← पञ्चमोध्यायः काशिकावृत्तिः
षष्टोध्यायः
[[लेखकः :|]]
सप्तमोध्यायः →
  1. प्रथमोध्यायः
  2. द्वितीयोध्यायः
  3. तृतीयोध्यायः
  4. चतुर्थोध्यायः
  5. पञ्चमोध्यायः
  6. षष्टोध्यायः
  7. सप्तमोध्यायः
  8. अष्टमोध्यायः




षष्टोऽध्यायः प्रथमः पादः ।


____________________________________________________________________


[#५९४]

  1. <एक-अचो द्वे प्रथमस्य># । । PS_६,१.१ । ।



_____Sठाऱ्ठ्JKव्_६,१.१ः

अधिकारोऽयं ।
एकाचः इति च, द्वे इति च, प्रथमस्य इति च त्रितयं अधिकृतं वेदितव्यं ।
इत उत्तरं यद्वक्ष्यामः प्राक्संप्रसारणविधानात्तत्र एकाचः प्रथमस्य द्वे भवतः इत्येवं तद्वेदितव्यं ।
वक्ष्यति - लिटि धातोरनभ्यासस्य (*६,१.८) इति ।
तत्र धातोरवयवयस्य अनभ्यासस्य प्रथमस्य+एकाचो द्वे भवतः ।
जजागार ।
पपाच ।
इयाय ।
आर ।
एकाच इति बहुव्रीहिनिर्देशः ।
एकोऽच्यस्य सोऽयं एकाचित्यवयवेन विग्रहः ।
तत्र समुदायः समासार्थः ।
अभ्यन्तरश्च समुदायेऽवयवो भवति इति साच्कस्य+एव द्विर्वचनं भवति ।
एवं च पचित्यत्र येन+एव अचा समुदायः एकाच्, तेना+एव तदवयवोऽच्छब्दः पशब्दश्च ।
तत्र पृथगवयवैकाच्न द्विरुच्यते, किं तर्हि, समुदायैकाजेव ।
तथा हि सकृच्छास्त्रप्रवृत्त्या सावयवः समुदायोऽनुगृह्यते ।
पपाच इत्यत्र प्रथमत्वं व्यपदेशिवद्भावाथ् ।
इयाय, आर इत्यत्र एकाच्त्वं अपि व्यपदेशिभावादेव ।
द्विःप्रयोगश्च द्विर्वचनं इदं ।
आवृत्तिसङ्ख्या हि द्वे इति विधीयते ।
तेन स एव शब्दो द्विरुचार्यते, न च शब्दान्तरं तस्य स्थाने विधीयते । ।


____________________________________________________________________


  1. <अजादेर्द्वितीयस्य># । । PS_६,१.२ । ।



_____Sठाऱ्ठ्JKव्_६,१.२ः

प्रथम-द्विर्वचन-अपवादोऽयं ।
अजादेर्द्वितियस्य एकचो द्विर्वचनं अधिक्रियते ।
अचादिर्यस्य धातोः तदवयवस्य द्वितीयस्य एकाचो द्वे भवतः ।
अटिटिषति ।
अशिशिषति ।
अरिरिषति ।
अर्तेः स्मि-पूङ्-र्-अञ्ज्व्-अशां सनि (*७,२.७४) इति इट्क्रियते ।
तस्मिन्कृते गुणे च रपरत्वे च द्विर्वचनेऽचि (*१,२.५९) इति स्थानिवद्भावः प्राप्नोति ।
तत्र प्रतिविधानं द्विर्वचननिमित्तेऽचि इति उच्यते ।
न च अत्र द्विर्वचननिमित्तमिठ् ।
किं तर्हि ? कार्यी ।
न च कार्यी निमित्तत्वेन अश्रीयते ।
तथा हि - क्ङिनिमित्तयोर्गुणवृद्ध्योः प्रतिषेधो विधीयमानः शयिता इत्यत्र न भवति, न हि कार्यिणः शीङो गुणं प्रति निमित्तभावः इति ।
अत्र केचिदजादेः इति कर्मधारयात्पञ्चमीं इच्छन्ति ।
अच्च असौ आदिश्च इत्यजादिः, तस्मातजादेरुत्तरस्य एकाचो द्वे भवतः इति ।
तेषां द्वितीयस्य इति विस्पष्टर्थं द्रष्टाव्यं । ।


____________________________________________________________________


  1. <न न्द्राः संयोगादयः># । । PS_६,१.३ । ।



_____Sठाऱ्ठ्JKव्_६,१.३ः

द्वितीयस्य इति वर्तते ।
द्वितीयस्य एकाचोऽवयवभूतानां न्द्राणां तदन्तर्भावात्प्राप्तं द्विर्वचनं प्रतिषिध्यते ।
नकारदकाररेफा द्वितीयैकाचोऽवयवभूताः संयोगादयो न द्विरुद्यन्ते ।
उन्दिदिषति ।
अड्डिडिषति ।

[#५९५]

अर्चिचिषति ।
न्द्राः इति किं ? ईचिक्षिषते ।
संयोगादयः इति किं ? प्राणिणिषति ।
अनितेः (*८,४.१९) उभौ साभ्यासस्य (*८,४.२१) इति णत्वं ।
अजादेः इत्येव, दिद्रासति ।
केचिदजादेः इत्यपि पञ्चम्यन्तं कर्मधारयं अनुवर्तयन्ति ।
तस्य प्रयोजनम्, इन्दिद्रीयिषति इति ।
अजादेरनन्तरत्वाभावाद्दकारो द्विरुच्यत एव, नकारो न द्विरुच्यते ।
इन्द्रं इच्छति इति क्यछ् ।
तदन्तातिन्द्रीयितुं इच्छति इति सन् ।
बकारस्य अप्ययं प्रतिषेधो वक्तव्यः ।
उब्जिजिषति ।
यदा बकरोपध उब्जिरुपदिश्यते तदा अयं प्रतिषेधः ।
दकारोपधोपदेशे तु न वक्तव्यः ।
बत्वं तु दकारस्य विधातव्यं ।
यकारपरस्य रेफस्य प्रतिषेधो न भवति इति वक्तव्यं ।
अरार्यते ।
अर्तेः अट्यर्तिशूर्णोतीनां उपसंख्यानं (*७,४.८२) इति यङ् ।
तत्र यङि च (*७,४.३०) इति गुणः, ततो द्विर्वचनं ।
ईर्ष्यतेस्तृतीयस्य द्वे भवत इति वक्तव्यं ।
कस्य तृतीयस्य ? केचिदाहुर्व्यञ्जनस्य इति ।
ईर्ष्यियिषति ।
अपरे पुनः तृतीयस्य एकाचः इति व्याचक्षते ।
ईर्ष्यिषिषति ।
कण्ड्वादीनां तृतीयस्य+एअकाचो द्वे भवत इति वक्त्व्यं ।
कण्डूयियिषति ।
असुयियिषति ।
वा नामधातूनां तृतीयस्य+एकाच्द्वे भवत इति वक्तव्यं ।
अश्वीयियिषति ।
अशिश्वीयिषति ।
अपर आह - यथा+इष्टं नामधातुष्विति वक्तव्यं ।
पुपुत्रीयिषति ।
पुतित्रीयिषति ।
पुत्रीयियिषति ।
पुपुतित्रीयियिषति ।
पुत्रीयिषिषति । ।


____________________________________________________________________


[#५९६]

  1. <पूर्वोऽभ्यासः># । । PS_६,१.४ । ।



_____Sठाऱ्ठ्JKव्_६,१.४ः

द्वे इति प्रथमन्तं यदनुवर्तते तदर्थादिह षष्ठ्यन्तं जायते ।
तत्र प्रत्यासत्तेरस्मिन्प्रकरणे ये द्वे विहिते तयोर्यः पूर्वोऽवयवः सोऽभ्याससञ्ज्ञो भवति ।
पपाच ।
पिपक्षति ।
पापच्यते ।
जुहोति ।
अपीपचथ् ।
अभ्यासप्रदेशास्तु अत्र लोपोऽभ्यासस्य (*७,४.५८) इत्येवं आदयः । ।


____________________________________________________________________

  1. <उभे अभ्यस्तम्># । । PS_६,१.५ । ।



_____Sठाऱ्ठ्JKव्_६,१.५ः

द्वे इति वर्तमाने उभेग्रहणं समुदायसञ्जाप्रतिपत्त्यर्थं ।
ये एवे विहिते ते उभे अपि समुदिते अभ्यस्तसञ्ज्ञे भवतः ।
ददति ।
ददथ् ।
दधतु ।
उभेग्रहणं किं ? नेनिजति इत्यत्र अभ्यस्तानां आदिः इति समुदाये उदात्तत्वं यथा स्यात्, प्रत्येकं पर्यायेण वा मा भूतिति ।
अभ्यस्तप्रदेशाः - अभ्यस्तानां आदिः (*६,१.१८९) इत्येवं आदयः । ।


____________________________________________________________________


  1. <जक्षित्य्-आदयः षट्># । । PS_६,१.६ । ।



_____Sठाऱ्ठ्JKव्_६,१.६ः

अभ्यस्तं इति वर्तते ।
जक्ष इत्ययं धातुः इत्यादयश्च अन्ये षट्धातवः अभ्यस्तसञ्ज्ञा भवन्ति ।
सेयं सप्तानां धातूनां अभ्यस्तसञ्ज्ञा विधीयते ।
जक्ष भक्षहसन्योः इत्यतः प्रभृति वेवीङ्वेतिना तुल्ये इति यावथ् ।
जक्षति ।
जाग्रति ।
दरिद्रति ।
चकासति ।
शासति ।
दीध्यते, वेव्यते इत्यत्र अभ्यस्तानां आदिः इत्येष स्वरः प्रयोजनं ।
दीध्यतिति च शतरि व्यत्ययेन सम्पादिते न अभ्यस्ताच्छतुः (*७,१.७८) इति नुमः प्रतिषेधः । ।


____________________________________________________________________


  1. <तुजादीनां दीर्घोऽभ्यासस्य># । । PS_६,१.७ । ।



_____Sठाऱ्ठ्JKव्_६,१.७ः

तुजादीनां इति प्रकारे आधिशब्दः ।
कश्च प्रकारः ? तुजेर्दीर्घोऽभ्यासस्य न विहितः, दृश्यते च ।
ये तथाभूताः ते तुजादयः, तेषां अभ्यासस्य दीर्घः साधुर्भवति ।
तूतुजानः ।
मामहानः ।
अनड्वान्दाधार ।
व्रतं मीमाय ।
दाधार ।
स तूताव दीर्घश्च+एषां छन्दसि प्रत्ययविशेषे एव दृश्यते, ततोऽन्यत्र न भवति ।
तुतोज शबलान्हरीन् । ।


