
छन्दसि तृच्च ।
क्षतृभ्यः सङ्ग्रहीतृभ्यः ।
स्वरे विशेषः । ।


____________________________________________________________________


  1. <अलङ्-कृञ्-निराकृञ्-प्रजन-उत्पच-उत्पत-उन्मद-रुच्य्-अपत्रप-वृतु-वृधु-सह-चर इष्णुच्># । । PS_३,२.१३६ । ।



_____Sठाऱ्ठ्JKव्_३,२.१३६ः

अलङ्-कृञ्-आदिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु इष्णुच्प्रत्ययो भवति ।
अलङ्करिष्णुः ।
निराकरिष्णुः ।
प्रजनिष्णुः ।
उत्पचिष्णुः ।
उत्पतिष्णुः ।
उन्मदिष्णुः ।
रोचिष्णुः ।
अपत्रपिष्णुः ।
वर्तिष्णुः ।
वर्धिष्णुः ।
सहिष्णुः ।
चरिष्णुः ।
अलङकृञो मण्डनार्थाद्युचः पूर्वविप्रतिषेधेनेष्णुज्वक्तव्यः ।


____________________________________________________________________


  1. <णेश्छन्दसि># । । PS_३,२.१३७ । ।



_____Sठाऱ्ठ्JKव्_३,२.१३७ः

ण्यन्ताद्धातोः छन्दसि विषये तच्छीलादिषु कर्तृषु इष्णुच्प्रत्ययो भवति ।
दृषदं धारयिष्णवः ।
वीरुधः पारयिष्णवः । ।


____________________________________________________________________


  1. <भुवश्च># । । PS_३,२.१३८ । ।



_____Sठाऱ्ठ्JKव्_३,२.१३८ः

भवतेर्धतोः छन्दसि विषये तच्छीलादिषु इष्णुच्प्रत्ययो भवति ।
भविष्णुः ।
योग-विभागः उत्तर-अर्थः ।
चकारोऽनुक्त-समुच्चय-अर्थः ।
भ्राजिष्णुना लोहित-चन्दनेन । ।


____________________________________________________________________


  1. <ग्ला-जि-स्थश्च क्ष्नुः># । । PS_३,२.१३९ । ।



_____Sठाऱ्ठ्JKव्_३,२.१३९ः

छन्दसि इति निवृत्तं ।
ग्ला जि स्था इत्येतेभ्यो धातुभ्यः, चकारात्भुवश्च तच्छीलादिषु क्ष्नुः प्रत्ययो भवति ।
ग्लास्नुः ।
जिष्णुः ।
स्थास्नुः ।
भूष्णुः ।
गिच्चायं प्रत्ययो न किथ् ।
तेन स्थः ईकारो न भवति ।
क्ङिति च (*१,१.५) इत्यत्र गकारोऽपि चर्त्वभूतो निर्दिश्यते, तेन गुणो न भवति ।
श्र्युकः किति (*७,२.११) इत्यत्र अपि गकरो निर्दिश्यते, तेन भुव इड्न भवति ।

[#२४२]

क्ष्तोर्गित्त्वान्न स्थ ईकारः कङितोरीत्वशासनाथ् ।
गुणाभावस्त्रिषु स्मार्यः श्र्युकोऽनिट्त्वं गकोरितोः । ।
दंशेश्छन्दस्युपसङ्ख्यानं ।
दंक्ष्णवः पशवः ।


____________________________________________________________________


  1. <त्रसि-गृधि-धृषि-क्षिपेः क्नुः># । । PS_३,२.१४० । ।



_____Sठाऱ्ठ्JKव्_३,२.१४०ः

त्रस्-आदिभ्यो धतुभ्यः तच्छीलादिषु क्नुः प्रत्ययो भवति ।
त्रस्नुः ।
गृध्नुः ।
धृष्णुः ।
क्षिप्नुः । ।


____________________________________________________________________

  1. <शम्-इत्यष्टाभ्यो घिनुण्># । । PS_३,२.१४१ । ।



_____Sठाऱ्ठ्JKव्_३,२.१४१ः

इति शब्दः आद्य्-अर्थः ।
शमादिभ्यो धातुभ्योऽष्टाभ्यः तच्छीलादिषु कर्तृषु घिनुण्प्रत्ययो भवति ।
शम उपशमे इत्यतः प्रभृति मदी हर्षे इत्येवं अन्तः शमादिर्दिवाद्यन्तर्गणः ।
घकार उत्तरत्र कुत्व-अर्थः ।
उकार उच्चारण-अर्थः ।
णकारो वृद्ध्य्-अर्थः ।
शमी ।
तमी ।
दमी ।
श्रमी ।
भ्रमी ।
क्लमी ।
प्रमादी ।
उन्मादी ।
अष्टाभ्यः इति किं ? असिता । ।


____________________________________________________________________


  1. <संपृच-अनुरुध-आङ्यम-आङ्यस-परिसृ-संसृज-परिदेवि-संज्वर-परिक्षिप-परिरट-परिवद-परिदह-परिमुह-दुष-द्विष-द्रुह-दुह-युज-आक्रीड-विविच-त्यज-रज-भज-अतिचर-अपचर-आमुष-अभ्याहनश्च># । । PS_३,२.१४२ । ।



_____Sठाऱ्ठ्JKव्_३,२.१४२ः

घिनुणनुवर्तते ।
संपृचादिभ्यो धातुभ्यो घिनुण्भवति तच्छीलादिषु ।
पृची सम्पर्के इति रुधादिर्गृह्यते नत्वदादिर्लुग्-विकरणत्वाथ् ।
परिदेविर्भ्वादिर्गृह्यते देवृ देवने इति ।
क्षिप प्रेरणे दिवादिस्तुदादिश्च सामानेन गृह्यते ।
युज समाधौ दिवादिः, युजिर्योगे रुधादिः द्वयोरपि ग्रहणं ।
रञ्ज रागे इत्यस्य निपातनादनुनासिक-लोपः ।
संपर्की ।
अनुरोधी ।
आयामी ।
आयासी ।
परिसारी ।
संसर्गी ।
परिदेवी ।
संज्वारी ।
परिक्षेपी ।
परिराटी ।
परिवादी ।
परिदाही ।
परिमोही ।
दोषी ।
द्वेषी ।
द्रोही ।
दोही ।
योगी ।
आक्रीडी ।
विवेकी ।
त्यागी ।
रागी ।
भागी ।
अतिचारी ।
अपचारी ।
आमोषी ।
अभ्याघाती । ।


____________________________________________________________________


  1. <वौ कष-लस-कत्थ-स्रम्भः># । । PS_३,२.१४३ । ।



_____Sठाऱ्ठ्JKव्_३,२.१४३ः

कष हिंस-अर्थः, लस श्लेषण-क्रीडनयोः, कत्थ श्लाघायाम्, स्रम्भु विश्वासे, एतेभ्यो धातुभ्यो वि-शब्दे उपपदे घिनुण्प्रत्ययो भवति ।
विकाषी ।
विलासी ।
विकत्थी ।
विस्रम्भी । ।


____________________________________________________________________


[#२४३]

  1. <अपे च लषः># । । PS_३,२.१४४ । ।



_____Sठाऱ्ठ्JKव्_३,२.१४४ः

लष कान्तौ, अस्माद्धातोः अप उपपदे, चकाराद्वौ च घिनुण्भवति ।
अपलाषी ।
विलाषी । ।


____________________________________________________________________


  1. <प्रे लप-सृ-द्रु-मथ-वद-वसः># । । PS_३,२.१४५ । ।



_____Sठाऱ्ठ्JKव्_३,२.१४५ः

प्रे उपपदे लपादिभ्यः घिनुण्भवति ।
प्र-लपी ।
प्रसारी ।
प्रद्रावी ।
प्रमाथी ।
प्रवादी ।
प्रवासी ।
वसः इति वस निवासे इत्यस्य ग्रहणं नाच्छादन-अर्थस्य, लुग्विकरणत्वात् । ।


____________________________________________________________________


  1. <निन्द-हिंस-क्लिश-खाद-विनाश-परिक्षिप-परिरट-परिवादि-व्याभाष-असूयो वुञ्># । । PS_३,२.१४६ । ।



_____Sठाऱ्ठ्JKव्_३,२.१४६ः

निन्द-आदिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु वुञ्प्रतयो भवति ।
पञ्चम्य्-अर्थे प्रथमा ।
क्लिश उपतापे, क्लिशू विबाधने ।
द्वयोरपि ग्रहणं ।
निन्दकः ।
हिंसकः ।
क्लेशकः ।
खादकः ।
विनाशकः ।
परिक्षेपकः ।
परिराटकः ।
परिवादकः ।
व्याभाषकः ।
असूयकः ।
ण्वुलैव सिद्ध वुञ्-विधानं ज्ञापन-अर्थं, ताच्छीलिकेषु वाऽसरूपन्यायेन तृजादयो न भवन्ति इति । ।


____________________________________________________________________


  1. <देवि-क्रशोश्च+उपसर्गे># । । PS_३,२.१४७ । ।



_____Sठाऱ्ठ्JKव्_३,२.१४७ः

देवयतेः क्रुशेश्च उपसर्गे उपपदे वुञ्पत्ययो भवति ।
आदेवकः ।
परिदेवकः ।
आक्रोशकः ।
परिक्रोशकः ।
उपसर्गे इति किं ? देवयिता ।
क्रोष्टा । ।


____________________________________________________________________


  1. <चलन-शब्दार्थादकर्मकाद्युच्># । । PS_३,२.१४८ । ।



_____Sठाऱ्ठ्JKव्_३,२.१४८ः

चलन-अर्थेभ्यः शब्द-अर्थेभ्यश्च अकर्मकेभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु युच्प्रत्ययो भवति ।
चलनः ।
चोपनः ।
शब्द-अर्थभ्यः - शब्दनः ।
रवणः ।
अकर्मकातिति किं ? पठिता विद्यां । ।


____________________________________________________________________


  1. <अनुदात्त-इतश्च हलादेः># । । PS_३,२.१४९ । ।



_____Sठाऱ्ठ्JKव्_३,२.१४९ः

अनुदात्तेद्यो धतुः हलादिरकर्मकः, ततश्च युच्प्रत्ययो भवति ।
वर्तनः ।
वर्धनः ।
अनुदात्तेतः इति किं ? भविता ।
हलदेः इति किं ? एधिता ।
आदि-ग्रहनं किं ? जुगुप्सनः ।
मीमांसनः ।
अकर्मकातित्येव, वसिता वस्त्रं । ।


____________________________________________________________________


[#२४४]

  1. <जु-चङ्क्रम्य-दन्द्रम्य-सृ-गृधि-ज्वल-शुच-लष-पत-पदः># । । PS_३,२.१५० । ।



_____Sठाऱ्ठ्JKव्_३,२.१५०ः

जु-प्रघृतिभ्यो धतुभ्यो युच्प्रत्ययो भवति तच्छीलादिषु कर्तृषु ।
जु इति सौत्रो धतुः ।
जवनः ।
चङ्क्रमणः ।
दन्द्रमणः ।
सरणः ।
गर्धनः ।
ज्वलनः ।
शोचनः ।
लषणः ।
पतनः ।
पदनः ।
चलनार्थानां पदेश्च ग्रहणं सकर्मक-अर्थं इह ।
ज्ञापन-अर्थं च पदि-ग्रहणं अन्ये वर्णयन्ति, ताच्छीलिकेषु मिथो वा+असरूप-विधिर्न अस्ति इति ।
तेन अलङ्कृञः तृन्न भवति अलङ्कर्ता इति ।
तथा हि पदेरुकञा विशेष-विहितेन सामान्य-विहितस्य युचोऽसरूपत्वात्समावेशो भवेदेव, किं अनेन विधानेन ? ज्ञापन-अर्थं पुनर्विधीयते ।
प्रायिकं च+एतद्ज्ञापकं ।
क्वचित्समावेश इष्यत एव, गन्ता खेटं विकत्थनः । ।


____________________________________________________________________


  1. <क्रुध-मण्ड-अर्थेभ्यश्च># । । PS_३,२.१५१ । ।



_____Sठाऱ्ठ्JKव्_३,२.१५१ः

क्रुधकोपे, मडि भूषायां इत्येतदर्थेभ्यः च धतुभ्यो युच्प्रत्ययो भवति ।
क्रोधनः ।
रोषणः ।
मण्डनः ।
भूषणः । ।


____________________________________________________________________


  1. <न यः># । । PS_३,२.१५२ । ।



_____Sठाऱ्ठ्JKव्_३,२.१५२ः

यकारान्तात्धतोः युच्प्रत्ययो न भवति ।
पूर्वेण प्राप्तः प्रतिषिध्यते ।
क्नूयिता ।
क्ष्मायिता । ।


____________________________________________________________________


  1. <सूद-दीप-दीक्षश्च># । । PS_३,२.१५३ । ।



_____Sठाऱ्ठ्JKव्_३,२.१५३ः

सूद दीप दीक्ष इत्येतेभ्यश्च युच्प्रत्ययो न भवति ।
अनुदात्तेत्त्वात्प्राप्तः प्रतिषिध्यते ।
सूदिता ।
दीपिता ।
दीक्षिता ।
ननु च दीपेर्विशेष-विहितो र-प्रत्ययः दृश्यते, नमि-कम्पि-स्म्य्-अजस-कम-हिंस-दीपो रः (*३,२.१६७) इति, स एव वाधको भविष्यति, किं प्रतिषेधेन ? वाऽसरूपेण युजपि प्राप्नोति ।
ताच्छीलिकेषु च वा+असरूप-विधिर्न अस्ति इति प्रायिकं एतदित्युक्तं ।
तथा च समावेशो दृश्यते, कम्रा युवतिः, कमना युवतिः, इति योग-विभागाद्विज्ञायते ।
अथवा मधुसूदनादयो नन्द्यादिषु द्रक्ष्यन्ते ।
कृत्य-ल्युङो बहुलं (*३,३.११३) इति ल्युडन्ता वा । ।


____________________________________________________________________


[#२४५]

  1. <लष-पत-पद-स्था-भू-वृष-हन-कम-गम-श्éभ्य उकञ्># । । PS_३,२.१५४ । ।



_____Sठाऱ्ठ्JKव्_३,२.१५४ः

लष-आदिभ्यो धातुभः तच्छीलादिषु कर्तृषु उकञ्प्रत्ययो भवति ।
उपलाषुकं वृषलसङ्गतं ।
प्रपातुका गर्भा भवन्ति ।
उपपादुकं सत्त्वं ।
उपस्थायुका एनं पशवो भवन्ति ।
प्रभावुकमन्नं भवति ।
प्रवर्षुकाः पर्जन्याः ।
आघातुकं पाकलिकस्य मूत्रं ।
कामुका एनं स्त्रियो भवन्ति ।
आगामुकं वारान्सीं रक्ष आहुः ।
किंशारुकं तीक्ष्णमाहुः । ।


____________________________________________________________________


  1. <जल्प-भिक्ष-कुट्ट-लुण्ट-वृङः षाकन्># । । PS_३,२.१५५ । ।



_____Sठाऱ्ठ्JKव्_३,२.१५५ः

जल्प-आदिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु षाकन्प्रत्ययो भवति ।
षकारो ङीषर्थः ।
जल्पाकः ।
भिक्षाकः ।
कुट्टाकः ।
लुण्टाकः ।
वराकः ।
वराकी । ।


____________________________________________________________________


  1. <प्रजोरिनिः># । । PS_३,२.१५६ । ।



_____Sठाऱ्ठ्JKव्_३,२.१५६ः

प्र-पूर्वाज्जवतेः तच्छीलादिषु कर्तृषु इनिः प्रत्ययो भवति ।
प्रजवी, प्रजविनौ । ।


____________________________________________________________________


  1. <जि-दृ-क्षि-विश्रि-इण्-वम-अव्यथ-अभ्यम-परिभू-प्रसूभ्यश्च># । । PS_३,२.१५७ । ।



_____Sठाऱ्ठ्JKव्_३,२.१५७ः

जि जये ।
दृङादरे ।
क्षि क्षये, क्षि निवासगत्योः इति द्वयोरपि ग्रहणं ।
प्रसू इति षू प्रेरणे इत्यसय्ग्रहणं ।
जिप्रभृतिभ्यो धातुभ्यः इनिः प्रत्ययो भवति तच्छीलादिषु कर्तृषु ।
जयी ।
दरी ।
क्षयी ।
विश्रयी ।
अत्ययी ।
वमी ।
अव्यथी ।
अभ्यमी ।
परिभवी ।
प्रसवी । ।


____________________________________________________________________


  1. <स्पृहि-गृहि-पति-दयि-निद्रा-दन्द्रा-श्रद्धाभ्य आलुच्># । । PS_३,२.१५८ । ।



_____Sठाऱ्ठ्JKव्_३,२.१५८ः

स्पृह ईप्सायाम्, ग्रह ग्रहने, पत गतौ, चुरादौ अदन्ताः पठ्यन्ते ।
दय दानगतिरक्षणेषु ।
द्रा कुत्सायां गतौ, निपूर्वस्तत्पूर्वश्च, तदो नकारान्तता च निपात्यते ।
डुधाञ्श्रत्पूर्वः ।
एतेभ्यस्तच्छीलादिषु कर्तृषु आलुच्प्रत्ययो भवति ।
स्पृहयालुः ।
गृहयालुः ।
पतयालुः ।
दयालुः ।
निद्रालुः ।
तन्द्रालुः ।
श्रद्धालुः ।
आलुचि शीङो ग्रहणं कर्तव्यं ।
शयालुः । ।


____________________________________________________________________


[#२४६]

  1. <दा-धेट्-सि-शद-सदो रुः># । । PS_३,२.१५९ । ।



_____Sठाऱ्ठ्JKव्_३,२.१५९ः
दा धेट्सि शद सद इत्येतेभ्यः रुः प्रत्ययो भवति ।
दरुः ।
धारुर्वत्सो मातरं न ल-उक-अव्यय-निष्ठा-खलर्थ-तृनां (*२,३.६९) इति उकारप्रश्लेषात्षष्ठी न भवति ।
सेरुः ।
शद्रुः ।
सद्रुः । ।


____________________________________________________________________


  1. <सृ-घस्य्-अदः क्मरच्># । । PS_३,२.१६० । ।



_____Sठाऱ्ठ्JKव्_३,२.१६०ः

सृ घसि अद इत्येतेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु क्मरच्प्रत्ययो भवति ।
सृमरः ।
घस्मरः ।
अद्मरः । ।


____________________________________________________________________


  1. <भञ्ज-भास-मिदो घुरच्># । । PS_३,२.१६१ । ।



_____Sठाऱ्ठ्JKव्_३,२.१६१ः

भञ्ज भास मिद इत्येतेभ्यो घुरच्प्रत्ययो भवति तच्छीलादिषु कर्तृषु भङ्गुरं काष्ठं ।
घित्वात कुत्वं ।
भासुरं ज्योतिः ।
मेदुरः पशुः ।
भञ्जेः कर्मकर्तरि प्रत्ययः स्वभावात् । ।


____________________________________________________________________

  1. <विदि-भिदि-च्छिदेः कुरच्># । । PS_३,२.१६२ । ।



_____Sठाऱ्ठ्JKव्_३,२.१६२ः

ज्ञान-अर्थस्य विदेः ग्रहणं न लाभाद्य्-अर्थस्य, स्वभावाथ् ।
विदादिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु कुरच्प्रत्ययो भवति ।
विदुरः पण्डितः ।
भिदुरं काष्ठं ।
छिदुरा रज्जुः ।
भिदिच्छिद्योः कर्मकर्तरि प्रयोगः ।
व्यधेः सम्प्रसारणं कुरच्च वक्तव्यः ।
विधुरः । ।


____________________________________________________________________


  1. <इण्-नश्-जि-सर्तिभ्यः क्वरप्># । । PS_३,२.१६३ । ।



_____Sठाऱ्ठ्JKव्_३,२.१६३ः

इण्नश्जि सर्ति इत्येतेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु क्वरप्प्रत्ययो भवति ।
पकारस्तुग्-अर्थः इत्वरः ।
इत्वरी ।
नश्वरः ।
नश्वरी ।
जित्वरः ।
जित्वरी ।
सृट्वरः ।
सृत्वरी ।
नेड्वशि कृति (*७,२.८) इति इट्प्रतिषेधः । ।


____________________________________________________________________

[#२४७]

  1. <गत्वरश्च># । । PS_३,२.१६४ । ।



_____Sठाऱ्ठ्JKव्_३,२.१६४ः

गत्वरः इति निपात्यते ।
गमेरनुनासिकलोपः क्वरप्प्रत्ययश्च ।
गत्वरः ।
गत्वरी । ।


____________________________________________________________________


  1. <जागुरूकः># । । PS_३,२.१६५ । ।



_____Sठाऱ्ठ्JKव्_३,२.१६५ः

जागर्तेः ऊकः प्रत्ययो भवति तच्छीलादिषु कर्तृषु ।
जागरूकः । ।


____________________________________________________________________


  1. <यज-जप-दशां यङः># । । PS_३,२.१६६ । ।



_____Sठाऱ्ठ्JKव्_३,२.१६६ः

यजादीनां यङन्तानां ऊकः प्रत्ययो भवति तच्छीलादिषु कर्तृषु ।
यायजूकः ।
जञ्जपूकः ।
दन्दशूकः । ।

____________________________________________________________________


  1. <नमि-कम्पि-स्म्य्-अजस-कम-हिंस-दीपो रः># । । PS_३,२.१६७ । ।



_____Sठाऱ्ठ्JKव्_३,२.१६७ः

नम्यादिभ्यः धातुभ्यः तच्छीलादिषु कर्तृषु रः प्रत्ययो भवति ।
नम्रं काष्ठं ।
कम्प्रा शाखा ।
स्मेरं मुखं ।
अजस्रं जुहोति ।
हिंस्रं रक्षः ।
दीप्रं काष्ठं ।
अजस्रं इति जसु मोक्षणे नञ्पूर्वो रप्रत्ययान्तः क्रयासातत्ये वर्तते । ।


____________________________________________________________________


  1. <सन्-आशंस-भिक्ष उः># । । PS_३,२.१६८ । ।



_____Sठाऱ्ठ्JKव्_३,२.१६८ः

सनिति सन्प्रत्ययान्तो गृह्यते न सनिर्धातुः, अनभिधानात्व्याप्तिन्यायाद्वा ।
सन्नन्तेभ्यो धातुभ्यः आशंसेर्भिक्षेश्च तच्छीलादिषु कर्तृषु उः प्रत्ययो भवति ।
चिकीर्षुः ।
जिहीर्षुः ।
आशंसुः ।
भिक्षुः ।
आङः शसि इच्छायां इत्यस्य ग्रहणं, न शंषेः स्तुत्य्-अर्थस्य । ।


____________________________________________________________________


  1. <विन्दुरिच्छुः># । । PS_३,२.१६९ । ।



_____Sठाऱ्ठ्JKव्_३,२.१६९ः

विदेर्नुम्-आगमः, इषेः छत्वं उकारश्च प्रत्ययो निपात्यते तच्छीलादिषु कर्तृषु ।
वेदनशीलो विन्दुः ।
एषणशील इच्छुः । ।


____________________________________________________________________


  1. <क्याच्छन्दसि># । । PS_३,२.१७० । ।



_____Sठाऱ्ठ्JKव्_३,२.१७०ः

क्य इति क्यच्-क्यङ्-क्यषां सामान्येन ग्रहणं ।
क्य-प्रत्ययान्ताद्धातोः छन्दसि विषये तच्छीलादिषु कर्तृषु उकार-प्रत्ययो भवति ।
मित्रयुः ।
न छन्दस्यपुत्रस्य (*७,४.३५) इति प्रतिषेधाद्न धीर्घः ।
सुम्नयुः ।
संस्वेदयुः छन्दसि इति किं ? मित्रीयिता । ।


____________________________________________________________________


[#२४८]

  1. <आद्-ऋ-गम-हन-जनः कि-किनौ लिट्च># । । PS_३,२.१७१ । ।



_____Sठाऱ्ठ्JKव्_३,२.१७१ः

आ-कारान्तेभ्यः ऋ-वर्णान्तेभ्यः गम हन जन इत्येतेभ्यश्च छन्दसि विषये तच्छीलादिषु कि-किनौ प्रतयौ भवतः ।
लिङ्वच्च तौ भवतः ।
आतिति तकारो मुख-सुख-अर्थः, न त्वयं अपरः, मा भूत्तादपि परः तपरः इति ऋकारे तत्काल-ग्रहणं ।
पपिः सोमं ददिर्गाः ।
ददथुः मित्रावरुणा ततुरिं मित्रावरुणौ ततुरिः ।
दूरे ह्यध्वा जगुरिः ।
जग्मिर्युवा ।
जघ्निर्वृत्र ।
जज्ञि बिजं ।
अथ किमर्थं कित्त्वम्, यावता असंयोगाल्लिट्कित्(*१,२.५) इति कित्त्वं सिद्धं एव ? ऋच्छत्य्-ऋ-ऋतां (*७,४.११) इति लिटि गुणः प्रतिषेध-विषय आरभ्यते, तस्य अपि बाधन-अर्थं कित्त्वं ।
कि-किनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनाथ् ।
सेदिः ।
नेमिः ।
भाषायां धञ्कृञ्सृजनिगमिनमिभ्यः कि-किनौ वक्तव्यौ ।
दिधिः ।
चक्रिः ।
सस्त्रिः ।
जज्ञिः ।
जग्मिः ।
नेमिः ।
सहिवहिचलिपतिभ्यो यङ्-अन्तेभ्यः कि-किनौ वक्तव्यौ ।
दीर्घोऽकितः (*७,४.८३) सासहिः ।
वावहिः ।
चाचलिः ।
पापतिः । ।


____________________________________________________________________


  1. <स्वपितृषोर्नजिङ्># । । PS_३,२.१७२ । ।



_____Sठाऱ्ठ्JKव्_३,२.१७२ः

छन्दसि इति निवृत्तं ।
स्वपेः तृषेश्च तच्छीलादिषु कर्तृषु निजिङ्प्रत्ययो भवति ।
स्वप्नक् ।
तृष्णक् ।
धृषेश्चेति वक्तव्यं ।
धृष्णक् । ।


____________________________________________________________________


  1. <श्é-वन्द्योरारुः># । । PS_३,२.१७३ । ।



_____Sठाऱ्ठ्JKव्_३,२.१७३ः

श्é हिंसायाम्, वदि अभिवादनस्तुत्योः, एताभ्यां धातुभ्यां तच्छीलादिषु कर्तृषु आरुः प्रत्ययो भवति ।
शरारुः ।
वन्दारुः । ।


____________________________________________________________________


[#२४९]

  1. <भियः क्रु-क्लुकनौ># । । PS_३,२.१७४ । ।



_____Sठाऱ्ठ्JKव्_३,२.१७४ः

ञिभी भये, अस्माद्धातोः तच्छीलादिषु कर्तृषु क्रु-क्लुकनौ प्रत्ययु भवाः ।
भीरुः, भीलुकः ।
क्रुकन्नपि वक्तव्यः ।
भीरुकः । ।


____________________________________________________________________


  1. <स्था-ईश-भास-पिस-कसो वरच्># । । PS_३,२.१७५ । ।



_____Sठाऱ्ठ्JKव्_३,२.१७५ः

ष्ठा गति-निवृत्तौ, ईश ऐश्वर्ये, भासृ दीप्तौ, पिसृ पेसृ गतौ, कस गतौ, एतेभ्यस्तच्छीलादिषु कर्तृषु वरच्प्रत्ययो भवति ।
स्थावरः ।
ईश्वरः ।
भास्वरः ।
पेस्वरः ।
विकस्वरः । ।


____________________________________________________________________


  1. <यश्च यङः># । । PS_३,२.१७६ । ।



_____Sठाऱ्ठ्JKव्_३,२.१७६ः

या प्रापने, अस्माद्यङन्तात्तच्छीलादिषु कर्तृषु वरच्प्रत्ययो हवति ।
यायावरः । ।


____________________________________________________________________


  1. <भ्राज-भास-धुर्वि-द्युत-उर्जि-प्é-जुग्रावस्तुवः क्विप्># । । PS_३,२.१७७ । ।



_____Sठाऱ्ठ्JKव्_३,२.१७७ः

भ्राजादिभ्यः धातुभ्यस्तच्छीलादिषु कर्तृषु क्विप्प्रत्ययो भवति ।
विभ्राट्, विभ्राजौ, विभ्राजः ।
भाः, भासौ, भसः ।
धूः, धुरौ, धुरः ।
विद्युत्, विद्युतौ, विद्युतः ।
ऊर्क्, ऊर्जौ, ऊर्जः ।
पूः, पुरौ, पुरः ।
जवतेर्दीर्घश्च निपात्यते ।
जूः जुवौ, जुवः ।
ग्रावस्तुत्, ग्रावस्तुतौ, ग्रावस्तुतः ।
किमर्थं इदं उच्यते, यावता अन्येभ्योऽपि दृश्यन्ते (*३,२.७५), क्विप्च (*३,२.७६) इति क्विप्सिद्ध एव ? ताच्छीलिकैर्बाध्यते ।
वाऽसरूपविधिर्न अस्ति इत्युक्तं ।
अथ तु प्रायिकं एतथ् ।
ततस्तस्य+एव अयं प्रप्ञ्चः । ।


____________________________________________________________________


  1. <अन्येभ्योऽपि दृश्यते># । । PS_३,२.१७८ । ।



_____Sठाऱ्ठ्JKव्_३,२.१७८ः

अन्येभ्योऽपि धातुभ्यः ताच्छीलिकेषु क्विप्प्रत्ययो दृश्यते ।
युक् ।
छिथ् ।
भिथ् ।
दृशि-ग्रहणं विध्य्-अन्तर-उपसङ्ग्रह-अर्थं ।
क्वचिद्दीर्घः, क्वचिद्द्विर्वचनम्, क्वचित्सम्प्रसारणं ।
तथा च आह -- क्विब्वचिप्रच्छायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च ।
वाक् ।
शब्दप्राठ् ।
आयतस्तूः ।
कटप्रूः ।
जूः ।
श्रीः ।
जुग्रहनेन अत्र न अर्थः, भ्राजादि सूत्र एव गृहीतत्वाथ् ।
द्युति-गमि-जुहोतीनां द्वे च ।
दिद्युथ् ।
जगथ् ।
जुहोतेर्दीर्घश्च ।
जुहूः ।

[#२५०]

द्é भ्ये इत्यस्य ह्रस्वश्च द्वे च ।
ददृथ् ।
ध्यायतेः सम्प्रसारणं च ।
धीः । ।


____________________________________________________________________


  1. <भुवः सञ्ज्ञा-अन्तरयोः># । । PS_३,२.१७९ । ।



_____Sठाऱ्ठ्JKव्_३,२.१७९ः

भवतेर्धातोः सञ्ज्ञायां अन्तरे च गम्यमाने क्विप्प्रत्ययो भव्ति ।
विभूर्नां कश्चिथ् ।
अन्तरे प्रतिभूः ।
धनिकाधमर्णयोरन्तरे यस्तिष्ठति स प्रतिभूरुच्यते । ।


____________________________________________________________________


  1. <वि-प्र-सम्भ्यो ड्व्-असञ्ज्ञायाम्># । । PS_३,२.१८० । ।



_____Sठाऱ्ठ्JKव्_३,२.१८०ः

भुवः इति वर्तते ।
वि प्र सं इत्येवं पूर्वाद्भवतेर्धातोः डु-प्रतयो भवति, न चेत्सञ्ज्ञा गम्यते ।
विभुः सर्वगतः ।
प्रभुः स्वामी ।
सम्भुः जनिता ।
असञ्ज्ञायां इति किं ? विभूर्नाम कश्चिथ् ।
डु-प्रकरणे मितद्र्वादिभ्य उपसङ्ख्यनं ।
मितं द्रवति मितद्रुः ।
शम्भुः । ।

____________________________________________________________________


  1. <धः करम्णि ष्ट्रन्># । । PS_३,२.१८१ । ।



_____Sठाऱ्ठ्JKव्_३,२.१८१ः

धयतेर्दधातेश्च कर्मणि कारके ष्ट्रन्प्रत्ययः भवति ।
षकारो डीषर्थः ।
धयन्ति तां दधति वा भैषज्यार्थं इति धात्री ।
स्तनदायिनी आमलकी च उच्यते । ।


____________________________________________________________________


  1. <दाम्-नी-शस-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-दश-नहः करणे># । । PS_३,२.१८२ । ।



_____Sठाऱ्ठ्JKव्_३,२.१८२ः

दाप्लवने, णीञ्प्रापणे, शसु हिंसायाम्, यु मिश्रणे, युजिर्योगे, ष्टुञ्स्तुतौ, तुद व्यथने, षिञ्बन्धने, षिचिर्क्षरणे, मिह सेचने, पतृगतौ, दंश दशने, णह बन्धने, एतेभ्यो धातुभ्यः करणे कारके ष्ट्रन्प्रत्ययो भवति ।
दाति अनेन इति दात्रं ।
नेत्रं ।
शस्त्रं ।
योत्रं ।
योक्त्रं ।
स्तोत्रं ।
तोत्त्रं ।
सेत्रं ।
सेक्त्रं ।
मेढ्रं ।
पत्रं ।
दंष्ट्रा ।
अजादित्वात्टाप्, न डीप् ।
दंशेरनुनासिकलोपेन निर्देशो ज्ञापनर्थः, क्ङितोऽन्यस्मिन्नपि प्रत्यये नलोपः क्वचिद्भवति इति ।
तेन ल्युट्यपि भवति ।
दशनं ।
नद्घ्री । ।


____________________________________________________________________


[#२५१]

  1. <हल-सूकरयोः पुवः># । । PS_३,२.१८३ । ।



_____Sठाऱ्ठ्JKव्_३,२.१८३ः

पू इति पूङ्पूञोः सामान्येन ग्रहणं ।
अस्माद्धातोः करणे कारके ष्ट्रन्प्रत्ययो भवति, तच्चेत्करणं हल,सूकरयोरवयवो भवति ।
हलस्य पोत्रं ।
सूकरस्य पोत्रं ।
मुखं ।
उच्यते । ।


