काशिकावृत्तिः
प्रथमोध्याय:
[[लेखकः :|]]
द्वितीयोध्यायः →
  1. प्रथमोध्यायः
  2. द्वितीयोध्यायः
  3. तृतीयोध्यायः
  4. चतुर्थोध्यायः
  5. पञ्चमोध्यायः
  6. षष्टोध्यायः
  7. सप्तमोध्यायः
  8. अष्टमोध्यायः



काशिकावृत्तिः प्रथमोऽद्यायः प्रथमः पादः

[#१]

वृत्तौ भाष्ये तथा धातु-नाम-पारायण-आदिषु ।
विप्रकीर्णस्य तन्त्रस्य क्रियते सार-सङ्ग्रहः । ।१ । ।

इष्ट्य्-उपसङ्ख्यानवती शुद्ध-गणा विवृत-गूढ-सूत्र-अर्था ।
व्युत्पन्न-रूप-सिद्धिर्वृत्तिरियं काशिका नाम । ।२ । ।

व्याकरणस्य शरीरं परिनिष्ठित-शास्त्र-कार्यं एतावथ् ।
शिष्टः परिकरबन्धः क्रियतेऽस्य ग्रन्थ-कारेण । ।३ । ।


[#२]

अथ शब्द-अनुशासनं केषां शब्दानाम्? लौकिकानां वैदिकानां च ।
कथं अनुशासनम्? प्रकृत्य्-आदि-विभाग-कल्पनया सामान्य-विशेषवता लक्षणेन ।
अथ किम्-अर्थो वर्णानां उपदेशः? प्रत्याहार-अर्थः ।
प्रत्याहारो लाघवेन शास्त्र-प्रवृत्त्य्-अर्थः । ।
अ इ उ ण् ।
अ इ उ इत्यनेन क्रमेण वर्णान्-उपदिश्यान्ते णकारमितं करोति प्रत्याहारार्थं ।
तस्य ग्रहणं भवत्येकेनौरन्रप्रः (*१,१.५१) इत्यकारेण ।
ह्रस्वं अवर्ण प्रयोगे संवृतं ।
दीर्घ-प्लुतयोस्तु विवृतत्वं ।
तेषां सावर्ण्य-प्रसिद्ध्य्-अर्थं अकार इह शास्त्रे विवृतः प्रतिज्ञायते ।
तस्य प्रयोग-अर्थं अ अ (*८,४.६८) इति शास्त्र-अन्ते प्रत्यापत्तिः करिष्यते । ।
ऋ लृ क् ।
ऋ लृ इत्येतौ वर्णावुप्दिश्य पूर्वांश्च-अन्ते ककारमितं करोति प्रत्याहार-अर्थं ।
तस्य ग्रहणं भवति त्रिभिः ।
अकः सवर्णे दीर्घः (*६,१.१०१) इत्यकारेण ।
इको गुण-वृद्धी (*१,१.३) इति-इकारेण ।
उगितश्च (*४,१.६) इत्युकारेण ।
अकार-आदयो वर्णाः प्रचुर-प्रयोग-विषयास्तेषां सुज्ञानं उपदेशे प्रयोजनं ।
लृकारस्तु क्लृपिस्थ एव प्रयुज्यते ।
क्लृपेश्च पूर्वत्र-असिद्धं (*८,२.१) इति लत्वं असिद्धं ।
तस्य-असिद्धत्वादृकार एव अच्कार्याणि भविष्यन्ति इति किम्-अर्थं लृकार उपदिश्यते? लत्व-विधानाद्यानि पराण्यच्कार्याणि तानि लृकारे यथा स्युरिति ।
कानि पुनस्तानि? प्लुतः स्वरितो द्विर्वचनं ।
क्लृ३प्त-शिखः, प्रक्लृप्तः, प्रक्लृप्तवानिति ।
यच्च-अशक्तिजं असाधु शब्द-रुपं, तद्-अनुकरणस्य-अपि साधुत्वं इष्यते ।
तत्स्थस्य-अपि लृकारस्य अचकार्य-प्रतिपत्त्य्-अर्थं लृकार-उपदेशः क्रियते ।
ऋतकः इति प्रयोक्तव्ये शक्ति-वैकल्यात्कुमारी लृतकः इति प्रयुङ्क्ते, तद्-अन्योऽनुकरोति - कुमार्य्-लृतकः इत्याह इति । ।
ए ओ ङ् ।
ए ओ इत्येतौ वर्णावुपदिश्य अन्ते ङ्कारमितं करोति प्रत्याहार-अर्थं ।
तस्य ग्रहणं भवत्येकेन ।
एङि पररूपं (*६,१.९४) इत्येकारेण । ।


[#३]

ऐ औ छ् ।
ऐ औ इत्येतौ वर्णावुपदिश्य पूर्वांश्च-अन्ते चकारमितं करोति प्रत्याहार-अर्थं ।
तस्य-ग्रहणं भवति चतुर्भिः ।
अचः परस्मिन्पूर्व-विधौ (*१,१.५७) इत्यकारेण ।
इच एकाचोऽं प्रत्ययवच्च (*६,३.६८) इति इकारेण ।
एचोऽय्-अव्-आय्-आवः (*६,१.७८) इति एकारेण ।
वृद्धिरादैच्(*१,१.१) इति ऐकारेण ।
प्रत्याहारेऽनुबन्धानां कथं अज्-ग्रहणेषु न ।
आचाराद्-अप्रधानत्वाल्-लोपश्च बलवत्तरः । ।
वर्णेषु ये वर्ण-इकदेशा वर्ण-अन्तर-समान-अकृतयस्तेषु तत्-कार्यं न भवति, तच्-छायामुकारिणो हि ते न पुनस्त एव ।
पृथक्-प्रयत्न-निर्वर्त्यं हि वर्णं इच्छन्त्याचार्याः ।
नुड्विधि-ल-आदेश-विनामेषु ऋकारे प्रतिविधातव्यं ।
नुडिधौ (*७,४.७१) ऋकार-ग्रहणं ।
आनृधतुः, आनृधुः ।
ल-आदेशे ऋकार-ग्रहणं ।
क्लृप्तः, क्लृप्तवान् ।
विनामे ऋकार-ग्रहणं ।
कर्त्éणां । ।
ह य व रठ् ।
ह य व र इत्येतान्वर्णानुपदिश्य पूर्वांश्च-अन्ते टकारमितं करोति प्रत्याहार-अर्थं ।
तस्य ग्रहणं भवत्येकेन ।
शश्-छोऽति (*८,४.६३) इत्यकारेण ।
अयं रेफो य-कारात्पर उपदिश्यते ।
तस्य यर्-ग्रहणेन यय्-ग्रहणेन च ग्रहणे सति, स्वर्नयति, प्रातर्नयति इत्यत्र यरोऽनुनासिकेऽनुनासिको वा (*८,४.५८) इति अनुनासिकः प्राप्नोति ।
मद्र-ह्रदः, भद्र-ह्रद इत्यत्र द्विर्वचनं प्राप्नोति अचो र-हा-भ्यां द्वे (*८,४.४६) इति ।
कुण्डं रथेन, वनं रथेन इत्यत्र अनुस्वारस्य ययि परसवर्णः(*८,४.५८) इति परसवर्णः प्राप्नोति ।
न-इष दोषः ।
आकृतौ पद-अर्थे समुदाये सकृल्-लक्ष्ये लक्षणं प्रवर्तते इत्येतस्मिन्दर्शने यरोऽनुनसिकेऽनुनासिको वा (*८,४.४५) अन्तरतमो भवति इत्येवं एतत्प्रवर्त्तते ।
तद्-अनेन गकार-आदीनां ङकारा-अदयो ये यथा-स्वं स्थानतो गुणतश्च अतरतमाः, ते सर्वे विहिताः ।
ये तु न स्थानतः, न अपि गुणतः, स्थान-मात्रेण गुण-मात्रेण वा अन्तरतमास्ते सर्वे निवर्तिताः इति स्थान-मात्र-अन्तरतमो रेफस्य णकारो न भवति ।
द्विर्वचनेऽपि रेफस्य यर्-अन्तर्भावे सति यर्कार्यं प्राप्तम्, तत्साक्षाच्-छिष्टेन निमित्त-भावेन बाध्यते इति न द्विरुच्यते रेफः ।
अनुस्वारस्य ययि परसवर्णः (*८,४.५८) इत्येतदप्यनुस्वार-अन्तरतमं सकृदेव परसवर्णं विदधाति ।
न च रेफस्य अनुस्वार-अन्तरतमः सवर्णोऽस्ति इति न भविष्यति कुण्डं रथेन, वनं रथेन इत्यत्र ।
अटां मद्ये विसर्जनीय-जिह्वामूलीय-उपध्मानीयानां अप्युपदेशः कर्तव्यः ।
किं प्रयोजनं ? उरःकेण, उरःकेण ।
उरःपेण, उरःपेण ।
अत्र अड्-व्यवाये इति णत्वं यथा स्यातिति । ।

[#४]

ल ण् ।
ल इत्येकं वर्णं उपदिश्य पूर्वांश्च-अन्ते णकारमितं करोति प्रत्याहार-अर्थं ।
तस्य ग्रहणं भवति त्रिभिः ।
अण्-उदित्-सवर्णस्य च अप्रत्ययः (*१,१.६९) इत्यकारेण ।
इण्-कोः (*८,३.५७) इति इकारेण ।
इको यण्-अचि (*६,१.७७) इति यकारेण ।
इण्-ग्रहणानि सर्वाणि परेण णकारेण ।
अण्-ग्रहणानि तु पूर्वेण, अण्-उदित्-सवर्णस्य च-अप्रत्ययः (*१,१.६९) इत्येतद्-एव-इकं परेण ।
अथ किं अर्थं अज्ग्रहणं एव-इतन्-न क्रियते? न-इवं शक्यम्, अन्तः-स्थानां अपि हि सवर्णानां ग्रहणं इष्यते ।
सयं, यं, यन्ता, सवं, वं वत्सरह्, यलं, लं, लोकम्, तल्लं,लं, लोकं इत्यत्र अनुस्वारस्य अनुनासिके ययि परसवर्णे कृते तस्य यर्-ग्रहणेन ग्रहणाद्द्विर्वचनं यथा स्यादिति ।
हकार-आदिष्व्-अकार उच्चारण-अर्थः, न अनुबन्धः ।
लकारे त्व्-अनुनासिकः प्रतिज्ञायते, तेन उर्-अण्रपरः (*१,१.५१) इत्यत्र र इति प्रत्याहार-ग्रहणाल्-लपरत्वं अपि भवति । ।
ञ म ङण न ं ।
ञ म ङ ण न इत्येतान्वर्णानुपदिश्य पूर्वांश्च-अन्ते मकारमितं करोति प्रत्याहार-अर्थं ।
तस्य ग्रहणं भवति त्रिभिः ।
पुमः खय्य्-अम्परे (*८,३.६) इत्यकारेण ।
हलो यमां यमि लोपः (*८,४.६४) इति यकारेण ।
ङमो ह्रस्वाद्-अचि ङमुण्नित्यं (*८,३.३२) इति ङकारेण ।
ञमन्ताड्-डः इति ञकारेण-अपि ग्रहणम्-अस्य दृश्यते ।
केचित्-तु सर्वाण्य्-एतानि प्रत्याहार-ग्रहणानि ञकारेण भवन्तु इति मकारं अनुबन्धं प्रत्याचक्षते ।
तथा च सति ङमो ह्रस्व-अदचि ङमुण्नित्यम्(*८,३.३२) इत्यत्र-आगमिनोः झभोरभावाद्-आगमाभाव-प्रतिपत्तौ प्रतिपत्ति-गौरवं भवति । ।
झ भ ञ् ।
झ भ इत्येतौ वर्णाव्-उपदिश्य पूर्वांश्च-अन्ते ञकारामितं करोति प्रत्याहार-अर्थं ।
तस्य ग्रहणं भवत्येकेन ।
अतो दीर्घो यञि (*७,३.१०१) इति यकारेण । ।
घ ढ ध ष् ।
घ ढ ध इत्येतान्वर्णानुपदिश्य पूर्वांश्च-अन्ते षकारमितं करोति प्रत्याहार-अर्थं ।
तस्य ग्रहणं भवति द्वाभ्यां ।
एक-अचो बशो भष्झष्-अन्तस्य स्-ध्वोः (*८,२.३७) इति भकार-झकाराभ्यां । ।


[#५]

ज ब ग ड द श् ।
ज ब ग ड द इत्येतान्वर्णानुपदिश्य पूर्वांश्च-अन्ते शकारमितं करोति प्रत्याहार-अर्थं ।
तस्य ग्रहणं भवति षड्भिः ।
भो-भगो-अघो-अपूर्वस्य योऽशि (*८,३.१७) इत्यकारेण हशि च (*६,१.११४) इति हकारेण ।
न-इड्-वशि कृति (*७,२.८) इति वकारेण ।
झलां जश्झशि (*८,४.५३) इति जकार-झकारभ्यां ।
एक-अचो वशो भष्झष्-अन्तस्य स्-ध्व्-ओः (*८,२.३७) इति बकारेण । ।
ख फ ध ढ थ च ट त व् ।
ख फ ध ढ थ च ट त इत्येतान्वर्णानुपदिश्यान्ते वकारमितं करोति प्रत्याहार-अर्थं ।
तस्य ग्रहणं भवत्येकेन ।
नश्-छव्य्-अप्रशान्(*८,३.७) इति धकरेण ।
ख-फ-ग्रहणं उत्तर-अर्थं । ।
क प य् ।
क प इत्येतौ वर्णावुपदिश्य पूर्वांश्च-अन्ते यकारमितं करोति प्रत्याहार-अर्थं ।
तस्य ग्रहणं भवति चतुर्भिः ।
अनुस्वारस्य ययि परसवर्णः (*८,४.५८) इति यकारेण ।
मय उञो वो वा (*८,३.३३) इति मकारेण ।
झयो होऽन्यतरस्यां (*८,४.६२) इति झकारेण ।
पुमः खय्य्-अम्परे (*८,३.६) इति खकारेण । ।
श ष स र् ।
श ष स इत्येनान्वर्णानुपदिश्य पूर्वांश्च-अन्ते रेफमितं करोति प्रत्याहार-अर्थं ।
तस्य ग्रहणं भवति पञ्चभिः ।
यरोऽन्य्नासिकेऽनुनासिको वा (*८,४.४५) इति यकारेण ।
झरो झरि सवर्णे (*८,४.६५)इति झकारेण ।
खरि च (*८,४.५५) इति खकारेण ।
अभ्यासे चर्च (*८,४.५४) इति चकारेण ।
शर्पूर्वाः खयः (*७,४.६१) इति शकारेण । ।
ह ल् ।
ह इत्येकं वर्णं उपदिश्य पूर्वांश्च-अन्ते लकारमितं करोति प्रत्याहार-अर्थं ।
तस्य ग्रहणं भवति षट्भिः ।
अलोऽन्त्यात्पूर्व उपधा (*१,१.६५) इति अकारेण ।
हलोऽनन्तराः संयोगः (*१,१.७)इति हकारेण ।
लोपो व्योर्वलि (*६,१.६६) इति वकारेण ।
रलो व्-य्-उपधद्-धल्-आदेः संश्च (*१,२.२६) इति रेफेण ।
झलो झलि (*८,२.२६) इति झकारेण ।
शल इग्-उपधादनिटः क्षः (*३,१.४५) इति शकारेण ।
अथ किं अर्थं उपदिष्टोऽपि हकारः पुनरुपदिश्यते? कित्त्व विकल्प-क्ष- इड्विधयो यथा स्युः इति ।
स्निहित्वा, स्नेहित्वा इत्यत्र रलो व्-य्-उपधाद्-धल्-आदेः संश्-च (*१,२.२६) इति कित्त्वं वा यथा स्याथ् ।
लिहेः अलिक्षतिति शल इग्-उपधादनिटः क्षः (*३,१.४५) इति क्षो यथा स्याथ् ।

[#६]

रुदिहि, स्वपिहि इति वलादि-लक्षण इड्यथा स्याथ् ।
अदाग्धां ।
झल्ग्रहणेषु च हकारस्य ग्रहणं यथा स्याथ् ।
यद्येवम्, ह य व र डित्यत्र तर्हि किं अर्थं उपदिश्यत्? महां हि सः; देवा हसन्ति इत्यत्र अड्-ग्रहणेषु च अश्-ग्रहणेषुच हकारस्य ग्रहणं यथा स्याथ् ।
ब्राह्मणो हसति - हशि च (*६,१.११४) इत्युत्वं यथा स्याथ् ।
एकस्मान्ङञणावटा द्वाभां षस्त्रिभ्य एव कणमाः स्युः ।
ज्ञेयौ चयौ चतुर्भ्यो रः पञ्चभ्यः शलौ षड्भ्यः । ।
इति । ।
इति प्रत्याहारप्रकरणं ।


____________________________________________________________________


  1. <वृद्धिराद्-ऐच्># । । पाणिनीयसूत्र १,१.१ । ।



_____काशिका १,१.१:

वृद्धि-शब्दः सञ्ज्ञात्वेन विधीयते, प्रत्येकं आद्-ऐचां वर्णानां सामान्येन तद्-भावितानाम्, अतद्-भावितानां च ।
तपरकरणं ऐज्-अर्थं ताद्-अपि परः तपरः इति, खट्वैडकादिषु त्रिमात्र-चतुर्मात्र-प्रसङ्ग. निवृत्तये ।
आश्वलायनः ।
ऐतिकायनः ।
औपगवः ।
औपमन्यवः ।
शालीयः ।
मालीयः ।
वृद्धि-प्रदेशाः -- सिचि वृद्धिः परस्मैपदेषु (*७,२.१) इत्येवं आदयः । ।


____________________________________________________________________


  1. <अदेङ्गुणः># । । पाणिनीयसूत्र १,१.२ । ।



_____काशिका १,१.२:

गुण-शब्दः सञ्ज्ञात्वेन विधीयते, प्रत्येकम्, अद्-एङां वर्णानां सामान्येन तद्-भावितानाम्, अतद्-भावितानां च ।
तपरकरणं त्विह सर्वार्थं ।
तरिता ।
चेता ।
स्तोता ।
जयन्ति ।
अहं पचे ।
गुण-प्रदेशाः -- मिदेर्गुणः (*७,३.८२) इत्येवं आदयः । ।


____________________________________________________________________


  1. <इको गुण-वृद्धी># । । पाणिनीयसूत्र १,१.३ । ।



_____काशिका १,१.३:

परिभाषा इयं स्थानि-नियम-अर्था ।
अनियम-प्रसङ्गे नियमो विधीयते ।
वृद्धि-गुणौ स्वसञ्ज्ञया शिष्यमाणौ इकः एव स्थाने वेदितव्यौ ।
वक्ष्यति -- सार्वधातुक-अर्धधातुकयोः (*७,३.८४) अङ्गस्य गुण इति ।
स इको एव स्थाने विदितव्यः ।
नयति ।
भवति ।
वृद्धिः खल्वपि -- अकार्षीथ् ।

[#७]

अहार्षीथ् ।
अचैषीथ् ।
अनैषीथ् ।
अलावीथ् ।
अस्तावीथ् ।
गुण-वृद्धी स्वसञ्ज्ञया विधीयेते, तत्र इकः इति एतद्-उपस्थितं द्रष्टव्यं ।
किं कृतं भवति ? द्वितीयया षष्ठी प्रादुर्भाव्यते ।
मिदिमृजिपुगन्तलघऊपर्धाच्छिदृशिक्षिप्रक्षुद्रेष्वङ्गेन इग्विशेष्यते ।
जुसि सार्वधातुक-आदि-गुणेषु इक-अङ्गं विशेष्यते ।
मेद्यते ।
अबिघयुः ।
इकः इति किम्? आत्सन्ध्य्-अक्षर-व्यञ्जनानां मा भूथ् ।
यानं ।
ग्लायति ।
उम्भिता ।
पुनर्गुण-वृद्धि-ग्रहणं स्वसञ्ज्ञ्या विधाने नियम-अर्थं ।
इह मा भूत्-- द्यौः, पन्थाः, सः, इमं इति । ।


____________________________________________________________________


  1. <न धातु-लोप आर्धधातुके># । । पाणिनीयसूत्र १,१.४ । ।



_____काशिका १,१.४:

धात्व्-एकदेशो धातुः, तस्य लोपो यस्मिन्नार्धधातुके तद्-आर्धधातुकं धातु-लोपं, तत्र ये गुण-वृद्धी प्राप्नुतः, ते न भवतः ।
लोलुवः ।
पोपुवः ।
मरीमृजः ।
लोलूय-आदिभ्यो यङन्तेभ्यः पच-आद्य्-अचि विहिते यङोऽचि च (*२,४.७४) इति यङो लुकि कृते तं एव अचं आश्रित्य ये गुण-वृद्धी प्राप्ते तयोः प्रतिषेधः ।
धातु-ग्रहणं किं ? लूञ्, लविता ।
रेडसि ।
पर्णं न वेः ।
अनुबन्ध-प्रत्यय-लोपे मा भूथ् ।
रिषेर्-हि-स-अर्थस्य विच्प्रत्यय-लोप उदाहरणं रेटिति ।
आर्धधातुके इति किं ? त्रिधा बद्धो वृषभो रोरवीति इति ।
सार्वधातुके मा भूथ् ।
इकः इत्येव - अभाजि, रागः ।
बहुव्रीहि-समाश्रयणं किं ? क्नोपयति, प्रेद्धं । ।


____________________________________________________________________


  1. <क्ङिति च># । । पाणिनीयसूत्र १,१.५ । ।



_____काशिका १,१.५:

निमित्त-सप्तम्येषा ।
क्ङिन्-निमित्ते ये गुण-वृद्धी प्राप्नुतः, ते न भवतः ।
चितः, चितवान् ।
स्तुतः, स्तुतवान् ।
भिन्नः, भिन्नवान् ।
मृष्टः, मृष्टवान् ।
ङिति खल्वपि - चिनुतः, चिन्वन्ति ।
मृष्टः, मृजन्ति ।
गकारोऽपि अत्र चर्त्व-भूतो निर्दिश्यते ।
ग्ला-जि-स्थश्च ग्स्तुः (*३,२.१३९) जिष्णुः ।
भूष्णुः ।
इकः इत्यं एव - कामयते, लैगवायनः ।
मृजेरजादौ सङ्त्रमे विभाषा वृद्धिरिष्यते ।
सङ्-क्रमो नाम गुण-वृद्धि-प्रतिषेध-विषयः ।
परिमृजन्ति,

[#८]

परिमार्जन्ति ।
परिमृजन्तु, परिमार्जन्तु ।
लघु-उपध-गुणस्य अप्य्-अत्र प्रतिषेधः ।
अचिनवम्, असुनवं इत्यादौ लकारस्य सत्यपि ङित्त्वे यासुटो ङिद्-वचनं ज्ञापकं ङिति यत्-कार्यं तल्-लकारे ङिति न भवति इति । ।


____________________________________________________________________


काशिका १,१.६:

  1. <दीधी-वेवी-इटाम्># । । पाणिनीयसूत्र १,१.६ । ।



_____काशिका १,१.६:

दीधी-वेव्योः इटश्च ये गुण-वृद्धी प्राप्नुतः, ते न भवतः ।
आदीछ्यनम्, आदीद्यकः ।
आवेव्यनम्, आवेव्यकः ।
इटः खल्वपि - कणिता श्वः ।
रणिता श्वः ।
वृद्धिरिटो न संभवति इति लघु-उपध-गुणस्य-अत्र प्रतिषेधः । ।


____________________________________________________________________


  1. <हलोऽनन्तराः संयोगः># । । पाणिनीयसूत्र १,१.७ । ।



_____काशिका १,१.७:

भिन्न-जातीयैरज्भिरव्यवहितः श्लिष्ट-उच्चारिता हलः संयोग-सञ्ज्ञा भवन्ति ।
समुदायः सञ्ज्ञी ।
जातौ चेदं बहुवचनं ।
तेन द्वयोर्बहूनां च संयोगसञ्ज्ञा सिद्धा भवति ।
अग्निः इति ग-नौ ।
अश्वः इति श-वौ ।
कर्णः इति र-णौ ।
इन्द्रः, चन्द्रः मन्द्रः इति न-द-राः ।
उष्ट्रः, राष्ट्रम्, भ्राष्ट्रं इति ष-ट-राः ।
तिलान्स्त्र्यावपति इति न-सत-र-याः, न-त-स-त-र-या वा ।
हलः इति किं ? तितौच्छत्रं - संयोगान्तस्य लोपः (*८,२.२३) इति लोपः स्याथ् ।
अनन्तराः इति किं ? पचति पनसं - स्कोः संयोग-आद्योरन्ते च (*८,२.२९) इति लोपः स्याथ् ।
संयोग-प्रदेशाः - सम्योगान्तस्य लोपः (*८,२.२३) इत्येवं आदयः । ।


____________________________________________________________________


  1. <मुख-नासिका-वचनोऽनुनासिकः># । । पाणिनीयसूत्र १,१.८ । ।



_____काशिका १,१.८:

मुख-सहिता नासिका मुख-नासिका, तया य उच्चार्यते वर्णः सोऽनुनासिक-सञ्ज्ञो भवति ।
आङोऽनुनासिकश्छन्दसि (*६,१.१२६) ।
अभ्र आं अपः ।
गभीर आं उग्रपुत्रे ।
च न आं इन्द्रः ।
मुख-ग्रहनं किं ? अनुस्वारस्य-इव हि स्याथ् ।
नासिक-अग्रहणं किं ? कचटतपानां मा भूथ् ।
अनुनासिक-प्रदेशाः - आङोऽनुनासिकश्छन्दसि (*६,१.२६) इत्येवं आदयः । ।


____________________________________________________________________


  1. <तुल्य-आस्य-प्रयर्नं सवर्णम्># । । पाणिनीयसूत्र १,१.९ । ।



_____काशिका १,१.९:

तुल्य-शब्दः सदृश-पर्यायः ।
आस्ये भवम्-आस्यं ताल्व्-आदि-स्थानं ।
प्रयतनं प्रयत्नः स्पऋष्टत-आदिर्वर्ण-गुणः ।
तुल्य आस्ये प्रयत्नो यस्य वर्णस्य येन वर्णेन सह स समानजातीयं प्रति सवर्णसञ्ज्ञो भवति ।

[#९]
चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसं ज्ञायां आश्रीयन्ते -- स्पृष्टता, ईषत्-स्पृष्टता, संवृतता, विवृतता च इति ।
अ अ अ इति त्रयोऽकारा उदात्त-अनुदात्त-स्वरिताः प्रत्येकं सानुनासिका निरनुनासिकाश्च ह्रस्व-दीर्घ-प्लुत-भेदादष्टादश धा भिद्यन्ते ।
तथा इ-वर्णः, तथा उ-वर्णः, तथा ऋ-वर्णः ।
लृ-वर्णस्य दीर्घा न सन्ति, तं द्वादश-भेदं आचक्शते ।
सन्ध्य्-अक्षराणां ह्रस्वा न सन्ति, तान्यपि द्वादश-प्रभेदानि ।
अन्तःस्था द्विप्रभेदाः, रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च ।
रेफोष्मणां सवर्णा न सन्ति ।
वर्ग्यो वर्ग्येण सवर्णः ।
दण्डाग्रं ।
खट्वाग्रं ।
आस्य-ग्रहणं किं ? कचटतपानां भिन्न-स्थानानां तुल्य-प्रयत्नानां मा भूथ् ।
किं च स्यात्? तर्प्ता, तर्प्तुं इत्यत्र झरो झरि सवर्णे (*८,४.६५) इति पकारस्य तकारे लोपः स्याथ् ।
प्रयत्न-ग्रहणं किं ? इचुयशानां तुल्य-स्थानानां भिन्न-जातीयानां मा भूथ् ।
किं च स्यात्? अरुश्च्योतति इत्यत्र झरो झरि सवर्णे (*८,४.६५) इति शकारस्य चकारे लोपः स्याथ् ।
र्कार-लृकारयोः सवर्णस्ञ्ज्ञा वक्तव्या ।
होत्लृकारः ।
होतृकारः ।
उभयोः ऋवर्णस्य लृवर्णस्य च आन्तरतमः सवर्णो दीर्घो नास्ति इति र्कार एव दीर्घो भवति ।
सवर्ण-प्रदेशाः - अकः सवर्णे दीर्घः (*६,१.१०१) इत्येवं आदयः । ।


____________________________________________________________________


  1. <न अज्-झलौ># । । पाणिनीयसूत्र १,१.१० । ।



_____काशिका १,१.१०:

अच्च हल्च, अज्-झलौ ।
तुल्य-आस्य-प्रयत्नावपि अज्-झलौ परस्परं सवर्णसञ्ज्ञौ न भवतः ।
अवर्ण-हकारौ दण्डहस्तः, इवर्ण-शकारौ-दधि शीतम्, सवर्णदीर्घत्वं न भवति ।
वैपाशो मत्स्यः, आनडुहं चर्म इति यस्य-इति च (*६,४.१४८) इति लोपो न भवति । ।


____________________________________________________________________


[#१०]

  1. <ईद्-ऊद्-एद्-द्विवचनं प्रगृह्यम्># । । पाणिनीयसूत्र १,१.११ । ।



_____काशिका १,१.११:

ईतूतेतित्येवम्-अन्तं द्विवचनं शब्द-रूपं प्रग्र्ह्य-सञ्ज्ञं भवति ।
अग्नी इति ।
वायु इति ।
माले इति ।
पचेते इति ।
ईद्-ऊदेतिति किं ? वृक्षावत्र ।
प्लक्षावत्र ।
द्विवचनं इति किं ? कुमार्य्-अत्र ।
किशोर्य्-अत्र ।
तपरकरणं असंदेह-अर्थं ।
प्रगृह्य-प्रदेशाः - प्लुत-प्रगृह्या अचि नित्यं (*६,१.१२५) इत्येवं आदयः ।
ईद्-आदीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः ।
मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम ।
दम्पतीव ।
जम्पतीव ।
रोदसीव । ।


____________________________________________________________________


  1. <अदसो मात्># । । पाणिनीयसूत्र १,१.१२ । ।



_____काशिका १,१.१२:
अदसः सम्बधी यो मकारस्-तस्मात्परे ईद्-ऊदेतः प्रग्र्ह्य-सञ्ज्ञा भवन्ति ।
अमी अत्र ।
अमी आसते ।
अमू अत्र ।
अमू आसाते ।
एकारस्य उदाहरणं न अस्ति ।
अदसः इति किम्? शम्यत्र ।
दाडिम्यत्र ।
मातिति किं ? अमुकेऽत्र । ।


____________________________________________________________________


  1. <शे># । । पाणिनीयसूत्र १,१.१३ । ।



_____काशिका १,१.१३:

शे इत्येतत्प्रगृह्य-सञ्ज्ञं भवति ।
किम्-इदं शे इति ? सुपां आदेशश्छन्दसि ।
न युष्मे वाजबन्धवः ।
अस्मे इन्द्रा-बृहस्पती ।
युष्मे इति ।
अस्मे इति ।
त्वे रायः ।
मे रायः ।
त्वे इति ।
मे इति ।
छान्दसं एतदेव-इकं उदाहरणं - अस्मे इन्द्रा-बृहस्पती इति ।
तत्र तथा पाठाथ् ।
इतरत्तु लौकिकं अनुकरणं - युश्मे इति, अस्मे इति, त्वे इति, मे इति । ।


____________________________________________________________________


  1. <निपात एक-अज्-अन्-आङ्># । । पाणिनीयसूत्र १,१.१४ । ।



_____काशिका १,१.१४:

एकश्-च असावच्-च एकाच्, निपातो य एकाचाङ्-वर्जितः स प्रगृह्य-सञ्ज्ञो भवति ।
अ अपेहि ।
इ इन्द्रं पश्य ।
उ उत्तिश्ठ ।
आ एवं नु मन्यसे ।
आ एवं किल तथ् ।
निपातः इति किं ? चकारत्र ।
जहारात्र ।
एकाचिति किं ? प्राग्नये वाचमीरय ।
अनाङिति किं ? आ उदकान्तात्, ओदकान्ताथ् ।
ईषद्-अर्थे त्रिया-योगे मर्या-अदाभिविधौ च यः ।
एतम्-आतं ङितं विद्याद्वाक्य-स्मरणयोर्-अङित् । ।


____________________________________________________________________


[#११]

  1. <ओत्># । । पाणिनीयसूत्र १,१.१५ । ।



_____काशिका १,१.१५:

निपातः इति वर्तते ।
तस्य-उकारेण तदन्त-विधिः ।
ओदन्तो यो निपातः स प्रगृह्य-सञ्ज्ञो भवति ।
आहो इति ।
उताहो इति । ।


____________________________________________________________________


  1. <सम्बुद्धौ शाकल्यस्य-इतावनार्षे># । । पाणिनीयसूत्र १,१.१६ । ।



_____काशिका १,१.१६:

ओतिति वर्तते ।
सम्बुद्धि-निमित्तो य ओकारः स शाकल्यस्य आचार्यसय्मतेन प्नगृह्य-सञ्ज्ञो भवति, इति-शब्दे अनार्षे अवैदिके परतः ।
वायो इति, वायव्-इति ।
भानो इति, भानव्-इति ।
सम्बुद्धौ इति किं ? गवित्ययम्-आह ।
अत्र अनुकार्य-अनुकरणयोः भेदस्य अविवक्षितत्वात्, असत्य्-अर्थवत्त्वे विभक्तिर्-न भवति ।
शाकल्य-ग्रहणं विभाषा-अर्थं ।
इतौ इति किं ? वायोऽत्र ।
अनार्षे इति किं ? एता गा ब्रहम-बन्ध इत्यब्रवीत् । ।


____________________________________________________________________


  1. <उञः># । । पाणिनीयसूत्र १,१.१७ । ।



_____काशिका १,१.१७:

शाकल्यस्य-इतौ अनार्षे इति वर्तते ।
उञः प्रगृह्य-सञ्ज्ञा भवति इतौ शाकल्यस्य आचार्यस्य मतेन ।
शाकल्यस्य इति विभाष-अर्थं ।
उ इति, विति । ।


____________________________________________________________________


  1. <ऊं># । । पाणिनीयसूत्र १,१.१८ । ।



_____काशिका १,१.१८:

उञः इति वर्तते ।
उञः इताव्-अनार्षे ऊं इत्ययम्-आदेशो भवति दीर्घोऽनुनासिकश्च, शाक्ल्यस्य मतेन प्रगृह्य-सञ्ज्ञकश्च ।
शाकल्यस्य ग्रहणं विभाषा-अर्थं इह अप्यनुवर्तते ।
तेन त्रीणि रूपाणि भवन्ति - उ इति, विति, ऊं इति । ।

____________________________________________________________________


  1. <ईद्-ऊतौ च सप्तम्य्-अर्थे># । । पाणिनीयसूत्र १,१.१९ । ।



_____काशिका १,१.१९:

शाक्ल्यस्य-इताव्-अनार्शे इति निवृत्तं ।
ईदन्तं ऊदन्तं च शब्द-रूपं सप्तम्य्-अर्थे वर्तमानं प्रगृह्य-सञ्ज्ञं भवति ।
अध्यस्यां मामकी तनू ।
मामक्यां तन्वां इति प्राप्ते, मांक्यां मामकी इति, तन्वां तनू इति ।
सोमो गौरी अधि श्रितः ।
ईदूतौ इति किं ? प्रियः सूर्ये प्रियो अग्ना भवाति ।
अग्नि-शब्दात्परस्याः सप्तम्याः डादेशः ।
सप्तमी-ग्रहणं किं ? धीती, मती, सुष्टुती - धीत्या, मत्या, सुष्टुत्या इति प्राप्ते ।
अर्थ-ग्रहणं किं ? वा-अप्यश्वः ।
नद्यातिः ।
तपरकरणं असन्देह-अर्थं ।

[#१२]

ईद्-ऊतौ सप्तमी-इत्येव लुप्तेऽर्थ-ग्रहणाद्भवेथ् ।
पूर्वस्य चेत्सवर्णोऽसावाडाम्भावः प्रसज्यते । ।१ । ।

वचनाद्य्-अत्र दीर्घत्वं तत्र अपि सरसी यदि ।
ज्ञापकं स्यात्तद्-अन्तत्वे मा वा पूर्वपदस्य भूथ् । ।२ । ।



____________________________________________________________________


  1. <दा-धा घ्व्-अदाप्># । । पाणिनीयसूत्र १,१.२० । ।



_____काशिका १,१.२०:

दा-रूपाश्चत्वारो धातवः, धा-रूपौ च द्वौ दाब्दैपौ वर्जयित्वा घु-सञ्ज्ञका भवन्ति ।
डुदाञ्- प्रणिददाति ।
दाण्- प्रणिदाता ।
दो - प्रणिद्यति ।
देङ्- प्रणिदयते ।
डुधाञ्- प्रणिदधाति ।
धेट्- प्रणिधयति वत्सो मातरं ।
अदापिति किं ? दाप्लवने - दातं बर्हिः ।
दैप्शोधने - अवदातं मुखं ।
घु-प्रदेशाः - घु-मा-स्था-गा-पा-जहाति-सां हलि (*६,४.६६) इत्येवमादयः । ।


____________________________________________________________________


  1. <आद्यन्तवदेकस्मिन्># । । पाणिनीयसूत्र १,१.२१ । ।



_____काशिका १,१.२१:

असहायसयाद्यन्त-उपदिष्टानि कार्याणि न सिध्यन्ति इति अयम्-अतिदेश आरभ्यते ।
सप्तम्य्-अर्थे वतिः ।
आदाव्-इव अन्ते इव एकस्मिन्न्-अपि कार्यं भवति ।
यथा कर्तव्यं इत्यत्र प्रत्यय-आद्य्-उदात्तत्वं भवति, एवं औपगवं इत्यत्र अपि यथा स्याथ् ।
यथा वृक्षाभ्यां इत्यत्र अतोऽङ्गस्य दीर्घत्वं एवं आभ्याम्, इत्यत्र अपि यथा स्याथ् ।
एकस्मिन्न्-इति किं ।
सभासन्नयने भवः साभासन्नयनः, आकारं आश्रित्य वृद्ध-सञ्ज्ञा न भवति । ।


____________________________________________________________________


  1. <तरप्-तमपौ घः># । । पाणिनीयसूत्र १,१.२२ । ।



_____काशिका १,१.२२:

तरप्तमपित्येतौ प्रत्ययौ घ-सञ्ज्ञौ भवतः ।
कुमारितरा ।
कुमरितमा ।
ब्राह्मणितरा ।
ब्राह्मणितमा ।
घ-प्रदेशाः - घ-रूप-कल्प-चेलड्-ब्रुव-गोत्र-मत-हतेषु ङ्योऽनेकाचो ह्रस्वः (*६,३.४३) इत्येवं आदयः । ।


____________________________________________________________________


  1. <बहु-गण-वतु-डति सङ्ख्या># । । पाणिनीयसूत्र १,१.२३ । ।



_____काशिका १,१.२३:

बहु गण वतु इत्येत सङ्ख्या-सञ्ज्ञा भवन्ति ।
बहुकृत्वः ।
बहुधा ।
बहुकः ।
बहुशः ।
गणकृत्वः ।
गणधा ।
गणकः ।
गणशः ।
तावत्कृत्वः ।
तावद्धा ।
तावत्कः ।
तावच्छः ।
कतिकृत्वः ।
कतिधा ।
कतिकः ।
कतिशः ।
बहु-गण-शब्दयोर्वैपुल्ये सङ्घे च वर्तमानयोरिह ग्रहणं नास्ति, सङ्ख्या-वाचिनोरेव ।
भूर्यादीनां निवृत्त्य्-अर्थं सङ्ख्या-सञ्ज्ञा विधीयते ।

[#१३]

अर्ध-पूर्व-पदश्च पूरण-प्रत्ययान्तः सङ्ख्या-सञ्ज्ञो भवति इति वक्तव्यं समासकन्विध्य्-अर्थं ।
अर्ध-पञ्चम-शूर्पः ।
अर्धं पञ्चमं येशां इति बहुव्रीहौ कृते अर्ध-पञ्चमैः शूर्पैः क्रीतः ।
तद्धित-अर्थ-इति समासः ।
तत्र दिक्-सङ्ख्ये सञ्ज्ञायां (*२,१.५०) इत्यनुवृत्तेस्ततः सङ्ख्या-पूर्वस्य द्विगु-सञ्ज्ञायां शूर्पादञन्यतरस्यां (*५,१.२६) इति अञ्ठञ्च ।
अध्यर्ध-पूर्व-द्विगोर्लुग्-असञ्ज्ञायां (*५,१.२८) इति लुक् ।
अर्ध-पञ्चमकः ।
सङ्ख्या-प्रदेशाः-सङ्ख्या वंश्येन (*२,१.१९) इत्येवं आदयः । ।


____________________________________________________________________


[#१२]

  1. <ष्ण-अन्ता षट्># । । पाणिनीयसूत्र १,१.२४ । ।



_____काशिका १,१.२४:

स्त्री-लिङ्ग-निर्देशात्सङ्ख्य इति सम्बध्यते ।

[#१३]

ष-कारान्ता न-कारान्ता च या सङ्ख्या सा षट्-सञ्ज्ञा भवति ।
ष-कारान्ता तावत्--षट्तिष्ठन्ति ।
षट्प्श्ये ।
न-कारान्तः-पञ्च ।
सप्त ।
नव ।
दस ।
अन्त-ग्रहणं औपदेशिक-अर्थं ।
तेन-इह न भवति - शतानि, सहस्राणि ।
अष्टानां इत्यत्र नुड्भवति ।
षट्-प्रदेशाः--षड्भ्यो लुक्(*७,१.२२) इत्येवं आदयः । ।


____________________________________________________________________

  1. <डति च># । । पाणिनीयसूत्र १,१.२५ । ।



_____काशिका १,१.२५:

डत्यन्ता या सङ्ख्या सा षट्-सञ्ज्ञा भवति ।
कति तिष्ठन्ति ।
कति पश्य । ।


____________________________________________________________________


  1. <क्त-क्तवतू निष्ठा># । । पाणिनीयसूत्र १,१.२६ । ।



_____काशिका १,१.२६:

क्तश्च क्तवतुश्च क्त-क्तवतू प्रत्ययौ निश्ठा-सञ्ज्ञौ भवतः ।
कृतः ।
कृतवान् ।
भुक्तः ।
भुक्तवान् ।
क-कारः कित्-कार्य-अर्थः ।
उकारः उगित्-कार्य-अर्थः ।
निष्ठा-प्रदेशाः-- श्वीदितो निष्ठायां (*७,२.१४) इत्येवमादयः । ।


____________________________________________________________________


  1. <सर्व-आदीनि सर्वनामानि># । । पाणिनीयसूत्र १,१.२७ । ।



_____काशिका १,१.२७:

सर्व-शब्दः आदिर्येषां तानि-इमानि सर्व-अदीनि सर्वनाम-सञ्ज्ञानि भवन्ति ।
सर्वः, सर्वौ, सर्वे ।
सर्वस्मै ।
सर्वस्माथ् ।
सर्वेषां ।
सर्वस्मिन् ।
सर्वकः ।
विश्वः, विश्वौ, विस्वे ।
विश्वस्मै ।
विश्वस्माथ् ।
विश्वेषां ।
विश्वस्मिन् ।
विश्वकः ।

[#१४]

उभ ।
उभय ।
उभ-शब्दस्य सर्वनामत्वे प्रयोजनम्-- सर्वनाम्नस्-तृतीय च (*२,३.२७) इति ।
उभाभ्यां हेतुभ्यां वसति, उभयोः हेत्वोः वसति ।
उभये ।
उभयस्मै ।
उभयस्माथ् ।
उभ्येषां ।
उभयस्मिन् ।
डतर, डतम ।
कतर, कतम ।
कतरस्मै, कतमस्मै ।
इतर ।
अन्य ।
अन्यतर ।
इतरस्मै ।
अन्यस्मै ।
अन्यतरसमै ।
त्व-शब्दोऽन्य-वाची स्वर-भेदाद्द्विः पठितः ।
एकः उदात्तः ।
द्वितीयोऽनुदात्तः ।
केचित्तकारान्तमेकं पठन्ति ।
त्व त्वतिति द्वावपि च अनुदाताउ इति स्मरन्ति ।
नेम--नेमस्मै ।
वक्ष्यमाणेन जसि विभाषा भवति ।
नेमे, नेमाः इति ।
सम--समस्मै ।
कथं यथा-सङ्ख्यं अनुदेशः समानां (*१,३.१०), समे देशे यजेत इति ।
समस्य सर्व-शब्द-पर्यायस्य सर्वनाम-स्ञ्ज्ञा इष्य्ते, न सर्वत्र ।
सिम--सिमस्मै ।
पूर्व-पर-अवर-दक्षिण-उत्तर-अपर-अधराणि व्यवस्थायां असञ्ज्ञायां (*१,१.३४) ।
स्वं अञ्ज्ञाति-धन-आख्यां (*१,१.३५) ।
अन्तरं बहिर्योगोप्संव्यानयोः (*१,१.३६) ।
त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किं ।
सर्वादिः ।
सर्वनाम-प्रदेशाः-- सर्वनाम्नः स्मै (*७,१.१४) इत्येवं आदयः । ।