____________________________________________________________________


  1. <लिटि धातोरनभ्यासस्य># । । PS_६,१.८ । ।



_____Sठाऱ्ठ्JKव्_६,१.८ः

लिटि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्य+एकाचो द्वितीयस्य वा यथायोगं द्वे भवतः ।
पपाच ।
पपाठ ।
प्रोर्णुनाव ।
वाच्य ऊर्णोर्णुवद्भावः इति वचनादूर्णोतेः इजादेः इति आं न भवति ।
लिटि इति किं ? कर्ता ।
हर्ता ।
धातोः इति किं ? ससृवांसो विशृण्विरे इम इन्द्राय सुन्विरे अनभ्यासस्य इति किं ? कृष्णो नोनाव वृषभो यदीदं नोनूयतेर्नोनाव ।

[#५९७]

समान्या मरुतः संमिमिक्षुः ।
लिटि उसन्तः ।
द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यं ।
यो जागार तमृचः कामयन्ते ।
दाति प्रियाणि इति । ।


____________________________________________________________________


  1. <सन्-यङोः># । । PS_६,१.९ । ।



_____Sठाऱ्ठ्JKव्_६,१.९ः

धातोरनभ्यासस्य इति वर्तते ।
सन्यङोः इति च षष्ठ्यन्तं एतथ् ।
सनन्तस्य यङन्तस्य च अनभ्यासस्य धातोरवयवस्य प्रथमस्य+एकाचो द्वितीयस्य वा यथायोगं द्वे भवतः ।
पिपक्षति ।
पिपतिषति ।
अरिरिषति ।
उन्दिदिषति ।
यङन्तस्य - पापच्यते ।
अटाट्यते ।
यायज्यते ।
अरार्यते ।
प्रोर्णोनूयते ।
अनभ्यासस्य इत्येव जुगुप्सिषते ।
लोलूयिषते । ।


____________________________________________________________________


  1. <श्लौ># । । PS_६,१.१० । ।



_____Sठाऱ्ठ्JKव्_६,१.१०ः

श्लौ परतः अनभ्यासस्य धातोरवयवस्य प्रथमस्य+एकाचो द्वितियस्य वा यथायोगं द्वे भवतः ।
जुहोति ।
बिभेति ।
जिह्नेति । ।


____________________________________________________________________


  1. <चङि># । । PS_६,१.११ । ।



_____Sठाऱ्ठ्JKव्_६,१.११ः

चङि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचो द्वितीयस्य वा यथायोगं द्वे भवतः ।
अपीपचथ् ।
अपीपठथ् ।
आटिटथ् ।
आशिशथ् ।
आर्दिदथ् ।
पचादीनां ण्यनतानां चङि कृते णिलोपः, उपधाह्रस्वत्वं, द्विर्वचनं इत्येषां कार्याणां प्रवृत्तिक्रमः ।
तथा च सन्वल्लघुनि चङ्परे इति सन्वद्भावो विधीयमानो ह्रस्वस्य स्थानिवद्भावान्न प्रतिषिध्यते ।
यो ह्यनादिष्टादचः पूर्वः तस्य विधिं प्रति स्थानिवद्भावो भवति ।
न च अस्मिन्कार्याणां क्रमेणानिष्टादचः पूर्वोऽभ्यासो भवति इति ।
आटिटतिति द्विर्वचनेऽचि (*१,१.५९) इति स्थानिवद्भावात्द्वितीयस्य+एकाचः द्विर्वचनं भवति । ।


____________________________________________________________________


  1. <दाश्वान्साह्वान्मीड्वांश्च># । । PS_६,१.१२ । ।



_____Sठाऱ्ठ्JKव्_६,१.१२ः

दाश्वान्साह्वान्मीड्वानित्येते शदाः छन्दसि भाषायां च अविशेषेण निपायने ।
दाश्वानिति दाशृ दाने इत्येतस्य धातोः क्वसौ अद्विर्वचनं अनिट्त्वं च निपात्यते ।
दाश्वांसो दाशुषः सुतं इति ।

[#५९८]

साह्वानिति षह मर्षणे इत्येतस्य परस्मैपदम्, उपधादीर्घत्वम्, अद्विर्वचनं अनिट्त्वं च निपातनाथ् ।
साह्वान्बलाहकः ।
मीड्वानिति मिह सेचने इत्येतस्य अद्विर्वचनम्, अनिट्त्वम्, उपधादीर्घत्वं ढत्वं च निपातनाथ् ।
मीड्वस्तोकाय तनयाय मृल ।
एकवचनं अतन्त्रं ।
कृञादीनां के द्वे भवत इति वक्तव्यं ।
क्रियतेऽनेन इति चक्रं ।
चिक्लिदं ।
कृञः क्लिदेश्च घञर्थे कविधानं इति कः प्रत्ययः ।
चरिचलिपतिवदीनां द्वित्वमच्याक्च अभ्यासस्य ।
चरादीनां धातूनां अपि प्रत्यये परतः द्वे भवतः ।
अभ्यासस्य आगागमो भवति ।
आगागमविधानसामर्थ्याच्च हलादिशेषो न भवति ।
हलादिशेषे हि सयागमस्य आदेशस्य च विशेषो न अस्ति ।
चराचरः ।
चलाचल ।
पतापतः ।
वचावदः ।
वेति वक्तव्यं ।
तेन चरः पुरुषः, चलो रथः , पतं यानम्, वदो मनुष्यः इत्येवं आदि सिद्धं भवति ।
हन्तेर्घत्वं च ।
हन्तेरचि प्रत्यये परतो द्वे भवतः, अभ्यासस्य च हकारस्य च घत्वम्, आक्चागमो भवति ।
परस्य अभ्यासाच्च (*७,३.५५) इति कुत्वं घनाघनः क्षोभणश्चर्षणीनां ।
पाटेर्णिलुक्चोक्च दीर्घश्च अभ्यासस्य ।
पाटेरचि परतो द्वे भवतो णिलुक्च भवति ।
अभ्यासस्य च ऊगागमो दीर्घश्च भवति ।
पाटूपटः । ।


____________________________________________________________________


  1. <ष्यङः सम्प्रसारणं पुत्र-पत्योस्तत्पुरुषे># । । PS_६,१.१३ । ।



_____Sठाऱ्ठ्JKव्_६,१.१३ः
पुत्र पति इत्येतस्योरुत्तरपदयोस्तत्पुरुषे समासे ष्यङः संप्रसारणं भवति ।
यणः स्थाने इग्भवति इत्यर्थः ।
कारीषगन्धीपुत्रः ।
कारिषगन्धीपति ।
क्ॐउदगन्धीपुत्रः ।
क्ॐउदगन्धीपतिः ।
करीषस्य+इव गन्धोऽस्य, कुमुदस्य+इव गन्धोऽस्य इति बहुव्रीहिः, तत्र उपमानाच्च (*५,४.१३७) इति गन्धस्य+इदन्तादेशः ।
करीषगन्धेः अपत्यं इत्यण्, तदन्तात्स्त्रियां अण्-इञोरन्नर्षयोर्गुरूपत्तमयोः ष्यङ्गोत्रे (*४,१.७८) इति ष्यङ्, ततश्च अपि विहिते षष्ठीसमासः, सम्प्रसारणस्य (*६,३.१३९) इति दीर्घत्वं ।
ष्यङः इति इं ? भ्यापुत्रः ।
क्षत्रियापुत्रः ।
पुत्रपत्योः इति किं ? कारीषगन्ध्याकुलं ।
क्ॐउदगन्ध्याकुलं ।
तत्पुरुषे इति किं ? कारीषगन्ध्या पतिरस्य ग्रामस्य कारीषगन्ध्यापतिः अयं ग्रामः ।

[#५९९]

ष्यङः इति स्त्रीप्रत्ययग्रहणं न स्त्रीप्रत्यये चानुपसर्जने इति प्रत्ययग्रहणपरिभाषया यस्मात्स विहितः तदादेः इत्येष नियमो न अस्ति, तेन परमकारीषगन्ध्यायाः पुत्रः परमकारीषगन्धीपुत्रः, परमकारीषगन्धीपतिः इत्यपि भवति ।

[#५९८]

उपसर्जने तु ष्यङि न भवति ।
अतिक्रान्ता कारीषगन्ध्यां अतिकारीषगन्ध्या, तस्य पुत्रः अतिकारीषगन्ध्यापुत्रः ।
अतिकारीषगन्ध्यापति ।
पुत्रपत्योः केवलयोः उत्तरपदयोः इदं सम्प्रसारणं, तदादौ तदन्ते च न भवति, कारीषगन्ध्यापुत्रकुलम्, कारिषगन्ध्यापरमपुत्रः इति ।
ष्यङन्ते च यद्यप्यन्ये यणः सन्ति, तथापि ष्यङः एव सम्प्रसारणं, निर्दिश्यमानस्य आदेशा भवन्ति इति ।
सम्प्रसारणं इति चाधिक्रियते विभाषा परेः (*६,१.४४) इति यावत् । ।


____________________________________________________________________


[#५९९]

  1. <बन्धुनि बहुव्रीहौ># । । PS_६,१.१४ । ।



_____Sठाऱ्ठ्JKव्_६,१.१४ः

स्यङः संप्रसारणं इति अनुवर्तते ।
बन्धुशब्दे उत्तरपदे बहुव्रीहौ समासे ष्यङः सम्प्रसारणं भवति ।
कारीषगन्ध्या बन्धुः अस्य कारीषगन्धीबन्धुः ।
क्ॐउदगन्धीबन्धुः ।
बहुव्रीहौ इति किं ? कारीषगन्ध्यायाः बन्धुः कारीषगन्ध्याबन्धुः ।
अत्र अपि पूर्ववदेव ।
परमकारीषगन्धीबन्धुः इत्यत्र भवति ।
अतिकारीषगन्ध्याबन्धुः इति च न भवति, तथा कारीषगन्ध्याबन्धुधनः, कारीषगन्ध्यापरमबन्धुः इति ।
बन्धुनि इति नपुंसकालिङ्गनिर्देशः शब्दरूपापेक्षया, पुंलिङ्गाभिधेयस्तु अयं बन्धुशब्दः ।
मातच्मातृकमातृषु ।
ष्यङः सम्प्रसारणं भवति विभाषया बहुव्रीहावेव ।
कारीषगन्ध्या माता अस्य इत्येवं बहुव्रीहौ कृते एतस्मादेव उपसङ्ख्यानात्पक्षे मतृशब्दस्य मातजादेशः ।
तत्र चित्करनसमर्थ्याद्बहुव्रीहिस्वरं अन्तोदात्तत्वं बाधते ।
मातृमातृकशब्दयोश्च भेदेन+उपादानात्नद्यृतश्च (*५,४.१५३) इति कबपि विकल्प्यते ।
कारीषगन्धीमातः, कारीषगन्ध्यमातः, कारीषगन्धीमातृकः, कारिषगन्ध्यामातृकः, कारीषगन्धीमाता, कारीषगन्ध्यामाता । ।