____________________________________________________________________


  1. <अर्ति-लू-धू-सू-खन-सह-चर इत्रः># । । PS_३,२.१८४ । ।



_____Sठाऱ्ठ्JKव्_३,२.१८४ः

ऋ गत्रौ, लूञ्छेदने, धू विधूनने, षू प्रेरणे, खनु अवदारने, षह मर्षणे, चर गतिभक्षणयोः, एतेभ्यो धातुभ्यः करणे कारके इत्रः पत्ययो भवति ।
अरित्रं ।
अवित्रं ।
धवित्रं ।
सवित्रं ।
खनित्रं ।
सहित्रं ।
चरित्रं । ।

____________________________________________________________________


  1. <पुवः सञ्ज्ञायाम्># । । PS_३,२.१८५ । ।



_____Sठाऱ्ठ्JKव्_३,२.१८५ः

पूङ्-पूञोः सामान्येन ग्रहणं ।
पवतेर्धतोः करणे कारके इत्र-प्रत्ययो भवति, समुदायेन चेत्सञ्ज्ञा गम्यते ।
दर्भः पवित्रं ।
बर्हिष्पवित्रं । ।


____________________________________________________________________


  1. <कर्तरि चर्षिदेवतयोः># । । PS_३,२.१८६ । ।



_____Sठाऱ्ठ्JKव्_३,२.१८६ः

पुवः इति वर्तते ।
पुवः करने कर्तरि च इत्र-प्रत्ययो भवति ।
ऋषिदेवतयोः यथासङ्ख्यं सम्बन्धः ।
ऋषौ करणे, देवतायां कर्तरि ।
पूयते अनेन इति पवित्रोऽयं ऋषिः ।
देवतायां - अग्निः पवित्रं स मा पुनातु ।
वायुः सोमः सूर्य इन्द्रः पवित्रं ते मा पुनन्तु । ।


____________________________________________________________________


  1. <ञीतः क्तः># । । PS_३,२.१८७ । ।



_____Sठाऱ्ठ्JKव्_३,२.१८७ः

ञि इद्यस्य असौ ञीथ् ।
ञीतो धातोः वर्तमनेऽर्थे क्त-प्रत्ययो भवति ।
भूते निष्ठा विहिता, वर्तमने न प्राप्नोति इति विधीयते ।
ञिमिदा स्नेहने - मिन्नः ।
ञिक्ष्विदा - क्ष्विण्णः ।
ञिधृषा - धृष्टः । ।


____________________________________________________________________


[#२५२]

  1. <मति-बुद्धि-पूजा-अर्थेभ्यश्च># । । PS_३,२.१८८ । ।



_____Sठाऱ्ठ्JKव्_३,२.१८८ः

मतिः इच्छा ।
बुद्धिः ज्ञानं ।
पूजा सकारः ।
एतदर्थेभ्यश्च धातुभ्यो वर्तमान-अर्थे क्त-प्रत्ययो भवति ।
राज्ञां मतः ।
राज्ञां इष्टः ।
राज्ञां बुद्धः ।
राज्ञां ज्ञातः ।
राज्ञां पूजितः ।
राज्ञां अर्चितः ।
अनुक्त-समुच्चय-अर्थश्चकारः ।
शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि ।
रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि । ।१ । ।

हृष्टतुष्टौ तथा कान्तस्तथोभौ संयतोद्यतौ ।
कष्टं भविष्यति इत्याहुरमृतः पूर्ववत्समृतः । ।२ । ।

कष्टः इति भविष्यति काले ।
अमृतः इति पूर्ववथ् ।
वर्तमाने इत्यर्थः ।
तथा सुप्तः, शयितः, आशितः, लिप्तः, तृप्तः इत्येवं आदयोऽपि वर्तमाने दृअष्टव्याः । ।
इतिश्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य द्वितीयः पादः । ।


______________________________________________________

तृतीयाध्यायस्य तृतीयः पदः ।


____________________________________________________________________


[#२५३]

  1. <उणादयो बहुलम्># । । PS_३,३.१ । ।



_____Sठाऱ्ठ्JKव्_३,३.१ः

वर्तमान इत्येव, सञ्ज्ञायां इति च ।
उणादयः प्रत्ययाः वर्तमानेऽर्थे सञ्ज्ञायां विषये बहुलं भवन्ति ।
यतो विहितास्ततोऽन्यत्र अपि भवन्ति ।
केचिदविहिता एव प्रयोगत उन्नीयन्ते ।
कृवापाजिमिस्वदिसाध्यशूभ्य उण् ।
कारुः ।
वायुः ।
पायुः ।
जायुः ।
मायुः ।
स्वादुः ।
साधुः ।
आशुः ।
बाहुलकं प्रकृतेस्तनुदृष्टेः प्राय-समुच्चयनादपि तेषां ।
कार्यसशेषविधेश्च तदुक्तं नैगमरूढिभवं हि सुसाधु । ।१ । ।

नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकं ।
यन्न पदार्थ-विशेष-समुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यं । ।२ । ।

सञ्ज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ।
कार्याद्विद्यादनुबन्धं एतच्छास्त्रं उणादिषु । ।३ । ।



____________________________________________________________________


  1. <भूतेऽपि दृश्यन्ते># । । PS_३,३.२ । ।



_____Sठाऱ्ठ्JKव्_३,३.२ः

पूर्वत्र वर्तमान-अधिकाराद्भूतार्थं इदं वचनं ।
भूते काले उणादयः प्रत्यया दृश्यन्ते ।
वृत्तं इदं वर्त्म ।
चरितं तदिति चर्म ।
भसितं तदिति भस्म ।
दृशि-ग्रहणं प्रयोग-अनुसार-अर्थं । ।


____________________________________________________________________


  1. <भविष्यति गम्यादयः># । । PS_३,३.३ । ।



_____Sठाऱ्ठ्JKव्_३,३.३ः

भविष्यति काले गम्यादयः शब्दाः साधवो भवन्ति ।
प्रत्ययस्य+एव भविष्यत्कालता विधीयते न प्रकृतेः ।
गमी ग्रामं ।
आगामी ।
प्रस्थायी ।
प्रतिरोधी ।
प्रतिबोधी ।
प्रतियोधी ।
प्रतियोगी ।
प्रतियायी ।
आयावी ।
भावी ।
अनद्यतन उपसङ्ख्यानं ।
श्वो गमी ग्रामं । ।


____________________________________________________________________


  1. <यावत्-पुरा-निपातयोर्लट्># । । PS_३,३.४ । ।



_____Sठाऱ्ठ्JKव्_३,३.४ः

भविष्यति इत्येव ।
यावत्-पुरा-शब्दयोर्निपातयोरुपपदयोः भविष्यति काले धातोर्लट्प्रत्ययो भवति ।
यावद्भुङ्क्ते ।
पुरा भुङ्क्ते ।
निपातयोः इति किं ? यावद्दास्यति तावद्भोक्ष्यते ।
करणभूतया पुरा व्रजिष्यति । ।


____________________________________________________________________


[#२५४]

  1. <विभाषा कदा-कर्ह्योः># । । PS_३,३.५ । ।



_____Sठाऱ्ठ्JKव्_३,३.५ः

कदा कर्हि इत्येतयोः उपपदयोर्विभाषा भविष्यति काले धातोः लट्प्रत्ययो भवति ।
कदा भुङ्क्ते, कदा भोक्ष्यते, कदा भोक्ता ।
कर्हि भुङ्क्ते, कर्हि भोक्ष्यते, कर्हि भोक्टा । ।

____________________________________________________________________


  1. <किंवृत्ते लिप्सायाम्># । । PS_३,३.६ । ।



_____Sठाऱ्ठ्JKव्_३,३.६ः

विभाषा इति वर्तते ।
किमो वृत्तं किंवृत्तं ।
वृत्त-ग्रहणेन तद्विभक्त्यन्तं प्रतीयाथ् ।
डतरतमौ च इति परिसङ्ख्यानं स्मर्यते ।
किंवृत्ते उपपदे लिप्सायां भविष्यति काले धातोः विभाषा लट्प्रत्ययो भवति ।
लिप्सा लब्धुं इच्छा, प्रार्थनाभिलाषः ।
कं भवन्तो भोजयन्ति, कं भवन्तो भोजयितारः ।
लब्धुकामः पृच्छति कतरो भिक्षां दास्यति, ददाति, दाता वा ।
कतमो भिक्षां दास्यति, ददाति, दाता वा ।
लिप्सायां इति किं ? कः पाटलिपुत्रं गमिष्यति । ।


____________________________________________________________________


  1. <लिप्स्यमान-सिद्धौ च># । । PS_३,३.७ । ।



_____Sठाऱ्ठ्JKव्_३,३.७ः

विभाषा इत्येव ।
लिप्स्यमानात्सिद्धिः लिप्स्यमान-सिद्धिः ।
लिप्स्यमान-सिद्धौ गम्यमानायां भविष्यति काले धातोः विभाषा लट्प्रत्ययो भवति ।
अकिंवृत्त-अर्थोऽयं आरम्भः ।
यो भक्तं ददाति स स्वर्गं गच्छति, यो भक्तं दास्यति स स्वर्गं गमिष्यति, यो भक्तं दात स स्वर्गं गन्ता ।
लिप्स्यमानाद्भक्तात्स्वर्गसिद्धिमाचक्षाणो दातारं प्रोत्साहयति । ।


____________________________________________________________________

  1. <लोड्-अर्थलक्षने च># । । PS_३,३.८ । ।



_____Sठाऱ्ठ्JKव्_३,३.८ः

लोड्-अर्थः प्रैषादिर्लक्ष्यते येन स लोड्-अर्थलक्षणो धात्व्-अर्थः ।
तत्र वर्तमानाद्धातोः भविष्यति काले विभाषा लट्प्रत्ययो भवति ।
उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दोऽधीष्व, अथ त्वं व्याकरणं अधीष्व ।
उपाध्यायागमनमध्ययनप्रैषस्य लक्षणं । ।


____________________________________________________________________


  1. <लिङ्च+ऊर्ध्व-मौहूर्तिके># । । PS_३,३.९ । ।



_____Sठाऱ्ठ्JKव्_३,३.९ः

भविष्यति, विभाषा, लोड्-अर्थलक्षणे इति सर्वं अनुवर्तते ।
ऊर्ध्व-मौहूर्तिके भविष्यति काले लोड्-अर्थलक्षण-अर्थे वर्तमानात्धातोर्विभाषा लिङ्-प्रत्ययो भवति, चकाराल्लट्च ।
ऊर्ध्वं मुहूर्ताद्भवः ऊर्ध्वमौहूर्तिकः ।
निपातनात समासः, उत्तरपद-वृद्धिश्च ।
भविस्यतश्च+एतद्विशेषणं ।
ऊर्ध्वं मुहूर्तातुपरि मुहूर्तस्य उपाध्यायश्चेदागच्छेत्, उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दोऽधीष्व, अथ त्वं व्याकरणं अधीष्व । ।


____________________________________________________________________


[#२५५]

  1. <तुमुन्-ण्वुलौ क्रियायां क्रिय-अर्थायाम्># । । PS_३,३.१० । ।



_____Sठाऱ्ठ्JKव्_३,३.१०ः

भविष्यति इत्येव ।
क्रिय-अर्थायां क्रियायां उपपदे धातोर्भविस्यति कले तुमुन्-ण्वुलौ प्रत्ययौ भवतः ।
भोक्तुं व्रजति ।
भोजको व्रजति ।
भुजिक्रिय-अर्थः व्रजिरत्रोपपदं ।
क्रियायां इति किं ? भिक्षिष्य इत्यस्य जटाः ।
क्रिय-अर्थायां इति किं ? धावतस्ते पतिष्यति दण्डः ।
अथ किमर्थं ण्वुल्विधीयते यावता ण्वुल्-तृचौ (*३,१.१३३) इति सामान्येन विहित एव सोऽस्मिन्नपि विषये भविस्यति ? लृटा क्रियार्थ-उपपदेन बाध्येत ।
वाऽसरूप-विधिना सोऽपि भविस्यति ? एवं तर्हि एतद्ज्ञाप्यते, क्रियायां उपपदे क्रियार्थायां वाऽसरूपेण तृजादयो न भवन्ति इति ।
तेन कर्ता व्रजति, विक्षिपो व्रजति इत्येवं आदि निवर्त्यते । ।


____________________________________________________________________


  1. <भाव-वचनाश्च># । । PS_३,३.११ । ।



_____Sठाऱ्ठ्JKव्_३,३.११ः

भविष्यति इत्येव ।
भावे (*३,३.१८) इति प्रकृत्य ये घञ्-आदयो विहितास्ते च भाव-वचनाः भविस्यति काले क्रियायां उपपदे क्रियार्थायां भवन्ति ।
किमर्थं इदं यावता विहिता एव ते ? क्रियर्थ-उपपदे विहितेन अस्मिन्विषये तुमुना बाध्येरन् ।
वाऽसरूप-विधिश्च अत्र न अस्ति इत्युक्तं ।
अथ वचन-ग्रहणं किमर्थं ? वाचका यथा स्युः ।
कथं च वाचका भवन्ति ? याभ्यः प्रकृतिभ्यो येन विशेषणेन विहिता यदि ताभ्यस्तथा+एव भवन्ति, नासामञ्जस्येन इति ।
पाकाय व्रजति ।
भूतये व्रजति ।
पुष्टये व्रजति । ।


____________________________________________________________________


  1. <अण्कर्मणि च># । । PS_३,३.१२ । ।



_____Sठाऱ्ठ्JKव्_३,३.१२ः
भविस्यति इत्येव ।
चकारः सन्नियोग-अर्थः ।
धातोः अण्प्रत्ययो भवति भविष्यति काले कर्मण्युपपदे क्रियायां च क्रियार्थायां ।
कर्मण्यण्(*३,२.१) इति सामान्येन विहितो वाऽसरूप-विधेरभावाद्ण्वुला बाधितः पुनरण्विधीयते, सोऽपवादत्वाद्ण्वुलं बाधते, परत्वात्कादीन् ।
तेन अपवाद-विसयेऽपि भवत्येव ।
काण्डलावो व्रजति ।
अश्वदायो व्रजति ।
गोदायो व्रजति ।
कम्बलदायो व्रजति । ।


____________________________________________________________________


  1. <लृट्शेषे च># । । PS_३,३.१३ । ।



_____Sठाऱ्ठ्JKव्_३,३.१३ः

भविष्यति इत्येव ।
शेषः क्रियार्थ-उपपदादन्यः ।
शेषे शुद्धे भविष्यति काले, चकारात्क्रियायां च उपपदे क्रियार्थायां धातोः लृट्प्रत्ययो भवति ।
करिष्यामि इति व्रजति ।
हरिष्यामि इति व्रजति ।
शेषे खल्वपि करिष्यति ।
हरिष्यति । ।


____________________________________________________________________


[#२५६]

  1. <लृटः सद्वा># । । PS_३,३.१४ । ।



_____Sठाऱ्ठ्JKव्_३,३.१४ः

लृटः स्थाने सत्सञ्ज्ञौ शतृशानचौ वा भवतः ।
व्यवस्थित-विभाषा इयं ।
तेन यथा लटः शतृशानचौ तथा अस्य अपि भवतः ।
अप्रथमा-समानाधिकरण-आदिषु नित्यम्, अन्यत्र विकल्पः ।
करिष्यन्तं देवदत्तं पश्य ।
करिष्यमाणं देवदत्तं पश्य ।
हे करिष्यन् ।
हे करिस्यमाण ।
अर्जयिष्यमणो वसति ।
प्रथमा-समानाधिकरणे विकल्पः - करिष्यन्देवदत्तः ।
करिस्यमणो देवदत्तः ।
करिष्यति ।
करिस्यते । ।


____________________________________________________________________


  1. <अनद्यतने लुट्># । । PS_३,३.१५ । ।



_____Sठाऱ्ठ्JKव्_३,३.१५ः

भविष्यति इत्येव ।
भविष्यदनद्यतनेऽर्थे वर्तमानाद्धतोः लुट्प्रत्ययो भवति ।
लृटोऽपवादः ।
श्वः कर्ता ।
श्वो भोक्ता ।
अनद्यतने इति बहुव्रीहि-निर्देशः ।
तेन व्यामिश्रे न भवति ।
अद्य श्वो वा भविष्यति । ।
परिदेवने श्वस्तनी भविष्यद्-अर्थे वक्तव्या ।
इयं नु कदा गन्ता, या एवं पादौ निदधाति ।
अयं नु कदाऽध्येता, य एवं अनभियुक्तः । ।


____________________________________________________________________

  1. <पद-रुज-विश-स्पृशो घञ्># । । PS_३,३.१६ । ।



_____Sठाऱ्ठ्JKव्_३,३.१६ः

भविष्यति इति निवृतं ।
इत उत्तरं त्रिष्वपि कालेषु प्रत्ययाः ।
पदादिभ्यो धातुभ्यो घञ्प्रत्ययो भवति ।
पद्यतेऽसौ पादः ।
रुजत्यसौ रोगः ।
विशत्यसौ वेशः ।
स्पृश उपताप इति वक्तव्यं ।
स्पृशति इति स्पर्शः उपतापः ।
ततोऽन्यत्र पचाद्यच्भवति ।
स्पर्शो देवदत्तः ।
स्वरे विशेषः । ।


____________________________________________________________________


  1. <सृ स्थिरे># । । PS_३,३.१७ । ।



_____Sठाऱ्ठ्JKव्_३,३.१७ः

सर्तेः धातोः स्थिरे कर्तरि घञ्प्रतयो भवति ।
स्थिरः इति कालान्तरस्थायी पदार्थ उच्यते ।
स चिरं तिष्ठन्कालन्तरं सरति इति धात्व्-अर्थस्य कर्ता युज्यते ।
चन्दनसारः ।
खदिरसारः ।
स्थिरे इति किं ? सर्ता ।
सारकः ।
व्याधिमत्स्यबलेष्विति वक्तव्यं ।
अतीसारो व्याधिः ।
विसारो मत्स्यः ।
सारो बलं । ।

____________________________________________________________________


[#२५७]

  1. <भावे># । । PS_३,३.१८ । ।



_____Sठाऱ्ठ्JKव्_३,३.१८ः

भावे वाच्ये धातोः घञ्प्रत्ययो भवति ।
पाकः ।
त्यागः ।
रागः ।
क्रियासामान्यवाची भवतिः ।
तेन अर्थ-निर्देशः क्रियमाणः सर्वधातु-विषयः कृतो भवति ।
धात्व्-अर्थश्च धातुना+एव+उच्यते ।
यस्तस्य सिद्धता नाम धर्मः तत्र घञ्-आदयः प्रत्ययाः विधीयन्ते ।
पुंलिङ्ग-एकवचनं च अत्र न तन्त्रं, लिङ्गान्तरे वचनान्तरेऽपि च अत्र प्रत्यया भवन्त्येव ।
पक्तिः, पचनम्, पाकौ, पाकाः इति । ।


____________________________________________________________________


  1. <अकर्तरि च कारके सञ्ज्ञायाम्># । । PS_३,३.१९ । ।



_____Sठाऱ्ठ्JKव्_३,३.१९ः

कर्तृ-वर्जिते कारके सञ्ज्ञायां विषये धातोः घञ्भवति ।
प्रास्यन्ति तं प्रासः ।
प्रसीव्यन्ति तं प्रसेवः ।
आहरन्ति तस्माद्रसं इति आहारः ।
मधुराहारः ।
तक्षशिलाहारः ।
अकर्तरि इति किं ? मिषत्यसौ मेषः ।
सज्ञायां इति किं ? कर्तव्यः कटः ।
सञ्ज्ञा-व्यभिचार-अर्थश्चकारः ।
को भवता दायो दत्तः ।
को भवता लाभो लब्धः ।
कारक-ग्रहणं पर्युदासे न कर्तव्यं ।
तत्क्रियते प्रसज्य-प्रतिषेधेऽपि समासोऽस्ति इति ज्ञापन-अर्थम्, आद्-एच उपदेशेऽशिति (*६,१.४५) इति ।
इत उत्तरं भावे, अकर्तरि च कारके इति द्वयं अनुवर्तते । ।


____________________________________________________________________


  1. <परिमाण-आख्यायां सर्वेभ्यः># । । PS_३,३.२० । ।



_____Sठाऱ्ठ्JKव्_३,३.२०ः

परिमाण-आख्यायां गम्यमानायां सर्वेभ्यो धातुभ्यः घञ्प्रत्ययो भवति ।
एकस्तण्डुल-निश्चायः ।
द्वौ शूर्पनिष्पावौ ।
क्é विक्षेपे -- द्वौ कारौ ।
क्रयः काराः ।
सर्व-ग्रहणं अपोऽपि बाधन-अर्थं ।
पुरस्तादपवाद-न्यायेन ह्यचं एव बाधेत, न अपं ।
परिमाण-आख्यायां इति किं ? निश्चयः ।
आख्या-ग्रहणं रूढिनिरास-अर्थं ।
तेन सङ्ख्याऽपि गृह्यते, न प्रस्थाद्येव ।
घञ्-अनुक्रमणं अजपोर्विषये, स्त्री-प्रत्ययास्तु न बाध्यन्ते ।
एका तिलोच्छित्तिः ।
द्वे प्रसृती ।
दारजारौ कर्तरि णिलुक्च ।
दारयन्ति इति दाराः ।
जरयन्ति इति जाराः । ।


____________________________________________________________________


  1. <इङश्च># । । PS_३,३.२१ । ।


_____Sठाऱ्ठ्JKव्_३,३.२१ः

इङो धातोः घञ्प्रत्ययो भवति ।
अचोऽपवादः ।
अध्यायः ।
उपेत्यास्मादधीते उपाध्यायः ।

[#२५८]

अपादाने स्त्रियां उपसङ्ख्यानं तदन्ताच्च वा ङीष् ।
उपाध्याया, उपाध्यायी ।
श्é वायुवर्णनिवृतेषु ।
शारो वायुः ।
शारो वर्णः ।
शारो निवृतं ।
गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः । ।


____________________________________________________________________


  1. <उपसर्गे रुवः># । । PS_३,३.२२ । ।



_____Sठाऱ्ठ्JKव्_३,३.२२ः

उपसर्गे उपपदे रौतेर्धातोर्घञ्प्रत्ययो भवति ।
अपोऽपवादः ।
संरावः ।
उपरावः ।
उपसर्गे इति किं ? रवः । ।


____________________________________________________________________


  1. <समि यु-द्रु-दुवः># । । PS_३,३.२३ । ।


_____Sठाऱ्ठ्JKव्_३,३.२३ः

समि उपपदे यु द्रु दु इत्येतेभ्यः धातुभ्यः घञ्प्रत्ययो भवति ।
संयावः ।
संद्रावः ।
संदावः ।
समि इति किं ? प्रयवः । ।


____________________________________________________________________


  1. <श्रि-णी-भुवोऽनुपसर्गे># । । PS_३,३.२४ । ।



_____Sठाऱ्ठ्JKव्_३,३.२४ः

श्रि णी भू इत्येतेभ्यो धातुभ्योऽनुपसर्गेभ्यो घञ्प्रत्ययो भवति ।
अजपोरपवादः ।
श्रायः ।
नायः ।
भावः ।
अनुपसर्गे इति किं ? प्रश्रयः ।
प्रणयः ।
प्रभवः ।
कथं प्रभावो राज्ञाः ? प्रकृष्टो भावः इति प्रादिसमासो भविष्यति ।
कथं च नयो राज्ञः ? कृत्य-ल्युटो बहुलं (*३,३.११३) इति अच्भविष्यति । ।


____________________________________________________________________


  1. <वौ क्षु-श्रुवः># । । PS_३,३.२५ । ।



_____Sठाऱ्ठ्JKव्_३,३.२५ः

वाव्-उपपदे क्षु श्रु इत्येताभ्यां धातुभ्यां घञ्प्रत्ययो भवति ।
अपोऽपवादः ।
विक्षावः ।
विश्रावः ।
वौ इति किं ? क्षवः ।
श्रवः । ।


____________________________________________________________________


  1. <अव-उदोर्नियः># । । PS_३,३.२६ । ।



_____Sठाऱ्ठ्JKव्_३,३.२६ः

अव उतित्येतयोरुपपदयोः नयतेर्धातोः घञ्प्रत्ययो भवति ।
अवनायः ।
उन्नायः ।
कथं उन्नयः पदार्थानां ? कृत्य-ल्युटो बहुलं (*३,३.११३) इति अच्भविष्यति । ।


____________________________________________________________________


[#२५९]

  1. <प्रे द्रु-स्तु-स्रुवः># । । PS_३,३.२७ । ।



_____Sठाऱ्ठ्JKव्_३,३.२७ः

प्र-शब्दे उपपदे द्रु स्तु स्रु इत्येतेभ्यो धातुभ्यो घञ्प्रत्ययो भवति ।
प्रद्रावः ।
प्रस्तावः ।
प्रस्रावः ।
प्र इति किं ? द्रवः ।
स्तवः ।
स्रवः । ।


____________________________________________________________________


  1. <निर्-अभ्योः पू-ल्वोः># । । PS_३,३.२८ । ।



_____Sठाऱ्ठ्JKव्_३,३.२८ः

पू इति पूङ्पूञोः सामान्येन ग्रहणं ।
लूञ्छेदने ।
यथासङ्ख्यं उपसर्ग-सम्बन्धः ।
निरभिपूर्वयोः पू-ल्वोर्धात्वोः घञ्प्रत्ययो भवति ।
निष्पावः ।
अभिलावः ।
निरभ्योः इति किं ? पवः ।
लवः । ।


____________________________________________________________________


  1. <उन्-न्योर्ग्रः># । । PS_३,३.२९ । ।



_____Sठाऱ्ठ्JKव्_३,३.२९ः

ग्é शब्दे, ग्é निगरणे, द्वयोरपि ग्रहणं ।
उन्न्योरुपपदयोः ग्é इत्येतस्माद्धातोः घञ्प्रत्ययो भवति ।
उद्गारः समुद्रस्य ।
निगारो देवदत्तस्य ।
उन्न्योः इति किं ? गरः । ।


____________________________________________________________________

  1. <क्é धान्ये># । । PS_३,३.३० । ।



_____Sठाऱ्ठ्JKव्_३,३.३०ः

उन्न्योः इति वर्तते ।
क्é इत्येतस्माद्धातोरुन्न्योः उपपदयोः घञ्प्रतयो भवति, धान्य-विषयश्चेद्धात्व्-अर्थो भवति ।
विक्षेप-अर्थस्य किरतेर्ग्रहणं, न हिंस-अर्थस्य, अनभिधानातुत्कारो धान्यस्य ।
निकारो धान्यस्य ।
धान्ये इति किं ? भैक्ष्योत्करः ।
पुष्पनिकरः । ।


____________________________________________________________________


  1. <यज्ञे समि स्तुवः># । । PS_३,३.३१ । ।



_____Sठाऱ्ठ्JKव्_३,३.३१ः

यज्ञ-विषये प्रयोगे सम्पूर्वात्स्तौतेर्घञ्पर्त्ययो भवति ।
संरतावः छन्दोगानां ।
समेत्य स्तुवन्ति यस्मिन्देशे छन्दोगाः स देशः संस्तावः इत्युच्यते ।
यज्ञे इति किं ? संस्तवः छात्रयोः । ।


____________________________________________________________________


  1. <प्रे स्त्रोऽयज्ञे># । । PS_३,३.३२ । ।



_____Sठाऱ्ठ्JKव्_३,३.३२ः

स्तृञाच्छादने, अस्माद्धातोः प्र-शब्दे उपपदे घञ्प्रत्ययो भवति न चेद्यज्ञ-विषयः प्रयोगो भवति ।
शङ्खप्रस्तारः ।
अयज्ञे इति किं ? बहिर्ष्प्रस्तरः । ।

____________________________________________________________________


[#२६०]

  1. <प्रथने वावशब्दे># । । PS_३,३.३३ । ।



_____Sठाऱ्ठ्JKव्_३,३.३३ः

स्त्éञाच्छादने, अस्माद्धातोः वि-शब्दे उपपदे घञ्पत्ययो भवति प्रथने गम्यमाने, तच्चेत्प्रथनं शब्द-विषयं न भवति ।
प्रथनं विस्तीर्णता ।
पटस्य विस्तारः ।
प्रथने इति किं ? तृणविस्तरः ।
अशब्दे इति किं ? विस्तरो वचसां । ।


____________________________________________________________________


  1. <छन्दोनाम्नि च># । । PS_३,३.३४ । ।



_____Sठाऱ्ठ्JKव्_३,३.३४ः

वौ स्त्रः इति वर्तते ।
विपूर्वात्स्तृनातेः छन्दोनाम्नि घञ्प्रत्ययो भवति ।
वृत्तं अत्र छन्दो गृह्यते यस्य गायत्र्यादयो विशेषाः, न मन्त्रब्रह्मणं , नाम-ग्रहणाथ् ।
विष्टारपङ्क्तिः छन्दः ।
विष्टारबृहती छन्दः ।
विष्टारपङ्क्ति-शब्दोऽत्र छन्दोनाम, न घञनतं शब्द-रूपं ।
तत्र त्ववयवत्वेन तद्वर्तते ।
छन्दोनाम्नि इत्यधिकरण-सप्तम्येषा । ।


____________________________________________________________________

  1. <उदि ग्रहः># । । PS_३,३.३५ । ।



_____Sठाऱ्ठ्JKव्_३,३.३५ः

उदि उपपदे ग्रहेर्धातोः घञ्प्रत्ययो भवति ।
अतोऽपवादः ।
उद्ग्राहः ।
छन्दसि निपूर्वादपि इष्यते स्रुगुद्यमन-निपतनयोः ।
हकारस्य भकारः ।
उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् । ।


____________________________________________________________________


  1. <समि मुष्टौ># । । PS_३,३.३६ । ।



_____Sठाऱ्ठ्JKव्_३,३.३६ः

ग्रहः इत्येव ।
समि उपपदे ग्रहेर्धातोः घञ्भवति, मुष्टिविषयश्चेद्धात्वर्थो भवति ।
मुष्टिः अङ्गुलिसन्निवेशः ।
अहो मल्लस्य सङ्ग्राहः ।
अहो मुष्टिकस्य सङ्ग्राहः ।
दृढमुष्टिता आख्यायते ।
मुष्टौ इति किं ? सङ्ग्रहो धान्यस्य । ।


____________________________________________________________________


  1. <परि-न्योर्नी-णोर्द्यूत-अभ्रेषयोः># । । PS_३,३.३७ । ।



_____Sठाऱ्ठ्JKव्_३,३.३७ः

परि-शब्दे नि-शब्दे च उपपदे यथासङ्ख्यं नियः इणश्च धातोः घञ्प्रत्ययो भवति ।
अचोऽपवादः ।
द्यूताभ्रेषयोः, अत्र अपि यथासङ्ख्यं एव सम्बन्धः ।
द्यूत-विषयः चेन्नयतेरर्थः, अभ्रेष-विषयश्चेदिण्-अर्थः ।
पदार्थानां अनपचारो यथाप्राप्त-करणं अभ्रेषः ।
द्यूते तावत्- परिणायेन शारान्हन्ति ।
समन्तान्नयनेन ।
अभ्रेषे - एषोऽत्र न्यायः ।
द्यूत-अभ्रेषयोः इति किं ? परिणयः ।
न्ययं गतः पापः । ।


____________________________________________________________________


[#२६१]

  1. <परावनुपात्यय इणः># । । PS_३,३.३८ । ।



_____Sठाऱ्ठ्JKव्_३,३.३८ः

परि-शब्दे उपपदे इणो धातोः घञ्प्रत्ययो भवति, अनुपत्यये गम्यमाने ।
क्रम-प्राप्तस्य अनतिपातोऽनुपात्ययः, परिपाटी ।
तव पर्यायः ।
मम पर्यायः ।
अनुपात्यये इति किं ? कालस्य पर्ययः ।
अतिपातः इत्यर्थः । ।


____________________________________________________________________


  1. <व्य्-उपयोः शेतेः पर्याये># । । PS_३,३.३९ । ।



_____Sठाऱ्ठ्JKव्_३,३.३९ः

वि उप इत्येतयोः उपपदयोः शेतेर्धातोः घञ्भवति पर्याये गम्यमाने ।
तव विशायः ।
मम विशायः ।
तव राजोपशायः ।
तव राजानं उपशयितुं पर्यायः इत्यर्थः ।
पर्याये इति किं ? विशयः ।
उपशयः । ।


____________________________________________________________________


  1. <हस्त-अदाने चेरस्तेये># । । PS_३,३.४० । ।



_____Sठाऱ्ठ्JKव्_३,३.४०ः

हस्तादाने गम्यमाने चिनोतेर्धातोः घञ्प्रत्ययो भवति, न चेत्स्तेयं चौर्यं भवति ।
हस्तादान-ग्रहणेन प्रत्यासत्तिरादेयस्य लक्ष्यते ।
पुष्पप्रचायः ।
फलप्रचायः ।
हस्तादने इति किं ? वृक्षशिखरे फलप्रचयं करोति ।
अस्तेये इति किं ? फलप्रचयश्चौर्येण ।
उच्चयस्य प्रतिषेधो वक्तव्यः । ।


____________________________________________________________________


  1. <निवास-चिति-शरीर-उपसमाधानेष्वादेश्च कः># । । PS_३,३.४१ । ।



_____Sठाऱ्ठ्JKव्_३,३.४१ः

चेः इत्येव ।
निवसन्ति अस्मिनिति निवासः ।
चीयतेऽसौ चितिः ।
पाण्यादि-समुदायः शरीरं ।
राशीकरनं उपसमाधानं ।
एतेष्वर्थेषु चिनोतेः घञ्प्रत्ययः भवति, धातोरादेश्च ककार आदेशः ।
निवासे तावत्- चिखल्लिनिकायः ।
चितौ - आकायं अग्निं चिन्वीत ।
शरीरे - अनित्यकायः ।
उपसमाधाने - महान्गोमयनिकायः ।
एतेषु इति किं ? चयः ।
इह कस्मान्न भवति महान्काष्ठनिचयः ? बहुत्वं अत्र विवक्षितं न+उपसमाधानं । ।