____________________________________________________________________


  1. <विभाषा दिक्षमासे बहुव्रीहौ># । । पाणिनीयसूत्र १,१.२८ । ।



_____काशिका १,१.२८:

न बहुव्रीहौ (*१,१.२९) इति प्रतिषेधं वक्ष्यति ।
तस्मिन्नित्ये प्रतिषेधे प्राप्ते विभा-षेयं आरभ्यते ।
दिशां समासः दिक्षमासः ।
दिग्-उपदिष्टे समासे बहुव्रीहौ विभाषा सर्वादीनि सर्वनाम-सञ्ज्ञानि भवन्ति ।
उत्तर-पूर्वस्यै, उत्तर-पूर्वायै ।
दिक्षिण-पूर्वस्यै, दक्षिण-पूर्वायै ।
दिग्-ग्रहणं किं ? न बहुव्रीहौ (*१,१.२९) इति प्रतिषेधं वक्ष्यति, तत्र न ज्ञायते क्व विभाषा, क्व प्रतिषेधः इति ।
दिग्-ग्रहणे पुनः क्रियमाणे ज्ञायते दिग्-उपदिष्ट-समासे विभाषा, अन्यत्र प्रतिषेधः इति ।
समास-ग्रहणं किं ? समास एव यो बहुव्रीहिः, तत्र विभाषा यथा स्याथ् ।
बहुव्रीहिवद्भावेन यो बहुव्रीहिः, तत्र मा भूथ् ।
दक्षिण-दक्षिणस्यै देहि ।
बहुव्रीहौ इति किं ? द्वन्द्वे विभाषा मा भूथ् ।
दक्षिण-उत्तर-पूर्वाणां इति द्वन्द्वे च (*१,१.३२) इत्नित्यं प्रतिषेधो भवति । ।


____________________________________________________________________

[#१५]

  1. <न बहुव्रीहौ># । । पाणिनीयसूत्र १,१.२९ । ।



_____काशिका १,१.२९:

सर्वनाम-सञ्ज्ञायां तद्-अन्त-विधेरभ्युपगमाद्बहुव्रीहेरपि सर्व-आद्य्-अन्तसय्सञ्ज्ञा स्यातिति प्रतिषेध आरभ्यते ।
बहुव्रीहौ समासे सर्वादीनि सर्वनाम-सञ्ज्ञानि न भवन्ति ।
प्रियविश्वाय ।
प्रियोभ्याय ।
द्व्यन्याय ।
त्र्यन्याय ।
इह च, त्वत्-कपितृकः, मत्-कपितृकः इत्य्-अकज्न भवति ।
बहुव्रीहौ इति वर्तमाने पुनर्-बहुव्रीहि-ग्रहणं भूत-पूर्वमात्रेऽपि प्रतिषेधो यथा स्यात्, वस्त्रान्तर-वसनान्तराः इति । ।


____________________________________________________________________


  1. <तृतीया-समासे># । । पाणिनीयसूत्र १,१.३० । ।



_____काशिका १,१.३०:

तृतीया-समासे सर्व-आदीनि सर्वनाम-सञ्ज्ञानि न भवन्ति ।
मास-पूर्वाय ।
संवत्सर-पूर्वाय ।
द्व्यह-पूर्वाय ।
त्र्यह-पूर्वाय ।
समासे इति वर्तमाने पुनः सम्मसग्रहणं तृतीया-समास-अर्थ-वाक्येऽपि प्रतिषेधो यथा स्याथ् ।
मासेन पूर्वाय ।
पूर्व-सदृश-सम-ऊन-अर्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः (*२,१.३१) इति तृतीय-असमासं प्रतिपदं वक्ष्यति, तस्य-इदं ग्रहणं ।
न यस्य कस्यचित्तृतीया-समासस्य ।
कर्तृ करणे कृता बहुलं (*२,१.३२) इति-त्वयका Kऋतम्, मयका कृतं । ।


____________________________________________________________________


  1. <द्वन्द्वे च># । । पाणिनीयसूत्र १,१.३१ । ।



_____काशिका १,१.३१:

द्वन्द्वे च समासे सर्वादीनि सर्वनाम-सञ्ज्ञानि न भवन्ति ।
पूर्व-अपराणां ।
कतर-कतमानां । ।


____________________________________________________________________


  1. <विभाषा जसि># । । पाणिनीयसूत्र १,१.३२ । ।



_____काशिका १,१.३२:

पूर्वेण नित्ये प्रतिषेधे प्राप्ते जसि विभाषा आरब्यते ।
द्वन्द्वे समासे जसि विभाषा सर्वादीनि सर्वनाम-सञ्ज्ञानि न भवन्ति ।
कतरकतमे, कतरकतमाः ।
जसः कार्यं प्रति विभाषा, अकझि न भवति - कतरकतमकाः । ।


____________________________________________________________________


[#१६]

  1. <प्रथम-चरम-तय-अल्प-अर्ध-कतिपय-नेमाश्च># । । पाणिनीयसूत्र १,१.३३ । ।



_____काशिका १,१.३३:

विभाषा जसि (*१,१.३२) इति वर्तते ।
द्वन्द्वे इति निवृत्तं ।
प्रथम चरम तय अल्प अर्ध कतिपय नेम इत्येते जसि विभाषा सर्वनाम-सञ्ज्ञा भवन्ति ।
प्रथमे, प्रथमाः ।
चरमे, चरमाः ।
द्वितये, द्वितयाः ।
अल्पे, अल्पाः ।
अर्धे, अर्धाः ।
कतिपये, कतिपयः ।
नेमे, नेमाः ।
तय इति तयप्प्रत्ययः ।
शिष्टानि प्रातिपदिकानि ।
तत्र नेम इति सर्वादिषु पठ्यते, तस्य प्राप्ते विभषा, अन्येषां अप्राप्ते ।
उभय-शब्दस्य तयप्-प्रत्यय-अन्तस्य गने पाठान्नित्या सर्वनाम-सञ्ज्ञा इह अपि जस्कार्यं प्रति विभाषा ।
काकचोर्यथा-योगं वृत्तिः । ।


____________________________________________________________________


  1. <पूर्व-पर-अवरदक्षिण-उत्तर-अपर-अधराणि व्यवस्थायां असञ्ज्ञायाम्># । । पाणिनीयसूत्र १,१.३४ । ।



_____काशिका १,१.३४:
पूर्व पर अवर दक्षिण उत्तर अपर अधर इत्य्-एषां गणे पाठात्पूर्वेण नित्यायां सर्वनाम-सञ्ज्ञायां प्राप्तायां जसि विभाषा आरभ्यते ।
पूर्वादीनि विभषा जसि सर्वनाम-सञ्ज्ञानि भवन्ति व्यवस्थायां असञ्ज्ञायां ।
स्वाभिधेय-अपेक्षावधिनियमो व्यवस्था ।
पूर्वे, पूर्वाः ।
परे, पराः ।
अवरे, अवराः ।
दक्ष्णे, दक्ष्णाः ।
उत्तरे, उत्तराः ।
अपरे, अपराः ।
अधरे, अधरः ।
व्यवस्थायां इति किं ? दक्षिणा इमे गाथकाः ।
प्रवीणाः इत्यर्थः ।
असञ्ज्ञायां इति किं ? उत्तराः कुरवः ।
सत्यां एव व्यवस्थायां इयं तेषां सञ्ज्ञा । ।

____________________________________________________________________


  1. <स्वं अज्ञाति-धन-आख्यायाम्># । । पाणिनीयसूत्र १,१.३५ । ।



_____काशिका १,१.३५:

अत्र अपि नित्या सर्वनाम-सञ्ज्ञा प्राप्ता जसि विभाष्यते ।
स्वं इत्येतच्-छब्द-रूपं जसि विभाषा सर्वनाम-सञ्ज्ञं भवति , न चेज्ज्ञातिधनयोः सञ्ज्ञारूपेण वर्तते ।
स्वे पुत्राः, स्वाः पुत्राः ।
स्वे गावः, स्वा गावः ।
आत्मीयाः इत्यर्थः ।
ज्ञाति-प्रतिषेधः इति किं ? धूमायन्त इव अश्लिष्टाः प्रज्वलन्ति इव संहताः ।
उल्मुकानि इव मेऽमी स्वा ज्ञातयो भरतर्षभ । ।

अधनाख्यायां इति किं ? प्रभूताः स्वा न दीयन्ते, प्रभूतः स्वा न भुज्यन्ते ।
प्रभूतानि धनानि इत्यर्थः । ।


____________________________________________________________________


  1. <अन्तरं बहिर्योग-उपसंव्यानयोः># । । पाणिनीयसूत्र १,१.३६ । ।



_____काशिका १,१.३६:

अत्र अपि पूर्वेण नित्या सर्वनाम-सञ्ज्ञा प्राप्ता सा जसि विभाष्यते ।
अन्तरं इत्येतच्-छब्द-रूपं विभाषा जसि सर्वनाम-सञ्ज्ञं भवति बहिर्योगे उपसंव्याने च गम्यमाने ।
अन्तरे गृहाः, अन्तराः गृहाः ।
नगरबाह्याश्चाण्डालादिगृहा उच्यन्ते ।

[#१७]

उपसंव्याने--अन्तरे शाटकाः, अन्तराः शाटकाः ।
उपसंव्यानं परिधानीयं उच्यते, न प्रावरणीयं ।
बहिर्योग-उपसंव्यानयोः इति किं ? अनयोः ग्रामयोरन्तरे तापसः प्रतिवसति ।
तस्मिन्नन्तरे शीतान्युदकानि ।
मध्यप्रदेश-वचनोऽन्तर-शब्दः ।
गण-सूत्रस्य च-इदं प्रत्युदाहरणं ।
अपुरि इति वक्तव्यं ।
अन्तरायां पुरि वसति ।
विभाषा-प्रकरणे तीयस्य वा ङित्सु सर्वनाम-सञ्ज्ञा इत्युपसंख्यानं ।
द्वितीयस्मै, द्वितीयाय ।
तृतीयस्मै, तृतीयाय । ।


____________________________________________________________________


  1. <स्वरादि-निपातं अव्ययम्># । । पाणिनीयसूत्र १,१.३७ । ।



_____काशिका १,१.३७:

स्वरादीनि शब्द-रूपाणि निपाताश्च अव्यय-सञ्ज्ञानि भवन्ति ।
स्वर्, अन्तर्, प्रातर्, एते अन्त-उदात्ताः पठ्यन्ते ।
पुनराद्य्-उदात्तः ।
सनुतर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, आरात्, ऋते, युगपत्, पृथक्, एतेऽपि सनुतर्प्रभृतयोऽन्तोदात्ताः पठ्यन्ते ।
ह्यस्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, मनाक्, ईषत्, जोषम्, तूष्णीम्, बहिस्, आविस्, अवस्, अधस्, समया, निकषा, स्वयम्, मृषा, नक्तम्, नञ्, हेतौ, अद्धा, इद्धा, सामि, एतेऽपि ह्यस्प्रभृतयोऽन्तोदात्ताः पठ्यन्ते ।
वत्-वदन्तं अव्यय-सञ्ज्ञं भवति ।
ब्राह्मणवथ् ।
क्षत्रियवथ् ।
सन्, सनात्, सनत्, तिरस्, एते आद्य्-उदात्ताः पठ्यन्ते ।
अन्तरा-अयमन्तोदात्तः ।
अन्तरेण, ज्योक्, कम्, शम्, सना, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मुधा, मिथ्या ।
क्त्वातोसुङ्कसुनः, कृन्म-कारान्तः, सन्ध्य्-अक्षरान्तः, अव्ययीभावश्च ।
पुरा, मिथो, मिथस्, प्रबाहुकम्, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्धम्, समम, नमस्, हिरुक्, तसिलादिः तद्धित एधाच्पर्यन्तः, शस्तसी, कृत्वसुच्, सुच्, आस्-थालौ, च्व्यर्थाश्च, अम्, आम्, प्रतान्, प्रषान्, स्वरादिः ।
निपाता वक्ष्यन्ते--प्राग्-रीश्वरान्-निपाताः (*१,४.५६) इति ।
च, वा, ह, अह, एव, एवं इत्य्-आदयः ।
अव्यय-प्रदेशाः-- अव्ययादाप्-सुपः (*२,४.८२) इत्येवं आदयः ।
अव्ययं इत्यन्वर्थ-सञ्ज्ञा ।

[#१८]
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तद्-अव्ययं । ।


____________________________________________________________________


  1. <तद्धितश्च असर्व-विभक्तिः># । । पाणिनीयसूत्र १,१.३८ । ।



_____काशिका १,१.३८:

तद्धितान्तः शब्दोऽसर्व-विभक्तिः अव्यय-सञ्ज्ञो भवति ।
यस्मात्न सर्व-विभक्तेरुत्पत्तिः सोऽसर्व-विभक्तिः ।
ततः, यतः, तत्र, यत्र, तदा, यदा, सर्वदा, सदा ।
तद्धितः इति किं ? एकः, द्वौ, बहवः ।
असर्व-विभक्तिः इति किं ? औपगवः, औपगवौ, औपगवाः । ।


____________________________________________________________________


  1. <कृन्-म्-एज्-अन्तः># । । पाणिनीयसूत्र १,१.३९ । ।



_____काशिका १,१.३९:

कृद्यो म-कार-अन्तः, एज्-अन्तश्च तद्-अन्तं शब्द-रूपं अव्यय-सञ्ज्ञं भवति ।
स्वादुङ्-कारं भुङ्क्ते ।
सम्पन्नङ्-कारं भुङ्क्ते ।
लवणङ्-कारं भुङ्क्ते ।
एजन्तः-वक्षे रायः ।
ता वामेषे रथानां ।
ऋत्वे दक्षाय जीवसे ।
ज्योक्च सूर्यं दृशे ।
वक्षे इति वचेः तुम्-अर्थे से-सेन्-असे (*३,४.९) इति से-प्रत्यये कुत्वे षत्वे च कृते रूपं ।
एषे इति इणः से-प्रत्यये गुणे षत्वे च कृते रूपं ।
जीवसे इति जीवेः असे प्रत्यये रूपं ।
दृशे इति दृशेः केन्-प्रत्ययो निपात्यते - दृशे विख्ये च (*३,४.११) इति ।
अन्त-ग्रहणं औपदेशिक-प्रतिपत्त्य्-अर्थं ।
इह मा भूत्- आधये, चिकीर्षवे, कुम्भ-कारेभ्यः इति । ।


____________________________________________________________________


  1. <क्त्वा-तोसुन्-कसुनः># । । पाणिनीयसूत्र १,१.४० । ।



_____काशिका १,१.४०:

क्त्वा, तोसुन्, कसुन्, इत्येवं अन्तं शब्द-रूपं अव्यय-सञ्ज्ञं भवति ।
कृत्वा ।
हृत्वा ।
तोसुन्-- व्युष्टायां पुरा सूर्यस्योदेतो राधेयः ।
पुरा वत्सानामपाकर्त्तोः ।
भाव-लक्षणे स्था-इण्-कृञ्-वदि (*३,४.१६) इति इणः, कृञश्च तोसुन्प्रत्ययः ।
कसुन्-- सृपि-तृदोः कसुन्(*३,४.१७) ।
पुरा क्रूरस्य विसृपो विरप्शिन् ।
पुरा जत्रुभ्य आतृदः । ।


____________________________________________________________________


  1. <अव्ययी-भावश्च># । । पाणिनीयसूत्र १,१.४१ । ।



_____काशिका १,१.४१:

अव्ययी-भाव-समासोऽव्यय-सञ्ज्ञो भवति ।
किं प्रयोजनं ? लुङ्-मुख-स्वर-उपचाराः ।
लुक्- उपाग्नि, प्रत्यग्नि शलभाः पतन्ति ।
मुख-स्वरः- उपाग्निमुखः, प्रत्यग्निमुखः ।
मुखं स्व-अङ्गं (*६,२.१६७) इत्युत्तरपद-अन्त-उदात्तत्वं प्राप्तम्, न-अव्यय-दिक्-शब्द (*६,२.१६८) इति प्रतिषिध्यते ।
तस्मिन्प्रतिषिद्धे पूर्वपद-प्रकृति-स्वर एव भवति ।
[#१९]

उपचारः - उपपयः-कारः, उपपयः-कामः ।
विसर्जनीय-स्थानिकस्य स-कारस्य उपचारः इति सञ्ज्ञा ।
तत्र अव्ययीभावस्य अव्ययत्वे अतः कृ-कमि-कंस-कुम्भ-पात्र-कुशा-कर्णी-ष्वनव्ययस्य (*८,३.४६) इति पर्युदासः सिद्धो भवति ।
सर्वं इदं काण्डं स्वर-अदावपि पठ्यते ।
पुनर्वचनं अनित्यत्वज्ञापन-अर्थं ।
तेन अयं कार्य-नियमः सिद्धो भवति ।
इह च -- पुरा सूर्यस्योदेतोर्-आधेयः, पुरा क्रूरस्य विसृपो विरप्शिनिति न ल-उ-उक-अव्यय-निष्ठा-खल्-अर्थ-तृनां (*२,३.६९) इति षष्ठी-प्रतिषेधो न भवति । ।


____________________________________________________________________


  1. <शि सर्वनाम-स्थानम्># । । पाणिनीयसूत्र १,१.४२ । ।



_____काशिका १,१.४२:

शि इत्येतत्सर्वनाम-स्थानसञ्ज्ञं भवति ।
किं इदं शि इति ? जश्-शसोः षिः (*७,१.२०) इति शिः आदेशः ।
कुण्डानि तिष्ठन्ति ।
कुण्डानि पश्य ।
दधीनि ।
मधूनि ।
त्रपूणि ।
जतूनि ।
सर्वनाम-स्थान-प्रदेशाः-- सर्वनाम-स्थाने च असम्बुद्धौ (*६,४.८) इत्येवं आदयः । ।


____________________________________________________________________


  1. <सुडनपुंसकस्य># । । पाणिनीयसूत्र १,१.४३ । ।



_____काशिका १,१.४३:

सुटिति पञ्च वचनानि सर्वनाम-स्थान-सञ्ज्ञानि भवन्ति नपुंसकादन्यत्र ।
नपुंसके न विधिः, न प्रतिषेधः ।
तेन जसः शेः सर्वनाम-स्थान-सञ्ज्ञा पूर्वेण भवत्येव ।
राजा, राजानौ, राजानः ।
राजानम्, राजानौ ।
सुटिति किं ? राज्ञः पश्य ।
अनपुंसकस्य इति किं ? सामनी, वेमनी । ।


____________________________________________________________________


  1. <न वा-इति विभाषा># । । पाणिनीयसूत्र १,१.४४ । ।



_____काशिका १,१.४४:

न इति प्रतिषेधः, वा इति विकल्पः ।
तयोः प्रतिषेध-विकल्पयोः विभाषा इति सञ्ज्ञा भवति ।
इति-करणोऽर्थ-निर्देश-अर्थः ।
विभाषा-प्रदेशेषु प्रतिषेध-विकल्पावुपतिष्ठेते ।
तत्र प्रतिषेधेन समीकृते विषये पश्चाद्विकल्पः प्रवर्तते ।
उभयत्र-विभाषाः प्रयोजयन्ति ।
विभाषा श्वेः (*६,१.३०) शुशाव, शिश्वाय ।
शुशुवतुः, शिश्वियतुः ।
विभाषा-प्रदेशाः - विभाषा श्वेः (*६,१.३०) इत्येवं आदयः । ।


____________________________________________________________________


  1. <इग्-यणः सम्प्रसारणम्># । । पाणिनीयसूत्र १,१.४५ । ।



_____काशिका १,१.४५:

इक्यो यणः स्थाने भूतो भावी वा तस्य संप्रसारणं इत्येषा सञ्ज्ञा भवति ।
यज्--इ ष्टं ।
वप्-- उप्तं ।
ग्रह -- गृहीतं ।
केचिदुभयथा सूत्रं इदं व्याचक्षते वाक्य-अर्थः सञ्ज्ञी, वर्णश्च इति ।
इग्-यणः यो वाक्य-अर्थः स्थान्य्-आदेश-सम्बन्ध-लक्षणः स सम्प्रसारण-सञ्ज्ञो भवति, यण्-स्थानिक इग्-वर्णः स सम्प्रसारण-सञ्ज्ञो भवति इति ।
तत्र विधौ वाक्य-अर्थ उपतिष्ठते ष्यङः सम्प्रसारणं पुत्र-पत्योस्तत्पुरुषे (*६,१.१३) वसोः सम्प्रसारणं (*६,४.१३१) इति ।

[#२०]

अनुवादे वर्णः सम्प्रसारणाच्च (*६,१.१०८) इति ।
सङ्ख्यात-अनुदेशादिह न भवति - अधितरां इति ।
द्युभ्यां इत्यत्र दिव उत्(*६,१.१३१) इति तपरकरणाद्दीर्घो न भवति ।
सम्प्रसारण-प्रदेशाः - वसोः सम्प्रसारणं (*६,४.१३१) इत्येवं आदयः । ।
आद्यन्तौ ट-कितौ (*१,१.४६) आदिः टित्भवति, अन्तः कित्भवति षस्ठी-निर्दिष्टस्य ।
लविता ।
मुण्डो भीषयते ।
टित्प्रदेशाः - आर्धधातुकस्य+इड्वल्-आदेः (*७,२.३५) इत्येवं आदयः ।
कित्-प्रदेशाः - भियो हेतुभये शुक्(*७,३.४०) इत्येवं आदयः । ।
मिदचोऽन्त्यात्परः (*१,१.४७) ।
अचः इति निर्धारने षष्ठी ।
जातौ च+इदं एकवचनं ।
अचां संनिविष्टानां अन्त्यादचः परो मित्भवति ।
स्थानेयोग - प्रत्यय परत्वस्य अयं अपवादः ।
विरुणद्धि ।
मुञ्चति ।
पयांसि ।
मित्प्रदेशाः - रुदः-आदिभ्यः श्नं (*३,१.७८) इत्येवं आदयः ।
मस्जेरन्त्यात्पूर्वं नुम्-अम्-इच्छन्त्यनुषङ्ग-संयोग-आदि-लोप-अर्थं ।
मग्नः ।
मग्नवान् ।
मङ्क्ता ।
मङ्क्तुं । ।
एच इग्-घ्रस्व-आदेशे (*१,१.४८) ।
एचो ह्रस्व-आदेशे कर्तव्ये इकेव ह्रस्वो भवति, न अन्यः ।
रै-अतिरि ।
नौ-अतिनु ।
गो-उप गु ।
एचः इति किं ? अतिखट्वः ।
अतिमालः ।
ह्रस्व-आदेशे इति किं ? दे३वदत्त ।
देवद३त्त । ।
षष्ठी स्थाने-योगा (*१,१.४९) ।
परिभाशा इयं योग-नियम-अर्था ।
इह शास्त्रे या षष्ठी अनियत-योगा श्रूयते, सा स्थाने-योगा-इव भवति, न-अन्य-योगा ।
स्थाने-योगस्य निमित्त-भूते सति सा प्रतिपत्तव्या ।
स्थान-शब्दश्च प्रसङ्ग-वाची ।
यथा-दर्भाणां स्थाने शरैः प्रस्तरितव्यं इति दर्भाणां प्रसङ्गे इति गम्यते ।
एवं इह अपि अस्तेः स्थाने प्रसङ्गे भूर्भवति ।
भविता ।
भवितुं ।
भवितव्यं ।
ब्रुवः प्रसङ्गे वचिर्भवति ।
वक्ता ।
वक्तुं ।
वक्तव्यं ।
प्रसङ्गे सम्बन्धस्य निमित्त-भूते ब्रुव इति षस्ठी ।

[#२१]

बहवो हि षष्ठ्य्-अर्थाः- स्व-स्वाम्य्-अनन्तर-समीप-समूह-विकार-अवयव-अद्याः ।
तत्र यावन्तः शब्दे सम्भवन्ति तेषु सर्वेषु प्रप्तेषु नियमः क्रियते षष्ठी स्थाने-योगा इति ।
स्थाने योगोऽस्याः इति व्यधिकरणो बहुव्रीहिः ।
अत एव निपातनाच्च सप्तम्या अलुक् । ।
स्थानेऽन्तरतमः (*१,१.५०) ।
स्थाने प्राप्यमाणानां अन्तरतं आदेशो भवति सदृशतमः ।
कुतश्च शब्दस्य अन्तर्यं ? स्थान-अर्थ-गुण-प्रमाणतः ।
स्थानतः - अकः सवर्णे दीर्घः (*६,१.१०१) ।
दण्डाग्रं ।
यूपाग्रं ।
द्वयोरकारयोः कण्ठ्य एव दीर्घ अ-अकारो भवति ।
अर्थतः - वतण्डी च असौ युवतिश्च वातण्ड्य-युवतिः ।
पुंवद्-भावेन अन्तरतमः पुंशब्दोऽतिदिश्यते ।
गुणतः-पाकः ।
त्यागः ।
रागः ।
चजोः कु घिण्यतोः (*७,३.५२) इति च-कारस्य अल्प-प्राणस्य अघोषस्य तादृश एव क-कारो भवति ।
ज-कारस्य घोषवतोऽल्प-प्राणस्य तादृश एव ग-कारः ।
प्रमाणतः - अनुष्मै ।
अमूभ्यां ।
अदसोऽसेर्दादु दो मः (*८,२.८०) इति ह्रस्वस्य ह्रस्वः, दीर्घस्य दीर्घः ।
स्थाने इति वर्तमाने पुनः स्थाने ग्रहणं किं ? यत्र अनेकं आन्तर्यं सम्भवति तत्र स्थानत एव आन्तर्यं बलीयो यथा स्याथ् ।
चेता, स्तोता ।

[#२१]

प्रमाणतोऽ-कारो गुणः प्राप्तः, तत्र स्थानत आन्तर्यादेकारौकारौ भवतः ।
तम्ब्-ग्रहणं किं ? वाग्घसति ।
त्रिष्टुब्भसति ।
झयो होऽन्यतरस्यां (*८,४.६२) इति ह-कारस्य पूर्व-सवर्णे क्रियमाणे सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः, नादवतो नादवन्तः इति तृतीयाः, तमब्-ग्रहणाद्ये सोष्माणो नादवन्तश्च ते भवन्ति चतुर्थाः । ।
उरण्रपरः (*१,१.५१) ।
उः स्थाने अण्प्रसज्यमान एव रपरो वेदितव्यः ।
कर्ता ।
हर्ता ।
किरति ।
गिरति ।
द्वैमातुरः ।
त्रैमातुरः ।
उः इति किं ? खेयं ।
गेयं ।
अन्-ग्रहणं किं ? सु-धातुरकङ्च (*४,१.९७) - सौधातकिः । ।
अलोऽन्त्यस्य (*१,१.५२) ।
षष्ठी-निर्दिष्टस्य य उच्यते आदेशः, सोऽन्त्यस्य अलः स्थाने वेदितव्यः ।
इद्गोण्याः (*१,२.५०) - पञ्च-गोणिः ।
दश-गोणिः । ।


[#२२]

ङिच्च (*१,१.५३) ।
ङित्च य आदेशः सोऽनेक-अलपि अलोऽन्त्यस्य स्थाने भवति ।
आनङृतो द्वन्वे (*६,३.२५) - होता-पोतारौ ।
माता-पितरौ ।
तातङि ङित्-करणस्य गुण-वृद्धि-प्रतिषेध-अर्थत्वात्सर्व-आदेशः तातङ्भवति ।
जीवताद्भवान् ।
जीवतात्त्वं । ।
आदेः परस्य (*१,१.५४) ।
परस्य कार्यं शिष्यमाणं आदेरलः प्रत्येतव्यं ।
क्व च परस्य कार्यं शिष्यते ? यत्र पञ्चमी-निर्देशः ।
तद्यथा-ईदासः (*७,२.८३) - आसीनो यजते ।
द्व्य्-अन्तर्-उपसर्गेभोऽप ईत्(*६,३.९७) - द्वीपं ।
अन्तरीपं ।
प्रतीपं ।
समीपं । ।
अनेक-अल्शित्सर्वस्य (*१,१.५५) ।
अनेक-अल्य आदेशः शित्च, स सर्वस्य षष्ठी-निर्दिष्टस्य स्थाने भवति ।
अस्तेर्भूः (*२,४.५२)-भविता ।
भवितुं ।
भवितव्यं ।
शित्खल्वपि - जश्-शसोः शिः (*७,१.२०) -कुण्डानि तिष्ठन्ति ।
कुण्डानि पस्य । ।
स्थानिवद्-आदेशोऽन्-अल्-विधौ (*१,१.५६) ।
स्थान्य्-आदेशयोः पृथक्त्वात्स्थान्य्-आश्रयं कार्यं आदेशे न प्राप्नोति इत्ययम्-अतिदेश आरभ्यते ।
स्थानिना तुल्यं वर्तते इति स्थानिवथ् ।
स्थानिवद्-आदेशो भवति स्थान्य्-आश्रयेषु कार्येष्वनल्-आश्रयेषु, स्थान्य्-अलाश्रयाणि कार्याणि वर्जयित्वा ।
न अल्विधिरनल्विधिः इत्यर्थः ।
किं उदाहरणं ? धात्व्-अङ्ग-कृत्-तद्धित-अव्यय-सुप्-तिङ्-पदा-अदेशाः ।
धात्व्-आदेशो धातुवद्भवति ।
अस्तेर्भूः (*२,४.५२) ।
ब्रुवो वचिः (*२,४.५३) ।
आर्धधातुक-विशये प्रागेव-आदेशेषु कृतेषु धातोः (*३,१.९१) इति तव्य-आदयो भवन्ति ।
भविता ।
भवितुं ।
भवितव्यं ।
वक्ता ।
वक्तुं ।
वक्तव्यं ।
अङ्ग-आदेशोऽङ्गवद्भवति - केन ।
काभ्यां ।
कैः ।
किमः कः (*७,२.१०३) इति क-आदेशे कृतेऽङ्ग-आश्रया इन-दीर्घत्व-ऐस्भावाः भवन्ति ।
कृद्-आदेशः कृद्वद्भवति - प्रकृत्य ।
प्रहृत्य ।
क्त्वो ल्यब्-आदेशे कृते ह्रस्वस्य पिति कृति तुक्(*६,१.७१) इति तुग्भवति ।
[#२३]

तद्धित-आदेशः तद्धितवद्भवति - दाधिकं ।
अद्यतनं ।
कृत्-तद्धित-समासाश्च (*१,२.४६) इति प्रातिपदिक-सञ्ज्ञा भवति ।
अव्यय-आदेशोऽव्ययवद्भवति - प्रस्तुत्य ।
प्रहृत्य ।
उपहृत्य ।
उपस्तुत्य ।
अव्ययादाप्सुपः (*२,४.८२) इति सुब्लुग्भवति ।
सुबादेशः सुब्वद्भवति - वृक्षाय ।
प्लक्षाय ।
सुपि च (*७,३.१०२) इति दीर्घत्वं भवति ।
तिङ्-आदेशः तिङ्वद्भवति--अकुरुतां ।
अकुरुतं ।
सुप्-तिङ्-अनतं पदं (*१,४.१४) इति पद-सञ्ज्ञा भवति ।
पद-आदेशः पदवद्भवति -- ग्रामो वः स्वं ।
जन-पदो नः स्वं ।
पदस्य (*८,१.१६) इति रुत्वं भवति ।
वत्-करनं किं ? स्थानी आदेशस्य सञ्ज्ञा मा विज्ञायि इति ।
स्व-आश्रयं अपि यथा स्याथ् ।
आङो यम-हनः (*१,३.२८) - आहत, आवधिष्ट इति आत्मनेपदं उभयत्र अपि भवति ।
आदेश-ग्रहणं किं ? आनुमानिकस्य अप्यादेशस्य स्थानिवद्भावो यथा स्याथ् ।
पचतु - एरुः (*३,४.८६) ।
अनल्-विधौ इति किं ? द्युपथितद्-आदेशा न स्थानिवद्भवन्ति ।
द्यौः, पन्थाः, सः इति ।
हल्-ङ्य्-आब्भो दीर्घात्सु-ति-स्य्-अपृक्तं हल्(*६,१.६८) इति सु-लोपो न भवति । ।
अचः परस्मिन्पूर्व-विधौ (*१,१.५७) ।
पूर्वणानल्-विधौ स्थानिवद्-भाव उक्तः ।
अल्-विध्य्-अर्थम्-इदम्-आरभ्यते ।
आदेशः स्थानिवतिति वर्तते ।
अचः इति स्थानि-निर्देशः ।
परस्मिनिति निमित्त-सप्तमी ।
पूर्व-विधौ इति विषय-सप्तमी ।
अज्-आदेशः परनिमित्तकः पूर्वविदौ कर्तव्ये स्थानिवद्भवति ।
पटयति ।
अवधीथ् ।
बहुखट्वकः ।
पटुमाचष्टे इति णिचिटि-लोपे कृते तस्य स्थानिवद्-भावातत उपधायाः (*७,२.११६) इति वृद्धिर्न भवति ।
अवधीत्-- अतो लोपस्य स्थानिवद्-भावदतो हल्-आदेर्लघोः (*७,२.७) इति हलन्त-लक्षणा वृद्धिर्न भवति ।
बहुखट्वकः इति आपोऽन्यतरस्यां (*७,४.१५) इति ह्रस्वस्य स्थानिवद्-भावाद्ह्रस्वान्तेऽन्त्यात्पूर्वं (*६,२.१७४) इति स्वरो न भवति ।
अचः इति किं ? प्रश्नः ।
आक्राष्टां ।
आगत्य ।
प्रश्नः इति प्रच्छेः नङ्प्रत्यये च्-चः-व्-ओः शूड्-अनुनासिके च (*६,४.१९) इति छ-कारस्य श-कारः परनिमित्तकस्तुकि कर्तव्ये न स्थानिवद्भवति ।
आक्राष्टां इति झलो झलि (*८,२.२६) इति सिचो लोपः परनिमित्तकः कृषेः ष-कारस्य षढोः कः सि (*८,२.४१) इति क-कारे कर्तव्ये न स्थानिवद्भवति ।
आगत्य इति वा ल्यपि (*६,४.३८) इत्यनुनासिक-लोपः परनिमित्तकः तुकि कर्तव्ये न स्थानिवद्भवति ।
परस्मिनिति किं ? युवजानिः वधूटीजानिः ।
वैयाघ्रपद्यः ।
आदीध्ये ।
युवजानिः इति जायायाः निङ्(*५,४.१३४) न परनिमित्तकः, तेन य-लोपे न स्थानिवद्भवति ।
वैयाघ्रपद्यः इति न परनिमित्तकः पादस्य अन्तलोपः पद्भावं न प्रतिबध्नाति ।
आदीध्ये इति दीधीङ उत्तमपुरुष-इकवचने टेरेत्वस्य-अपरनिमित्तकत्वाद्यि-इ-वर्णयोर्दीधी-वेव्योः (*७,४.५३) इति लोपो न भवति ।

[#२४]

पूर्व-विधौ इति किं ? हे गौः ।
बाभ्रवीयाः ।
नैधेयः ।
हे गौः इति वृद्धिरज्-आदेशः सम्बुद्धि-लोपे कर्तव्ये न स्थानिवद्भवति ।
बाभ्रवीयाः इति बाब्रव्यस्य अमी च्छात्राः इति वृद्धाच्छः (*४,२.११४) इति छः ।
हलस्तद्धितस्य (*६,४.१५०) इति य-कारल्-ओपे कर्तव्ये अव्-आदेशो न स्थानिवद्भवति ।
नैधेयः -- आतो लोप इटि च (*६,४.६४) इत्या-कार-लोपः, इतश्च अनिञः (*४,१.१२२) इति द्व्य्-अज्-लक्षणे प्रत्यय-विधौ न स्थानिवद्भवति । ।
न पदान्त-द्विर्वचन-वरे-य-लोप-स्वर-सवर्ण. अनुस्वार-दीर्घ-जश्-चर्-विधिषु (*१,१.५८) ।
पूर्वेण अतिप्रसक्तः स्थानिवद्-भाव एतेषु विधिषु प्रतिषिध्यते ।
पदान्त-विधिं प्रत्य्-अज्-आदेशो न स्थानिवद्भवति ।
कौ स्तः ।
यौ स्तः ।
तानि सन्ति ।
यनि सन्ति ।
श्न-सोरल्-लोपः क्ङिति सार्वधातुके इति परनिमित्तकः, स पूर्व-विधावाव्-आदेशे यण्-आदेशे च कर्तव्ये स्थानिवत्स्यात्, अस्माद्वचनान्न भवति ।
द्विर्वचन-विधिः -- द्विर्वचन-विधिं प्रति न स्थानिवद्भवति ।
दद्ध्यत्र ।
मद्ध्वत्र ।
यण्-आदेशः परनिमित्तकः, तस्य स्थानिवद्-भावातनचि च (*८,४.४७) इति ध-कारस्य द्विर्वचनं न स्यादस्माद्वचनाद्भवति ।
वरेविधिः -- वरे योऽज्-आदेशः स पूर्व-विधिं प्रति न स्थानिवद्भवति ।
अप्सु यायावरः प्रवपेत पिण्डान् ।
यातेः यङ्-अन्तात्यश्च यङः (*३,२.१७६) इति वरचि कृते अतो लोपः (*६,४.४८) पर-निमित्तकः, तस्य स्थानिवत्त्वादतो लोप इटि च (*६,४.६४) इत्या-कार-लोपः स्याद्, अस्माद्वचनान्न भवति ।
य-लोप-विधिः -- य-लोप-विधिं प्रत्यज्-आदेशो न स्थानिवद्भवति ।
कण्डूतिः ।
कण्डूयतेः क्तिनि कृते, अतो लोपः परनिमित्तकः, लोपो व्-योर्वलि (*६,१.६६) इति यलोपे स्थानिवत्स्यादस्माद्वचनान्न भवति ।
स्वर-विधिः -- स्वर-विधिं प्रति अज्-आदेशो न स्थानिवद्भवति ।
चिकीर्षकः ।
जिहीर्षकः ण्वुलि कृते अतो लोपः परनिमित्तकः, लिति (*६,१.१९३) प्रत्ययात्पूर्वं उदात्तम्, इति स्वरे कर्तव्ये न स्थानिवद्भवति इति ।
सवर्ण-विधिः -- सवर्ण-विधिं प्रति अजादेशो न स्थानिवद्भवति ।
शिण्ढि ।
पिण्ढि ।
शिषेः पिषेश्च लोण्-मध्यम-पुरुष-इकवचने रुदः-आदिभ्यः श्नं (*३,१.७८) ।
हित्वधित्वष्टुत्वजश्त्वेषु कृतेषु, श्नसोरल्-लोपः क्ङिति सार्वधातुके परनिमित्तकः, अनुस्वारस्य ययि परसवर्णे कर्तव्ये न स्थानिवद्भवति ।

[#२५]

अनुस्वार-विधिः -- अनुस्वार-विधिं प्रति अज्-आदेशो न स्थानिवद्भवति ।
शिंषन्ति ।
पिंषन्ति ।
नश्च अपदान्तस्य झलि (*८,३.२४) इति अनुस्वारे कर्तव्ये श्नसोरल्लोपः न स्थानिवद्भवति ।
दीर्घ-विधिः -- दीर्घ-विधिं प्रति अजादेशो न स्थानिवद्भवति ।
प्रतिदीव्ना ।
प्रतिदीव्ने ।
प्रतिदिवनित्येतस्य भस्य (*६,४.१२९) इत्यधिकृत्य तृतीय-इकवचने चतुर्थ्य्-एकवचने च अल्लोपोऽनः (*६,४.१३४) इत्य-कार-लोपः परनिमित्तकः, तस्य स्थानिवद्ब्-हावाद्हलि च (*८,२.७७) इति दीर्घत्वं न स्यात्, न ह्ययं व-कारो हल्-परः इति, अस्माद्वचनाद्भवति ।
जश्-विधिः -- जश्-विधिं प्रत्य्-अज्-आदेशो न स्थानिवद्भवति ।
सग्धिश्च मे सपीतिश्च मे ।
बब्धां ते हरी धानाः ।
अदेः क्तिनि बहुलं छन्दसि (*२,४.३९) इति घस्-ल-आदेशः ।
घसि-भसोर्हलि च (*६,४.१००) इत्युपधल्-ओपः ।
झलो जह्लि (*८,२.२६) इति स-कार-लोपः ।
झषस्त-थोर्धोऽधः (*८,२.४०) इति धत्वं ।
उपधा-लोपस्य स्थानिवत्तवात्झलां जस्झसि (*८,४.५३) इति घ-कारस्य जश्त्वं न स्यात्, अस्माद्वचनाद्भवति ।
समना ग्धिः ।
समानस्य सभावः ।
सग्धिः ।
बब्धां इति भसेर्-लोड्-द्विवचने शपः स्लुः, द्विर्वचनम्, अभ्यास-कार्यम्, घसि-भसोर्हलि च (*६,४.१००) इति उपधा-लोपः, झलो झलि (*८,२.२६) इत्स-कार-लोपः, झषस्त-थोर्धोऽधः (*८,२.४०) इति धत्वं ।
उपध-लोपस्य स्थानिवत्त्वात्झलां जश्झशि (*८,४.५३) इति जश्त्वं न स्यात्, अस्माद्वचनाद्भवति ।
चर्विधिः -- चर्विधिं प्रति अज्-आदेशो न स्थानिवद्भवति ।
जक्षतुः ।
जक्षुः ।
अक्षन्पितरोऽमीमदन्त पितरः ।
लिड्-द्विवचन-बहुवचनयोरदेर्घस्-ल-आदेशः ।
गम-हन-जन-खन-घसां लोपः क्-ङित्यनङि (*६,४.९८) इति उपधा-लोपः, द्विर्वचनम्, अभ्यास-कार्यं ।
तत्र उपधा-लोपस्य स्थानिवत्त्वात्खरि च (*८,४.५५) इति घ-कारस्य चर्त्वं न स्याद्, अस्माद्वचनाद्भवति ।
शासि-वसि-घसीनां च (*८,३.६०) इति शत्वं ।
अक्षनिति अदेः लुङ्बहुवचने घस्-ल-आदेशः, च्लेरागतस्य मन्त्रे घस-ह्वर (*२,४.८०) इति लुक् ।
गम-हन-जन-खन-घसां लोपः क्-ङित्यनङि (*६,४.९८) इत्युपधा-लोपः, तस्य स्थानिवत्त्वात्खरि च (*८,४.५५) इति चर्त्वं न स्यात्, अस्माद्वचनाद्भवति ।
स्वर-दीर्घय-लोपेशु लोप-अज्-आदेशो न स्थानिवद्भवति ।
अन्यत्र स्थानिवदेव ।
तेन बहुखट्वकह्, किर्योः, गिर्योः, वाय्वोः इति स्थानिवत्त्वात्स्वर-दीर्घय-लोपा न भवन्ति । ।


[#२६]

द्विर्वचनेऽचि (*१,१.५९) ।
द्विर्वचन-निमित्तेऽचि अज्-आदेशः स्थानिवद्भवति , द्विर्वचन एव कर्तव्ये ।
रूप-अतिदेशश्च अयं नियत-कालः ।
तेन कृते द्विर्वचने पुनरादेश रूपं एव अवतिष्ठते ।
आल्-लोप-उपधालोप-णिलोपयण्-अय्-अव्-आय्-आव्-आदेशाः प्रयोजनं ।
आल्-लोपः--पपतुः ।
पपुः ।
आतो लोप इटि च (*६,४.६४) इति आ-कार-लोपे कृते तस्य स्थानिवद्-भावातेक-अचो द्वे प्रथमस्य (*६,१.१) इति द्विर्वचनं भवति ।
उपधा-लोपः--जघ्नतुः ।
जघ्नुः ।
गम-हन-जन-खन-घसां लोपः क्-ङित्यनङि (*६,४.९८) इत्यौपधा-लोपे कृते अनच्कत्वाद्द्विर्वचनं न स्यात्, अस्माद्वचनाद्भवति ।
णि-लोपः -- आट्-इटथ् ।
अटतेः णिचि लुङि चङि णिलोपे कृते तस्य स्थानिवत्त्वादज्-आदेर्द्वितीयस्य (*६,१.२) इति टि-शब्दस्य द्विर्वचनं भवति ।
यण्-- चक्रतुः ।
चक्रुः ।
करोतेः अतुसि उसि च यण्-आदेशे कृते अनच्कत्वाद्द्विर्वचनं न स्यात्, स्थानिवत्त्वाद्भवति ।
अयवायावादेशाः -- निनय, निनाय ।
लुलव, लुलाव ।
नयतेः लुनातेश्च उत्तमे णलि गुणे कृते वृद्धौ च अय्-अव्-आय्-आव्-आदेशाः, तेषां स्थानिवत्त्वान्ने नै लो लौ इति द्विर्वचनं भवति ।
द्विर्वचने कऋतव्य इति किं ? जग्ले, मम्ले ।
श्रवणं आ-कारस्य न भवति ।
द्विर्वचन-निमित्ते इति किं ? दुद्यूषति ।
ऊठि यण्-आदेशो न स्थानिवद्भवति ।
अचि इति किं ? जेघ्रीयते, देध्मीयते ।
ई घ्रा-ध्मोः (*७,४.३१) यङि च (*७,४.३०) इति ई-कार-आदेशः, तस्य स्थानिवद्भावादा-कारस्य द्विर्वचनं स्यात्, अज्-ग्रहणान्न भवति । ।
अदर्शनं लोपः (*१,१.६०) ।
अदर्शनम्, अश्रवणम्, अनुच्चारनम्, अनुपलब्धिः, अभावो, वर्णविनाशः इत्यनर्थ-अन्तरं ।
एतैः शब्दैर्योऽर्थोऽभिधीयते, तस्य लोपः इति इयं सञ्ज्ञा भवति ।
अर्थस्य-इयं सञ्ज्ञा, न शब्दस्य ।
प्रसक्तस्य अदर्शनं लोप-सञ्ज्ञं भवति ।
गोधाया ढ्रक्(*४,१.१२९)-गौधेरः ।
पचेरन् ।
जीवे रदानुक्जीरदानुः ।
स्त्रिवेर्मनिनास्रेमाणं ।
य-कार-वकारयोरदर्शनं इह उदाहरणं ।
अपरस्य अनुबन्धादेः प्रसक्तस्य ।
लोप-प्रदेशाः-लोपो व्योर्वलि (*६,१.६६) इत्येवं आदयः । ।