____________________________________________________________________


  1. <वचि-स्वपि-यजादीनां किति># । । PS_६,१.१५ । ।



_____Sठाऱ्ठ्JKव्_६,१.१५ः

सम्प्रसारणं इति वर्तते ।
ष्यङः इति निवृत्तं ।
वचि - वच परिभाषणे, ब्रुवो वचिः (*२,४.५३) इति च ।
स्वपि - ञिष्वप शये ।
यजादयः - यज देवपूजासंगतिकरनदानेसु इत्यतः प्रभृति आगणान्ताः ।
तेषां वचिस्वपि यजादीनां किति प्रत्यये परतः सम्प्रसारणं भवति ।

[#६००]

वचि - उक्तः ।
उक्तवा ।
स्वपि - सुप्तः ।
सुप्तवान् ।
यज - इष्टः ।
इष्टवान् ।
वप - उप्तः ।
उप्तवान् ।
वह-ऊढः ।
ऊढवान् ।
वस-उषितः ।
उषितवान् ।
वेञ्-उतः ।
उतवान् ।
व्येञ्- संवीतः ।
संवीतवान् ।
ह्वेञ्- आहूतवान् ।
वद - उदितः ।
उदितवान् ।
टुओश्वि - शूनः ।
शूनवान् ।
धातोः स्वरूपग्रहणे तत्प्रत्ययेकार्यं विज्ञायते ।
तेन+इह न भवति, वाच्यते, वाचिकः इति । ।


____________________________________________________________________


  1. <ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां ङिति च># । । PS_६,१.१६ । ।



_____Sठाऱ्ठ्JKव्_६,१.१६ः

ग्रह उपादाने, ज्या वयोहानौ, वेञो वयिः (*२,४.४१), व्यध ताडने, वश कान्तौ, व्यच्व्याजीकरणे, ओव्रश्चू छेदने, प्रच्छ ज्ञीप्सायाम्, भ्रस्ज पाके इत्येतेषां धातूनां ङीति प्रत्यये परतः चकारात्कति च संप्रसारणं भवति ।
ग्रह - गृहीतः ।
गृहीतवान् ।
ङिति - गृह्णाति जरीगृह्यते ।
ज्या - जीनः ।
जीनवान् ।
ल्वादिभ्यः (*८,२.४४) इति निष्ठानत्वं ।
ङिति- जिनाति ।
जेजीयते ।
हलः (*६,४.२) इति सम्प्रसारणदीर्घे कृते प्वादीनां इति ह्रस्वः क्रियते ।
वयि - लिटि परतः वेञो वयिः आदेशः, तस्य ङिदभावात्किदेवोदाह्रियते ।
ऊयतुः ।
ऊयुः ।
यद्येवं वयिग्रहणं अनर्थकम्, यजादिषु वेञ्पठ्यते ? न+एवं शक्यं ।
लिटि तस्य वेञः (*६,१.४०) इति प्रतिषेधो वक्ष्यते, तत्र यथा+एव स्थानिवद्भावाद्व्येर्विधिः एवं प्रतिषेधोऽपि प्राप्नोति ? न+एष दोषः ।
लिटि वयो यः (*६,१.३८) इति यकारस्य संप्रसारणप्रतिषेधाद्वयेर्विधौ ग्रहणं प्रतिषेधे चाग्रहणमनुमास्यते ? सत्यं एतथ् ।
एष एव अर्थः साक्षान्निर्देशेन व्येः स्पष्टीक्रियते ।
व्यध - विद्धः ।
विद्धवान् ।
ङिति - विध्यति ।
वेविध्यते ।
वश - उशितः ।
उशितवान् ।
ङिति - उष्टः ।
उशन्ति ।
व्यच - विचितः ।
विचितवान् ।
ङिति - विचति ।
वेविच्यते ।
व्यचेः कुटादित्वमनसि प्रतिपादितम्, तेन सर्वत्र अञ्णिति प्रत्यये सम्प्रसारणं भवति, उद्विचिता, उद्विचितुम्, उद्विचितव्यं इति ।
व्रश्चेः - वृक्णः ।
वृक्णवान् ।
अथ कथं अत्र कुत्वं, व्रश्चभ्रस्ज इति हि षत्वेन भवितव्यं ? निष्ठादेशः षत्वस्वरप्रत्ययविधीड्विधिषु सिद्धो वक्तव्यः ।

[#६०१]

तत्र ष्त्वं प्रति नत्वस्य सिद्धत्वाद्ज्ञलादिर्निष्ठा न भवति ।
कुत्वे तु कर्तव्ये तदसिद्धं एव इति प्रवर्तते कुत्वं ।
ङिति - वृश्चति ।
वरीवृश्च्यते ।
प्रच्छ - पृष्टः ।
पृष्टवन् ।
ङिति - पृच्छति ।
परीपृछ्यते ।
प्रश्नः ।
नङि तु प्रश्ने च आसन्नकाले (*३,२.११७) इति निपातनादसंप्रसारणं ।
भ्रस्ज - भृष्टः ।
भृष्टवान् ।
ङिति - भृज्जति ।
बरीभृज्यते ।
सकारस्य ज्ञलां जश्ज्ञशि (*७,४.५३) इति जश्त्वेन दकारः, स्तोः श्चुना श्चुः (*८,४.४०) इति श्चुत्वेन जकारः । ।


____________________________________________________________________


  1. <लिट्यभ्यासस्य+उभयेषाम्># । । PS_६,१.१७ । ।



_____Sठाऱ्ठ्JKव्_६,१.१७ः

उभयेषां वच्यादीनां ग्रह्यादीनां च लिटि परतोऽभ्यासस्य सम्प्रसारणं भवति ।
वचि - उवाच ।
उवचिथ ।
स्वपि - सुष्वाप ।
सुष्वपिथ ।
यज इयाज ।
इयजिथ ।
डुवप्- उवाप ।
उअवपिथ ।
ग्रह्यादीनां - तत्र ग्रहेरविशेषः ।
जग्राह ।
जग्रहिथ ।
ज्या - जिज्यौ ।
जिज्यिथ ।
वयि - उवाय ।
उवयिथ ।
व्यध - विव्याध ।
विव्यधिथ ।
वश - उवाश ।
उवशिथ ।
व्यच - विव्याच ।
विव्यचिथ ।
वृश्चतेः सत्यसति वा योगे न अस्ति विशेषः ।
योगारम्भे तु सति यदि सम्प्रसारणं अकृत्वा हलादिशेषेण रेफो निवर्त्यते, तदा वकारस्य सम्प्रसारणं प्राप्नोति ।
अथ रेफस्य सम्प्रसारणं कृत्वा उरदत्वं रपरत्वं च क्रियते, तदानी - मुरदत्वस्य स्थानिवद्भावात्न सम्प्रसारणे सम्प्रसारणं (*६,१.३७) इति प्रतिषेधो भवति इत्यस्ति विशेषः ।
वव्रश्च ।
वव्रश्चिथ ।
पृच्छति भृज्जत्योरविशेषः ।
अकिदर्थं च+इदं अभ्यासस्य सम्प्रसारणं विधीयते ।
किति हि परत्वाद्धातोः सम्प्रसारणे कृते पुनः प्रसङ्गविज्ञानाद्द्विर्वचनम्, ऊचतुः, ऊचुः इति ।
अधिकारादेव+उभयेषां ग्रहणे सिद्धे पुनरुभयेषां इति वचनं हलादिः शेषं अपि बाधित्वा सम्प्रसारणं एव यथा स्यातिति ।
विव्याध । ।


____________________________________________________________________


  1. <स्वापेश्चङि># । । PS_६,१.१८ । ।



_____Sठाऱ्ठ्JKव्_६,१.१८ः

स्वापेः इति स्वपेर्ण्यन्तस्य ग्रहणं ।
तस्य चङि परतः संप्रसारणं भवति ।
असूषुपत्, असूषुपताम्, असूषुपन् ।
द्विर्वचनात्पूर्वं अत्र संप्रसारणम्, तत्र कृते लघूपधगुणः, तस्य णौ चङ्युपधायाः ह्रस्वत्वम्, ततो द्विर्वचनम्, दीर्घो लघोः (*७,४.९४) इति दीर्घत्वं ।
चङि इति किं ? स्वाप्यते ।
स्वापितः ।
किति इति निवृत्तं ।
ङिति इति केवलं इह अनुवर्तते इत्येतद्दुर्विज्ञानं । ।


____________________________________________________________________


[#६०२]

  1. <स्वपि-स्यमि-व्येञां यङि># । । PS_६,१.१९ । ।



_____Sठाऱ्ठ्JKव्_६,१.१९ः

ञिष्वप शये, स्यमु, स्वन, ध्वन शब्दे, व्येञ्संवरणे इत्येतेषां धातूनां यङि परतः सम्प्रसारणं भवति ।
सोषुप्यते ।
सेसिम्यते ।
वेवीयते ।
यङि इति किं ? स्वप्नक् । ।


____________________________________________________________________


  1. <न वशः># । । PS_६,१.२० । ।



_____Sठाऱ्ठ्JKव्_६,१.२०ः

यगि इति वर्तते ।
वशेर्धातोर्यङि परतः संप्रसारणं न भवति ।
वावश्यते, वावश्येते, वावश्यन्ते ।
यगि इति किं ? उष्टः ।
उशन्ति । ।


____________________________________________________________________


  1. <चायः की># । । PS_६,१.२१ । ।



_____Sठाऱ्ठ्JKव्_६,१.२१ः

यगि इति वर्तते ।
चायृ पूजानिशामनयोः इत्येतस्य धातोः यगि परतः की इत्ययं आदेशो भवति ।
चेकीयते, चेकीयेते, चेकीयन्ते ।
दीर्घोच्चारणं यङ्लुगर्थं ।
चेकीतः । ।


____________________________________________________________________

  1. <स्फायः स्फी निष्ठायाम्># । । PS_६,१.२२ । ।



_____Sठाऱ्ठ्JKव्_६,१.२२ः

स्फायी ओप्यायी वृद्धौ इत्यसय्धातोः निष्ठायां परतः स्फी इत्ययं आदेशो भवति ।
स्फीतः ।
स्फीतवान् ।
निष्थायां इति किं ? शातिः ।
स्फातीभवति इत्येतदपि क्तिन्नन्तस्य+एव रूपं, न निष्थान्तस्य ।
निष्ठायां इत्येतदधीक्रीयते लिङ्यङोश्च (*६,१.२९) इति प्रागेतस्मात्सूत्रात् । ।