____________________________________________________________________


  1. <सङ्घे च अनौत्तराधर्ये># । । PS_३,३.४२ । ।



_____Sठाऱ्ठ्JKव्_३,३.४२ः

चेः इत्येव ।
प्राणिनां समुदायः सङ्घः ।
स च द्वाभ्यां प्रकाराभ्यां भवति ।
एकधर्म-समावेशेन, औत्तराधर्येण वा ।
तत्र औत्तराधर्य-पर्युदासादितरो गृह्यते ।
सङ्घे वाच्ये चिनोतेर्धातोः घञ्प्रत्ययो भवति आदेश्च कः ।
भिक्षुकनिकायः ।
ब्राह्मणनिकायः ।
वैयाकरणनिकायः ।
अनौत्तराधर्ये इति किं ? सूकरनिचयः ।
प्राणिविषयत्वात्सङ्घस्य+इह न भवति ।
कृताकृतसमुच्चयः ।
प्रमाणसमुच्चयः । ।


____________________________________________________________________

[#२६२]

  1. <कर्म-व्यतिहारे णच्स्त्रियाम्># । । PS_३,३.४३ । ।



_____Sठाऱ्ठ्JKव्_३,३.४३ः

कर्म क्रिया ।
व्यतिहारः परस्पर-करणं ।
कर्म-व्यतिहारे गम्यमाने धातोः णच्पत्ययो भवति स्त्रीलिङ्गे वाच्ये ।
तच्च भावे ।
चकारो विशेषण-अर्थः णचः स्त्रियां अञ्(*५,४.१४) इति ।
व्यावक्रोशी ।
व्यावलेखी ।
व्यावहासी वर्तते ।
स्त्रियां इति किं ? व्यतिपाको वर्तते ।
बाधकविषयेऽपि क्वचिदिष्यते, व्यावचोरी, व्यावचर्ची ।
इह न भवति ।
व्यतीक्षा, व्यतीहा वर्तते ।
व्यात्युक्षी भवति ।
तदेतद्वैचित्र्यं कथं लभ्यते ? कृत्य-ल्युटो बहुलं (*३,३.११३) इति भवति । ।


____________________________________________________________________


  1. <अभिविधौ भावे इनुण्># । । PS_३,३.४४ । ।



_____Sठाऱ्ठ्JKव्_३,३.४४ः

अभिविधिरभिव्याप्तिः, क्रियागुणाभ्यां कार्त्स्न्येन सम्बन्धः ।
अभिविधौ गम्यमाने धातोः भवे इनुण्भवति ।
साङ्कूटिनं ।
सांराविणं ।
सान्द्राविणं वर्तते ।
अभिविधौ इति किं ? सङ्कोटः ।
सन्द्रावः ।
संरावः ।
भावे इति वर्तमने पुनर्भाव-ग्रहणं वासरूपनिरास-अर्थम्, तेन घञ्न भवति ।
ल्युटा तु समावेश इष्यते ।
सङ्कूटनं वर्तते ।
तत्कथं ? कृत्य-ल्युटो बहुलं (*३,३.११३) इति । ।


____________________________________________________________________


  1. <आक्रोशेऽवन्योर्ग्रहः># । । PS_३,३.४५ । ।



_____Sठाऱ्ठ्JKव्_३,३.४५ः

दृष्ट-अनुवृत्ति-सामर्थ्याद्घञनुवर्तते, न अनन्तर इनुण् ।
अव नि इत्येतयोः उअपदयोः ग्रहेर्धातोः घञ्प्रत्ययो भवति आक्रोशे गम्यमने ।
आक्रोशः शपनं ।
अवग्राहो हन्त ते वृषल भूयथ् ।
निग्राहो हन्त ते वृषल भूयाथ् ।
आक्रोशे इति किं ? अवग्रहः पदस्य ।
निग्रहश्चोरस्य । ।


____________________________________________________________________


  1. <प्रे लिप्सायाम्># । । PS_३,३.४६ । ।



_____Sठाऱ्ठ्JKव्_३,३.४६ः

ग्रहः इत्येव ।
प्र-शब्दे उपपदे ग्रहेर्धातो घञ्प्रत्ययो भवति लिप्सायां गम्यमानायां ।
पात्रप्रग्राहेण चरति भिक्षुः पिण्डार्थी ।
स्रुवप्रग्राहेण चरति द्विजो दक्षिणार्थी ।
लिप्सायां इति किं ? प्रग्रहो देवदत्तस्य । ।


____________________________________________________________________

  1. <परौ यज्ञे># । । PS_३,३.४७ । ।



_____Sठाऱ्ठ्JKव्_३,३.४७ः

परि-शब्दे उपपदे ग्रहेः घञ्प्रत्ययो भवति, यज्ञविषयश्चेत्प्रत्ययान्त-अभिधेयः स्याथ् ।
उत्तरपरिग्राहः ।
अधर-परिग्राहः ।
यज्ञे इति किं ? परिग्रहो देवदत्तस्य । ।


____________________________________________________________________


[#२६३]

  1. <नौ वृ धान्ये># । । PS_३,३.४८ । ।



_____Sठाऱ्ठ्JKव्_३,३.४८ः

वृ इति वृङ्वृञोः सामान्येन ग्रहणं ।
नि-शब्दे उपपदे वृ इत्येतस्माद्धातोः धान्य-विशेषेऽभिधेये घञ्प्रत्ययो भवति ।
अपोऽपवादः ।
नीवारा नाम व्रीहयो भवन्ति ।
धान्ये इति किं ? निवरा कन्या । ।


____________________________________________________________________


  1. <उदि श्रयति-यौति-पू-द्रुवः># । । PS_३,३.४९ । ।



_____Sठाऱ्ठ्JKव्_३,३.४९ः

उच्-छब्दे उपपदे श्रयत्य्-आदिभ्यो घञ्प्रतययो भवति ।
अजपोरपवादः ।
उच्छ्रायः ।
उद्यावः ।
उत्पावः ।
उद्द्रावः ।
कथं पतनान्ताः समुच्छ्रयाः ? वक्ष्यमाणं विभाषा-ग्रहणं इह सिंहावलोकितन्यायेन सम्बध्यते । ।


____________________________________________________________________


  1. <विभाषा+आङि रु-प्लुवोः># । । PS_३,३.५० । ।



_____Sठाऱ्ठ्JKव्_३,३.५०ः

आङि उपपदे रौतेः प्लवतेश्च विभाषा घञ्प्रत्ययो भवति ।
आरावः, आरवः ।
आप्लावः, आप्लवः । ।


____________________________________________________________________


  1. <अवे ग्रहो वर्ष-प्रतिबन्धे># । । PS_३,३.५१ । ।



_____Sठाऱ्ठ्JKव्_३,३.५१ः

विभाषा इति वर्तते ।
अवे उपपदे ग्रहेः धातोः घञ्प्रत्ययो भवति विभाषा वर्षप्रतिबन्धेऽभिधेये ।
प्रप्तकालस्य वर्षस्य कुतश्चिन्निमित्तादभावो वर्षप्रतिबन्धः ।
अवग्राहो देवस्य, अवग्रहो देवस्य ।
वर्षप्रतिबन्धे इति किं ? अवग्रहः पदस्य । ।


____________________________________________________________________

  1. <प्रे वणिजाम्># । । PS_३,३.५२ । ।



_____Sठाऱ्ठ्JKव्_३,३.५२ः

ग्रहः इति वर्तते ।
विभाषा इत्येव ।
प्र-शब्दे उपपदे ग्रहेर्धातोः विभाषा घञ्प्रत्ययो भवति, प्रत्ययान्त-वाच्यश्चेद्वणिजां सम्बन्धी भवति ।
वणिक्-सम्बन्धेन च तुलासूत्रं लक्ष्यते, न तु वणिजस्तन्त्रं ।
तुला प्रगृह्यते येन सूत्रेण स शब्द-अर्थः ।
तुलाप्रग्राहेण चरति, तुलाप्रग्रहेण चरति वणिगन्यो वा ।
वणिजां इति किं ? प्रग्रहो देवदत्तस्य । ।


____________________________________________________________________


  1. <रश्मौ च># । । PS_३,३.५३ । ।



_____Sठाऱ्ठ्JKव्_३,३.५३ः

ग्रहः विभाषा प्रे इति वर्तते ।
प्र-शब्दे उपपदे ग्रहेर्धातोः विभाषा घञ्प्रत्ययो भवति, रश्मिश्चेत्प्रत्ययान्तेन अभिधीयते ।
रथादियुक्तानां अश्वादीनां संयमन-अर्था रज्जू रश्मिरिह गृह्यते ।
प्रग्राः, प्रग्रहः । ।


____________________________________________________________________


[#२६४]

  1. <वृणोतेराच्छादने># । । PS_३,३.५४ । ।



_____Sठाऱ्ठ्JKव्_३,३.५४ः

विभाषा प्र इति वर्तते ।
प्रशब्दे उपपदे वृणोतेः धातोः विभाषा घञ्प्रत्ययो भवति, प्रत्ययान्तेन चेदाच्छादन-विशेष उच्यते ।
प्रावारः, प्रवरः ।
आच्छादने इति किं ? प्रवरा गौः । ।


____________________________________________________________________


  1. <प्रौ भुवोऽवज्ञाने># । । PS_३,३.५५ । ।



_____Sठाऱ्ठ्JKव्_३,३.५५ः

विभाषा इत्येव ।
परिशब्दे उपपदे भवतेः धातोः विभाषा घञ्प्रत्ययो भवति अवज्ञाने गम्यमाने ।
अवज्ञानं असत्कारः ।
परिभावः, परिभवः ।
अवज्ञाने इति किं ? सर्वतः भवनं परिभवः । ।


____________________________________________________________________


  1. <एरच्># । । PS_३,३.५६ । ।



_____Sठाऱ्ठ्JKव्_३,३.५६ः

भावे, अकर्तरि च कारके इति प्रकृतं अनुवर्तते यावत्कृत्य-ल्युटो बहुलं (*३,३.११३) इति ।
इ-वर्णान्ताद्धातोः भावे, अकर्तरि च कारके सञ्ज्ञायां अच्प्रत्ययो भवति ।
घञो ऽपवादः ।
चकारो विशेषण-अर्थः, अन्तः (*६,२.१४३) थाऽथ-घञ्-क्त-अज्-अब्-इत्र-कणां (*६,२.१४४) इति ।
चयः ।
अयः ।
जयः ।
क्षयः ।
अज्-विधौ भयादीनां उपसङ्ख्यानं ।
नपुंसके क्तादि-निवृत्त्य्-अर्थं ।
भयं ।
वर्षं ।
जवसवौ छन्दसि वक्तव्यौ ।
ऊर्वोरस्तुं मे जवः ।
पञ्चौदनः सवः । ।


____________________________________________________________________


  1. <éदोरप्># । । PS_३,३.५७ । ।


_____Sठाऱ्ठ्JKव्_३,३.५७ः

é-कारान्तेभ्यः उ-वर्णान्तेभ्यः च अप्प्रत्ययो भवति ।
घञोऽपवादः ।
पित्करणं स्वर-अर्थं ।
करः गरः ।
शरः ।
उ-वर्णान्तेभ्यः - यवः ।
लवः ।
पवः ।
द-कारो मुख-सुख-अर्थः ।
मा भूत्तादपि परः तपरः । ।


____________________________________________________________________


[#२६५]

  1. <ग्रह-वृ-दृ-निश्चिगमश्च># । । PS_३,३.५८ । ।



_____Sठाऱ्ठ्JKव्_३,३.५८ः

ग्रहादिभ्यः धातुभ्यः अप्प्रत्ययो भवति ।
घञोऽपवादः ।
निश्चिनोतेः तु अचोऽपवादः ।
ग्रहः ।
वरः ।
दरः ।
निश्चयः ।
गमः ।
निश्चि-ग्रहनं स्वर-अर्थं ।
विशिरण्योरुपसङ्ख्यानं ।
वशः ।
रणः ।
घञ्-अर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थं ।
प्रतिष्ठन्तेऽस्मिनिति प्रस्थः पर्वतस्य ।
प्रस्नाति अस्मिन्प्रस्नः ।
प्रपिबन्ति अस्यां इति प्रपा ।
आविध्यन्ति तेन इति आविधः ।
विहन्यन्तेऽस्मिनिति विघ्नः ।
आयुध्यते अनेन इति आयुधं । ।


____________________________________________________________________


  1. <उपसर्गेऽदः># । । PS_३,३.५९ । ।



_____Sठाऱ्ठ्JKव्_३,३.५९ः

अपित्येव ।
उपसर्गे उपपदे अदेर्धातोः अप्प्रययो भवति ।
प्रघसः ।
विघसः ।
उपसर्गे इति किं ? घासः । ।


____________________________________________________________________

  1. <नौ ण च># । । PS_३,३.६० । ।



_____Sठाऱ्ठ्JKव्_३,३.६०ः

नि-शब्दे उपपदे अदेः धातोः ण-प्रत्ययो भवति, चकारादप्च ।
न्यादः, निघसः । ।


____________________________________________________________________


  1. <व्यध-जपोरनुपसर्गे># । । PS_३,३.६१ । ।



_____Sठाऱ्ठ्JKव्_३,३.६१ः

व्यध जप इत्येतयोः अनुपसर्गयोः अप्प्रत्ययो भवति ।
घञोऽपवादः ।
व्यधः ।
जपः ।
अनुपसर्गे इति किं ? आव्याधा ।
उपजापः । ।


____________________________________________________________________


[#२६६]

  1. <स्वन-हसोर्वा># । । PS_३,३.६२ । ।



_____Sठाऱ्ठ्JKव्_३,३.६२ः

अनुपसर्गे इत्येव ।
स्वन-हसोः अनुपसर्गयोर्वा अप्प्रत्ययो भवति ।
स्वनः, स्वानः ।
हसः, हासः ।
अनुपसर्गे इति किं ? प्रस्वानः ।
प्रहसः । ।


____________________________________________________________________


  1. <यमः सम्-उप-नि-विषु च># । । PS_३,३.६३ । ।



_____Sठाऱ्ठ्JKव्_३,३.६३ः

अनुपसर्गे वा इति वर्तते ।
सं उप नि वि इत्येतेषु उपपदेषु अनुपसर्गेऽपि यमेर्वा अप्प्रत्ययो भवति ।
घञोऽपवादः ।
संयमः, संयामः ।
उपयमः, उपयामः ।
नियमः, नियामः ।
वियमः, वियामः ।
अनुपसर्गात्खल्वपि -- यमः, यामः । ।


____________________________________________________________________


  1. <नौ गद-नद-पठ-स्वनः># । । PS_३,३.६४ । ।



_____Sठाऱ्ठ्JKव्_३,३.६४ः

अपित्येव ।
नि-शब्दे उपपदे गद नद पठ स्वन इत्येतेभ्यः धतुभ्यः वा अप्प्रत्ययो भवति ।
घञोऽपवादः ।
निगदः, निगादः ।
निनदः, निनादः ।
निपठः, निपाठः ।
निस्वनः, निस्वानः । ।

____________________________________________________________________


  1. <क्वणो वीणायां च># । । PS_३,३.६५ । ।



_____Sठाऱ्ठ्JKव्_३,३.६५ः

नौ वा अनुपसर्गे इति वर्तते ।
क्वणतेः धातोः निपूर्वादनुपसर्गाच्च वीणायां वा अप्प्रत्ययो भवति ।
घञोऽपवादः ।
सोपसर्गार्थं वीणाया ग्रहणं ।
निक्वणः, निक्वाणः ।
अनुपसर्गात्-- क्वणः, क्वाणः ।
वीणायां खल्वपि -- कल्याण-प्रक्वणा वीणा ।
एतेषु इति किं ? अतिक्वाणो वर्तते । ।


____________________________________________________________________


  1. <नित्यं पणः परिमाणे># । । PS_३,३.६६ । ।



_____Sठाऱ्ठ्JKव्_३,३.६६ः

पण व्यवहारे स्तुतौ च, अस्माद्धातोर्नित्यं अप्प्रत्ययो भवति परिमाणे गम्यमाने ।
नित्य-ग्रहणं विकल्प-निवृत्त्य्-अर्थं ।
मूलकपणः ।
शाकपणः ।
संव्यवहाराय मूलकादीनां यः परिमितो मुष्टिर्बध्यते, तस्य+इदं अभिधानं ।
परिमाणे इति किं ? पाणः । ।


____________________________________________________________________


  1. <मदोऽनुपसर्गे># । । PS_३,३.६७ । ।



_____Sठाऱ्ठ्JKव्_३,३.६७ः

मदेः धातोः अनुपसर्गातप्प्रत्ययो भवति ।
घजोऽपवादः ।
विद्यामदः ।
धनमदः ।
कुलमदः ।
अनुपसर्गे इति किं ? उन्मादः ।
प्रमादः । ।


____________________________________________________________________


[#२६७]

  1. <प्रमद-सम्मदौ हर्षे># । । PS_३,३.६८ । ।



_____Sठाऱ्ठ्JKव्_३,३.६८ः

प्रमद सम्मद इत्येतौ शब्दौ निपात्येते हर्षेऽभिधेये ।
कन्यानां प्रमदः ।
कोकिलानां सम्मदः ।
हर्षे इति किं ? प्रमादः ।
सम्मादः ।
प्रसंभ्यां इति न+उक्तं ।
निपातनं रूढ्य्-अर्थं । ।


____________________________________________________________________


  1. <सम्-उदोरजः पशुषु># । । PS_३,३.६९ । ।


_____Sठाऱ्ठ्JKव्_३,३.६९ः

समुदोरुपपदयोः अजएर्धातोः पशु-विषये धात्व्-अर्थे अप्प्रत्ययो भवति ।
घञोऽपवादः ।
अज गति-क्षेपणयोः इति पठ्यते ।
स सम्पूर्वः समुदाये वर्तते, उत्पूर्वश्च प्रेरणे ।
संजः पशूनां ।
समुदायः इत्यर्थः ।
उदजः पशूनां ।
प्रेरणं इत्यर्थः ।
पशुषु इति किं ? समाजो ब्राह्मणानां ।
उदाजः क्षत्रियाणां । ।


____________________________________________________________________


  1. <अक्षेषु ग्लहः># । । PS_३,३.७० । ।



_____Sठाऱ्ठ्JKव्_३,३.७०ः

ग्लहः इति निपात्यते, अक्ष-विषयश्चेद्धात्व्-अर्थो भवति ।
ग्रहेरप्सिद्ध एव, लत्व-अर्थं निपातनं ।
अक्षस्य ग्लहः ।
अक्षेषु इति किं ? ग्रहः पादस्य ।
अन्ये ग्लहिं प्रकृत्यन्तरं आहुः ।
ते घञं प्रत्युदाहरन्ति ।
ग्लाहः । ।


____________________________________________________________________


  1. <प्रजने सर्तेः># । । PS_३,३.७१ । ।



_____Sठाऱ्ठ्JKव्_३,३.७१ः
सर्तेः धातोः प्रजने विषये अप्प्रत्ययो भवति ।
घञोऽपवादः ।
प्रजनं प्रथमं गर्भ-ग्रहणं ।
गवां उपसरः ।
पशूनां उपसरः ।
स्त्रीगवीषु पुंगवानां गर्भाधानाय प्रथमं उपसरणं उच्यते । ।


____________________________________________________________________


  1. <ह्वः सम्प्रसारणं च न्य्-अभ्य्-उप-विषु># । । PS_३,३.७२ । ।



_____Sठाऱ्ठ्JKव्_३,३.७२ः

नि अभि उप वि इत्येतेषु उपपदेषु ह्वयतेः धातोः सम्प्रसारणं अप्प्रत्ययः च ।
घञोऽपवादः ।
निहवः ।
अभिहवः ।
उपहवः ।
विहवः ।
एतेषु इति किं ? प्रह्वायः । ।


____________________________________________________________________


  1. <आङि युद्धे># । । PS_३,३.७३ । ।



_____Sठाऱ्ठ्JKव्_३,३.७३ः

आङि उपपदे ह्वयतेर्धातोः सम्प्रसारणं अप्प्रत्ययश्च भवति युद्धेऽभिधेये ।
आहूयन्तेऽस्मिनित्याहवः ।
युद्धे इति किं ? आह्वायः । ।


____________________________________________________________________


[#२६८]

  1. <निपानं आहावः># । । PS_३,३.७४ । ।



_____Sठाऱ्ठ्JKव्_३,३.७४ः

आङ्पूर्वस्य ह्वयतेर्धातोः सम्प्रसारणम्, अप्-प्रत्ययो, वृद्धिश्च निपात्यते निपानं चेदभिधेयं भवति ।
निपिबन्त्यस्मिन्निति निपानं उदकाधार उच्यते ।
आहावः पशूनां ।
कूपोपसरेषु य उदकाधारस्तत्र हि पानाय पशव आहूयन्ते ।
निपानं इति किं ? आह्वायः । ।


____________________________________________________________________


  1. <भावेऽनुपसर्गस्य># । । PS_३,३.७५ । ।



_____Sठाऱ्ठ्JKव्_३,३.७५ः

अनुपर्गस्य ह्वयतेः सम्प्रसारणं अप्प्रत्ययश्च भवति भावे अभिधेये ।
हवः ।
हवे हवे सुहवं शूरं इन्द्रं ।
अनुपसर्गस्य इति किं ? आह्वायः ।
भाव-ग्रहणं अकर्तरि च कारके सञ्ज्ञायां (*३,३.१९) इत्यस्य निरास-अर्थं । ।


____________________________________________________________________


  1. <हनश्च वधः># । । PS_३,३.७६ । ।



_____Sठाऱ्ठ्JKव्_३,३.७६ः

भावेऽनुपसर्गस्य इति वर्तते ।
हन्तेर्धातोः अनुपसर्गे भावे अप्प्रत्ययो भवति, तत्संनियोगेन च भधादेशः, स चान्तोदात्तः ।
तत्र+उदात्त-निव्éत्तिस्वरेण अप उदात्तत्वं भवति ।
वधश्चोराणां ।
वधो दस्यूनां ।
भावे इत्येव, घातः ।
अनुपसर्गस्य इत्येव, प्रघातः, विघातः ।
चकारो भिन्न-क्रमत्वान्नादेशेन सम्बध्यते ।
किं तर्थि ? प्रकृतेन प्रत्ययेन ।
अप्च, यश्च अपरः प्राप्नोति ।
तेन घञपि भवति ।
घातो वर्तते । ।


____________________________________________________________________


  1. <मूर्तौ घनः># । । PS_३,३.७७ । ।



_____Sठाऱ्ठ्JKव्_३,३.७७ः

हनः इत्येव ।
मूर्तिः काठिन्यं ।
मूर्तौ अभिधेयायां हन्तेः अप्प्रत्ययो भवति, घनश्चादेशः ।
अभ्रघनः ।
दधिघनः ।
कथं घनं दधि इति ? धर्म-शब्देन धर्मी भण्यते । ।


____________________________________________________________________


  1. <अन्तर्घनो देशे># । । PS_३,३.७८ । ।



_____Sठाऱ्ठ्JKव्_३,३.७८ः

अन्तः पूर्वात्हन्तेः अप्प्रत्ययो भवति, घनादेशश्च भवति देशेऽभिधेये ।
अन्तर्घनः ।
सञ्ज्ञीभूतो वाहीकेसु देशविशेष उच्यते ।
अन्ये णकारं पठन्ति अन्तर्घणो देशः इति ।
तदपि ग्राह्यं एव ।
देशे इति किं ? अन्तर्घातोऽन्यः । ।


____________________________________________________________________


[#२६९]

  1. <अगार-एकदेशे प्रघणः प्रघाणाश्च># । । PS_३,३.७९ । ।



_____Sठाऱ्ठ्JKव्_३,३.७९ः

प्र-पूर्वस्य हन्तेः प्रघणः प्रघाणः इत्येतौ शब्दौ निपात्येते अगारैकदेशे वाच्ये ।
प्रघणः, प्रघाणः ।
द्वारप्रकोष्ठो बाह्य उच्यते ।
अगारैकदेशे इति किं ? प्रघातः अन्यः । ।


____________________________________________________________________


  1. <उद्घनोऽत्याधानम्># । । PS_३,३.८० । ।



_____Sठाऱ्ठ्JKव्_३,३.८०ः

उत्-पूर्वात्हन्तेः उद्घनः इति निपात्यतेऽत्याधानं चेद्भवति ।
उद्घनः ।
यस्मिन्काष्ठे स्थापयित्वा अन्यानि काष्ठानि तक्ष्यन्ते तदभिधीयते ।
उद्घातोऽन्यः । ।

____________________________________________________________________


  1. <अपघनोऽङ्गम्># । । PS_३,३.८१ । ।



_____Sठाऱ्ठ्JKव्_३,३.८१ः

अप-पूर्वस्य हन्तेः अपघनः इति निपात्यते, अङ्गं चेत्तद्भवति ।
अपघनः अङ्गं ।
अवयवः एकदेशः, न सर्वः ।
किं तर्हि ? पाणिः पादश्च अभिधीयते ।
अपघातः अन्यः । ।


____________________________________________________________________


  1. <करणेऽयो-विद्रुषु># । । PS_३,३.८२ । ।



_____Sठाऱ्ठ्JKव्_३,३.८२ः

हनः इति वर्तते ।
अयस्वि द्रु इत्येतेषु उपपदेषु हन्तेः धातोः करणे कारके अप्प्रत्ययो भवति, घनादेशश्च ।
अयो हन्यते अनेन इति अयोघनः ।
विघनः ।
द्रुघनः ।
द्रुघणः इति केचिदुदाहरन्ति ।
कथं णत्वं ? अरीहणादिषु पाठाथ् ।
पूर्वपदात्सञ्ज्ञायां अगः (*८,४.३) इति वा । ।


____________________________________________________________________


  1. <स्तम्बे क च># । । PS_३,३.८३ । ।


_____Sठाऱ्ठ्JKव्_३,३.८३ः

करणे हनः इति वर्तते ।
स्तम्ब-शब्दे उपपदे करणे कारके हन्तेः कः प्रत्ययो भवति ।
चकारातप्च, तत्र घनादेशः ।
स्तम्बघ्नः, स्तम्बघनः ।
स्त्रियां स्तम्बघ्ना, स्तम्बघना इति इष्यते ।
करणे इत्येव, स्तम्बघातः । ।


____________________________________________________________________


  1. <परौ घः># । । PS_३,३.८४ । ।



_____Sठाऱ्ठ्JKव्_३,३.८४ः

करणे हनः इत्येव ।
परि-शब्दे उपपदे अन्तेर्धातोः अप्प्रत्ययो बह्वति करणे कारके, घ-शब्दश्चादेशः ।
परिहन्यते अनेन इति परिघः ।
पलिघः । ।


____________________________________________________________________


  1. <उपघ्न आश्रये># । । PS_३,३.८५ । ।



_____Sठाऱ्ठ्JKव्_३,३.८५ः

उप-पूर्वात्हन्तेः अप्प्रत्ययः उपधा-लोपश्च निपात्यते आश्रयेऽभिधेये ।
आश्रय-शब्दः सामीप्यं प्रत्यासत्तिं लक्षयति ।
पर्वतोपघ्नः ।
ग्रामोपघ्नः ।
आश्रये इति किं ? पर्वतोपघात एव अन्यः । ।

____________________________________________________________________

[#२७०]

  1. <सङ्घ-उद्घौ गण-प्रशंसयोः># । । PS_३,३.८६ । ।



_____Sठाऱ्ठ्JKव्_३,३.८६ः

समुदोः उपपदयोः हन्तेः धातोः अप्प्रत्ययो भवति, टि-लोपः घत्वं च निपात्यते, यथासङ्ख्यं गणेऽभिधेये, प्रशंसायां गम्यमानायां ।
सङ्घः पशूनां ।
उद्घो मनुष्यः ।
गण-प्रशंसयोः इति किं ? सङ्घातः । ।


____________________________________________________________________


  1. <निघो निमितम्># । । PS_३,३.८७ । ।



_____Sठाऱ्ठ्JKव्_३,३.८७ः

निघः इति नि-पूर्वाद्हन्तेः अप्प्रत्ययः, टि-लोपो घत्वं च निपात्यते, निमितं चेदभिधेयं भवति ।
समन्तात्मितं निमितम्, समारोहपरिणाहं ।
निघाः वृक्षाः ।
निघाः शालयः ।
निमितं इति किं ? निघातः । ।


____________________________________________________________________


  1. <ड्वितः क्त्रिः># । । PS_३,३.८८ । ।



_____Sठाऱ्ठ्JKव्_३,३.८८ः

भावेऽकर्तरि च कारके इति वर्तते ।
डु इत्यस्य तस्माद्ड्वितो धातोः क्त्रिः प्रत्ययो भवति ।
त्रेर्मं नित्यं (*४,४.२०) इति वचनात्केवलो न प्रयुज्यते ।
डुपचष्पाके - पक्त्रिमं ।
डुवप्बीजसन्ताने - उप्त्रिमं ।
डुकृञ्- कृत्रिमं । ।


____________________________________________________________________


  1. <ट्वितोऽथुच्># । । PS_३,३.८९ । ।



_____Sठाऱ्ठ्JKव्_३,३.८९ः

टु इत्यस्य, तस्मात्ट्वितो धातोः अथुच्प्रत्ययो भवति भावादौ ।
टुवेपृ कम्पने - वेपथुः ।
टुओश्वि गतिवृद्ध्योः - श्वयथुः ।
टुक्षु शब्दे - क्षवथुः । ।


____________________________________________________________________


  1. <यज-याच-यत-विच्छ-प्रच्छ-रक्षो नङ्># । । PS_३,३.९० । ।



_____Sठाऱ्ठ्JKव्_३,३.९०ः

भावे अकर्तरि च कारके इति वर्तते ।
यज-आदिभ्यो धातुभ्यो नङ्प्रत्ययो भवति ।
ङकारो गुण-प्रतिषेध-अर्थः ।
यज्ञः ।
याच्ञा ।
यत्नः ।
विश्नः ।
प्रश्नः ।
रक्ष्णः ।
प्रच्छेः असम्प्रसारणं ज्ञापकात्प्रश्ने च आसन्न-काले (*३,२.११७) इति । ।


____________________________________________________________________


  1. <स्वपो नन्># । । PS_३,३.९१ । ।



_____Sठाऱ्ठ्JKव्_३,३.९१ः

स्वपेर्धातोः नन्प्रत्ययो भवति ।
नकरः स्वर-अर्थः ।
स्वप्नः । ।


____________________________________________________________________


[#२७१]

  1. <उपसर्गे घोः किः># । । PS_३,३.९२ । ।



_____Sठाऱ्ठ्JKव्_३,३.९२ः

भावे अकर्तरि च कारके इति वर्तते ।
उपसर्गे उपपदे घु-सञ्ज्ञकेभ्यः धातुभ्यः किः प्रत्ययो भवति ।
कित्करणं आतो लोप-अर्थं ।
प्रदिः ।
प्रधिः ।
अन्तर्धिः । ।


____________________________________________________________________

  1. <कर्मण्यधिकरणे च># । । PS_३,३.९३ । ।



_____Sठाऱ्ठ्JKव्_३,३.९३ः

घोः इत्येव ।
कर्मण्युपपदे घु-सञ्ज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति अधिकरणे कारके ।
जलं धीयते अस्मिनिति जलधिः ।
शरधिः ।
अधिकरन-ग्रहणमर्थान्तरनिरास-अर्थं ।
चकारः प्रत्यय-अनुकर्षण-अर्थः । ।


____________________________________________________________________


  1. <स्त्रियां क्तिन्># । । PS_३,३.९४ । ।



_____Sठाऱ्ठ्JKव्_३,३.९४ः

भावे अकर्तरि च कारके ति वर्तते ।
स्त्रीलिङ्गे भावादौ धातोः क्तिन्प्रत्ययो भवति ।
घञजपामपवादः ।
कृतिः ।
चितिः ।
मतिः ।
क्तिन्नावादिभ्यश्च वक्तव्यः ।
आबादयः प्रयोगतोऽनुसर्तव्याः ।
आप्तिः ।
राद्धिः ।
दीप्तिः ।
स्रस्तिः ।
ध्वस्तिः ।
लब्धिः ।
श्रुयजिस्तुभ्यः करणे ।
श्रूयते अनया इति श्रुतिः ।
इष्टिः ।
स्तुतिः ।
ग्लाम्लाज्याहाभ्यो निः ।
ग्लानिः ।
म्लानिः ।
ज्यानिः ।
हानिः ।
éकारल्वादिभ्यः क्तिन्निष्ठावद्भवति इति वक्तव्यं ।
कीर्णिः ।
गीर्णिः ।
जीर्णिः ।
शीर्णिः ।
लूनिः ।
यूनिः ।
सम्पदादिभ्यः क्विप् ।
सम्पद् ।
विपद् ।
प्रतिपद् ।
क्तिन्नपि इष्यते ।
सम्पत्तिः ।
विपत्तिः । ।


____________________________________________________________________


[#२७२]

  1. <स्था-गा-पापचो भावे># । । PS_३,३.९५ । ।



_____Sठाऱ्ठ्JKव्_३,३.९५ः

स्त्रियां इति वर्तते ।
स्थादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावे क्तिन्प्रत्ययो भवति ।
अङोऽपवादस्य बाधकः ।
प्रस्थितिः ।
उद्गीतिः ।
सङ्गीतिः ।
प्रपीतिः ।
इति ज्ञापकात्नात्यन्ताय बाधा भवति इति । ।


____________________________________________________________________


  1. <मन्त्रे वृष-इष-पच-मन-विद-भू-वी-रा उदात्तः># । । PS_३,३.९६ । ।



_____Sठाऱ्ठ्JKव्_३,३.९६ः

भावे स्त्रियां इति वर्तते ।
मन्त्रे विषये वृषादिभ्यः धातुभ्यः क्तिन्प्रत्ययो भवति उदात्तः ।
प्रकृति-प्रत्यययोः विभक्ति-विपरिणामेन सम्बन्धः ।
कस्मादेवं कृतं ? वैचित्र्य-अर्थं ।
वृष्टिः ।
इष्टिः ।
पक्तिः ।
मतिः ।
वित्तिः ।
भूतिः ।
वीतिः ।
रातिः ।
सर्वत्र सर्वधातुभ्यः सामान्येन विहित एव क्तिन् ।
उदात्त-अर्थं वचनं ।
इषेस्तु इच्छा (*३,३.१०१) इति निपातनं वक्ष्यति, ततः क्तिन्नपि विधीयते ।
मन्त्रादन्यत्र आदिरुदात्तः । ।