[#२७]

प्रत्ययस्य लुक्-श्लु-लुपः (*१,१.६१) ।
अदर्शनं इति वर्तते ।
प्रत्यय. अदर्शनस्य लुक्, श्लु, लुपित्येताः सञ्ज्ञा भवन्ति ।
अनेक-सञ्ज्ञा-विधनाच्-च तद्-भावित-ग्रहणं इह विज्ञायते ।
लुक्-सञ्ज्ञा-भावितं प्रत्यय-अदर्शनं लुक्-सञ्ज्ञं भवति, श्लु-सञ्ज्ञा-भावितं श्लु-सञ्ज्ञं भवति, लुप्-सञ्ज्ञा भावितं लुप्-सञ्ज्ञं भवति ।
तेन सञ्ज्ञानां सङ्करो न भवति ।
विधि-प्रदेशेषु च भाविनी सञ्ज्ञा विज्ञायते ।
अत्ति ।
जुहोति ।
वरणाः ।
प्रत्यय-ग्रहणं किं ? अगस्तयः ।
कुण्डिनाः ।
लुक्-श्लु-लुप्-प्रदेशाः - लुक्-तद्धित-लुकि (*१,२.४९), जुहोत्य्-आदिभ्यः श्लुः (*२,४.७५), जनपदे लुप्(*४,२.७१) इत्येवं आदयः । ।
प्रत्यय-लोपे प्रत्यय-लक्षणं (*१,१.६२) ।
प्रत्यय-निमित्तं कार्यं असत्यपि प्रत्यये कथं नु नाम स्यातित्सूत्रं इदं आरभ्यते ।
प्रत्यय-लोपे कृते प्रत्यय-लक्षणं प्रत्यय-हेतुकं कर्यं भवति ।
अग्निचित्, सोमसुत्, अधोक्, इत्यत्र सुप्-तिङोः लुप्तयोः सुप्-तिङ्-अन्तं पदं (*१,४.१४) इति पद-सञ्ज्ञा भवति ।
अधोकिति दुहेः लङि तिपि शब्लुकि तिलोपे घत्व-भष्भाव-जश्त्व-चर्त्वेषु कृतेषु रूपं ।
प्रत्यय इति वर्तमाने पुनः प्रत्यय-ग्रहणं किं ? कृत्स्न-प्रत्यय-लोपे यथा स्याथ् ।
इह मा भूत्-- आघ्नीय ।
सङ्ग्मीय ।
हनिगम्योर्लिङ्-आत्मनेपदे लिङः स-लोपोऽनन्त्यस्य (*७,२.७९) इति सीयुट्-स-कार-लोपः प्रत्यय-इकदेश-लोपः, तत्र प्रत्यय-लक्षणेन झलि इत्यनुनासिकलोपो न भवति (*६,४.३७) ।
प्रत्यय-लक्षणं इति किं ? रायः कुलं रैकुलं ।
गवे हितं गोहितं ।
आयव्-आदेशौ न भवतः वर्ण-आश्रयत्वात् । ।
न लुमताऽङ्गस्य (*१,१.६३) ।
पूर्वेण अतिप्रसक्तं प्रत्यय-लक्षणं इति विशेषे प्रतिषेधः उच्यते ।
लुमता शब्देन लुप्ते प्रत्यये यद्-अङ्गं, तस्य प्रत्यय-लक्षणं कार्यं न भवति ।
गर्गाः ।
मृष्टः ।
जुहुतः ।
यञ्-शपोर्लुमता लुप्तयोरङ्गस्य वृद्धि-गुणौ न भवतः ।
लुमता इति किं ? कार्यते ।
हार्यते ।
अङ्गस्य इति किं ? पञ्च ।
सप्त पयः ।
साम । ।
अचोऽन्त्य-आदि टि (*१,१.६४) ।
अचः इति निर्धारणे षष्ठी ।
जाताव्-एकवचनं ।
अचां सन्निविष्टामां, योऽन्त्योऽच्तद्-आदि शब्द-रूपं टि-सञ्ज्ञं भवति ।
अग्निचित्-इच्छब्दः ।
सोमसुत्-उच्-छब्दः ।
आताम्, आथाम्-आम्-शब्दः ।
पचेते, पचेथे ।
टि-प्रदेशाः--टित आत्मनेपदानं टेरे (*३,४.७९) इत्येवं आदयः । ।


[#२८]

अलोऽन्त्यात्पूर्व उपधा (*१,१.६५) ।
धात्व्-आदौ वर्ण-समुदायेऽन्त्यादलः पूर्वो यो वर्णः सोऽलेव उपधा-सञ्ज्ञओ भवति ।
पच्, पठ्--अ-करः ।
भिद्, छिद्--इ-कारः ।
बुध्, युध्--उकारः ।
वृत्, वृध्--ऋकारः ।
अलः इति किं ? शिष्टः, शिष्टवान् ।
समुदायात्पूर्वस्य मा भूथ् ।
उपधा-प्रदेशाः--अत उपधायाः (*७,२.११५) इत्येवं आदयः । ।
तस्मिन्निति निर्दिष्टे पूर्वस्य (*१,१.६६) ।
तस्मिनिति सप्तम्य्-अर्थ-निर्देशे पूर्वस्य-इव कार्यं भवति, न-उत्तरस्य ।
इको यण्-अचि (*६,१.७७)--दध्युदकं ।
मध्विदं ।
पचत्योदनं ।
निर्दिष्ट-ग्रहणं आनन्तर्य-अर्थं ।
अग्निचिदत्र इति व्यवहितस्य मा भूत् । ।
तस्मादित्युत्तरस्य (*१,१.६७) ।
निर्दिष्ट-ग्रहनं अनुवर्तते ।
तस्मातिति पञ्चम्य्-अर्थ-निर्देश उत्तरस्य-इव कार्यं भवति, न पूर्वस्य ।
तिङ्ङ्-अतिङः (*८,१.२८) -- ओदनं पचति ।
इह न भवति -- पचत्योदनं इति । ।
स्वं रूपं शब्दस्य अशब्द-सञ्ज्ञा (*१,१.६८) ।
शास्त्रे स्वं एव रूपं शब्दस्य ग्राह्यं बोध्यं प्रत्याय्यं भवति, न बाह्योऽर्थः, शब्द-सञ्ज्ञां वर्जयित्वा ।
शब्देन अर्थ-अवगतेरर्थे कार्यस्य असम्भवात्तद्-वाचिनां शब्दानां सम्प्रत्ययो मा भूतिति सूत्रं इदं आरभ्यते ।
अग्नेर्ढक्(*४,२.३३) -- आग्नेयं अष्टा-कपालं निर्वपेथ् ।
अग्नि-शब्दोऽग्नि-शब्दस्य-इव ग्राहको भवति, न ज्वलनः, पावकः, धूम-केतुः इति ।
न अतः प्रत्ययो भवति ।
उदश्वितोऽन्यतरस्यां (*४,२.१९)--औदश्वित्कं ।
औदश्वितं ।
तक्रम्, अरिष्टं, कालशेयं, दण्डाहतं, मथितम्, इति न अतः प्रत्ययो भवति ।
अशब्द-सञ्ज्ञा इति किं ? दा-धा घ्व्-अदाप्(*१,१.२०) तरप्-तमपौ घः (*१,१.२३), घु-ग्रहणेषु घ-ग्रहनेषु च सञ्ज्ञिनां ग्रहनम्, न सञ्ज्ञायाः ।
सित्-तद्-विशेषाणां वृक्षाद्य्-अर्थं ।
सिन्-निर्देशः कर्तव्यः ।
ततो वक्तव्यं तद्-विशेषाणां ग्रहणं भवति इति ।
किं प्रयोजनं ? वृक्षाद्य्-अर्थं ।
विभाषा वृक्ष-मृग-तृण-धान्य-व्यञ्जन-पशु. शकुन्य्-अश्व-वडव-पूर्वापर-अधरोत्तराणां (*२,४.१२) इति -- प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः ।

[#२९]

पित्-पर्याय-वचनस्य च स्व-आद्य्-अर्थं ।
पिन्-निर्देशः कर्तव्यः ।
ततो वक्तव्यं पर्याय-वचनस्य ग्रहणं भवति, च-कारात्स्वस्य रूपस्य तद्-विशेषाणां च इति ।
किं प्रयोजनं ? स्व-आद्य्-अर्थं ।
स्वे पुशः (*३,४.४०) ।
स्वपोषं पुष्टः ।
रैपोशं ।
धनपोशं ।
अश्वपोषं ।
गोपोशं ।
जित्पर्याय-वचनस्य-इव राज-आद्य्-अर्थं ।
जिन्-निर्देशः कर्तव्यः ।
ततो वक्तव्यं पर्याय-वचनस्य-इव ग्रहनं भवति इति, न स्वरूपस्य, न अपि तद्-विशेषाणां ।
किं प्रयोजनं ? राज-आद्य्-अर्थं ।
सभा राजा+अमनुष्य-पूर्वा (*२,४.२३) -- इनसभं ।
ईश्वरसभं ।
तस्य-इव न भवति--राज-सभा ।
तद्-विशेषाणां च न भवति -- पुष्यमित्र-सभा ।
चन्द्रगुप्त-सभा ।
झैत्तद्-विशेषाणां च मत्स्य-आद्य्-अर्थं ।
झिन्-निर्देशः कर्तव्यः ।
ततो वक्तव्यं तस्य च ग्रहणं भवति तद्-विशषाणां च इति ।
किं प्रयोजनं ? मत्स्य-आद्य्-अर्थं ।
पक्षि-मत्स्य-मृगान्हन्ति (*४,४.३५) इति ठक्--पाक्षिकः ।
मात्सियकः ।
तद्-विशेषाणां -- शाकुनिकः ।
पर्यायाणां न भवति--अजिह्मान्हन्ति, अनिमिषान्हन्ति इति ।
अथ-इकस्य-इश्यते, मीनान्, हन्ति इति मैनिकः । ।
अणुदित्सवर्णस्य च-अप्रत्ययः (*१,१.६९) ।
परेण ण-कारेण प्रत्याहार-ग्रहणं ।
अण्गृह्यमाण उदिच्च सवर्णानां ग्राहको भवति, स्वस्य च रूपस्य, प्रत्ययं वर्जयित्वा ।
आद्गुणः (*६,१.८७), अस्य च्वौ (*७,४.३२), यस्य-ईति च (*६,४.१४८) ।
स्वर-अनुनासिक्य-काल-भिन्नस्य ग्रहनं भवति ।
उदित्खल्वपि ।
चु-टू (*१,३.७), लशक्व-तद्धिते (*१,३.८) ।
च-वर्ग-ट-वर्गयोः क-वर्गस्य च ग्रहनं भवति ।
अप्रत्ययः इति किं ? सन्-आशंस-भिक्ष उः (*३,२.१६८), अ साम्प्रतिके (*४,३.९), दीर्घो न भवति । ।
त-परस्तत्-कालस्य (*१,१.७०) ।
तः परो यस्मात्सोऽयं तपरः, तादपि परः तपरः ।
तप्रो वर्णस्तत्-कालस्य, आत्मना तुल्य-कालस्य गुण-अन्तर-युक्तस्य सवर्णस्य ग्राहको भवति, स्वस्य च रूपस्य ।
विदः-यर्थं इदं ।
अणिति न अनुवर्तते ।
अणामन्येषां च तपराणां इदं एव ग्रहणक-शास्त्रं ।

[#३०]

अतो भिस ऐस्(*७,१.९) इत्येवं आदिषु पूर्व-ग्रहणक-शास्त्रं न प्रवर्तत एव ।
अतपरा अणस्तस्य अवकाशः ।
किं उदाहरणं ? अतो भिस ऐस्(*७,१.९)-- वृक्षैः ।
प्लक्षैः ।
विड्-वनोरनुनासिकस्य आत्(*६,४.४१)-- अब्जाह्, गोजाः ।
तत्कालस्य इति किं ? खट्वाभिः ।
मालाभिः । ।
आदिरन्त्येन सह-इता (*१,१.७१) ।
आदिरन्त्येन इत्-सञ्ज्ञकेन सह गृह्यमाणस्तन्-मद्यपतितानां वर्णानां ग्राहको भवति, स्वस्य च रूपस्य ।
अण् ।
अक् ।
अछ् ।
हल् ।
सुप् ।
तिङ् ।
अन्त्येन इति किं ? सुटिति तृतीय-इकवचनेन टा इत्यनेन ग्रहणं मा भूत् । ।
येन विधिस्तद्-अन्तस्य (*१,१.७२) ।
येन विशेषणेन विधिर्-विधीयते स तद्-अन्तस्य आत्मान्तस्य समुदायसय्ग्राहको भवति , स्वस्य च रूपस्य ।
एरच्(*३,३.५६), इ-वर्ण-अन्तादच्-प्रत्ययो भवति--चयः ।
जयः ।
अयः ।
ओरावश्यके (*३,१.१२५), उ-वर्ण-अन्ताद्ण्यद्भवति-- अवश्यलाव्यं ।
अवश्यपाव्यं ।
समास-प्रत्यय-विधौ तद्-अन्त-विधेः प्रतिषेधो वक्तव्यः ।
द्वितीय-अन्तं श्रितादिभिः सह समस्यते (*२,१.२४) -- कष्टश्रितः ।
इह मा भूत्-- कष्टं परमश्रित इति ।
प्रत्यय-विधौ -- नड-आदिभ्यः फक्(*४,१.९९), नडस्य अपत्यं नाडायनः ।
इह मा भूत्-- सूत्र-नडस्य अपत्यं सौत्रनाडिः ।
किं अविशेषेण ? न इत्याह ।
उगिद्-वर्ण-ग्रहण-वर्जं इति वाच्यं ।
उगितश्च (*४,१.६) इति ङीप्-प्रत्ययः तद्-अन्तादपि भवति -- भवती, अतिभवती ।
वर्णग्रहनम्--अत इञ्(*४,१.९५), दाक्षिः ।
प्लाक्षिः ।
यस्मिन्विधिस्तद्-आदावल्ग्रहणे ।
अल्-ग्रहणेषु यस्मिन्विधिस्तदादौ इति वक्तव्यं ।
अचि श्नु-धातु-भ्रुवां य्वोरियङ्-उवङौ (*६,४.७७) इति-- श्रियः ।
भ्रुवः । ।


[#३१]

वृद्धिर्यस्य अचां आदिस्तद्वृद्धं (*१,१.७३) ।
यस्य इति समुदाय उच्यते ।
अचां मद्ये यस्य वृद्धि-सञ्ज्ञक आदि-भूतः, तच्-छब्द-रूपं वृद्ध-सज्ञ्जं भवति ।
अचां इति जातौ बहुवचनं ।
शालीयः ।
मालीयः ।
औपगवीयः ।
कापटवीयः ।
आदिः इति किं ? सभासन्नयते भवः साभासन्नयनः ।
वा नामधेयस्य वृद्ध-सञ्ज्ञा वक्तव्या ।
देवदत्तीयाः ।
दैवदत्ताः ।
गोत्रान्तादसमस्तवत्-प्रत्य्त्यो भवतीति वक्तव्यं ।
घृत-प्रधनो रौढिः घृतरौढिः ।
तस्य छात्रा घृतरौढीयाः ।
ओदन-प्रधानः पाणिनिः ओदन-पाणिनिः ।
तस्य छात्रा ओदन-पाणिनीयाः ।
वृद्धाम्भीयाः ।
वृद्धकाश्यपीयाः ।
जिह्वाकात्य-हरितकाय-वर्जं ।
जैह्वाकाताः ।
हारितकाताः । ।
त्यद्-आदीनि च (*१,१.७४) ।
यस्य अचां आदि-ग्रहणं उत्तर-अर्थं अनुवर्तते ।
इह तु न सम्बध्यते ।
त्यद्-आदीनि शब्द-रूपाणि वृद्ध-सञ्ज्ञानि भवन्ति ।
त्यदीयं ।
तदीयं ।
एतदीयं ।
इदमीयं ।
अदसीयं ।
त्वदीयं ।
त्वादायनिः ।
मदीयं ।
मादायनिः ।
भवतीयं ।
किमीयं । ।
एङ्प्राचां देशे (*१,१.७५) ।
यस्य अचां आदि-ग्रहणं अनुवर्तते ।
एङ्यस्य अचां आदिः तत्प्राचां देशाभिधाने वृद्ध-संज्ञं भवति ।
एणीपचनीयः ।
भोजकटीयः ।
गोनर्दीयः ।
एङिति किं ? आहिच्छत्रः ।
कान्य-कुब्जः ।
प्राचां इति किं ? देवदत्तो नाम बाहीकेषु ग्रामह्, तत्र भवः दैवदत्तः ।
देशे इति किं ? गोमत्यां भवा मत्स्याः ग्ॐअताः । ।
प्रागुदञ्चौ विभजते हंसः क्षीरोदके यथा ।
विदुषां शब्द-सिद्ध्य्-अर्थं सा नः पातु शरावती । ।
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायसय्प्रथमः पादः । ।


____________________________________________________________________


[#३२]

  1. <गाङ्-कुटादिभ्योऽञ्णिन्ङित्># । । पाणिनीयसूत्र १,२.१ । ।



_____काशिका १,२.१:

अतिदेशोऽयं ।
गाङिति इङ्-आदेशो र्ह्यते, न गाङ्गतौ इति, ङ-कारस्य अनन्य-अर्थत्वाथ् ।
कुटादयोऽपि कुट कौटिल्ये इत्येत दारभ्य यावत्कुङ्शब्दे इति ।
एग्यो गाङ्-कुटादिभ्यः परे अञ्णितः प्रत्यया ङितो भवन्ति ङिद्वद्भवन्ति इत्यर्थः ।
गाङः -- अध्यगीष्ट ।
अध्यगीषातां ।
अध्यगीषत ।
कुटादिभ्यः--कुटिता ।
कुटितुं ।
कुटितव्यं ।
उत्पुटिता उत्पुटितुं ।
उत्पुटितव्यं ।
अञ्णितिति किं ? उत्कोटयति ।
उच्चुकोट ।
उत्कोटकः ।
उत्कोटो वतते ।
व्यचेः कुटादित्वमनसीति वक्तव्यं ।
विचिता ।
विचितुं ।
विचितव्यं ।
अनसि इति किं ? उरुव्यचाः । ।


____________________________________________________________________


  1. <विज इट्># । । पाणिनीयसूत्र १,२.२ । ।



_____काशिका १,२.२:

ओविजी भय-चलनयोः, अस्मात्परः इड्-आदिः प्रत्ययो ङिद्वद्भवति ।
उद्विजिता ।
उद्विजितुं ।
उद्विजितव्यं ।
इटिति किं ? उद्वेजनं ।
उद्वेजनीयं । ।


____________________________________________________________________


  1. <विभाषा-ऊर्णोः># । । पाणिनीयसूत्र १,२.३ । ।



_____काशिका १,२.३:

इटिति वर्तते ।
ऊर्-णुञाच्छादने, अस्मात्परः इडादिः प्रत्ययो विभाषा ङिद्वद्भवति ।
प्रोर्णुविता ।
प्रोर्णविता ।
इटित्येव प्रोर्णवनं ।
प्रोर्णवतीयं । ।


____________________________________________________________________


  1. <सार्वधातुकं अपित्># । । पाणिनीयसूत्र १,२.४ । ।



_____काशिका १,२.४:

सार्वधातुकं यदपित्तन्ङिद्वद्भवति ।
कुरुतः ।
कुर्वन्ति ।
चिनुतः ।
चिन्वन्ति ।
सार्वधतुकं इति किं ? कर्ता ।
कर्तुं ।
कर्तव्यं ।
अपितिति किं ? करोति ।
करोषि ।
करोमि ।


____________________________________________________________________


  1. <असंयोगाल्लिट्कित्># । । पाणिनीयसूत्र १,२.५ । ।



_____काशिका १,२.५:

अपितिति वर्तते ।
असंयोगान्ताद्धातोः परो लिट्प्रत्ययः अपित्किद्भवति ।
बिधिदतुः ।
बिभिदुः ।
चिच्छिदतुः ।
चिच्छिदुः ।
ईजतुः ।
ईजुः ।
असंयोगातिति किं ? संस्रसे ।
दध्वंसे ।
अपितित्येव ।
बिभेद । ।


____________________________________________________________________


[#३३]

  1. <इन्धि-भवतिभ्यां च># । । पाणिनीयसूत्र १,२.६ । ।



_____काशिका १,२.६:

इन्धि भवति इत्येताभ्यां परो लिट्प्रत्ययः किड्भवति ।
समीधे दस्यु हन्तमं ।
पुत्र ईधे अथर्वणः ।
भवतेः खल्वपि -- बभूव ।
बभूविथ ।
इन्धेः संयोगर्थं ग्रहणं ।
भवतेः पिदर्थं ।
अत्र-इष्टिः -- श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यं ।
श्रेथतुः, श्रेथुः ।
ग्रेथतुः, ग्रेथुः ।
देभतुः, देभुः ।
परिषस्वजे, परिषस्वजाते । ।


____________________________________________________________________

  1. <मृड्-अमृद-गुध-कुष-क्लिश-वद-वसः क्त्वा># । । पाणिनीयसूत्र १,२.७ । ।



_____काशिका १,२.७:

मृड मृद गुध कुष क्लिश वद वस इत्येतेभ्यः परः क्त्वा-प्रत्ययः किद्भवति ।
न क्त्वा सेट्(*१,२.१८) इति प्रतिषेधं वक्ष्यति तस्यायं पुरस्तादपकर्षः ।
गुध-कुष-क्लिशीनां तु रलो व्-य्-उपधाद्-धल्-आदेः संश्च (*१,२.२६) इति विकल्पे प्राप्ते नित्य-अर्थं वचनं ।
मृडित्वा ।
मृदित्वा ।
गुधित्वा ।
कुषित्वा ।
क्लिशित्वा ।
उदित्वा ।
उषित्वा । ।


____________________________________________________________________


  1. <रुद-विद-मुष-ग्रहि-स्वपि-प्रच्छः संश्च># । । पाणिनीयसूत्र १,२.८ । ।



_____काशिका १,२.८:

रुद विद मुष ग्रहि स्वपि प्रच्छ इत्येतेभ्यः संश्च क्त्वा च कितौ भवतः ।
रुद-विद-मुषीणां रलो व्युपधाद्-धल्-आदेः संश्च (*१,२.२३) इति विकल्पे प्राप्ते नित्य-अर्थं ग्रहणं ।
ग्रहेर्विध्य्-अर्थं एव ।
स्वपि-प्रच्छ्योः सन्न्-अर्थं ग्रहणं ।
किदेव हि इत्वा ।
रुदित्वा, रुरुदिषति ।
विदित्वा, विविदिशति ।
मुषित्वा, मुमुषिषति ।
गृहीत्व, जिघृक्षति ।
सुप्त्वा, सुषुप्सति ।
पृष्ट्वा, पिपृच्छिषति ।
ग्रह-आदीनां कित्त्वात्सम्प्रसारणं भवति ।
किरश्च पञ्चभ्यः (*७,२.७५) इति प्रच्छेरिड्-आगमः । ।


____________________________________________________________________

  1. <इको झल्># । । पाणिनीयसूत्र १,२.९ । ।



_____काशिका १,२.९:

सनित्यनुवर्तते ।
क्त्वा इति निवृतं ।
इगन्ताद्धातोः परो झल्-आदिः सन्किद्भवति ।
चिचीषति ।
तुष्टूषति ।
चिकीर्षति ।
इकः इति किं ? पिपासति ।
तिष्ठासति ।
झलिति किं ? शिशयिषते ।
किं अर्थं इदं उच्यते ? गुणो मा भूतिति ।
अज्-झन-गमां सनि (*६,४.१६) इति दीर्घत्वं गुणस्य बाधकं भविष्यति ? यथ-इव तर्हि दीर्घत्वं गुणं बाधते तथा णिलोपमपि बधेत ।
तस्माद्दीर्घत्वस्य अवकाश-दानाय कित्त्वं इदं आरभ्यते ।
चिचीषति इत्यादिषु सावकाशं दीर्घत्वं पर्त्वाद्णिलोपेन बाध्यते ।
ज्ञीप्सति ।

[#३४]

इकः कित्त्वं गुणो मा भूत्दीर्घ-आरम्भात्कृते भतेथ् ।
अनर्थकं तु ह्रस्व-अर्थं दीर्घाणां तु प्रसज्यते । ।१ । ।

सामर्थ्याद्धि पुनर्भाव्यम्éदित्त्वं दीर्घसंश्रयं ।
दीर्घाणां नाकृते कीर्घे णिलोपस्तु प्रयोजनं । ।२ । ।



____________________________________________________________________

  1. <हलन्ताच्च># । । पाणिनीयसूत्र १,२.१० । ।



_____काशिका १,२.१०:

हलन्तादिको झल्कितिति वर्तते ।
सनिति निवृत्तं ।
इग्-अन्तदिक्-समीपाद्-धलः परौ झल्-आदी ।


____________________________________________________________________


  1. <लिङ्-सिचौ आत्मनेपदेषु># । । पाणिनीयसूत्र १,२.११ । ।



_____काशिका १,२.११:

परतः कितौ भवतः ।
भित्सीष्ट, भुत्सीष्ट ।
सिचि खल्वपि--अभित्त, अबुद्ध ।
इकः इत्येव ।
यक्षीष्ट, अयष्ट ।
सम्प्रसारणं हि स्याथ् ।
आत्मनेपदेषु इति किं ? अस्राक्षिथ् ।
अद्राक्षीथ् ।
सृजि-दृशोर्झल्य्-अम्-अकिति (*६,१.५८) इत्यम्-आगमो न स्याथ् ।
हल्-अन्तातित्येव ।
चेषीष्ट, अचेष्ट ।
गुणो न स्याथ् ।

[#३३]

झलित्येव वर्तिषीष्ट, अवर्तिष्ट ।
गुणो न स्याथ् ।

[#३४]

लिङ्-सिचौ इति किं ? द्वेष्टा द्वेक्ष्यति । ।


____________________________________________________________________


  1. <उश्च># । । पाणिनीयसूत्र १,२.१२ । ।



_____काशिका १,२.१२:

ऋ-वर्ण-अन्ताद्धातोः परौ लिङ्-सिचौ आत्मनेपदेशु झल्-आदी कितौ भवतः ।
कृषीष्ट ।
हृषीष्ट ।
सिचः खल्वपि अकृत ।
अहृत ।
झलित्येव ।
वरिषीष्ट ।
अवरिष्ट ।
वृ-ऋतो वा (*७,२.३८) अवरीष्ट । ।


____________________________________________________________________


  1. <वा गमः># । । पाणिनीयसूत्र १,२.१३ । ।



_____काशिका १,२.१३:

लिङ्-सिचावात्मनेपदेषु इति वर्तते ।
गमेर्-धातोः परु लिङ्-सिचौ आत्मनेपदेषु झल्-आदी वा कितौ भवतः ।
संगंसीष्ट, संगसीष्ट ।
सिचः खल्वपि -- समगंस्त्, समगत ।
कित्त्वपक्षे अनुनासिक-लोपो भवति अनुदात्त-उपदेश-वनति-तनोत्य्-आदीनाम्(*६,४.३७) इति । ।


____________________________________________________________________

[#३५]

  1. <हनः सिच्># । । पाणिनीयसूत्र १,२.१४ । ।



_____काशिका १,२.१४:

हन्तेर्धातोः परः सिच्किद्भवति ।
आहत, आहसाताम्, आहसत ।
सिचः कित्त्वादनुनासिक-लोपः ।
सिज्-ग्रहणं लिङ्-निवृत्त्य्-अर्थं ।
उत्तरत्र-अनुवृत्तिर्मा भूथ् ।
अत्मनेपद-ग्रहणं उत्तर-अर्थं अनुवर्तते ।
इह तु परस्मैपदे हन्तेर्वधभावस्य नित्यत्वात्कित्त्वस्य प्रयोजनं न अस्ति । ।


____________________________________________________________________


  1. <यमो गन्धने># । । पाणिनीयसूत्र १,२.१५ । ।



_____काशिका १,२.१५:

सिच आत्मनेपदेषु इति वर्तते ।
यमेर्धातोर्गन्धने वर्तमानात्परः सिच्प्रत्ययः किद्भवति आत्मनेपदेषु परतः ।
गन्धनं सूचनं, परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणं ।
अनेक-अर्थत्वाद्धातूनां यमिस्तत्र वर्तते ।
उदयत, उदायसाताम्, उदायसत ।
सूचितवानित्यर्थः ।
सिचः कित्त्वादनुनासिक-लोपः ।
आङो यमहनः (*१,३.२८) इत्यात्मनेपदं ।
गन्धन इति किं ? उदायंस्त पादं ।
उदायंस्त कूपादुदकं ।
उध्दृतवानित्यर्थः ।
सकर्मकत्वेऽपि समुद्दाङ्भ्यो य्मोऽग्रन्थे (*१,३.७५) इत्यात्मनेपदं । ।

____________________________________________________________________


  1. <विभाषा-उपयमने># । । पाणिनीयसूत्र १,२.१६ । ।



_____काशिका १,२.१६:

यमः सिज्-आत्मनेपदेषु इति वर्तते ।
यमेर्धातोः उपयमने वर्तमानात्परः सिच्-प्रत्ययओ विभाषा किद्भवति आत्मनेपदेषु परतः ।
उपायत कन्याम्, उपायंस्त कन्यां ।
उपायत भार्याम्, उपायंस्त भार्यां ।
उपयमनं स्वीकरणं, विवाहः, दारकर्म, पाणि-ग्रहणं इत्यर्थः ।
उपाद्यमः स्वकरणे (*१,३.५६) इत्यात्मनेपदं । ।


____________________________________________________________________


  1. <स्थाघ्वोरिच्च># । । पाणिनीयसूत्र १,२.१७ । ।



_____काशिका १,२.१७:

सिज्-आत्मनेपदेषु इति वर्तते ।
तिष्ठतेर्धातोः घु-सञ्ज्ञकानां च इ-कारश्च अन्तादेशः सिच्च किद्भवति आत्मनेपदेषु परतः ।
उपास्थित, उपास्थिषाताम्, उपास्थिषत ।
घु-सञ्ज्ञकानं -- अदित ।
अधित ।
इच्च कस्य तकारेत्त्वं दीर्घो मा भूदृतेऽपि सः ।
अनन्तरे प्लुतो मा भूत्प्लुतश्च विषये स्मृतः । ।


____________________________________________________________________


  1. <न क्त्वा स-इट्># । । पाणिनीयसूत्र १,२.१८ । ।


_____काशिका १,२.१८:

क्त्वा प्रत्ययः सेण्न किद्भवति ।
देवित्वा ।
वर्तित्वा ।
सेटिति किं ? इऋत्वाऽ गुत्वाऽ क्त्वा-ग्रहणं किं ? निगृहीतिः ।
उपस्निहितिः ।
निकुचितिः ।

[#३६]

न सेडिति कृतेऽकित्त्वे निष्ठायां अवधारणाथ् ।
ज्ञापकान्-न प्रोक्षायां सनि झल्-ग्रहणं विदुः । ।
इत्त्वं कित्वंनिहोगेन रेण तुल्यं सुधीवनि ।
वस्व्-अर्थं किद्-अतीदेशान्नि गृहीतिः प्रयोजनं । ।


____________________________________________________________________


  1. <निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः># । । पाणिनीयसूत्र १,२.१९ । ।



_____काशिका १,२.१९:

न सेटिति वर्तते ।
शीङ्स्विदि मिदि क्ष्विदि धृषित्येतेभ्यः प्रो निष्ठा-प्रत्ययः सेण्न किद्भवति ।
शयितह्, शयित्वान् ।
प्रस्वेदितः, प्रस्वेदितवान् ।
प्रमेदितः, प्रमेदितवान् ।
प्रक्ष्वेदितह्, प्रक्ष्वेदितवान् ।
प्रधर्षितः प्रधर्षितवान् ।
सेटित्येव स्विन्नः, स्विन्नवान् ।
स्विद्-आदीनं आदितश्च (*७,२.१६) इति निष्ठायामिट्प्रतिषिध्यते ।
विभाषा भाव-आदिकर्मणोः (*७,२.१७) इति पक्षेऽभ्यनुज्ञायते स विषयः कित्त्व-प्रतिषेधस्य । ।


____________________________________________________________________

  1. <मृषस्तितिक्षायाम्># । । पाणिनीयसूत्र १,२.२० । ।



_____काशिका १,२.२०:

मृषेर्धातोः तितिक्षायां अर्थे निष्ठा सेण्न किद्भवति ।
तितिक्षा क्षमा ।
मर्षितः, मृषितवान् । ।
तितिक्षायां इति किं ? अपमृषितं वाक्यं आह । ।


____________________________________________________________________


  1. <उदुपधाद्भाव-आदिकर्मणोरन्यतरस्याम्># । । पाणिनीयसूत्र १,२.२१ । ।



_____काशिका १,२.२१:
निष्ठा सेण्न कितिति वर्तते ।
उदुपधाद्धातोः परो भावे आदिकर्मणि च वर्तमानो निष्ठा-प्रत्ययः सेड्-अन्यतरस्यां न किद्भवति ।
द्युतितत्मनेन, द्योतितमनेन ।
प्रद्युतितः, प्रद्योतितः मुदितमनेन, मोदितमनेन ।
प्रमुदितः, प्रमोदितः ।
उदुपधातिति किं ? लिखितमनेन ।
भाव-आदिकर्मणोः इति किम्? रुचितं कार्षापणं ददाति ।
सेटित्येव ।
प्रभुक्त ओदनः ।
व्यवस्थित-विभाषा च-इयं ।
तेन शब्-विकरणानां एव भवति ।
गुध परिवेष्टने, गुधितं इत्यत्र न भवति । ।


____________________________________________________________________


  1. <पूङः क्त्वा च># । । पाणिनीयसूत्र १,२.२२ । ।


_____काशिका १,२.२२:

अन्यतरस्यां इति न स्वर्यते ।
उतर-सूत्रे पुनर्वा वचनाथ् ।
न सेटिति वर्तते ।
पूडश्च इट्विहितः किल्शः क्त्वा-निष्ठयोः (*७,२.५०), पूङश्च (*७,२.५१) इति ।
पूडः परो निष्ठा-प्रत्ययः इत्वा च सेण्न किद्भवति ।
पवितः, पवितवान् ।
क्त्वा-प्रत्ययसय न क्त्वा सेट्(*१,२.१८) इति सेद्ध एव प्रतिषेधः ।
तस्य ग्रहणमुत्तरार्थं ।
तथा च-उक्तं नित्यं अकित्त्वं इडाद्योः क्त्वा-निष्ठयोः क्त्वा-ग्रहणं उत्तर-अर्थं इति । ।


____________________________________________________________________


[#३७]

  1. <न-उपधात्थ-फ-अन्ताद्वा># । । पाणिनीयसूत्र १,२.२३ । ।



_____काशिका १,२.२३:

निष्ठा इति निवृत्तं ।
निकार-उपधाद्धातोः थकारान्तात्फकरान्ताच्च परः क्त्वा प्रत्ययः सेड्व न किद्भवति ।
ग्रथित्वा, ग्रन्थित्व ।
श्रथित्वा, श्रन्थित्वा ।
गुफित्वा, गुम्फित्वा ।
न-उपधातिति किं ? रेफित्वा ।
गोफित्वा ।
थ-फ-अन्तातिति किं ? स्रंसित्व ।
ध्वंसित्वा । ।


____________________________________________________________________


  1. <वञ्चि-लुञ्च्य्-ऋतश्च># । । पाणिनीयसूत्र १,२.२४ । ।



_____काशिका १,२.२४:

वञ्चि लुञ्चि ऋतित्येतेभ्यः परः क्त्वा प्रत्ययः सेड्वा न किद्भ्वति ।
वचित्वा, वञ्चित्व ।
लुचित्वा, ।
उञ्चित्वा ।
ऋतित्व, अर्तित्वा ।
ऋतेरीयङ्(*३,१.२९) आर्धधातुके विकल्पितः (*३,१.३१) ।
स यत्र पक्षे न अस्ति तत्र-इदं उदाहरणं ।
सेटित्येव ।
वक्त्वा । ।


____________________________________________________________________


  1. <तृषि-मृषि-कृशेः काश्यपस्य># । । पाणिनीयसूत्र १,२.२५ । ।



_____काशिका १,२.२५:

न क्त्वा सेट्(*१,२.१८) इति प्रतिषेधे प्रापे कित्त्वं विकल्प्यते ।
तृषि मृषि कृशि इत्येतेभ्यः परः क्र्वा प्रत्ययः सेट्काश्यपस्य आचार्यस्य मते वा न किड्भवति ।
तृषित्वा, त्र्षित्वा ।
मृषित्व, म्र्षित्व ।
कृशित्व, कर्शित्वा ।
कश्यप-ग्रहणं पूज-अर्थं ।
वा इत्येव हि वर्तते । ।


____________________________________________________________________


  1. <रलो व्-य्-उपधद्-धल्-आदेः संश्च># । । पाणिनीयसूत्र १,२.२६ । ।


_____काशिका १,२.२६:

वा इति वर्तते सेटिति च ।
उश्च इश्च वी ।
वी उपधेयस्य स व्यौपधः ।
उकार-उपध-अदिकार-उपधच्च धातो रलन्ताद्-धलादेः परः संश्च क्त्वा च सेटौ व कितौ भवतः ।
द्युतित्वा, द्योतित्वा ।
दिद्युतिषते, दिद्योतिषते ।
लिखित्वा, लेखित्वा ।
लिलिखिषति, लिलेखिषति ।
रलः इति किं ? देवित्वा, दिदेविषति ।
व्युपधातिति किं ? वर्तित्वा, विवर्तिषते ।
हलादेः इति किं ? एषित्व, एषिषिष्ति ।
सेटित्येव ।
भुक्त्वा, बुभुक्षते । ।


____________________________________________________________________


  1. <ऊकालोऽज्-झ्रस्व-दीर्घ-प्लुतः># । । पाणिनीयसूत्र १,२.२७ । ।



_____काशिका १,२.२७:

ऊ इति त्रयाणां अयं मात्रिक-द्विमात्रिक-त्रिमात्रिकाणां प्रश्लिष्ट-निर्देशः ।
ह्रस्व-दीर्घ-प्लुतः इति द्वन्द्व-इकवद्भावे पुंल्लिङ्ग-निर्देशः ।
उ ऊ ऊ३ इत्येवं कालो अज्यथा-क्रमं ह्रस्व-दीर्घ-प्लुतः इत्येवं सञ्ज्ञो भवति ।
उकालो ह्रस्वः - दधि ।
मधु ।
ऊकालो दीर्घः - कुमारी ।
गौरी ।
ऊ३कालः प्लुतः - देवदत्त३ अत्र न्व्-असि ।
काल-ग्रहणं परिमाण-अर्थं ।
दीर्घ-प्लुतयोः ह्रस्व-सञ्ज्ञा मा भूथ् ।
आलूय, प्रलूय, ह्रस्वस्य पिति कृति तुक्(*६,१.७१) इति तुङ्न भवति ।

[#३८]
अज्-ग्रहणं संयोग-अच्-समुदाय-निवृत्त्य्-अर्थं ।
प्रतक्ष्य, प्ररक्ष्य, ह्रस्वाश्रयस्तुङ्मा भूथ् ।
तितौच्छात्रम्, दीर्घात्(*६,१.७५), पदान्ताद्वा (*६,१.७६) इति विभाषा तुङ्मा भूथ् ।
ह्रस्व-दीर्घ-प्लुत-प्रदेशाः -- ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२.४७) ।
अकृत्-सर्वधातुकयोर्दीर्घः (*७,४.२५) ।
वाक्यस्य टेः प्लुत उदात्तः (*८,२.८२) । ।


____________________________________________________________________


  1. <अचश्च># । । पाणिनीयसूत्र १,२.२८ । ।



_____काशिका १,२.२८:

परिभाषा इयं स्थानि-नियम-अर्था ह्रस्व-दीर्घ-प्लुतः स्वसञ्ज्ञया शिष्यमाणा अच एव स्थाने वेदितव्याः ।
वक्ष्यति ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२.४७), रै--अतिरि ।
नौ--अतिनु ।
गो--उपगु ।
अचः इति किं ? सुवाग्ब्रह्मण-कुलं ।
अकृत्-सार्वधातुकयोर्दीर्घः (*७,४.२५) -- चीयते ।
श्रूयते ।
अचः इति किं ? भिद्यते ।
धिद्य्ते ।
वाक्यस्य टेः प्लुत उदात्तः (*७,२.८२) --देवदत्त३ ।
यज्ञदत्त३ ।
अचः इति किं ? अग्निचि३थ् ।
सोमसु३थ् ।
तकारस्य मा भूथ् ।
स्वसञ्ज्ञया वधाने नियमः ।
अचिति वर्तते ।
इह मा भूथ् ।
द्यौः पन्थाः ।
सः द्यौभ्यां ।
द्युभिः ।
अत्र नियमो न अस्ति । ।

____________________________________________________________________


  1. <उच्चैरुदात्तः># । । पाणिनीयसूत्र १,२.२९ । ।



_____काशिका १,२.२९:

अचिति वर्तते ।
उदात्त-आदि-शब्दाः स्वरे वर्णधर्मे लोक-वेदयोः प्रसिद्धा एव ।
ते इह तद्गुणेऽचि परिभाष्यन्ते ।
उच्चैरुपलभ्यमानो योऽच्स उदात्त-सञ्ज्ञो भवति ।
उच्चैः इति च श्रुति-प्रकर्षो न गृह्यते, उच्चैर्भाषते, उचैः पठति इति ।
किं तर्हि ? स्थान-कृतं उच्चत्वं सञ्ज्ञिनो विशेषणं ।
ताल्व्-आदिषु हि भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते ।
तत्र यः समाने स्थाने ऊर्ध्व-भग-निष्पन्नोऽच्स उदात्त-सञ्ज्ञो भवति ।
यस्मिन्नुचार्यमाणे गात्राणामायामो निग्रहो भवति, रूक्षता अस्निग्धता स्वरस्य, संवृतता क्ण्ठविवरस्य ।
ये ।
ते ।
के ।
उदात्त-प्रदेशाः--आद्य्-उदात्तश्च (*३,१.३) इत्येवं आदयः । ।


____________________________________________________________________


  1. <नीचैरनुदात्तः># । । पाणिनीयसूत्र १,२.३० । ।



_____काशिका १,२.३०:

अचिति वर्तते ।
नीचैरुपलभ्यमानो योऽच्सोऽनुदात्त-सञ्ज्ञो भवति ।
समाने स्थाने नीच-भागे निष्पन्नोऽचनुदात्तः ।
यस्मिन्नुच्चार्यमाणे गात्राणां अन्ववसर्गो मार्दवं भवति, स्वरस्य मृदुता स्निग्धता, कण्ठ-विवरस्य उरुता महत्ता ।
त्व सम सिम इत्यनुच्चानि ।
नमस्ते रुद्र नीलकण्ठ सहस्राक्ष ।
अनुदात्तप्रदेशाः- अनुदात्तौ सुप्-पितौ (*३,१.४) इत्येवं आद्यः । ।

____________________________________________________________________


[#३९]

  1. <समाहारः स्वरितः># । । पाणिनीयसूत्र १,२.३१ । ।



_____काशिका १,२.३१:

अचिति वर्तते ।
उदात्त-नुदात्त-स्वर-समाहारो योऽच्स स्वरित-सञ्ज्ञो भवति ।
सामर्थ्याच्च अत्र लोक-वेदयोः प्रसिद्धौ गुणावेव वर्ण-धर्मावुदात्त-अनुदात्तौ गृह्येते, नाऽचौ ।
तौ समाह्रियेते यस्मिन्नचि तस्य स्वरितः इत्येषा संज्ञा विधीयते ।
शिक्यं ।
कन्या ।
सामन्यः ।
क्व ।
स्वरित-प्रदेशाः-- तित्स्वरितं (*६,१.१७५) इत्येवं आदयः । ।