____________________________________________________________________


  1. <स्त्यः प्रपूर्वस्य># । । PS_६,१.२३ । ।



_____Sठाऱ्ठ्JKव्_६,१.२३ः

निष्ठायां इति वर्तते, संप्रसारणं इति च ।
स्फी इत्येतन्न स्वर्यते ।
स्त्यै ष्ट्यै शब्दसंघातयोः ।
द्वयोरप्येतयोः धात्वोः स्त्यारूपमापन्नयोः सामान्येन ग्रहणं ।
स्त्या इत्यस्य प्रपूर्वस्य धातोर्निष्ठायां परतः सम्प्रसारणं भवति ।
प्रस्तीतः ।
प्रस्तीतवान् ।
सम्प्रसारणे कृते यण्वत्त्वं विहतं इति ।
निष्ठानत्वं न भवति ।
प्रस्त्योऽन्यतरस्यां (*८,२.५४) इति तु पक्षे मकारः क्रियते ।
प्रस्तीमः प्रस्तीमवान् ।
प्रपूर्वस्य इति किं ? संस्त्यानः ।
संस्त्यानवान् ।
प्रस्त्यः इत्येव सिद्धे पूर्वग्रहणं इह अपि य्था स्यात्, प्रसंस्तीतः, प्रसंस्तीतवान् ।
तत्कथं प्रपूर्वस्य इति षष्ठ्यर्थे बहुव्रीहिः ? प्रः पूर्वो यस्य धातूपसर्गसमुदायस्य स प्रपूर्वः तदवयवस्य स्त्यः इति व्यधिकरणे षष्ठ्यौ ।
तत्र प्रसंस्तीतः इत्यत्र अपि प्रपूर्वसमुदायावयवः स्त्याशब्दो भवति । ।

____________________________________________________________________


[#६०३]

  1. <द्रवमूर्ति-स्पर्शयोः श्यः># । । PS_६,१.२४ । ।



_____Sठाऱ्ठ्JKव्_६,१.२४ः

द्रवमूर्तौ द्रवकाठिन्ये, स्पर्शे वर्तमानस्य श्यैङ्गतौ इत्यस्य धातोर्निष्ठायां परतः सम्प्रसारणं भवति ।
शिनं घृतं ।
शीना वसा ।
शीनं मेदः ।
द्रवावस्थायाः काठिन्यं गतं इत्यर्थः ।
श्योऽस्पर्शे (*८,२.४७) इति निष्थानत्वं ।
स्पर्शे - शीतं वर्तते ।
शीतो वायुः ।
शीतमुदकं ।
गुणमात्रे तद्वति च अस्य शीतशब्दस्य वृत्तिर्द्रष्टव्या ।
द्रवमूर्तिस्पर्शयोः इति किं ? संश्यानो वृश्चिकः । ।


____________________________________________________________________


  1. <प्रतेश्च># । । PS_६,१.२५ । ।



_____Sठाऱ्ठ्JKव्_६,१.२५ः

श्यः इति वर्तते ।
प्रतेरुत्तरस्य श्यायतेर्निष्ठायां परतः सम्प्रसरणं भवति ।
प्रतिशीनः ।
प्रतिशीनवान् ।
द्रवमूर्तिस्पर्शाभ्यां अन्यत्र अपि यथा स्यातिति सूत्रारम्भः । ।

____________________________________________________________________


  1. <विभाषाऽभ्य्-अव-पूर्वस्य># । । PS_६,१.२६ । ।



_____Sठाऱ्ठ्JKव्_६,१.२६ः

श्यः इति वर्तते ।
अभि अव इत्येवं पूर्वस्य श्यायतेर्निष्थायां विभाषा सम्प्रसारणं भवति ।
अभिशीनं अभिश्यानं ।
अवशीनम्, अवश्यानं ।
द्रवमूर्तिस्पर्शविवक्षायां अपि विकल्पो भवति ।
अभिशीनं घृतम्, अभिश्यानं घृतं ।
अवशीनं मेदः, अवश्यानं मेदः ।
अभिशीतो वायुः, अभिश्यानः ।
अवशीतमुदकं , अवश्यानमुदकं ।
सेयमुभयत्रविभाषा द्रष्टव्या ।
पूर्वग्रहणस्य च प्रयोजनम्, सम्भिश्यानं, समवश्यानं इत्यत्र मा भूतिति केचिद्व्यचक्षते , नकिलायं अभ्यवपूर्वः समुदायः इति योऽत्र अभ्यवपूर्वः समुदायस्तदाश्रयो विक्लपः कस्मान्न भवति ? तस्मातत्र भवितव्यं एव ।
यदि तु न+इष्यते ततो यत्नानतरमास्थेयं अस्माद्विह्बाषाविज्ञानाथ् ।
व्यवस्थेयं ।
पूर्वग्रहणस्य च अन्यत्प्रयोजनं वक्तव्यं । ।


____________________________________________________________________


  1. <शृतं पाके># । । PS_६,१.२७ । ।



_____Sठाऱ्ठ्JKव्_६,१.२७ः

विभाषा इत्यनुवर्तते ।
श्रा पाके इत्येतस्य धातोः ण्यन्तस्य अण्यन्तस्य च पाकेऽभिधेये क्तप्रत्यये परतः शृभावो निपात्यते विभाषा ।
शृतं क्षीरं ।
शृतं हविः ।
व्यवस्थितविभाषा च+इयम्, तेन क्षीरहविषोर्नित्यं शृभावो भवति, अन्यत्र न भवति श्राणा यवागूः श्रपिता यवागूः इति ।
यदा अपि बाह्ये प्रयोजके द्वितीयो णिचुत्पद्यते तदा अपि निष्यते, श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेन इति ।
श्रातिरयं अकर्मकः कर्मकर्तृविषयस्य पचेरर्थे वर्तते, स ण्यन्तः अपि प्राकृतं पच्यर्थमाहुः ।
तदत्र द्वयोरपि शृतं इति इष्यते ।
शृतं क्षीरं स्वयं एव ।
शृतं क्षीरं देवदत्तेन ।
पाकग्रहणं निपातनविषयप्रदर्शनार्थम्, तेन क्षीरहविषोरेव । ।

____________________________________________________________________


[#६०४]

  1. <प्यायः पी># । । PS_६,१.२८ । ।



_____Sठाऱ्ठ्JKव्_६,१.२८ः

विभाषा इत्येव ।
ओप्यायी वृद्धौ इत्यस्य धातोः निष्ठायां विभाषा पी इत्ययं आदेशो भवति ।
पीनं मुखं ।
पीनौ बाहू ।
पीनमुरः ।
इयं अपि व्यवस्थितविभाषा+एव ।
तेन अनुपसर्गस्य नित्यं भवति, सोपसर्गस्य तु न+एस्व भवति ।
आप्यानश्चन्द्रमाः ।
आङ्पूर्वस्यान्धूधसोः भवत्येव, आपीनोऽन्धुः, आपीनमूधः इति । ।


____________________________________________________________________


  1. <लिड्-यङोश्च># । । PS_६,१.२९ । ।



_____Sठाऱ्ठ्JKव्_६,१.२९ः


विभाषा इति निवृत्तं ।
प्यायः पी (*६,१.२८) इत्येतत्चशब्देन अनुकृष्यते ।
लिटि यङि च परतः प्यायः पी इत्ययं आदेशो भवति ।
आपिप्ये, आपिप्याते, आपिप्यिरे ।
परत्वात्पीभावे कृते पुनः प्रसङ्गविज्ञानात्द्विर्वचनम्, एरनेकाचः इति यणादेशः ।
यङि - आपेपीयते, आपेपीयेते, अपेपीयन्ते । ।


____________________________________________________________________


  1. <विभाषा श्वेः># । । PS_६,१.३० । ।



_____Sठाऱ्ठ्JKव्_६,१.३०ः

लिड्य्ङोः इति वर्तते, सम्प्रसरणं इति च ।
लिटि यङि च श्वयतेर्धातोः विभाषा सम्प्रसारणं भवति ।
शुशाव, शिश्वाय ।
शुशुवतुः, शिश्वियतुः ।
यगि - शोशूयते, शेश्वीयते ।
तदत्र यङि सम्प्रसारणं अप्राप्तं विभाष विधीयते ।
लिटि तु किति यजादित्वात्नित्यं प्राप्तं, तत्र सर्वत्रविकल्पो भवति इत्येषा उभयत्रविभाषा ।
यदा च धातोर्न भवति तदा लिट्यभ्यासस्य+उभयेषां (*६,१.१७) इत्यभ्यासस्य अपि न भवति । ।


____________________________________________________________________


  1. <णौ च संश्-चङोः># । । PS_६,१.३१ । ।



_____Sठाऱ्ठ्JKव्_६,१.३१ः

विभाषा श्वेः (*६,१.३०) इति वर्तते ।
सन्परे चङ्परे च णौ परतः श्वयतेर्धातोः विभाषा सम्प्रसारणं भवति ।
शुशावयिषति ।
चङि - अशूशवत्, अशिश्वयथ् ।
सम्प्रसारणं सम्प्रसारणाश्रयं च बलीयो भवति इति वचनादन्तरङ्गं अपि वृद्ध्यादिकं सम्प्रसारणेन बाध्यते ।
कृते तु संप्रसारणे वृद्धिरावादेशश्च ।
ततः ओः पु-यण्-ज्य्-अपरे (*७,४.८०) इत्येतद्वचनं ज्ञापकं णौ कृतस्थानिवद्भावस्य, इति स्थानिवद्भावात्शुशब्दो द्विरुच्यते । ।


____________________________________________________________________


  1. <ह्वः संप्रसारणम्># । । PS_६,१.३२ । ।



_____Sठाऱ्ठ्JKव्_६,१.३२ः

णौ च संश्चङोः (*६,१.३१) इति वर्तते ।
सन्परे चङ्परे च नौ परतो ह्वः संप्रसारणं भवति ।
जुहावयिषति, जुहावयिष्तः, जुहावयिषन्ति ।
अजूहवत्, अजूहवताम्, अजूहवन् ।
संप्रसारणस्य बलीयस्त्वात्शाच्छासाह्वाव्यावेपां युक्(*७,३.३७) इति प्रागेव युक्न भवति ।
सम्प्रसारणं इति वर्तमाने पुनः सम्प्रसारणं इत्युक्तं विभाषा इत्यस्य निवृत्त्यर्थं ।
ह्वः सम्प्रसारणं अभ्यस्तस्य इत्येकयोगेन सिद्धे पृथग्योगकरनं अनभ्यस्तनिमित्तप्रत्ययव्यवधाने सम्प्रसारणाभावज्ञापनार्थं ।
ह्वयकं इच्छति ह्वायकीयते ।
ह्वायकीयतेः सन्जिह्वायकीयिषति । ।


____________________________________________________________________


[#६०५]