____________________________________________________________________


  1. <ऊति-यूति-जूति-साति-हेति-कीर्तयश्च># । । PS_३,३.९७ । ।



_____Sठाऱ्ठ्JKव्_३,३.९७ः
मन्त्रे इति न अनुवर्तते ।
ऊत्यादयः शब्दा निपात्यन्ते ।
उदात्तः इति वर्तते ।
अवतेः ज्वर-त्वर-स्रिव्य्-अवि-मवां उपधायाश्च (*६,४.२०) इति ऊटः ।
ऊतिः ।
स्वरार्थं वचनं ।
यौतेर्जवतेश्च यूतिः, जूतिः ।
दीर्धात्वं च निपात्यते ।
सातिः ।
स्यतेः इत्वाभावो निपात्यते, सनोतेर्वा जन-सन-खनां सञ्ज्ञालोः (*६,४.४२) इत्यात्वे कृते स्वरार्थं निपातनं ।
हन्तेर्हिनोतेर्वा हेतिः ।
कीर्तयतेः कीर्तिः । ।


____________________________________________________________________


  1. <व्रज-यजोर्भावे क्यप्># । । PS_३,३.९८ । ।


_____Sठाऱ्ठ्JKव्_३,३.९८ः

उदात्तः इत्येव ।
व्रज-यजोः धात्वोः स्त्री-लिङ्गे भावे क्यप्प्रत्ययो भवति उदात्तः ।
क्तिनोऽपवादः ।
व्रज्या ।
इज्या ।
पित्करणं उत्तरत्र तुगर्थं । ।


____________________________________________________________________


  1. <सञ्ज्ञायां सम्-अज-निषद-निपत-मन-विद-षुञ्-शीङ्-भृञ्-इणः># । । PS_३,३.९९ । ।



_____Sठाऱ्ठ्JKव्_३,३.९९ः

भावे इति न स्वर्यते ।
पूर्व एव अत्र अर्थाधिकारः ।
समजादिभ्यो धातुभ्यः स्त्रियां क्यप्प्रत्ययो भवति उदात्तः सञ्ज्ञायां विषये ।
समजन्ति अस्यामिति समज्या ।

[#२७३]

निषद्या ।
निपत्या ।
मन्या ।
विद्या ।
सुत्या ।
शय्या ।
भृत्या ।
इत्या ।
कथं तदुक्तं स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति इति ? भावाधिकारो भावव्यापारः वाच्यत्वेन विवक्षितः, न तु शास्त्रीयोऽधिकारः । ।


____________________________________________________________________


  1. <कृञः श च># । । PS_३,३.१०० । ।



_____Sठाऱ्ठ्JKव्_३,३.१००ः

करोतेर्धातोः स्त्रियां शः प्रत्ययो भवति ।
चकारात्क्यप्च ।
योगविभागोऽत्र कर्तव्यः, क्तिन्नपि यथा स्याथ् ।
क्रिया, कृत्या, कृतिः । ।


____________________________________________________________________


  1. <इच्च्या># । । PS_३,३.१०१ । ।



_____Sठाऱ्ठ्JKव्_३,३.१०१ः

इषेः धातोः शः प्रत्ययो यगभावश्च निपात्यते ।
इच्छा ।
परिचर्यापरिसर्यामृगयाटाट्यानां उपसङ्ख्यानं ।
परिचर्या ।
परिसर्या ।
मृगया ।
अटाट्या ।
जागर्तेरकारो वा ।
जागरा, जागर्या । ।


____________________________________________________________________


  1. <अ प्रत्ययात्># । । PS_३,३.१०२ । ।



_____Sठाऱ्ठ्JKव्_३,३.१०२ः

प्रत्ययान्तेभ्यो धातुभ्यः स्तिर्यां अकारः प्रत्ययो भवति ।
क्तिनोऽपवादः ।
चिकीर्षा ।
जिहीर्षा ।
पुत्रीया ।
पुत्रकाम्या ।
लोलूया ।
कण्डूया । ।


____________________________________________________________________


  1. <गुरोश्च हलः># । । PS_३,३.१०३ । ।



_____Sठाऱ्ठ्JKव्_३,३.१०३ः
हलन्तो यो धातुः गुरुमान्, ततः स्त्रियां अकारः प्रत्ययो भवति ।
क्तिनोऽपवादः ।
कुण्डा ।
हुण्डा ।
ईहा ।
ऊहा ।
गुरोः इति किं ? भक्तिः ।
हलः इति किं ? नीतिः । ।


____________________________________________________________________


  1. <षिद्-भिदादिभ्योऽङ्># । । PS_३,३.१०४ । ।



_____Sठाऱ्ठ्JKव्_३,३.१०४ः

षिद्भ्यः भिदादिभ्यश्च स्त्रियां अङ्प्रत्ययो भवति ।
गणपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते ।
ज्éष्- जरा ।
त्रपूष्- त्रपा ।
भिदादिभ्यः खल्वपि - भिदा ।
छिदा ।
विदा ।
क्षिपा ।
गुहा गिर्योषध्योः ।
श्रद्धा ।
मेधा ।
गोधा ।
आरा ।
हारा ।
कारा ।
क्षिया ।
तारा ।
धारा ।
लेखा ।
रेखा ।
चूडा ।
पीड ।
वपा ।
वसा ।
सृजा ।
क्रपेः सम्प्रसारणं च - कृपा ।
भिदा विदारणे ।
भित्तिः अन्या ।
छिदा द्वैधीकरणे ।
छित्तिः अन्या ।
आरा शस्त्र्यां ।
आर्तिः अन्या ।
धारा प्रपाते ।
धृतिः अन्या । ।


____________________________________________________________________


[#२७४]

  1. <चिन्ति-पूजि-कथि-कुम्बि-चर्चश्च># । । PS_३,३.१०५ । ।



_____Sठाऱ्ठ्JKव्_३,३.१०५ः

चिति स्मृत्याम्, पूज पूजायाम्, कथ वाक्यप्रबन्धे, कुबि आच्छादने, चर्च अध्ययने चुरादिः, एभ्यो धातुभ्यः युचि प्राप्ते स्त्रियां अङ्प्रत्ययो भवति ।
चिन्ता ।
पूजा ।
कथा ।
कुम्बा ।
चर्चा ।
चकारात्युचपि भवति ।
चिन्तना । ।


____________________________________________________________________

  1. <आतश्च+उपसर्गे># । । PS_३,३.१०६ । ।



_____Sठाऱ्ठ्JKव्_३,३.१०६ः

आकारान्तेभ्यः उपसर्गे उपपदे स्त्रियं अङ्प्रत्ययो भवति ।
क्तिनोऽपवादः ।
प्रदा ।
उपदा ।
प्रधा ।
उपधा श्रदन्तरोरुपसर्गवद्वृत्तिः ।
श्रद्धा ।
अन्तर्धा । ।


____________________________________________________________________


  1. <ण्य्-आस-श्रन्थो युच्># । । PS_३,३.१०७ । ।



_____Sठाऱ्ठ्JKव्_३,३.१०७ः

ण्यन्तेभ्यो धातुभ्यः, आस श्रन्थ इत्येताभ्यां च स्त्रियां युच्प्रत्ययो भवति ।
अकारस्य अपवादः ।
कारणा ।
हारणा ।
आसना ।
श्रन्थना ।
कथं आस्या ? ऋ-हलोर्ण्यत्(*३,१.१२४) भविष्यति ।
वासरूप-प्रतिषेधश्च स्त्रीप्रकरण-विषयस्य+एव+उत्सर्ग-अपवादस्य ।
श्रन्थिः क्र्यादिर्गृह्यते श्रन्थ विमोचनप्रतिहर्षयोः इति , न चुरादिः श्रन्थ ग्रन्थ सन्दर्भे इति ।
ण्यन्तत्वेन+एव सिद्धत्वाथ् ।
घट्टिवन्दिविधिभ्य उपसङ्ख्यानं ।
घट्टना ।
वन्दना ।
वेदना ।
घट्टेः भौवादिकस्य ग्रहणं घट्ट चलने इति, न चुअरादिकस्य, तस्य णेः इत्येव सिद्धत्वाथ् ।
इषेरनिच्छार्थस्य युज्वक्तव्यः ।
अध्येषणा ।
अन्वेषना ।
परेर्वा ।
पर्येषना, परीष्टिः । ।


____________________________________________________________________


[#२७५]

  1. <रोग-आख्यायं ण्वुल्बहुलम्># । । PS_३,३.१०८ । ।



_____Sठाऱ्ठ्JKव्_३,३.१०८ः

रोगाख्यायां गम्यमानायां धातोः ण्वुल्प्रत्ययो बहुलं भवति ।
क्तिन्नादीनां अपवादः ।
आख्या-ग्रहणं रोगस्य चेत्प्रत्ययान्तेन सञ्ज्ञा भवति ।
बहुल-ग्रहणं व्यभिचर-अर्थं ।
प्रच्छर्दिका ।
प्रवाहिका ।
विचर्चिका ।
न च भवति ।
शिरोर्तिः ।
धात्वर्थ-निर्देशे ण्वुल्वक्तव्यः ।
आशिका ।
शायिका वर्तते ।
इक्श्तिपौ धातु-निर्देशे ।
भिदिः ।
छिदिः ।
पचतिः ।
पठतिः ।
वर्णात्कारः ।
निर्देश इति प्रकृतं ।
अकारः ।
इकारः ।
रादिफः ।
रेफः ।
मत्वर्थाच्छः ।
अकारलोपः ।
मत्वर्थीयः ।
इणजादिभ्यः ।
आजिः ।
आतिः ।
आदिः ।
इक्कृष्यादिभ्यः ।
कृषिः ।
किरिः । ।


____________________________________________________________________


  1. <सञ्ज्ञायाम्># । । PS_३,३.१०९ । ।



_____Sठाऱ्ठ्JKव्_३,३.१०९ः

सञ्ज्ञायां विषये धातोः ण्वुल्प्रत्ययो भवति ।
उद्दालकपुष्पभञ्जिका ।
वरणपुष्पप्रचायिका ।
अभ्यूषखादिका ।
आचोषखादिका ।
शालभञ्जिका ।
तालभञ्जिका । ।


____________________________________________________________________


[#२७६]

  1. <विभा-आषख्यान-परिप्रश्नयोरिञ्च># । । PS_३,३.११० । ।


_____Sठाऱ्ठ्JKव्_३,३.११०ः

पूर्वं परिप्रश्नः, पश्चादाख्यानं ।
सूत्रेऽल्पाच्तरस्य पूर्वनिपातः ।
परिप्रश्ने आख्याने च गम्यमाने धतोः इञ्प्रत्ययो भवति, चकारात्ण्वुलपि ।
विभाष-ग्रहणात्परोऽपि यः प्राप्नोति, सोऽपि भवति ।
कां त्वं कारिमकार्षीः, कां कारिकां अकार्षीः, कां क्रियामकार्षीः, कां कृत्यामकार्षीः, का कृतिमकार्षीः ? सर्वां कारिमकार्षम्, सर्वां कारिकां अकार्षम्, सर्वां क्रियामकार्षम्, सर्वां कृत्यामकार्षम्, सर्वां कृतिमकार्षं ।
कां गणिमजीगणः, कां गणिकामजीगणः, कां गणनामजीगणः ? सर्वां गणिमजीगणम्, सर्वां गणिकाम्, सर्वां गणनां ।
एवं कां याजिम्, कां याजिकाम्, कां याचिम्, कां यचिकाम्, कां पाचिम्, कां पाचिकां कां पचाम्, कां पक्तिम्, कां पाठिम्, कां पाठिकाम्, कां पठितिं इति द्रष्टव्यं ।
आख्यानपरिप्रश्नयोः इति किं ? कृतिः ।
हृतिः । ।


____________________________________________________________________


  1. <पर्याय-अर्ह-र्ण-उत्पत्तिषु ण्वुच्># । । PS_३,३.१११ । ।



_____Sठाऱ्ठ्JKव्_३,३.१११ः

पर्यायः परिपाटीक्रमः ।
अर्हणमर्हः, तद्योग्यता ।
ऋणं तत्यत्परस्य धार्यते ।
उत्पत्तिः जन्म ।
एतेष्वर्थेषु धातोः ण्वुच्प्रत्ययो भवति ।
क्तिन्नादीनां अपवादः ।
पर्याये तावत्- भवतः शायिका ।
भवतोऽग्रग्रासिका ।
अर्हे - अर्हति भवानिक्षुभक्षिकां ।
ऋणे - इक्षुभक्षिकां मे धरयसि ।
ओदनभोजिकां ।
पयःपायिकां ।
उत्पत्तौ - इक्षुभक्षिका मे उदपादि ।
ओदनभोजिका ।
पयःपायिका ।
विभाषा इत्येव, चिकीर्षा उत्पद्यते ।
ण्वुलि प्रकृते प्रत्ययान्तरकरनं स्वर-अर्थं । ।

____________________________________________________________________


  1. <आक्रोशे नञ्यतिः># । । PS_३,३.११२ । ।



_____Sठाऱ्ठ्JKव्_३,३.११२ः

विभाषा इति निवृत्तं ।
आक्रोशः शपनं ।
आक्रोशे गम्यमाने नञि उपपदे धातोः अनिः प्रत्ययो भवति ।
क्तिन्नादीनां अपवादः ।
अकरणिस्ते वृषल भूयाथ् ।
आक्रोशे इति किं ? अकृतिस्तस्य कटस्य ।
नञि इति किं ? मृतिस्ते वृषल भूयात् । ।


____________________________________________________________________


  1. <कृत्य-ल्युटो बहुलम्># । । PS_३,३.११३ । ।



_____Sठाऱ्ठ्JKव्_३,३.११३ः

भावे, अकर्तरि च कारके इति निवृतं ।
कृत्य-सञ्ज्ञकाः प्रत्ययाः ल्युट्च भौलं अर्थेषु भवन्ति ।
यत्र विहितास्ततोऽन्यत्र अपि भवन्ति ।
भावकर्मणोः कृत्या विहिताः कारकान्तरेऽपि भवन्ति ।
स्नानीयं चूर्णं ।
दानीयो ब्राह्मणः ।
करण-अधिकरणयोः भावे च ल्युठ् ।
अन्यत्र अपि भवति ।
अपसेचनं ।
अवस्रावणं ।
राजभोजनाः शालयः ।
राजाच्छादनानि वासांसि ।
प्रस्कन्दनं ।
प्रपतनं ।
बहुल-ग्रहणादन्येऽपि कृतः यथाप्राप्तं अभिधेयं व्यभिचरन्ति ।
पादाभ्यां ह्रियते पादहारकः ।
गले चोप्यते गलेचोपकः । ।


____________________________________________________________________


[#२७७]

  1. <नपुंसके भावे क्तः># । । PS_३,३.११४ । ।



_____Sठाऱ्ठ्JKव्_३,३.११४ः

नपुंसक-लिङ्गे भावे धतोः क्तः प्रत्ययो भवति ।
हसितं ।
सहितं ।
जल्पितं । ।


____________________________________________________________________


  1. <ल्युट्च># । । PS_३,३.११५ । ।



_____Sठाऱ्ठ्JKव्_३,३.११५ः

नपुंसक-लिङ्गे भावे धातोः ल्युट्प्रत्ययो भवति ।
हसनं छात्रस्य ।
शोभनं ।
जोपनं ।
शयनं ।
आसनं ।
योगविभाग उत्तरार्थः । ।

____________________________________________________________________


  1. <कर्मणि च येन संस्पर्शात्कर्तुः शरीर-सुखम्># । । PS_३,३.११६ । ।



_____Sठाऱ्ठ्JKव्_३,३.११६ः

येन कर्मणा संस्पृश्यमानस्य कर्तुः शरीर-सुखं उत्पद्यते, तस्मिन्कर्मणि उपपदे धतोः नपुंसक-लिङ्गे भावे ल्युट्प्रत्ययो भवति ।
पूर्वेण+एव सिद्धे प्रत्यये नित्यसमास-अर्थं वचनं ।
उपपद-समासो हि नित्यः समासः ।
पयःपानं सुखं ।
ओदनभोजनं सुखं ।
कर्मणि इति किं ? तूलिकाया उत्थानं सुखं ।
संस्पर्शातिति किं ? अग्निकुण्डस्य उपासनं सुखं ।
कर्तुः इति किं ? गुरोः स्नापनं सुखं ।
स्नापयतेः न गुरुः कर्ता, किं तर्हि, कर्म ।
शरीरग्रहणं किं ? पुत्रस्य परिष्वजनं सुखं ।
सुखं मानसी प्रीतिः ।
सुखं इति किं ? कण्ट्कानां मर्दनं दुःखं ।
सर्वत्रासमासः प्रत्युदाह्रियते । ।


____________________________________________________________________


  1. <करण-अधिकरणयोश्च># । । PS_३,३.११७ । ।



_____Sठाऱ्ठ्JKव्_३,३.११७ः

करणेऽधिकरणे च कारके धातोः ल्युट्प्रत्ययो भवति ।
इध्मप्रव्रश्चनः ।
पलाशशातनः ।
अधिकरने - गोदोहनी ।
सक्तुधानी । ।

____________________________________________________________________


  1. <पुंसि सञ्ज्ञायां घः प्रायेण># । । PS_३,३.११८ । ।



_____Sठाऱ्ठ्JKव्_३,३.११८ः

करन-अधिकरनयोः इत्येव ।
पुंलिङ्गयोः करण-अधिकरनयोरभिधेययोः धातोः घः प्रत्ययो भवति समुदायेन चेत्सञ्ज्ञा गम्यते ।
प्रायग्रहणं अकार्त्स्न्य-अर्थं ।
दन्तच्छदः ।
उरश्छदः पटः ।
अधिकरणे खल्वपि - एत्य तस्मिन्कुर्वन्ति इति आकरः ।
आलयः ।
पुंसि इति किं ? प्रसाधनं ।
सञ्ज्ञायां इति किं ? प्रहरणो दण्डः ।
घकारः छन्देर्घेऽद्व्य्-उपसर्गस्य (*६,४.९६) विशेषण-अर्थः । ।


____________________________________________________________________


[#२७८]

  1. <गोचर-सञ्चर-वह-व्रज-व्यज-आपण-निगमाश्च># । । PS_३,३.११९ । ।



_____Sठाऱ्ठ्JKव्_३,३.११९ः

गोचरादयः शब्दाः घ-प्रययान्ता निपात्यन्ते पूर्वस्मिन्नेव अर्थे ।
हलश्च (*३,३.१२१) ।
इति घञं वक्ष्यति, तस्य अयं अपवादः ।
गावश्चरन्ति अस्मिनिति गोचरः ।
सञ्चरन्ते अनेन इति सञ्चरः ।
वहन्ति तेन वहः ।
व्रजन्ति तेन व्रजः ।
व्यजन्ति तेन व्यजः ।
निपातनातजेर्व्यघञपोः (*२,४.५६) इति वीभावो न भवति ।
एत्य तस्मिन्नापणन्ते इत्यापणः ।
निगच्छन्ति तस्मिनिति निगमः ।
चकारोऽनुक्त्-असमुच्चय-अर्थः ।
कषः ।
निकषः । ।


____________________________________________________________________

  1. <अवे त्é-स्त्रोर्घञ्># । । PS_३,३.१२० । ।



_____Sठाऱ्ठ्JKव्_३,३.१२०ः

अवे उपपदे तरतेः स्तृणातेश्च धातोः करन-अधिकरणयोः सञ्ज्ञायां घञ्प्रत्ययो भवति ।
घस्यापवादः ।
ञकारो वृद्ध्य्-अर्थः स्वरार्थश्च ।
घकारः उत्तरत्र कुत्व-अर्थः ।
अवतारः ।
अवस्तारः ।
कथं अवतारो नद्याः, न हीयं सज्ञा ? प्राय-अनुवृत्तेः असञ्ज्ञायां अपि भवति । ।


____________________________________________________________________


  1. <हलश्च># । । PS_३,३.१२१ । ।



_____Sठाऱ्ठ्JKव्_३,३.१२१ः

पुंसि सञ्ञायाम्, करण-अधिकरणयोश्च इति सर्वं अनुवर्तते ।
हलन्ताद्धातोः करण-अधिकरणयोः घञ्प्रत्ययो भवति ।
घस्य अपवादः ।
लेखः ।
वेदः ।
वेष्टः ।
वन्धः ।
मार्गः ।
अपामार्गः ।
वीमार्गः । ।


____________________________________________________________________


  1. <अध्याय-न्याय-उद्याव-संहार-आधार-आवायाश्च># । । PS_३,३.१२२ । ।



_____Sठाऱ्ठ्JKव्_३,३.१२२ः

अध्याय-आदयः शब्दाः घञन्ता निपात्यन्ते ।
पुंसि सञ्ज्ञायां घे प्राप्ते घञ्विधीयते ।
अहलन्त-अर्थ आरम्भः ।
अधीयते अस्मिनिति अध्यायः ।
नीयत अनेन इति न्यायः ।
उद्युवन्ति अस्मिनिति उद्यावः ।
संह्रियन्तेऽनेन इति संहारः ।
आघ्रियन्ते अस्मिनिति आधारः ।
आवयन्ति अस्मिन्निति आवायः ।
चकारोऽनुक्तस्-अमुच्चय-अर्थः ।
अवहारः । ।


____________________________________________________________________


[#२७९]

  1. <उदङ्कोऽनुदके># । । PS_३,३.१२३ । ।



_____Sठाऱ्ठ्JKव्_३,३.१२३ः

उदङ्क इति निपात्यते अनुदक-विषयश्चेद्धात्व्-अर्थो भवति ।
उत्पूर्वादञ्चतेः घञ्निपात्यते ।
ननु च हलश्च (*३,३.१२१) ।
इति सिद्ध एव घञ्? उदके प्रतिषेध-अर्थं इदं वचनं ।
तैलोदङ्कः ।
अनुदके इति किं ? उदकोदञ्चनः ।
घः कस्मान्न प्रत्युदाह्रियते ? विशेषाभावाथ् ।
घञ्यपि थाथादिस्वरेन अन्तोदात्त एव । ।


____________________________________________________________________


  1. <जालं आनायः># । । PS_३,३.१२४ । ।



_____Sठाऱ्ठ्JKव्_३,३.१२४ः

आनायः इति निपात्यते जालं चेत्तद्भवति ।
आङ्-पूर्वात्नयतेः करने घञ्निपात्यते ।
आनायो मत्स्यानां ।
आनायो मृगाणां । ।


____________________________________________________________________


  1. <खनो घ च># । । PS_३,३.१२५ । ।



_____Sठाऱ्ठ्JKव्_३,३.१२५ः

खनतेः धातोः करण-अधिकरणयोः घः प्रत्ययो भवति ।
चकारात्घञ्च ।
आखनः, आखानः ।
डो वक्तव्यः ।
आखः ।
डरो वक्तव्यः ।
आखरः ।
इको वक्तव्यः ।
आखनिकः ।
इकवको वक्तव्यः ।
आखनिकवकः । ।


____________________________________________________________________


  1. <ईषद्-दुः-सुषु कृच्छ्र-अकृच्च्र-अर्थेषु खल्># । । PS_३,३.१२६ । ।



_____Sठाऱ्ठ्JKव्_३,३.१२६ः

करण-अधिकरणयोः इति निवृत्तं ।
ईषत्दुस्सु इत्येतेषु उपपदेषु कृच्छ्राकृच्छ्र-अर्थेषु धतोः खल्प्रत्ययो भवति ।
कृच्छ्रं दुःखम्, तद्दुरो विशेषणं ।
अकृच्छ्रं सुखम्, तदितरयोः विशेषनम्, सम्भवाथ् ।
ईषत्करो भवता कटः ।
दुष्करः ।
सुकरः ।
ईषद्भोजः ।
दुर्भोजः ।
सुभोजः ।
ईषदादिषु इति किं ? कृच्छ्रेण कार्यः कटः ।
कृच्छ्राकृच्छ्र-अर्थेषु इति किं ? ईषत्कार्यः ।
लकारः स्वर-अर्थः ।
खित्-करणं उत्तरक्र मुमर्थं । ।


____________________________________________________________________


[#२८०]

  1. <कर्तृ-कर्मणोश्च भू-क्र्ञोः># । । PS_३,३.१२७ । ।


_____Sठाऱ्ठ्JKव्_३,३.१२७ः

भवतेः करोतेश्च धातोः यथासङ्ख्यं कर्तरि कर्मणि च+उपपदे, चकारादीषदादिषु च खल्प्रत्ययो भवति ।
ईषदाढ्यम्भवं भवता ।
दुराढ्यम्भवं ।
ईषदाढ्यङ्करः ।
स्वाढ्यङ्करो देवदत्तो भवता ।
कर्तृ-कर्मणोश्च्व्य्-अर्थयोरिति वक्तव्यं ।
इह मा भूत्, स्वाढ्येन भूयते । ।


____________________________________________________________________


  1. <आतो युच्># । । PS_३,३.१२८ । ।



_____Sठाऱ्ठ्JKव्_३,३.१२८ः

ईषदादयोऽनुवर्तन्ते ।
कर्तृ-कर्मणोः इति न स्वर्यते ।
कृच्छ्राकृच्छ्र-अर्थेषु ईषदादिषु उपपदेषु आकारान्तेभ्यो धतुभ्यः युच्प्रत्ययो भवति ।
खलोऽपवादः ।
ईषत्पानः सोमो भवता ।
दुष्पानः ।
सुपानः ।
ईषद्दानो गौर्भवता ।
दुर्दानः ।
सुदानः । ।


____________________________________________________________________


  1. <छन्दसि गत्य्-अर्थेभ्यः># । । PS_३,३.१२९ । ।



_____Sठाऱ्ठ्JKव्_३,३.१२९ः
ईषदादिसु कृच्छ्राकृच्छ्र-अर्थेषु उपपदेषु गत्य्-अर्थेभ्यो धातुभ्यः छन्दसि विषये युच्प्रत्ययो भवति ।
खलोऽपवादः ।
सूपसदनोऽग्निः ।
सूपसदनं अन्तरिक्षं । ।


____________________________________________________________________


  1. <अन्येभ्योऽपि दृश्यते># । । PS_३,३.१३० । ।



_____Sठाऱ्ठ्JKव्_३,३.१३०ः

अन्येभ्योऽपि धातुभ्यः गत्य्-अर्थेभ्यः छन्दसि विषये युच्प्रत्ययो दृश्यते ।
सुदोहनामकृणोद्ब्रह्मणे गां ।
सुवेदनामकृणोर्ब्रह्मणे गां ।
भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः ।
दुःशासनः ।
दुर्योधनः ।
दुर्दर्शनः ।
दुर्धर्षणः ।
दुर्मर्षणः । ।


____________________________________________________________________


  1. <वर्तमान-सामीप्ये वर्तमानवद्वा># । । PS_३,३.१३१ । ।



_____Sठाऱ्ठ्JKव्_३,३.१३१ः

समीपं एव सामीप्यं ।
ष्यञः स्वार्थिकत्वं ज्ञाप्यते चातुर्वर्ण्यादि-सिद्ध्य्-अर्थं ।
वर्तमान-समीपे भूते भविष्यति च वर्तमानाद्धातोः वर्तमानवत्प्रत्यया वा भवन्ति ।
वर्तमने लट्(*३,२.१२३) इत्यारभ्य यावदुणादयो बहुलं (*३,३.१) इति वर्तामाने प्रत्यया उक्ताः, ते भूत-भविष्यतोर्विधीयन्ते ।

[#२८१]

कदा देवदत्त आगतोऽसि ? अयं आगच्छामि ।
आगच्छन्तं एव मां विद्धि ।
अयं आगमं ।
एषोऽस्मि आगतः ।
कदा देवदत्त गमिष्यसि ? एष गच्छामि ।
गच्छन्तं एव मा विद्धि ।
एष गमिष्यामि ।
गन्तास्मि ।
वत्करणं सर्वसाद्éश्य-अर्थं ।
येन विशेषणेन वर्तमाने प्रत्ययाः विहिताः प्रकृत्योपपदोपाधिना तथा+एव अत्र भवन्ति ।
पवमानः ।
यजमानः ।
अलङ्करिष्णुः ।
सामीप्य-ग्रहणं किं ? विप्रकर्ष-विवक्षायां मा भूत्, परुदगच्छत्पाटलिपुत्रं ।
वर्षेण गमिष्यति ।
यो मन्यते गच्छामि इति पदं वर्तमाने काले एव वर्तते, कालान्तरगतिस्तु वाक्याद्भवति, न च वाक्यगम्यः कालः पदसंस्कारवेलायां उपयुज्यते इति तादृशं वाक्यार्थ-प्रतिपत्तारं प्रति प्रकरणं इदं नारभ्यते ।
तथा च श्वः करिष्यति, वर्षेण गमिष्यति इति सर्वं उपपद्यते । ।


____________________________________________________________________


  1. <आशंसायां भूतवच्च># । । PS_३,३.१३२ । ।


_____Sठाऱ्ठ्JKव्_३,३.१३२ः

वा इत्येव ।
वर्तमान-समीप्ये इति न अनुवर्तते ।
आशंसनं आशंसा, अप्राप्तस्य प्रियार्थस्य प्राप्तुं इच्छा ।
तस्याश्च भविष्यत्कालो विषयः ।
तत्र भविष्यति काले आशंसायां गम्यमानायां धातोः वा भूतवत्प्रत्यया भवन्ति, चकाराद्वर्तमानवच्च ।
उपाध्यायश्चेदागमत्, आगतः, आगच्छति, आगमिष्यति, एते व्याकरणं अध्यगीष्महि, एते व्याकरणं अधीतवन्तः, अधीमहे, अध्येष्यामहे ।
सामान्य-अतिदेशे विशेषानतिदेशाल्लङ्-लिटौ न भवतः ।
आशंसायां इति किं ? आगमिष्यति । ।

____________________________________________________________________


  1. <क्षिप्र-वचने लृट्># । । PS_३,३.१३३ । ।



_____Sठाऱ्ठ्JKव्_३,३.१३३ः

आशंसायां इत्येव ।
क्षिप्रवचने उपपदे आशंसायां गम्यमानायां धातोः लृट्प्रत्ययो भवति ।
भूतवच्च इत्यस्य अयं अपवादः ।
उपाध्यायश्चेत्क्षिप्रं आगमिष्यति, क्षिप्रं व्याकरणं अध्येष्यामहे ।
वचन-ग्रहणं पर्याय-अर्थं ।
क्षिप्रम्, शीघ्रम्, आशु, त्वरितम्, अध्येष्यामहे ।
न इति वक्तव्ये लृड्-ग्रहणं लुटोऽपि विषये यथा स्याथ् ।
श्वः क्षिप्रं अध्येष्यमहे । ।


____________________________________________________________________


  1. <आशंसा-वचने लिङ्># । । PS_३,३.१३४ । ।



_____Sठाऱ्ठ्JKव्_३,३.१३४ः

आशंसा येन+उच्यते तदाशंसावचनं ।
तस्मिन्नुपपदे धातोर्लिङ्प्रत्ययो भवति भूतवच्च इत्यस्य अयं अपवादः ।
उपाध्यायश्चेदागच्छेत्, आशंसे युक्तोऽधीयीय ।
आशंसे अवकल्पये युक्तोऽधीयीय ।
आशंसे क्षिप्रं अधीयीय । ।


____________________________________________________________________


[#२८२]

  1. <न अनद्यतनवत्क्रियाप्रबन्ध-सामीप्ययोः># । । PS_३,३.१३५ । ।



_____Sठाऱ्ठ्JKव्_३,३.१३५ः

भूतानद्यतने भविष्यदनद्यतने च लङ्-लुटौ विहितौ, तयोरयं प्रतिषेधः ।
अनद्यतनवत्प्रत्यय-विधिर्न भवति क्रियाप्रबन्धे सामीप्ये च गम्यमाने ।
क्रियाणां प्रबन्धः सातत्येनानुष्ठानं ।
कालानां सामीप्यं तुल्यजातीयेनाव्यवधानं ।
यावज्जीवं भृशमन्नमदाथ् ।
भृशमन्नं दास्यति ।
यावज्जीवं पुत्रानध्यापिपथ् ।
यावज्जीवमध्यापयिष्यति ।
सामीप्ये खल्वपि - येयं पौर्णमास्यतिक्रान्ता, एतस्यामुपाध्यायोऽग्नीनाधित, सोमेनायष्ट, गामदित ।
येयममावास्या आगामिनी, एतस्यामुपाध्यायोऽग्नीनाधास्यते, सोमेन यक्ष्यते, स गां दास्यते ।
द्वौ प्रतिषेधौ यथाप्राप्तस्य अभ्यनुज्ञापनाय । ।


____________________________________________________________________


  1. <भविष्यति मर्यादा-वचनेऽवरस्मिन्># । । PS_३,३.१३६ । ।



_____Sठाऱ्ठ्JKव्_३,३.१३६ः

नानद्यतनवतिति वर्तते ।
अक्रिय-प्रबन्ध-अर्थम्, असामीप्यार्थं च वचनं ।
भविष्यति काले मर्यादा-वचने सत्यवरस्मिन्प्रविभागेऽनद्यतनवत्प्रत्यय-विधिर्न भवति ।
योऽयमध्वा गन्तव्य आपाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्ष्यामहे, तत्र सक्तून्पास्यामः ।
भविष्यति इति किं ? योऽयमध्वा गतः आपाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र युक्ता अध्यैमहि, तत्र द्विरोदनं अभुञ्ज्महि, तत्र सक्तूनपिबाम ।
मर्यादावचने इति किं ? योऽयमध्वा निरवधिको गन्तव्यः, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, सक्तून्पाता स्मः ।
अवरस्मिनिति किं ? योऽयमध्वा गन्तव्यः आपाटलिपुत्रात्, तस्य यत्परं कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, तत्र सक्तून्पातास्मः ।
इह सूत्रे देशकृता मर्यादा, उत्तरत्र कालकृता ।
तत्र च विशेषं वक्ष्यति । ।