____________________________________________________________________


  1. <तस्य-आदित उदात्तं अर्ध-ह्रस्वम्># । । पाणिनीयसूत्र १,२.३२ । ।



_____काशिका १,२.३२:

उदात्त-अनुदात्त-स्वर-समाहारः स्वरितः इत्युक्तं ।
तत्र न ज्ञायते कस्मिन्नंशे उदात्तः कस्मिन्ननुदात्तः, कियान्वा उदात्तः कियान्वा अनुदात्तः इति ।
तद्-उभयं अनेन-आख्यायते ।
तस्य स्वरितस्य आदावर्ध-ह्रस्वं उदात्तम्, परिशिष्टं अनुदात्तं ।
अर्ध-ह्रस्वं इति च अर्धमात्र-उपलक्ष्यते ।
ह्रस्व-ग्रहणं अतन्त्रं ।
सर्वेषां एव ह्रस्व-दीर्घ-प्लुतानां स्वरितानां एष स्वर-विभागः ।
शिक्यं इत्यत्र अर्ध-मात्रा आदित उदात्त, अपर-अर्ध-मात्रा अनुदात्ता, एक-श्रौतिर्वा ।
कन्या इत्यत्र अर्ध-मात्रा आदित उदत्ता अध्यर्ध-मात्रा अनुदात्ता ।
माणवक३ माणवक (*८,२.१०३) इत्यत्र अर्ध-मात्रा आदित उदात्ता अर्ध-तृतीय-मात्रा अनुदात्ता । ।


____________________________________________________________________


  1. <एक-श्रुति दूरात्सम्बुद्धौ># । । पाणिनीयसूत्र १,२.३३ । ।



_____काशिका १,२.३३:

त्रैस्वर्ये पदानां प्राप्ते दूरात्सम्बुद्धाव्-ऐकश्रुत्यं विधीयते ।
एका श्रुतिर्यस्य तदिदं एकश्रुति ।
एक-श्रुति वाक्यं भवति ।
दूरात्सम्बोधयति येन वाक्येन तत्सम्बोधनं सम्बुद्धिः ।
न एक-वचनं सम्बुद्धिः ।
स्वराणां उदात्तादीनां अविभागो भेदति रोधानं एकश्रुतिः ।
आगच्छ भो माणवक देवदत्त३ ।
दूरातिति किं ? आगच्छ भो माणवक देवदत्त । ।


____________________________________________________________________


  1. <यज्ञ-कर्मण्य्-अजप-न्यूङ्ख-सामसु># । । पाणिनीयसूत्र १,२.३४ । ।



_____काशिका १,२.३४:

त्रैस्वर्येण वेदे मन्त्राः पठ्यन्ते ।
तेषां यज्ञ-क्रियायां अपि तथ-इव प्रयोगे प्राप्ते एक-श्रुतिर्विधीयते जप-न्यूङ्ख-सामानि वर्जयित्वा ।
यज्ञ-कर्मणि मन्त्राणां ऐकश्रुत्यं भवति ।
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं ।
अपां रेतंसि जिन्वतो३ं ।
यज्ञ-कर्मणि इति किं ? सम्पाठे मा भूथ् ।
अजपेष्व्-इति किं ? ममाग्ने वर्चो विहवेष्वस्तु ।
जपोऽनुकरण-मन्त्र उपांशु-प्रयोगः ।
अन्यूङ्खा-इति किं ? न्यूङ्खा ओकाराः षोडश ।
तेषु केचिदुदात्ताः केचिदनुदात्ताः ।

[#४०]

असामसु इति किं ? विश्वं समत्रिणं दह ।
सामानि वाक्य-विशेष-स्थगीतय उच्यन्ते ।
तत्र-इकश्रुतिर्न भवति । ।


____________________________________________________________________


  1. <उच्चैस्तरां वा वषट्कारः># । । पाणिनीयसूत्र १,२.३५ । ।



_____काशिका १,२.३५:

यज्ञ-कर्मणि इति वर्तते ।
यज्ञ-कर्मणि वषट्कारः उच्चैस्तरां वा भवति एक-श्रुतिर्वा ।
वषट्-शब्देन अत्र वौषट्शब्दो लक्षयते ।
वौषटित्यस्य-इव-इदं स्वर-विधानं ।
यद्येवं वौषड्-ग्रहणं एव कस्मान्न कृतं ? वैचित्र्य-अर्थं ।
विचित्र हि सूत्रस्य कृतिः पाणिनेः ।
सोमस्य अग्ने वीही३षठ् ।
सोमस्य अग्ने वीही३ वौ३षट् । ।


____________________________________________________________________


  1. <विभाषा छन्दसि># । । पाणिनीयसूत्र १,२.३६ । ।



_____काशिका १,२.३६:

छन्दसि विषये विभाषा एकश्रुतिर्भवति ।
पक्ष-अन्तरे त्रैस्वर्यं एव भवति ।
वा इति प्रकृते विभाषा-ग्रहनं यज्ञ-कर्मणि इत्यस्य निवृत्त्य्-अर्थं ।
तेन अयं स्वाध्याय-कालेऽपि पाक्षिक ऐकश्रुत्य-विधिर्भवति ।
इषे त्वोर्जे त्वा ।
इषे त्वोर्जे त्वा ।
अग्न आयाहि वीतये ।
अग्न आयाहि वीत्ये ।
अग्निमीले पुरोहितं ।
अग्निमीले पुरोहितं ।
शं नो देवीरभैष्टये ।
शं नो देवीरभैष्टये । ।


____________________________________________________________________


  1. <न सुब्रह्मण्यायां स्वरितस्य तु उदात्तः># । । पाणिनीयसूत्र १,२.३७ । ।



_____काशिका १,२.३७:

सुब्रह्मण्या नाम निगदस्तत्र यज्ञ-कर्मणि इति विभाषा छन्दसि (*१,२.३६) इति च एकश्रुतिः प्राप्ता प्रतिषिद्यते ।
सुब्रह्मण्यायां एकश्रुतिर्न भवति ।
यस्तु लक्षण-प्राप्तः स्वरितस्तस्य-उदात्त आदेशो भवति ।
सुब्रह्मन्यों ।
इन्द्रागच्छ, हरिव आगच्छ, मेधातिथेर्मेष वृषणश्वस्य मेने ।
गौराव-स्कन्दिन्नहल्यायै जार कौशिकब्राह्मण गौतमब्रुवाण श्वः सुत्यामागच्छ मघवन् ।
अत्र सुब्रह्मण्यों इत्योकारस्तित्स्वरेण स्वरितस्तस्य-उदात्तो विधीयते ।
इन्द्र आगच्छ इत्यामन्त्रितं आद्य्-उदत्तं ।
द्वितीयो वर्णोऽनुदात्तः ।
उदात्तादनुदातस्य स्वरितः इति स्वरितः प्रसक्तस्तस्य अनेन-उदात्तः त्रियते ।
तदेवं इन्द्र आगच्छ इति चत्वार उदात्ताः ।
पश्चिम एकोऽनुदात्तः ।
हरिव आगच्छ इत्यनयैव प्रक्रियया चत्वार उदात्ताः द्वावनुदात्तौ ।
मेधातिथेः इति षष्ट्यन्तं परम-अमन्त्रितं अनुप्रविशति सुबामन्त्रिते पराङ्गवत्स्वरे (*२,१.२) इति ।
ततः सकलस्या मन्त्रिताद्य्-उदात्तत्वे इऋते द्वितीयं अक्षरं अनुदात्तं, तस्य उदात्तादनुदात्तस्य स्वरितः (*८,४.६६) इति स्वरितत्वे प्राप्ते इदम्-उदात्तत्वं विधीयते ।
तेन द्वावप्य्-उदात्तौ भवतः ।

[#४१]
शेषमन्-उदात्तं ।
वृषणश्वस्य मेने इति समानं पूर्वेण ।
गौरावस्कन्दिनिति तथ-इव द्वे आद्ये अक्षरे उदात्ते, शेषं अनुदात्तं ।
अहल्यायै जार इति सुबन्तस्य अमन्त्रित-अनुप्रवेशात्तद्वदेव स्वरः ।
द्वावुदात्तौ शेषं अनुदात्तं ।
कौशिकब्रह्मण इति समस्तमामन्त्रितमाद्य्-उदात्तं तत्र पूर्ववद्द्वावुदात्तौ शेषं अनुदात्तं ।
एवं गौतम-ब्रुवाण इति द्वावुदात्तौ शेषं अनुदात्तां ।
श्वः सुत्यामागच्छ मघवनिति श्वः-शब्द उदात्तः सुत्यां इत्यन्तोदात्तः ।
सञ्ज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः (*३,३.९९) इति क्यपो विधाने उदात्तः इति वर्तते ।
अगच्छ इति द्व-उदात्तौ ।
अन्त्योऽनुदत्तः ।
मघवनिति पदात्परमामन्त्रितं निहन्यते । ।


____________________________________________________________________


  1. <देव-ब्रह्मणोरनुदात्तः># । । पाणिनीयसूत्र १,२.३८ । ।



_____काशिका १,२.३८:

सुब्रह्मण्यायां एव देवा ब्रह्माणः इति पठ्यते, तत्र पूर्वेण स्वरितस्य+उदात्ते प्राअप्तेऽनेन-अनुदात्तो विधीयते ।
देव-ब्रह्मणोः स्वरितस्य अनुदात्त आदेशो भवति ।
देवा ब्रह्माण आगच्छत ।
द्वयोरपि पदयोरामन्त्रित-आद्य्-उदात्तत्वे शेषनिघाते च+उदात्तादनुदात्तस्य स्वरितः कृतस्तस्य-अनुदात्तो भवति । ।


____________________________________________________________________


  1. <स्वरितात्संहितायां अनुदात्तानाम्># । । पाणिनीयसूत्र १,२.३९ । ।



_____काशिका १,२.३९:

एक-श्रुतिः इति वर्तते ।
संहितायं विशये स्वरितात्परेषां अनुदात्तानां एकश्रुतिर्भवति ।
इमं मे गङ्गे यमुने सरस्वति शुतुद्रि ।
माणवक जटिलकाध्यापक क्व गमिष्यसि ।
इमं इत्यन्त-उदात्तं, मे इति अनुदात्तं विधि-काल एव निघात-विधानाथ् ।
तत्पुनः उदात्तादनुदातस्य स्वरितः (*८,४.६६) इति स्वरितं सम्पद्यते ।
तस्मात्स्वरितात्परेषां अनुदात्तानां गङ्गेप्रभृतीनां एकश्रुतिर्भवति ।
सर्व एते आमन्त्रित-निघातेन अनुदात्ताः ।
माणवक जटिलक इति प्रथमं आमन्त्रितमाद्युदात्तं, तस्य द्वितीयं अक्षरं स्वरितं, ततः परेषां अनुदात्तानां एकश्रुतिर्भवति ।
संहिता-ग्रहणं किं ? अवग्रहे मा भूथ् ।
इमं मे गङ्गे यमुने सर्स्वति । ।


____________________________________________________________________


  1. <उदात्त-स्वरित-परस्य सन्नतरः># । । पाणिनीयसूत्र १,२.४० । ।



_____काशिका १,२.४०:

अनुदात्त-ग्रहणं अनुवर्तते ।
उदात्तः परो यस्मात्स उदात्तपरः स्वरितः परो यस्मात्स स्वरितपरः ।
उदात्तपरस्य स्वरितपरस्य च अनुदात्तस्य सन्नतर आदेशो भवति ।
अनुदात्ततरः इत्यर्थः ।
देवा मरुतः पृश्निमातरोऽपः ।
मातरः इत्यनुदात्तः ।
अपः इत्यन्त-उदात्तः ऊड्-इदं-पद्-आद्य्-अप्-पुम्-रै-द्युभ्यः (*६,१.१७१) इति ।
तत्र अनुदात्तयोरेकादेश ओकारोऽनुदात्तः तस्य-उदात्ते परभूते सन्नतर आदेशो भवति ।
इमं मे गङ्गे यमुने सरस्वति शुतुद्रि ।
इकारोऽनुदात्तः ।
शुतुद्रि इत्येतदामन्त्रितं पादादौ तस्मान्न निहन्यते, अनुदात्तं सर्वं अपादादौ (*८,१.१८) इति ।

[#४२]

तस्य प्रथमं अक्षरं उदात्तं तस्मिन्परभूते पूर्वस्य सरस्वति इति इकारस्य सन्नतर आदेशो भवति ।
माणवक जटिलकाद्यापक क्व गमिष्यसि ।
क्व इति स्वरितस्तस्मिन्परभूते क इति अनुदत्तस्तस्य सन्नतर आदेशो भवति । ।


____________________________________________________________________


  1. <अपृक्त एक-अल्प्रत्ययः># । । पाणिनीयसूत्र १,२.४१ । ।



_____काशिका १,२.४१:

अपृक्तः इति इयं सञ्ज्ञा भवति एक-अल्यः प्रत्ययस्तस्य ।
असहाय-वाची एक-शब्दः ।
स्प्शोऽनुदके क्विन्(*३,२.५८) - धृतस्पृक् ।
भजो ण्विः (*३,२.६२) - अर्धभक् ।
पादभाक् ।
एक-अलिति किं ? दर्विः ।
जागृविः ।
प्रत्यय इति किं ? सुराः ।
अपृक्त-प्रदेशाः -- वेरपृक्तस्य (*६,१.६७) इत्येवं आद्यः । ।


____________________________________________________________________


  1. <तत्पुरुषः समान-अधिकरणः कर्मधारयः># । । पाणिनीयसूत्र १,२.४२ । ।



_____काशिका १,२.४२:

तत्पुरुषः इति समास-विशेषस्य सञ्ज्ञां वक्ष्यति ।
स तत्पुरुषः समान-अधिकरण-पदः कर्मधारय-सञ्ज्ञो भवति ।
अधिकरण-शब्दोऽभिधेय-वाचि ।
समान-अधिकरणः समान-अभिधेयः ।
परमराज्यं ।
उत्तमराज्यं ।
अकर्मधारये राज्यं (*६,२.१३०) इत्युत्तरपद-आद्य्-उदात्तं न भवति ।
पाचकवृन्दारिका ।
तत्पुरुषः इति किं ? पाचिकाभार्यः ।
समान-अधिकरणः इति किं ? ब्राह्मण-राज्यं ।
कर्मधारय-प्रदेशाः - कर्मधारयेऽनिष्ठा (*६,२.४६) इत्येवं आदयः । ।

____________________________________________________________________


  1. <प्रथमा-निर्दिष्टं समास उपसर्जनम्># । । पाणिनीयसूत्र १,२.४३ । ।



_____काशिका १,२.४३:

प्रथमया विभाक्त्या यन्निर्दिश्यते समास-शास्त्रे तदुपसर्जन-सञ्ज्ञं भवति ।
समासे इति समास-विधायि शास्त्रं गृह्यते ।
वक्ष्यति - द्वितीया श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्नैः (*२,१.२४) इति ।
द्विदीया-समासे द्वितीया इत्येतत्प्रथमा-निर्दिष्टं, तृतीया-समासे तृतीया इति, चतुर्थी-समासे चतुर्थी इति, पञ्चमी-समासे पञ्चमी इति, षष्ठी-समासे षष्ठी इति, सप्तमी-समासे सप्तमी इति ।
कष्ट-श्रितः ।
शङ्कुला-खण्डः ।
यूप-दारु ।
वृक-भयं ।
राज-पुरुषः ।
अक्ष-शौण्डः ।
उपसर्जन-प्रदेशाः - उपसर्जनं पूर्वं (*२,२.३०) इत्येवं आदयः । ।


____________________________________________________________________


  1. <एक-विभाक्ति च अपूर्व-निपाते># । । पाणिनीयसूत्र १,२.४४ । ।



_____काशिका १,२.४४:

एक विभाक्तिर्यस्य तदिदं एक-विभाक्ति ।
समासे विधीयमाने यन्नियत-विभक्तिकं, द्वितीये सम्बन्धिनि बहुभिर्-विभक्तिभिर्युज्यमानेऽप्येकयैव विभक्त्या युज्यते तद्-उपसर्जन-सञ्ज्ञं भवति अपूर्व-निपाते, पूर्व-निपतं पूर्व-निपात-आख्यं उपसर्जन-कार्यं वर्जयित्वा ।

[#४३]

निरादयः क्रान्त्-आअद्य्-अर्थे पञ्चम्या ।
पूर्व-पदे नानाविभक्तिकेऽप्युत्तरपदं पञ्च्म्यन्तं एव भवति ।
निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः ।
निष्त्रान्तं कौशाम्ब्या निष्कौशाम्बिं ।
निष्क्रान्तेन कौशाम्ब्या निष्कौशाम्बिना ।
निष्क्रान्ताय कौशाम्ब्या निष्कौशाम्बये ।
निष्क्रान्तात्कौशाम्ब्या निष्कौशाम्बेः ।
निष्क्रान्तस्य कौशाम्ब्या निष्कौशाम्बेः ।
निष्क्रान्ते कौशाम्ब्या निष्कौशाम्बौ ।
एवं निर्वाराणसिः ।
एकविभक्ति इति किं ? राजकुमारी ।
अपूर्व-निपाते इति किं ? न हि भवति कौशाम्बीनिः इति । ।


____________________________________________________________________


  1. <अर्थवदधातुरप्रत्ययः प्रातिपदिकम्># । । पाणिनीयसूत्र १,२.४५ । ।



_____काशिका १,२.४५:

अभिधेय-वचनोऽर्थ-शब्दः ।
अर्थवच्-छब्द-रूपं प्रातिपदिक-सञ्ज्ञं भवति धातु-प्रत्ययौ वर्जयित्वा ।
डित्थः ।
कपित्थः ।
कुण्डं ।
पीठं ।
अर्थवतिति किं ? वनम्, धनं इति न अन्तस्य अवधेर्मा भूथ् ।
नलोपो हि स्याथ् ।
अधातुः इति किं ? हन्तेर्लङ् ।
अहन् ।
अलोपः स्यथ् ।
अप्रत्ययः इति किं ? काण्डे ।
कुड्ये ।
ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२.४७) इति ह्रस्वः स्याथ् ।
अनर्थकस्य अपि निपातस्य प्रातिपदिक-सञ्ज्ञा इष्यते ।
अध्यागच्छति ।
प्रलम्बते ।
प्रातिपदिक-प्रदेशाः -- ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२.४७) इत्येवं आद्यः । ।

____________________________________________________________________


  1. <कृत्-तद्धित-समासाश्च># । । पाणिनीयसूत्र १,२.४६ । ।



_____काशिका १,२.४६:

कृतस्तद्धिताः समासाश्च प्रातिपदिक-सञ्ज्ञा भवन्ति ।
अप्रत्ययः इति पूर्वत्र पर्युदासत्कृदन्तस्य तद्धितान्तस्य च अनेन प्रातिपदिक-सञ्ज्ञा विधीयते ।
अर्थवत्-समुदयानां समास-ग्रहणं नियम-अर्थं ।
कृत्-- कारकः ।
हारकः ।
कर्ता ।
हर्त ।
तद्धितः -- औपगवः ।
कापटवः ।
समासः -- राज-पुरुषः ।
ब्राह्मण-कम्बलः ।
समास-ग्रहणस्य नियम-अर्थत्वाद्वाक्यस्य अर्थवतः सञ्ज्ञा न भवति । ।


____________________________________________________________________


  1. <ह्रस्वो नपुंसके प्रातिपदिकस्य># । । पाणिनीयसूत्र १,२.४७ । ।



_____काशिका १,२.४७:

नपुंसक-लिङ्गेऽर्थे यत्प्रातिपदिकं वर्तते तस्य ह्रस्वो भवति आदेशः अलोऽन्यस्य अचः ।
अतिरि कुलं ।
अतिनु कुलं ।
नपुंसके इति किं ? ग्रामणीः ।
सेनानीः ।
प्रातिपदिकस्य इति किं ? काण्डे तिष्ठतः ।
कुड्ये तिष्ठतः ।
प्रातिपदिक-ग्रहण-सामर्थ्यतेक-आदेशः पूर्वस्य अन्तवन्-न भवति । ।

____________________________________________________________________


  1. <गोस्त्रियोरुपसर्जनस्य># । । पाणिनीयसूत्र १,२.४८ । ।



_____काशिका १,२.४८:

प्रातिपदिकस्य इति वर्तते ।
गो इति स्वरूप-ग्रहणं स्त्री इति प्रत्यय-ग्रहणं स्वरितत्वाथ् ।
उपसर्जन-ग्रहणं तयोर्विशेषणं ।
गोरुपसर्जनस्य स्त्रीप्रत्यय-अन्तस्य+उपसर्जनस्य इति ।
ताभ्यां प्रातिपदिकस्य तदन्त-विधिः ।
उपसर्जन-गो-शब्दान्तस्य उपसर्जन-स्त्रीप्रत्यय-अन्तस्य च प्रातिपदिकस्य ह्रस्वो भवति ।

[#४४]

चित्रगुः ।
शबलगुः ।
स्त्रियाः -- निष्कौशाम्बिः ।
निर्वाराणसिः ।
अतिखट्वः ।
अतिमालः ।
उपसर्जनस्य इति किं ? राज-कुमारी ।
स्वरितत्वं किं ? अतितन्त्रीः ।
अतिलक्ष्मीः ।
अतिश्रीः । ।
ईयसो बहुव्रीहेः प्रतिषेधो वक्तवयः ।
बहु-श्रेयसी ।
विद्यमान-श्रेयसेई । ।


____________________________________________________________________


  1. <लुक्तद्धित-लुकि># । । पाणिनीयसूत्र १,२.४९ । ।


_____काशिका १,२.४९:

स्त्री-ग्रहणं अनुवर्तते उपसर्जनस्य+इति च ।
पूर्वेण ह्रस्वत्वे प्राप्ते लुग्विधीयते ।
तद्धित-लुकि सति स्त्री-प्रत्ययस्य उपस्र्जनस्य लुग्भवति ।
पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः ।
दशेन्द्रः ।
पञ्चभिः शष्कुलीभिः क्रीतः पञ्चशष्कुलः ।
आमलक्याः फलमामलकं ।
बदरं ।
कुवलं ।
तद्धित-ग्रहणं किं ? गार्ग्याः कुलं गार्गी-कुलं ।
लुकि इति किं ? गार्गीत्वं ।
उपसर्जनस्य इत्येव ।
अवन्ती ।
कुन्ती ।
कुरूः । ।


____________________________________________________________________


  1. <इद्-गोण्याः># । । पाणिनीयसूत्र १,२.५० । ।



_____काशिका १,२.५०:

पूर्वेण लुकि प्राप्ते इकारो विधीयते ।
गोण्यास्-तद्धित-लुकि सति इकार-आदेशो भवति ।
पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः ।
दशगोणिः ।
इतिति योग-विभागः ।
पण्चभिः सूचीभिः क्रीतः पञ्च-सूचिः ।
दश-सूचिः ।
स च एवं विषय एव । ।


____________________________________________________________________

  1. <लुपि युक्तवद्-व्यक्तिवचने># । । पाणिनीयसूत्र १,२.५१ । ।



_____काशिका १,२.५१:

लुपि इति लुप्-सन्ञ्ज्ञया लुप्तस्य प्रत्ययस्य अर्थ उच्यते ।
तत्र लुपि युक्तवद्-व्यक्तिवचने भवतः ।
युक्तवतिति निष्ठा-प्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यते ।
स हि प्रत्यय-अर्थं आत्मना युनक्ति ।
तस्य युक्तवतो व्यक्तिवचने लुब्-अर्थे विधीयेते ।
अथ वा युक्तः प्रकृत्य्-अर्थः प्रत्यय-अर्थेन सम्बद्धः, तस्मिन्न्-इव व्यक्तिवचने लुब्-अर्थे भवतः ।
सप्तम्य्-अर्थे वतिः ।
व्यक्तिवचने इति च लिङ्ग-सङ्ख्ययोः पूर्वाचर्य-निर्देशः, तद्-ईयं एव+इदं सूत्रं ।
तथा च अस्य प्रत्याख्यानं भविष्यते, तदशिष्यं सञ्ज्ञा-प्रमाणत्वात्(*१,२.५३) इति ।
व्यक्तिः -- स्त्री-पुम्-नपुंसकानि ।
वचनं -- एकत्व-द्वित्व-बहुत्वानि ।
पञ्चलाः क्षत्रियाः पुंलिङ्गा बहुवचन-विशयाः ।
तेषां निवासो जनपदः ।
यथा तेषु क्षत्रियेषु व्यक्तिवचने तद्वज्जनपदे भवतः ।
पञ्चालाः ।
कुरवः ।
मगधाः ।
मत्स्याः ।
अङ्गाः ।
वङ्गाः ।
सुग्माः ।
पुण्ड्राः ।
लुपि इति किं ? लुकि मा भूथ् ।

[#४५]

लवणः सूपः ।
लवणा यवागूः ।
लवणं शाकं ।
व्यक्तिवचने इति किं ? शिरीषाणां अदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनं ।
विभाषा-ओषधि-वनस्-पतिभ्यः (*८,४.६) इति णत्वं न भवति ।
हरितक्यादिषु व्यक्तिः ।
हरीतक्याः फलानि हरीतक्यः फलानि ।
खलतिकादिषु वचनं ।
खलतिकस्य पर्वतस्य अदूरभवानि वनानि खलतिकं वनानि । ।


____________________________________________________________________


  1. <विशेषणानां च अजातेः># । । पाणिनीयसूत्र १,२.५२ । ।



_____काशिका १,२.५२:

लुपि इति वर्तते ।
लुब्-अर्थस्य यानि विशेषणानि तेषां अपि च युक्तवद्व्यक्ति-वचने भवतः जातिं वर्जयित्वा ।
पञ्चालाः रमणीयाः, बह्वन्नाः, बहुक्षीरघृताः, बहुमाल्यफलाः ।
गोदौ रमणीयौ, बह्वन्नौ, बहुक्षीरघृतौ, बहुमाल्यफलौ ।
अजातेः इति किं ? पञ्चालाः जनपदः ।
गोदौ ग्रामः ।
जात्य्-अर्थस्य चायं युक्तवद्भाव-प्रतिषेधः ।
तेन जात्-इद्वारेण यानि विशेषणानि तेषां अपि युक्तवद्भावो न भवति ।
पञ्चालाः जनपदो रमणीयो, बह्वन्नः ।
गोदौ ग्रामो रमणीयो, बह्वन्नः इति ।
मनुष्यलुपि प्रतिषेधो वक्तव्यः ।
चञ्चा अभिरूपः ।
वर्ध्रिका दर्शनीयं । ।


____________________________________________________________________


  1. <तदशिष्यं सञ्ज्ञा-प्रमाणत्वात्># । । पाणिनीयसूत्र १,२.५३ । ।



_____काशिका १,२.५३:

ततिति प्रकृतं युक्तवद्भाव-लक्षणं निर्दिश्यते ।
तद्-अशिष्यं न वक्तव्यं ।
कस्मात्? सञ्ज्ञा-प्रमाणत्वाथ् ।
सञ्ज्ञा-शब्दा हि नानालिङ्ग-सङ्ख्याः प्रमाणं ।
पञ्चालाः, वरणा इति च, न+एते योग-शब्दाः ।
किं तर्हि ? जनपद्-आदीनां सञ्ज्ञा एताः ।
तत्र लिङ्गं वचनं च स्वभाव-संसिद्धं एव न यत्न-प्रतिपाद्यम्, यथा आपः, दाराः, गृहाः, सिकताः, वर्षाः इति । ।


____________________________________________________________________


  1. <लुब्योग-अप्रख्यानात्># । । पाणिनीयसूत्र १,२.५४ । ।



_____काशिका १,२.५४:

लुबप्यशिष्यः ।
योऽयं जनपदे लुप्(*४,२.८१), वरणा-आदिभ्यश्च (*४,२.८२) इति लुबुच्यते,

[#४६]

अयं न वक्तव्यः ।
किं कारणं ? योग-अप्रख्यानाथ् ।
न हि पञ्चाल वरणाः इति योगः सम्बधः प्रख्यायते ।
न-एतदुपलभामहे वृक्षयोगान्नगरे वरणाः इति ।
किं तर्हि ? सञ्ज्ञा एताः ।
तस्मादत्र तस्य निवासः (*४,२ ६९), अदूर-भवश्च (*४,२.७०) इति तद्धितो न+एव+उत्पद्यते, किं लुपो विधानेन । ।


____________________________________________________________________


  1. <योग-प्रमाणे च तद्-अभावेऽदर्शनं स्यात्># । । पाणिनीयसूत्र १,२.५५ । ।



_____काशिका १,२.५५:

पञ्चाल-आदयः सञ्ज्ञा-शब्दाः, न योग-निमित्ताः इत्युक्तं ।
तच्-चावश्यं एव अभ्युपगन्तव्यं ।
योग-प्रमाणे हि तद्-अभावेऽदर्शनं स्याथ् ।
यदि पञ्चालादि-शब्दो योगस्य प्रमाणं योगस्य वाचकः स्यात्ततस्तदभावेऽदर्शनं अप्रयोगः स्याथ् ।
दृश्यते च सम्प्रति वनैव क्षत्रिय-सम्बन्धेन जनपदेषु पञ्चालादि-शब्दाः, ततोऽवसीयते नायं योग-निमित्तकः ।
किं तर्हि ? रूढिरूपेणैव तत्र प्रवृत्तः इति । ।


____________________________________________________________________


  1. <प्रधान-प्रत्यय-अर्थवचनं अर्थस्य अन्य-प्रमाणात्वात्># । । पाणिनीयसूत्र १,२.५६ । ।



_____काशिका १,२.५६:

अशिष्यं इति वर्तते ।
प्रधानं समासे किंचित्पदं, प्रत्ययस्तव्यदादिः ।
ताभ्यां अर्थ-वचनं अर्थ-अभिधानं अनेन प्रकारेण भवति इति पूर्व-आचार्यैः परिभाषितं ।
प्रधान-उपसर्जने च प्रधान-अर्थं सह ब्रूतः, प्रक्र्ति-प्रत्ययौ सहार्थं ब्रूतः इति ।
तत्पाणिनिराचर्यः प्रत्याचष्टे, अशिष्यं एततर्थस्य अन्यप्रमाणत्वातिति ।
अन्यः इति शास्त्र-अपेक्षया लोको व्यपदिश्यते ।
शब्दैरर्थ-अभिधानं स्वाभाविकं न पारिभषाकं अशक्यत्वाथ् ।
लोकत एव अर्थ-अवगतेः ।
यैरपि व्याकरणं न श्रुतं तेऽपि राज-पुरुषं आनय इत्युक्ते राजविशिष्टं पुरुषं आनयन्ति न राजनं न अपि पुरुष-मात्रं ।
औपगवं आनय इत्युक्ते उपगुविशिष्टं अपत्यं आनयन्ति, न+उपगुं न अप्यपत्य-मात्रं, न+उभौ ।
यश्च लोकतोऽर्थः सिद्धः किं तत्र यत्नेन । ।


____________________________________________________________________


  1. <काल-उपसर्जने च तुल्यम्># । । पाणिनीयसूत्र १,२.५७ । ।



_____काशिका १,२.५७:

अशिष्यं इति वर्तते ।
काल-उपसर्जने च अशिष्ये ।
कस्मात्? अर्थस्य अन्यप्रमाणत्वाथ् ।
तुल्य-शब्दो हेत्व्-अनुकर्षण-अर्थः ।
अशिष्य-विशेषणं च-इतथ् ।
काल-उपसर्जने च तुल्यं अशिष्ये भवतः ।
इह अन्ये वैयाकरणाः काल-उपसर्जनयोः परिभाषां कुर्वन्ति ।
आन्याय्यादुत्थानादान्याय्याच्च संवेशनात्, एषोऽद्यतनः कालः ।
अपरे पुनराहुः ।
अहरुभयतोऽर्धरात्रं , एषोऽद्यतनः कालः इति ।
तथा+उपसर्जन-परिभाषां कुर्वन्ति अप्रधानं उपसर्जनं इति ।
तत्पाणिनिराचार्यः प्रत्याचष्टे लोकतोऽर्थवगतेः ।
यैरपि व्याकरणं न श्रुतं तेऽप्याहुरिदं अस्माभिरद्य कर्तव्यं इदं श्वः कर्तव्यं इदं हयः कृतं इति ।
न-इवं व्युत्पाद्यन्ते ।
तथा-उपसर्जनम्, वयमत्र गृहे ग्रामे वा उपसर्जनं अप्रधानं इति गम्यते ।
य्श्च लोकतोऽर्थः सिद्धः किं तत्र यत्नेन ।
यद्येवं पूर्वसूत्र एव काल-उपसर्जन-ग्रहणं कस्मान्न क्रियते ? किमर्थो योगविभागः ? प्रदर्शनार्थः ।
अन्यदप्येवं जातीयकमशिष्यं इति ।
तथा च पूर्वाचार्याः परिभषन्ते मत्वर्थे बहुव्रीहिः, पूर्वपद-अर्थ-प्रधानोऽव्ययीभावः, उत्तरपद-अर्थ-प्रधानस्तत्पुरुषह्, उभयपदार्थ-प्रधानो द्वन्द्वः इत्येवं आदि, तद्-अशिष्यं इति । ।


____________________________________________________________________


[#४७]

  1. <जात्य्-आख्यायं एकस्मिन्बहुवचनं अन्यतरस्याम्># । । पाणिनीयसूत्र १,२.५८ । ।



_____काशिका १,२.५८:

अशिष्यं इति निवृतं ।
जातिर्नाम अयं एकोऽर्थः ।
तद्-अभिधाने एकवचनं एव प्राप्तं अत इदं उद्यते ।
जातेराख्या जात्य्-आख्या ।
जात्य्-आख्यायां एकस्मिन्नर्थे वहुवचनं अन्यतरस्यां भवति ।
जात्य्-अर्थो बहुवद्भवति इति यावथ् ।
तेन तद्विशेषणानां अजाति-शब्दानां अपि सम्पन्नादीनां बहुवचनं उपपद्यते ।
सम्पन्नो यवः, सम्पन्ना यवाः ।
सम्पन्नो व्रीहिः, सम्पन्ना व्रीहयः ।
पूर्ववया ब्राह्मणः प्रत्युत्थेयः, पूर्ववयसो ब्राह्मणाः प्रत्युत्थेयाः ।
जाति-ग्रहणं किं ? देवदत्तः ।
यज्ञदत्तः ।
आख्यायां इति किं ? काश्यप-प्रतिकृतिः काश्यपः ।
भवत्ययं जाति-शब्दो न त्वनेन जातिराख्यायते ।
किं तर्हि ? प्रतिकृतिः ।
एकस्मिनिति किं ? व्रीहियवौ ।
सङ्ख्याप्रयोगे प्रतिषेधो वक्तव्यः ।
एको ब्रीहिः सम्पन्नः सुभिक्षं करोति । ।


____________________________________________________________________


  1. <अस्मदो द्वयोश्च># । । पाणिनीयसूत्र १,२.५९ । ।



_____काशिका १,२.५९:

अस्मदो योऽर्थस्तस्य+एकत्वे द्वित्वे च बहुवचनं अन्यतरस्यां भवति ।
अहं ब्रवीमि , वयं व्रूमः ।
आवां ब्रूवः, वयं व्रूमः ।
सविशेषणस्य प्रतिषेधो वक्तव्यः ।
अहं देवदत्तो ब्रवीमि ।
अहं गार्ग्यो व्रवीमि ।
अहं पटुर्ब्रवीमि ।
युष्मदि गुरावेकेषां ।
त्वं मे गुरुः, यूयं मे गुरवः । ।


____________________________________________________________________


  1. <फल्गुनी-प्रोष्ठपदानां च नक्षत्रे># । । पाणिनीयसूत्र १,२.६० । ।



_____काशिका १,२.६०:

चकारो द्वयोः इत्यनुकर्षण-अर्थः ।
फल्गुन्योर्द्वयोः प्रोष्ठपदयोश्च द्वयोर्नक्षत्रयोर्बहुवचनं अन्यतरस्यां भवति ।
कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः ।
कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः ।
नक्षत्रे इति किं ? पल्गुन्यौ मणविके । ।


____________________________________________________________________


  1. <छन्दसि पुनर्वस्वोरेकवचनम्># । । पाणिनीयसूत्र १,२.६१ । ।



_____काशिका १,२.६१:

अन्यतरस्यां इत्यनुवर्तते ।
द्वयोर्द्विवचने प्राप्ते पुनर्वस्वोश्छन्दसि विषये एकवचनं अन्यतरस्यां भवति ।
पुनर्वसुर्नक्षत्रं अदितिर्देवता ।
पुनर्वसू नक्षत्रं अदितिर्देवता ।
नक्षत्रे इत्येव ।
पुनर्वसू माणवकौ ।
छन्दसि इति किं ? पुनर्वसू इति । ।


____________________________________________________________________


[#४८]

  1. <विशाखयोश्च># । । पाणिनीयसूत्र १,२.६२ । ।



_____काशिका १,२.६२:

छन्दसि इति वर्तते ।
द्विवचने प्राप्ते छन्दसि विषये विशाखयोरेकवचनं अन्यतरस्यां भवति ।
विशाखं नक्षत्रं इन्द्राग्नीं देवता ।
विशाखे नक्षत्रं इन्द्राग्नी देवता । ।

____________________________________________________________________


  1. <तिष्य-पुनर्वस्वोर्नक्षत्र-द्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्># । । पाणिनीयसूत्र १,२.६३ । ।



_____काशिका १,२.६३:

छन्दसि इति निवृत्तं ।
निष्यः एकः, पुनर्वसू द्वौ, तेषं द्वन्द्वो बह्व्-अर्थः ।
तत्र बहुवचने प्राप्ते द्विवचनं विधीयते ।
निष्यपुनर्वस्वोः नक्षत्र-विषये द्वन्द्वे बहुवचन-प्रसङ्गो नित्यं द्विवचनं भवति ।
उदितौ तिष्य-पुनर्वसू दृश्येते ।
तिष्य-पुनर्वस्वोः इति किं ? विशाखानुराधाः ।
नक्षत्रे इति किं ? तिष्यश्च माणवकः, पुनर्वसू माणवकौ, तिष्य-पुनर्वसवो माणवकाः ।
ननु च प्रकृतं एव नक्षत्र-ग्रहणं किम्-अर्थं पुनरुच्यते ।
पर्यायाणां अपि यथा स्याथ् ।
तिष्य-पुनर्वसू ।
पुष्य-पुनर्वसू ।
सिद्ध्य-पुनर्वसू ।
द्वन्द्वे इति किं ? यस्तिष्यस्तौ पुनर्वसू येषां ते इमे तिष्य-पुनर्वसवः ।
उन्मुग्धाः तिष्यादय एव विपर्ययेण दृश्यमाना बहुव्रीहिणोच्यन्ते ।
तेन नक्षत्र-समास एव अयं ।
बहुवचनस्य इति किं ? एकवचनस्य मा भूथ् ।
निष्य-पुनर्वसु इदं इति ।
सर्वो द्वन्द्वो विभाषा एकवद्भवति इत्यस्य+एतद एव ज्ञापकं ।
नित्य-ग्रहणं विकल्प-निवृत्त्य्-अर्थं । ।


____________________________________________________________________


  1. <ससूपाणां एकशेष एक-विभक्तौ># । । पाणिनीयसूत्र १,२.६४ । ।



_____काशिका १,२.६४:

समानं रूपं एषां इति सरूपाः ।
सरूपाणां शब्दानं एकविभक्तौ परत एकशेषो भवति ।
एकः शिष्यते तरे निवर्तन्ते ।
वृक्षश्च वृक्षश्च वृक्षौ ।
वृक्षश्च वृक्षश्च Vर्क्षश्च वृक्षाः ।
प्रत्यर्थं शब्द-निवेशान्न+एकेन अनेकस्य अभिधानं ।
तत्र अनेक-अर्थ-अभिधानेऽनेक-शब्दत्वं प्राप्तं तस्मादेकशेषः ।
सरुपाणां इति किं ? प्लक्षन्यग्रोधाः ।
रूप-ग्रहणं किं ? भिन्नेऽप्यर्थे यथा स्याथ् ।
अक्षाः ।
पादाः ।
माषाः ।
एकग्रहणं किं ? द्विबह्वोः शेषो मा भूथ् ।
शेषग्रहनं किं ? आदेशो मा भूथ् ।
एकविभक्तौ इति किं ? पयः पयो जरयति ।
ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहि । ।


____________________________________________________________________


  1. <वृद्धो यूना तल्-लक्षणश्चेद्-एव विशेषः># । । पाणिनीयसूत्र १,२.६५ । ।



_____काशिका १,२.६५:

शेषः इति वर्तते ।
यूना इति सहयोगे तृतीया ।
वृद्धो यूना सहवचने शिष्यते युवा निवर्तते ।
वृद्ध-शब्दः पूर्वाचार्य-सञ्ज्ञा गोत्रस्य अपत्यं अन्तर्हितं वृद्धं इति ।
वृद्ध-यूनोः सहवचने वृद्धः शिष्यते तल्-लक्षणश्चेदेव विशेषः ।
तदिति वृद्ध-यूनोर्निर्देशः ।
लक्षण-शब्दो निमित्त-पर्यायः ।
चेच्-छब्दो यद्यर्थे ।
एवकारोऽवधारणे ।
विशेषो वैरूप्यं ।
वृद्ध-युव-निमित्तकं एव यदि वैरूपयं भवति ततो वृद्धिः शिष्यते, युवा निवर्तते ।
समानायामाकृतौ वृद्ध-युव-प्रत्ययौ भिद्येते ।
गार्ग्यश्च गार्ग्याय्णश्च गार्ग्यौ ।
[#४९]

वत्स्यश्च वात्स्यायनश्च वात्स्यौ ।
वृद्धः इति किं ? गर्गश्च गार्ग्यायणश्च गर्गगार्गायणौ ।
यू ना इति किं ? गार्ग्यश्च गर्गश्च गार्ग्य-गर्गौ ।
तल्-लक्षणः इति किं ? गार्ग्य-वात्स्ययनौ ।
एवकारः किम्-अर्थः ।
भागवित्तिश्च भागवित्तिकश्च भागवित्ति-भागवित्तिकौ ।
कुत्सा सौवीरत्वं च भागवित्तिकस्य अपरो विशेषो विद्यते । ।


____________________________________________________________________


  1. < स्त्री पुंवच्-च># । । पाणिनीयसूत्र १,२.६६ । ।



_____काशिका १,२.६६:

शेषः इति वर्तते, वृद्धो यूना इति च सर्वं स्त्री वृद्धा यूना सहवचने शिष्यते, तल्-लक्षणश्चेद्-एव विशेषो भवति ।
पुंसः इव अस्याः कार्यं भवति ।
स्त्र्य्-अर्थः पुम्-अर्थवद्भवति ।
गर्गी च गर्ग्यायणश्च गार्ग्यौ ।
वात्सी च वात्स्यायनश्च वात्स्यौ ।
दाक्षी च दाक्षायाणश्च दाक्षी । ।


____________________________________________________________________


  1. <पुमान्स्त्रिया># । । पाणिनीयसूत्र १,२.६७ । ।



_____काशिका १,२.६७:

तल्-लक्षणश्चेद्-एव विशेषः इति वर्तते ।
वृद्धो यून इति निवृत्तं ।
स्त्रिया सहवचने पुमान्शिष्यते स्त्री निवर्तते ।
स्त्रीपुंसलक्षणश्चेदेव विशेषो भवति ।
ब्राह्मणश्च मयूरी च कुक्कुटमयूर्यौ ।
एवकरः किम्-अर्थः ।
इन्द्रश्च इन्द्राणी च इन्द्रेन्द्राण्यौ ।
पुंयोगादाख्यायां (*४,१.४८) इत्यपरो विशेषः ।
पुमानिति किं ? प्राक्च प्राचि च प्राक्प्राच्यौ ।
प्राकित्यवययं अलिङ्गं । ।


____________________________________________________________________


  1. <भ्रातृ-पुत्रौ स्वसृ-दुहितृभ्याम्># । । पाणिनीयसूत्र १,२.६८ । ।



_____काशिका १,२.६८:

यथा सङ्ख्यं भ्रातृ-पुत्र-शब्दौ शिष्येते सहवचने स्वसृ-दुहितृभ्यं ।
स्वस्रा सहवचने भ्रातृ-शब्दः शिष्यते ।
भ्राता च स्वसा च भ्रातरौ ।
दुहित्रा सहवचने पुत्र-शब्दः शिष्यते ।
पुत्रश्च दुहित च पुत्रौ । ।


____________________________________________________________________


  1. <नपुंसकं अनपुंसकेन-एकवच्-च-अस्य-अन्यतरस्याम्># । । पाणिनीयसूत्र १,२.६९ । ।



_____काशिका १,२.६९:

तल्-लक्षणश्चेद्-एव विशेषः इति वर्तते ।
नपुंसक-अनपुंसक-मात्र-कृते विशेषेऽनपुंसकेन सहवचने नपुंसकं शिष्यते, एकवच्च अस्य कार्यं भवति अन्यतरस्यां ।
शुक्लश्च कम्बलः, शुक्ला च बृहतिका, शुक्लं च वस्त्रं, तदिदं शुक्लं ।
तानि इमानि शुक्लानि ।
अनपुंसकेन इति किं ? शुक्लं च शुक्लं च शुक्लं च सुक्लानि ।
एकवच्च इति न भवति । ।