  1. <अभ्यस्तस्य च># । । PS_६,१.३३ । ।



_____Sठाऱ्ठ्JKव्_६,१.३३ः

ह्वः इति वर्तते, तदभ्यस्तस्य इत्यनेन व्यधिकरणं ।
अभ्यस्तस्य यो ह्वयतिः ।
कश्च अभ्यस्तस्य ह्वयतिः ? कारणं ।
तेन अभ्यस्तकारणस्य ह्वयतिः प्रागेव द्विर्वचनात्सम्प्रसारणं भवति ।
जुहाव ।
जुहूयते ।
जुहूषति । ।


____________________________________________________________________


  1. <बहुलं छन्दसि># । । PS_६,१.३४ । ।



_____Sठाऱ्ठ्JKव्_६,१.३४ः

हवः इति वर्तते ।
छन्दसि विषये ह्वयतेर्धातोर्बहुलं संप्रसारणं भवति ।
इन्द्राग्नी हुवे ।
देवीं सरस्वतीं हुवे ।
ह्वेञो लटि आत्मनेपदोत्तमैकवचने बहुलं छन्दसि इति शपो लुकि कृते सम्प्रसारणमुवङादेशश्च ।
न च भवति ।
ह्वयामि मरुतः शिवान् ।
ह्वयामि देवां । ।


____________________________________________________________________


  1. <चायः की># । । PS_६,१.३५ । ।



_____Sठाऱ्ठ्JKव्_६,१.३५ः

बहुलं छन्दसि इति वर्तते ।
चायतेर्धातोः छन्दसि विषये बहुलं की इत्ययं आदेशो भवति ।
वियन्ता न्यन्यं चिक्युर्न निचिक्युरन्यं ।
लिटि उसि रूपं ।
न भवति ।
अग्नेर्ज्योतिर्निचाय्यः । ।


____________________________________________________________________


  1. <अपस्पृधेथाम्-आनृचुर्-आनृहुश्-चिच्युषेतित्याज-श्राताः श्रितम्-आशीराशीर्ताः># । । PS_६,१.३६ । ।



_____Sठाऱ्ठ्JKव्_६,१.३६ः

छन्दसि इति वर्तते ।
अपस्पृधेथां इति स्पर्ध सङ्घर्षे इत्यस्य लङि आथामि द्विवर्चनं रेफस्य संप्रसारणं अकारलोपश्च निपातनाथ् ।
इन्द्रश्च विष्णो यदपस्पृधेथां ।
अपस्पर्धेथां इति भाषायां ।
अपर आह - स्पर्धेः अपपूर्वस्य लिङि आथामि सम्प्रसरणं अकारलोपश्च निपातनाथ् ।
बहुलं छन्दस्यमङ्योगेऽपि (*६,४.७५) इत्यडागमाभावः ।
अत्र प्रत्युदाहरणं अपास्पर्धेथां इति भषायां ।
आनृचुः, आनृहुः इति ।
अर्च पूजायाम्, अर्ह पूजायं इत्यनयोर्धात्वोलिट्युसि सम्प्रसारणं अकारलोपश्च निपातनाथ् ।
ततो द्विर्वचनम्, उरदत्वम्, अत आदेः (*७,४.७०) इति दीर्घत्वं ।
तस्मान्नुड्द्विहलः (*७,४.७१) इति नुडागमः ।
य उग्रा अर्कमानृचुः ।
न वसून्यानृहुः ।
आनर्चुः, आनर्हुः इति भाषायां ।

[#६०६]

चिच्युषे ।
च्युङ्गतौ इत्यस्य धातोः लिति सेशब्दे अभ्यासय सम्प्रसारणं अनिट्च निपातनाथ् ।
चिच्युषे ।
चुच्युविषे इति भाषायां ।
तित्याज ।
त्यज हानौ इत्यसय्धातोः लिटि अभ्यासस्य सम्प्रसारणं निपात्यते ।
तित्याज ।
तत्याज इति भाषायां ।
श्राताः इति ।
श्रीञ्पाके इत्येतस्य धातोः निष्ठायां श्राभावः ।
श्रातास्त इन्द्रसोमाः ।
श्रितं इति तस्य+एव श्रीणातेः ह्रस्वत्वं ।
सोमो गौरी अधिश्रितः ।
श्रिता नो गृहाः ।
अनयोः श्राभावश्रिभावयोर्विषयविभागं इच्छति, सोमेषु बहुषु श्राभाव एव, अन्यत्र श्रिभावः इति ।
सोमादन्यत्र क्वचिदेकस्मिन्नपि श्राभावो दृश्यते ।
यदि श्रातो जुहोतन ।
तस्य श्राताः इति बहुवचनस्य अविवक्षितत्वादुपसंग्रहो द्रष्टव्यः ।
आशीः, आशीर्तः इति ।
तस्य+एव श्रीणातेराङ्पूर्वस्य क्विपि निष्ठायां च शीरादेशः, निष्ठायाश्च नत्वाभावो निपातनाथ् ।
तामाशीरा दुहन्ति ।
आशीर्त ऊर्जं ।
क्षीरैर्मध्यत आशीर्तः । ।


____________________________________________________________________


  1. <न सम्प्रसारणे सम्प्रसारणम्># । । PS_६,१.३७ । ।



_____Sठाऱ्ठ्JKव्_६,१.३७ः

सम्प्रसारने परतः पूर्वस्य यणः सम्प्रसारणं न भवति ।
व्यध - विद्धः ।
व्यच - विचितः ।
व्येञ्- संवीतः ।
एकयोगलक्षनं अपि सम्प्रसारणं अत एव वचनात्प्रथमं परस्य यणः क्रियते, पूर्वस्य च प्रसक्तं प्रतिषिध्यते ।
सम्प्रसारणं इति वर्तमाने पुनः सम्प्रसारनग्रहणं विदेशस्थस्य अपि सम्प्रसारणस्य प्रतिषेधो यथा स्यातिति ।
श्व-युव-मघोनां अतद्धिते (*६,४.१३३) - यूनः ।
यूना ।
सम्प्रसारणग्रहणसामर्थ्यातेव पूर्वस्य प्रतिषेधे वक्तव्ये स्वर्णदीर्घत्वं एकादेशो न स्थानिवद्भवति ।
सति वा स्थानिवत्त्वे व्यवधानमेतावदाश्रयिष्यते ।
ऋचि त्रेरुत्तरपदादिलोपश्छन्दसि ।
ऋचि परतः त्रेः सम्प्रसारणं भवति उत्तरपदादिलोपश्च छन्दसि विषये ।
तिस्र ऋचः यस्मिन्तत्तृचं सूक्तं ।
तृचं साम ।
ऋक्पूरब्धूःपथामानक्षे (*५,४.७४) इति समासान्तः ।
छन्दसि ति किं ? त्यृचं कर्म ।
रयेर्मतौ बहुलं ।
रयिशब्दस्य छन्दसि विषये मतौ परतो बहुलं सम्प्रसारणं भवति ।
आ रेवानेतु नो विशः ।
न च भवति ।
रयिमान्पुष्टिवर्धनः । ।


____________________________________________________________________


[#६०७]

  1. <लिटि व्यो यः># । । PS_६,१.३८ । ।



_____Sठाऱ्ठ्JKव्_६,१.३८ः

न सम्प्रसारणं इति अनुवर्तते ।
लिटि परतो वयो यकारस्य सम्प्रसारणं न भवति ।
उवाय, ऊयतुः, ऊयुः ।
लिड्ग्रहणं उत्तरार्थं । ।


____________________________________________________________________


  1. <वश्च अस्य अन्यतरस्यां किति># । । PS_६,१.३९ । ।



_____Sठाऱ्ठ्JKव्_६,१.३९ः


अस्य वयो यकारस्य किति लिटि परतो वकारादेशो भवति अन्यतरस्यां ।
ऊवतुः, ऊवुः ।
ऊयतुः, ऊयुः ।
किति इति किं ? उवाय ।
उवयिथ । ।


____________________________________________________________________

  1. <वेञः># । । PS_६,१.४० । ।



_____Sठाऱ्ठ्JKव्_६,१.४०ः

लिटि इत्यनुवर्तते ।
वेञ्तन्तुसन्ताने इत्यस्य धातोः लिति परतः सम्प्रसारणं न भवति ।
ववौ, ववतुः, ववुः ।
किति यजादित्वात्धातोः प्राप्तं अकित्यपि लिट्यभ्यासस्य+उभयेषां (*६,१.१७) इत्यभ्यासस्य, अतः उभयं प्रतिषिध्यते । ।


____________________________________________________________________


  1. <ल्यपि च># । । PS_६,१.४१ । ।



_____Sठाऱ्ठ्JKव्_६,१.४१ः

वेञः इत्यनुवर्तते ।
ल्यपि च पर्तो वेञः सम्प्रसारणं न भवति ।
प्रवाय ।
उपवाय ।
पृथग्योगकरणं उत्तरार्थं । ।


____________________________________________________________________


  1. <ज्यश्च># । । PS_६,१.४२ । ।



_____Sठाऱ्ठ्JKव्_६,१.४२ः

ल्यपि इत्येव ।
ज्या वयोहानौ इत्यस्य धातोः ल्यपि परतः सम्प्रसारणं न भवति ।
प्रज्याय ।
उपज्याय । ।


____________________________________________________________________


  1. <व्यश्च># । । PS_६,१.४३ । ।



_____Sठाऱ्ठ्JKव्_६,१.४३ः


ल्यपि इत्येव ।
व्येञ्संवरणे इत्येतस्य धातोः ल्यपि परतः सम्प्रसारणं न भवति ।
प्रव्याय ।
उपव्याय ।
योगविभागः उत्तरार्थः । ।


____________________________________________________________________


  1. <विभाषा परेः># । । PS_६,१.४४ । ।



_____Sठाऱ्ठ्JKव्_६,१.४४ः

ल्यपि च व्यश्च इति अनुवर्तते ।
परेरुत्तरस्य व्येञित्येतस्य धातोः ल्यपि परतः विभाषा सम्प्रसारणं न भवति ।
परिवीय यूपम्, परिव्याय ।
सम्प्रसारणे कृते परपूर्वत्वे च ह्रस्वस्य इति तुक प्राप्नोति, स हलः (*६,४.२) इति दीर्घत्वेन परत्वाद्बाध्यते । ।


____________________________________________________________________


[#६०८]