____________________________________________________________________

  1. <काल-विह्भागे च अनहोरात्राणाम्># । । PS_३,३.१३७ । ।



_____Sठाऱ्ठ्JKव्_३,३.१३७ः

भविष्यति मर्यादा-वचनेऽवरस्मिनिति वर्तते ।
कालमर्यादाविभागे सत्यवर्स्मिन्प्रविभागे भविष्यति कालेऽनद्यतनवत्प्रत्ययविधिर्न भवति, न चेदहो-रात्र-सम्भन्धी विभागः, तैस्तेषां च विभागे प्रतिषेधः ।
पूर्वेण+एव सिद्धे वचनं इदं अहो-रात्र-निषेध-अर्थं ।
योग-विभाग उत्तरार्थः ।
योऽयं संवत्सर आगामी, तत्र यदवरमाग्रहायण्याः, तत्र युक्ता अध्येष्यामहे, तत्रौदनं भोक्ष्यामहे ।
भविष्यति इत्येव ।
योऽयं वत्सरोऽतीतः, तस्य यदवरमाग्रहायण्याः, तत्र युक्ता अध्यैमहि, तत्रौदनमभुञ्जमहि ।
मर्यादावचने इत्येव ।
योऽयं निरवधिकः काल आगामी, तस्य यदवरमाग्रहायण्याः, तत्र युक्ता अध्येतास्महे, तत्रौदनं भोक्तास्महे ।
अवरस्मिनित्येव ।
परस्मिन्विभाषां वक्ष्यति ।
अहो-रात्राणां इति किं ? त्रिविधं उदाहरणं - योऽयं मास आगामी, तस्य योऽवरः पञ्चदशरात्रः, योऽयं त्रिंशद्रात्र आगामी, तस्य योऽवरोऽर्धमासः, योऽयं त्रिंशदहोरात्र आगामी, तस्य योऽवरः पञ्चदश-रात्रः, तत्र युक्ता अध्येतासमहे, तत्र सक्तून्पातास्मः ।
सर्वथा अहोरात्रस्पर्शे प्रतिषेधः । ।


____________________________________________________________________


[#२८३]

  1. <परस्मिन्विभाषा># । । PS_३,३.१३८ । ।



_____Sठाऱ्ठ्JKव्_३,३.१३८ः

भविष्यति मर्यादा-वचने कालविभागे च अनहोरात्राणां इति सर्वं अनुवर्तते ।
कालमर्यादाविभागे सति भविस्यति काले परस्मिन्प्रविभागे विभाषा अनद्यतनवत्प्रत्ययविधिर्न भवति, न चेदहो-रात्र-सम्बन्धी प्रविभागः ।
अवरस्मिन्वर्जं पूर्वं अनुवर्तते ।
अवरस्मिन्पूर्वेण प्रतिषेध उक्तः, सम्प्रति परस्मिन्नप्राप्त एव विकल्प उच्यते ।
योऽयं संवत्सर आगामी, तस्य यत्परमाग्रहायण्याः तत्र युक्ता अध्येष्यामहे, अध्येतास्महे, तत्र सक्तून्पास्यामः, तत्र सक्तून्पातास्मः ।
अनहोरात्राणां इत्येव ।
योऽयं त्रिंशद्रात्र आगामी, तस्य यः परः पञ्चदश-रात्रः, तत्र युक्ता अध्येतास्महे, तत्र सक्तून्पातास्मः ।
भविष्यति इत्येव ।
योऽयं संवत्सरोऽतीतः, तस्य यत्परमाग्रहायण्याः, तत्र युक्ता अध्यैमहि, तत्रौदनमभुञ्ज्महि ।
मर्यादावचने इत्येव ।
योऽयं संवत्सरो निरवधिकः काल अगामी, तस्य यत्प्रमाग्रहायण्याः, तत्र युक्ता अध्येतास्महे, तत्र सक्तून्पातास्मः ।
काल-विभागे इत्येव ।
योऽयमध्वा गन्तव्य आपाटलिपुत्रात्, तस्य यत्परं कौशाम्ब्याः, तत्र युक्ता अध्येतास्महे, ओदनं भोक्तास्महे ।
इति सर्वत्र अनद्यतनवत्प्रत्यया उदाहार्याः । ।


____________________________________________________________________


  1. <लिङ्-निमित्ते लृङ्क्रिया-अतिपत्तौ># । । PS_३,३.१३९ । ।



_____Sठाऱ्ठ्JKव्_३,३.१३९ः

भविष्यति इत्यनुवर्तते ।
हेतु-हेतुमतोर्लिङ्(*३,३.१५६) इत्येवं आदिकं लिङो निमित्तं ।
तत्र लिङ्-निमित्ते भविष्यति काले लृङ्प्रत्ययो भवति क्रियातिपत्तौ सत्यां ।
कुतश्चिद्वैगुण्यादनभिनिर्वृत्तिः क्रियायाः क्रियातिपत्तिः ।
दक्षिणेन चेदायास्यन्न शकटं पर्यभविस्यथ् ।
यदि कमलकमाह्वास्यन्न शकटं पर्याभविष्यथ् ।
अभोक्ष्यत भवान्घृतेन यदि मत्समीपमागमिष्यथ् ।
भविष्यत्काल-विषयं एतद्वचनं ।
भविस्यदपर्याभवनं च हेतुमत्, तत्र हेतुभूतं च कमलकाह्वानं ।
लिङ्गिलिङ्गे बुद्धवा तदतिपत्तिं च प्रमाणान्तरादवगम्य वक्ता वाक्यं प्रयुङ्क्ते, यदि कमलकमाह्वास्यन्न शक्टं पर्याभविष्यतिति ।
हेतुहेतुमतोराह्वानापर्याभवनयोः भविष्यत्काल-विषययोः अतिपत्तिः इतो वाक्यादवगम्यते । ।


____________________________________________________________________


  1. <भूते च># । । PS_३,३.१४० । ।



_____Sठाऱ्ठ्JKव्_३,३.१४०ः

लिङ्-निमित्ते लृङ्क्रिय-अतिपत्तौ इति सर्वं अनुवर्तते ।
पूर्वेन भविष्यति विहितः सम्प्रति भूते विधीयते ।
भूते च काले लिङ्-निमित्ते क्रिय-अतिपत्तौ सत्यां लृङ्प्रत्ययो भवति ।
उत-अप्योः समर्थयोर्लिङ्(*३,३.१५२) इत्यारभ्य लिङ्-निमित्तेषु विधानं एतथ् ।
प्राक्ततो विकल्पं वक्ष्यति ।
दृष्टो मया भवत्पुत्रोऽन्नार्थी चङ्क्रम्यमाणः, अपरश्च द्विजो ब्राह्मणार्थी, यदि स तेन दृष्टोऽभविष्यत्, तदा अभिक्ष्यत ।
न तु भुक्तवान्, अन्येन पथा स गतः । ।


____________________________________________________________________


[#२८४]

  1. <वा-ऊ-उत-अप्योः># । । PS_३,३.१४१ । ।



_____Sठाऱ्ठ्JKव्_३,३.१४१ः

भूते लिङ्-निमित्ते लृङ्क्रिय-अतिपत्तौ इति सर्वं अनुवर्तते ।
वा आ उत-अप्योः वोताप्योः ।
मर्यादायां अयं आङ्, न अभिविधौ ।
उत-अप्योः समर्थयोर्लिङ्(*३,३.१५२) इति वक्ष्यति ।
प्रागेतस्मात्सूत्रावधेः यदित ऊर्ध्वं अनुक्रमिष्यामः, तत्र भूते लिङ्-निमित्ते क्रिय-अतिपत्तौ लृङ्वा भवति इत्येतदधिकृतं वेदितव्यं ।
वक्ष्यति, विभाषा कथमि लिङ्च (*३,३.१४३) - कथं नाम तत्र भवान्वृषलं अयाजयिष्यथ् ।
यथाप्राप्तं च - याजयेत् । ।


____________________________________________________________________


  1. <गर्हायां लड्-अपि-जात्वोः># । । PS_३,३.१४२ । ।



_____Sठाऱ्ठ्JKव्_३,३.१४२ः

गर्हा कुत्सा इत्यनर्थान्तरं ।
गर्हायां गम्यमानायां अपि-जात्वोः उपपदयोः धातोः लट्प्रत्ययो भवति ।
वर्तमने लटुक्तः काल-सामान्ये न प्राप्नोति इति विधीयते ।
कालविशेष-विहितांश्च अपि प्रत्ययानयं परत्वादस्मिन्विषये वाधते ।
अपि तत्रभवान्वृषलं याजयति, जातु तत्रभवान्वृषलं याजयति, गर्गामहे, अहो अन्याय्यं एतद् ।
लिङ्-निमित्ताभावादिह क्रिय-अतिपत्तौ लृङ्न भवति । ।


____________________________________________________________________


  1. <विभाष कथमि लिङ्च># । । PS_३,३.१४३ । ।



_____Sठाऱ्ठ्JKव्_३,३.१४३ः

गर्हायां इति वर्तते ।
कथमि उपपदे गर्हायां गम्यमानायं धातोः लिङ्प्रत्ययो भवति, चकाराल्लट्च ।
विभाषा-ग्रहणं यथास्वं काल-विषये विहितानां अबाधन-अर्थं ।
कथं नाम तत्रभवान्वृषलं याजयेत्, कथं नाम तत्रभवान्वृषलं याजयति ।
कथं नाम तत्रभवान्वृषलं याजयिष्यति ।
कथं नाम तत्रभवान्वृषलं याजयिता ।
कथं नाम तत्रभवान्वृषलं याजयेथ् ।
कथं नाम तत्रभवान्वृषलं अयाजयथ् ।
कथं नाम तत्रभवान्वृषलं यायजां चकार ।
अत्र लिङ्-निमित्तं अस्ति इति भूत-विवक्षायां क्रिय-अतिपत्तौ वा लृङ् ।
भविष्यद्विवक्षायां सर्वत्र नित्येन+एव लृङा भवितव्यं । ।


____________________________________________________________________


  1. <किंवृत्ते लिङ्-लृटौ># । । PS_३,३.१४४ । ।



_____Sठाऱ्ठ्JKव्_३,३.१४४ः

गर्हायां इत्येव विभाषा न स्वर्यते ।
किंवृत्ते उपपदे गर्हायां गम्यमानायां धातोः लिङ्-लृटौ प्रत्ययौ भवतः ।
सर्वलकाराणां अपवादः ।
लिङ्-ग्रहणं लटोऽपरिग्रह-अर्थं ।
को नाम वृषलो यं तत्रभवान्याजयेत्, यं तत्रभवान्वृषलं याजयिष्यति ।
कतरो नाम, कतमो नाम यां तत्रभवान्वृषलं याजयेत्, याजयिष्यति ।
भूते क्रियातिपत्तौ वा लृङ् ।
भविष्यति तु नित्यं ।
को नाम वृषलो यं तत्रभवानयाजयिष्यत् । ।


____________________________________________________________________


[#२८५]

  1. <अनवक्लृप्त्य्-अमर्षयोरकिंवृत्तेऽपि># । । PS_३,३.१४५ । ।



_____Sठाऱ्ठ्JKव्_३,३.१४५ः

गर्हायां इति निवृत्तं ।
अनवक्लृप्तिः असम्भावना ।
अमर्षः अक्षमा ।
किंवृत्तेऽकिंवृत्ते च+उपपदे अनवक्लृप्त्य्-अमर्षयोः धातोः लिङ्-लृटौ प्रत्ययौ भवतः ।
सर्व-लकाराणां अपवादः ।
बह्वचः पूर्वनिपातो लक्षणव्यभिचारचिह्नं ।
तेन यथासङ्ख्यं न भवति ।
अनवक्लृप्तौ तावत्- न अवकल्पयामि, न सम्भावयामि, न श्रद्दधे तत्रभवान्नाम वृषलं याजयेत्, तत्रभवान्नाम वृषलं याजयिष्यति ।
को नाम वृषलो यं तत्रभवान्वृषलं याजयेत्, को नाम तत्रभवान्वृषलं याजयिष्यति ।
अमर्षे - न मर्षयामि तत्रभवान्वृषलं याजयेत्, याजयिष्यति ।
को नाम वृषलो यं तत्रभवान्याजयेत्, याजयिष्यति ।
भूत-विवक्षायां तु क्रिय-अतिपत्तौ वा लृङ्भवति ।
भविष्यति नित्यं ।
न अवकल्पयामि तत्रभवान्नाम वृषलं अयाजयिष्यत् । ।


____________________________________________________________________


  1. <किंकिल-अस्त्य्-अर्थेषु लृट्># । । PS_३,३.१४६ । ।


_____Sठाऱ्ठ्JKव्_३,३.१४६ः

अनवक्लृप्त्य्-अमर्षयोः इति वर्तते ।
किंकिल-शब्दः समुदाय एव उपपदं ।
अस्त्य्-अर्थाः अस्तिभवति - विद्यतयः ।
किंकिल-अस्त्य्-अर्थेषु उपपदेषु अनवक्लृप्त्य्-अमर्षयोः धातोः लृट्प्रत्ययो भवति ।
लिङोऽपवादः ।
किं - किल नाम तत्रभवन्वृषलं याजयिष्यति ।
अस्ति नाम तत्रभवान्वृषलं याजयिष्यति ।
भवति नाम तत्रभवान्वृषलं याजयिष्यति ।
विद्यते नाम तत्रभवान्वृषलं याजयिष्यति ।
न श्रद्दधे, न मर्षयामि ।
लिङ्-निमित्तं इह न अस्ति तेन लृङ्न भवति । ।


____________________________________________________________________


  1. <जातु-यदोर्लिङ्># । । PS_३,३.१४७ । ।



_____Sठाऱ्ठ्JKव्_३,३.१४७ः

अनवक्लृप्त्य्-अमर्षयोः इत्येव ।
जातु यदा इत्येतयोः उपपदयोः अनवक्लृप्त्य्-अमर्षयोः गम्यमानयोः धातोः लिङ्प्रत्ययो भवति ।
लृटोऽपवादः ।
जातु तत्रभवान्वृषलं याजयेत्, यन्नाम तत्रभवान्वृषलं याजयेत्, न श्रद्दधे, न मर्षयामि ।
जातु-यदोर्लिङ्-विधाने यदायद्योरुपसङ्ख्यानं ।
यदा भवद्-विधः क्षत्रियं याजयेत्, यदि भवद्-विधः क्षत्रियं याज्येत्, न श्रद्दधे, न मर्षयामि ।
क्रिय-अतिपत्तौ भूते वा लृङ् ।
भविष्यति नित्यं । ।


____________________________________________________________________


  1. <यच्चयत्रयोः># । । PS_३,३.१४८ । ।


_____Sठाऱ्ठ्JKव्_३,३.१४८ः

अनवक्लृप्त्य्-अमर्षयोः इत्येव ।
यच्च यत्र इत्येतयोः उपपदयोरनवक्लृप्त्य्-अमर्षयोः गम्यमानयोः धातोः लिङ्प्रत्ययो भवति ।
लृटोऽपवादः ।
योग-विभाग उत्तरार्थः ।
यथासङ्ख्यं नेष्यते ।
यच्च तत्रभवान्वृषलं याजयेथ् ।
यत्र तत्रभवान्वृषलं याजयेथ् ।
क्रिय-अतिपत्तौ यथायथं लृङ्भवति । ।


____________________________________________________________________


[#२८६]

  1. <गर्हायां च># । । PS_३,३.१४९ । ।



_____Sठाऱ्ठ्JKव्_३,३.१४९ः

अनवक्लृत्प्य्-अमर्षयोः इति निवृत्तं ।
गर्हा, निन्दा, कुत्सा इत्यनर्थान्तरं ।
यच्च यत्र इत्येतयोः उपपदयोर्धतोः लिङ्प्रत्ययो भवति गर्हायां गम्यमानायां ।
सर्वलकाराणां अपवादः ।
यच्च तत्रभवान्वृषलं याजयेत्, यत्र तत्रभवान्वृषलं याजयेदृद्धो वृद्धः सन्ब्राह्मणः, गर्हामहे, अहो अन्याय्यं एतथ् ।
क्रियातिपत्तौ यथायथं लृङ्भवति । ।


____________________________________________________________________


  1. <चित्रीकरणे च># । । PS_३,३.१५० । ।



_____Sठाऱ्ठ्JKव्_३,३.१५०ः
यच्चयत्रयोः इत्येव ।
चत्रीकरणं आश्चर्यम्, अद्भुतम्, विस्मयनीयं ।
यच्चयत्रयोः उपपदयोः चित्रीकरणे गम्यमाने धातोः लिङ्प्रत्ययो भवति ।
सर्वलकाराणां अपवादः ।
यच्च तत्रह्बवान्वृषलं याजयेत्, यत्र तत्रभवान्वृषलं याजयेत्, आश्चर्यं एतथ् ।
क्रिय-अतिपत्तौ यथायथं लृङ्भवति । ।


____________________________________________________________________


  1. <शेषे लृड्-अयदौ># । । PS_३,३.१५१ । ।



_____Sठाऱ्ठ्JKव्_३,३.१५१ः

यच्चयत्राभ्यां अन्यत्र चित्रीकरणं शेषः ।
शेषे उअपपदे चित्रीकरणे गम्यमाने धातोः लृट्प्रत्ययो भवति, यदि-शब्दश्चेन्न प्रयुज्यते ।
सर्वलकाराणां अपवादः ।
आश्चर्यम्, चित्रं अद्भुतम्, अन्धो नाम पर्वतमारोक्ष्यति, बधिरो नाम व्याकरनमध्येष्यते ।
अयदौ इति किं ? आश्चर्यं यदि स भुञ्जीत, यदि सोऽधीयीत ।
लिङ्- निमिताभावातिह लृङ्न भवति । ।


____________________________________________________________________


  1. <उत-अप्योः समर्थयोर्लिङ्># । । PS_३,३.१५२ । ।



_____Sठाऱ्ठ्JKव्_३,३.१५२ः

उत अपि इत्येतयोः समर्थयोः धातोः लिङ्प्रत्ययो भवति ।
सर्वलकाराणां अपवादः ।
बाढं इत्यस्मिन्नर्थे समानार्थत्वं अनयोः ।
उत कुर्याथ् ।
अपि कुर्याथ् ।
उताधीयीत ।
अप्यधीयीत ।
बाढमध्येष्यते इत्यर्थः ।
समर्थयोः इति किम्? उत दण्डः पतिष्यति ? अपि द्वारं धास्यति ।
प्रश्नः प्रच्छादनं च गम्यते ।
वा-आ-उताप्योः (*३,३.१४१) इति विकल्पो निवृत्तः ।
इतः प्रभृटि भूतेऽपि लिङ्-निमित्ते क्रिय-अतिपत्तौ नित्यं लृङ् ।
भविष्यति तु सर्वत्र+एव नित्यः । ।


____________________________________________________________________


  1. <काम-प्रवेदनेऽकच्चिति># । । PS_३,३.१५३ । ।



_____Sठाऱ्ठ्JKव्_३,३.१५३ः

स्वाभिप्राया-विष्करणं काम-प्रवेदनं ।
कामः, इच्छा, अभिलाषः इत्यनर्थान्तरं ।
तस्य प्रवेदनं प्रकाशनं ।
तस्मिन्गम्यमाने अकच्चिति उपपदे धातोर्लिङ्प्रत्ययो भवति ।
सर्वलकाराणां अपवादः ।
कामो मे भुञ्जीत भवान् ।
अभिलाषो मे भुञ्जीत भवान् ।
अकच्चिति इति किं ? कच्चिज्जीवति ते माता कच्चिज्जीवति ते पिता ।
माराविद त्वां पृच्छामि कच्चिज्जीवति पार्वती । ।


____________________________________________________________________


[#२८७]

  1. <सम्भावनेऽलं इति चेत्सिद्ध-अप्रयोगे># । । PS_३,३.१५४ । ।



_____Sठाऱ्ठ्JKव्_३,३.१५४ः

लिङित्येव ।
सम्भावनं क्रियासु योग्यताध्यवसानम्, शक्ति-श्रद्धानं ।
तदिदानीं अल्मर्थेन विशेष्यते ।
तच्चेत्सम्भावनं पर्याप्तमवितथं भवति ।
सिद्ध-अप्रयोगे इत्यलमो विशेषणं ।
सिद्धश्चे दलमोऽप्रयोगः ।
क्व च असौ सिद्धः ? यत्र गम्यते च-अर्थो न च असौ प्रयुज्यते ।
तदीदृशे सम्भावनोपाधिकेऽर्थे वर्तमानाद्धातोः लिङ्प्रत्ययो भवति ।
सर्वलकाराणां अपवादः ।
अपि पर्वतं शिरसा भन्द्याथ् ।
अपि द्रोणपाकं भुञ्जीत ।
अलं इति किं ? विदेशस्थायी देवदत्तः प्रायेन गमिष्यति ग्रामं ।
सिद्धाप्रयोगे इति किं ? अलं देवदत्तो हस्तिनं हनिष्यति ।
क्रियातिपत्तौ भूते भविष्यति च नित्यं लृङ्भवति । ।


____________________________________________________________________


  1. <विभाषा धातौ सम्भावन-वचनेऽयदि># । । PS_३,३.१५५ । ।



_____Sठाऱ्ठ्JKव्_३,३.१५५ः

सम्भावनेऽलं इति चेत्सिद्ध-अप्रयोगे इति सर्वं अनुवर्तते ।
अम्भावनं उच्यते येन स सम्भावन-वचनः ।
सम्भावन-वचने धातावुपपदे यच्छब्द-वर्जिते धातोर्विभाषा लिङ्भवति ।
पूर्वेण नित्य-प्राप्तौ विकल्प-अर्थं वचनं ।
सम्भावयामि भुञ्जीत भवान्, सम्भावयामि भोक्ष्यते भवान् ।
अवकल्पयामि भुञ्जीत भवान्, भोक्ष्यते भवान् ।
श्रद्दधे भुञ्जीत भवान्, भोक्ष्यते भवान् ।
अयदि इति किं ? सम्भावयामि यद्भुञ्जीत भवान् । ।


____________________________________________________________________


  1. <हेतु-हेतुमतोर्लिङ्># । । PS_३,३.१५६ । ।


_____Sठाऱ्ठ्JKव्_३,३.१५६ः

तेहुः कारणं ।
हेतुमत्फलं ।
हेतुभूते हेतुमति चार्थे वर्तमानाद्धातोः लिङ्प्रत्ययो भवति ।
सर्वलकाराणां अपवादः ।
दक्षिणेन चेद्यायान्न शकटं पर्याभवेथ् ।
यदि कमलकमाह्वयेन्न शकटं पर्याभवेथ् ।
दक्षिणेन चेद्यास्यति न शकटं पर्याभविष्यति ।
तत्र विभाषाग्रहणं तावदनन्तरं एव अनुवर्तते ।
लिङिति वर्तमाने पुनर्लिङ्-ग्रहणं कालव्-इशेष-प्रतिपत्त्य्-अर्थं ।
तेन+इह न भवति, हन्ति इति पलायते, वर्षति इति धावति ।
क्रियातिपत्तौ लृङ्भवति । ।


____________________________________________________________________


  1. <इच्छा-अर्थेषु लिङ्-लोटौ># । । PS_३,३.१५७ । ।



_____Sठाऱ्ठ्JKव्_३,३.१५७ः

इच्छार्थेषु धतुषु उपपदेषु धतोः लिङ्-लोटौ प्रत्ययौ भवतः ।
सर्वलकाराणां अपवादः ।
इच्छामि भुञ्जीत भवान् ।
इच्छामि भुङ्क्तां भवान् ।
कामये ।
प्रार्थये ।
कामप्रवेदन इति वक्तव्यं ।
इह मा भूत्, इच्छन्करोति । ।


____________________________________________________________________


[#२८८]

  1. <समान-कर्तृकेषु तुमुन्># । । PS_३,३.१५८ । ।



_____Sठाऱ्ठ्JKव्_३,३.१५८ः

इच्छार्थेषु धातुषु समान-कर्तृकेषु उपपदेषु धातोः तुमुन्प्रत्ययो भवति ।
तुमुन्प्रकृत्य्-अपेक्षं एव समान-कर्तृट्वं ।
इच्छति भोक्तुं ।
कामयते भोक्तुं ।
विष्टि भोक्तुं ।
वाञ्छति बोक्तुं ।
समान-कर्तृकेषु इति किं ? देवदत्तं भुञ्जानं इच्छति यज्ञदत्तः ।
इह कस्मान्न भवति, इच्छन्करोति ? अनभिधानात् । ।


____________________________________________________________________


  1. <लिङ्च># । । PS_३,३.१५९ । ।



_____Sठाऱ्ठ्JKव्_३,३.१५९ः

इच्छार्थेषु समानकर्तृकेषु धातुषु उपपदेषु धातोः लिङ्प्रत्ययो भवति ।
भुञ्जीय इति इच्छति ।
अधीयीयेति इच्छति ।
क्रियातिपत्तौ लृङ्भवति ।
योगविभाग उत्तरार्थः । ।


____________________________________________________________________


  1. <इच्छार्थेभ्यो विभाषा वर्तमाने># । । PS_३,३.१६० । ।



_____Sठाऱ्ठ्JKव्_३,३.१६०ः

इछार्थेभ्यो धतुभ्यो वर्तमाने काले विभाषा लिङ्प्रत्ययो भवति ।
लटि प्राप्ते वचनं ।
इच्छति, इच्छेथ् ।
वष्टि, उश्याथ् ।
कामयते, कामयेत । ।


____________________________________________________________________


  1. <विधि-निमन्त्रण-आमन्त्रण-अधीष्ट-संप्रश्न-प्रार्थनेषु लिङ्># । । PS_३,३.१६१ । ।



_____Sठाऱ्ठ्JKव्_३,३.१६१ः

विधिः प्रेरणं ।
निमन्त्रणं नियोगकरणं ।
आमन्त्रणं कामचारकरणं ।
अधीष्टः सत्कारपूर्वको व्यापारः ।
सम्प्रश्नः सम्प्रधारणं ।
प्रार्थनं याच्ञा ।
विध्यादिष्वर्थेषु धातोः लिङ्प्रत्ययो भवति ।
सर्वलकाराणां अपवादः ।
विध्यादयश्च प्रत्ययार्थ-विशेषणं ।
विध्यादि-विशिष्टेषु कर्त्रादिषु लिङ्प्रत्ययो भवति ।
विधौ तावत्- कटं कुर्याथ् ।
ग्रामं भवानागच्छेथ् ।
निमन्त्रणे - इह भवान्भुञ्जीत ।
इह भवानासीत ।
आमन्त्रणे - इह भवानासीत ।
इह भवान्भुञ्जीत ।
अधीष्टे - अधीछामो भवन्तं माणवकं भवानुपनयेथ् ।
सम्प्रश्ने - किं नु खलु भो व्याकरनं अधीयीय ।
प्रार्थने - भवति मे प्रार्थना व्याकरनं अधीयीय । ।


____________________________________________________________________

  1. <लोट्च># । । PS_३,३.१६२ । ।



_____Sठाऱ्ठ्JKव्_३,३.१६२ः

लोट्प्रत्ययो भवति धातोः विध्यादिषु अर्थेषु ।
योगविभाग उत्तरार्थः ।
विधौ तावत्- कटं तावत्भवान्करोतु ।
ग्रामं भवानागच्छतु ।
निमन्त्रणे - अमुत्र भवानास्तां ।
अमुत्र भवान्भुङ्क्तां ।
आमन्त्रने - इह भवान्भुङ्क्तां ।
अधीष्टे - अधीच्छामो भवन्तं माणवकं भवानध्यापयतु, माणावकं भवानुपनयतां ।
सम्प्रश्ने - किं नु खलु भो व्याक्रनं अध्ययै ।
प्रार्थने - भवति मे प्रार्थना व्याकरणं अध्ययै, छन्दोऽध्ययै । ।


____________________________________________________________________


[#२८९]

  1. <प्रैष-अतिसर्ग-प्राप्तकालेषु कऋत्याश्च># । । PS_३,३.१६३ । ।



_____Sठाऱ्ठ्JKव्_३,३.१६३ः

प्रेषणं प्रैषः ।
कामचार-अभ्यनुज्ञानं अतिसर्गः ।
निमित्त-भूतस्य कालस्य अवसरः प्राप्त-कालता ।
एतेष्वर्थेषु धातोः कृत्य-सञ्ज्ञकाः प्रत्ययाः भवन्ति, चकाराल्लोट्च ।
भवता कटः करणीयः, कर्तव्यः, कृत्यः, कार्यः ।
लोट्खल्वपि - करोतु कटं भवानिह प्रेषितः, भवानतिसृष्टह्, भवतः प्राप्त-कालः कटकरणे ।
किमर्थं प्रैषादिषु कृत्या विधीयन्ते न सामान्येन, भाव-कर्मणोर्विहिता एव ते प्रैषादिष्वन्यत्र च भविष्यन्ति ? विशेष-विहितेन अनेन लोटा बाद्यन्ते ।
वासरूप-विधिना भविस्यन्ति ? एवं तर्हि ज्ञापयति, स्त्र्य्-अधिकारात्परेण वासरूप-विधिर्नावष्यं भवति इति ।
विधिप्रैषयोः को विशेष ? केचिदाहुः, अज्ञातज्ञापनं विधिः, प्रेषणं प्रैषः इति । ।


____________________________________________________________________


  1. <लिङ्च+ऊर्ध्व-मौहूर्तिके># । । PS_३,३.१६४ । ।



_____Sठाऱ्ठ्JKव्_३,३.१६४ः

प्रैषादयो वर्तन्ते ।
प्रैषादिषु गम्यमानेषु ऊर्ध्व-मौहूर्तिकेऽर्थे वर्तमानाद्धातोः लिङ्प्रत्ययो भवति, चकाराद्यथा प्राप्तं च ।
ऊर्ध्वं मुहूर्तात्, उपरि मुहूर्तस्य भवता खलु कटः कर्तव्यः, करणीयः, कार्यः ।
भवान्खलु कटं कुर्यात्, भवान्खलु करोतु ।
भवानिह प्रेषितः ।
भवानतिसृष्टः ।
भवान्प्राप्तकालः । ।


____________________________________________________________________


  1. <स्मे लोट्># । । PS_३,३.१६५ । ।



_____Sठाऱ्ठ्JKव्_३,३.१६५ः

प्रैषादिषु ऊर्ध्व-मौहूर्तिके इति वर्तते ।
सम्-शब्दे उपपदे प्रैषादिषु गम्यमानेषु ऊर्ध्व-मौहूर्तिकेऽर्थे वर्तमानाद्धातोः लोट्प्रत्ययो भवति ।
लिङ्-कृत्यानां अपवादः ।
ऊर्ध्वं मुहूर्ताद्भवान्कटं कओर्तु स्म, ग्रामं गच्छतु स्म, माणावकमध्यापयतु स्म । ।


____________________________________________________________________


  1. <अधीष्टे च># । । PS_३,३.१६६ । ।



_____Sठाऱ्ठ्JKव्_३,३.१६६ः
स्मे इति वर्तते ।
अधीष्टं व्याख्यातं ।
स्म-शब्दे उपपदेऽधीष्टे गम्यमाने धातोः लोट्प्रत्ययो भवति ।
लिङोऽपवादः ।
अङ्ग स्म राजन्माणवकमध्यापय ।
अङ्ग स्म राजन्नग्निहोत्रं जुहुधि । ।


____________________________________________________________________


  1. <काल-समय-वेलासु तुमुन्># । । PS_३,३.१६७ । ।



_____Sठाऱ्ठ्JKव्_३,३.१६७ः

कालादिषु उपपदेसु धातोः तुमुन्प्रत्ययो भवति ।
कालो भोक्तुं ।
वेला भोक्तुं ।
इह कस्मान्न भवति, कालः पचति भूतानि इति ? प्रैषादि-ग्रहणं इह अभिसम्बध्यते ।
इह कस्मान्न भवति,

[#२९०]

कालो भोजनस्य ? वासरूपेन ल्युडपि भवति ।
उक्तं इदम्, स्त्र्य्-अधिकारात्परत्र वासरूप-विधिरनित्यः इति । ।


____________________________________________________________________


  1. <लिङ्यदि># । । PS_३,३.१६८ । ।



_____Sठाऱ्ठ्JKव्_३,३.१६८ः

कालादयोऽनुवर्तन्ते ।
यच्छब्दे उपपदे कालादिषु धातोः लिङ्प्रत्ययो भवति ।
तुमुनोऽपवादः ।
कालो यद्भुञ्जीत भवान् ।
सम्यो यद्भुञ्जीत भवान् ।
वेला यद्भुञ्जीत भवान् । ।


____________________________________________________________________


  1. <अर्हे कृत्य-तृचश्च># । । PS_३,३.१६९ । ।



_____Sठाऱ्ठ्JKव्_३,३.१६९ः

अर्हति इति अर्हः, तद्योग्यः ।
अर्हे कर्तरि वाच्ये गम्यमाने वा धातोः कृत्य-तृचः प्रत्यया भवन्ति, चकाराल्लिङ्च ।
भवता खलु कन्या वोढव्या, वाह्या, वहनीया ।
भवान्खलु कन्याया वोढा ।
भवान्खलु कन्यां वहेथ् ।
भवानेतदर्हेतिति ।
अथ कस्मादर्हे कृत्यतृचो विधीयन्ते, यावता सामानेन विहितत्वादर्हेऽपि भविस्यन्ति ? योऽयं इह लिङ्विधीयते, तेन बाधा मा भूतिति ।
वासरूपविधिश्च अनित्यः । ।


____________________________________________________________________


  1. <आवश्यक-आधमर्ण्ययोर्णिनिः># । । PS_३,३.१७० । ।



_____Sठाऱ्ठ्JKव्_३,३.१७०ः

अवश्यं भावः आवश्यकं ।
उपाधिरयं, न+उपपदं ।
अवश्यं भावविशिष्टे आधमर्ण्यविशिष्टे च कर्तरि वाच्ये धातोः णिनिः प्रत्ययो भवति ।
अवश्यंकारी ।
मयूरव्यंसकादित्वात्समासः ।
आधमर्ण्ये खल्वपि - शतं दायी सहस्रं दायी ।
निष्कं दायी । ।