____________________________________________________________________


  1. <पिता मात्रा># । । पाणिनीयसूत्र १,२.७० । ।



_____काशिका १,२.७०:

अन्यतरस्यां इति वर्तते, न एकवतिति ।
मात्रा सहवचने पितृ-शब्दः शिष्यतेऽन्यतरस्यां ।
माता च पिता च पितरौ, मता-पितरौ इति वा । ।


____________________________________________________________________


[#५०]

  1. <श्वशुरः श्वस्रवा># । । पाणिनीयसूत्र १,२.७१ । ।



_____काशिका १,२.७१:

अन्यतरस्यां इति वर्तते ।
श्वस्र्वा सहवचने श्वशुर-शब्दः शिष्यते अन्यतरस्यां ।
श्वशुरश्च श्वश्रूश्च श्वशुरौ, श्वस्रू-श्वशुरौ इति वा । ।


____________________________________________________________________


  1. <त्यद्-आदीनि सर्वैर्नित्यम्># । । पाणिनीयसूत्र १,२.७२ । ।



_____काशिका १,२.७२:

तय्द्-आदीनि शब्द-रूपाणि सर्वैः सहवचने नित्यं शिष्यन्ते त्यद्-आदिभिरन्यैश्च ।
सर्व-ग्रहणं सकल्य-अर्थं ।
नित्य-ग्रहनं विकल्प-निवृत्त्य्-अर्थं ।
स च देवदत्तश्च तौ ।
यश्च देवदत्तश्च यौ ।
त्यद्-आदीनां मिथो यद्यत्परं तत्तच्छिस्यते ।
स च यश्च यौ ।
यश्च कश्च कौ । ।


____________________________________________________________________


  1. <ग्राम्य-पशु-सङ्घेष्वतरुणेशु स्त्री># । । पाणिनीयसूत्र १,२.७३ । ।



_____काशिका १,२.७३:

ग्राम्याणां पशूनां सङ्घाः ग्राम्य-पशु-सङ्घाः ।
एतेषु सहविवक्षायां स्त्री शिष्यते ।
पुमान्स्त्रिया (*१,२.६७) इति पुंसः शेषे प्राप्ते स्त्री-शेषो विधीयते ।
अतरुण-ग्रहणं सामर्थ्यात्पशु-विशेषनं ।
गाव इमाः ।
अजा इमाः ।
ग्राम्य-ग्रहनं किं ? रुरव इमे ।
पुषता इमे ।
पुशुषु इति किं ? ब्राह्मणाः ।
क्षत्रियाः ।
सङ्घेषु इति किं ? एतौ गवौ चरतः ।
अतरुणेसु इति किं ? वर्सा इमे ।
वर्करा इमे ।
अनेकशफेष्विति वक्तव्यं ।
इह मा भूथ् ।
अश्वा इमे । ।

इति स्रीजयादित्यविरचितायं काशिकायां वृत्तौ प्रथमाध्यायस्य द्वितीयः पादः । ।


____________________________________________________________________

[#५१]

  1. <भूवादयो धातवः># । । पाणिनीयसूत्र १,३.१ । ।



_____काशिका १,३.१:

भू इत्येवं आदयः शब्दाः क्रियावचना धातुसञ्ज्ञा भवन्ति ।
भू - भवति ।
एध - एधते ।
स्पर्ध - स्पर्धते ।
धातु-शब्दः पूर्वाचार्य-सञ्ज्ञा ।
ते च क्रियावचनानां सञ्ज्ञां कृतवन्तः ।
तदिह अपि पूर्वाचर्य-सञ्ज्ञाश्रयणात्क्रियावाचिनां एव भूवादीनां धातुसञ्ज्ञा विधीयते ।
भूवादीनां वकारोऽयं मङ्गल-अर्थः प्रयुज्यते ।
भूवो वार्थं वदन्ति इति भ्व्-अर्था वा वादयः स्मऋताः । ।
धातुप्रदेशाः - धातोः (*३,१.९१) इत्येवं आदयः । ।


____________________________________________________________________


  1. <उपदेशेऽज्-अनुनासिक इत्># । । पाणिनीयसूत्र १,३.२ । ।



_____काशिका १,३.२:

उपदिश्यतेऽनेन इत्युपदेशः शास्त्रवाक्यानि, सूत्रपाठः, खिलपाठश्च ।
तत्र योऽचनुनासिकः स इत्सञ्ज्ञो भवति ।
एध ।
स्पर्ध ।
प्रतिज्ञ-अनुनासिक्याः पाणिनीयाः ।
उपदेशे इति किं ? अभ्र आं अपः ।
अचिति किं ? अतो मनिन्-क्वनिब्-वनिपश्च (*३,२.७४) ।
अनुनासिकः इति किं ? सर्वस्य अचो मा भूथ् ।
इत्-प्रदेशाः - आद्-इतश्च (*७,२.१६) इत्येवं आदयः । ।

____________________________________________________________________


  1. <हल्-अन्त्यम्># । । पाणिनीयसूत्र १,३.३ । ।



_____काशिका १,३.३:

उपदेशे इति वर्त्ते ।
अन्ते भवं अन्त्यं ।
धात्वादेः समुदायस्य यद्-अन्त्यं हल्, तदित्सञ्ज्ञं भवति ।
ऐउण्- णकारः ।
ऋलृक्- ककारः ।
एओङ्- ङकरः ।
ऐऔच्- चकारः ।
उपदेशे इत्येव ।
अग्निचिथ् ।
सोमसुथ् ।
हस्य ल्हलिति द्वितीयं अत्र हल्-ग्रहणं तन्त्रेण+उपात्तं द्रष्टव्यं ।
तेन प्रत्याहार-पाठे हलित्यत्र लकारस्य इत्सञ्ज्ञा क्रियते ।
तथा च सति हलन्त्यं इत्यत्र प्रत्याहारे न+इतरेतराश्रय-दोषो भवति । ।


____________________________________________________________________


  1. <न विभक्तौ तुस्माः># । । पाणिनीयसूत्र १,३.४ । ।



_____काशिका १,३.४:

पूर्वेण प्राप्तायमित्सञ्ज्ञायां विभाक्तौ वर्तमानानां तवर्ग-सकार-मकरणां प्रतिषेध उच्यते ।
तवर्गः, टा-ङसि-ङसां इन-आत्-स्याः (*७,१.१२) - वृक्षात्, प्लक्षाथ् ।
सकारः, जस्- ब्राह्मणाः ।

[#५२]

तस्- पचतः ।
थस्- पचथः ।
मकारः - उपचत्ताम्, अपचतं ।
बिभक्तौ इति किं ? अचो यत्(*३,१.९७), ऊर्णाया युस्(*५,२.१२३), रुधादिभ्यः श्नं (*३,१.७८) ।
किमोऽत्(*५,३.१२), इटोऽत्(*३,४.१०६) इत्यत्र प्रतिषेधो न भ्वति , अनित्यत्व-आदस्य प्रतिषेधस्य ।
इदमस्थमुः (*५,३.२४) इत्युकार-अनुबन्ध-निर्देशादनित्यत्वं उपलक्ष्यते । ।


____________________________________________________________________


  1. <आदिर्ञि-टु-डवः># । । पाणिनीयसूत्र १,३.५ । ।



_____काशिका १,३.५:

इतिति वर्तते ।
आदि-शब्दः प्रतेकं अभिसम्बध्यते ।
ञि-टु-डु इत्येतेषां समुदयानां आदितो वर्तमानानां इत्य्सञ्ज्ञा भवति ।
ञि, ञिमिदा - मिन्नः ।
ञिधृषा - धृष्टः ।
ञिक्ष्विदा - क्ष्विण्णः ।
ञीन्धी - इद्धः ।
टु, टुवेपृ - वेपथुः ।
टुओश्वि - श्वयथौः ।
डु, डुपचष्- पक्त्रिमं ।
डुवप्- उप्त्रिमं ।
डुकृञ्कृत्रिमं ।
आदिः इति किं ? प्टूयति ।
क्ण्डूयति ।
उपदेषे इत्येव - ञिकारीयति । ।


____________________________________________________________________


  1. <षः प्रत्ययसय># । । पाणिनीयसूत्र १,३.६ । ।



_____काशिका १,३.६:

षकारः प्रत्ययसय आदिः इत्सञ्ज्ञः भवति ।
शिल्पिनि ष्वुन्(*३,१.१४५) - नर्तकी, रजकी ।
प्रत्ययस्य इति किं ? षोडः, षण्डः, षडिकः ।
आदिः इत्येव - अविमह्योष्टिषच्- अविषः, महिषः । ।


____________________________________________________________________


  1. <दुटू># । । पाणिनीयसूत्र १,३.७ । ।



_____काशिका १,३.७:

चवर्ग-टवर्गौ प्रत्ययस्यादी इत्सञ्जौ भवतः ।
गोत्रे कुञ्ज-आदिभ्यश्च्फः (*४,१.९८) - कौञ्जायनः ।
छस्य ईय-अदेशं वक्ष्यति ।
जस्- ब्राह्मणाः झस्य अन्त-आदेशं वक्ष्यति ।
शण्डिक-आदिभ्यो ञ्यः (*४,३.९२) - शाण्डिक्यः ।
तवर्गः, चरेष्टः (*३,२.१६) - कुरुचरी, मद्रचरी ।
ठस्य इक्-आदेशं वक्ष्यति ।
सप्तम्यां जनेर्डः (*३,२.९७) -उपसरजः, मन्दुरजः ।
ढस्य एय्-आदेशं वक्ष्यति ।
अन्नाण्-णं (*४,४.८५) - आन्नः ।
पृथग्योगकरणं अस्य विधेरनित्यत्वज्ञापन-अर्थं ।

[#५३]

तेन वित्तश्चुञ्चुप्-चणपौ (*५,२.२६) - केशचुञ्चुः, केशचणः ।
अवात्कुटारच्च (*५,२.३०), नते नासिकायाः सञ्ज्ञायां टिटञ्-नाट्ज्-भ्रटचः (*५,२.३१) - अवटीतः ।
आदिः इत्येव ।
कर्मणि घटोऽठच्(*५,२.३५) - कर्मठः । ।


____________________________________________________________________

  1. <ल-श-क्वतद्धिते># । । पाणिनीयसूत्र १,३.८ । ।



_____काशिका १,३.८:

तद्धित-वर्जितस्य प्रत्ययस्यादितो वर्तमाना लकार-शकार-कवर्गा इत्सञ्ज्ञा भवन्ति ।
लकरः, ल्युट्च (*३,३.११५) - चयनम्, जयनं ।
शकारः, कर्तरि शप्(*३,१.६८) - भवति, पचति ।
कवर्गः, क्तक्तवतू निष्ठा (*१,१.२६) - भुक्तः, भुक्तवथ् ।
प्रिय-वशो वदः खच्(*३,२.३८) - प्रियंवदः, वशंवदः ।
ग्ला-जि-स्थश्च ग्स्नुः (*३,२.१३९) - ग्लास्नुः, जिष्णुः, भूष्णुः ।
भञ्ज-भास-मिदो घुरच्(*३,२.१६१) - भुअङ्गुरं ।
टा-ङसिङसां इन-आत्-स्याः (*७,१.१२) - वृक्षात्, वृक्शस्य ।
अतद्धिते इति किं ? चूढालः ।
लोमशः ।
कर्णिका । ।


____________________________________________________________________


  1. <तस्य लोपः># । । पाणिनीयसूत्र १,३.९ । ।



_____काशिका १,३.९:

तस्य इत्सञ्ज्ञकस्य लोपो भवति ।
तथा च+एव+उदाहृतं ।
तस्य ग्रहणं सर्वलोप-अर्थम्, अलोऽन्त्यसय्(*१,१.५२) मा भूतादिर्ञिटुडवः (*१,३.५) इति । ।


____________________________________________________________________


  1. <यथा-सङ्ख्यं अनुदेशः समानाम्># । । पाणिनीयसूत्र १,३.१० । ।



_____काशिका १,३.१०:
सङ्ख्या-शब्देन क्रमो लक्ष्यते ।
यथा-सङ्ख्यं यथा-क्रमं अनुदेशो भवति ।
अनुदिश्यते इति अनुदेशः ।
पश्चादुच्चार्यते इत्यर्थः ।
समानां समसङ्ख्यानं समपरिपहितानां उद्देशिनां अनुदेशिनां च यथा-क्रममौद्देशिभिरनुदेशिनः सम्बध्यन्ते ।
तूदी-शलातुर-वर्मती-कूचवाराड्ढक्-छण्-ढञ्-यकः (*४,३.९४) ।
प्रथमात्प्रथमः, द्वितीयाद्द्वितीयः इत्यादि ।
तौदेयः ।
शालातुरीयः ।
वार्मतेयः ।
कौचवार्यः ।
समानां इति किं ? लक्षण-इत्थम्-भूत-आख्यान-भाग. वीप्सासु प्रति-पर्य्-अनवः (*१,४.९०) ।
लक्षणादयश्चत्वारोऽर्थाः, प्रत्यादयस्त्रयः, सर्वेषं सर्वत्र कर्मप्रवचनीय-सञ्ज्ञा भवति ।
इह कस्मान्न भवति वेशो-यश-आदेर्भगाद्यल्(*४,४.१३१) ख च (*४,४.१३२) इति ? स्वरितेन लिङ्गेन यथा-सङ्ख्यं ।
यत्र एष्यते, तत्र स्वरितत्वं न प्रतिज्ञायते ।
स्वरितेन अधिकारः (*१,३.११) इति स्वरित-ग्र्हणं पूर्वेण अपि सम्बध्यते । ।


____________________________________________________________________


  1. <स्वरितेन अधिकारः># । । पाणिनीयसूत्र १,३.११ । ।



_____काशिका १,३.११:

स्वरितेन इति इत्थं भूत-लक्षणे तृतीया ।
स्वरितो नाम स्वर-विशेषो वर्ण-धर्मः ।
तेन चिह्णेन अधिकारो विदितव्यः ।
अधिकारो विनियोगः ।
स्वरित-गुण-युक्तं शब्दरूपं अधिकृतत्वादुत्तरत्र+उपतिष्ठते ।
प्रतिज्ञा-स्वरिताः पाणिनीयाः ।
प्रत्ययः (*३,१.१) ।
धातोः (*३,१.९१) ।
ञ्य्-आप्-प्रातिपदिकात्(*४,१.१) ।
अङ्गस्य (*६,४.१) ।
भस्य (*६,४.१२९) ।
पदस्य (*८,१.१६) । ।

____________________________________________________________________


[#५४]

  1. <अनुदात्तङित आत्मनेपदम्># । । पाणिनीयसूत्र १,३.१२ । ।



_____काशिका १,३.१२:

अविशेषेण धातोरात्मनेपदं पर्स्मैपदं च विधास्यते, तत्र अयं नियमः क्रियते ।
अनुदात्त-इतो ये धतवो ङितश्च, तेभ्य एव आत्मनेपदं भवति न अन्येभ्यः ।
अनुदत्तेद्भ्यः, आस - आसते ।
वस - वस्ते ।
ङिद्भ्यः खल्वपि, षूङ्- सूते ।
शीङ्- शेते । ।


____________________________________________________________________


  1. <भाव-कर्मणोः># । । पाणिनीयसूत्र १,३.१३ । ।



_____काशिका १,३.१३:

लः कर्मणि च भावे च अकर्मकेभ्यः (*३,४.६९) इति भाव-कर्मणोर्विहितस्य लस्य तिब्-आदयः सामान्येन वक्ष्यन्ते ।
तत्र-इदं उच्यते, भावे कर्मणि च आत्मनेपदं भवति ।
भावे - ग्लाय्ते भवता, सुप्यते भवता, आस्यते भवता ।
कर्मणि - क्रियते कटः, ह्रियते भारः ।
कर्मकर्तरि, लूयते केदारः स्वयं एव इति, परस्मैपदं न भवति ।
तस्य विधाने द्वितीयं कर्तृ-ग्रहणं अनुवर्तते ।
तेन कर्तिव यः कर्ता तत्र प्रस्मैपदं भवति । ।


____________________________________________________________________

  1. <कर्तरि कर्म-व्यतिहारे># । । पाणिनीयसूत्र १,३.१४ । ।



_____काशिका १,३.१४:

कर्म-शब्दः क्रियवाची ।
व्यतिहारो विनिमयः ।
यत्र-अन्य-सम्बन्धिनीं क्रियामन्यः करोति, इतर-सम्बन्धिनीं चेतरः, स कर्म-व्यतिहारः ।
तद्धिशिष्ट-क्रियावचनाद्धातोरात्मनेपदं भवति ।
व्यतिलुनते ।
व्यतिपुनते ।
कर्म-व्यतिहारे इति किं ? लुनन्ति ।
कर्तृ-ग्रहणं उत्तर-अर्थं शेषात्कर्तरि परस्मैपदं (*१,३.७८) इति । ।


____________________________________________________________________


  1. <न गति-हिंसा-अर्थेभ्यः># । । पाणिनीयसूत्र १,३.१५ । ।



_____काशिका १,३.१५:

पूर्वेण आत्मनेपदं प्राप्तं प्रतिषिद्यते ।
गत्य्-अर्थेभ्यो हिंसा-अर्थेभ्यश्च धातुघ्यः कर्म-व्यतिहरे आत्मनेपदं न भवति ।
व्यतिगच्छन्ति ।
व्यतिसर्पन्ति ।
हिंसा-अर्थेभ्यः -- व्यतिहिंसन्ति ।
व्यतिघ्नन्ति ।
प्रतिषेधे हसादीनां उपसङ्ख्यनं ।
व्यतिहसन्ति ।
व्यतिजल्पन्ति ।
व्यतिपठन्ति ।
हरतेरप्रतिषेधः ।
संप्रहरन्ते राजानः । ।


____________________________________________________________________

  1. <इतरेतर-अन्योन्य-उपपदाच्च># । । पाणिनीयसूत्र १,३.१६ । ।



_____काशिका १,३.१६:

इतरेतरः, अन्योन्यः इत्येवं उपपदाद्धातोः कर्म-व्यतिहारे आत्मनेपदं न भवति ।
इतरेतरस्य व्यतिलुनन्ति ।
अन्योन्यस्य व्यतिलुनन्ति ।

[#५५]

परस्पर-उपपदाच्च+इति वक्तव्यं ।
पर्स्परस्य व्यतिलुनन्ति । ।


____________________________________________________________________


  1. <नेर्विशः># । । पाणिनीयसूत्र १,३.१७ । ।



_____काशिका १,३.१७:

शषात्कर्तरि पर्स्मैपदं (*१,३.७८) इति प्रस्मैपदे प्राप्ते नि-पूर्वाद्विश आत्मनेपदं विधीयते ।
नेः परस्माद्विश आत्मनेपदं भवति ।
निविशते ।
निविशन्ते ।
नेः इति किं ? प्रविशति ।
य-दागमास्तद्-ग्रहणेन गृह्यन्ते तेन अटा न अस्ति व्यवधानं ।
न्यविशत ।
नेरुपसर्गस्य ग्रहणम्, अर्थवद्-ग्रहने न अनर्थकस्य ग्रहणं इति ।
तस्मादिह न भवति, मधुनि विशान्ति भ्रमराः । ।


____________________________________________________________________


  1. <परिव्य्-अवेभ्यः क्रियः># । । पाणिनीयसूत्र १,३.१८ । ।



_____काशिका १,३.१८:

डुक्रिञ्द्रव्य-विनिमये ।
ञित्वात्कर्त्र्-अभिप्राये क्रियाफले सिद्धं आत्मनेपदं ।
अकर्त्र्-अभिप्राय-अर्थोऽयम्-आरम्भः ।
परिव्यवेभ्य उत्तरस्मात्क्रीणातेरात्मनेपदं भवति ।
परिक्रीणीते ।
विक्रीणीते ।
अवक्रीणीते ।
पर्यादय उपसर्गा गृह्यन्ते तेन+इह न भवति, वहुवि क्रीणाति वनं । ।


____________________________________________________________________


  1. <विपराभ्यां जेः># । । पाणिनीयसूत्र १,३.१९ । ।



_____काशिका १,३.१९:

शेषात्कर्तरि परस्मैपदं (*१,३.७८) इत्यस्य अपवादः ।
विपरा पूर्वाज्जयतेर्धातोरात्मनेपदं भवति ।
विजयते ।
पराजयते ।
विपरा-शब्दावुपसर्गौ गृह्येते साहचर्यथ् ।
तेन+इह न भवति, बहुवि जयति वनम्, परा जयति सेना इति । ।


____________________________________________________________________


  1. <अङो दोऽनास्य-विहरणे># । । पाणिनीयसूत्र १,३.२० । ।



_____काशिका १,३.२०:
अकर्त्र्-अभिप्रायर्थोऽयं आरम्भः ।
आङ्-पूर्वाद्ददातेरनास्य-विहरणे वर्तमानादात्मनेपदं भवति ।
विध्यामादत्ते ।
अनास्य-विहरणे इति किं ? आस्यं व्याददाति ।
आस्य-विहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः ।
विपादिकां व्याददाति ।
कुलं व्याददाति ।
स्वाङ्गकर्मकाच्च+इति वक्तव्यं ।
इह मा भूत्, व्याददते पिपीलिकाः पतङ्गस्य मुखं । ।


____________________________________________________________________


[#५६]

  1. <क्रीडोऽनु-सं-परिभ्यश्च># । । पाणिनीयसूत्र १,३.२१ । ।



_____काशिका १,३.२१:

क्रीडृ विहारे, एतस्मादनु सं परि इत्येवं पूर्वादाङ्-पूर्वाच्च-आत्मनेपदं भवति ।
अनुक्रीडते ।
सङ्क्रीडते ।
परिक्रीडते ।
आङः खल्वपि, आक्रीडते ।
समा साहचर्यादन्वादिरुपसर्गो गृह्यते, तेन+इह कर्मप्रवचनीय-प्रयोगे न भवति, माणवक-मनु क्रीडति ।
समोऽकूजने इति वक्तव्यं ।
सङ्क्रीडन्ति शकटानि ।
आगमेः क्षमायां आत्मनेपदं वक्तव्यं ।
क्षमा उपेक्षा, कालहरणं इति यावथ् ।
आगमयस्व तावन्माणवकं ।
शिक्षेर्जिज्ञासायां ।
विद्यासु शिक्षते ।
आशिषि नाथः ।
सर्पिषो नाथते ।
मधुनो नाथते ।
आशिषि इति किं ? माणवकमनुनाथति ।
हरतेर्गतताच्छील्ये ।
पैतृकमश्वा अनुहरन्ते ।
मातृकं गावोऽनुहरन्ते ।
गतताच्छील्ये इति किं ? मातुरनुहरति ।
किरतेर्हर्षजीविकाकुलायकरणेष्विति वक्तव्यं ।
अपस्किरते वृषभो हृष्टः ।
जीविकायां - अपस्किरते कुक्कुटो भक्षार्थी ।
कुलायकरणे -- अपस्किरते श्वा आश्रयार्थी ।
हर्षादिषु इति किं ? अपकिरति कुसुमं ।
आङि नुप्रच्छ्योरुपसङ्ख्यानं ।
आनुते सृगालः ।
आपृच्छते गुरुं ।
शप उपलम्भन इति वक्तव्यं ।
वाचा शरीर-स्पर्शनं उपलम्भनं ।
देवदत्ताय शपते ।
यज्ञदत्ताय शपते ।
उपलम्भने इति किं ? शपति । ।


____________________________________________________________________


[#५७]

  1. <समवप्रविभ्यः स्थः># । । पाणिनीयसूत्र १,३.२२ । ।



_____काशिका १,३.२२:

सं अव प्र वि इत्येवं पूर्वात्तिष्ठतेरात्मनेपदं भवति ।
संतिष्ठते ।
अवतिष्ठते ।
वितिष्ठते ।
आङः स्थः प्रतिज्ञाने इति वक्तव्यं ।
अस्तिं सकारं आतिष्ठते ।
आगमौ गुण-वृद्धी आतिष्ठते । ।


____________________________________________________________________


  1. <प्रकाशन-स्थेय-आख्यहोश्च># । । पाणिनीयसूत्र १,३.२३ । ।



_____काशिका १,३.२३:

स्वाभिप्रायकथनं प्रकाशनं ।
स्थेयस्य आख्या स्थेयाख्या ।
तिष्ठत्यस्मिन्निति स्थेयः ।
विवादपदनिर्णेता लोके स्थेयः इति प्रसिधः ।
तस्य प्रतिपत्त्य्-अर्थं आख्या-ग्रहणं ।
प्रकाशने स्थेय-आख्यायां च तिष्ठतेरात्मनेपदं भवति ।
प्रकाशने तावत्-- तिष्ठते कन्या धात्रेभ्यः ।
तिष्ठते वृषली ग्राम-पुत्रेभ्यः ।
प्रकाशयत्यात्मानं इत्यर्थः ।
स्थेय-आख्यायां -- त्वयि तिष्ठते ।
मयि तिष्ठते ।
संशय्य कर्णादिषु तिष्ठते यः । ।


____________________________________________________________________


  1. <उदोऽनूर्ध्व-कर्मणि># । । पाणिनीयसूत्र १,३.२४ । ।



_____काशिका १,३.२४:

उत्पूर्वात्तिष्ठतेरनूर्ध्व-कर्मणि वर्तमानादात्मनेपदं भवति ।
कर्मशब्दः क्रियावाची ।
अनूर्ध्वताविशिष्टक्रियावचनात्तिष्ठतेरात्मनेपदं भवति ।
गेहे उतिष्ठते ।
कुटुम्बे उत्तिष्ठते ।
तद्-अर्थं यतते इत्यर्थः ।
उद ईहायां इति वक्तव्यं ।
इह मा भूत्, अस्माद्ग्रामात्शतं उत्तिष्ठति ।
शतं उत्पद्यते इत्यर्थः ।
ईहग्रहणं अनूर्ध्व-कर्मण एव विशेषनं, न अपवादः ।
अनूर्ध्व-कर्मणि इति किं ? आसनादुत्तिष्ठति । ।


____________________________________________________________________


  1. <उपान्मन्त्र-करणे># । । पाणिनीयसूत्र १,३.२५ । ।



_____काशिका १,३.२५:

उपपूर्वात्तिष्थतेर्मन्त्रकरणेऽर्थे वर्तमानादात्मनेपदं भवति ।
ऐन्द्र्या गार्हपत्यं उपतिष्ठते ।
आग्नेय्या आनीघ्रं उपतिष्ठते ।
मन्त्रकरणे इति किं ? भर्तारं उपतिष्ठति यौवनेन ।
उपाद्देवपूजासङ्गतकरणमित्रकरणपथिष्विति वाच्यं ।
देवपूजायां --आदित्यं उपतिष्ठते ।
सङ्गतकरणे -- रथिकानुपतिष्ठते ।
मित्रकरणे -- महामात्रानुपतिष्ठते ।
मित्रकरणसङ्गतकरणयोः को विशेषः ? सङ्गतकरणं उपश्लेषः ।
तद्-यथा, गङ्गा यमुनां उपतिष्थते ।
मित्रकरणं तु विनाप्युपश्लेषेण मैत्रीसं Bन्धः ।
पथि - अयं पन्थाः स्त्रुघ्नं उपतिष्ठते ।

[#५८]

वा लिप्सायामिति वक्तव्यं ।
भिक्षुको ब्राह्मण-कुलं उपतिष्थते, उपतिष्ठति इति वा । ।


____________________________________________________________________


  1. <अकर्मकाच्च># । । पाणिनीयसूत्र १,३.२६ । ।



_____काशिका १,३.२६:

उपातिति वर्तते ।
उपपूर्वात्तिष्ठतेरकर्मकातकर्मक-क्रियावचनादात्मनेपदं भवति ।
यावद्भुक्तं उपतिष्ठते ।
यावदोदनुं उपतिष्ठते ।
भुक्तं इति भावे क्त-प्रत्ययः ।
भोजने भोजने सन्निधीयते इत्यर्थः ।
अकर्मकातिति किं ? राजानं उपतिष्ठति । ।


____________________________________________________________________


  1. <उद्-विभ्यां तपः># । । पाणिनीयसूत्र १,३.२७ । ।



_____काशिका १,३.२७:

अकर्मकातिति वर्तते ।
उत्वि इत्येवं पूर्वात्तपतेरकर्मक-त्रियावचनादात्मनेपदं भवति ।
उत्तपते ।
वितपते ।
दीप्यते इत्यर्थः ।
अकर्मकातित्येव ।
उत्तपति सुवर्णं सुवर्ण-कारः ।
वितपति पृथ्वीं सविता ।
स्वाङ्गकर्मकाच्च+इति वक्तव्यं ।
उत्तपते पाणिम्, उत्तपते पृष्ठं ।
वितपते पाणिम्, वितपते पृष्ठं ।
स्वाङ्गं च+इह न पारिभाषिकं गृह्यते अद्रवं मूर्तिमत्स्वाङ्गं इति ।
किं तर्हि ? स्वं अङ्गं स्वाङ्गं ।
तेन+इह न भवति, देवदत्तो यज्ञदत्तस्य पृष्ठं उत्तपति इति ।
उद्विभ्यां इति किं ? निष्टपति । ।


____________________________________________________________________

  1. <आङो यम-हनः># । । पाणिनीयसूत्र १,३.२८ । ।



_____काशिका १,३.२८:

अकर्मकातिति वर्तते ।
यम उपरमे, हन हिंसागत्योः इति परस्मैपदिनौ ।
ताभ्यां अकर्मक-क्रियावचनाभ्यां आङ्पूर्वाभ्यां आत्मनेपदं भवति ।
आयच्छते, आयच्छेते आयच्छन्ते ।
हनः खल्वपि -- आहते, आघ्नाते, आघ्नते ।
अकर्मकातित्येव ।
आयच्छति कूपाद्रज्जुं ।
आहन्ति वृषलं पादेन ।
स्वाङ्गकर्मकाच्च+इति वक्तव्यं ।
आयच्छते पाणिं ।
आहते शिरः ।
स्वाङ्गं च+इह न पारिभाषिकं गृह्यते ।
किं तर्हि ? स्वं अङ्गं स्वाङ्गं ।
तेन+इह न भवति , आहन्ति शिरः परकीयं इति । ।


____________________________________________________________________


  1. <समो गम्य्-ऋच्छि-प्रच्छि-स्वरत्यर्ति-श्रु-विदिघ्यः># । । पाणिनीयसूत्र १,३.२९ । ।



_____काशिका १,३.२९:

अकर्मकातिति वर्तते ।
शेषात्कर्तरि परस्मैपदं (*१,३.७८) इति प्राप्ते सम्पूर्वेभ्यो गमि ऋच्छि प्रच्छि स्वरति अर्ति श्रु विदि इत्येतेभ्योऽकर्मकेभ्यो धातुभ्य आत्मनेपदं भवति ।
सङ्गच्छते ।
अमृद्धते ।
संपृच्छते ।
संस्वरति ।
सङ्कल्पा अस्य समरन्त ।

[#५९]
अर्तेर्लुङि च्लेः सर्-ति-शास्त्य्-अर्तिभ्यश्च (*३,१.५६) ।
इत्यङ्-आदेशः ।
तत्र प्रस्मैपदेशु इत्येतन्नाश्रीयते ।
बहुलं छन्दस्यमाङ्योगेऽपि (*६,४.७५) इत्याट्प्रतिषध्यते ।
ऋदृशोऽङि गुणः (*७,४.१६) इति गुणः -- समरनत ।
संशृणुते ।
संवित्ते ।
ऋच्छेरनादेशस्य ग्रहणम्, समृच्छिष्यते ।
अर्त्य्-आदेशस्य त्वर्ति इत्येव सिद्धं आत्मनेपदं ।
अर्तिरुभयत्र पठ्यते, ऋ गति-प्रापणयोः इति भ्वादौ, ऋ सृ गतौ इति जुहोत्य्-आदौ ।
विशेषाभावाद्द्वयोरपि ग्रहणं ।
विदेर्ज्ञान-अर्थस्य ग्रहनम्, परस्मैपदिभिर्गमादिभिः साहचर्यात्, न लाभ-अर्थस्य स्वरितेत्त्वादुभ्यतोभाषस्य ।
दृशेश्च+इति वक्तव्यं ।
संपश्यते ।
अकर्मकातित्येव ।
ग्रामं संपस्यति । ।


____________________________________________________________________


  1. <नि-सम्-उप-विभ्यो ह्वः># । । पाणिनीयसूत्र १,३.३० । ।



_____काशिका १,३.३०:

अकर्मकातिति निवृत्तं ।
अतः परं सामान्येन आत्मनेपद-विधानं प्रतिपत्तव्यं ।
नि सं उप वि इत्येवं पूर्वात्ह्वयतेर्धातोरात्नमेपदं भवति ।
निह्वयते ।
संह्वयते उपह्वयते ।
विह्वयते ।
अकर्त्र्-अभिप्राय-अर्थोऽयम्-आरम्भः ।
अन्यत्र हि ञित्त्वात्सिद्धं एव-आत्मनेपदं ।
उपसर्गादस्यत्यूह्योर्वा वचनं ।
निरस्यति, निरस्यते ।
समूहति, समूहते । ।

____________________________________________________________________


  1. <स्पर्धायां आङः># । । पाणिनीयसूत्र १,३.३१ । ।



_____काशिका १,३.३१:

अकर्त्र्-अभिप्राय-अर्थोऽयम्-आरम्भः ।
स्पर्धायां विषये आङ्-पूर्वाद्ह्वयतेरात्मनेपदं भवति ।
स्पर्धा सङ्घर्षः, पराभिभवेछा, स विषयो धात्व्-अर्थस्य ।
धातुस्तु शब्दत्रिय एव ।
मल्लो मल्लं आह्वयते ।
छात्रश्छात्रं आह्वयते ।
स्पर्धमानस्तस्य-आह्वानं करोति इत्यर्थः ।
स्पर्धायां इति किं ? गां आह्वयति गोपालः । ।


____________________________________________________________________


  1. <गन्धन-अवक्षेपण-सेवन-साहसिक्य-प्रतिथत्न-प्रकथन-उपयोगेषु कृञः># । । पाणिनीयसूत्र १,३.३२ । ।



_____काशिका १,३.३२:

कर्त्र्-अभिप्राये क्रियाफले सिद्धं एव-आत्मनेपदं ।
अकर्त्र्-अभिप्रय-अर्थोऽयमारम्भः ।
गन्धन-आदिष्वर्थेषु वर्तमानत्करोतेरात्मनेपदं भवति ।
गन्धनं पकार-प्रयुक्तं हिंसात्मकं सूचनं ।
तथा हि, बस्त गन्ध अर्दने, अर्द हिंसायां इति चुर्-आदौ पथ्यते ।
अवक्षेपणं भर्त्सनं ।
सेवनं अनुवृत्तिः ।
साहसिक्यं साहसिकं कर्म ।
प्रतियत्नः सतो गुण-अन्तराधानं ।
प्रकथनं प्रकर्षेण कथनं ।
उपयोगो धर्मादि प्रयोजनो विनियोगः ।
गन्धने तावत्-- उत्कुरुते ।
उदाकुरुते ।
सूचयति इत्यर्थः ।
अवक्षेपणे -- श्येनो वर्तिकां उदाकुरुते ।
भर्त्सयति इत्यर्थः सेवते -- गणकानुपकुरुते ।
महामात्रानुपकुरुते ।
सेवते इत्यर्थः ।
साहासिक्ये -- परदारान्प्रकुरुते ।

[#६०]

तेषु सहसा प्रवर्तते इत्यर्थः ।
प्रतियत्ने -- एधो दकस्य+उपस्कुरुते ।
काण्डं गुडस्य+उपस्कुरुते ।
तस्य सतो गुणन्तराधानं करोति इत्यर्थः ।
षष्ठीसुटौ करोतेः प्रतियत्न एव विधीयेते ।
प्रकथने -- गाथाः प्रकुरुते ।
जनापवादान्प्रकुरुते ।
प्रकर्षेण कथयति इत्यर्थः ।
उपयोगे -- शतं प्रकुरुते ।
सहस्रं प्रकुरुते ।
धर्म-अर्थं शतं विनियुङ्क्ते इत्यर्थः ।
एतेषु इति किं ? कटं करोति । ।


____________________________________________________________________


  1. <अधेः प्रसहने># । । पाणिनीयसूत्र १,३.३३ । ।



_____काशिका १,३.३३:

अकर्त्र्-अभिप्राय-अर्थोऽयम्-आरम्भः ।
अधिपूर्वात्करोतेः प्रसहने वर्तमानातात्मनेपदं भवति ।
प्रसहनं अभिभवः अपराजयो वा ।
तं अधिचक्रे ।
तं अभिवभूव, न तेन प्राजितः इत्यर्थः ।
प्रसहने इति किं ? अर्थं अधिकरोति ।
पृथग्योगकरणं उपसर्ग-विशेषण-अर्थं । ।


____________________________________________________________________


  1. <वेः शब्द-कर्मणः># । । पाणिनीयसूत्र १,३.३४ । ।



_____काशिका १,३.३४:

कृञः इत्यनुवर्तते ।
विपूर्वत्करोतेरकर्त्रभिप्राये क्रियाफले शब्दकर्मण आत्मनेपदं भवति ।
कर्मशब्द इह कारकाभिधायी, न क्रियावचनः ।
क्रोष्टा विकुरुते स्वरान् ।
ध्वाङ्क्षो विकुरुते स्वरान् ।
शब्दकर्मणः इति किं ? विकरोति पयः । ।


____________________________________________________________________


  1. <अकर्मकाच्च># । । पाणिनीयसूत्र १,३.३५ । ।



_____काशिका १,३.३५:

वेः कृञ इत्यनुवर्तते ।
विपूर्वात्करोतेरकर्मकादकर्मक-क्रियावचनादात्मनेपदं भवति ।
विकुर्वते सैन्धवाः ।
साधु दान्ताः शोभनं वल्गन्ति इत्यर्थः ।
ओदनस्य पूर्णाश्छात्रा विकुर्वते ।
निष्फलं चेष्टन्ते इत्यर्थः । ।


____________________________________________________________________


  1. <सम्मानन-उत्सञ्जन-आचार्यकरण-ज्ञान-भृति-विगणन-व्ययेषु नियः># । । पाणिनीयसूत्र १,३.३६ । ।



_____काशिका १,३.३६:

णीञ्प्रापणे ।
अस्मात्कर्त्र्-अभिप्राये क्रियाफले सिद्धं एव-आत्मनेपदं ।
अकर्त्र्-अभिप्रयार्थोऽयं आरम्भः ।
णीञ्प्राप्णे इत्येतस्मात्धातोरात्मनेपदं भवति सम्मानन-आदिषु विशेषणेषु सत्सु ।
सम्माननं पूजनं -- नयते चार्वी लोकायते ।
चार्वी बुद्धिः, तत्-सम्बन्धादचार्येऽपि चार्वी ।
स लोकायते शास्त्रे पद-अर्थान्नयते, उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयति ।
ते युक्तिभिः स्थाप्यमानाः सम्मानिताः पूजिता भवन्ति ।
उत्सञ्जनं उत्क्षेपणं -- माणवकं उदानयते ।
उत्क्षिपति इत्यर्थः ।
आचार्य-करणं आचार्यक्रिया -- माणवकं ईदृशेन विधिना आत्म-समीपं प्राप्यति यथा स उपनेता स्वयं आचार्यः सम्पद्यते ।
माणवकं उपनयते ।
आत्मानं आचार्यीकुर्वन्माणवकं आत्म-समीपं प्रापयति इत्यर्थः ।
ज्ञानं प्रमेय-निश्चयः -- नयते चर्वी लोकयते ।
तत्र प्रमेयं निश्चिनोति इत्यर्थः ।
भृतिर्वेतनं -- कर्मकरानुपनयते ।
भृतिदानेन समीपं करोति इत्यर्थः ।
विगणनं ऋणादेर्निर्यातनं -- मद्राः करं विनयन्ते ।
निर्यातयन्ति इत्यर्थः ।
व्ययो धर्म-आदिषु विनियोगः ।
शतं विनयते ।
सहस्रं विनयते ।
धर्म-आद्य्-अर्थं शतं विनियुङ्क्ते इत्यर्थः ।
एतेषु इति किं ? अजां नयति ग्रामं । ।


____________________________________________________________________


[#६१]

  1. <कर्तृस्थे च शरीरे कर्मणि># । । पाणिनीयसूत्र १,३.३७ । ।


_____काशिका १,३.३७:

नयतेः कर्ता देवदत्त-आदिर्लकारवाच्यः ।
कर्तृस्थे कर्मण्यशरीरे सति नयतेरात्मनेपदं भवति ।
शरीरं प्राणिकायः, तद्-एकदेशोऽपि शरीरं ।
क्रोधं विनयते ।
मन्युं विनयते ।
कर्तृस्थे इति किं ? देवदत्तो यज्ञदत्तस्य क्रोधं विनयतेइ ।
अशरीरे इति किं ? गडुं विनयति ।
घाटां विनयति ।
कर्मणि इति किं ? बुद्ध्या विनयति ।
प्रज्ञया विनयति । ।


____________________________________________________________________


  1. <वृत्ति-सर्ग-तायनेषु क्रमः># । । पाणिनीयसूत्र १,३.३८ । ।



_____काशिका १,३.३८:

शेषत्कर्तरि परस्मैपदे प्राप्ते वृत्त्य्-आदिश्वर्थेशु कर्मेर्धतोरात्मनेपदं भवति ।
वृत्तिरप्रतिबन्धः ।
सर्ग उत्साहः ।
तायनं स्फीतता ।
वृत्तौ तावत्--ऋक्ष्वस्य क्रमते बुद्धिः ।
न प्रतिहन्यते इत्यर्थः ।
यजुःष्वस्य क्रमते बुद्धिः ।
सर्गे -- व्याकरण-अध्ययनाय क्रमते ।
उत्सहते इत्यर्थः ।
तायते -- अस्मिन्शास्त्रापि क्रमन्ते ।
स्फीतीभवन्ति इत्यर्थः ।
एतेषु इति किं ? अपक्रामति । ।


____________________________________________________________________

  1. <उप-पराभ्याम्># । । पाणिनीयसूत्र १,३.३९ । ।



_____काशिका १,३.३९:

वृत्ति-सर्ग-तायनेषु इति वर्तते ।
उपपरापूर्वात्क्रमतेर्वृत्त्य्-आदिश्वर्थेषु वर्तमानादात्मनेपदं भवति ।
किम्-अर्थं तर्हि इदं उच्यते ? उपसर्ग-नियम-अर्थं ।
सोपसर्गादुप-परा-पूर्वादेव, न अन्य-पूर्वातिति ।
उपक्रमते ।
पराक्रमते ।
उपपराभ्यां इति किं ? सङ्क्रामति ।
वृत्त्य्-आदिष्वित्येव ।
उपक्रामति ।
पराक्रामति । ।


____________________________________________________________________


  1. <आङ उद्गमने># । । पाणिनीयसूत्र १,३.४० । ।



_____काशिका १,३.४०:

आङ्-पूर्वात्क्रमतेरुद्गमने वर्तमानादात्मनेपदं भवति ।
आक्रमते आदित्यः ।
आक्रमते चन्द्रमाः ।
आक्रमन्ते ज्योतींषि ।
उद्गनमे इति किं ? आक्रामति माणवकः कुतुपं ।
ज्योतिरुद्गमने इति वक्तव्यं ।
इह मा भूत्, आक्रमति धूमो हर्म्यतलात् । ।


____________________________________________________________________


  1. <वेः पाद-विहरणे># । । पाणिनीयसूत्र १,३.४१ । ।


_____काशिका १,३.४१:

वि-पूर्वात्क्रमतेः पद-विहरणेऽर्थे वर्तमानादात्मनेपदं भवति ।
विहरणं विक्षेपः ।
सुष्ठु विक्रमते ।
साधु विक्रमते ।
अश्वादीनां गतिविशेषो विक्रमणं उच्यते ।
यद्यपि क्रमिः पाद-विहरण एव पठ्यते, क्रमु पाद-विक्षेपे इति, तथा-अप्यनेकार्थत्वाद्धातूनां एवं उक्तं ।
पादविहरणे इति किं ? विक्रामत्यजिनसन्धिः । ।


____________________________________________________________________


[#६२]

  1. <प्र-उपाभ्यां समर्थाभ्याम्># । । पाणिनीयसूत्र १,३.४२ । ।



_____काशिका १,३.४२:

प्र उपित्येताभ्यां परस्मात्क्रमतेरात्मनेपदं भवति, तौ चेत्प्रोपौ समर्थौ तुल्य-अर्थौ भवतः ।
क्व चानयोस्तुल्य-अर्थता ? आदिकर्मणि ।
प्रक्रमते भोक्तुं ।
उपक्रमते भोक्तुं ।
समर्थाभ्यां इति किं ? पूर्वेध्युः प्रक्रामति ।
गच्छति इत्यर्थः ।
अपरेध्युरुपक्रामति ।
आगच्छति इत्यर्थः ।
अथ उपपराभ्यां (*१,३.३९) इत्यनेन आत्मनेपदं अत्र कर्मान्न भाति ? वृत्त्यादि-ग्रहणं तत्र अनुवर्तते ।
ततोऽन्यत्र+इदं प्रत्युदाहरणं । ।