  1. <आदेच उपदेशेऽशिति># । । PS_६,१.४५ । ।



_____Sठाऱ्ठ्JKव्_६,१.४५ः

धातोः इति वर्तते ।
एजन्तो यो धातुरुपदेशे तस्य अकारादेशो भवति, शिति तु प्रत्यये न भवति ।
ग्लै - ग्लाता ।
ग्लातुं ।
ग्लातव्यं ।
शो - निशाता ।
निशातुं ।
निशातव्यं ।
एचः इति किं ? कर्ता ।
हर्ता ।
उपदेशे इति किं ? चेता ।
स्तोता ।
अशिति इति किं ? ग्लायति ।
म्लायति ।
कथं जग्ले, मम्ले ? न+एवं विज्ञायते, शकार इद्यस्य सोऽयं शितिति, किं तर्हि, श एव इत्शिथ् ।
तत्र यस्मिन्विधिस्तदादावल्ग्रहणे इति शिदादौ प्रत्यये प्रतिषेधः ।
एश्शकारान्तो भवति ।
अशिति इति प्रसज्यप्रतिषेधोऽयम्, तेन एतदात्त्वं अनैमित्तिकं प्रागेव प्रत्ययोत्पत्तेर्भवति इति, सुग्लः, सुम्लः इति आतश्चोपसर्गे (*३,१.१३६) इति कप्रत्ययः, सुग्लानः, सुम्लानः इति आतो युच्(*३,३.१२८) इत्येवं आदि सिद्धं भवति इति ।
आकाराधिकारस्त्वयं नित्यं सम्यतेः (*६,१.५७) इति यावत् । ।


____________________________________________________________________


  1. <न व्यो लिटि># । । PS_६,१.४६ । ।



_____Sठाऱ्ठ्JKव्_६,१.४६ः

व्येञित्येतस्य धातोः लिटि परत आकारादेशो न भवति ।
संविव्याय ।
सविव्ययिथ ।
लिट्यभ्यासस्य+उभयेषां (*६,१.१७) इति अभ्यासस्य सम्प्रसारणं ।
णलि अचो ञ्णिति (*७,२.११५) इति वृद्धिः । ।


____________________________________________________________________


  1. <स्फुरति-स्फुलत्योर्घञि># । । PS_६,१.४७ । ।



_____Sठाऱ्ठ्JKव्_६,१.४७ः

अदेचः इति वर्तते ।
स्फुर स्फुल चलने इत्येतयोर्धात्वोः एचः स्थाने घञि परतः आकारादेशो भवति ।
विस्फारः ।
विस्फालः ।
विष्फारः ।
विष्फालः स्फुरतिस्फुलत्योर्निर्-नि-विभ्यः (*८,३.७६) इति वा षत्वं । ।


____________________________________________________________________


  1. <क्री-इङ्-जीनां णौ># । । PS_६,१.४८ । ।



_____Sठाऱ्ठ्JKव्_६,१.४८ः

डुक्रीञ्द्रव्यविनिमये, इङध्ययने जि जये इत्येतेषां धातूनां एचः स्थाने णौ परतः आकारादेशो भवति ।
क्रापयति ।
अध्यापयति ।
जापयति । ।


____________________________________________________________________


[#६०९]

  1. <सिध्यतेरपारलौकिके># । । PS_६,१.४९ । ।



_____Sठाऱ्ठ्JKव्_६,१.४९ः

णौ इत्यनुवर्तते ।
षिधु हिंसासम्राध्योः इत्यस्य धातोः अपारलौकिकेऽर्थे वर्तमानस्य एचः स्थाने णौ परतः आकारादेशो भवति ।
अन्नं साधयति ।
ग्रामं साधयति ।
अपारलौकिके इति किं ? तपस्तापसं सेधयति ।
स्वान्येवैनं कर्माणि सेधयन्ति ।
अत्र हि सिध्यतिः पारलौकिके ज्ञानविशेषे वर्तते ।
तापसः सिध्यति ज्ञानविशेषमासादयति, तं तपः प्रयुङ्क्ते ।
स च ज्ञानविशेषः उत्पन्नः परलोके जन्मान्तरे फलं अभ्युदयलक्षणं उपसंहरन्परलोकप्रयोजनो भवति ।
इह कस्मान्न भवति, अन्नं साधयति ब्राह्मनेभ्यो दास्यामि इति ? सिध्यते - रत्रार्थो निष्पत्तिः ।
तस्याः प्रयोजनं अन्नं ।
तस्य यद्दानं तत्पारलौकिकम्, न पुनः सिद्धिरेव इति न आत्वं पर्युदस्यते ।
सक्षात्परलोकप्रयोजने च सिध्यर्थे कृतवकाशं वचनं एवं विषयं न अवगाहते ।
सिध्यतेः इति श्यना निर्देशः, षिध गत्यां इत्यस्य भौवादिकस्य निवृत्त्यर्थः । ।


____________________________________________________________________


  1. <मीनाति-मिनोति-दीङां ल्यपि च># । । PS_६,१.५० । ।



_____Sठाऱ्ठ्JKव्_६,१.५०ः

आदेच उपदेशे (*६,१.४५) इति वर्तते ।
मीञ्हिंसायाम्, डुमिञ्प्रक्षेपणे, दीङ्क्षये इत्येतेषं धातूनां ल्यपि विषये, चकारादेचश्च विषये उपदेशे एव प्राक्प्रत्ययोत्पत्तेः अलोऽन्यस्य स्थाने आकारादेशो भवति ।
प्रमाता ।
प्रमातव्यं ।
प्रमातुं ।
प्रमाय ।
निमाता ।
निमातव्यं ।
निमातुं ।
निमाय ।
उपदाता ।
उपदातव्यं ।
उपदातुं ।
उपदाय ।
उपदेशे एव आत्वविधानादिवर्णान्तलक्षणः प्रत्ययो न भवति ।
आकारलक्षणश्च भवति, उपदायो वर्तते ।
ईषदुपदानं इति घञ्युचौ भवतः । ।


____________________________________________________________________


  1. <विभाषा लीयतेः># । । PS_६,१.५१ । ।



_____Sठाऱ्ठ्JKव्_६,१.५१ः

ल्यपि इति वर्तते, आदेच उपदेशे इति च ।
लीङ्श्लेषणे इति दिवादिः ।
ली श्लेषणे इति क्र्यादिः ।
तयोः उभयोः अपि यका निर्देशः स्मर्यते ।
लीयतेर्धतोः ल्यपि च एचश्च विषये उपदेशे एव अलोऽन्त्यस्य स्थाने विभाषा आकारादेशो भवति ।
विलता ।
विलातुं ।
विलातव्यं ।
विलाय ।
विलेता ।
विलेतुं ।
विलेतव्यं ।
विलीय ।
निमिमीलियं खलचोः प्रतिषेधो वक्तव्यः ।
ईषत्प्रमयः ।
प्रमयो वर्तते ।
ईषन्निमयः ।
निमयो वर्तते ।
ईषद्विलयः ।
विलयो वर्तते ।
अत्र तु लियो व्यवस्थितविभाषाविज्ञानात्सिद्धं ।
एवं च प्रलम्भनशालीनीकरनयोश्च णौ नित्यमात्त्वं भवति, कस्त्वामुल्लापयते, श्येनो वर्तिकामुल्लापयते । ।


____________________________________________________________________


[#६१०]

  1. <खिदेश्छन्दसि># । । PS_६,१.५२ । ।



_____Sठाऱ्ठ्JKव्_६,१.५२ः

विभाषा इति वर्तते ।
खिद दैन्ये इत्यस्य धातोः एचः स्थाने छन्दसि विषये विभाषा आकारः आदेशो भवति ।
चित्तं चिखाद ।
चित्तं चिखेद ।
छन्दसि इति किं ? चित्तं खेदयति । ।


____________________________________________________________________


  1. <अपगुरो णमुलि># । । PS_६,१.५३ । ।



_____Sठाऱ्ठ्JKव्_६,१.५३ः

गुरी उद्यमने इत्यस्य धातोः अपपूरस्य णमुलि परतः एचः स्थाने विभाषा आकारः आदेशो भवति ।
अपगारमपगारं ।
अपगोरमपगोरं ।
आभीक्ष्ण्ये णमुल्च (*३,४.२२) इति णमुल् ।
अस्यपगारं युध्यन्ते, अस्यपगोरं युध्यन्ते इत्यत्र द्वितीयायां च (*३,४.५६) इति णमुल् । ।


____________________________________________________________________

  1. <चि-स्फुरोर्णौ># । । PS_६,१.५४ । ।



_____Sठाऱ्ठ्JKव्_६,१.५४ः

चिञ्स्फुर इत्येतयोः धात्वोः णौ परतः एचः स्थाने विभाष आकारादेशो भवति ।
चापयति, चययति ।
स्फारयति, स्फोरयति । ।


____________________________________________________________________


  1. <प्रजने वीयतेः># । । PS_६,१.५५ । ।



_____Sठाऱ्ठ्JKव्_६,१.५५ः

णौ इति वर्तते ।
वी गतिप्रजनकान्त्यसनखादनेषु इत्यस्य धातोः प्रजने वर्तमानस्य णौ परतः विभाषा आकारादेशो भवति ।
पुरोवातो गः प्रवापयति, पुरोवातो गाः प्रवाययति ।
गर्भं ग्राहयति इत्यर्थः ।
प्रजनो हि जन्मन उपक्रमो गर्भग्रहणं । ।


____________________________________________________________________


  1. <बिभेतेर्हेतुभये># । । PS_६,१.५६ । ।



_____Sठाऱ्ठ्JKव्_६,१.५६ः

णौ इति वर्तते, विभाषा इति च ।
हेतुरिह पारिभाषिकः स्वतन्त्रस्य प्रयोजकः, ततो यद्भयम्, स यस्य भयस्य साक्षाद्हेतुः, तद्भयं हेतुभयं ।
तत्र वर्तमानस्य ञिभी भये इत्यस्य धातोः णौ परतः विभाषा आकारादेशो भवति ।
मुण्डो भापयते, मुण्डो भीषयते ।
जटिलो भापयते, जटिलो भीषयते ।
भीस्म्योर्हेतुभये (*१,३.३८) इत्यात्मनेपदं ।
भियो हेतुभये षुक्(*७,३.४०) ।
स च आत्त्वपक्षे न भवति ।
लिभियोः ईकारप्रश्लेषनिर्देशादीकारान्तस्य भियः षुक्विधीयते ।
हेतुभये इति किं ? कुञ्चिकयैनं भाययति ।
अत्र हि कुञ्चिकातो भयं करणात्, न हेतोर्देवदत्तात् । ।


____________________________________________________________________


  1. <नित्यं स्मयतेः># । । PS_६,१.५७ । ।



_____Sठाऱ्ठ्JKव्_६,१.५७ः

णौ इति वर्तते, हेतुभये इति च ।
नित्यग्रहणाद्विभाषा इति निवृत्तं ।
ष्मिङीषद्धसने इत्यस्य धातोः हेतुभयेऽर्थे णौ परतो नित्यमकारादेशो भवति ।
मुण्डो विस्मापयते ।
जटिलो विस्मापयते ।
भये इति किं ? कुञ्चिकया एनं विस्मापयति ।
भयशब्देन हेत्वर्थसामान्या, इह स्मयतेरर्थोऽभिधीयते ।
न हि मुख्ये भये स्मयतेर्वृत्तिरस्ति । ।