____________________________________________________________________


  1. <कृत्याश्च># । । PS_३,३.१७१ । ।



_____Sठाऱ्ठ्JKव्_३,३.१७१ः

आवश्यक-आधमर्ण्ययोः इति वर्तते ।
कृत्य-सञ्जाकाश्च प्रत्यया आवश्यक-आधमर्ण्ययोरुपाधिभूतयोः धातोर्भवन्ति ।
भवता खलु अवश्यं कटः कर्तव्यः, अवश्यं करणीयः, अवश्यं कार्यः, अवश्यं कृत्यः ।
आधमर्ण्ये - भवताशतं दातव्यं ।
सहस्रं देयं ।
किमर्थं इदम्, यावता सामाग्येन विहिता अस्मिन्नपि विषये भविस्यन्ति ? विशेष-विहितेन णिनिना बाध्येरन् ।
कर्तरि णिनिः, भाव-कर्मणोः कृत्याः, तत्र कुतो बाधप्रसङ्गः ? तत्र केचिदाहुः, भव्यगेयादयः कर्तृ-वाचिनः कृत्याः, त इह+उदाहरणं इति । ।


____________________________________________________________________


[#२९१]

  1. <शकि लिङ्च># । । PS_३,३.१७२ । ।



_____Sठाऱ्ठ्JKव्_३,३.१७२ः

शकि इति प्रकृत्यर्थ-विशेषणं ।
शक्नोत्य्-अर्थोपाधिके धात्व्-अर्थे लिङ्प्रत्ययो भवति, चकारात्कृत्याश्च ।
भवता खलु भारो वोढव्यः, वहनीयः, वाह्यः ।
भवान्खलु भारं वहेथ् ।
भवानिह शक्तः ।
सामान्य-विहितानां पुनर्वचनं लिङा बाधा मा भूतिति । ।


____________________________________________________________________


  1. <आशिषि लिङ्लोटौ># । । PS_३,३.१७३ । ।



_____Sठाऱ्ठ्JKव्_३,३.१७३ः

आशंसनं आशीः, अप्रप्तस्य+इष्टस्य अर्थस्य प्राप्तुं इच्छा ।
प्रकृत्यर्थ-विशेषणं च+एतथ् ।
अशीर्विशिष्टेऽर्थे वर्तमानाद्धातोः लिङ्-लोटौ प्रत्ययौ भवतः ।
चिरं जीव्याद्भवान् ।
चिरं जीवतु भवान् ।
आशिषि इति किं ? चिरं जीवति देवदत्तः । ।


____________________________________________________________________


  1. <क्तिच्-क्तौ च सञ्ज्ञायाम्># । । PS_३,३.१७४ । ।



_____Sठाऱ्ठ्JKव्_३,३.१७४ः

आशिषि इत्येव ।
आशिषि विषये धातोः क्तिच्-क्तौ प्रत्ययौ भवतः, समुदायेन चेत्सञ्ज्ञा गम्यते ।
तनुतात्तन्तिः ।
सनुतात्सातिः ।
भवतात्भूतिः ।
मनुतात्मन्तिः ।
क्तः खल्वपि - देवा एनं देयासुः देवदत्तः ।
सामान्येन विहितः क्तः पुनरुच्यते, क्तिचा बाधा मा भूतिति ।
चकारो विशेषण-अर्थः, न क्तिचि दीर्घश्च (*६,४.३९) इति । ।


____________________________________________________________________


  1. <माङि लुङ्># । । PS_३,३.१७५ । ।



_____Sठाऱ्ठ्JKव्_३,३.१७५ः

माङि उपपदे धातोः लुङ्प्रत्ययो भवति ।
सर्वलकाराणां अपवादः ।
मा कार्षीथ् ।
मा हार्षीथ् ।
कथं मा भवतु तस्य पापम्, मा भविष्यति इति ? असाधुरेव अयं ।
केचिदाहुः, अङिदपरो मा-शब्दो विद्यते, तस्य अयं प्रयोगः । ।


____________________________________________________________________


  1. <स्म-उत्तरे लङ्च># । । PS_३,३.१७६ । ।



_____Sठाऱ्ठ्JKव्_३,३.१७६ः

स्म-शब्द-उत्तरे माङि उपपदे धातोः लङ्प्रत्ययो भवति, चकाराल्लुग्च ।
मा स्म करोथ् ।
मा स्म कार्षीथ् । मा स्म हरथ् । मा स्म हार्षीत् । ।
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य तृतीयः पादः । ।


______________________________________________________

तृतीयाध्यायस्य चतुर्थः पादः ।


____________________________________________________________________


[#२९२]

  1. <धातु-सम्बन्धे प्रत्ययाः># । । PS_३,४.१ । ।


_____Sठाऱ्ठ्JKव्_३,४.१ः

धात्व्-अर्थे धातु-शब्दः । धात्व्-अर्थानां सम्बन्धो धातु-सम्बन्धः विशेषणविशेष्य-भावः । तस्मिन्सति अयथाकालोक्ता अपि प्रत्ययाः साधवो भवन्ति । अग्निष्टोमयाज्यसय पुत्रो जनिता । कृतः कटः श्वो भविता । भावि कृत्यं आसीथ् । अग्निष्टोमयाजी इति भूतकालः, जनिता इति भविष्यत्कालः । तत्र भूतः कालः भविष्यत्कालेन अभिसम्बध्यमानः साधुर्भवति । विशेषणं गुणत्वाद्विशेष्यकालं अनुरुध्यते, तेन विपर्ययो न भवति । प्रत्ययाधिकारे पुनः प्रत्यय-ग्रहणं अधात्व्-अधिकार-विहिता अपि प्रत्ययाः तद्धिता धातु-सम्बन्धे सति कालभेदे साधवो
यथा स्युः इति ।
गोमानासीथ् ।
गोमान्भविता ।
गावो विद्यन्तेऽस्य इति वर्तमान-विहितो मतुप्, आसीत्भविता इति सम्बन्धाद्तीते भविष्यति च साधुर्भवति । ।


____________________________________________________________________


  1. <क्रियासम्-अभिहारे लोट्लोटो हि-स्वौ वा च त-ध्वमोः># । । PS_३,४.२ । ।



_____Sठाऱ्ठ्JKव्_३,४.२ः

धातु-सम्बधे इति वर्तते ।
पौनःपुन्यं भृशार्थो वा क्रिया-समभिहारः ।
प्रकृत्यर्थ-विशेषणं च+एतथ् ।
समभिहार-विशिष्ट-क्रियावचनाद्धातोः लोट्प्रत्ययो भवति सर्वेषु कालेषु ।
सर्वलकाराणां अपवादः तस्य च लोटो हि स्व इत्येतावादेशौ भवतः ।
तध्वंभाविनस्तु वा भवतः ।
योग-विभागोऽत्र कर्तव्यः ।
क्रिया-समभिहारे लोड्भवति, ततो लोटो हिस्वौ ।
लोटित्येव, लोड्-धर्माणौ हिस्वौ भवतः इत्यर्थः ।
तेन आत्मनेपद-परस्मैपदत्वं भेदेन अवतिष्ठते, तिङ्त्वं च द्वयोरपि भवति ।
लुनीहि लुनीहि इत्येव अयं लुनाति, इमौ लुनीतः, इमे लुनन्ति ।
लुनीहि लुनीहि इत्येव त्वं लुनासि, युवां लुनीथः, यूयं लुनीथ ।
अथ वा, लुनीत लुनीत+इत्येव यूयं लुनीथ ।
लुनीहि लुनीहि इत्येव अहं लुनामि, आवां लुनीवः, वयं लुनीमः ।
भूते - लुनीहि लुनीहि इत्येव अयं अलावीत्, अलाविष्टाम्, अलाविषुः ।
एवं मध्यम-उत्तमयोरुदाहार्यं ।
भविष्यति - लुनीहि लुनिहि इत्येव अयं लविष्यति, लविष्यतः, लविष्यन्ति ।
एवं मध्यम-उत्तमयो रुदाहार्यं ।
अधीष्वाधीष्वेत्येव अयं अधीते, इमावधीयते, इमेऽधीयते ।
अधीष्वाधीष्वेत्येव त्वं अधीषे, युवां अधीयाथे, यूयं अधीध्वे ।
अथ वा, अधीध्वं अधीध्वं इत्येव यूयं अधीध्वे ।
अधीष्वाधीष्वेत्येव अहं अधीये, आवां अधीवहे, वयं अधीमहे ।
एवं सर्वेष्वेव लकारेषु उदाहार्यं ।
क्रिया-समभिहाराभिव्यक्तौ द्विर्वचनं अयं लोडपेक्षते, क्रिया-समभिहारे द्वे भवतः इति ।
यङ्-प्रत्ययः पुनरस्मिन्नेव अर्थे विधीयमानः स्वयं एव शक्तत्वान्न अपेक्षते द्विर्वचनं । ।


____________________________________________________________________


[#२९३]

  1. <सयुच्चयेऽन्यतरस्याम्># । । PS_३,४.३ । ।



_____Sठाऱ्ठ्JKव्_३,४.३ः

अनेकक्रियाध्याहारः समुच्चयः ।
समुच्चीयमान-क्रियावचनाद्धातोरन्यतरस्यां लोट्प्रत्ययो भवति, तस्य लोटो हि-स्वौ आदेशौ भवतः ।
तध्वंभाविनस्तु वा भवतः ।
भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्यपिधानं अट इत्येव अयं अटति, इमावटतः, इमेऽटन्ति ।
भ्राष्ट्रमट, मठमट, खदूरं अट, स्थाल्यपिधानं अट+इत्येव त्वं अटसि, युवां अटथः, यूयं अटथ ।
अथ वा, भ्राष्ट्रं अटत, मठं अटत, खदूरं अटत, स्थाल्युपिधानं अटत इत्येव यूयं अटथ ।
भ्राष्ट्रं अट, मठं अट, खदूरं अट, स्थाल्युपिधानं अट इत्येव अहं अटामि, आवां अटावः, वयं अटामः ।
अथ वा, भ्राष्ट्रं अटति, मठं अटति, खदूरं अटति, स्थाल्युपिधानं अटति इत्येव अयं अटति, इमा वटतः, इमेऽटन्ति ।
भ्राष्ट्रं अटसि, मठं अटसि, खदूरं अटसि, स्थाल्युपिधानं अटसि, इत्येव त्वं अटसि, युवां अटथः, यूयं अटथ ।
भ्राष्ट्रं अटामि, मठं अटामि, खदूरं अटामि, स्थाल्युपिधानं अटामि इत्येव अहं अटामि, आवां अटावः, वयं अटाअमः ।
छन्दोऽधीष्व, व्याकरणं अधीष्व, निरुक्तं अधीष्व इत्येव अयं अधीते, इमावधीयाते, इमेऽधीयते ।
छन्दोऽधीष्व, व्याकरणं अधीध्वं इत्येव यूयं अधीध्वे ।
छन्दोऽधीष्व, व्याकरणं अधीष्व, निरुक्तं अधीष्व इत्येव अहं अधीये, आवां अधीवहे, वयं अधीमहे ।
अथ वा, छन्दोऽधीते, व्याकरणं अधीते, निरुक्तमधीते, इत्येव अयं अधीते, इमावधीयाते, इमेऽधीयते ।
छन्दोऽधीषे, व्याकरणं अधीषे, निरुक्तं अधीषे इत्येव त्वं अधीषे, युवां अधीयाथे, यूयं अधीध्वे ।
छन्दोऽधीये, व्याकरणं अधीये, निरुक्तं अधीये इत्येव अहं अधीये, आवां अधीवहे, वयं अधीमहे । ।


____________________________________________________________________


  1. <यथाविध्य्-अनुप्रयोगः पूर्वस्मिन्># । । PS_३,४.४ । ।


_____Sठाऱ्ठ्JKव्_३,४.४ः

पूर्वस्मिन्लोड्-विधाने यथाविध्य्-अनुप्रयोगो भवति ।
यस्माद्धातोः लोड्विहितः स एव धातुरनुप्रयोक्तव्यः ।
धातु-सम्भन्धे प्रत्यय-विधानादनुप्रयोगः सिद्ध एव, यथाविध्य्-अर्थं तु वचनं ।
तथा च+एव+उदाहृतं लुनीहि लुनीहि इत्येव अयं लुनीति इति ।
छिनत्ति इति न अनुप्रयुज्यते ।
अधीष्वाधीष्वेत्येव अयं अधीते ।
पठति इति न अनुप्रयुज्यते । ।


____________________________________________________________________


  1. <समुच्चये सामान्य-वचनस्य># । । PS_३,४.५ । ।



_____Sठाऱ्ठ्JKव्_३,४.५ः

द्वितीये लोड्विधाने समुच्चये सामान्य-वचनस्य धातोरनुप्रयोगः कर्तव्यः ।
ओदनं भुङ्क्ष्व, सक्तून्पिब, धानाः खाद इत्येव अयं अभ्यवहरति ।
सर्वविशेष-अनुप्रयोग-निवृत्त्य्-अर्थं वचनं ।
लाघवं च लौकिके शब्द-व्यवहारे न अद्रियते ।
भ्राष्ट्रं अट, मठं अट, खदूरं अट, स्थाल्युपिधानं अट इत्येव अयं अटति इत्यत्र अपि कारक-भेदात्क्रियाभेदे सति सामान्य-वचनता सम्भवत्येव । ।


____________________________________________________________________


  1. <छन्दसि लुङ्-लङ्-लिटः># । । PS_३,४.६ । ।



_____Sठाऱ्ठ्JKव्_३,४.६ः

धातु-सम्बन्धे इत्येव ।
छन्दसि विषये धातु-सम्बन्धे सर्वेषु लुङ्-लङ्-लिटः प्रत्यया भवन्ति ।
अन्यतरस्यां इति वर्तते ।
तेन अन्येऽपि लकारा यथायथं भवन्ति ।
लुङ्- शकलाङ्गुष्ठकोऽकरथ् ।
अहं तेभ्योऽकरं नमः ।
लङ्- अग्निं अद्य होतारं अवृणीतायं यजमानः ।
लिट्- अद्या ममार ।
अद्य म्रियते । ।

____________________________________________________________________


[#२९४]

  1. <लिङ्-अर्थे लेट्># । । PS_३,४.७ । ।



_____Sठाऱ्ठ्JKव्_३,४.७ः

छन्दसि अन्यतरस्यां इति वर्तते ।
लिङ्-अर्थे, यत्र लिङ्विधीयते विध्यादिः, हेतुहेतुमतोर्लिङ्(*३,३.१५६) इत्येवं आदिः, तत्र छन्दसि विषयेऽन्यतरस्यां लेट्प्रत्ययो भवति ।
जोषिषत्तारिषथ् ।
मन्दिषथ् ।
नेता इन्द्रो नेषथ् ।
तक्षिषथ् ।
पताति दिद्युथ् ।
प्रजापतिरुदधिं च्यावयाति । ।


____________________________________________________________________


  1. <उपसंवाद-आशङ्कयोश्च># । । PS_३,४.८ । ।



_____Sठाऱ्ठ्JKव्_३,४.८ः

उपसंवादः परिभाषणम्, कर्तव्ये पणबन्धः, यदि मे भवानिदं कुर्यादहं अपि भवते इदं दास्यामि इति ।
कारणतः कार्यानुसरणं तर्कः, उत्प्रेक्षा, आशङ्का ।
उपसंवादे आशङ्कायां च गम्यमानायां छन्दसि विषये लेट्प्रत्ययो भवति ।
उपसंवादे - अहं एव पशूनामीशै ।
मदग्रा एव वो ग्रहा गृह्यान्तै इति ।
मद्देवत्यान्येव वः पात्राण्युच्यानतै ।
आशङ्कायां च - नेज्जिह्मायन्त्यो नरकं पताम ।
जिह्माचरणेन नरकपातः आशङ्क्यते ।
लिङ्-अर्थ एव अयम्, नित्य-अर्थं तु वचनं ।
पूर्वसूत्रे अन्यत्रस्यां इति वर्तते । ।


____________________________________________________________________


  1. <तुमर्थे से-सेन्-असे-असेन्-क्षे-कसेन्-अध्यै-अध्यैन्-कध्यै-कध्यैन्-शध्यै-शध्यैन्-तवै-तवेङ्-तवेनः># । । PS_३,४.९ । ।



_____Sठाऱ्ठ्JKव्_३,४.९ः

छन्दसि इत्येव ।
तुमुनोऽर्थस्तुम्-अर्थः ।
तत्र छन्दसि विषये धातोः सयादयः प्रत्यया भवन्ति ।
तुमर्थो भावः ।
कथं ज्ञायते ? वचनसामर्थ्यात्तावदयं कर्तुरपकृष्यते ।
न च अयं अन्यस्मिन्नर्थे तुमुनादिश्यते ।
अनिर्दिष्ट-अर्थाश्च प्रत्ययाः स्वार्थे भवन्ति ।
स्वार्थश्च धातूनां भाव एव ।
से - वक्षे रायः ।
सेन्- ता वामेषे रथानां ।
असे, असेन्- क्रत्वे दक्षाय जीवसे ।
स्वरे विशेषः ।
क्षे - प्रेषे भगाय कसेन्- श्रियसे ।
अध्यै, अध्यैन्- काममुपाचरध्यै ।
स्वरे विशेषः ।
कध्यै - इन्द्राग्नी आहुवध्यै ।
कध्यैन्- श्रियध्यै ।
शध्यै, शध्यैन्- वायवे पिबध्यै ।
राधसः सह मादयध्यै ।
तवै - सोममिन्द्राय पातवै ।
तवेङ्- दशमे मासि सूतवे ।
तवेन्- स्वर्देवेषु गन्तवे ।
कर्तवे ।
हर्तवे । ।


____________________________________________________________________


  1. <प्रयै रोहिष्यै अव्यथिष्यै># । । PS_३,४.१० । ।



_____Sठाऱ्ठ्JKव्_३,४.१०ः

तुमर्थे छन्दसि इत्येव ।
प्रयै रोहिष्यै अव्यथिष्यै इत्येते शब्दा निपात्यन्ते छन्दसि विषये ।
प्रपूर्वस्य यातेः कैप्रत्ययः - प्रयै देवेभ्यः ।
प्रयातुं ।
रुहेः इष्यै-प्रत्ययः - अपामोषधीनां रोहिष्यै ।
रोहणाय ।
व्यथेर्नञ्-पूर्वस्य इष्यै-प्रत्ययः - अव्यथिष्यै ।
अव्यथनाय । ।


____________________________________________________________________


[#२९५]

  1. <दृशे विख्ये च># । । PS_३,४.११ । ।



_____Sठाऱ्ठ्JKव्_३,४.११ः

तुमर्थे छन्दसि इत्येव ।
दृशे विख्ये इत्येतौ छन्दसि विषये निपात्येते ।
दृशेः के-प्रत्ययः - दृशे विश्वाय सूर्यं ।
द्रष्टुं ।
विख्ये त्वा हरामि ।
विख्यातुं । ।


____________________________________________________________________


  1. <शकि णमुल्कमुलौ># । । PS_३,४.१२ । ।



_____Sठाऱ्ठ्JKव्_३,४.१२ः

छन्दसि इत्येव ।
शक्नोतौ धातावुपपदे छन्दसि विषये तुमर्थे णमुल्कमुलित्येतौ प्रत्ययु भवतः ।
णकारो वृद्ध्य्-अर्थः ।
ककारो गुण-वृद्धि-प्रतिषेध-अर्थः ।
लकारः स्वर-अर्थः ।
अग्निं वै देवा विभाजं नाशक्नुवन् ।
विभक्तुं इत्यर्थः ।
अपलुम्पं न अशक्नोथ् ।
अपलोप्तुं इत्यर्थः । ।


____________________________________________________________________


  1. <ईश्वरे तोसुन्-कसुनौ># । । PS_३,४.१३ । ।



_____Sठाऱ्ठ्JKव्_३,४.१३ः

तुमर्थे छन्दसि इत्येव ।
ईश्वर-शब्द उपपदे छन्दसि विषये तुमर्थे धतोः तोसुन्-कसुन्-प्रत्ययौ भवतः ।
ईश्वरोऽभिचरितोः ।
अभिचरितुं इत्यर्थः ।
ईश्वरो विलिखः ।
विलिखितुं इत्यर्थः ।
ईश्वरो वितृदः ।
वितर्दितुं इत्यर्थः । ।


____________________________________________________________________


  1. <कृत्य-अर्थे तवै-केन्-केन्य-त्वनः># । । PS_३,४.१४ । ।



_____Sठाऱ्ठ्JKव्_३,४.१४ः

छन्दसि इत्येव ।
कृत्यानां अर्थो भावकर्मणी ।
तस्मिन्कृत्य-अर्थे छन्दसि विषये तवै केन्केन्य त्वनित्येते प्रत्यया भवन्ति ।
तवै - अन्वेतवै ।
अन्वेतव्यं ।
परिधातवै ।
परिधातव्यं ।
परिस्तरितवै ।
परिस्तरितव्यं ।
केन्- नावगाहे ।
नावगाहितव्यं ।
केन्य - दिदृक्षेण्यः ।
शुश्रूषेण्यः ।
दिदृक्षितव्यं ।
शुश्रूषितव्यं ।
त्वन्- कर्त्वं हविः ।
कर्तव्यं ।
तुमर्थे छन्दसि इति सयादि-सूत्रेऽपि तवै विहितः, तस्य तुमर्थादन्यत्र कारके विधिर्द्रष्तव्यः । ।


____________________________________________________________________


  1. <अवचक्षे च># । । PS_३,४.१५ । ।



_____Sठाऱ्ठ्JKव्_३,४.१५ः
कृत्य्-अर्थे छन्दसि इत्येव ।
अवपूर्वात्चक्षिङः एश्प्रत्ययो निपात्यते ।
रिपुणा नावचक्षे ।
नावख्यातव्यं इत्यर्थः । ।


____________________________________________________________________


[#२९६]

  1. <भावल्-अक्षने स्था-इण्-कृञ्-वदि-चरि-हु-तमि-जनिभ्यस्तोसुन्># । । PS_३,४.१६ । ।



_____Sठाऱ्ठ्JKव्_३,४.१६ः

कृत्य-अर्थे इति निवृत्तं ।
तुमर्थे इति वर्तते ।
प्रकृत्यर्थ-विशेषणं भावलक्षण-ग्रहणं ।
भावो लक्ष्यते येन तस्मिन्नर्थे वर्तमानेभ्यः स्थादिभ्यो धातुभ्यः छन्दसि विषये तुमर्थे तोसुन्प्रत्ययो भवति ।
आसंस्थातोर्वेद्यां शेरते ।
आ समाप्तेः सीदन्ति इत्यर्थः ।
इण्- पुरा सूर्यस्तोदेतोराधेयः ।
कृञ्- पुरा वत्सानामपाकर्तोः ।
वदि - पुरा प्रवदितोरग्नौ प्रहोतव्यं ।
चरि - पुरा प्रचरितोराग्नीध्रीये होतव्यं ।
हु - आहोतोरप्रमत्तस्तिष्थति ।
तमि - आ तमितोरासीत ।
जनि - काममा विजनितोः सम्भवामेति इति । ।


____________________________________________________________________


  1. <सृपि-तृदोः कसुन्># । । PS_३,४.१७ । ।



_____Sठाऱ्ठ्JKव्_३,४.१७ः
भाव-लक्षणे छन्दसि ति वर्तते ।
सृपि-तृदोर्धात्वोः भाव-लक्षणेऽर्थे वर्तमानयोः छन्दसि विषये तुम्-अर्थे कसुन्प्रत्ययो भवति ।
पुरा क्रूरस्य विसृपो विरप्शिन् ।
पुरा जत्रुभ्य आतृदः । ।


____________________________________________________________________


  1. <अलं-खल्वोः प्रतिषेधयोः प्राचां क्त्वा># । । PS_३,४.१८ । ।



_____Sठाऱ्ठ्JKव्_३,४.१८ः

छन्दसि भाव-लक्षणे इति सर्वं निवृत्तं ।
अलं खलु इत्येतयोः प्रतिषेध-वाचिनोरुपपदयोः धातोः क्त्वा प्रत्ययो भवति प्राचां आचार्याणां मतेन ।
अलं कृत्वा ।
खलु कृत्वा ।
अलं बाले रुदित्वा ।
अलं-खल्वोः इति किं ? मा कार्षीः ।
प्रतिषेधयोः इति किं ? अलङ्कारः ।
प्राचां-ग्रहणं विकल्प-अर्थं ।
अलं रोदनेन ।
वासरूपविधिश्चेत्पूज-अर्थं । ।


____________________________________________________________________


  1. <उदीचां माङो व्यतीहारे># । । PS_३,४.१९ । ।



_____Sठाऱ्ठ्JKव्_३,४.१९ः

क्त्वा तु वर्तते ।
माङो धातोः व्यतीहारे वर्तमानादुदीचां आचार्याणां मतेन क्त्वा प्रत्ययो भवति ।
अपमित्य याचते ।
अपमित्य हरति ।
अपूर्वकालत्वादप्राप्तः क्त्वा विधीयते ।
उदीचां-ग्रहणात्तु यथाप्राप्तं अपि भवति ।
याचित्वाऽपमयते ।
गृत्वा+अपमयते ।
मेङः कृतात्वस्य अयं निर्देशः कृतो ज्ञापन-अर्थः, नानुबङ्घकृतमनेजन्तत्वं इति ।
तेन दा-धा घ्व्-अदाप्(*१,१.२०) इति दैपोऽपि प्रतिषेधो भवति । ।


____________________________________________________________________


[#२९७]

  1. <पर-अवर-योगे च># । । PS_३,४.२० । ।



_____Sठाऱ्ठ्JKव्_३,४.२०ः

पर-अवराभ्यां योगः प्रावरयोगः ।
परेण पूर्वस्य योगे गम्यमाने अवरेण च परस्य धातोः क्त्वा प्रत्ययो भवति ।
परेण तावत्- अप्राप्य नदीं पर्वतः स्थितः ।
परनदीयोगेन पर्वतो विशिष्यते ।
अवरयोगे - अतिक्रम्य तु पर्वतं नदी स्थिता ।
अवरपर्वतयोगेन नदी विशिस्यते । ।


____________________________________________________________________


  1. <समान-कर्तुऋकयोः पूर्वकाले># । । PS_३,४.२१ । ।



_____Sठाऱ्ठ्JKव्_३,४.२१ः

समानः कर्ता ययोः धात्व्-अर्थयोस्तत्र पूर्वकाले धात्व्-अर्थे वर्तमानाद्धातोः क्त्वा प्रत्ययो भवति ।
शक्तिशक्तिमतोः भेदस्य अविवक्षितत्वात्समानकर्तृकता ।
भुक्त्वा व्रजति ।
पीत्वा व्रजति ।
द्विवचनमतन्त्रं ।
स्नात्वा पीत्वा भुक्वा व्रजति ।
समान-कर्तुऋकयोः इति किं ? भुक्तवति ब्राह्मणे गच्छति देवदत्तः ।
पूर्वकाले इति किं ? व्रजति च जल्पति च ।
आस्यं व्यादाय स्वपिति चक्षुः संमील्य हस्ति इत्युपसंख्यानं अपूर्वकालत्वात् । ।


____________________________________________________________________


  1. <आभीक्ष्ण्ये णमुल्च># । । PS_३,४.२२ । ।



_____Sठाऱ्ठ्JKव्_३,४.२२ः

समानकर्तृकयोः पूर्वकाले इत्येव ।
आभीक्ष्णयं पौनःपुन्यं ।
प्रकृत्यर्थ-विशेषणं च+एतथ् ।
आभीक्ष्ण्य-विशिष्टेऽर्थे वर्तमानाद्धातोः णमुल्प्रत्ययो भवति, चकारात्क्त्व च ।
द्विर्वचन-सहितौ क्त्वाणमुलावाभीक्ष्ण्यं द्योतयतः, न केवलौ ।
आभीक्ष्ण्ये द्वे भवतः इत्युपसङ्ख्यानाद्द्विर्वचनं ।
भोजं भोजं व्रजति, भुक्त्वा भुक्त्वा व्रजति ।
पायं पायं व्रजति, पीत्वा पीत्वा व्रजति । ।


____________________________________________________________________


  1. <न यद्यनाकाङ्क्षे># । । PS_३,४.२३ । ।



_____Sठाऱ्ठ्JKव्_३,४.२३ः

यच्छब्दे उपपदे धातोः क्त्वा-णमुलौ प्रत्ययौ न भवतोऽनाकाङ्क्षे वाच्ये ।
यत्र पूर्वोत्तरे क्रिये स्तः, तच्चेद्वाक्यं न परं किञ्चिदाकाङ्क्षते इति ।
णमुलनन्तरः, क्त्वा तु पूर्वसूत्र-विहितोऽपि प्रतिषिद्यते ।
यदयं भुङ्क्ते ततः पचति ।
यदयं अधीते ततः शेते ।
अनाकाङ्क्षे इति किं ? यदयं भुक्त्वा व्रजति अधीते एव ततः परं । ।


____________________________________________________________________


[#२९८]

  1. <विभाषाऽग्रे प्रथम-पूर्वेषु># । । PS_३,४.२४ । ।



_____Sठाऱ्ठ्JKव्_३,४.२४ः

अप्राप्त-विभाषेयं ।
आभीक्ष्ण्ये इति न अनुवर्तते ।
अग्रे प्रथम पूर्व इत्येतेषु उपपदेषु समानकर्तृकयोः पूर्वकाले धातोः क्त्वाणमुलौ प्रत्ययु विभाषा भवतः ।
अग्रे भोजं व्रजति, अग्रे भुक्त्वा व्रजति ।
प्रथमं भोजं व्रजति, प्रथमं भुक्त्वा व्रजति ।
पूर्वं भोजं व्रजति, पूर्वं भुक्त्वा व्रजति ।
विभाषाग्रहणं एताभ्यां मुक्ते लडादयोऽपि यथा स्युः ।
अग्रे भुङ्क्ते ततो व्रजति ।
ननु च वासरूप इति भविस्यति ? क्त्वाणमुलौ यत्र सह विधीयेते तत्र वासरूपविधिर्न अस्ति इत्येतदनेन ज्ञाप्यते, तेन आभीक्ष्ण्ये लडादयो न भवन्ति ।
उपपदसमासः कस्मान्न क्रियते ? उक्तं तत्र+एव कारस्य प्रयोजनम्, अमैव यत्तुल्य-विधानं उपपदं तत्समस्यते, न अन्यतिति । ।


____________________________________________________________________


  1. <कर्मण्याक्रोशे कृञः खमुञ्># । । PS_३,४.२५ । ।



_____Sठाऱ्ठ्JKव्_३,४.२५ः

कर्मण्य्-उपपदे कृजो धातोः खमुञ्प्रत्ययो भवति आक्रोशे गम्यमाने ।
चोरंकारं आक्रोशति ।
चोरोऽसि, दस्युरसि इत्याक्रोशति ।
चोरकरणं आक्रोशसं पादनार्थं एव, न त्वसौ चोरः क्रियते । ।

____________________________________________________________________


  1. <स्वादुमि णमुल्># । । PS_३,४.२६ । ।



_____Sठाऱ्ठ्JKव्_३,४.२६ः

समानकर्तृकयोः पूर्वकाले कृञः इति च अनुवर्तते ।
स्वादुमि इत्यर्थ-ग्रहणं ।
स्वाद्वर्थेषु उपपदेषु कृञो णमुल्प्रत्ययो भवति ।
स्वादुङ्कारं भुङ्क्ते ।
सम्पन्नङ्कारं भुङ्क्ते ।
लवणङ्कारं ।
स्वादुमि इति मकारान्त-निपातनं ईकाराभाव-अर्थम्, च्व्यन्तस्य अपि मकार-अर्थं दीर्घाभाव-अर्थं च ।
अस्वाद्वीं स्वाद्वीं कृत्वा भुङ्क्ते स्वादुङ्-कारं भुङ्क्ते ।
वासरूपेण क्त्वा अपि भवति, स्वादुं कृत्वा भुङ्क्ते ।
तुमर्थ-अधिकाराच्च सर्व एते भावे प्रत्ययाः ।
यद्येवम्, स्वादुङ्कारं भुङ्क्ते देवदत्तः इति णमुला कर्तुरनभिहितत्वात्कर्तरि कस्मात्तृतीया न भवति ? भुजिप्रत्ययेन अभिहितः कर्ता, न च अस्मिन्प्रकरणे शक्तिशक्तिमतोर्भेदो विवक्ष्य्ते, समानकर्तृकत्वं हि विरुध्यते ।
प्रधानशक्त्य्-अभिधाने वा गुणशक्तिरभिहितवत्प्रकाशते । ।


____________________________________________________________________


  1. <अन्यथा-एवं-कथम्-इत्थंसु सिद्ध-अप्रयोगश्-चेत्># । । PS_३,४.२७ । ।



_____Sठाऱ्ठ्JKव्_३,४.२७ः

कृञः इत्येव ।
अन्यथादिषु उपपदेसु कृञो णमुल्प्रत्ययो भवति, सिद्धाप्रयोगश्चेत्करोतेर्भवति ।
कथं पुनरसौ सिद्धाप्रयोगः ? निरर्थकत्वान्न प्रयोगं अर्हति इति एवं एव प्रयुज्यते ।
अन्यथा भुङ्क्ते इति यवानर्थस्तावानेव अन्यथाकारं भुग्क्ते इति गम्यते ।
अन्यथाकारं भुङ्क्ते ।
एवङ्-कारं भुङ्क्ते ।
कथङ्-कारं भुङ्क्ते ।
इत्थं-कारं भुङ्क्ते ।
सिधाप्रयोगः इति किं ? अन्यथा कृत्वा शिरो भुङ्क्ते । ।


____________________________________________________________________


[#२९९]

  1. <यथा-तथयोरसूया-प्रतिवचने># । । PS_३,४.२८ । ।



_____Sठाऱ्ठ्JKव्_३,४.२८ः

कृञः सिद्धाप्रयोगे इति वर्तते ।
यथातथ-शब्दयोरुपपदयोः कृञो णमुल्प्रत्ययो भवति असूयाप्रतिवचने गम्यमाने ।
यद्यसूयन्पृच्छति प्रतिवक्ति तत्र प्रतिवचनं , यथाकारं अहं भोक्ष्ये, तथाकारं अहं, किं तवानेन ? असूयाप्रतिवचने इति किं ? यथा कृत्वाऽहं भोक्ष्ये, तथा त्वं द्रक्ष्यसि ।
सिद्धाप्रयोगे इत्येव, यथा कृत्वाऽहं शिरो भोक्ष्ये, किं तवानेन । ।