____________________________________________________________________


  1. <अनुपसर्गाद्वा># । । पाणिनीयसूत्र १,३.४३ । ।


_____काशिका १,३.४३:

क्रमः इति वर्तते ।
अप्राप्त-विभाषेयं ।
उपसर्ग-वियुक्तात्क्रमतेरात्मनेपदं वा भवति ।
क्रमते ।
क्रामति ।
अनुपसर्गातिति किं ? सङ्क्रामति । ।


____________________________________________________________________


  1. <अपह्नवे ज्ञः># । । पाणिनीयसूत्र १,३.४४ । ।



_____काशिका १,३.४४:

शेषात्कर्तरि प्रस्मैपदे प्राप्ते जानतेरपह्नवि वर्तमनादात्मनेपदं भवति ।
अपह्नवोऽपह्नुतिरपलापः ।
सोपसर्गश्च अयम्-अपह्नवे वर्तते, न केवलः ।
शतं अपजनीते ।
सहस्रं अपजानीते ।
अपलपति इत्यर्थः ।
अपह्नवे इति किं ? न त्वं किञ्चदपि जानासि । ।


____________________________________________________________________


  1. <अकर्मकाच्च># । । पाणिनीयसूत्र १,३.४५ । ।



_____काशिका १,३.४५:

अकर्त्र्-अभिप्राय-अर्थं इदं ।
कर्त्र्-अभिप्राये हि अनुपसर्गाज्ज्ञः (*१,३.७६) इति वक्ष्यति ।
जानातेरकर्मकादकर्मक-क्रियावचनादात्मनेपदं भवति ।
सर्पिशो जानीते ।
मधुनो जानीते ।
कथं च अयं अकर्मकः ? न अत्र सर्पिर्-आदि ज्ञेयत्वेन विवक्षितं ।
किं तर्हि ? ज्ञान-पूर्विकायां प्रवृत्तौ करणत्वेन ।
तथा च ज्ञोऽविद्-अर्थस्य करणे (*२,३.५१) इति षष्ठी विधीयते -- सर्पिषो जानीते, मधुनो जानीते ।
सर्पिशा उपायेन प्रवर्तते इत्यर्थः ।
अकर्मकातिति किं ? स्वरेण पुत्रं जानाति । ।


____________________________________________________________________


  1. <सं-प्रतिभ्यां अनाध्याने># । । पाणिनीयसूत्र १,३.४६ । ।



_____काशिका १,३.४६:

ज्ञः इति वर्तते ।
सकर्मक-अर्थं इदं ।
सं प्रति इत्येवं पूर्वाज्जानातेरनाध्याने वर्तमानादात्मनेपदं भवति ।
आध्यानं उत्कण्ठास्मरणं ।
शतं संजानीते ।
सहस्रं संजानीते ।
शतं पतिजानीते ।
सहस्रं प्रतिजानीते ।
अनाध्याने इति किं ? मातुः सञ्जानाति ।
पितुः सञ्जानाति ।
उत्कण्ठते इत्यर्थः । ।


____________________________________________________________________


  1. <भासन-उपसम्भाषा-ज्ञान-यत्न-विमत्य्-उपमन्त्रणेषु वदः># । । पाणिनीयसूत्र १,३.४७ । ।



_____काशिका १,३.४७:
शेषात्कर्तरि परस्मैपदे प्राप्ते भासन-आदिशु विशेषणेषु सत्सु वदतेरात्मनेपदं भवति ।
भासनं दीप्तिः -- वदते चार्वी लोकायते ।
भासमानो दीप्यमानस्तत्र पदार्थान्व्यक्तीकरोति इत्यर्थः ।
उपसम्भाषा उपसान्त्वनं - कर्मकरानुपवदते ।

[#६३]

उपसान्त्वयति इत्यर्थः ।
ज्ञानं सम्यगवबोधः -- वदते चार्वी लोकायते ।
जानाति वदितुं इत्यर्थः ।
यत्न उत्साहः -- क्षेत्रे वदते ।
गेहे वदते ।
तद्-विषयं उत्साहं आविष्करोति इत्यर्थः ।
विमतिर्नानामतिः - क्षेत्रे विवदन्ते ।
गेहे विवदन्ते ।
विमतिपतिता विचित्रं भाषन्ते इत्यर्थः ।
उपमन्त्रणं रहस्युपच्छन्दनं - कुलभार्यां उपवदते ।
परदारानुपवदते ।
उपच्छन्दय्ति इत्यर्थः ।
एतेषु इति किं ? यत्किञ्चिद्वदति । ।


____________________________________________________________________


  1. <व्यक्तवाचां समुच्चारणे># । । पाणिनीयसूत्र १,३.४८ । ।



_____काशिका १,३.४८:

वदः इति वर्तते ।
व्यक्तवाचां समुच्चारणं सहोच्चारणं ।
तत्र वर्तमानाद्वदतेरात्मनेपदं भवति ।
ननु वद व्यक्तायां वाचि इत्येव पठ्यते, तत्र किं व्यक्तवाचां इति विशेषणेन ? प्रसिद्ध्य्-उपसंग्रह-अर्थं एतथ् ।
व्यक्तवाचः इति हि मनुष्याः प्रसिद्धाः ।
तेषां समुच्चारणे यथा स्याथ् ।
संप्रवदन्ते ब्राह्मणाः ।
संप्रवदन्ते क्षत्रियाः ।
व्यक्तवाचां इति किं ? संप्रवदन्ति कुक्कुटाः ।
समुच्चारणे इति किं ? ब्राह्मणो वदति ।
क्षत्रियो वदति । ।


____________________________________________________________________


  1. <अनोरकर्मकात्># । । पाणिनीयसूत्र १,३.४९ । ।



_____काशिका १,३.४९:

वदः इति, व्यक्तवाचां इति च वर्तते ।
अनुपूर्वाद्वदतेरकर्मकाद्व्यक्तवाग्विषयादात्मनेपदं भवति ।
अनुवदते कठः कलापस्य ।
अनुवदते मौद्गः पैप्पलादस्य ।
अनुः सादृश्ये ।
यथा कलापोऽधीयानो वदति तथा कठः इत्यर्थः ।
अकर्मकातिति किं ? पूर्वं एव यजुरुदितं अनुवदति ।
व्यक्तवाचं इत्येव ।
अनुवदति वीणा । ।


____________________________________________________________________


  1. <विभाषा विप्रलापे># । । पाणिनीयसूत्र १,३.५० । ।



_____काशिका १,३.५०:

वदः इति वर्तते, व्यक्तवाचां समुच्चारणे इति च ।
विप्रलापात्मके व्यक्तवाचां समुच्चारने वर्तमानाद्वदतेरात्मनेपदं भवति विभाषा ।
प्राप्त-विभाषेयं ।
विप्रवदन्ते संवत्सराः, विप्रवदन्ति सांवत्सराः ।
विप्रवदन्ते मौहूर्ताः, विप्रवदन्ति मौहूर्ताः ।
युगपत्परस्पर-प्रतिषेधेन विरुद्धं वदन्ति इत्यर्थः ।
विप्रलापे इति किं ? संप्रवदन्ते ब्राह्मणाः ।
व्यक्तवाचां इत्येव ।
विप्रवदन्ति शकुनयः ।
समुच्चारणे इत्येव ।
क्रमेण मौहूर्ता मौहूर्तेन सह विप्रवदन्ति । ।


____________________________________________________________________


[#६४]

  1. <अवाद्ग्रः># । । पाणिनीयसूत्र १,३.५१ । ।



_____काशिका १,३.५१:

ग्é निगरणे इति तुदादौ पठ्यते, तस्य+इदं ग्रहणं ।
न तु ग्é शब्दे इति क्र्यादिपठितस्य ।
तस्य ह्यवपूर्वस्य प्रयोग एव न अस्ति ।
शेषात्कर्तरि पर्स्मैपदे प्राप्ते अवपूर्वाद्गिरतेरात्मनेपदं भवति ।
अवगिरते, अवगिरेते, अवगिरन्ते ।
अवातिति किं ? गिरति । ।


____________________________________________________________________


  1. <समः प्रतिज्ञाने># । । पाणिनीयसूत्र १,३.५२ । ।



_____काशिका १,३.५२:

ग्रः इति वर्तते ।
संपूर्वात्गिरतेः प्रतिज्ञाने वर्तमानादात्मनेपदं भवति ।
प्रतिज्ञानं अभ्युपगमः ।
शतं संगिरते ।
निर्यं शब्दं संगिरते ।
प्रतिज्ञाने इति किं ? सङ्गिरति ग्रासं । ।


____________________________________________________________________


  1. <उदश्चरः सकर्मकात्># । । पाणिनीयसूत्र १,३.५३ । ।



_____काशिका १,३.५३:

शेषात्कर्तरि परस्मैपदे प्राप्ते उत्पूर्वाच्चरतेः सकर्मक-क्रियाअवचनादात्मनेपदं भवति ।
गेहं उच्चरते ।
कुटुम्बं उच्चरते ।
गुरुवचनं उच्चरते ।
उत्क्रम्य गच्छति इत्यर्थः ।
सकर्मकातिति किं ? वाष्पं उच्चरति । ।


____________________________________________________________________


  1. <संस्तृतीया-युक्तात्># । । पाणिनीयसूत्र १,३.५४ । ।



_____काशिका १,३.५४:

सम्पूर्वाच्चरतेस्तृतीयायुक्तादात्मनेपदं भवति ।
तृतीया इति तृतीया-विभक्तिर्गृह्यते, तया चरतेरर्थद्वारको योगः ।
अश्वेन सञ्चरते ।
तृतीया-युक्तातिति किं ? उभौ लोकौ सञ्चरसि इमं च अमुं च देवल ।

[#६४]

यद्यप्यत्र तद्-अर्थ-योगः सम्भवति, तृतीया तु न श्रूयते, इति प्रत्युदाहरणं भवति । ।


____________________________________________________________________

  1. <दाणश्च सा चेच्चतुर्थ्य्-अर्थे># । । पाणिनीयसूत्र १,३.५५ । ।



_____काशिका १,३.५५:

चाण्दाने परस्मैपदी ।
ततः सम्पूर्वात्तृतीया-युक्तातात्मनेपदं भवति, सा चेत्तृतीया चतुर्थ्य्-अर्थे भवति ।
कथं पुनस्तृतीया चतुर्थ्य्-अर्थे स्यात्? वक्तव्यं एव+एतत्-- अशिष्टव्यवहारे तृतीया चतुर्थ्य्-अर्थे भवति इति वक्तव्यं ।
दास्य संप्रयच्छते ।
वृषल्या संप्रयच्छते ।
कामुकः सन्दास्यै ददाति इत्यर्थः ।
चतुर्थ्य्-अर्थे इति किं ? पाणिना सम्प्रयच्छति ।
समः प्रशब्देन व्यवधाने कथं आत्मनेपदं भवति ? समः इति विशेषणे षष्ठी, न पञ्चमी । ।


____________________________________________________________________


[#६५]

  1. <उपाद्यमः स्वकरने># । । पाणिनीयसूत्र १,३.५६ । ।



_____काशिका १,३.५६:

शेषात्कर्तरि परस्मैपदे प्राप्ते उपपूर्वात्यमः स्वकरणे वर्तमानादात्मनेपदं भवति ।
पाणि-ग्रहण-विशिष्टं इह स्वकरनं गृह्यते, न स्वकरण-मात्रं ।
भार्यां उपयच्छते ।
स्वकरणे इति किं ? देवदत्तो यज्ञदत्तस्य भार्यां उपयच्छति । ।


____________________________________________________________________


  1. <ज्ञा-श्रु-स्मृ-दृशां सनः># । । पाणिनीयसूत्र १,३.५७ । ।



_____काशिका १,३.५७:

ज्ञा श्रु समृ दृशित्येतेषां सन्नन्तानां आत्मनेप्दं भवति ।
तत्र जानातेः अपह्नवे ज्ञः (*१,३.४४) इति त्रिभिः सूत्रैरात्मनेपदं विहितम्, श्रु-दृशोरपि समो गम्यृच्छि (*१,३.२९) इत्यत्र विहितं ।
तस्मिन्विषये पूर्ववत्सनः (*१,३.६२) इत्येव सिद्धं आत्मनेपदं ।
ततोऽन्यत्र अनेन विधीयते ।
स्मरते पुनरप्राप्त एव विधानं ।
धर्मं जिज्ञासते ।
गुरुं शुश्रूषते ।
नष्टं सुस्मूर्षते ।
नृपं दिदृक्षते ।
सनः इति किं ? जानाति, शृणोति, स्मरति, पष्यति । ।


____________________________________________________________________


  1. <न अनोर्ज्ञः># । । पाणिनीयसूत्र १,३.५८ । ।



_____काशिका १,३.५८:

पूर्वेण योगेन प्राप्तं आत्मनेपदं प्रतिषिध्यते ।
अनुपूर्वाज्जानातेः सन्नन्तादात्मनेपदं न भवति ।
तथा च सति सकर्मकस्य+एव अयं प्रतिषेधः सम्पद्यते ।
पुत्रं अनुजिज्ञासति ।
अनोः इति किं ? धर्मं जिज्ञासते । ।


____________________________________________________________________


  1. <प्रत्य्-आङ्भ्यां श्रुवः># । । पाणिनीयसूत्र १,३.५९ । ।



_____काशिका १,३.५९:

प्रति आङित्येवं पूर्वाच्-छृणोतेः सन्नन्तादात्मनेपदं न भवति ।
प्रतिशुश्रूषति ।
आशुश्रूषति ।
उपसर्ग-ग्रहणं चेदं, तस्मादिह प्रतिषेधो न भवति , देवदत्तं प्रति शुश्रूषते । ।


____________________________________________________________________


  1. <शदेः शितः># । । पाणिनीयसूत्र १,३.६० । ।



_____काशिका १,३.६०:

शद्लृ शातने परस्मैपदी, तस्मादात्मनेपदं विधीयते ।
शदिर्यः शित्, शिद्भावी, शितो वा सम्बन्धी तस्मादात्मनेपदं भवति ।
शीयते, शीयेते, शीयन्ते ।
शितः इति किं ? अशत्स्यथ् ।
शत्स्यति ।
शिशत्सति । ।


____________________________________________________________________


[#६६]

  1. <म्रियतेर्लुङ्-लिङोश्च># । । पाणिनीयसूत्र १,३.६१ । ।



_____काशिका १,३.६१:

म्र्ङ्प्राणत्यागे ।
ङित्त्वादात्मनेपदं अत्र सिद्धं एव ।
नियम-अर्थं इदं वचनं ।
म्रियतेर्लुङ्-लिङोः शितश्च-आत्मनेपदं भवति, अन्यत्र न भवति ।
अमृत ।
मृषीष्ट ।
शितः खल्वपि - म्रियते, म्रियेते, म्रियन्ते ।
नियमः किम्-अर्थः ? मरिश्यति ।
अमरिस्यत् । ।


____________________________________________________________________


  1. <पूर्ववत्सनः># । । पाणिनीयसूत्र १,३.६२ । ।


_____काशिका १,३.६२:

सनः पूर्वो यो धातुः आत्मनेपदी, तद्वत्सन्नन्तादात्मनेपदं भवति ।
येन निमित्तेन पूर्वस्मादात्मनेपदं विधीयते तेन+एव सन्नन्तादपि भवति ।
अनुदात्त-ङित आत्मनेपदं (*१,३.१२) -- आस्ते, शेते ।
सन्नन्तादपि तदेव निमित्तं - आसिसिषते, शिशयिषते ।
नेर्विशः (*१,३.१७) -- निविशते, निविविक्षते ।
आङ उद्गम्ने (*१,३.४०) -- आक्रमते, आचिक्रंसते ।
इह न भवति, शिशत्सति, मुमूर्षति ।
न हि शदिम्रियतिमात्रं आत्मनेपदनिमित्तं ।
किं तर्हि ? शिदाद्यपि, तच्च+इह न अस्ति ।
यस्य च पूर्वत्र+एव निमित्त-भावः प्रतिशिध्यते, तत्सन्नन्तेश्वप्यनिमित्तं -- अनुचिकीर्षति ।
पराचिकीर्षति ।
इह जुगुप्सते, मीमांसते इति ? अनुदात्त-ङित इत्येव सिद्धं आत्मनेप्दं ।
अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति इति । ।


____________________________________________________________________


  1. <आम्-प्रत्ययवत्कृञोऽनुप्रयोगस्य># । । पाणिनीयसूत्र १,३.६३ । ।



_____काशिका १,३.६३:

अकर्त्र्-अभिप्राय-अर्थोऽयम्-आरम्भः ।
आम्-प्रत्ययो यस्मात्सोऽयम्-आम्-प्रत्ययः ।
आम्-प्रत्ययस्य+इव धातोः कृञोऽनुप्रयोगस्य आत्मनेपदं भवति ।
ईक्षाञ्चक्रे ।
ईहाञ्चक्रे ।
यदि विध्य्-अर्थं एतत्, तर्हि उदुब्जाञ्चकार, उदुम्भाञ्चकार इति कर्त्र्-अभिप्राये क्रियाफले अत्मनेपदं प्राप्नोति ।
न+एष दोषः ।
उभयं अनेन क्रियते, विधिः नियमश्च ।
कथं ? पूर्ववतिति वर्तते ।
स द्वितीयो यत्नो नियम-अर्थो भविष्यति ।
कृञः इति किं ? ईक्षामास ।
ईक्षाम्बभूव ।
कथं पुनरस्य अनुप्रयोगः यावता कृञ्च अनुप्रयुज्यते लिति (*३,१.४०) इत्युच्यते ? कृञिति प्रत्याहार-ग्रहणं तत्र विज्ञायते ।
क्व संनिविष्टानां प्रत्याहारः ? अभूततद्भावे कृ-भ्व्-अस्तियोगे सम्पद्यकर्तरि च्विः (*५,४.५०) इति कृ-शब्दादारभ्य यावत्कृञो द्वितीय-तृतीय-शम्ब-बीजात्कृषौ (*५,४.५८) इति ञकरं । ।


____________________________________________________________________


  1. <प्र-उपाभ्यां युजेरयज्ञ-पात्रेषु># । । पाणिनीयसूत्र १,३.६४ । ।



_____काशिका १,३.६४:

युजिर्योगे स्वरितेथ् ।
तस्य कर्त्र्-अभिप्राये क्रिया-फले सिद्धं एव आत्मनेपदं ।
अकर्त्र्-अभिप्रायार्थोऽयम्-आरम्भः ।
प्र उप इत्येवं पूर्वात्युजेरयज्ञ-पात्र-प्रयोगविषयादात्मनेपदं भवति ।
प्रयुङ्क्ते ।
उपयुङ्क्ते ।
अयज्ञपात्रेषु इति किं ? द्वन्द्वं न्यञ्च पात्राणि प्रयुनक्ति {देवसंयुक्तानि} ।

[#६७]

स्वराध्यन्तोपसृष्टादिति वक्तव्यं ।
उद्युङ्क्ते ।
नियुङ्क्ते ।
स्वराद्यन्त-उपसृष्तातिति किं ? संयुनक्ति । ।


____________________________________________________________________

  1. <समः क्ष्णुवः># । । पाणिनीयसूत्र १,३.६५ । ।



_____काशिका १,३.६५:

क्ष्णु तेजने परस्मैपदी ।
ततः सम्पूर्वातात्मनेपदं भवति ।
समो गम्य्-ऋच्छि (*१,३.२९) इत्यत्र+एव कस्मान्न पठितः ? अकर्मकातिति तत्र वर्तते ।
संक्ष्णुते षस्त्रं ।
संक्ष्णुवाते, संक्ष्णुवते । ।


____________________________________________________________________


  1. <भुजोऽनवने># । । पाणिनीयसूत्र १,३.६६ । ।



_____काशिका १,३.६६:

भुज पालनाभ्यवहारयोः इति रुधादौ पठ्यते ।
तस्मादनवनेऽपालने वर्तमानादात्मनेपदं भवति ।
भुङ्क्ते, भुञ्जाते, भुञ्जते ।
अनवने इति किं ? भुनक्त्येनं अग्निराहितः ।
अनवन इति प्रतिषेधेन रौधादिकस्य-एव ग्रहनं विज्ञायते, न तौदादिकस्य भुजो कौटिल्ये इत्यस्य ।
तेन+इह न भवति, विभुजति पाणिं । ।


____________________________________________________________________


  1. <णे रणौ यत्कर्म णौ चेत्स कर्ताऽनाध्याने># । । पाणिनीयसूत्र १,३.६७ । ।



_____काशिका १,३.६७:

णिच्श्च (*१,३.७४) इति कर्त्र्-अभिप्राये क्रिया-फले सिद्धं एव आत्मनेपदं ।
अकर्त्र्-अभिप्रायार्थोऽयम-अरम्भः ।
ण्य्-अन्ता दात्मनेप्दं भवति ।
कथं ? अणौ यत्कर्म णौ चेत्तदेव कर्म, स एव कर्ता भवति, अनाध्याने आध्यानं वर्जयित्वा ।
आरोहन्ति हस्तिनं हस्तिपकाः, अरोहयते हस्ती स्वयं एव ।
उपसिञ्चन्ति हस्तिनं हस्तिपकाः, उपसेचयते हस्ती स्वयं एव ।
पश्यन्ति भृत्या राजानम्, दर्शयते राजा स्वयं एव ।
णेः इति किं ? आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती साध्वारोहति ।
अणौ इति किं ? गनयति गनं गोपालकः, गनयति गणः स्वयं एव ।
कर्म-ग्रहणं किं ? लुनाति दात्रेन, लाव्यति दात्रं स्वयं एव ।
णौ चेद्-ग्रहनं समान-क्रिय-अर्थं -- आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती भीतान्सेचयति मऊत्रेण ।
यत्स-ग्रहणं अनन्यकर्म-अर्थं ।
आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यान् ।
कर्ता इति किं ? आरोहन्ति हस्तिनं हस्तिपकाः, तानरोहयति महामात्रः ।
अनाध्याने इति किं ? स्मरति वङ्गुल्मस्य कोकिलः, समरयत्येनं वङ्गुल्मः स्वयं एव ।
ननु चात्र कर्मकर्तरि मूलोदाहरणानि ।
तत्र कर्म-वद्भावेन+एव सिद्धं आत्मनेपदं ।
किं अर्थं इदं उच्यते ? कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्मवदतिदेशो विज्ञायते ।
कर्तृस्थ-अर्थोऽयम्-आरम्भः ।
तथा च रुहिः कर्तृस्थ-क्रियः, दृशिः कर्तृस्थभावकः उदाहृतः । ।


____________________________________________________________________


[#६८]

  1. <भी-स्म्योर्हेतुभये># । । पाणिनीयसूत्र १,३.६८ । ।



_____काशिका १,३.६८:

णेः इति वर्तते ।
अकर्त्र्-अभिप्राय-अर्थोऽयम्-आरम्भः ।
विभेतेः स्मयतेश्च ण्य्-अन्तादात्मनेपदं भवति हेतुभये ।
हेतुः प्रयोजकः कर्ता लकार-वाच्यः, ततश्चेद्भयं भवति ।
भय-ग्रहणं उपलक्षण-अर्थम्, विस्मयोऽपि तत एव ? जटिलो भीषयते ।
मुण्डो भीषयते ।
जटिलो विस्मापयते ।
मुण्डो विस्मापयते ।
हेतुभये इति किं ? कुञ्चिकयैनं भाययति ।
रूपेण विस्माययति ।
अत्र कुञ्चिका भयस्य करणम्, न हेतुः । ।


____________________________________________________________________


  1. <गृधि-वञ्च्योः प्रलम्भने># । । पाणिनीयसूत्र १,३.६९ । ।



_____काशिका १,३.६९:

णेः इति वर्तते ।
अकर्त्र्-अभिप्राय-अर्थोऽयम्-आरम्भः ।
गृधु अभिकाङ्क्षायाम्, वञ्चु गतौ इत्येतयोर्ण्य्-अनतयोः प्रलम्भने वर्तमानायोरात्मनेपदं भवति ।
प्रलम्भनं विसंवादनं, मिथ्या-फल-आख्यानं ।
माणवकं गर्धयते ।
माणवकं वञ्चयते ।
प्रल्म्भने इति किं ? श्वानं गर्धयति ।
गर्धनं अस्य-उत्पादयति इत्यर्थः अहिं वञ्चयति ।
परिहरति इत्यर्थः । ।


____________________________________________________________________


  1. <लियः संमानन-शालीनीकरणयोश्च># । । पाणिनीयसूत्र १,३.७० । ।



_____काशिका १,३.७०:

णेः इति वर्तते ।
अकर्त्र्-अभिप्राय-अर्थोऽयम्-आरम्भः ।
लीङ्श्लेषणे इति दिवादौ पठ्यते ली श्लेषणे इति च क्र्यादौ ।
विशेषाभावाद्द्वयोरपि ग्रहणं ।
लियो ण्य्-अन्तात्संमानने शालीनीकरणे च वर्तमानादात्मनेपदं भवति ।
च-शब्दात्प्रलम्भने च ।
सम्माननं पूजनं - जटाभिरालापयते ।
पूजां समधिगच्छति इत्यर्थः ।
शालीनीकरणं न्यग्भावनं - श्येनो वर्तिकामुल्लापय्ते ।
न्यक्करोति इत्यर्थः ।
प्रलम्भने - कस्त्वामुल्लापयते ।
विसंवादयति इत्यर्थः ।
विभाषा लीयतेः (*६,१.५१) इति वा आत्वं विधीयते ।
तद्-अस्मिन्विषये नित्यं अन्यत्र विकल्पः ।
व्यवस्थित-विभाषा हि सा ।
सम्माननादिषु इति किं ? बालकमुल्लापयति । ।


____________________________________________________________________


  1. <मिथ्योपपदात्कृञोऽभ्यासे># । । पाणिनीयसूत्र १,३.७१ । ।



_____काशिका १,३.७१:

णेः इति वर्तते ।
अकर्त्र्-अभिप्राय-अर्थोऽयम्-अरम्भः ।
ण्यन्तात्करोतेर्मिथ्योपपदादात्मनेपदं भवति अभ्यासे ।
अभ्यासः पुनः पुनः करणम्, आवृत्तिः ।
पदं मिथ्या कारयते ।
सापचारं स्वरादिदुष्टं असकृदुच्चारयति इत्यर्थः ।
मिथ्योपपदतिति किं ? पदं सुष्ठु कारयति ।
कृञः इति किं ? पदं मिथ्या वाचयति ।
अभ्यासे इति किं ? पदं मिथ्या कारयति ।
सकृदुच्चारयति । ।


____________________________________________________________________


[#६९]

  1. <स्वरित-ञितः कर्त्र्-अभिप्राये क्रियाफले># । । पाणिनीयसूत्र १,३.७२ । ।



_____काशिका १,३.७२:

णेः इति निवृत्तं ।
शेषात्कर्तरि परस्मैपदे प्रप्ते स्वरितेतो ये धातवो ञितश्च तेभ्यः आत्मनेपदं भवति, कर्तारं चेत्क्रियाफलं अभिप्रैति ।
क्रियायाः फलं क्रियाफलं प्रधान-भूतम्, यद्-अर्थं असौ क्रिया आरभ्यते तच्चेत्कर्तुर्लकार-वाच्यस्य भवति ।
यजते ।
पचते ।
ञितः खल्वपि - सुनुते ।
कुरुते ।
स्वर्गादि प्रधान-फलं इह कर्तारं अभिप्रैति ।
कर्त्रभिप्राये इति किं ? यजन्ति याजकाः ।
पचन्ति पाचकाः ।
कुर्वन्ति कर्मकराः ।
यद्यपि दक्षिणा भृतिश्च कर्तुः फल्मिहास्ति तथा अपि न तद्-अर्थः क्रियारम्भः । ।


____________________________________________________________________


  1. <अपाद्वदः># । । पाणिनीयसूत्र १,३.७३ । ।


_____काशिका १,३.७३:

कर्त्र्-अभिप्राये इति वर्तते ।
अपपूर्वद्वदतेः कर्त्र्-अभिप्राये क्रियाफले आत्मनेपदं भवति ।
धनकामो न्यायं अपवदते ।
न्यायापवादेन धनं अर्जयिष्यामि इति मन्यते ।
कर्त्र्-अभिप्रये क्रियफले इत्येव, अपवदति । ।


____________________________________________________________________


  1. <णिचश्च># । । पाणिनीयसूत्र १,३.७४ । ।


_____काशिका १,३.७४:

कर्त्र्-अभिप्राये क्रियाफले इति वर्तते ।
णिज्-अन्तादात्मनेपदं भवति कर्त्र्-अभिप्राये क्रियाफले ।
कटं कारयते ।
ओदनं पाचयते ।
कर्त्र्-अभिप्राये इत्येव, कटं कारयति परस्य । ।


____________________________________________________________________


  1. <सम्-उद्-आङ्भ्यो यमोऽग्रन्थे># । । पाणिनीयसूत्र १,३.७५ । ।



_____काशिका १,३.७५:

कर्त्र्-अभिप्राये इति वर्तते ।
सं उदाङित्येवं पूर्वाद्यमेः कर्त्र्-अभिप्राये क्रियाफले आत्मनेपदं भवति, ग्रन्थ-विशयश्चेत्प्रयोगो न भवति ।
व्रीहीन्संयच्छते ।
भारं उद्यच्छते ।
वस्त्रं आयच्छते ।
आङ्-पूर्वादकर्मकाताङो यमहनः (*१,३.२८) इति सिद्धं एव-आत्मनेपदं ।
सकर्मक-अर्थं इदं पुनर्-ग्रहणं ।
अग्रन्थे इति किं ? उध्यच्छति चिकित्सां वैद्यः ।
कर्त्र्-अभिप्राये इत्येव, संयच्छति ।
उद्यच्छति ।
आयच्छति । ।


____________________________________________________________________


  1. <अनुपसर्गाज्ज्ञः># । । पाणिनीयसूत्र १,३.७६ । ।



_____काशिका १,३.७६:
कर्त्र्-अभिप्राय इति वर्तते ।
अनुपसर्गाज्जानातेः कर्त्र्-अभिप्राये क्रियाफले आत्मनेपदं भवति ।
गां जानीते ।
अश्वं जाणीते ।
अनुपसर्गातिति किं ? स्वर्गं लोकं न प्रजानाति मूढः ।
कर्त्र्-अभिप्राये इत्येव, देवदत्तस्य गं जानाति । ।


____________________________________________________________________


[#७०]

  1. <विभाषा-उपपदेन प्रतीयमाने># । । पाणिनीयसूत्र १,३.७७ । ।



_____काशिका १,३.७७:

स्वरितञितः (*१,३.७२) इति पञ्चभिः सुत्रैरात्मनेपदं कर्त्र्-अभिप्राये क्रियाफले द्योतिते विहितं ।
तद्-उपपदेन द्योतिते न प्राप्नोति इति वचनं आरभ्यते ।
समीपे श्रूयमाणं शब्द-अन्तरं उपपदं ।
तेन प्रतीयमाने कर्त्र्-अभिप्राये क्रियाफले विभाशा आत्मनेपदं भवति ।
स्वं जज्ञं यजते, सवं यज्ञं यजति ।
सवं कठं कुरुते, स्वं कथं करोति ।
स्वं पुत्रं अपवदते, स्वं पुत्रं अपवदति ।
एवं पञ्चसूत्र्यां उदाहार्यं । ।


____________________________________________________________________


  1. <शेषात्कर्तरि परस्मैपदम्># । । पाणिनीयसूत्र १,३.७८ । ।



_____काशिका १,३.७८:

पूर्वेण प्रकरणेन आत्मनेपद-नियमः कृतः, न प्रस्मैपद-नियमः ।
तत्सर्वतः प्राप्नोति, तद्-अर्थं इदं उच्यते ।
येभ्यो धातुभ्यो येन विशेषणेन आत्मनेपदं उक्तं ततो यद्-अन्यत्स शेषः ।
शेषात्कर्तरि परस्मैपदं भवति ।
शेषादेव न अन्यस्माथ् ।
अनुदात्तङित आत्मनेपदं उक्तं -- अस्ते ।
शेते ।
ततोऽन्यत्र परस्मैपदं भवति -- याति ।
वाति ।
नेर्विशः आत्मनेपदं उक्तं -- निविशते ।
ततोऽन्यत्र परस्मैपदं -- आविशति ।
प्रविशति ।
कर्तरि इति किं ? पच्यते ।
गम्यते ।
कर्मकर्तरि कस्मात्परस्मैपदं न भवति, पच्यते ओदनः स्वयं एव ? कर्तरि कर्म-व्यतिहारे (*१,३.१४) इति द्वितीयं कर्तृ-ग्रहणं अनुवर्तते, तेन कर्ता-एव यः कर्ता तत्र प्रस्मैपदं भवति, कर्मकर्तरि न भवति । ।


____________________________________________________________________


  1. <अनु-पराभ्यां कृञः># । । पाणिनीयसूत्र १,३.७९ । ।



_____काशिका १,३.७९:

कर्त्र्-अभिप्राये क्रियाफले गन्धनादिषु च करोतेरात्मनेपदं विहितं ।
तद्-अपवादः परस्मैपदं विधीयते ।
अनु परा इत्येवं पूर्वात्करोतेः परस्मैपदं भवति ।
अनुकरोति ।
पराकरोति । ।


____________________________________________________________________


  1. <अभि-प्रत्य्-अतिभ्यः क्षिपः># । । पाणिनीयसूत्र १,३.८० । ।



_____काशिका १,३.८०:

क्षिप प्रेरणे स्वरितेथ् ।
ततः कर्त्र्-अभिप्राय-क्रियाफल-विवक्षायां आत्मनेपदे प्राप्ते परस्मैपदं विधीयते ।
अभि प्रति अति इत्येवं पूर्वात्क्षिपः परस्मैपदं भवति ।
अभिक्षिपति ।
प्रतिक्षिपति ।
अतिक्षिपति ।
अभि-प्रत्य्-अतिभ्यः इति किं ? आक्षिपते ।
द्वितीयं अपि कर्तृ-ग्रहणं अनुवर्तते, तेन+इह न भवति, अभिक्षिप्यते स्वयं एव । ।


____________________________________________________________________


[#७१]

  1. <प्राद्वहः># । । पाणिनीयसूत्र १,३.८१ । ।



_____काशिका १,३.८१:

वह प्राप्ने स्वरितेथ् ।
तत्र कर्त्र्-अभिप्राय-क्रियाफल-विवक्षायां आत्मनेपदे प्राप्ते परस्मैपदं विधीयते ।
प्रपूर्वाद्वहतेः प्रस्मैपदं भवति ।
प्रवहति, प्रवहतः, प्रवहन्ति ।
प्रातिति किं ? आवहते । ।


____________________________________________________________________


  1. <परेर्मृषः># । । पाणिनीयसूत्र १,३.८२ । ।



_____काशिका १,३.८२:

मृष तितिक्षायां स्वरितेथ् ।
ततः तथा+एव आत्मनेपदे प्राप्ते परस्मैपदं विधीयते ।
परिपूर्वाद्मृष्यतेः परस्मैपदं भवति ।
परिमृष्यति, परिमृष्यतः, परिमृष्यन्ति ।
परेः इति किं ? आमृष्यते ।
वहतिं अपि केचिदत्र अनुवर्तयन्ति - परिवहति । ।


____________________________________________________________________


  1. <व्य्-आङ्-परिभ्यो रमः># । । पाणिनीयसूत्र १,३.८३ । ।



_____काशिका १,३.८३:

रमु क्रीडायं ।
अनुदात्तेत्त्वदात्मनेपदे प्राप्ते प्रस्मैपदं विधीयते ।
विआङ्परि इत्येवं पूर्वात्रमतेः परस्मैपदं भवति ।
विरमति ।
आरमति ।
परिरमति ।
एतेभ्यः इति किं ? अभिरमते । ।


____________________________________________________________________


  1. <उपाच्च># । । पाणिनीयसूत्र १,३.८४ । ।



_____काशिका १,३.८४:

रमः इत्येव ।
उपपुर्वात्रमतेः प्रस्मैपदं भवति ।
देवदत्तं उपरमति ।
जज्ञदत्तं उपरमति ।
उपरमयति इति यावथ् ।
अन्तर्भावितन्यर्थोऽत्र रमिः ।
पृथग्योग-करणं उत्तर-अर्थं ।
अकर्मकाद्विभाषां वक्ष्यति, सा उपपूर्वादेव यथा स्यात् । ।

____________________________________________________________________


  1. <विभाशाऽकर्मकात्># । । पाणिनीयसूत्र १,३.८५ । ।



_____काशिका १,३.८५:

रमः उपातिति च वर्तते ।
पूर्वेण नित्ये परस्मैपदे प्राप्ते विकल्प आरभ्यते ।
उपपूर्वद्रमतेरकर्मकाद्विभाषा परस्मैपदं भवति ।
यावद्भुक्तं औपरमति, यावद्भुक्तं उपरमते ।
निवर्तते इत्यर्थः । ।


____________________________________________________________________


  1. <बुध-युध-नश-जन-इङ्-प्रु-द्रु-स्रुभ्यो णेः># । । पाणिनीयसूत्र १,३.८६ । ।



_____काशिका १,३.८६:

णिचश्च (*१,३.७४) इति कर्त्र्-अभिप्राय-त्रियाफल-विवक्षायां आत्मनेपदे प्राप्ते परस्मैपदं विधीयते ।
बुध युध नश जन इङ्प्रु द्रु स्रु इत्येतेभ्यो ण्यन्तेम्यः परस्मैपदं भवति ।
बोध्यति ।
योध्यति ।
नाशयति ।
जनयति ।
अध्यापयति ।
प्रावयति ।
द्रावयति ।
स्रवयति ।

[#७२]

येऽत्र-अकर्मकास्तेषां अणाव्-अकर्मकाच्चित्तवत्-कर्तृकात्(*१,३.८८) इत्येवं सिद्धे वचनं इदं अचित्तवत्-कर्तृक-अर्थं ।
बोध्यति पद्मं ।
योध्यन्ति काष्ठानि ।
नाशयति दुःखं ।
जनयति सुखं ।
येऽत्र चलन-अर्थ अपि तेषां निगरण-चलन-अर्थेभ्यश्च (*१,३.८७) इति सिद्धे यदा न चलन-अर्थास्तद्-अर्थं वचनं ।
प्रवते ।
प्राप्नोति इति गम्यते ।
अयो द्रवति ।
विलीयते इत्यर्थः कुण्डिका स्रवति ।
स्यन्दते इत्यर्थः ।
तद्-विषयाण्युदाहरणानि { - प्रावयति ।
द्रावयति ।
स्रावयति} । ।


____________________________________________________________________


  1. <निगरण-चलन-अर्थेभ्यश्च># । । पाणिनीयसूत्र १,३.८७ । ।



_____काशिका १,३.८७:

णेः इति वर्तते ।
कर्त्र्-अभिप्राय-क्रियाफल-विवक्शायां आत्मनेपद-अपवादः परस्मैपदं विधियते ।
निगरणं अभ्यवहारः ।
चलनं कम्पनं ।
निगरण-अर्थेभ्यश्चलन-अर्थेभ्यश्च धातुभ्यो ण्य्-अन्तेभ्यः परस्मैपदं भवति ।
निगारयति ।
आशयति ।
भोजयति ।
चलन-अर्थेभ्यः -- चलयति ।
चोपयति ।
कम्पयति ।
अयं अपि योगः सकर्मक-अर्थः, अचित्तवत्-कर्तृकार्थश्च ।
अदेः प्रतिषेधो वक्तव्यः ।
अत्ति देवदत्तः, आदयते देवदत्तेन । ।

____________________________________________________________________


  1. <अणावकर्मकाच्चित्तवत्-कर्तृकात्># । । पाणिनीयसूत्र १,३.८८ । ।



_____काशिका १,३.८८:


णेः इति वर्तते ।
कर्त्र्-अभिप्राय-क्रियाफल-विवक्षायां आत्मनेपदापवादः परस्मैपदं विधीयते ।
अण्यन्तो यो धतुरकर्मकश्चित्तवत्-कर्तृकश्च तस्माद्ण्यन्तात्परस्मैपदं भवति ।
आस्ते देवदत्तः, आसयति देवदत्तं ।
शेते देवदत्तः, शाययति देवदत्तं ।
अणौ इति किं ? चेतयमानं प्रयोजयति चेतयते, इति केचित्प्रत्युदाहरन्ति तद्-युक्तं ।
हेतुमण्णिचो विधिः ।
प्रतिषेधोऽपि प्रत्यासत्तेस्तस्य+एव न्याय्यः ।
तस्मादिह चेतयति इति परस्मैपदेन+एव भवितव्यं ।
इदं तु प्रत्युदहरणं -- आरोहयमाणं प्रयुड्क्ते आरोहयते ।
अकर्मकातिति किं ? कठं कुर्वाणं प्रयुङ्क्ते कारयते ।
चितवत्कर्तृकातिति किं ? शुष्यन्ति व्रीहयः, शोषयते व्रीहीनातपः । ।


____________________________________________________________________


  1. <न पादम्य्-आङ्यम-आङ्यस-परिमुह-रुचि-नृति-वद-वसः># । । पाणिनीयसूत्र १,३.८९ । ।



_____काशिका १,३.८९:

पूर्वेण योगद्वयेन कर्त्रभिप्रय-क्रियाफल-विवक्षायां आत्मनेपद-अपवादः परस्मैपदं विहितं ।
तस्य प्रतिषेधोऽयम्-उच्यते ।
यत्कर्त्रभिप्राय-विषयं आत्मनेपदं तद्-अवस्थितं एव, न प्रतिषिध्यते ।
पा दमि अङ्यम आङ्यस परिमुह रुचि नृति वद वस इत्येतेभ्यो ण्य्-अन्तेभ्यः परस्मैपदं न भवति ।

[#७३]

णिचश्च (*१,३.७४) इत्यात्मनेपदं भवति ।
तत्र पिवतिर्निगरण-अर्थः ।
दमिप्रभृतयश्चित्तवत्कर्तृकाः ।
नृतिश्चलन-अर्थोऽपि ।
एषां परस्मैपदं न भवति ।
पा - पाययते ।
दमि - दमयते ।
आङ्यं - आयामयते ।
यमोऽपरिवेषणे इति मित्सञ्ज्ञा प्रतिषिध्यते ।
अङ्यस - आयासयते ।
परिमुह - परिमोहयते ।
रुचि - रोचयते ।
नृति - नर्तयते ।
वद - वादयते ।
वस - वासयते ।
पादिषु धेट उपसङ्ख्यानं ।
धापयेते शिशुमेकं समीची । ।


____________________________________________________________________


  1. <वा क्यषः># । । पाणिनीयसूत्र १,३.९० । ।



_____काशिका १,३.९०:

लोहितादि-डाज्भ्यः क्यष्(*३,१.१३) इति वक्ष्यति ।
तद्-अन्ताद्धातोर्वा परस्मैपदं भवति ।
लोहितायति, लोहितायते ।
पटपटायति, पटपटायते ।
अथ अत्र प्रस्मैपदेन मुक्ते कथं आत्मनेपदं लभ्यते, यावता अनुदात्तङित आत्मनेपदं (*१,३.१२) इत्येवं आदिना प्रकर्णेन तन्नियतं ? एवं तर्हि आत्मनेपदं एव अत्र विकल्पितं विधीयते, तच्च अनन्तरं परस्मैपद-प्रतिषेधेन सनिधापितं इह सम्बध्यते ।
तेन मुक्ते, शेषात्कर्तरि परस्मैपदं भवति । ।


____________________________________________________________________


  1. <ध्य्द्भ्यो लुङि># । । पाणिनीयसूत्र १,३.९१ । ।



_____काशिका १,३.९१:

वा इत्येव ।
द्युत दीप्तौ ।
तत्स्-आहचर्याद्लुठादयोऽपि कृपू पर्यन्तास्तथा+एव व्यपदिश्यन्ते ।
बहुवचन-निर्देशादाद्य्-अर्थो भवति ।
अनुदात्तेत्त्वान्नित्यं एव आत्मनेपदे प्राप्ते द्युतादिभ्यो लुङि वा परस्मैपदं भवति ।
व्यद्युतत्, व्यद्योतिष्ट ।
अलुठत्, अलोठिष्ट ।
लुङि इति किं ? द्योतते । ।


____________________________________________________________________


  1. <वृद्भ्यः स्यसनोः># । । पाणिनीयसूत्र १,३.९२ । ।



_____काशिका १,३.९२:

द्युतादिष्वेव वृतादयः पठ्यन्ते ।
वृतु वर्तते, वृधु वृद्धौ शृधु शब्द-कुत्सायाम्, स्यन्दू प्रस्रवणे, कृपू सामर्थ्ये, एतेभ्यो धतुभ्यः स्ये सनि च परतो वा परस्मैपदं भवति ।
वृत्- वर्त्स्यति ।
अवर्त्स्यथ् ।
विवृत्सति ।
वर्तिष्यते ।
अवर्तिष्यत ।
विवर्तिषते ।
वृदः - वर्त्स्यति ।
अवर्त्स्यथ् ।
विवृत्सति ।
वर्धिष्यते ।
अवर्धिष्यत ।
विवर्धिषते ।
स्यसमोः इति किं ? वर्तते । ।