____________________________________________________________________


[#६११]

  1. <सृजि-दृशोर्ज्ञल्यं अकिति># । । PS_६,१.५८ । ।



_____Sठाऱ्ठ्JKव्_६,१.५८ः

सृज विसर्गे, दृशिर्प्रेक्षणे इत्येतयोः धात्वोः ज्ञलादावकिति प्रत्यये परतः अं आगमो भवति ।
स्रष्टा ।
स्रष्टुं ।
स्रष्टव्यं ।
द्रष्टा ।
द्रष्टुं ।
द्रष्टव्यं ।
लघूपधगुणापवादोऽयं अमागमः ।
अस्राक्षीथ् ।
अद्राक्षीथ् ।
सिचि वृद्धिः अमि कृते भवति, पूर्वं तु बाध्यते ।
ज्ञलि इति किं ? सर्जनं ।
दर्शनं ।
अकिति इति किं ? सृष्टः ।
दृष्टः ।
धातोः स्वरूपग्रहणे तत्प्रतये कार्यविज्ञानादिह न भवति, रज्जुसृड्भ्याम्, देवदृग्भ्यां इति । ।


____________________________________________________________________


  1. <अनुदात्तस्य च र्दुपधस्य अन्यतर्स्याम्># । । PS_६,१.५९ । ।



_____Sठाऱ्ठ्JKव्_६,१.५९ः

उपदेशे इति वर्तते, ज्ञल्यं अकिति इति च ।
उपदेशेऽनुदात्तस्य धातोः ऋकारोपधस्य ज्ञलादावकिति प्रत्यये परतोऽन्यतरस्यां अमागमो भवति ।
त्रप्ता, तर्पिता, तर्प्ता ।
द्रप्ता, दर्पिता, दर्प्ता ।
तृप प्रीणने, दृप हर्षमोचनयोः, इत्येतौ रधादी धतू, तयोः इडागमः रधादिभ्यश्च (*७,२.४५) इति विकल्प्यते ।
अनुदात्तोपदेशः पुनरमर्थ एव ।
अनुदात्तस्य इति किं ? वर्ढा, वर्ढुम्, वर्ढव्यं ।
वृहू उद्यमने इत्ययं उदात्तोपदेशः ऊदित्वाच्चास्येड्विकलोप्यते ।
ऋदुपधस्य इति किं ? भेत्ता ।
छेत्ता ।
ज्ञलि इत्येव, तर्पणं ।
दर्पणं ।
अकिति इत्येव, तृप्तः ।
दृप्तः । ।

____________________________________________________________________


  1. <शीर्षंश्छन्दसि># । । PS_६,१.६० । ।



_____Sठाऱ्ठ्JKव्_६,१.६०ः

शीर्षनिति शब्दान्तरं शिरःशब्देन समानार्थं छन्दसि विषये निपात्यते, न पुनरयं आदेशः शिरःशब्दस्य ।
शोऽपि हि छन्दसि प्रयुज्यत एव ।
शीर्ष्णा हि तत्र सोमं क्रीतं हरन्ति ।
यत्ते शीर्ष्णो दौर्भाग्यं ।
छन्दसि इति किं ? शिरः । ।


____________________________________________________________________


  1. <ये च तद्धिते># । । PS_६,१.६१ । ।



_____Sठाऱ्ठ्JKव्_६,१.६१ः

शीर्षनिति वर्तते ।
आदेशोऽयं इष्यते ।
स कथं ? तद्धिते इति हि परं निमित्तं उपादीयते, स तदनुरूपां प्रकृतिं शिरःशब्दं आक्षिपति ।
यकारादौ तद्धिते परतः शिरःशब्दस्य शीर्षन्नादेशो भवति ।
शिर्षण्यो हि मुख्यो भवति ।
शीर्षण्यः स्वरः ।
शिरसि भवः इति शरीर-अवयवाच्च (*४,३.५५) इति यत्, ये च अभाव-कर्मणोः (*६,४.१३८) इति प्रकृतिभावः ।
तद्धिते इति किं ? शिरः इच्छति शिरस्यति ।
वा केशेषु ।
शिरसः शीर्षन्नादेशो वक्तव्यः ।
शीषर्ण्याः केशाः, शिरस्याः केशाः । ।


____________________________________________________________________

[#६१२]

  1. <अचि शीर्षः># । । PS_६,१.६२ । ।



_____Sठाऱ्ठ्JKव्_६,१.६२ः

श्जादौ तद्धिते शिरसः शीर्षशब्दः आदेशो भवति ।
हस्तिशिरसः अपत्यं हास्तिशीर्षिः ।
बाह्वादिभ्यश्च (*४,१.९६) इति इञ् ।
स्थूलशिरसः इदं स्थौ लशीर्षं ।
शीर्षन्भावे हि अन्(*६,४.१६७) इति प्रकृतिभावः स्याथ् ।
हास्तिशीर्षिशब्दात्स्त्रियां इञोऽण्-इञोरनार्षयोः ष्यङादेशे कृते शीर्षस्य शिरःशब्दग्रहणेन ग्रहणात्शीर्षन्नादेशः प्राप्नोति ।
तत्र प्रकृतिभावे सति हास्तिशीर्षण्या इत्यनिष्टं रूपं स्याथ् ।
इष्यते तु हास्तिशीर्ष्या इति ।
तत्कथं ? कर्तव्योऽत्र यत्नः ।
अणिञन्ताद्वा परः प्रत्ययः ष्यङाश्रयितव्यः, तत्र यस्य+इति लोपस्य स्थानिवद्भावाद्व्यवधानं । ।


____________________________________________________________________


  1. <पद्-दन्-नो-मास्-हृन्-निश्-असन्-यूषन्-दोषन्-यकञ्-छकन्न्-उदन्न्-आसञ्छस्प्रभृतिषु># । । PS_६,१.६३ । ।



_____Sठाऱ्ठ्JKव्_६,१.६३ः

पाद दन्त नासिका मास हृदय निशा असृज्यूष दोष यकृत्शकृतुदक आसन इत्येतेषां शब्दानां स्थाने शस्प्रभृतिप्रत्ययेषु परतः पद्दत्नस्माशृद्निशसन्यूषन्दोषन्यकन्शकनुदनासनित्येते आदेशाः यथासङ्ख्यं भवन्ति ।
पद्- निपदश्चतुरो जहि ।
पदा वर्तय गोदुहं ।
पादः पत्(*६,४.१३०) ।
दत्- या दतो धावते तस्यै श्यावदन् ।
नस्- सूकरस्त्वा खनन्नसा ।
मास्- मासि त्वा पश्यामि चक्षुषा ।
हृद्- हृदा पूतं मनसा जातवेदो ।
निश्- अमावास्यायां निशि यजेथ् ।
असन्- असिक्तोऽस्नाऽवरोहति ।
यूषन्- या पात्राणि यूष्ण आसेचनानि ।
दोषन्- यत्ते दोष्णो दौर्भाग्यं ।
यकन्- यक्नोऽवद्यति ।
शकन्- शक्नोऽवद्यति ।
उदन्- उद्नो दिव्यस्य नो देहि ।
आसन्- आसनि किं लभे मधूनि ।
शस्प्रभृतिषु इति किं ? पादौ ते प्रतिपीड्यौ ।
नासिके ते कृशे ।
केचिदत्र छन्दसि इत्यनुवर्तयन्ति ।
अपरे पुनरविशेषेण+इच्छन्ति ।
तथा हि भाषायां अपि पदादयः शब्दाः प्रयुज्यन्ते ।
व्यायामक्षुण्णगात्रस्य पद्भ्यामुद्वर्तितस्य च ।
व्याधयो न+उपसर्पन्ति वैनतेर्यामवोरगाः । ।
इत्येवं आदयः ।
अन्यतरस्यां इत्येतदनुवर्तयन्ति ।
तेन पादादयोऽपि प्रयुज्यन्ते ।
शस्प्रभृतिषु इति प्रकारार्थे प्रभृतिशब्द इति शला दोषणी इत्यत्र अपि दोषन्नादेशो भवति ।
पदादिषु मांस्पृत्स्नूनां उपसङ्ख्यानं ।
मांस पृतना सानु इत्येतेषां स्थाने यथासङ्ख्यं मांस्पृत्स्नु इत्येते आदेशाः भवन्ति ।
मांस्पचन्या उखायाः ।
मांसपचन्या इति प्राप्ते ।
पृत्सु मर्त्यं ।
पृतनासु मर्त्यं इति प्राप्ते ।
न ते दिवो न पृथिव्या अधिस्नुषु ।
अधिसानुषु इति प्राप्ते ।

[#६१३]

नस्नासिकाया यत्तस्क्षुद्रेषु ।
नासिकाया नस्भावो वक्तव्यः यत्तस्क्षुद्र इत्येतेषु परतः ।
नस्यं ।
नस्तः ।
नःक्षुः ।
यति वर्णनगरयोर्न+इति वक्तव्यं ।
नासिक्यो वर्णः ।
नासिक्यं नगरं । ।


____________________________________________________________________


  1. <धात्वादेः षः सः># । । PS_६,१.६४ । ।



_____Sठाऱ्ठ्JKव्_६,१.६४ः

धातोरादेः षकारस्य स्थाने सकारादेशो भवति ।
षह - सहते ।
षिच - सिञ्चति ।
धातुग्रहणं किं ? सोडश ।
षोडन् ।
षण्डः ।
षडिकः ।
आदेः इति किं ? कषति ।
लषति ।
कृषति ।
आदेश प्रत्यययोः (*८,३.५९) इत्यत्र षत्वव्यवस्थार्थं षादयो धातवः केचिदुपदिष्टाः ।
के पुनस्ते ? ये तथा पठ्यन्ते ।
अथवा लक्षणं क्रियते, अज्दन्त्यपराः सादयः षोपदेशाः स्मिस्विदिस्वदिस्वञ्जिस्वपितयश्च, सृपिसृजिस्तृस्त्यासेक्षृवर्जं ।
सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः ।
षोडीयति ।
षण्डीयति ।
ष्ठीवति ।
ष्वष्कते ।
ष्ठिवु इत्यस्य द्वितीयस्थकारष्ठकारश्च+इष्यते ।
तेन तेष्ठीव्यते, टेष्ठीव्यते इति च अभ्यासरूपं द्विधा भवति । ।