____________________________________________________________________


  1. <कर्मणि दृशि-विदोः साकल्ये># । । PS_३,४.२९ । ।



_____Sठाऱ्ठ्JKव्_३,४.२९ः

कर्मण्य्-उपपदे साकल्य-विशिष्तेऽर्थे दृशिविदोः धात्वोः णमुल्प्रत्ययो भवति ।
कन्यादर्शं वर्यति ।
याः याः कन्याः पश्यति तास्ताः वर्यति इत्यर्थः ।
ब्राह्मण-वेदं भोजयति ।
यं यं ब्राह्मणं जानाति लभते विचारयति वा तान्सर्वान्भोजयति इत्यर्थः ।
साकल्ये इति किं ? ब्राह्मणं दृष्ट्वा भोजयति । ।


____________________________________________________________________


  1. <यावति विन्द-जीवोः># । । PS_३,४.३० । ।



_____Sठाऱ्ठ्JKव्_३,४.३०ः

यावच्-छब्द उपपदे विन्दतेर्जीवतेश्च णमुल्प्रत्ययो भवति ।
यावद्वेदं भुङ्क्ते ।
यावल्लभते तावद्भुङ्क्ते इत्यर्थः ।
यावज्जीवं अधीते ।
यावज्जीवति तावदधीते इत्यर्थः । ।


____________________________________________________________________


  1. <चर्म-उदरयोः पूरेः># । । PS_३,४.३१ । ।



_____Sठाऱ्ठ्JKव्_३,४.३१ः

कर्मणि इत्येव ।
चर्मोदरयोः कर्मणोरुपपदयोः पूर्यतेः णमुल्प्रत्ययो भवति ।
चर्मपूरं स्तृणाति ।
उदरपूरं भुङ्क्ते । ।


____________________________________________________________________


  1. <वर्ष-प्रमाण ऊलोपश्च अस्य अन्यत्रस्याम्># । । PS_३,४.३२ । ।



_____Sठाऱ्ठ्JKव्_३,४.३२ः

कर्मणि इत्येव ।
पूरयतेः धातोः णमुल्प्रत्यय्भवति, ऊलोपश्च अस्य पूरय्तेरन्यतरस्यां भवति, समुदायेन चेद्वर्षस्य प्रमाणं इयत्ता गम्यते ।
गोष्पदपूरं वृष्टो देवः, गोष्पदप्रं वृष्टो देवः ।
सीतापूरं वृष्टो देवः, सीताप्रं वृष्टो देवः ।
अस्य ग्रहणं किमर्थं ।
उपपदस्य मा भूथ् ।
मूषिकाबिलपूरं वृष्टो देवः, मूषिकाबिलप्रं । ।


____________________________________________________________________


  1. <चेले क्नोपेः># । । PS_३,४.३३ । ।



_____Sठाऱ्ठ्JKव्_३,४.३३ः

कर्मणि इत्येव ।
क्नूयी शब्दे उन्दने च, अस्माण्ण्यन्ताद्धातोः चेल्-अर्थेषु कर्मसु उपपदेषु णमुल्प्रत्ययो भवति, वर्षप्रमाणे गम्यमाने ।
चेलक्नोपं वृष्टो देवः ।
वस्त्रक्नोपं ।
वसनक्नोपं । ।


____________________________________________________________________


[#३००]

  1. <निमूल-समूलयोः कषः># । । PS_३,४.३४ । ।



_____Sठाऱ्ठ्JKव्_३,४.३४ः

कर्मणि इत्येव ।
निमूल-समूल-शब्दयोः कर्मवाचिनोरुपपदयोः कषेः धातोः णमुल्प्रत्ययो भवति ।
निमूलकाषं कषति ।
समूलकाषं कषति ।
निमूलं समूलं कषति इत्यर्थः ।
इतः प्रभृति कषादीन्यान्वक्ष्यति तत्र कषादिषु यथा-विध्य्-अनुप्रयोगः (*३,४.४६) इति । ।


____________________________________________________________________


  1. <शुष्क-चूर्ण-रूक्षेषु पिषः># । । PS_३,४.३५ । ।



_____Sठाऱ्ठ्JKव्_३,४.३५ः

कर्मणि इत्येव ।
शुष्कादिषु कर्मवाचिषु उपपदेषु पिषेर्धातोः णमुल्प्रत्ययो भवति ।
शुष्कपेषं पिनष्टि ।
शुष्कं पिनष्टि इत्यर्थः ।
चूर्णपेषं पिनष्टि ।
चूर्णं पिनष्टि इत्यर्थः ।
रूक्षपेषं पिनष्टि ।
रूक्षं पिनष्टि इत्यर्थः । ।


____________________________________________________________________


  1. <समूल-अकृत-जीवेषु हन्-कृञ्-ग्रहः># । । PS_३,४.३६ । ।



_____Sठाऱ्ठ्JKव्_३,४.३६ः

कर्मणि इत्येव ।
समूल अकृत जीव इत्येतेषु शब्देषु कर्मसु उपपदेषु यथासङ्ख्यं हन्कृञ्ग्रह इत्येतेभ्यो धातुभ्यो णमुल्प्रत्ययो भवति ।
समूलघातं हन्ति ।
समूलं हन्ति इत्यर्थः ।
अकृतकारं करोति ।
जीवग्राहं गृह्णाति । ।


____________________________________________________________________


  1. <करणे हनः># । । PS_३,४.३७ । ।


_____Sठाऱ्ठ्JKव्_३,४.३७ः

करणे उपपदे हन्तेर्धातोः णमुल्प्रत्ययो भवति ।
पाणिघातं वेदिं हन्ति ।
पादघातं भूमिं हन्ति ।
हिंस-अर्थानां च समानकर्मकाणां (*३,४.४८) ।
इति णमुलं वक्ष्यति ।
अहिंस-अर्थोऽयं आरम्भः ।
नित्यसमास-अर्थो वा यथा विध्य्-अनुपर्योग-अर्थश्च ।
पूर्वविप्रतिषेधेन हन्तेः हिंसार्थस्य अपि प्रत्ययोऽनेन+एव+इष्यते ।
असिघातं हन्ति ।
शरघातं हन्ति । ।


____________________________________________________________________


  1. <स्नेहने पिषः># । । PS_३,४.३८ । ।



_____Sठाऱ्ठ्JKव्_३,४.३८ः

करने इत्येव ।
स्निह्यते येन तत्स्नेहनं ।
स्नेहन-वाचिनि करणे उपपदे पिषेर्धातोः णमुल्प्रत्ययो भवति ।
उदपेषं पिनष्टि ।
तैलपेषं पिनष्टि ।
तैलेन पितष्टि इत्यर्थः । ।


____________________________________________________________________


[#३०१]

  1. <हस्ते वर्ति-ग्रहोः># । । PS_३,४.३९ । ।


_____Sठाऱ्ठ्JKव्_३,४.३९ः

करणे इत्येव ।
हस्ते इत्यर्थ-ग्रहणं ।
वर्तिः ण्यन्तः ।
हस्त-वाचिनि करणे उपपदे वर्तयतेः गृह्णातेश्च णमुल्प्रत्ययो भवति ।
हस्तेन वर्तयति, हस्तवर्तं वर्तयति ।
करवर्तं ।
पाणिवर्तं ।
ग्रहेः खल्वपि - हस्तेन गृह्णाति, हस्तग्राहं गृह्णाति ।
करग्राहं ।
पाणिग्राहं । ।


____________________________________________________________________


  1. <स्वे पुषः># । । PS_३,४.४० । ।



_____Sठाऱ्ठ्JKव्_३,४.४०ः

करणे इत्येव ।
स्वे इत्यर्थ-ग्रहणं ।
स्व-वाचिनि करणे उपपदे पुषेर्धातोः णमुल्प्रत्ययो भवति ।
आत्मीयज्ञातिधन-वचनः स्व-शब्दः ।
स्वपोषं पुष्णाति ।
आत्मपोषं ।
गोपोषं ।
पितृपोषं ।
मातृपोषं ।
धनपोषं ।
रैपोषं । ।


____________________________________________________________________


  1. <अधिकरणे वन्धः># । । PS_३,४.४१ । ।



_____Sठाऱ्ठ्JKव्_३,४.४१ः

अधिकरण-वाचिनि उपपदे बध्नातेः धातोः णमुल्प्रत्ययो भवति ।
चक्रबन्धं बध्नाति ।
कूटबन्धं बध्नाति ।
मुष्टिबन्धं बध्नाति ।
चोरकबन्धं बध्नाति ।
चोरके बध्नाति इत्यर्थः । ।


____________________________________________________________________


  1. <सञ्ज्ञायाम्># । । PS_३,४.४२ । ।



_____Sठाऱ्ठ्JKव्_३,४.४२ः

सञ्ज्ञायां विषये बध्नातेः धातोः णमुल्प्रत्ययो भवति ।
क्रौञ्चबन्धं बध्नाति ।
मयूरिकाबन्धं बध्नाति ।
मयूरिकाबन्धं बधः ।
अट्टालिकाबन्धं बद्धः ।
बन्ध-विशेषाणां नामधेयानि एतानि । ।


____________________________________________________________________


  1. <कर्तोर्जीव-पुरुषयोर्नशि-वहोः># । । PS_३,४.४३ । ।



_____Sठाऱ्ठ्JKव्_३,४.४३ः

जीव-पुरुषयोः कर्तृ-वाचिनोरुपपदयोः यथासङ्ख्यं नशि-वहोः धात्वोः णमुल्प्रत्ययो भवति ।
जीवनाशं नश्यति ।
जीवो नश्यति इत्यर्थः ।
पुरुषवाहं वहति ।
पुरुषः प्रेष्यो भूत्वा वहति इत्यर्थः ।
कर्तरि इति किं ? जीवेन नष्टः ।
पुरुषेणोढः । ।


____________________________________________________________________


  1. <ऊर्ध्वे शुषि-पूरोः># । । PS_३,४.४४ । ।



_____Sठाऱ्ठ्JKव्_३,४.४४ः

कर्तृ-ग्रहणं अनुवर्तते ।
ऊर्ध्व-शब्दे कर्तृ-वाचिनि उपपदे शुषिषुरोः धात्वोः णमुल्प्रत्ययो भवति ।
ऊर्ध्वशोषं शुष्यति ।
ऊर्ध्वं शुष्यति इत्यर्थः ।
ऊर्ध्वपूरं पूर्यते ।
ऊर्ध्वं पूर्यते इत्यर्थः । ।


____________________________________________________________________


[#३०२]

  1. <उपमाने कर्मणि च># । । PS_३,४.४५ । ।



_____Sठाऱ्ठ्JKव्_३,४.४५ः

उपमीयतेऽनेन इत्युपमानं ।
उप्माने कर्मणि उपपदे, चकारात्कर्तरि, धातोः णमुल्प्रत्ययो भवति ।
घृतनिधायं निहितः ।
घृतं इव निहितः इत्यर्थः ।
सुवर्णनिधायं निहितः ।
सुवर्णं इव निहितः इत्यर्थः ।
कर्तरि खल्वपि - अजकनाशं नष्टः ।
अजक इव नष्टः ।
चूडकनाशं ।
दन्तनाशं । ।


____________________________________________________________________


  1. <कषादिषु यथाविध्य्-अनुप्रयोगः># । । PS_३,४.४६ । ।



_____Sठाऱ्ठ्JKव्_३,४.४६ः

निमूलसमूलयोः इत्येतदारभ्य कषादयः ।
एतेषु यथाविध्य्-अनुप्रयोगो भवति ।
यस्माद्धातोः णमुल्प्रत्ययो भवति स एव अनुप्रयोक्तव्यः ।
ननु धातु-सम्बन्धे प्रत्यय-विधानादनुप्रयोगः सिद्ध एव ? यथाविधि इति नियम-अर्थं वचनम्, तथा च+एव+उदाहृतं । ।


____________________________________________________________________


  1. <उपदंशस्तृतीयायाम्># । । PS_३,४.४७ । ।



_____Sठाऱ्ठ्JKव्_३,४.४७ः

दंश दशने, अस्माद्धतोरुपपूर्वात्तृतीयान्ते उपपदे णमुल्प्रत्ययो भवति ।
मूलकोपदंशं भुङ्क्ते, मूलकेनोपदंशं ।
आऋद्रकोपदंशम्, आर्द्रकेणोपदंशं ।
अत्र विकल्पेन+उपपद-समासः तृतीयाप्रभृतीन्य्-अन्तरस्यां (*२,२.२१) ।
मूलकादि चोपदंशेः कर्म ।
भुजेः करणं ।
सर्वस्मिन्नेव अत्र णमुल्-प्रकरणे क्रियाभेदे सति वासरूप-विधिना क्त्वापि भवति ।
मूलकेनोपदश्य भुङ्क्ते । ।

____________________________________________________________________


  1. <हिंसा-अर्थानां च समानकर्मकाणाम्># । । PS_३,४.४८ । ।



_____Sठाऱ्ठ्JKव्_३,४.४८ः

तृतीयायां इत्येव ।
हिंसा प्राण्य्-उपघातः ।
तदर्थानां धातूनां अनुप्रयोग-धातुना समान-कर्मकाणां तृतीयान्ते उपपदे णमुल्प्रत्ययो भवति ।
दण्डोपघातं गाः कालयति, दण्डेनोपघातं ।
दण्डताडम्, दण्डेन ताडं ।
समानकर्मकाणां इति किं ? चोरं दण्डेनोपहत्य गोपालको गाः कालयति । ।


____________________________________________________________________


  1. <सप्तम्यां च+उपपीड-रुध-कर्षः># । । PS_३,४.४९ । ।



_____Sठाऱ्ठ्JKव्_३,४.४९ः

उपशब्दः प्रत्येकं अभिसम्बध्यते ।
उपपूर्वेभ्यः पीड-रुध-कर्षेभ्यः सप्तम्यन्ते उपपदे, चकारात्तृतीयान्ते उपपदे, णमुल प्रत्ययो भवति ।
पार्श्वोपपीडं शेते, पार्श्वयोरुपपीडम्, पार्श्वाभ्यां उपपीडं ।
व्रजोपरोधं गाः स्थाप्यति, व्रजे उपरोधम्, व्रजेनोपरोधं ।
पाण्युपकर्षं धानाः संगृह्णाति, पाणावुपकर्षम्, पाणिनोपकर्षं ।
कर्षतेरिदं ग्रहणं न कृषतेः । ।


____________________________________________________________________


[#३०३]

  1. <समासत्तौ># । । PS_३,४.५० । ।



_____Sठाऱ्ठ्JKव्_३,४.५०ः

सप्तम्यां तृतीयायां इति वर्तते ।
समासत्तिः सन्निकर्षः ।
समासत्तौ गम्यमानायां तृतीया-सप्तम्योः उपपदयोः धातोः णमुल्प्रत्ययो भवति ।
केशग्राहं युध्यन्ते, केशेषु ग्राहम्, केशैर्ग्राहं ।
हस्तग्राहम्, हस्तेषु ग्राहम्, हस्तैर्ग्राहं ।
युद्धसंरम्भादत्यन्तं सन्निकृष्यन्ते इत्यर्थः । ।


____________________________________________________________________


  1. <प्रमाणे च># । । PS_३,४.५१ । ।



_____Sठाऱ्ठ्JKव्_३,४.५१ः

तृतीया-सप्तम्योः इत्येव ।
प्रमाणं आयामः, दैर्घ्यं ।
प्रमाणे गम्यमने तृतीया-सप्तम्योः उपपदयोः धातोर्णमुल्प्रत्ययो भवति ।
द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति, द्व्यङ्गुले उत्कर्षम्, द्व्यङ्गुलेनोत्कर्षं ।
त्र्यङ्गुलोत्कर्षं । ।


____________________________________________________________________


  1. <अपादाने परीप्सायाम्># । । PS_३,४.५२ । ।



_____Sठाऱ्ठ्JKव्_३,४.५२ः

परीप्सा त्वरा ।
परीप्सायां गम्यमानायां अपादाने उपपदे धातोः णमुल्प्रत्ययो भवति ।
शय्योत्थायं धावति, शय्याया उत्थाय ।
एवं नाम त्वरते यदवश्यंकर्तव्यं अपि न अपेक्षते ।
शय्योत्थानमात्रं आद्रियते ।
रन्ध्रापकर्षं पयः पिवति ।
भ्राष्ट्रापकर्षमपूपान्भक्षयति ।
परीप्सायां इति किं ? आसनादुत्थाय गच्छति । ।


____________________________________________________________________


  1. <द्वितियायां च># । । PS_३,४.५३ । ।



_____Sठाऱ्ठ्JKव्_३,४.५३ः

परीपसायां इत्येव ।
द्वितीयान्त उपपदे परीप्सायां गम्यमानायां धातोः णमुल्प्रत्ययो भवति ।
यष्टिग्राहं युध्यन्ते, यष्टिं ग्राहं ।
लोष्टग्राहम्, लोष्टं ग्राहं ।
एवं नाम त्वरते यदायुध-ग्रहणं अपि न अद्रियते ।
लोष्तादिकं यत्किंचिदासन्नं तद्गृह्णाति । ।


____________________________________________________________________


  1. <स्वाङ्गेऽध्रुवे># । । PS_३,४.५४ । ।



_____Sठाऱ्ठ्JKव्_३,४.५४ः

द्वितीयायां इत्येव ।
अग्रुवे स्वाङ्ग-वाचिनि द्वितीयान्त उपपदे धातोः णमुल्प्रत्ययो भवति ।
अक्षिनिकाणं जल्पति ।
भ्रूविक्षेपं कथयति ।
अघ्रुवे इति किं ? उत्क्षिप्य शिरः कथयति ।
यस्मिनङ्गे छिन्नेऽपि प्राणी न म्रियते तदघ्रुवं ।
अद्रवं मूर्तिमत्स्वाङ्गं । ।


____________________________________________________________________


[#३०४]

  1. <परिक्लश्यमाने च># । । PS_३,४.५५ । ।



_____Sठाऱ्ठ्JKव्_३,४.५५ः

स्वाङ्गे, द्वितीयायां इत्येव ।
परिक्लिश्यमाने स्वाङ्ग-वाचिनि द्वितीयान्ते उपपदे धातोः णमुल्प्रत्ययो भवति ।
परिक्लेशः सर्वतो विबाधनम्, दुःखनं ।
उरःपेषं युध्यन्ते, उरःप्रतिपेषं युध्यन्ते ।
शिरःपेषम्, शिरःप्रतिपेषं ।
कृत्स्नमुरः पीडयन्तो युध्यन्ते ।
घ्रुवार्थोऽयं आरम्भः । ।


____________________________________________________________________


  1. <विशि-पति-पदि-स्कन्दां व्याप्यमान-आसेव्यमानयोः># । । PS_३,४.५६ । ।



_____Sठाऱ्ठ्JKव्_३,४.५६ः

द्वितीयायां इत्येव ।
द्वितीयान्ते उपपदे विश्यादिभ्यो धातुभ्यो णमुल्प्रत्ययो भवति, व्याप्यमाने आसेव्यमाने च अर्थे गम्यमाने ।
विश्यादिभिः क्रियाभिरनवयवेन पदार्थानां सम्बन्धो व्याप्तिः ।
तात्पर्यं आसेवा ।
द्रव्ये व्याप्तिः, क्रियायामासेवा ।
गेह-अनुप्रविशं आस्ते ।
समासेन व्याप्त्यासेवयोरुक्तत्वात्नित्य-वीप्सयोः (*८,१.४) इति द्विर्वचनं न भवति ।
असमासपक्षे तु व्याप्यमानतायां द्रव्य-वचनस्य द्विर्वचनम्, आसेव्यमानतायां तु क्रिया-वचनस्य ।
तथा च वक्ष्यति - सुप्सु वीप्स, तिङ्क्षु नित्यता इति ।
गेहं गेहं अनुप्रवेशं आस्ते ।
आसेवायां - गेहं अनुप्रवेशं अनुप्रवेशं आस्ते ।
पति - गेह-अनुप्रपातं आस्ते गेहं गेहं अनुप्रपातं आस्ते, गेहं अनुप्रपातं अनुप्रपातं आस्ते ।
पदि - गेह-अनुप्रपादं आस्ते, गेहं गेहं अनुप्रपादम्, गेहं अनुप्रपादं अनुप्रपादं ।
स्कन्दि - गेह-अवस्कन्दं आस्ते, गेहं गेहं अवस्कन्दम्, गेहं अवस्कन्दं अवस्कन्दं ।
व्याप्यं आनासेव्यमानयोः इति किं ? गेहं अनुप्रविश्य भुङ्क्ते ।
ननु आभीक्ष्ण्ये णमुल् विहित एव, आसेवा आभीक्ष्ण्यं एव, किं अर्थं पुनर् आसेवायां णमुलुच्यते ? क्त्वानिवृत्त्य्-अर्थं इति चेत्, न, इष्टत्वात्तस्य ।
द्वितीयोपपद-अर्थं तर्हि वचनम्, उपपदसमासः पक्षे यथा स्याथ् ।
तेन हि सति उपपदाभावः । ।


____________________________________________________________________


  1. <अस्यति-तृषोः क्रियान्तरे कालेषु># । । PS_३,४.५७ । ।



_____Sठाऱ्ठ्JKव्_३,४.५७ः

द्वितीयायां इत्येव ।
क्रियामन्तरयति क्रियान्तरः, क्रियाव्यवधायकः ।
क्रियान्तरे धात्वर्थे वर्तमानाभ्यां अस्यति-तृषिभ्यां द्वितीयान्तेषु काल-वाचिषु उपपदेषु णमुल्प्रत्ययो भवति ।
द्व्यहात्यासं गाः पाययति, द्व्यहमत्यासं गाः पाययति ।
त्र्यहात्यासं गाः पाययति, त्र्यहमत्यासं गाः पाययति ।
द्व्यहतर्षं गाः पाययति, द्व्यहंतर्षं गाः पाययति ।
अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते विच्छिद्यते ।
अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययति इत्यर्थः ।
अस्यति-तृषोः इति किं ? द्व्यहमुपोष्य भुङ्क्ते ।
क्रियान्तरे इति किं ? अहरत्यस्य इषून्गतः ।

[#३०५]

न गतिर्व्यवधीयते ।
कालेषु इति किं ? योजनं अत्यस्य गाः पाययति ।
अध्वकर्मकं अत्यसनं व्यवधायकम्, न काल-कर्मकं । ।


____________________________________________________________________


  1. <नाम्न्य्-आदिशि-ग्रहोः># । । PS_३,४.५८ । ।



_____Sठाऱ्ठ्JKव्_३,४.५८ः

द्वितीयायां इत्येव ।
नाम-शब्दे द्वितीयान्ते उपपदे आदिशेर्ग्रहेश्च धातोः णमुल्प्रत्ययो भवति ।
देशं आचष्ते ।
नामग्राहं आचष्टे । ।


____________________________________________________________________


  1. <अव्ययेऽयथाभिप्रेत-आख्याने कृञः क्त्वा-णमुलौ># । । PS_३,४.५९ । ।



_____Sठाऱ्ठ्JKव्_३,४.५९ः

अव्यये उपपदे अयथभिप्रेत-आख्याने गम्यमाने करोतेः क्त्वा-णमुलौ भवतः ।
ब्राह्मण, पुत्रस्ते जातः ।
किं तर्हि वृषल, नीचैः कृट्याचक्षे, नीचैः कृत्वा, नीचैः कारं ।
उच्चैर्नाम प्रियं आख्येयं ।
ब्राहमण, कन्या ते गर्भिणी ।
किं तर्हि वृषल, उच्चैः कृत्याचक्षे, उच्चैः कृत्वा, उच्चैः कारं ।
नीचैर्नामाप्रियं आख्येयं ।
अयथाभिप्रेत-आख्याने इति किं ? उच्चैः कृत्वाचष्टे पुत्रस्ते जातः इति ।
क्त्वा-ग्रहणं किम्, यावता सर्वस्मिन्नेव अत्र प्रकरणे वासरूपेण क्त्वा भवति इत्युक्तं ? समास-अर्थं वचनं ।
तथा च क्त्वा च (*२,२.२२) इत्यस्मिन्सूत्रे तृतीया-प्रभृतीन्य्-अन्यतरस्यां (*२,२.२१) इति वर्तते ।
णमुल्-अधिकारे पुनर्णमुल्-ग्रहणं तुल्यकक्षत्वज्ञापन-अर्थम्, तेन+उत्तरत्र द्वयोरप्यनुवृत्तिर्भविष्यति । ।


____________________________________________________________________


  1. <तिर्यच्यपवर्गे># । । PS_३,४.६० । ।



_____Sठाऱ्ठ्JKव्_३,४.६०ः

तिर्यक्-शब्दे उपपदे कृञः क्त्वाणमुलौ प्रत्ययौ भवतः, अपवर्गे गम्यमाने ।
अपवर्गः समाप्तिः ।
तिर्यक्-कृत्य गतः, तिर्यक्-कृत्वा गतः, तिर्यक्-कारं गतः ।
समाप्य गतः इत्यर्थः ।
अपवर्गे इति किं ? तिर्यक्-कृत्वा काष्ठं गतः ।
तिर्यचि इति शब्द-अनुकरणं ।
न च प्रकृतिवद्-अनुकरणेन भवितव्यम्, अनुक्रियमाणरूपविनाशप्रसङ्गात्, एतदोऽश्, अदसो मात्(*१,१.१२) इति । ।


____________________________________________________________________


[#३०६]

  1. <स्वाङ्गे तस्-प्रत्यये कृभ्वोः># । । PS_३,४.६१ । ।



_____Sठाऱ्ठ्JKव्_३,४.६१ः

तस्-प्रत्ययो यतः स्व-अङ्गात्तदेवं उच्यते ।
तस्-प्रत्यये स्वाङ्ग-वाचिनि उपपदे करोतेः भवतेश्च धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः ।
यथा-सङ्ख्यं अत्र नेष्यते, अस्वरितत्वाथ् ।
मुखतः-कृत्य गतः, मुखतः कृत्वा गतः, मुखतः-कारं गतः ।
मुखतोभूय तिष्ठति, मुखतो भूत्वा तिष्ठति, मुखतोभावं तिष्ठति ।
पृष्ठतःकृत्य गतः, पृष्ठतः कृत्वा गतः, पृष्ठतः कारं गतः ।
पृष्ठतोभूय गतः, पृष्ठतो भूत्वा, पृष्ठतोभावं ।
स्वाङ्गे इति किं ? सर्वतः कृत्वा गतः ।
तस्-ग्रहणं किं ? मुखीकृत्य गतः ।
मुखीभूय गतः ।
प्रत्यय-ग्रहणं किं ? मुखे तस्यति इति मुखतः, मुखतः कृत्वा गतः । ।


____________________________________________________________________

  1. <ना-धा-अर्थप्रत्यये च्व्य्-अर्थे># । । PS_३,४.६२ । ।



_____Sठाऱ्ठ्JKव्_३,४.६२ः

ना-अर्थो धा-अर्थश्च प्रत्ययो यस्मात्स एवं उच्यते ।
नाधार्थप्रत्यये शब्दे च्व्य्-अर्थे उपपदे कृभ्वोः धात्वोः क्त्वाणमुलौ प्रत्ययु भवतः ।
अनाना नाना कृत्वा गतः नानाकृत्य गतः, नाना कृत्वा गतः, नानाकारं गतः ।
विनाकृत्य गतः, विना कृत्वा गतः, विनाकारं गतः ।
नानाभूय गतः, नाना भूत्वा गतः, नानाभावं गतः ।
विनाभूय गतः, विना भूत्वा गतः, द्विनाभावं गतः ।
द्विधाकृत्य गतः, द्विधा कृत्वा गतः, द्विधाकारं गतः ।
द्विधाभूय गतः, द्विधा भूत्वा गतः, द्विधाभावं गतः ।
द्वैधंकृत्य गतः, द्वैधं कृत्वा गतः, द्वैधंकारं गतः ।
द्वैधंभूय गतः, द्वैधं भूत्वा गतः, द्वैधंभावं गतः ।
प्रत्यय-ग्रहणं किं ? हिरुक्कृत्वा ।
पृथक्कृत्वा ।
च्व्य्-अर्थे इति किं ? नाना कृत्वा काष्ठानि गतः ।
धार्थं अर्थ-ग्रहणम्, ना पुनरेक एव, विनञ्भ्यां नानाञौ इति । ।


____________________________________________________________________


  1. <तूष्णीमि भुवः># । । PS_३,४.६३ । ।



_____Sठाऱ्ठ्JKव्_३,४.६३ः

तूष्णीं-शब्दे उपपदे भवतेः धातोः क्त्वाणमुलौ प्रत्ययौ भवतः ।
तूष्णीं-भूय गतः, तूष्णीं भूत्वा, तूष्णीं-भावं ।
भू-ग्रहणं कृञो निव्éत्त्य्-अर्थं । ।


____________________________________________________________________


  1. <अन्वच्यानुलोम्ये># । । PS_३,४.६४ । ।



_____Sठाऱ्ठ्JKव्_३,४.६४ः

अन्वक्-शब्दे उपपदे भवतेर्धातोः आनुलोम्ये क्त्वाणमुलौ भवतः ।
आनुलोम्यं अनुलोमता, अनुकूलत्वम्, परिचित्तानुविधानं ।
अन्वग्भूय आस्ते, अन्वग्भूत्वा आस्ते, अन्वग्भावं आस्ते ।
आनुलोम्ये इति किं ? अन्वग्भूत्वा तिष्ठति । ।


____________________________________________________________________


[#३०७]

  1. <शक-धृष-ज्ञा-ग्ला-घट-रभ-लभ-क्रम-सह-अर्ह-अस्त्य्-अर्थेषु तुमुन्># । । PS_३,४.६५ । ।



_____Sठाऱ्ठ्JKव्_३,४.६५ः

शक-आदिषु उपपदेषु अस्त्य्-अर्थेषु वा धातुमात्रात्तुमुन्प्रत्ययो भवति ।
अत्रियार्थोपपदार्थोऽयं आरम्भः ।
शक्नोति भोक्तुं ।
धृष्णोति भोक्तुं ।
जानाति भोक्तुं ।
ग्लायति भोक्तुं ।
घटते भोक्तुं ।
आरभते भोक्तुं ।
लभते भोक्तुं ।
प्रक्रमते भोक्तुं ।
सहते भोक्तुं ।
अर्हति भोक्तुं ।
अस्त्य्-अर्थेषु खल्वपि - अस्ति भोक्तुं ।
भवति भोक्तुं । ।


____________________________________________________________________

  1. <पर्याप्ति-वचनेष्वलम्-अर्थेषु># । । PS_३,४.६६ । ।



_____Sठाऱ्ठ्JKव्_३,४.६६ः

पर्याप्तिः अन्यूनता ।
पर्याप्ति-वचनेषु अलमर्थेषु उपपदेषु धातोस्तुमुन्प्रत्यओ भवति ।
पर्याप्तो भोक्तुं ।
अलं भोक्तुं ।
भोक्तुं पारयति ।
पर्याप्ति-वचनेषु इति किं ? अलं कृत्वा ।
अलम्-अर्थेषु इति किं ? पर्याप्तं भुङ्क्ते ।
पूर्वसूत्रे शकिग्रहणं अनलमर्थम्, शक्यं एवं कर्तुं इति । ।


____________________________________________________________________


  1. <कर्तरि कृत्># । । PS_३,४.६७ । ।



_____Sठाऱ्ठ्JKव्_३,४.६७ः

कृत्-सञ्ज्ञकाः प्रत्ययाः कर्तरि कारके भवन्ति ।
कृद्-उत्पत्ति-वाक्यानां अयं शेषः ।
तत्र येषु अर्थ-निर्देशो नास्ति तत्र+इदं उपतिष्ठते, अर्थाकाङ्क्षत्वाथ् ।
न ख्युन्नादि-वाक्येषु, साक्षादर्थ-निर्देशे सति तेषां निराकाङ्क्षत्वाथ् ।
कारकः ।
कर्ता ।
नन्दनः ।
ग्राही ।
पचः । ।


____________________________________________________________________


  1. <भव्य-गेय-प्रवचनीय-उपस्थानीय-जन्य-आप्लाव्य-आपात्या वा># । । PS_३,४.६८ । ।



_____Sठाऱ्ठ्JKव्_३,४.६८ः

भव्यादयः शब्दाः कर्तरि वा निपात्यन्ते ।
तयोरेव कृत्य-क्त-खल्-अर्थः (*३,४.७०) ।
इति भाव-कर्मणोः प्राप्तयोः कर्ता च वाच्यः पक्षे उच्यते ।
भवत्यसौ भव्यः, भव्यं अनेन इति वा ।
गेयो माणवकः साम्नाम्, गेयानि माणवकेन सामानि इति वा ।
प्रवचनीयो गुरुः स्वाध्यायस्य, प्रवचनीयो गुरुणा स्वाध्याय इति वा ।
उपस्थानीयोऽन्तेवासी गुरोः, उपस्थानीयः शिष्येण वा गुरुः ।
जायतेऽसौ जन्यः, जन्यमनेन इति वा ।
आप्लवतेऽसावाप्लाव्यः, आप्लाव्यं अनेन इति वा ।
आपतति असावापात्यः, आपात्यं अनेन इति वा । ।


____________________________________________________________________


  1. <लः कर्मणि च भावे च अक्रमकेभ्यः># । । PS_३,४.६९ । ।



_____Sठाऱ्ठ्JKव्_३,४.६९ः

लः इत्युत्सृष्टानौबन्धं सामान्यं गृह्यते, प्रथमाबहुवचनान्तं चा+एअथ् ।
लकाराः कर्मणि कारके भवन्ति, चकारात्कर्तरि च अकर्मकेभ्यो धातुभ्यो भावे भवन्ति, पुनश्चकारात्कर्तरि च ।
गम्यते ग्रामो देवदत्तेन ।
गच्छति ग्रामं देवदत्तः ।
अकर्मकेभ्यः - आस्यते देवदत्तेन ।
आस्ते देवदत्तः ।
सक्रमकेभ्यो भावे न भवन्ति । ।


____________________________________________________________________


[#३०८]