____________________________________________________________________


[#७४]

  1. <लुटि च क्लुपः># । । पाणिनीयसूत्र १,३.९३ । ।



_____काशिका १,३.९३:

वृतादित्वादेव स्यसनोर्विकल्पः सिद्धो लुटि विधीयते ।
चकारस्तर्हि स्यसनोरनुकर्षण-अर्थो न वक्तव्यः, एवं तर्हि इयं प्राप्तिः पूर्वां प्राप्तिं बाधेत, तस्माच्चकरः स्यसनोरनुकर्षणा-र्थः क्रियते ।
लुटि च स्यसनोश्च क्लृपेः परस्मैपदं वा भवति ।
कल्प्ता, कल्प्तारौ, कल्प्तारः ।
कल्प्स्यति ।
अकल्प्स्यथ् ।
चिक्लृप्सति ।
कल्पिता ।
कल्पिश्यते ।
अकल्पिश्यत ।
चिकल्पिशते । ।
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य तृतीयः पादः । ।


____________________________________________________________________


[#७५]

  1. <आ कडारादेका सञ्ज्ञा># । । पाणिनीयसूत्र १,४.१ । ।



_____काशिका १,४.१:

काडराः कर्मधारये (*२,२.३८) इति वक्ष्यति ।
आ एतस्मात्सूत्रावधेर्यदित ऊर्ध्वं अनुक्रमिष्यामः, तत्र एका सञ्ज्ञा भवति इति वेदितव्यं ।
का पुनरसौ ? या परा अनवकाशा च ।
अन्यत्र सञ्जासमावेशान्नियम-अर्थं वचनं एकैव सञ्ज्ञा भवति इति ।
वक्ष्यति - ह्रस्वं लघु (*१,४.१०), भिदि, छिदि - भेत्ता, छेत्ता ।
संयोगे गुरु (*१,४.११), शिक्षि, भिक्षि - शिक्षा, भिक्षा ।
संयोग-परस्य ह्रस्वस्य लघुसञ्ज्ञा प्राप्नोति, गुरुसञ्ज्ञा च ।
एका सञ्ज्ञा इति वचनाद्गुरुसञ्ज्ञा एव भवति ।
अततक्षत्, अररक्षत्, सन्वल्लघुनि चङ्परेऽनग्लोपे (*७,४.९३) इत्येष विधिर्न भवति । ।


____________________________________________________________________


  1. <विप्रतिषेधे परं कार्यम्># । । पाणिनीयसूत्र १,४.२ । ।



_____काशिका १,४.२:

तुल्यबल-विरोधो विप्रतिषेधः ।
यत्र द्वौ प्रसङ्गावन्यार्थवेकस्मिन्युगपत्प्राप्नुतः, स तुल्यबल-विरोधो विप्रतिषेधः ।
तस्मिन्विप्रतिषेधे परं कार्यं भवति ।
उत्सर्ग-अपवाद-नित्य-अनित्य-अन्तरङ्ग-वहिरङ्गेषु तुल्यबलता न अस्ति इति न अयं अस्य योगस्य विषयः ।
बलवतैव तत्र भवितव्यं ।
अप्रवृत्तौ, पर्यायेण वा प्रवृत्तौ प्राप्तायां वचनं आरभ्यते ।
अतो दीर्घो यञि (*७,३.१०१), सुपि च (*७,३.१०२) इत्यस्य अवकाशः - वृक्षाभ्याम्, प्लक्षाभ्यां ।
वहुवचने झल्येत्(*७,३.१०३) इत्यस्य अवकाशः - वृक्षेषु, प्लक्षेषु ।
इह+उभयं प्राप्नोति - वृक्षेभ्यः, प्लक्षेभ्यः इति ।
परं भवति विप्रतिषेधेन । ।


____________________________________________________________________


  1. <यू स्त्र्य्-आख्यौ नदी># । । पाणिनीयसूत्र १,४.३ । ।



_____काशिका १,४.३:

ई च ऊ च यू ।
अविभक्तिको निर्देशः ।
स्त्रियं आचक्षते स्त्र्याख्यौ ।

[#७६]

मूलविभुजादि-दर्शनात्क-प्रत्ययः ।
ईकार-अन्तं ऊकर-अन्तं च स्त्र्याख्यं शब्द-रूपं नदीसञ्ज्ञं भवति ।

[#७५]

ईकर-अन्तं - कुमारी ।
गौरी ।
लक्ष्मीः ।
शार्ङ्गरवी ।
ऊकार-अन्तं - ब्रह्मवन्धूः ।
यवागूः ।
यू इति किं ? मात्रे ।
दुहित्रे ।
स्त्र्याख्यौ इति किं ? ग्रामणीः ।
सेनानीः ।
खलपूः ।
आख्या-ग्रहणं किं ? शब्द-अर्थे स्त्रीत्व एव यथा स्यात्, पदान्तराख्ये मा भूत्, ग्रामन्ये स्त्रियै ।
खलप्वे स्त्रियै ।
नदीप्रदेशाः - आण्नद्याः (*७,३.११२) इत्येवं आदयः । ।


____________________________________________________________________


[#७६]

  1. <न-इयङ्-उवङ्-स्थानावस्त्री># । । पाणिनीयसूत्र १,४.४ । ।



_____काशिका १,४.४:

पूर्वणातिप्रसक्ता नदीसञ्ज्ञा प्रतिषिध्यते ।
स्थितिः स्थानं ।
इयङ्-उवङोः इति इयङ्-उवङ्-स्थानौ, तौ यू नदीसञ्ज्ञौ न भवतः, स्त्री-शब्दं वर्जयित्वा ।
हे श्रीः ।
हे भ्रूः ।
अस्त्री इति किं ? हे स्त्रि । ।


____________________________________________________________________


  1. <व+आमि># । । पाणिनीयसूत्र १,४.५ । ।



_____काशिका १,४.५:

पूर्वेण नित्ये प्रतिषेधे प्राप्ते आमि विकल्पः क्रिय्ते ।
इयङ्-उवङ्-स्थानौ यू आमि परतो वा नदीसञ्ज्ञौ न भवतः ।
श्रियाम्, श्रीणां ।
भ्रुवाम्, भ्रूणां ।
अस्त्री इत्येव, स्त्रिणां । ।


____________________________________________________________________


  1. <ङिति ह्रस्वश्च># । । पाणिनीयसूत्र १,४.६ । ।



_____काशिका १,४.६:

दीर्घस्य नदीसञ्ज्ञा विहिता, ह्रस्वस्य न प्राप्नोति, इयङ्-उवङ्-स्थानयोश्च प्रतिषिद्धा ।
तस्मान्ङिति व विधीयते ।
ङिति परतो ह्रस्वश्च य्वोः सम्बन्धी यः स्त्र्याख्यः, स्त्र्याख्यौ इयङ्-उवङ्-स्थानौ च यू वा नदी सञ्ज्ञौ भवतः ।
कृत्यै, कृतये ।
धेन्वै, धेनवे ।
श्रियै, श्रिये ।
भ्रुवै, भ्रुवे ।
अस्त्री इत्येव, स्त्रियै ।
स्त्र्याख्यौ इत्येव, अग्नये ।
वाय्वे ।
भनवे । ।


____________________________________________________________________


  1. <शेषो घ्यसखि># । । पाणिनीयसूत्र १,४.७ । ।



_____काशिका १,४.७:

ह्रस्वः इति वर्तते ।
शेषोऽत्र घिसञ्ज्ञो भवति, सखि-शब्दं वर्जयित्वा ।
कश्च शेषः ? ह्रस्वं इवर्ण-उवर्ण-अन्तं यन्न स्त्र्याख्यम्, स्त्र्याख्यं च यन्न नदीसञ्ज्ञकं, स शेषः ।
अग्नये ।
वायवे ।
कृतये ।
धेनवे ।
असखि इति किं ? सख्या ।
सख्ये ।
सख्युः ।
सख्यौ ।
घि-प्रदेशाः -- द्वन्द्वे घि (*२,२.३२) इत्येवं आदयः । ।


____________________________________________________________________


  1. <पतिः समास एव># । । पाणिनीयसूत्र १,४.८ । ।



_____काशिका १,४.८:

पति-शब्दस्य घिसञ्ज्ञायां सिद्धायां अयं नियमः क्रियते, पति-शब्दः समासे एव घिसञ्ज्ञओ भवति ।
प्रजापतिना ।
प्रजापतये ।
समासे इति किं ? पत्या ।
पत्ये ।
एवकार इश्टतोऽवधारण-अर्थः ।
दृढमुष्टिना ।
दृढमुष्टये । ।


____________________________________________________________________


[#७७]

  1. <षष्ठी-युक्तश्छन्दसि वा># । । पाणिनीयसूत्र १,४.९ । ।



_____काशिका १,४.९:

पतिः इति वर्तते ।
पूर्वेण नियमेन असमासे न प्राप्नोति इति वचनं आरभ्यते ।
षष्ठ्यन्तेन युक्तः पति-शब्दः छन्दसि वषये वा घिसञ्ज्ञो भवति ।
कुलुञ्चानां पतये नमः, कुलुञ्चानां पत्ये नमः ।
षस्ठी-ग्रहणं किं ? मया पत्या जरदष्टिर्यथासः ।
छन्दसि इति किं ? ग्रामस्य पत्ये । ।


____________________________________________________________________


  1. <ह्रस्वं लघु># । । पाणिनीयसूत्र १,४.१० । ।



_____काशिका १,४.१०:

मात्रिकस्य ह्रस्वसञ्ज्ञा कृता तस्य अनेन लघुसञ्ज्ञा विधीयते ।
ह्रस्वं अक्षरं लघुसञ्ज्ञं भवति ।
भेता ।
छेत्त ।
अचीकरथ् ।
अजीहरथ् ।
लघु-प्रदेशाः - पुगन्त-लघु-उपधस्य च इत्येवं आदयः । ।

____________________________________________________________________


  1. <संयोगे गुरु># । । पाणिनीयसूत्र १,४.११ । ।



_____काशिका १,४.११:

ह्रस्वं इति वर्तते ।
पूर्वेण लघुसञ्ज्ञायां प्राप्तायां गुरुसञ्ज्ञा विधीयते ।
संयोगे प्रतो ह्रस्वं अक्षरं गुरुसञ्ज्ञं भवति ।
कुण्डा ।
हुण्डा ।
शिक्षा भिक्षा ।
गुरु-प्रदेशाः - गुरोश्च हलः (*३,३.१०३) इत्येवं आदयः । ।


____________________________________________________________________


  1. <दीर्घं च># । । पाणिनीयसूत्र १,४.१२ । ।



_____काशिका १,४.१२:

संयोगे इति न अनुवर्तते ।
सामान्येन सञ्ज्ञा-विधान ।
दीर्घं च अक्षरं गुरुसञ्ज्ञं भवति ।
ईहाञ्चक्रे ।
ईक्षाञ्चक्रे । ।


____________________________________________________________________


  1. <यस्मात्प्रत्यय-विधिस्तद्-आदि प्रत्ययेऽङ्गम्># । । पाणिनीयसूत्र १,४.१३ । ।


_____काशिका १,४.१३:

यस्मात्प्रत्ययो विधीयते धातोर्वा प्रातिपदिकाद्वा तद्-आदि शब्द-रूपं प्रत्यये परतोऽङ्गसञ्ज्ञं भवति ।
कर्ता ।
हर्ता ।
करिष्यति हरिष्यति ।
अकरिष्यथ् ।
औपगवः ।
कापटवः ।
यस्मातिति सञ्ज्ञि-निर्देश-अर्थम्, तद्-आदि इति सम्बन्धाथ् ।
प्रत्यय-ग्रहणं किं ? न्यविशत ।
व्यक्रीणीत ।
नेर्बिशः (*१,३.१७) इत्युपसर्गाद्विधिरस्ति, तद्-आदेरङ्गसञ्ज्ञा स्याथ् ।
विधि-ग्रहणं किं ? प्रत्यय-परत्वं आत्रे मा भूथ् ।
स्त्री इयती ।
तद्-आदि-वचनं स्यादिनुं अर्थं ।

[#७८]

करिष्यावः ।
करिष्यामः ।
कुण्डानि ।
पुनः प्रत्यय-ग्रहणं किं अर्थं ? लुप्त-प्रत्यये मा भूथ् ।
श्र्य-र्थं ।
भ्र्व्-अर्थं ।
अङ्ग-प्रदेशाः - अङ्गस्य (*६,४.१) इत्येवं आदयः । ।


____________________________________________________________________


  1. <सुप्-तिङ्-अन्तं पदम्># । । पाणिनीयसूत्र १,४.१४ । ।



_____काशिका १,४.१४:

सुप्तिङिति प्रत्याहार-गरहणं ।
सुबन्तं तिङन्तं च शब्द-रूपं पदसञ्ज्ञं भवति ।
ब्राह्मणाः पथनिथ् ।
पदसञ्ज्ञायां अन्तग्रहणं अन्यत्र सञ्ज्ञा-विधौ प्रत्यय-ग्रहणे तद्-अन्त-विधेः प्रतिषेध-अर्थं ।
गौरी ब्राह्मणितरा ।
पद-प्रदेशाः - पदस्य (*८,१.१३), पदात्(*८,१.१७) इत्येवं आदयः । ।


____________________________________________________________________


  1. <नः क्ये># । । पाणिनीयसूत्र १,४.१५ । ।



_____काशिका १,४.१५:

क्ये इति क्यच्- क्यङ्- क्यशां सामान्य-ग्रहनं ।
न-अन्तं शब्द-रूपं क्ये परतः पदसञ्ज्ञं भवति ।
क्यच्- राजीयति ।
क्यङ्- राजायते ।
क्यश्- चर्मायति, चर्मायते ।
सिद्धे सत्यारम्भो नियम-अर्थः ।
न-अन्तं एव क्ये परतः पदसम्ञ्ज्ञं भवति, न अन्यथ् ।
वाच्यति ।
स्रुच्यति । ।


____________________________________________________________________


  1. <सिति च># । । पाणिनीयसूत्र १,४.१६ । ।

_____काशिका १,४.१६:

यचि भं (*१,४.१८) इति वक्ष्यति ।
तस्यायं पुरस्तादपवादः ।
सिति प्रत्यये परतः पूर्वं पदसञ्ज्ञं भवति ।
भवतष्ठक्-छसौ (*४,२.११५) - भवदीयः ।
ऊर्णाया युस्(*५,२.१२३) - ऊर्णायुः ।
ऋतोरण्(*५,१.१०५), छन्दसि घस्(*५,१.१०६) - ऋत्वियः । ।

____________________________________________________________________


  1. <स्वादिष्व-सर्वनमस्थाने># । । पाणिनीयसूत्र १,४.१७ । ।


_____काशिका १,४.१७:


____________________________________________________________________


  1. <यचि भम्># । । पाणिनीयसूत्र १,४.१८ । ।



_____काशिका १,४.१८:

सवादिश्वसर्वनामस्थाने इति वर्तते ।
पूर्वेण पदसञ्ज्ञायां प्राप्तायां तद्-अपवादो भसञ्ज्ञा विधीयते ।
यकारादावजादौ च स्वादौ सर्वनामस्थान-वर्जिते प्रत्यये परतः पूर्वं भस्ञ्ज्ञं भवति ।
यकार-आदौ - गार्ग्यः ।
वात्सयः ।
अजादौ - दाक्षिः ।
प्लाक्षिः ।

[#७९]

नभोऽङ्गिरोमनुषां वत्युपसङ्ख्यानं ।
नभ इव नभस्वथ् ।
अङ्गिरा इव अङ्गिरस्वथ् ।
मनुरिव मनुष्वथ् ।
वृषण्वस्वश्वयोः ।
वृषनित्येतत्वस्वश्वयोः प्रतो भसञ्ज्ञं भवति छन्दसि विशये ।
वृषण्वसुः ।
वृषणश्वस्य मैनासीथ् ।
भप्रदेशाः -- भस्य (*६,४.१२९) इत्येवं आदयः । ।


____________________________________________________________________


  1. <तसौ मत्व्-अर्थे># । । पाणिनीयसूत्र १,४.१९ । ।



_____काशिका १,४.१९:

भं इति वर्तते ।
तकार-अन्तं सकार-अन्तं शब्द-रूपं मत्व्-अर्थे प्रत्यये परतो भसञ्ज्ञं भवति ।
उदश्वित्वान्घोषः ।
विद्युत्वान्बलाहकः ।
सकारान्तं -- पयस्वी ।
यशस्वी ।
तसौ इति किं ? तक्षवान्ग्रामः । ।


____________________________________________________________________


  1. <अयस्मय-आदीनि छन्दसि># । । पाणिनीयसूत्र १,४.२० । ।



_____काशिका १,४.२०:


अयस्मय-आदीनि शब्दरूपाणि छन्दसि विशये साधूनि भवन्ति ।
भपद-सञ्ज्ञ-अधिकारे विधनात्तेन सुखेन सधुत्वं अयस्मय-आदीनां विधीयते ।
अयस्मयं वर्म ।
अयस्मयानि पात्राणि ।
क्वचिदुभयं अपि भवति ।
स सुष्टुभा स ऋक्वता गणेन ।
पदत्वात्कुत्वं, भत्वाज्जश्त्वं न भवति ।
छन्दसि इति किं ? अयोमयं वर्म ।
आकृतिगणोऽयं । ।


____________________________________________________________________

  1. <बहुषु बहुवचनम्># । । पाणिनीयसूत्र १,४.२१ । ।



_____काशिका १,४.२१:

ङ्य्-आप्प्रातिपदिकात्स्वादयः, लस्य तिबादयः इति सामान्येन बहुवचनं विहितं, तस्य अनेन बहुत्व-सङ्ख्या वाच्यत्वेन विधीयते ।
बहुषु बहुवचनं भवति ।
बहुत्वं अस्य वाच्यं भवति इति यावथ् ।
कर्मादयोऽप्यपरे विभक्तीनां अर्था वाच्याः ।
तदीये बहुत्वे बहुवचनं ।
कर्म-आदिषु बहुषु बहुवचनं इत्यर्थः ।
व्राह्मणाः पठन्ति ।
यत्र च सङ्ख्या सम्भवति तत्र अयं उपदेशः ।
अव्ययेभ्यस्तु निः-सङ्ख्येभ्यः सामान्य-विहिताः स्वादयो विद्यन्त एव । ।


____________________________________________________________________


  1. <द्व्य्-एकयोर्द्विबचन-एकवचने># । । पाणिनीयसूत्र १,४.२२ । ।



_____काशिका १,४.२२:

द्वित्व-एकयोरर्थयोः द्विवचन-एकवचने भवतः ।
एतदपि सामान्य-विहितयोर्द्विवचन-एकवचनयोरर्थ-अभिधानं ।
द्वित्वे द्विवच्नं भवति ।
एकत्वे एकवचनं भवति ।
ब्राह्मणौ पठतः ।
ब्राह्मणः पठति । ।


____________________________________________________________________


[#८०]

  1. <कारके># । । पाणिनीयसूत्र १,४.२३ । ।



_____काशिका १,४.२३:

कारके इति वशेषणं अपादानादिसञ्ज्ञाविषयं अधिक्रियते ।
कारके इत्यधिकारो वेदितव्यः ।
यदित ऊर्ध्वं अनुक्रमिष्यामः कारके इत्येवं तद्वेदितव्यं ।
कारक-शब्दश्च निमित्त-पर्यायः ।
करकं हेतुः इत्यनर्थ-अन्तरं ।
कस्य हेतुः ? क्रियायाः ।
वक्ष्यति, घ्रुवमपायेऽपादानं (*१,४.२४) - ग्रामादागच्छति ।
पर्वतादवरोहति ।
कारके इति किं ? वृक्षस्य पर्णं पतति ।
कुड्यस्य पिण्डः पतति ।
अकथितं च (*१,३.५१), अकथितं च कारकं कर्मसञ्ज्ञं भवति - माणवकं पन्थानं पृच्छति ।
करके इति किं ? माणवकस्य पितरं पन्थानं पृच्छति ।
कारकसंशब्दनेषु च अनेन एव विशेषणेन व्यवहारो विज्ञायते । ।


____________________________________________________________________


  1. <ध्रुवमपायेऽपादानम्># । । पाणिनीयसूत्र १,४.२४ । ।



_____काशिका १,४.२४:

ध्रुवं यदपाययुक्तं अपाये साध्ये यदवधिभूतं तत्कारकं अपादानसञ्ज्ञं भवति ।
ग्रामादागछ्हति ।
पर्वतादवरोहति ।
सार्थाद्धीनः ।
रथात्पतितः ।
जुगुप्साविरामप्रमादार्थनां उपसङ्ख्यानं ।
अधर्माज्जुगुप्सते ।
अधर्माद्विरमति ।
धर्मात्प्रमाद्यति ।
अपादानप्रदेशाः - अपादाने पञ्चमी (*२,३.२८) इत्येवं आदयः । ।

____________________________________________________________________


  1. <भी-त्रा-अर्थानां भय-हेतुः># । । पाणिनीयसूत्र १,४.२५ । ।



_____काशिका १,४.२५:

बिभेत्य्-अर्थानां त्रायत्य्-अर्थानां च धातूनां प्रयोगे भय-हेतुर्यः स्तत्कारकं अपादानसञ्ज्ञं भवति ।
चौरेभ्यो बिभेति ।
चौरेभ्य उद्विजते ।
त्रायत्य्-अर्थानां - चौरेभ्यस्त्रायते ।
चौरेभ्यो रक्षति ।
भय-हेतुः इति किं ? अरण्ये बिभेति ।
अरण्ये त्रायते । ।


____________________________________________________________________


  1. <परा-जेरसोढः># । । पाणिनीयसूत्र १,४.२६ । ।



_____काशिका १,४.२६:

परापूर्वस्य जयतेः प्रयोगेऽसोढो, योऽर्थः सोढुं न शक्यते, तत्कारकं अपादानसञ्ज्ञं भवति ।
अध्ययनात्पराजयते ।
असोढः इति किं ? शत्रून्पराजयते । ।


____________________________________________________________________


  1. <वारण-अर्थानां ईप्सितः># । । पाणिनीयसूत्र १,४.२७ । ।



_____काशिका १,४.२७:
वारण-अर्थानां धातूनां प्रयोगे य ईप्सितोऽर्थः तत्कारकं अपादानसञ्ज्ञं भवति ।
प्रवृत्तिविघातो वारनं ।
यवेभ्यो गा वारयति ।
यवेभ्यो गा निवर्तयति ।
ईप्सितः इति किं ? यवेभ्यो गा वारयति क्षेत्रे । ।


____________________________________________________________________


[#८१]

  1. <अन्तर्धौ येन अदर्शनं इच्छति># । । पाणिनीयसूत्र १,४.२८ । ।



_____काशिका १,४.२८:

व्यव्धानं अन्तर्धिः ।
अन्तर्धि-निमित्तं येन अदर्शनं आत्मन इच्छति तत्कारकं अपादानसञ्ज्ञं भवति ।
उपाध्यायादन्तर्धत्ते ।
उपाध्यायान्निलीयते ।
मा मामुपाध्यायो द्राक्षीतिति निलीयते ।
अन्तर्धौ इति किं ? चौरान्न दिदृक्षते ।
इच्छति-ग्रहणं किं ? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् । ।


____________________________________________________________________


  1. <आख्याता-उपयोगे># । । पाणिनीयसूत्र १,४.२९ । ।



_____काशिका १,४.२९:

आख्याता प्रतिपादयिता ।
उपयोगः नियम-पूर्वकं विध्या-ग्रहणं ।
उपयोगे साध्ये य आख्याता तत्कारकं अपादानसञ्ज्ञं भवति ।
उपाध्यायादधीते ।
उपाध्यायादागमयति ।
उपयोगे इति किं ? नटस्य शृणोति । ।


____________________________________________________________________

  1. <जनि-कर्तुः प्रकृतिः># । । पाणिनीयसूत्र १,४.३० । ।



_____काशिका १,४.३०:

जनेः कर्ता जनि-कर्ता ।
जन्य्-अर्थस्य जन्मनः कर्ता जायमानः, तस्य या प्रकृतिः कारणम्, हेतुः, तत्कारकं अपादानञ्ज्ञं भवति ।
शृङ्गाच्छरो जायते ।
गोमयाद्वृश्चिको जायते । ।


____________________________________________________________________


  1. <भुवः प्रभवः># । । पाणिनीयसूत्र १,४.३१ । ।



_____काशिका १,४.३१:

कर्तुः इति वर्तते ।
भवनं भूः ।
प्रभवत्यस्मातिति प्रभाः ।
भू-कर्तुः प्रभवो यः, तत्कारकं अपादानसंज्ञं भवति ।
हिमवतो गङ्गा प्रभवति ।
काश्मीरेभ्यो वितस्ता प्रभवति ।
प्रथमत उपलभ्यते इत्यर्थः । ।


____________________________________________________________________


  1. <कर्मणा यं अभिप्रैति स सम्प्रदानम्># । । पाणिनीयसूत्र १,४.३२ । ।



_____काशिका १,४.३२:

कर्मणा करण-भूतेन कर्ता यं अभिप्रैति तत्कारकं सम्प्रदानसञ्ज्ञं भवति ।
अन्वर्थसञ्ज्ञा-विज्ञानाद्ददाति-कर्मणा इति विज्ञायते ।
उपाध्यायाय गां ददाति ।
माणवकाय भिक्षां ददाति ।
क्रिया-ग्रहणं अपि कर्तव्यं ।
क्रिययाऽपि यं अभिप्रैति स सम्प्रदानं ।
श्राद्धाय निगर्हते ।
युद्धाय सन्नह्यते ।
पत्ये शेते ।
सम्प्रदानप्रदेशाः - चतुर्थी सम्प्रदाने (*२,३.१३) इत्येवं आदयः ।
कर्मणः करणसञ्ज्ञा वक्तव्या सम्प्रदानस्य च कर्मसञ्ज्ञा ।
पशुना रुद्रं यजते ।
पशुं रुद्राय ददाति इत्यर्थः । ।


____________________________________________________________________


[#८२]

  1. <रुच्य्-अर्थानां प्रीयमाणः># । । पाणिनीयसूत्र १,४.३३ । ।



_____काशिका १,४.३३:

रुचिना समान-अर्थाः रुच्य्-अर्थाः अन्यकर्तृकोऽभिलाषो रुदिः ।
रुच्य्-अर्थानां धातूनां प्रयोगे प्रीयमाणो योऽर्थः, तत्कारकं सम्प्रदाना-सञ्ज्ञं भवति ।
देवदत्ताय रोचते मोदकः ।
यज्ञदत्ताय स्वदतेऽपूपः ।
देवदत्तस्थस्याभिलाषस्य मोदकः कर्ता ।
प्रीयमाणः इति किं ? देवदत्ताय रोचते मोदकः पथि । ।


____________________________________________________________________


  1. <श्लाघ-ह्नुङ्-स्था-शपां ज्ञीप्स्यमानः># । । पाणिनीयसूत्र १,४.३४ । ।



_____काशिका १,४.३४:

श्लाघ ह्नुङ्स्था शप इत्येतेषां ज्ञीप्स्यमानो योऽर्थह्, तत्कारकं सम्प्रदान-सञ्ज्ञं भवति ।
ज्ञीप्स्यमानः ज्ञपयितुं इष्यमणः, बोध्यितुं अभिप्रेतः ।
देवदत्ताय श्लाघते ।
देवदत्तं श्लाघमानस्तां श्लाघां तं एव ज्ञपयितुं इच्छति इत्यर्थः ।
एवं - देवदत्ताय ह्नुते ।
यज्ञदत्ताय ह्नुते ।
देवदत्ताय तिष्ठते ।
यज्ञदत्ताय तिष्ठते ।
देवदत्ताय शपते ।
यज्ञदत्ताय शपते ।
ज्ञीप्स्यमानः इति किं ? देअदत्ताय श्लाघते पथि । ।


____________________________________________________________________


  1. <धारेरुत्तमर्णः># । । पाणिनीयसूत्र १,४.३५ । ।



_____काशिका १,४.३५:

धारयतेः प्रयोगे उत्तमर्णो योऽर्थः, तत्कारकं सम्प्रदानसञ्ज्ञं भवति ।
उत्तमं ऋणं यस्य स उत्तमर्णः ।
कस्य चोत्तममृणं ? यदीयं धनं ।
धनस्वामी प्रयोक्ता उत्तमर्णः, स सम्प्रदानसञ्ज्ञो भवति ।
देवदत्ताय शतं धारयति ।
यज्ञदत्ताय शतं धारयति ।
उत्तार्णः इति किं ? देवदत्ताय शतं धरयति ग्रामे । ।


____________________________________________________________________


  1. <स्पृहेरीप्सितः># । । पाणिनीयसूत्र १,४.३६ । ।



_____काशिका १,४.३६:

स्पृह ईप्सायां चुरादावदन्तः पठ्यते ।
तस्य ईप्सितो योऽर्थः, तत्कारकं सम्प्रदान-सञ्ज्ञं भवति ।
ईप्सितः इत्यभिप्रेतः उच्यते ।
पुष्पेभ्यः स्पृहयति ।
फलेभ्यः स्पृहयति ।
ईप्सितः इति किं ? पुश्पेभ्यो वने स्पृहयति । ।


____________________________________________________________________


  1. <क्रुध-द्रुह-ईर्ष्य-असूय-अर्थानां यं प्रति कोपः># । । पाणिनीयसूत्र १,४.३७ । ।



_____काशिका १,४.३७:

अमर्षः क्रोधः ।
अपकारो द्रोहः ।
अक्षमा ईर्ष्या ।
गुणेषु दोषाविष्करनं असूया ।
क्रुधाद्य्-अर्थानां प्रयोगे यं प्रति कोपः, तत्कारकं सम्प्रदानसञ्ज्ञं भवति ।
क्रोधस्तावत्कोप एव ।
द्रोहादयोऽपि कोपप्रभवा एव गृह्यन्ते ।
तस्मात्सामान्येन विशेसणं यं प्रति कोपः इति ।
देवदत्ताय क्रुध्यति ।
देवदत्ताय द्रुह्यति ।
देवदत्ताय ईर्ष्यति ।
देवदत्ताय असूयति ।
यं प्रति कोपः इति किं ? भार्यां ईर्ष्यति, मा एनां अन्यो द्राक्षीतिति । ।

____________________________________________________________________


[#८३]

  1. <क्रुध-द्रुहोरुपसृष्ठयोः कर्म># । । पाणिनीयसूत्र १,४.३८ । ।



_____काशिका १,४.३८:

पूर्वेण सम्प्रदानसञ्ञायां प्राप्तायां कर्मसञ्ज्ञा विधीयते ।

[#८२]

क्रुध-द्रुहोरुपसृष्टयोरुपसर्ग-सम्बद्धयोः यं प्रति कोपः, तत्कारकं कर्मसञ्ज्ञं भवति ।
देवदत्तं अभिक्रुध्यति ।
देवदत्तं अभिद्रुह्यति ।
उपसऋष्टयोः इति किं ? देवदत्ताय क्रुध्यति ।
यज्ञदत्ताय द्रुह्यति । ।


____________________________________________________________________


[#८३]

  1. <रादः-ईक्ष्योर्यस्य विप्रश्नः># । । पाणिनीयसूत्र १,४.३९ । ।



_____काशिका १,४.३९:

राधेरीक्षेश्च कारकं सम्प्रदान-सञ्ज्ञं भवति ।
कीदृशं ? यस्य विप्रशः ।
विविधः प्रश्नः विप्रश्नः ।
स कस्य भवति ? यस्य शुभाशुभं पृच्छ्यते ।
देवदत्ताय राध्यति ।
देवदत्ताय ईक्षते ।
नैमित्तिकः पृष्टः सन्देवदत्तस्य दैवं पर्यालोचयति इत्यर्थः । ।

____________________________________________________________________


  1. <प्रत्य्-आङ्भ्यां श्रुवः पूर्वस्य कर्ता># । । पाणिनीयसूत्र १,४.४० । ।



_____काशिका १,४.४०:

प्रति आङित्येवं पूर्वस्य शृणोतेः कारकं सम्प्रदान-सञ्ज्ञं भवति ।
कीदृशं ? पूर्वस्य कर्ता ।
प्रतिपूर्व आङ्पूर्वश्च शृणोति रभ्युपगमे प्रतिज्ञाने वर्तते ।
स च अभ्युपगमः परेन प्रयुक्तस्य सतो भवति ।
तत्र प्रयोक्ता पूर्वस्याः क्रियाया कर्ता सम्प्रदानसञ्ज्ञो भवति ।
देवचत्ताय गां प्रतिशृणोति ।
देवदत्ताय गामाशृणोति ।
प्रतिजानीते इत्यर्थः । ।


____________________________________________________________________


  1. <अनु-प्रति-गृणश्च># । । पाणिनीयसूत्र १,४.४१ । ।



_____काशिका १,४.४१:

पूर्वस्य कर्ता इति वर्तते ।
अनुपूर्वस्य प्रतिपूर्वस्य च गृणातेः कारकं पूर्वस्याः क्रियायः कर्तृ-भूतं संप्रदान-सञ्ज्ञं भवति ।
होत्रेऽनुगृणाति ।
होता प्रथमं शंसति, तं अन्यः प्रोत्साहयति ।
अनुगरः, प्रतिगरः इति हि संसितुः प्रोत्साहने वर्तते ।
होत्रेऽनुगृणाति, होतारं शंसन्तं प्रोत्साहयति इत्यर्थः । ।


____________________________________________________________________


  1. <साधकतमं करणम्># । । पाणिनीयसूत्र १,४.४२ । ।



_____काशिका १,४.४२:

क्रिया-सिद्धौ यत्प्रकृष्टोपकारकं विवक्षितं तत्साधकतमं कारकं करणसञ्ज्ञं भवति ।
दात्रेण लुनाति ।
परशुना छिनत्ति ।
तमब्-ग्रहनं किं ? गङ्गायां घोषः ।
कूपे गर्गकुलं ।
करणप्रदेशाः -- कर्तृ-करणयोस्तृतीया (*२,३.१८) इत्येवं आदयः । ।


____________________________________________________________________


[#८४]

  1. <दिवः कर्म च># । । पाणिनीयसूत्र १,४.४३ । ।



_____काशिका १,४.४३:

पूर्वेण करण-सञ्ज्ञायां करन-सञ्ज्ञायां प्राप्तायां कर्मसञ्ज्ञा विधीयते ।
दिवः साधकतमं यत्कारकं तत्कर्मसञ्ज्ञं भवति, चकारात्करणसञ्ज्ञं च ।
अक्षान्दीव्यति, अक्षैर्दीव्यति । ।


____________________________________________________________________


  1. <परिक्रयणे सम्प्रदानं अन्यतरस्याम्># । । पाणिनीयसूत्र १,४.४४ । ।



_____काशिका १,४.४४:

साधकतमं इति वर्तते ।
पूर्वेन करण-सञ्ज्ञायां प्राप्ताया सम्प्रदान-सज्ञा पक्षे विधीयते ।
परिक्रयणे साधकतमं कारकं अन्यतरस्यां सम्प्रदान-सञ्ज्ञं भवति ।
परिक्रयणं नियतकालं वेतनादिना स्वीकरणम्, नत्यन्तिकः क्रय एव ।
शतेन परिक्रीतोऽनुब्रूहि, शताय परिक्रीतोऽनुब्रूहि ।
सहस्रेण परिक्रीतोऽनुब्रूहि, सहस्राय परिक्रीतोऽनुब्रूहि । ।


____________________________________________________________________


  1. <आधारोऽधिकरणम्># । । पाणिनीयसूत्र १,४.४५ । ।



_____काशिका १,४.४५:

आघ्रियन्तेऽस्मिन्क्रियाः इत्याधारः ।
कर्तृ-कर्मणोः क्रियाश्रयभूतयोः धारणक्रियां प्रति य आधारह्, तत्कारकं अधिकरणसञ्ज्ञं भवति ।
कटे आस्ते ।
कटे शेते ।
स्थाल्यां पचति ।
अधिकरन-प्रदेशाः -- सप्तम्य्-अधिकरणे च (*२,३.३६) इत्येवं आदयः । ।


____________________________________________________________________


  1. <अधि-शीङ्-स्था-आसां कर्म># । । पाणिनीयसूत्र १,४.४६ । ।



_____काशिका १,४.४६:

पूर्वेण अधिकरण-सञ्ज्ञायां प्राप्तायां कर्म-सञ्ज्ञा विधीयते ।
अधिपूर्वाणां शीङ्स्था आसित्येतेषां आधारो यः, तत्कारकं कर्म-सञ्ज्ञं भवति ।
ग्रामं अधिशेते ।
ग्रामं अधितिष्ठति ।
पर्वतं अध्यास्ते । ।


____________________________________________________________________

  1. <अभिनिविशश्च># । । पाणिनीयसूत्र १,४.४७ । ।



_____काशिका १,४.४७:

अभिनिपूर्वस्य विशतेराधारो यः, तत्कारकं कर्म-सञ्ज्ञं भवति ।
ग्रामं अभिनिविशते ।
कथं कल्याणेऽभिनिवेशः, पापेऽभिनिवेशः, या या सञ्ज्ञा यस्मिन्यस्मिन्सञ्ज्ञिन्यभिनिविशते इति ? अन्यतरस्यां इति वर्तते, परिक्रयणे सम्प्रदानं अन्यतरस्यां (*१,४.४४) इत्यतः ।
सा च व्यवस्थित-विभाषा विज्ञायते । ।


____________________________________________________________________


[#८५]

  1. <उप-अन्व्-अध्य्-आङ्-वसः># । । पाणिनीयसूत्र १,४.४८ । ।



_____काशिका १,४.४८:

उप अनु अधि आ इत्येवं पूर्वस्य वसतेराधारो यः, तत्कारकं कर्मसञ्ज्ञं भवति ।
ग्रामं उपवसति सेना ।
पर्वतं उपवसति ।
ग्रामं अनुवसति ।
ग्रामं अधिवसति ।
ग्रामं आवसति ।
वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः ।
ग्रामे उपवसति ।
भोजन-निवृत्तिं करोति इत्यर्थः । ।


____________________________________________________________________


  1. <कर्त्रुरीप्सिततमं कर्म># । । पाणिनीयसूत्र १,४.४९ । ।


_____काशिका १,४.४९:

कर्तुः क्रियया यदाप्तुं इष्टतमं तत्कारकं कर्मसञ्ज्ञं भवति ।
कटं करोति ।
ग्रामं गच्छति ।
कर्तुः इति किं ? माषेष्वश्वं बध्नाति ।
कर्मण ईप्सिता माषाः, न कर्तुः ।
तं अब्ग्रहणं किं ? पयसा ओदनं भुङ्क्ते ।
कर्म इत्यनुवर्तमाने पुनः कर्म-ग्रहणं आधार-निवृत्त्य्-अर्थं ।
इतरथा आधारस्य+एव हि स्यात्गेहं प्रविशति इति ।
ओदनं पचति, सक्तून्पिबति इत्यादिषु न स्याथ् ।
पुनः कर्म-ग्रहणात्सर्वत्र सिद्ध भवति ।
कर्म-प्रदेशाः -- कर्मणि द्वितीया (*२,३.२) इत्येवं आदयः । ।


____________________________________________________________________


  1. <तथा-युक्तं च अनीप्सितम्># । । पाणिनीयसूत्र १,४.५० । ।



_____काशिका १,४.५०:

येन प्रकारेण कर्तुरीप्सिततमं क्रियया युज्यते, तेन+एव चेत्प्रकारेन यदनीप्सितं युक्तं भवति, तस्य कर्मसञ्ज्ञा विधीयते ।
ईप्सितादन्यत्सर्वं अनीप्सितम्, द्वेष्यम, इतरच्च ।
विषं भक्षयति ।
चौरान्पश्यति ।
ग्रामं गच्छन्वृक्ष-मूलान्युपसर्पति । ।


____________________________________________________________________


  1. <अकथितं च># । । पाणिनीयसूत्र १,४.५१ । ।



_____काशिका १,४.५१:

अकथितं च यत्कारकं तत्कर्मसञ्ज्ञं भवति ।
केन अकथितं ? अपादानादिविशेषकथाभिः ।
परिगणनं कर्तव्यं -- दुहियाचिरुधिप्रच्छिभिक्षिचिञां उपयोगनिमित्तं अपूर्वविधौ ।
ब्रुविशासिगुणेन च यत्सचते तदकीर्तितं आचरितं कविना । ।
उपयुज्यते इत्युपयोगः पयःप्रभृति ।
तस्य निमित्तं गवादि ।
तस्य+उपयुज्यमान-पयःप्रभृति-निमित्तस्य गवादेः कर्मसञ्ज्ञा विधीयते ।
पाणिना कांस्यपात्र्यां गां दोग्धि पयः ।
पाण्यादिकं अप्युपयोग-निमित्तं, तस्य ८६ कस्मान्न भवति ? न+एतदस्ति ।

[#८६]

विहिता हि तत्र करणादिसञ्ज्ञा ।
तद्-अर्थं आह - अपूर्वविधौ इति ।
ब्रुविशासि-गुणेन च यत्सचते ।
ब्रुविशास्योर्गुणः साधनम्, प्रधानं, प्रधानं कर्म, धर्म-अदिकम्, तेन यत्सम्बध्यते, तदकीर्तितं आचरितं कविना, तदकथितं औक्तं सूत्रकारेण ।
दुहि - गां दोग्धि पयः ।
याचि - पौरवं गां याचते ।
रुधि - गामवरुणद्धि व्रजं ।
प्रच्छि - माणावकं पन्थानं पृच्छति ।
भिक्षि - पौरवं गां भिक्षते ।
चिञ्- वृक्षमविचिनोति फलानि ।
ब्रुवि - माणवकं धर्मं ब्रूते ।
शासि - माणवकं धर्मं अनुशास्ति । ।


____________________________________________________________________


  1. <गुति-बुद्धि-प्रत्यवसान-अर्थ-शब्द-कर्म-अकर्मकाणां अणि कर्ता स णौ># । । पाणिनीयसूत्र १,४.५२ । ।



_____काशिका १,४.५२:

अर्थ-शब्दः प्रत्य्-एकं अभिसम्बध्यते ।
गत्य्-अर्थानां बुद्ध्य्-अर्थानां प्रत्यवसान-अर्थानं च धातूनां, तथ शब्द-कर्मकाणां अकर्मकनां च अण्य्-अन्तानां यः कर्ता, स ण्य्-अन्तानां कर्मसञ्ज्ञो भवति ।
गच्छति माणवको ग्रामम्, गमयति माणवकं ग्रामं ।
याति माणवको ग्रामम्, यापयति माणवकं ग्रामं ।
गत्य्-अर्थेषु नीवह्योः प्रतिषेधो वक्तव्यः ।
नयति भारं देवदत्तः, नाययति भारं देवदत्तेन ।
वहति भारं देवदत्तः, वाह्यति भारं देवदत्तेन ।
वहेरनियन्तृकर्तृकस्य+इति वक्तव्यं ।
इह प्रैत्षेधो मा भूत्, वहन्ति यवान्बलीवर्दाः, वाहयति यवान्बलीवर्दानिति ।
बुद्धिः - बुध्यते माणवको धर्मम्, बोधयति माणवकं दह्र्मं ।
वेत्ति माणवको धर्मम्, वेदयति माणवकं धर्मं ।
प्रत्यवसानं अभ्यवहारः ।
भुङ्क्ते माणवक ओदनम्, भोजयति माणवकं ओदनं ।
अश्नाति मानवक ओदनम्, आशयति माणवकमोदनं ।
आदिखाद्योः प्रतिशेधो वक्तव्यः ।
अत्ति माणवक ओदनम्, आदयते माणवकेन ओदनं ।
खादति माणवकः, खादयति माणवकेन ।
भक्षेरहिंस-अर्थस्य प्रतिषेधो वक्तव्यः ।
भक्षयति पिण्डीं देवदत्तः, भक्षयति पिण्डीं देवदत्तेन इति ।
अहिंस-अर्थस्य इति किं ? भक्षयन्ति बलीवर्दाः सस्यम्, भक्षयन्ति बलीवर्दान्सस्यं ।
शब्द-कर्मणां -- अधीते मानवको वेदम्, अध्यापयति माणवकं वेदं ।
पठति माणवको वेदं ।
पाठयति माणवकं वेदं ।
अकर्मकाणां - आस्ते देवदत्तः, आसयति देवदत्तं ।
शेते देवदत्तः, शाययति देवदत्तं ।
एतेषां इति किं ? पचत्योदनं देवदत्तः, पाचयत्योदनं देवदत्तेन इति ।
अण्यन्तानां इति किं ? गमयति देवदत्तो यज्ञदत्तम्, तं अपरः प्रयुङ्क्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः । ।


____________________________________________________________________


[#८७]

  1. <हृ-क्रोरन्यतरस्याम्># । । पाणिनीयसूत्र १,४.५३ । ।



_____काशिका १,४.५३:

अनि कर्त स णौ इति वर्तते ।
हरतेः करोतेश्च अण्यन्तयोर्यः कर्ता स ण्यन्तयोरन्यतरस्यां कर्मसञ्ज्ञो भवति ।
हरति भारं मानवकः, हरयति भारं मानवकं, मानवकेन इति वा ।
करोति कटं देवदत्तः, कारयति कटं देवदत्तं, देवदत्तेन इति वा ।
अभिवादि-दृशोरात्मनेपद उपसङ्ख्यानं ।
अभिवदति गुरुं देवदत्तः, अभिवादयते गुरुं देवदत्तं, देवदत्तेन इति वा ।
पश्यन्ति भृत्या राजानम्, दर्शयते भृत्यान्राजानम्, भृत्यैः इति वा ।
आत्मनेपदे इति किं ? दर्शयति चैत्रं मैत्रमपरः ।
प्राप्त-विकल्पत्वाद्द्वितीयैव ।
अभिवादयति गुरुं माणवकेन पिता ।
अप्राप्तविकल्पत्वात्तृतीया+एव । ।


____________________________________________________________________


  1. <स्वतन्त्रः कर्ता># । । पाणिनीयसूत्र १,४.५४ । ।



_____काशिका १,४.५४:

स्वतन्त्रः इति प्रधान-भूत उच्यते ।
अगुणी-भूतो, यः क्रिया-सिद्धौ स्वतन्त्र्येण विवक्ष्यते, तत्कारकं कर्तृसञ्ज्ञं भव्ति ।
देवदत्तः पचति ।
स्थाली पचति ।
कर्तृ-प्रदेशाः - कर्तृ-करणयोस्तृतीया (*२,३.१८) इत्येवं आदयः । ।


____________________________________________________________________


  1. <तत्-प्रयोजको हेतुश्च># । । पाणिनीयसूत्र १,४.५५ । ।



_____काशिका १,४.५५:

ततिति अनन्तरः कर्ता परामृश्यते ।
तस्य प्रयोजकस्तत्-प्रयोजकः ।
निपातनात्समासः ।
स्वतन्त्रस्य प्रयोजको योऽर्थः, तत्-कारकं हेतु-सञ्ज्ञं भवति ।
चकारात्कर्तृ-सञ्ज्ञं च ।
सञ्ज्ञासमावेश-अर्थश्-चकारः ।
कुर्वाणं प्रयुङ्क्ते, कारयति ।
हारयति ।
हेतुत्वद्णिचो निमित्तं कर्तृत्वाच्च कर्तृ-प्रत्ययेन+उच्यते ।
हेतु-प्रदेशाः - हेतुमति च (*३,१.२६) इत्येवं अदयः । ।


____________________________________________________________________


  1. <प्राग्-रीश्वरान्निपाताः># । । पाणिनीयसूत्र १,४.५६ । ।



_____काशिका १,४.५६:

अधिरीश्वरे (*१,४.९७) इति वक्ष्यति ।
प्रागेतस्मादवधेर्यानित ऊर्ध्वं अनुक्रमिष्यामः, निपात-सञ्ज्ञास्ते वेदितव्याः ।
वक्ष्यति - च-अदयोऽसत्त्वे (*१,४.५७), च, वा, ह, अह ।
प्राग्-वचनं सञ्ज्ञा-समावेश-अर्थं ।
गत्य्-उपसर्ग-कर्मप्रवचनीय. सञ्ज्ञाभिः सह निपात-सञ्ज्ञा समाविशति ।
रेफोच्चारणं इश्वरे तोसुन्-कसुनौ (*३,४.१३) इत्ययं अवधिर्मा विज्ञायि इति ।
रीश्वराद्वीश्वरान्मा भूत्कृन्मेजन्तः परोऽपि सः ।
समासेष्वव्ययीभावो लौकिकं च अतिवर्तते । ।


____________________________________________________________________


[#८८]

  1. <च-आदयोऽसत्त्वे># । । पाणिनीयसूत्र १,४.५७ । ।



_____काशिका १,४.५७:

च-आदयो निपात-सञ्ज्ञा भवन्ति, न चेत्सत्त्वे वर्तन्ते ।
प्रसज्य-प्रतिषेधोऽयं ।
सत्त्वं इति द्रव्यं उच्यते ।
च ।
वा ।
ह ।
अह ।
एव ।
एवं ।
नूनं ।
शश्वथ् ।
युगपथ् ।
सूपथ् ।
कूपथ् ।
कुविथ् ।
नेथ् ।
चेथ् ।
चण् ।
कच्चिथ् ।
यत्र ।
नह ।
हन्त ।
माकिं ।
नकिं ।
माङ् ।
माङो ङकारो विशेषणार्थः, माङि लुङ्(*३,३.१७५) इति ।
इह न भवति, मा भवतु, म भविष्यति ।
नञ् ।
यावथ् ।
तावथ् ।
त्वा ।
त्वै ।
द्वै ।
रै ।
श्रौषठ् ।
वौषठ् ।
स्वाहा ।
वषठ् ।
स्वधा ।
ओं ।
किल ।
तथा ।
अथ ।
सु ।
स्म ।
अस्मि ।
अ ।
इ ।
उ ।
ऋ ।
लृ ।
ए ।
ऐ ।
ओ ।
औ ।
अं ।
तक् ।
उञ् ।
उकञ् ।
वेलायां ।
मात्रायां ।
यथा ।
यथ् ।
यं ।
तथ् ।
किं ।
पुरा ।
अद्धा ।
धिक् ।
हाहा ।
हे ।
है ।
प्याठ् ।
पाठ् ।
थाठ् ।
अहो ।
उताहो ।
हो ।
तुं ।
तथाहि ।
खलु ।
आं ।
आहो ।
अथो ।
ननु ।
मन्ये ।
मिथ्या ।
असि ।
ब्रूहि ।
तु ।
नु ।
इति ।
इव ।
वथ् ।
चन ।
बत ।
इह ।
शं ।
कं ।
अनुकं ।
नहिकं ।
हिकं ।
सुकं ।
सत्यं ।
ऋतं ।
श्रद्धा ।
इद्धा ।
मुधा ।
नो चेथ् ।
न चेथ् ।
नहि ।
जातु ।
कथं ।
कुतः ।
कुत्र ।
अव ।
अनु ।
हाहौ ।
हैहा ।
ईहा ।
आहोस्विथ् ।
छम्बठ् ।
खं ।
दिष्ट्या ।
पशु ।
वठ् ।
सह ।
आनुषक् ।
अङ्ग ।
फठ् ।
ताजक् ।
अये ।
अरे ।
चटु ।
बाठ् ।
कुं ।
खुं ।
घुं ।
हुं ।
आईं ।
शीं ।
सीं ।
वै ।
उपसर्ग-विभक्ति-स्वर-प्रतिरूपकाश्च निपाताः ।
उपसर्ग-प्रतिरूपकाः -- अवदत्तं विदत्तं च प्रदतं च अदिकर्मणि ।
सुदत्तं अनुदत्तं च निदत्तं इति चेष्यते । ।
अच उपसर्गात्तः (*७,४.४७) इति तत्वं न भवति ।
दुर्नीतं ।
दुर्नयः ।
दुर्निर्णयः । ।
उपसर्गात्(*८,४.१४) इति णत्वं न भवति ।
असत्त्वे इति किं ? पशुर्वै पुरुषः ।
पशुः पुरोडशः निपात-प्रदेशाः -- स्वर-आदि-निपतं अव्ययं (*१,१.३७) इत्येवं आदयः । ।


____________________________________________________________________


  1. <प्र-आदयः># । । पाणिनीयसूत्र १,४.५८ । ।



_____काशिका १,४.५८:

प्र-आदयोऽसत्त्वे निपत-सञ्ज्ञा भवन्ति ।
प्र ।
परा ।
अप ।
सं ।
अनु ।
अव ।
निस् ।
निर् ।
रुस् ।
दुर् ।
वि ।
आङ् ।
नि ।
अधि ।
अपि ।
अति ।
सु ।
उतभि ।
प्रति ।
परि ।
उप् ।
पृतग्योग-करनं उत्तरसञ्ज्ञा-विशेषण-अर्थं ।
उपसर्गाः क्रिया-योगे (*१,४.५९) इति च-आदीनां उपसर्ग-सञ्ज्ञा मा भूथ् ।
असत्त्वे इत्येव, परा जयति सेना । ।


____________________________________________________________________


[#८९]

  1. <उपसर्गाः क्रिया-योगे># । । पाणिनीयसूत्र १,४.५९ । ।



_____काशिका १,४.५९:

प्र-आदयः क्रिया-योगे उपसर्गस्-अञ्ज्ञा भवन्ति ।
प्रणयति ।
परिणयति ।
प्रणायकः ।
परिणायकः ।
क्रिया-योगे इति किं ? प्रगतो नायकोऽस्माद्देशात्, प्रनायको देशः ।
मरुच्-छाब्दस्य च+उपसङ्ख्यानं कर्तव्यं ।
मरुद्भिर्दत्तो मरुतः ।
सञ्ज्ञाविधानसामर्थ्यादनजन्तत्वेऽपि अच उपसर्गात्तः (*७,४.४७) इति तत्त्वं भवति ।
श्रच्-छब्दस्य+उपसङ्ख्यानं ।
आत्-अश्-च-उपसर्गे (*३,३.१०६) इति अङ्भवति - श्रद्धा ।
उपसर्ग. प्रदेशाः -- उपसर्गे घोः किः (*३,३.९३) इत्येवं आदयः । ।


____________________________________________________________________


  1. <गतिश्च># । । पाणिनीयसूत्र १,४.६० । ।



_____काशिका १,४.६०:

गति-सञ्ज्ञकाश्च प्र-आदयो भवन्ति क्रिया-योगे ।
प्रकृत्य ।
प्रकृतं ।
यत्प्रकरोति ।
योग-विभाग उत्तर-अर्थः ।
उत्तरत्र गति-सञ्ज्ञा+एव यथा स्याथ् ।
उपसर्ग-सञ्ज्ञा मा भूथ् ।
ऊरीस्यातित्यत्र उपसर्ग-प्रादुर्भ्यां अस्तिर्य्-अच्-परः (*८,३.८७) इति षत्वं प्रसज्येत ।
च-करः सञ्ज्ञा-समावेश-अर्थः ।
प्रणीतं ।
अभिषिक्तं ।
गतिरनन्तरः (*६,२.४९) इति स्वरः, उपसर्गात्(*८,४.१४) (*८,३.६५) इति णत्वषत्वे च भवतः ।
कारिका-शब्दस्य+उपसङ्ख्यानं ।
कारिका-कृत्य ।
कारिका-कृतं ।
यत्कारिका करोति ।
पुनश्चनसौ छन्दसि गतिसञ्ज्ञौ भवत इति वक्तव्यं ।
पुनरुत्स्यूतं वासो देयं ।
गतिर्गतौ (*८,१.७०) इति निघातो भवति ।
चनो हितः ।
गतिरनन्तरः (*६,२.४९) इति स्वरः ।
गति-प्रदेशाः -- कु-गति-प्र-आदय (*२,२.१८) इत्येवं आदयः । ।


____________________________________________________________________


  1. <ऊर्य्-आदि-च्वि-डाचश्च># । । पाणिनीयसूत्र १,४.६१ । ।



_____काशिका १,४.६१:

ऊर्य्-आदयः शब्दाः च्व्य्-अन्ता डज्-अन्ताश्च क्रिया-योगे गति-सञ्ज्ञा भवन्ति ।
च्वि-डाचोः कृभ्वस्तियोगे विधनं ।
तत्-साहचर्यादूर्य्-आदीनां अपि तैरेव योगे गति-सञ्ज्ञा विधीयते ।
ऊरी-उररी-शब्दावङ्गीकरने विस्तारे च ।
ऊरीकृत्य ।
ऊरीकृतं ।
यदुरीकरोति ।
उररीकृत्य ।

[#९०]

उररीकृतं ।
यदुररीकरोति ।
पापी ।
ताली ।
आत्ताली ।
वेताली ।
धूसी ।
शकला ।
संशक्ला ।
ध्वंसकला ।
भ्रंशकला ।
एते शकलादयो हिंसायं ।
शकलाकृत्य ।
संशकलाकृत्य ।
ध्वंसकलाकृत्य ।
भ्रंशकलाकृत्य ।
गुलुगुध पीड-अर्थे - गुलुगुधाकृत्य ।
सुजूःसह-अर्थे - सजूःकृत्य ।
फलू, फली, विक्ली, आक्ली इति विकारे - फलू कृत्य ।
फली कृत्य ।
विक्ली कृत्य ।
आलूष्टी ।
करली ।
केवाली ।
शेवाली ।
वर्षाली ।
मस्मसा ।
मसमसा ।
एते हिंसायां ।
वषठ् ।
वौषठ् ।
श्रौषठ् ।
स्वाहा ।
स्वधा ।
वन्धा ।
प्रादुस् ।
श्रुथ् ।
आविस् ।
च्व्य्-अन्ताः खल्वपि -- शुक्लीकृत्य ।
शुक्लीकृतं ।
यच्छुक्लीकरोति ।
डाच्-- पटपटाक्रृत्य ।
पटपटाकृतं ।
यत्पटपटकरोति । ।


____________________________________________________________________


  1. <अनुकरणं च अनिति-परम्># । । पाणिनीयसूत्र १,४.६२ । ।



_____काशिका १,४.६२:

इतिः परे यस्मातिति बहुव्रीहिः ।
अनुकरनं अनितिपरं क्रिया-योगे गति-सञ्ज्ञं भवति ।
खाट्कृत्य ।
खाट्कृतं ।
यत्खाट्करोति ।
अनितिपरं इति किं ? खाडिति कृत्वा निरष्ठीवत् । ।


____________________________________________________________________


  1. <आदर-अनादरयोः सद्-असती># । । पाणिनीयसूत्र १,४.६३ । ।



_____काशिका १,४.६३:

प्रीतिसंभ्रम आदरः ।
परिभवौदासीन्यं अनादरः ।
आदरानादरयोः यथा-क्रमं सद्-असच्-छब्दौ गति-सञ्ज्ञौ भवतः ।
सत्कृत्य ।
सत्कृतं ।
यत्सत्करोति ।
असत्कृत्य ।
असत्कृतं ।
यदसत्करोति ।
आदर-अनादरयोः इति किं ? सत्कृत्वा काण्डं गतः ।
असत्कृत्वा काण्डं गतः । ।


____________________________________________________________________


  1. <भूषनेऽलम्># । । पाणिनीयसूत्र १,४.६४ । ।



_____काशिका १,४.६४:

अलं इति प्रतिषेधे, सामर्थ्ये, पर्याप्तौ, भूषणे च इति विशेषनं उपादीयते ।
भूवणे योऽलं-शब्दः स गति-सञ्ज्ञो भवति ।
अलङ्कृत्य ।
अलङ्कृतं ।
यदलङ्करोति ।
भूषणे इति किं ? अलं भुक्त्वा ओदनं गतः । ।


____________________________________________________________________


  1. <अन्तरपरिग्रहे># । । पाणिनीयसूत्र १,४.६५ । ।



_____काशिका १,४.६५:

अन्तः-शब्दोऽपरिग्रहेऽर्थे गति-सञ्ज्ञो भवति ।
परिग्रहः स्वीकरणं ।
तद्-अभावे गतिसञ्ज्ञा विधीयते ।
अन्तर्हत्य ।
अन्तर्हतं ।
यदन्तर्हन्ति ।
अपरिग्रहे इति किं ? अन्तर्हत्वा भूषिकां श्येनो गतः ।
परिगृह्य गतः इत्यर्थः ।
अन्तः-शब्दस्य अङ्किविधिणत्वेषु उपसर्गसञ्ज्ञा वक्तव्या ।
अन्तर्धा ।
अन्तर्धिः ।
अन्तर्णयति । ।


____________________________________________________________________


[#९१]

  1. <कणे-मनसी श्रद्धा-प्रतीघाते># । । पाणिनीयसूत्र १,४.६६ । ।



_____काशिका १,४.६६:

कणे-शब्दो मनस्-शब्दश्च श्रद्धा-प्रतीघाते गति-सञ्ज्ञौ भवतः ।
कणेहत्य पयः पिबति ।
मनोहत्य पयः पिबति ।
तावत्पिबति यावदस्य अभिलाशो निवृत्तः ।
श्रद्धा प्रतिहता इत्यर्थः ।
श्रद्धा-प्रतीघाते इति किं ? कणे हत्वा गतः ।
मनो हत्वा गतः । ।


____________________________________________________________________


  1. <पुरोऽव्ययम्># । । पाणिनीयसूत्र १,४.६७ । ।



_____काशिका १,४.६७:

असि-प्रत्ययान्तः पुरः-शब्दोऽव्ययं ।
स गति-सञ्ज्ञो भवति ।
समास-स्वरोपचाराः प्रयोजनं ।
पुरस्-कृत्य ।
पुरस्-कृतं ।
यत्पुरस्करोति ।
अव्ययं इति किं ? पूः, पुरौ ।
पुरः कृत्वा काण्डं गतः । ।

____________________________________________________________________


  1. <अस्तं च># । । पाणिनीयसूत्र १,४.६८ । ।



_____काशिका १,४.६८:

अस्तं-शब्दो म-कारान्तोऽव्ययं अनुपलब्धौ वर्तते ।
स गति-सञ्ज्ञओ भवति ।
अस्तंगत्य सविता पुनरुदेति ।
अस्तं-गतानि धनानि ।
यदस्तं गच्छति ।
अव्ययं इत्येव, अस्तं काण्डं ।
क्षिपतं इत्यर्थः । ।


____________________________________________________________________


  1. <अच्छ गत्य्-अर्थ-वदेषु># । । पाणिनीयसूत्र १,४.६९ । ।



_____काशिका १,४.६९:
अच्छ-शब्दः अव्ययं अभि-शब्दस्य अर्थे वर्तते ।
स गत्य्-अर्थेषु धातुषु वदतौ च गतिसञ्ज्ञो भवति ।
अच्छगत्य ।
अच्छगतं ।
यदच्छगच्छति ।
वदतौ - अच्छोद्य ।
अच्छोदितं ।
यदच्छवचति ।
अव्ययं इत्येव, उदकं अच्छं गच्छति । ।


____________________________________________________________________

  1. <अदोऽनुपदेशे># । । पाणिनीयसूत्र १,४.७० । ।



_____काशिका १,४.७०:

अदः-शब्दस्त्यदादिषु पठ्यते, सोऽनुपदेशे गति-सञ्ज्ञो भवति ।
उपदेशः परार्थः प्रयोगः ।
स्वयं एव तु यदा बुद्ध्या परां ऋशति तदा न अस्त्युपदेशः इति सोऽस्य विशयः ।
अदःकृत्य ।
अदःकृतं ।
यददःकरोति ।
अनुपदेशे इति किं ? अदः कृत्वा काण्डं गतः इति परस्य कथयति । ।


____________________________________________________________________


  1. <तरोऽन्तर्धौ># । । पाणिनीयसूत्र १,४.७१ । ।



_____काशिका १,४.७१:

अन्तर्धिः व्यवधानं ।
तत्र तिरः-शब्दो गति-सञ्ज्ञो भवति ।
तिरोभूय ।
तिरोभूतं ।
यत्तिरोभवति ।
अन्तर्धौ इति किं ? तिरो भूत्वा स्थितः ।
पार्श्वतो भूत्वा इत्यर्थः । ।


____________________________________________________________________


[#९२]

  1. <विभाषा कृञि># । । पाणिनीयसूत्र १,४.७२ । ।


_____काशिका १,४.७२:

अन्तर्धौ इति वर्तते ।
प्राप्त-विभाषेयं ।
तिरः-शब्दः करोतौ परतो विभाषा गति-सञ्ज्ञो भवति ।
तरः कृत्य, तिरस्कृत्य ।
तिरस्कृतं ।
यत्तिरस्करोति ।
तिरः कृत्वा, तिरस्कृत्वा ।
अन्तर्धौ इत्येव, तिरः-कृत्वा काष्ठं तिष्ठति । ।


____________________________________________________________________


  1. <उपाजेऽन्वाजे># । । पाणिनीयसूत्र १,४.७३ । ।



_____काशिका १,४.७३:

विभाषा कृञि इति वर्तते ।
उपाजेऽन्वाजे-शब्दौ विभक्ति-प्रतिरूपकौ निपातौ दुर्बलस्य सामर्थ्याधाने वर्तेते ।
तौ कृञि विभाषा गति-सञ्ज्ञौ भवतः ।
उपाजेकृत्य, उपाजे कृत्वा ।
अन्वाजेकृत्य, अन्वाजे कृत्वा । ।


____________________________________________________________________


  1. <साक्षात्-प्रभृतीनि च># । । पाणिनीयसूत्र १,४.७४ । ।



_____काशिका १,४.७४:

विभाषा कृञि इति वर्तते ।
साक्षात्-प्रभृतीनि शब्दरूपाणि कृञि विभाषा गति-सञ्ज्ञानि भवन्ति ।
साक्षात्प्रभृतिषु च्व्यर्थवचनं ।
साक्षात्कृत्य, साक्षात्कृत्वा ।
मिथ्याकृत्य, मिथ्या कृत्वा ।
साक्षाथ् ।
मिथ्या ।
चिन्ता ।
भद्रा ।
लोचन ।
विभाषा ।
सम्पत्का ।
आस्था ।
अमा ।
श्रद्धा ।
प्राजर्या ।
प्राजरुहा ।
वीजर्या ।
वीजरुहा ।
संसर्या ।
अर्थे ।
लवणं ।
उष्णं ।
शीतं ।
उदकं ।
आर्द्रं ।
गतिसञ्ज्ञा-संनियोगेन लवणादीनां मकारन्तत्वं निपात्यते ।
अग्नौ ।
वशे ।
विकम्पते ।
विहसने ।
प्रहसने ।
प्रतपने ।
प्रादुस् ।
नमस् ।
आविस् । ।


____________________________________________________________________

  1. <अनत्याधान उरसि-मनसी># । । पाणिनीयसूत्र १,४.७५ । ।



_____काशिका १,४.७५:

विभाषा कृञि इति वर्तते ।
अत्याधानं उपश्लेषणम्, तद्-अभावेऽनत्याधाने उरसि-मनसी शब्दौ विभाषा कृञि गति-सञ्ज्ञौ भवतः ।
उरसिकृत्य, उरसि कृत्वा ।
मनसिकृत्य, मनसि कृत्वा ।
अनत्यावाने इति किं ? उरसि कृत्वा पाणिं शेते । ।


____________________________________________________________________


  1. <मध्ये पदे निवचने च># । । पाणिनीयसूत्र १,४.७६ । ।



_____काशिका १,४.७६:

विभाषा कृञि इति वर्तते ।
च-कारातनत्याधाने इति च ।
मद्ये पदे निवचने इत्येते शब्दा अनत्याधाने विभाषा कृञि गति-सज्ञा भवन्ति ।
मद्येकृत्य, मध्ये कृत्वा ।
पदेकृत्य, पदे कृत्वा ।
निवचनं वचनाभावः ।
निवचनेकृत्य, निवचने कृत्वा ।
वाचं नियम्य इत्यर्थः अनत्याधाने इत्येव, हस्तितः पदे कृत्वा शिरः शेते । ।


____________________________________________________________________


[#९३]

  1. <नित्यं हस्ते पानाव्-उपयमने># । । पाणिनीयसूत्र १,४.७७ । ।



_____काशिका १,४.७७:

कृञि इति वर्तते ।
हस्ते पाणौ इत्येतौ शब्दौ कृञि नित्यं गतिसञ्ज्ञौ भवतः उपयमने ।
उपयमनं दारकर्म ।
हस्तेकृत्य ।
पाणौकृत्य ।
दारकर्म कृत्वा इत्यर्थः ।
उपयमने इति किं ? हस्ते कृत्वा कार्षापनं गतः । ।


____________________________________________________________________


  1. <प्राध्वं वन्धने># । । पाणिनीयसूत्र १,४.७८ । ।



_____काशिका १,४.७८:

कृञि इति वर्तते ।
प्राध्वं इति मकारान्तं अव्ययमानुकूल्ये वर्तते ।
तद्-आनुकूल्यं वन्धन-हेतुकं यदा भवति तदा प्राध्वंशब्दः कृञि नित्यं गतिसञ्ज्ञो भवति ।
प्राध्वंक्र्त्य ।
बन्ध्ने इति किं ? प्राध्वं कृत्वा शकटं गतः । ।


____________________________________________________________________


  1. <जीविका-उपनिषदावौपम्ये># । । पाणिनीयसूत्र १,४.७९ । ।



_____काशिका १,४.७९:

कृञि इति वर्तते ।
जीविका उपनिषदित्येतौ शब्दौ औपम्ये विषहे कृञि गतिसञ्ज्ञौ भवतः ।
जीविकाकृत्य ।
उपनिषत्कृत्य ।
औपम्ये इति किं ? जीविकां कृत्वा गतः । ।


____________________________________________________________________


  1. <ते प्राग्धातोः># । । पाणिनीयसूत्र १,४.८० । ।



_____काशिका १,४.८०:

ते गत्युपसर्ग-सञ्ज्ञका धातोः प्राक्प्रयोक्तव्याः ।
तथा चैवोदाहृताः ।
तेग्रहणं उपसर्ग-अर्थं ।
गतयो ह्यनन्तराः । ।


____________________________________________________________________


  1. <छन्दसि परेऽपि># । । पाणिनीयसूत्र १,४.८१ । ।



_____काशिका १,४.८१:

प्राक्प्रयोगे प्रप्ते छन्दसि परेऽपि अभ्यनुज्ञायन्ते ।
छन्दसि विषये गत्युपसर्ग-सञ्ज्ञकाः प्रेऽपि पूर्वेऽपि प्रयोक्तव्याः ।
न च प्रेषां प्रयुज्यमानानां सञ्ज्ञा-कार्यं किञ्चिदस्ति ।
केवलं प्रप्रयोगेऽपि क्रियायोगे एषां अस्ति इति ज्ञाप्यते ।
याति नि हस्तिना, नियाति हस्तिना ।
हन्ति नि मुष्टिना, निहन्ति मुष्टिना । ।


____________________________________________________________________


  1. <व्यवहिताश्च># । । पाणिनीयसूत्र १,४.८२ । ।


_____काशिका १,४.८२:

व्यवहिताश्च गत्युपसर्ग-सञ्ज्ञकाः छन्दसि दृश्यन्ते आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
आ याहि । ।


____________________________________________________________________


  1. <कर्मप्रवचनीयाः># । । पाणिनीयसूत्र १,४.८३ । ।



_____काशिका १,४.८३:

कर्मप्रवचनीयाः इत्यधिकारो विदितव्यः ।
यानित ऊर्ध्वं अनुक्रमिष्यामः कर्मप्रवचनीय. सञ्ज्ञास्ते वेदितव्याः अधिरीश्वरे (*१,३.९७) इति यावद्वक्ष्यति ।
कर्मप्रवचनीय-प्रदेशाः -- कर्मप्रवचनीय-युक्ते द्वितीया (*२,३.८) इत्येवं आदयः । ।


____________________________________________________________________


[#९४]

  1. <अनुर्लक्षणे># । । पाणिनीयसूत्र १,४.८४ । ।



_____काशिका १,४.८४:

अनु-शब्दो लक्षणे ध्योत्ये कर्मप्रवचनीय-सञ्ज्ञो भवति ।
शाकल्यस्य संहितामनु प्रावर्षथ् ।
अनडुद्यज्ञमन्वसिञ्चथ् ।
अगस्त्यमन्वसिञ्चत्प्रजाः ।
किं अर्थं इदं उच्यते, यावता लक्षन-इत्थं भूत-आख्यान (*१,४.९०) इति सिद्धैवानोः कर्मप्रवचनीय-सञ्ज्ञा ? हेत्व्-अर्थं तु वचनं ।
हेतु-तृतीयां वाधित्वा द्वितीयऽ+एव यथा स्यात् । ।


____________________________________________________________________

  1. <तृतीया-अर्थे># । । पाणिनीयसूत्र १,४.८५ । ।



_____काशिका १,४.८५:

अनुशब्दस्तृतीयार्थे द्योत्ये कर्मप्रवचनीय-सञ्ज्ञो भवति ।
नदीं अन्ववसिता सेना ।
पर्वतं अन्ववसिता सेना ।
पर्वतेन सम्बद्धा इत्यर्थः । ।


____________________________________________________________________


  1. <हीने># । । पाणिनीयसूत्र १,४.८६ । ।



_____काशिका १,४.८६:

हीनः इति न्यूनः उच्यते, स च+उत्कृष्टापेक्षः ।
तेन+इयं हीन-उत्कृष्ट-सम्बन्धे सञ्ज्ञा विज्ञायते ।
हीने द्योत्ये अयं अनुः कर्मप्रवचनीय-सञ्ज्ञो भवति ।
अनु शाकटायनं वैयाकरणाः ।
अन्वर्जुनं योद्धारः । ।


____________________________________________________________________


  1. <उपोऽधिके च># । । पाणिनीयसूत्र १,४.८७ । ।



_____काशिका १,४.८७:

उप-शब्दः अधिके हीने च द्योत्ये कर्मप्रवचनीय-सञ्ज्ञो भवति ।
उप खार्यं द्रोणः ।
उप निष्के कार्षापणं ।
हीने - उप शाकटायनं वैयाकरणाः । ।


____________________________________________________________________


  1. <अप-परी वर्जने># । । पाणिनीयसूत्र १,४.८८ । ।



_____काशिका १,४.८८:


अप-परी शब्दौ वर्जने द्योत्ये कर्मप्रवचनीय-सञ्ज्ञौ भवतः ।
प्रकृतेन सम्बन्धिना कस्यचिदनभिसम्बन्धः वर्जनं ।
अप त्रिगर्तेभ्यो वृष्टो देवः ।
परि परि त्रिगर्तेभ्यो वृष्टो देवः ।
वर्जने इति किं ? ओदनं परिषिञ्चति । ।


____________________________________________________________________


[#९५]

  1. <आङ्मर्यादा-वचने># । । पाणिनीयसूत्र १,४.८९ । ।



_____काशिका १,४.८९:

आङित्येषा शब्दो मर्यादा-वचने कर्मप्रवचनीय-सञ्ज्ञो भवति ।
अवधिर्मर्यादा ।
वचन-ग्रहणादभिविधिरपि गृह्यते ।
आ पाटलिपुत्राद्वृष्टो देवः ।
आ कुमारं यशः पाणिनेः ।
आ सांकाश्याथ् ।
आ मथुरायाः ।
मर्यादा-वचने इति किं ? ईषद्-अर्थे क्रियायोगे च मा भूत् । ।

____________________________________________________________________


  1. <लक्षन-इत्थं-भूत-आख्यान-भाग-वीप्सासु प्रति-पर्य्-अनवः># । । पाणिनीयसूत्र १,४.९० । ।



_____काशिका १,४.९०:

लक्षणे, इत्थं-भूत-आख्याने, भागे, वीप्सायां च विशाय-भूतायां प्रति परि अनु इत्येते कर्मप्रवचनीय-सञ्ज्ञा भवन्ति ।
लक्षणे तावत्- वृक्षं प्रति विद्योतते विद्युथ् ।
वृक्षं परि ।
वृक्षं अनु ।
इत्थं-भूत-आख्याने - साधुर्देवदत्तो मातरं प्रति ।
मातरं परि ।
मातरं अनु ।
भागे - यदत्र मां प्रति स्याथ् ।
मां परि स्याथ् ।
मामनु स्याथ् ।
वीप्सायां - वृक्षं वृक्षं प्रति सिञ्चति ।
परि सिञ्चति ।
अनु सिञ्चति ।
लक्षणादिषु इति किं ? ओदनं परिषिञ्चति ।
अथ परिशब्द-योगे पञ्चमी कस्मान्न भवति पञ्चम्य्-अप-अङ्-परिभिः (*२,३.१०) इति ? वर्जनविषाये सा विधीयते, अपशब्द-साहचर्यात् । ।


____________________________________________________________________


  1. <अभिरभागे># । । पाणिनीयसूत्र १,४.९१ । ।



_____काशिका १,४.९१:

लक्षन-आदिषु एव भाग-वर्जितेषु अभिः कर्मप्रवचनीय-सञ्ञो भवति ।
वृक्षं अभि विद्योतते विद्युथ् ।
साधुर्देवदत्तो मातरं अभि ।
वृक्षं वृक्षं अभि सिञ्चति ।
अभागे इति किं ? भागः स्वीक्रियमाणोऽंशः ।
यदत्र मम अभिष्यत्तद्दीयतां ।
यदत्र मम भवति तद्दीयतां इत्यर्थः । ।


____________________________________________________________________


  1. <प्रतिः प्रतिनिधि-प्रतिदानयोः># । । पाणिनीयसूत्र १,४.९२ । ।



_____काशिका १,४.९२:

मुख्य-सदृशः प्रतिनिधिः ।
दत्तस्य प्रतिनिर्यातनं प्रतिदानं ।
प्रतिनिधिविषये प्रतिदानविषये च प्रतिः कर्मप्रवचनीय-सञ्ज्ञो भवति ।
अभिमन्युर्-अर्जुनतः प्रति ।
माषानस्मै तिलेभ्यः प्रति यच्छति । ।


____________________________________________________________________


  1. <अधिपरी अनर्थकौ># । । पाणिनीयसूत्र १,४.९३ । ।



_____काशिका १,४.९३:

अधिपरी शब्दौ अनर्थकौ अनर्थ-अन्तरवाचिनौ कर्मप्रवचनीय-सञ्ज्ञौ भवतः ।
कुतोऽध्यागच्छति ।
कुतः पर्यागच्छति ।
गत्य्-उपसर्ग-सञ्ज्ञावाधनार्था कर्मप्रवचनीय-सञ्ज्ञा विधीयते । ।


____________________________________________________________________


[#९६]

  1. <सुः पूजायाम्># । । पाणिनीयसूत्र १,४.९४ । ।



_____काशिका १,४.९४:

सु-शब्दः पूजायां अर्थे कर्मप्रवचनीय-सञ्ज्ञो भवति ।
सु सिक्तं भवता ।
सु स्तुतं भवता ।
धात्व्-अर्थः स्तूयते ।
उपसर्ग-सञ्ज्ञ-आश्रयं षत्वं न भवति ।
पूजायां इति किं ? सुषिक्तं किं तवात्र । ।


____________________________________________________________________


  1. <अतिरतिक्रमणे च># । । पाणिनीयसूत्र १,४.९५ । ।



_____काशिका १,४.९५:

अति-शब्दः अतिक्रमणे, च-कारात्पूजयं च कर्मप्रवचनीय-सञ्ज्ञो भवति ।
निष्पन्नेऽपि वस्तुनि क्रियाप्रवृत्तिः अतिक्रमणं ।
अति सिक्तं एव भवता ।
अति स्तुतं एव भवता ।
पूजायं - अति सिक्तं भवता ।
अति स्तुतं एव भवता ।
शोभनं कृतं इत्यर्थः । ।


____________________________________________________________________


  1. <अपिः पदार्थ-सम्भावन-अन्ववसर्ग-गर्हा-समुच्चयेषु># । । पाणिनीयसूत्र १,४.९६ । ।



_____काशिका १,४.९६:

पदार्थे, सम्भावने, अन्ववसर्गे, गर्हायाम्, समुच्चये च वर्तमानः अपिः कर्मप्रवचनीय-सञ्ज्ञो भवति ।
पदान्तरस्य अप्रयुज्यमानस्य अर्थः पदार्थः - सर्पिषोऽपि स्याथ् ।
मधुनोऽपि स्याथ् ।
मात्रा, बिन्दुः, स्तोकं इत्यस्य अर्थे ऽपि शब्दो वर्तते ।
सम्भावनं अधिकार्थ-वचनेन शक्तेरप्रतिघाताविष्करनं - अपि सिञ्चेन्मूलक-सहस्रं ।
अपि स्तुयाद्राजानं ।
अन्ववसर्गः कामचार-अभ्यनुज्ञानं - अपि सिञ्च ।
अपि स्तुहि ।
गर्हा निन्दा - धिग्जाल्मं देवदत्तम्, अपि सिञ्चेत्पलाण्डुं ।
अपि स्तुयाद्वृषलं ।
समुच्चये - अपि सिञ्च ।
अपि स्तुहि ।
सिञ्च च स्तुहि च ।
उपसर्गसञ्ज्ञाबाधनात्षत्वं न भवति । ।


____________________________________________________________________


  1. <अधिरीश्वरे># । । पाणिनीयसूत्र १,४.९७ । ।



_____काशिका १,४.९७:

ईश्वरः स्वामी, स च स्वं अपेक्षते ।
तदयं स्वस्वामि-सम्बन्धे अधिः कर्मप्रवचनीय-सञ्ज्ञो भवति ।
तत्र कदाचित्स्वामिनः कर्मप्रवचनीय-विभक्तिः सप्तमी भवति, कदाचित्स्वाथ् ।
अधि ब्रह्मदत्ते पञ्चालाः ।
अधि पञ्चालेषु ब्रह्मदत्तः । ।


____________________________________________________________________


  1. <विभाषा कृञि># । । पाणिनीयसूत्र १,४.९८ । ।



_____काशिका १,४.९८:
अधिः करोतौ विभाषा कर्मप्रवचनीय-सञ्ज्ञो भवति ।
यदत्र मामधि करिष्यति ।
कर्मप्रवचनीय-सञ्ज्ञ-अपक्षे गतिसञ्ज्ञा-बाधनात्तिङि च+उदात्तवति (*८,१.७१) इति निघातो न भवति । ।


____________________________________________________________________


[#९७]

  1. <लः परस्मैपदम्># । । पाणिनीयसूत्र १,४.९९ । ।



_____काशिका १,४.९९:

लः इति षष्ठी आदेश-अपेक्षा ।
ल-आदेशाः परस्मैपद-सञ्ज्ञा भवन्ति ।
तप्, तस्, झ ।
सिप्, थस्, थ ।
मिप्, वस्, मस् ।
शतृक्वसू च परस्मैपद-प्रदेशाः - सिचि वृद्धिः प्रस्मैपदेषु (*७,२.१) इत्येवं आदयः । ।


____________________________________________________________________


  1. <तङ्-आनावात्मनेपदम्># । । पाणिनीयसूत्र १,४.१०० । ।



_____काशिका १,४.१००:

तङिति प्रत्याहारो नवानां वचनानां ।
आनः इति शानच्-कानचोर्-ग्रहनं ।
पूर्वेण परस्मैपदस्-अञ्ज्ञायां प्राप्तायां तङ्-आनयोरात्मनेपद-सञ्ज्ञा विधीयते ।
त, आताम्, झ ।
थास्, आथाम्, ध्वं ।
इट्, वहि, महिङ् ।
आनहः खल्वपि - शानच्-कानचौ ।
लः इत्येव, कतीह निघ्नानाः ।
आत्मनेपद-प्रदेशाः - अनुदत्त-ङित आत्मनेपदं (*१,३.१२) इत्येवं आदयः । ।


____________________________________________________________________


  1. <तिङस्त्रीणि त्रीणि प्रथम-मध्यम-उत्तमाः># । । पाणिनीयसूत्र १,४.१०१ । ।



_____काशिका १,४.१०१:

तिङोऽष्टादश प्रत्ययाः ।
नव परस्मैपद-सञ्ज्ञकाः, नव-आत्मनेपद-सञ्ज्ञकाः ।
तत्र परस्मैप्रदेषु त्रयस्त्रिकाः यथाक्रमं प्रथम-मध्यम-उत्तम-सञ्ज्ञा भवन्ति ।
तिप्, तस्, झि इति प्रथमः ।
सिप्, थस्, थ इति मद्यमः ।
मिप्, वस्, मसिति उत्तमः ।
आत्मनेपदेषु - त, आताम्, झ इति प्रथमः ।
थास्, आथाम्, ध्वं इति मध्यामः ।
इट्, वहि, महिङिति उत्तमः ।
प्रथम-मध्यम-उत्तम-प्रदेशाः - शेषे प्रथमः (*१,४.१०८) इत्येवं आदयः । ।


____________________________________________________________________


  1. <तान्येकवचनाद्विवचनबहुवचनान्येकशः># । । पाणिनीयसूत्र १,४.१०२ । ।



_____काशिका १,४.१०२:


____________________________________________________________________


  1. <सुपः># । । पाणिनीयसूत्र १,४.१०३ । ।


_____काशिका १,४.१०३:

तिङां त्रिकेषु एकवचनादि-सञ्ज्ञा विहिताः ।
सम्प्रति सुपां त्रिकेषु विधीयन्ते ।
सुपश्च त्रीणि त्रीणि पदानि एकश एकवचन-द्विवचन-बहुवचन-सञ्ज्ञानि भवन्ति ।
सु इति एकवचनं ।
औ इति द्विवचनं ।
जसिति बहुवचनं ।
एवं सर्वत्र । ।


____________________________________________________________________


  1. <विभक्तिश्च># । । पाणिनीयसूत्र १,४.१०४ । ।



_____काशिका १,४.१०४:

त्रीणि त्रीणि इत्यनुवर्तते ।
त्रीणि त्रीणि विभक्ति-सञ्ज्ञाश्च भवन्ति सुपस्तिङश्च ।
विभक्ति-प्रदेशाः - अष्टन आ विभक्तौ (*७,२.८४) इत्येवं आदयः । ।


____________________________________________________________________


[#९८]

  1. <युष्मद्य्-उपपदे समान-अधिकरणे स्थानिन्यपि मध्यमः># । । पाणिनीयसूत्र १,४.१०५ । ।



_____काशिका १,४.१०५:

लस्य (*३,४.७७) इत्यधिकृत्य सामान्येन तिब्-आदयो विहिताः ।
तेषां अयं पुरुष-नियमः क्रियते ।
युष्मद्य्-उपपदे सति व्यवहिते चाव्यवहिते सति समानाधिकरणे समान-अभिधेये तुल्य-कारके स्थानिनि प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपि मध्यम-पुरुषो भवति ।
त्वं पचसि ।
युवां पचथः ।
यूयं पचथ ।
अप्रयुज्यमानेऽपि - पचसि ।
पचथः ।
पचथ । ।


____________________________________________________________________


  1. <प्रहासे च मन्य-उपपदे मन्यतेरुत्तम एकवच्च># । । पाणिनीयसूत्र १,४.१०६ । ।



_____काशिका १,४.१०६:

प्रहासः परिहासः क्रीडा ।
प्रहासे गम्यमाने मन्य-उपपदे धातोर्मध्यम-पुरुषो भवति, मन्यतेश्च-उत्तमः, स च एकवद्भवति ।
एहि मन्ये ओदनं भोक्ष्यसे इति, न हि भोक्ष्यसे, भुक्तः सोऽतिथिभिः ।
एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यात्स्तेन ते पिता ।
मध्यम-उत्तमयोः प्राप्तयोः उत्तम-मध्यमौ विधीयेते ।
प्रहासे इति किं ? एहि मन्यसे ओदनं भोक्ष्ये इति ।
सुष्ठु मन्यसे ।
साधु मन्यसे । ।


____________________________________________________________________


  1. <अस्मद्युत्तमः># । । पाणिनीयसूत्र १,४.१०७ । ।



_____काशिका १,४.१०७:

उत्तमपुरुषो नियम्यते ।
अस्मद्य्-उपपदे समानाभिधेये प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपि उत्तमपुरुषो भवति ।
अहं पचामि ।
आवां पचावः ।
वयं पचामः ।
अप्रयुज्यमानेऽपि - पचामि ।
पचावः ।
पचामः । ।


____________________________________________________________________


  1. <शेषे प्रथमः># । । पाणिनीयसूत्र १,४.१०८ । ।



_____काशिका १,४.१०८:

शेषः इति मध्यम-उत्तम-विषयादन्य उच्यते ।
यत्र युष्मद्-अस्मदी समनाधिकरणे उपपदे न स्तः, तत्र शेषे प्रथमपुरुषो भवति ।
पचति ।
पचतः ।
पचन्ति । ।


____________________________________________________________________


  1. <परः संनिकर्षः संहिता># । । पाणिनीयसूत्र १,४.१०९ । ।



_____काशिका १,४.१०९:

पर-शब्दोऽतिशये वर्तते ।
संनिकर्षः प्रत्यासत्तिः ।
परो यः सन्निकर्षः, वर्णानां अर्धमात्राकालव्यवधानं, स संहितासञ्ज्ञो भवति ।
दध्यत्र ।
मध्वत्र ।
संहिता-प्रदेशाः -- सिंहितायां (*६,१.७२) इत्येवं आदयः । ।


____________________________________________________________________

  1. <विरामोऽवसानम्># । । पाणिनीयसूत्र १,४.११० । ।



_____काशिका १,४.११०:

विरतिः विरामः ।
विरम्यतेऽनेन इति वा विरामः ।
सोऽवसान-सञ्ज्ञो भवति ।
दधिं ।
मधुं ।
वृक्षः ।
प्लक्षः ।
अवसान-प्रदेशाः - खर्-अवसानयोर्विसर्जनीयः (*८,३.१५) इत्येवं आदयः । ।
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमोध्यायस्य चतुर्थः पादः । ।