  1. <तयोरेव कृत्य-क्त-खल्-अर्थाः># । । PS_३,४.७० । ।



_____Sठाऱ्ठ्JKव्_३,४.७०ः

तयोरेव भावकर्मणोः कृत्य-सञ्ज्ञाकाः क्त-खल्-अर्थाश्च प्रत्यया भवन्ति ।
एव-कारः कर्तुरपकर्शण-अर्थः ।
कृत्याः कर्मणि - कर्तव्यः कटो भवता ।
भोक्तव्य ओदनो भवता ।
भावे - आशितव्यं भवता ।
शयितव्यं भवता ।
क्तः कर्मणि - कृतः कटो भवता ।
भुक्त ओदनो भवता ।
भावे - आसितं भवता ।
शयितं भवता ।
खल्-अर्थाः कर्मणि ईषत्करः कटो भवता ।
सुकरः ।
दुष्करः ।
भावे - ईषदाढ्यंभवं भवता ।
स्वाढ्यंभवं भवता ।
भावो चाक्रमकेभ्यः इत्यनुवृत्तेः सकर्मकेभ्यो भावे न भवन्ति । ।


____________________________________________________________________


  1. <आदिकर्मणि क्तः कर्तरि च># । । PS_३,४.७१ । ।



_____Sठाऱ्ठ्JKव्_३,४.७१ः

आदिकर्मणि यः क्तो विहितः स कर्तरि भवति ।
चकाराद्यथाप्राप्तं भावकर्मणोः ।
आदिभूतः क्रियाक्षण आदिकर्म, तस्मिन्नादिकर्मणि भूतत्वेन विवक्षिते यः क्तो विहितः, तस्य अयं अर्थ-निर्देशः ।
प्रकृतः कटं देवदत्तः, प्रकृतः क्तो देवदत्तेन, प्रकृतं देवदत्तेन ।
प्रभुक्त ओदनं देवदत्तः, प्रभुक्त ओदनो देवदत्तेन, प्रभुक्तं देवदत्तेन । ।


____________________________________________________________________

  1. <गत्य्-अर्थ-अक्रमक-श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतिभ्यश्च># । । PS_३,४.७२ । ।



_____Sठाऱ्ठ्JKव्_३,४.७२ः

गत्य्-अर्थभ्यो धातुभ्योऽकर्मकेभ्य श्लिषादिभ्यश्च यः क्तः, स कर्तरि भवति ।
चकाराद्यथाप्राप्तं च भावकर्मणोः ।
गतो देवदत्तो ग्रामम्, गतो देवदत्तेन ग्रामन्, गतो देवदत्तेन ग्रामः, गतं देवदत्तेन ।
अकर्मकेभ्यः - ग्लानो भवान्, ग्लानं भवता ।
आसितो भवान्, आसितं भवता ।
श्लिष - उपश्लिष्टो गुरुं भवान्, उपश्लिष्टो गुरुर्भवता, उपश्लिष्टं भवता ।
शीङ्- उपशयितो गुरुं भवान्, उपशयितो गुरुर्भवता, उपशयितं भवता ।
स्था - उपस्थितो गुरुं भवान्, उपस्थितो गुरुर्भवता, उपस्थितं भवता ।
आस - उपासितो गुरुं भवान्, उपासितो गुरुर्भवता, उपासितं भवता ।
वस - अनूषितो गुरुं भवान्, अनूषितो गुरुर्भवता, अनूषितं भवता ।
जन - अनुजातो माणवको माण - विकाम्, अनुजाता माणवकेन माणविका, अनुजातं माणवकेन ।
रुह - आरूढो वृक्षं भवान्, आरूढो वृक्षो भवता, आरूढं भवता ।
जीर्यति - अनुजीर्णो वृषलीं देवदत्तः, अनुजीर्णा वृपली देवदत्तेन, अनुजीर्णं देवदत्तेन ।
श्लिषादयः सोपसर्गाः सकर्मका भवन्ति, तदर्थं एषां उपादानं । ।


____________________________________________________________________


  1. <दाश-गोघ्नौ सम्प्रदाने># । । PS_३,४.७३ । ।



_____Sठाऱ्ठ्JKव्_३,४.७३ः

दाश-गोघ्नौ शब्दौ संप्रदाने कारके निपात्येते ।
दाशृ दाने, ततः पचाद्यछ् ।
स कृत्सञ्ज्ञकत्वात्कर्तरि प्राप्तः, सम्प्रदाने निपात्यते ।
दाशन्ति तस्मै इति दाशः ।
आगताय तस्मै दातुं गां हन्ति इति गोघ्नः, अर्घार्होऽतिथिः ।
टगत्र निपात्यते ।
निपातन-सामर्थ्यादेव गोघ्नः ऋत्विग्-आदिरुच्यते, न तु चण्डालादिः ।
असत्यपि च गोहनने तस्य योग्यतया गोघ्नः इत्यभिधीयते । ।


____________________________________________________________________


[#३०९]

  1. <भीम-आदयोऽपादाने># । । PS_३,४.७४ । ।



_____Sठाऱ्ठ्JKव्_३,४.७४ः

भीमादयः शब्दा अपादाने निपात्यन्ते ।
उणादि-प्रत्ययान्ता एते, इषियुधीन्धिदसिश्याधूसूभ्यो मक्, भियष्षुक्ग्रस्वश्च इत्येवं आदयः ।
ताभ्यां अन्यत्र-उणादयः (*३,४.७५) इति पर्यदासे प्राप्ते निपातनं आरभ्यते ।
भीमः ।
भीष्मः ।
भयानकः ।
वरुः ।
भूमिः ।
रजः ।
संस्कारः ।
संक्रन्दनः ।
प्रपतनः ।
समुद्रः ।
स्रुचः ।
स्रुक् ।
खलतिः । ।


____________________________________________________________________


  1. <ताभ्यां अन्यत्र-उणादयः># । । PS_३,४.७५ । ।



_____Sठाऱ्ठ्JKव्_३,४.७५ः

उणादयः शब्दाः ताभ्यां अपादान-सम्प्रदानाभ्यां अन्यत्र कारके भवन्ति ।
कृत्त्वात्कर्तर्येव प्राप्ताः कर्मादिषु कथ्यन्ते ।
ताभ्यां इति सम्प्रदान-अर्थः प्रत्यवमर्शः, अन्यथा ह्यपादानं एव पर्युदस्येत, अनन्तरत्वाथ् ।
कृषितोऽसौ कृषिः ।
तनित इति तन्तुः ।
वृत्तं इति वर्त्म ।
चरितं चर्म । ।


____________________________________________________________________


  1. <क्तोऽधिकरणे च ध्रौव्य-गति-प्रत्यवसान-अर्थेभ्यः># । । PS_३,४.७६ । ।



_____Sठाऱ्ठ्JKव्_३,४.७६ः

द्रौव्य-अर्थाः अकर्मकाः, प्रत्यवसान-अर्थाः अभ्यवहार-अर्थाः इति स्वनिकाय-प्रसिद्धिः ।
ध्रौव्या-गति-प्रत्यवसान-अर्थेभ्यः यः क्तो विहितः सोऽधिकरणे भवति ।
चकाराद्यथाप्राप्तं च ।
ध्रौव्य-अर्थेभ्यः कर्तृभाव-अधिकरणेषु, गत्य्-अर्थेभ्यः कर्तृकर्मभाव-अधिकरनेषु, प्रत्यवसान-अर्थेभ्यः कर्मभाव-अधिकरणेसु ।
भ्रौव्य-अर्थेभ्यः तावत्- आसितो देवदत्तः, आसितं तेन, इदं एषां आसितं ।
गत्य्-अर्थेभ्यः - यातो देवदत्तो ग्रामम्, यातो देवदत्तेन ग्रामः, यातं देवदत्तेन, इदं एषां यातं ।
प्रत्यवसान-अर्थेभ्यः - भुक्तः ओदनो देवदत्तेन, देवदत्तेन भुक्तम्, इदं एषां भुक्तं ।
कथं भुक्ता ब्राह्मणाः, पीता गावः इति ।
अकारो मत्वर्थीयः, भुक्तं एषां अस्ति, पीतं एषां अस्ति इति । ।


____________________________________________________________________


  1. <लस्य># । । PS_३,४.७७ । ।



_____Sठाऱ्ठ्JKव्_३,४.७७ः

लस्य इत्ययं अधिकारः ।
अकार उच्चारन-अर्थः ।
लकारमात्रं स्थानित्वेन अधिक्रियते ।
यदिति ऊर्ध्वं अनुक्रमिष्यामः लस्य इत्येवं तद्वेदितव्यं ।
किं च+इदं लस्य इति ? दश लकारा अनुबन्ध-विशिष्टा विहिता अर्थ-विशेषे काल-विशेषे च ।
तेषां विशेषकराननुबन्धानुत्सृज्य यत्सामान्यं तद्गृह्यते ।
षट्टितः, चत्वारः ङितः ।
अक्षरसमाम्नायवदानुपूर्व्या कथ्यन्ते ।
लठ् ।
लिठ् ।
लुठ् ।
लृठ् ।
लेठ् ।
लोठ् ।
लङ् ।
लिङ् ।
लुङ् ।
लृङ् ।
इति ।
अथ लकारमात्रस्य ग्रहणं कस्मान्न भवति, लुनाति, चूडालः इति ? धात्व्-अधिकारोऽनुवर्तते, कर्त्रादयश्च विशेषकाः । ।


____________________________________________________________________


[#३१०]

  1. <तिप्-तस्-झि-सिप्-थस्-थ-मिब्-वस्-मस्-त-आतां-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ्># । । PS_३,४.७८ । ।



_____Sठाऱ्ठ्JKव्_३,४.७८ः

लस्य तिब्-आद्य आदेशा भवन्ति ।
तिप्-सिप्-मिपां पकारः स्वर-अर्थः ।
इटष्टकारः इटोऽत्(*३,४.१०६) इति विशेषण-अर्थः, तिब्-आदिभिरादेशैस्तुल्यत्वान्न देश-विध्यर्थः ।
महिङो ङकारः तिङिति प्रत्याहार-ग्रहण-अर्थः ।
पचति, पचतः, पचन्ति ।
पचसि, पचथः, पचथ ।
पचामि, पचावः, पचामः ।
पचते, पचेते, पचन्ते ।
पचसे, पचेथे, पचध्वे ।
पचे, पचावहे, पचामहे ।
एवं अन्येष्वपि लकरेषु उदाहार्यं । ।


____________________________________________________________________


  1. <टित आत्मनेपदानां टेरे># । । PS_३,४.७९ । ।



_____Sठाऱ्ठ्JKव्_३,४.७९ः

टितो लकारस्य स्थाने यान्यात्मनेपदानि तेषां टेः एकार-आदेशो भवति ।
तथा च+एव+उदाहृतं ।
इह कस्मान्न भवति पचमानः, यजमानः ? प्रकृतैस्तिबादिभिः आत्मनेपदानि विशेष्यन्ते । ।


____________________________________________________________________


  1. <थासः से># । । PS_३,४.८० । ।



_____Sठाऱ्ठ्JKव्_३,४.८०ः

टितः इत्येव ।
टितो लकारस्य यः थास्तस्य सेशब्द आदेशो भवति ।
पचसे ।
पेचिषे ।
पक्तासे ।
पक्ष्यसे । ।


____________________________________________________________________

  1. <लिटस्त-झयोरेश्-इरेच्># । । PS_३,४.८१ । ।



_____Sठाऱ्ठ्JKव्_३,४.८१ः

लिड्-आदेशयोः त-झयोः यथासङ्ख्यं एशिरेचित्येतावादेशौ भवतः ।
शकारः सर्वादेश-अर्थः ।
चकारः स्वरार्थः ।
पेचे, पेचाते, पेचिरे ।
लेभे, लेभाते, लेभिरे । ।


____________________________________________________________________


  1. <प्रस्मैपदानां णल्-अतुस्-उस्-थल्-थुस्-अणल्-व-माः># । । PS_३,४.८२ । ।



_____Sठाऱ्ठ्JKव्_३,४.८२ः

लिटः इत्येव ।
लिड्-आदेशानां परस्मैपद-सञ्ज्ञाकानां यथासङ्ख्यं तिबादीनां णलादयो नव आदेशा भवन्ति ।
लकारः स्वरार्थः ।
णकारो वृद्ध्य्-अर्थः ।
पपाच, पेचतुः, पेचुः ।
पेचिथ, पपक्थ, पेचथुः, पेच ।
पपाच, पपच, पेचिव, पेचिम । ।


____________________________________________________________________


  1. <विदो लटो वा># । । PS_३,४.८३ । ।



_____Sठाऱ्ठ्JKव्_३,४.८३ः

परस्मैपदानां इत्येव ।
विद ज्ञाने, अस्माद्धातोः परेषां लडादेशानां परस्मैपदानां णलादयो नव विकल्पेन आदेशा भवन्ति ।
वेद, विदतुः, विदुः ।
वेत्थ, विदथुः, विद ।
वेद, विद्व, विद्म ।
न च भवति ।
वेत्ति, वित्तः, विदन्ति ।
वेत्सि, वित्थः, वित्थ ।
वेद्मि, विद्वः, विद्मः । ।


____________________________________________________________________


[#३११]

  1. <ब्रुवः पञ्चानां आदित आहो ब्रुवः># । । PS_३,४.८४ । ।


_____Sठाऱ्ठ्JKव्_३,४.८४ः

परस्मैपदानां इत्येव, लटो वा इति च ।
ब्रुवः परस्य लटः परस्मैपदानां पञ्चानाम अदिभूतानां पञ्चैव णलादय आदेशा भवन्ति, तत्सन्नियोगेन च ब्रुव आहशब्द आदेशो भवति ।
आह, आहतुः, आहुः ।
आत्थ, आहथुः ।
न च भवति ।
ब्रवीति, ब्रूतः, ब्रुवन्ति ।
ब्रवीषि, ब्रूथः ।
पञ्चानां इति किं ? ब्रूथ ।
ब्रवीमि, ब्रूवः, ब्रूमः ।
आदितः इति किं ? परेषां मा भूथ् ।
ब्रुवः इति पुनर्वचनं स्थान्य्-अर्थम्, प्रस्मैपदानां एव हि स्यात् । ।


____________________________________________________________________


  1. <लोटो लङ्वत्># । । PS_३,४.८५ । ।


_____Sठाऱ्ठ्JKव्_३,४.८५ः

अतिदेशोऽयं ।
लोटो लङ्वत्कार्यं भवति ।
ताम्-आदयः, सलोपश्च ।
पचतां ।
पचतं ।
पचत ।
पचाव ।
पचाम ।
अडाटौ कस्मान्न भवतः, तथा झेर्जुस्-आदेशः लङः शाकटायनस्य+एव (*३,४.१११) इति वान्तु, यान्तु ? विदो लटो वा (*३,४.८३) इत्यतो वा-ग्रहणं अनुवर्तते, सा च व्यवस्थित-विभाषा भविष्यति । ।


____________________________________________________________________


  1. <एरुः># । । PS_३,४.८६ । ।



_____Sठाऱ्ठ्JKव्_३,४.८६ः

लोटः इत्येव ।
लोड्-आदेशानां इकारस्य उकारादेशो भवति ।
पचतु ।
पचन्तु ।
हिन्योरुत्वप्रतिषेधो वक्तव्यः ।
न वा उच्चारण-सामर्थ्याथ् ।
अथ वा वा इति वर्तते, सा च व्यवशित-विभाषा । ।


____________________________________________________________________


  1. <सेर्ह्यपिच्च># । । PS_३,४.८७ । ।



_____Sठाऱ्ठ्JKव्_३,४.८७ः

लोटः इत्येव ।
लोड्-आदेशस्य सेः हि इत्ययं आदेशो भवति, अपिच्च भवति ।
स्थानिवद्भावात्पित्त्वं प्राप्तं प्रतिषिध्यते ।
लुनीहि ।
पुनीहि ।
राध्नुहि ।
तक्ष्णुहि । ।


____________________________________________________________________


  1. <वा छन्दसि># । । PS_३,४.८८ । ।



_____Sठाऱ्ठ्JKव्_३,४.८८ः

अपित्त्वं विकल्प्यते ।
ल-आदेशः छन्दसि विषये हि-शब्दो वा अपिद्भवति ।
युयोध्यस्मज्जुहुराणमेनः ।
प्रीणाहि ।
प्रीणीहि । ।


____________________________________________________________________


  1. <मेर्निः># । । PS_३,४.८९ । ।



_____Sठाऱ्ठ्JKव्_३,४.८९ः

लोटः इत्येव ।
लोड्-आदेशस्य मेः निः आदेशो भवति ।
उत्वलोपयोरपवादः ।
पचानि ।
पठानि । ।

____________________________________________________________________


[#३१२]

  1. <आं एतः># । । PS_३,४.९० । ।



_____Sठाऱ्ठ्JKव्_३,४.९०ः

लोटः इत्येव ।
लोट्सम्बधिनः एकारस्य अं इत्ययं आदेशो भवति ।
पचताम्, पचेताम्, पचन्तां । ।


____________________________________________________________________


  1. <स-वाभ्यां वामौ># । । PS_३,४.९१ । ।



_____Sठाऱ्ठ्JKव्_३,४.९१ः

लोटः इत्येव ।
सकार-वकाराभ्यां उत्तरस्य लोट्-सम्बन्धिन एकारस्य यथासङ्ख्यं च अं इत्येतावादेशौ भवतः ।
आमोऽपवादः ।
पचस्व ।
पचध्वं । ।


____________________________________________________________________


  1. <आडुत्तमस्य पिच्च># । । PS_३,४.९२ । ।



_____Sठाऱ्ठ्JKव्_३,४.९२ः

लोटः इत्येव ।
लोट्-सम्बन्धिनः उत्तमपुरुषस्य आडागमो भवति, स च+उत्तमपुरुषः पिद्भवति ।
करवाणि, करवाव, करवाम ।
करवै, कर्वावहै, करवामहै । ।


____________________________________________________________________


  1. <एत ऐ># । । PS_३,४.९३ । ।



_____Sठाऱ्ठ्JKव्_३,४.९३ः

लोट उत्तमस्य इति वर्तते ।
लोडुत्तम-सम्भन्धिनः एकारस्य ऐकार-आदेशो भवति ।
आमोऽपवादः ।
करवैक्करवावहै, करवामहै ।
इह कस्मान्न भवति, पचावेदम्, यजावेदं ? बहिरङ्ग-लक्षणत्वाद्गुणस्य । ।


____________________________________________________________________


  1. <लेटोऽड्-आटौ># । । PS_३,४.९४ । ।



_____Sठाऱ्ठ्JKव्_३,४.९४ः

लेटोऽड्-आटावागमौ भवतः पर्यायेण ।
जोषिषथ् ।
तारिषथ् ।
मन्दिषथ् ।
पताति दिद्युथ् ।
प्रजापतिरुदधिं च्यावयाति । ।


____________________________________________________________________

  1. <आत ऐ># । । PS_३,४.९५ । ।



_____Sठाऱ्ठ्JKव्_३,४.९५ः

लेटः इत्येव ।
लेट्सम्भन्धिनः आकारस्य ऐकार-आदेशो भवति ।
प्रथमपुरुष-मध्यमपुरुष-आत्मनेपद-द्विवचनयोः ।
मन्त्रयैते ।
मन्त्रयैथे ।
करवैते ।
करवैथे ।
आटः कस्मान्न भवति ? विधानसामर्थ्यात् । ।


____________________________________________________________________


  1. <वा-एतोऽन्यत्र># । । PS_३,४.९६ । ।



_____Sठाऱ्ठ्JKव्_३,४.९६ः

लेटः इत्येव ।
लेट्-सम्भन्धिनः एकारस्य वा ऐकार-आदेशो भवति ।
अन्यत्र इत्यनन्तरो विधिरपेक्ष्यते ।
आत ऐ (*३,४.९५) इत्येतद्विषयं वर्जयित्वा एत ऐ भवति ।
सप्ताहानि शासै ।
अहं एव पशूनामीशै ।
मदग्रा एव वो ग्रहा गृह्यान्तै ।
मद्देवत्यान्येव वः पात्राण्युच्यान्तै ।
न च भवति ।
यत्र क्व च ते मनो दक्षं दधस उत्तरं ।
अन्यत्र इति किं ? मन्त्रयैते ।
मन्त्रयैथे । ।


____________________________________________________________________


[#३१३]

  1. <इतश्च लोपः परस्मैपदेसु># । । PS_३,४.९७ । ।



_____Sठाऱ्ठ्JKव्_३,४.९७ः

लेटः इत्येव ।
लेट्-सम्भन्धिनः इकारस्य परस्मैपद-विषयस्य लोपो भवति ।
वानुवृत्तेः पक्षे श्रवणं अपि भवति ।
जोषिषत्तारिषथ् ।
मन्दिषथ् ।
न च भवति ।
पताति दिद्युथ् ।
प्रजापतिरुदधिं च्यावयाति परस्मैपद-ग्रहणम्, इड्वहिमहिडां मा भूत् । ।


____________________________________________________________________


  1. <स उत्तमस्य># । । PS_३,४.९८ । ।



_____Sठाऱ्ठ्JKव्_३,४.९८ः

लेटः इति वा इति च वर्तते ।
लेट्-सम्भन्धिन उत्तमपुरुषस्य सकारस्य वा लोपो भवति ।
करवाव, करवाम ।
न च भवति ।
करवावः, करवामः ।
उत्तमग्रहणम्, पुरुषान्तरे मा भूत् । ।


____________________________________________________________________

  1. <नित्यं डितः># । । PS_३,४.९९ । ।



_____Sठाऱ्ठ्JKव्_३,४.९९ः

लेतः इति निवृत्तं ।
ङितो लकारस्य य उत्तमः, तस्य नित्यं सकारस्य लोपो भवति ।
उपचाव, उपचाम ।
नित्य-ग्रहणं विकल्प-निवृत्त्य्-अर्थं । ।


____________________________________________________________________


  1. <इतश्च># । । PS_३,४.१०० । ।



_____Sठाऱ्ठ्JKव्_३,४.१००ः

ङितः इत्येव ।
ङिल्लकारसम्बन्धिन इकारस्य नित्यं लोपो भवति ।
अपचथ् ।
अपाक्षीथ् ।
परस्मैपदेषु इत्येव, अपचावहि, अपचामहि । ।


____________________________________________________________________


  1. <तस्-थस्-थ-मिपां तां-तं-त-अमः># । । PS_३,४.१०१ । ।



_____Sठाऱ्ठ्JKव्_३,४.१०१ः

ङितः इत्येव ।
ङिल्लकार-सम्बन्धिनां चतुर्णां यथासङ्ख्यं ताम्-आदयः अदेशा भवन्ति ।
अपचतां ।
अपचतं ।
अपचत ।
अपचं ।
अपाक्तां ।
अपाक्तं ।
अपाक्त ।
अपाक्षं । ।


____________________________________________________________________


  1. <लिङः सीयुट्># । । PS_३,४.१०२ । ।



_____Sठाऱ्ठ्JKव्_३,४.१०२ः

लिङ्-आदेशानां सीयुड्-आगमो भवति ।
टकारो देशविध्य्-अर्थः ।
उकार उच्चारण-अर्थः ।
पचेत, पचेयाताम्, पचेरन् ।
पक्षीष्ट, पक्षीयास्ताम्, पक्षीरन् । ।


____________________________________________________________________


  1. <यासुट्परस्मैपदेसु उदात्तो ङिच्च># । । PS_३,४.१०३ । ।



_____Sठाऱ्ठ्JKव्_३,४.१०३ः

लिङः इत्येव ।
परसमैपद-विषयसय्लिङो यासुड्-आगमो भवति, स च+उदात्तो भवति ङिच्च ।
सीयुटोऽपवादः ।
आगम-अनुदात्तत्वे प्राप्ते, ङित्त्वं तु लिङ एव विधीयते, तत्र तत्कार्याणां सम्भवाद्, न आगमस्य ।
कुर्यात्, कुर्याताम्, कुर्युः ।
स्थनिवद्भावादेव लिङादेशस्य ङित्त्वे सिद्धे यासुटो ङिद्-वचनं ज्ञापन-अर्थम्, लकाराश्रयङित्त्वं आदेशानां न भवति इति ।
अचिनवं ।
अकरवं । ।


____________________________________________________________________


[#३१४]

  1. <किदाशिसि># । । PS_३,४.१०४ । ।



_____Sठाऱ्ठ्JKव्_३,४.१०४ः

आशिषि यो लिङ्, तस्य यासुडागमो भवति, स च+उदात्तः किद्वद्भवति ।
प्रययस्य+एव+इदं कित्त्वम्, न आगमस्य, प्रयोजनाभावाथ् ।
ङित्त्वे प्राप्ते कित्त्वं विधीयते ।
गुणवृद्धि-प्रतिषेधः तुल्यः, सम्प्रसारणम्, जागर्तेर्गुणे च विशेषः ।
इष्यत्, इष्यास्ताम्, इस्यासुः ।
जागर्यात्, जागर्यास्ताम्, जागर्यासुः ।
आशिषि इति किं ? वच्याथ् ।
जागृयात् । ।


____________________________________________________________________


  1. <झस्य रन्># । । PS_३,४.१०५ । ।



_____Sठाऱ्ठ्JKव्_३,४.१०५ः

लिङः इत्येव ।
झस्य लिङ्-आदेशस्य रनित्ययं आदेशो भवति ।
झोऽन्तापवादः ।
पचेरन् ।
यजेरन् ।
कृषीरन् । ।

____________________________________________________________________


  1. <इटोऽत्># । । PS_३,४.१०६ । ।



_____Sठाऱ्ठ्JKव्_३,४.१०६ः

लिङादेशस्य इअः अत इत्ययं आदेशो भवति ।
पचेय ।
यजेय ।
कृषीय ।
हृषीय ।
तकारस्य इत्सञ्ज्ञा-प्रतिषेधः प्राप्नोति, न विभक्तौ तुस्माः (*१,३.४) इति ? न+एव अयं आदेश-अवयवस्तकारः, किं तर्हि, मुखसुख-अर्थ उच्चार्यते ।
आगमस्य+इटो ग्रहणं न भवति, अर्थवद्-ग्रहणे नानार्थकस्य ग्रहणं इति । ।


____________________________________________________________________


  1. <सुट्तिथोः># । । PS_३,४.१०७ । ।



_____Sठाऱ्ठ्JKव्_३,४.१०७ः

लिङः इत्येव ।
लिङ्स्-अम्भन्धिनोः तकार-थकारयोः सुड्-आगमो भवति ।
तकर-थकारावागमिनौ, लिङ्तद्विशेषणं ।
सीयुटस्तु लिङेवागमी ।
तेन भिन्न-विषयत्वात्सुटा बाधनं न भवति ।
तकारे इकर उच्चारण-अर्थः ।
कृषीष्त ।
कृषीयास्तां ।
कृषीष्ठाः ।
कृषीयास्थां । ।


____________________________________________________________________

  1. <झेर्जुसू># । । PS_३,४.१०८ । ।



_____Sठाऱ्ठ्JKव्_३,४.१०८ः

लिङः इत्येव ।
लिङ्-आदेशस्य झेर्जुसादेशो भवति ।
झोऽन्तापवादः ।
पचेयुः ।
यजेयुः । ।


____________________________________________________________________


  1. <सिज्-अभ्यस्त-विदिभ्यश्च># । । PS_३,४.१०९ । ।



_____Sठाऱ्ठ्JKव्_३,४.१०९ः

अलिङ्-अर्थः आरम्भः ।
सिचः परस्य, अभ्यस्त-सञ्ज्ञकेभ्यो, वेत्तेश्च+उत्तरस्य झेर्जुस्, आदेशो भवति ।
अभ्यस्तविदि-ग्रहणं असिज्-अर्थं ।
ङित इति च अनुवर्तते ।
सिचस्तावत्- अकार्षुः ।
अहार्षुः ।
अभस्तात्- अबिभयुः ।
अजिह्रयुः ।
अजागरुः ।
विदेः - अविदुः । ।


____________________________________________________________________


[#३१५]

  1. <आतः># । । PS_३,४.११० । ।



_____Sठाऱ्ठ्JKव्_३,४.११०ः

सिज्-ग्रहणं अनुवर्तते ।
सिच आकारान्ताच्च परस्य झेः जुस्-आदेशो भवति ।
कथं आभ्यामानन्तर्यं ? सिचो लुकि कृते प्रत्ययलक्षणेन सिचोऽनन्तरः, श्रुत्या चाकारान्तादिति ।
अदुः ।
अधुः ।
अस्थुः ।
तकारो मुख-सुख-अर्थः ।
पूर्वेण+एव सिध्द्धे नियम-अर्थं वचनम्, आत एव सिज्लुगन्तात्, न अन्यस्मातिति ।
अभूवन् ।
प्रत्ययलक्षनेन जुस्प्राप्तः प्रतिषिध्यते, तुल्यजातीयापेक्षत्वान्नियमस्य ।
श्रूयमाने हि सिचि भवत्येव, अकार्षुः, अहार्षुः । ।


____________________________________________________________________


  1. <लङः शाकटायनस्य+एव># । । PS_३,४.१११ । ।



_____Sठाऱ्ठ्JKव्_३,४.१११ः

आतः इत्येव ।
आकारान्तादुत्तरस्य लङादेशस्य झेः जुसादेशो भवति शाकटायनस्य आचार्यस्य मतेन ।
अयुः ।
अवुः ।
अन्येषां मते - अयान् ।
ननु ङितः इत्यनुवर्तते ।
अत्र लङेव अकारान्तादनन्तरो ङित्सम्भवति न अन्यः, तत्किं लङ्-ग्रहणेन ? एवं तर्थि लङेव यो लङ्विहितः तस्य यथा स्यात्, लङ्वद्-भावेन यस्तस्य मा भूत्, लोटो लङ्वत्(*३,४.८५) इति ।
यान्तु ।
वान्तु ।
सिज-भ्यस्त-विदिभ्यश्च (*३,४.१०९) इत्ययं अपि झेर्जुस्लोटो न भवति ।
बिभ्यतु ।
जाग्रतु ।
विदन्तु ।
जुस्भावमात्रं हि मुख्येन लङा विशेष्यते ।
एव-कार उत्तर-अर्थः । ।


____________________________________________________________________

  1. <द्विषश्च># । । PS_३,४.११२ । ।



_____Sठाऱ्ठ्JKव्_३,४.११२ः

लङः शाकटायनस्य इत्येव ।
द्विषः परस्य लङ्-आदेशस्य झेर्जुसादेशो भवति, शाकटायनस्य आचार्यस्य मतेन ।
अद्विषुः ।
अन्येषां मते - अद्विषन् । ।


____________________________________________________________________


  1. <तिङ्-शित्-सार्वधातुकम्># । । PS_३,४.११३ । ।



_____Sठाऱ्ठ्JKव्_३,४.११३ः

तिङः शितश्च प्रययाः सार्वधातुक-सञ्ज्ञा भवन्ति ।
भवति ।
नयति ।
स्वपिति ।
रोदिति ।
पचमानः ।
यजमानः ।
सार्वधातुक-प्रदेशाः - सार्वधातुके यक्(*३,१.६७) इत्येवं आदयः । ।


____________________________________________________________________

  1. <आर्धधातुकं शेषः># । । PS_३,४.११४ । ।



_____Sठाऱ्ठ्JKव्_३,४.११४ः

तिङः शितश्च वर्जयित्वा अन्यः प्रत्ययः शेषो धातु-संशब्दनेन विहितः आर्धधातुक-सञ्ज्ञो भवति ।
लविता ।
लवितुं ।
लवितव्यं ।
धातोः (*३,१.९१) इत्येव ।
वृक्षत्वं ।
वृक्षता अस्ति ।
लूभ्यां ।
लूभिः ।
जुगुप्सते । ।


____________________________________________________________________


[#३१६]

  1. <लिट्च># । । PS_३,४.११५ । ।



_____Sठाऱ्ठ्JKव्_३,४.११५ः

लिड्-आदेशः तिङार्धधातुक-सञ्ज्ञो भवति ।
सार्वधातुक-सञ्ज्ञाया अपवादः ।
पेचिथ ।
शेकिथ ।
जग्ले ।
मम्ले ।
ननु च एकसञ्ज्ञ-अधिकारादन्यत्र समावेशो भवति ? सत्यं एतथ् ।
इह तु एवकारोऽनुवर्तते, स नियमं करिस्यति । ।


____________________________________________________________________


  1. <लिङाशिषि># । । PS_३,४.११६ । ।



_____Sठाऱ्ठ्JKव्_३,४.११६ः

आशिषि विषये यो लिङ्स आर्धधातुक-सञ्ज्ञो भवति ।
सार्वधातुक-सञ्ज्ञाया अपवादः ।
समावेशश्च+एवकार-अनुवृत्तेर्न भवति ।
लविषीष्ट ।
पविषीष्ट ।
आशिषि इति किं ? लुनीयाथ् ।
पुनीयात् । ।


____________________________________________________________________


  1. <छन्दस्युभयथा># । । PS_३,४.११७ । ।



_____Sठाऱ्ठ्JKव्_३,४.११७ः

छन्दसि विषये उभयथा भवति, सार्वधातुकं आर्धधातुकं च ।
किं लिङेव अनन्तरः सम्बध्यते ? न+एतदस्ति, सर्वं एव प्रकरणं अपेक्ष्यैतदुच्यते ।
तिङ्-शिद्-आदि छन्दस्युभयथा भवति ।
वर्धन्तु त्वा सुष्टुतयः ।
आर्धधातुकत्वाण्णि-लोपः ।
वर्धयन्तु इति प्राप्ते ।
शेषं च सार्वधातुकं - स्वस्तये नावमिवारुहेम ।
क्तिनः सार्वधातुकत्वादस्तेर्भूभावो न भवति ।
लिट्सार्वधातुकं - ससृवांसो विशृण्विरे ।
इम इन्द्राय सुन्विरे ।
लिङुभयथा भवति ।
उप स्थेयाम शरणा वृहन्ता ।
सार्वधातुकत्वात्लिङः स-लोपः, आर्धधातुकत्वातेत्वं ।
व्यत्ययो बहुलं (*३,१.८५) इत्यस्य+एव अयं प्रप्ञ्चः । ।
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य चतुर्थः पादः । ।


______________________________________________________