____________________________________________________________________


  1. <णो नः># । । PS_६,१.६५ । ।



_____Sठाऱ्ठ्JKव्_६,१.६५ः

धातोरादेः इत्यनुवर्तते ।
धातोरादेर्णकारस्य नकार आदेशो भवति ।
णीञ्- नयति ।
णम - नमति ।
णह - नह्यति ।
धात्वादेः इत्येव, अणति ।
सुब्धातोरयं अपि नेष्यते, णकारं इच्छति णकारीयति ।
उपसर्गादसमासेऽपि णोपदेशस्य (*८,४.१४) इत्यत्र णत्वविधेर्व्यवस्थार्थं णादयो धात्वः केचिदुपदिष्यन्ते ।
के पुनस्ते ? ये तथा पठ्यन्ते ।
अथवा लक्षणं क्रियते, सर्वे णादयो णोपदेशाः, नृतीनन्दिनर्दिनक्कनाटिनाथृनाधृवर्जं । ।


____________________________________________________________________


  1. <लोपो व्योर्वलि># । । PS_६,१.६६ । ।



_____Sठाऱ्ठ्JKव्_६,१.६६ः

धतोः इति प्रकृतं यत्तद्धात्वादेः इति पुनर्धातुग्रहणान्निवृत्तं ।
तेन धातोरधातोश्च वकारयकारयोः वलि परतो लोपो भवति ।
दिव्- दिदिवान्, दिदिवांसौ, दिदिवांसः ।
ऊयी - ऊतं ।
क्नूयी - क्नूतं ।
गोधाया ढ्रक्(*४,१.१२९) ।
घौधेरः ।
पचेरन् ।
यजेरन् ।
वकारस्य - जीवेरदानुक्, जीरदानुः ।
स्रिवेः - आस्रेमाणं ।
उणादयो बहुलं (*३,३.१) इति बहुलवचनाच्च्चः-वोः श्-ऊड्-अनुनासिके च (*६,४.१९) इति ऊटः न भवति ।
बलि इति किं ? ऊय्यते ।
क्नूय्यते ।
ऊर्वं लोपग्रहणं किं ? वेरपृक्तलोपात्पूर्वं वलि लोपो यथा स्याथ् ।
कण्डूयतेः क्विप्-कण्डूः ।
लोलूयतेः - लोलूः ।
व्रश्चादीनां उपदेशसामर्थ्यात्वलि लोपो न भवति ।
वृश्चति ।
ववृश्च इत्यत्र अपि हि सम्प्रसारणहलादिःशेषयोर्बहिरङ्गत्वात्प्राप्नोति । ।


____________________________________________________________________


[#६१४]

  1. <वेरपृक्तस्य># । । PS_६,१.६७ । ।



_____Sठाऱ्ठ्JKव्_६,१.६७ः

लोपः इति वर्तते ।
वेः इति क्विबादयो विशेषाननुबन्धानुत्सृज्य सामान्येन गृह्यन्ते ।
वेरपृक्तस्य लोपो भवति ।
ब्रह्मभ्रूणवृत्रेषु क्विप्(*६,२.८७) ।
ब्रह्महा ।
म्रूणहा ।
स्पृशोऽनुदके क्विन्(*६,२.५८) ।
घृतस्पृक् ।
तैलस्पृक् ।
भजो ण्विः (*३,२.६२) ।
अर्धभाक् ।
पादभाक् ।
तुरीयभाक् ।
अपृक्तस्य इति किं ? वृदृभ्यां क्विन्दर्विः ।
कृगृशृसृजागृभ्यः क्वि ।
जागृविः । ।


____________________________________________________________________


  1. <हल्-ङ्य्-आब्भ्यो दीर्घात्सु-ति-स्य्-अपृक्तं हल्># । । PS_६,१.६८ । ।



_____Sठाऱ्ठ्JKव्_६,१.६८ः

लोप इति वर्तते ।
तदिह लौकिकेन अर्थवत्कर्मसाधनं द्रष्टव्यं ।
लुप्यते इति लोपः ।
हलन्ताद्, ङ्यन्तादाबन्ताच्च दीर्घात्परं सु ति सि इत्येतदपृक्तं हल्लुप्यते ।
हलन्तात्सुलोपः - राजा ।
तक्षा ।
उखास्रथ् ।
पर्णध्वथ् ।
ङ्यन्तात्- कुमारी ।
गौरी ।
शार्ङ्गरवी ।
आबन्तात्- खट्वा ।
बहुराजा ।
कारीषगन्ध्या ।
हलन्तादेव तिलोपः सिलोपश्च ।
तत्र तिलोपस्तावत्- अबिभर्भवाथ् ।
भृञो लङि तिपि श्लौ भृञामितित्यभ्यासस्य इत्त्वं ।
अजागर्भबान् ।
सिलोपः-अभिनोऽत्र अच्छिनोऽत्र ।
दस्य रेफः ।
हल्ङ्याब्भ्यः इति किं ? ग्रामणीः ।
सेननीः ।
दीर्घातिति किं ? निष्कौशाम्बिः ।
अतिखट्वः ।
सुतिसि इति किं ? अभैत्सीथ् ।
तिपा सहचरितस्य सिशब्दस्य ग्रहणात्सिचो ग्रहणं न अस्ति ।
अपृक्तं इति किं ? भिनत्ति ।
छिनत्ति ।
हलि इति किं ? बिभेद ।
चिच्छेद ।
अथ किमर्थं हलन्तात्सुतिसिनां लोपो विधीयते, संयोगान्तलोपेन+एव सिद्धं ? न सिध्यति ।
राजा, तक्षा इत्यत्र संयोगान्तलोपस्य असिद्धत्वान्नलोपो न स्याथ् ।
उखास्रत्, पर्णध्वतित्यत्र अपदन्तत्वाद्दत्त्वं च न स्याथ् ।
अभिनोऽत्र इत्यत्र अतो रोरप्लुतादप्लुते (*६,१.११३) इत्युत्त्वं न स्याथ् ।
अबिभर्भवानित्यत्र तु रात्सस्य (*८,३.२४) इति नियमाल्लोप एव न स्याथ् ।
संयोगान्तस्य लोपे हि नलोपादिर्न सिध्यति ।
रात्तु ते न+एव लोपः स्याद्धलस्तस्माद्विधीयते । ।


____________________________________________________________________


  1. <एङ्ह्रस्वात्सम्बुद्धेः># । । PS_६,१.६९ । ।



_____Sठाऱ्ठ्JKव्_६,१.६९ः

लोपः इति वर्तते, हलिति च ।
अपृक्तं इति न अधिक्रियते, तथा च पूर्वसूत्रे पुनरपृक्तग्रहणं कृतं ।
एङन्तात्प्रातिपदिकात्ह्रस्वन्ताच्च परो हल्लुप्यते स चेत्सम्बुद्धेर्भवति ।
एङन्तात्- हे अग्ने ।
हे वायो ।
ह्रस्वान्तात्- हे देवदत्त ।
हे नदि ।
हे वधु ।
हे कुण्ड ।
कुण्डशब्दाततोऽं (*७,१.२४) इति अं ।
अमि पूर्वः (*६,१.१०७) इति पूर्वत्वे क्र्ते लह्मात्रस्य मकारस्य लोपः ।
हे कतरतित्यत्र डिदयं अद्डादेशः, तत्र टिलोपे सति ह्रस्वाभावान्न अस्ति सम्बुद्धिलोपः ।
एङ्ग्रहणं क्रियते सम्बुद्धिगुणबलीयस्त्वात् । ।


____________________________________________________________________


[#६१५]

  1. <शेः छन्दसि बहुलम्># । । PS_६,१.७० । ।



_____Sठाऱ्ठ्JKव्_६,१.७०ः

शि इत्येतस्य बहुलं छन्दसि विषये लोपो भवति ।
या क्षेत्रा ।
या वना ।
यानि क्षेत्राणि ।
यानि वनानि । ।


____________________________________________________________________


  1. <ह्रस्वस्य पिति कृति तुक्># । । PS_६,१.७१ । ।



_____Sठाऱ्ठ्JKव्_६,१.७१ः

पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति ।
अग्निचिथ् ।
सोमसुथ् ।
प्रकृत्य ।
प्रहृत्य ।
उपस्तुत्य ।
ह्रस्वस्य इति किं ? आलूय ।
ग्रामणीः ।
पिति इति किं ? कृतं ।
हृतं ।
कृति इति किं ? पटुतरः ।
पटुतमः ।
ग्रामणि ब्राह्मणकुलं इत्यत्र ह्रस्वस्य बहिरङ्गस्य असिद्धत्वात्तुग्न भवति । ।


____________________________________________________________________

  1. <संहितायाम्># । । PS_६,१.७२ । ।



_____Sठाऱ्ठ्JKव्_६,१.७२ः

अधिकारोऽयं अनुदात्तं पदं एकवर्जं (*६,१.१५८) इति यावथ् ।
प्रागेतस्मत्सूत्रादित उत्तरं यद्वक्ष्यामः संहितायां इत्येवं तद्वेदितव्यं ।
वक्ष्यति - इको यणचि (*६,१.७७), दध्यत्र ।
मध्वत्र ।
संहितायां इति किं ? दधि अत्र ।
मधु अत्र । ।


____________________________________________________________________


  1. <छे च># । । PS_६,१.७३ । ।



_____Sठाऱ्ठ्JKव्_६,१.७३ः


ह्रस्वस्य तुकिति वर्तते ।
छकारे परतः संहितायां विषये ह्रस्वस्य तुगागमो भवति ।
इच्छति ।
यच्छति ।
ह्रस्व एव अत्र आगमी, न तु तदन्तः ।
तेन चिच्छदतुः, चिच्छिदुः इत्यत्र तुकभ्यासस्य ग्रहणेन न गृह्यते इति हलदिःशेषेण न निवर्त्यते, नावयवावयवः समुदायावयवो भवति इति । ।


____________________________________________________________________


  1. <आङ्-माङोश्च># । । PS_६,१.७४ । ।



_____Sठाऱ्ठ्JKव्_६,१.७४ः

तुकिति अनुवर्तते, छे इति च ।
आङो ङित ईषदादिषु चतुर्ष्वर्थेषु वर्तमानस्य, माङश्च प्रतिषेधवचनस्य छकारे परतस्तुगागमो भवति ।
पदान्ताद्वा (*६,१.७६) इति विकल्पे प्राप्ते नित्यं तुगागमो भवति ।
ईषदर्थे - ईषच्छाया आच्छाया ।
क्रियायोगे - आच्छादयति ।
मर्यादाभिविध्योः - आ च्छायायाः आच्चायं ।
माङः खल्वपि - मा च्छैत्सीथ् ।
मा च्छिदथ् ।
ङिद्विशिष्टग्रहणं किं ? आछाया, आच्छाया ।
प्रमाछन्दः, प्रमाच्छन्दः । ।


____________________________________________________________________


[#६१६]

  1. <दीर्घात्># । । PS_६,१.७५ । ।



_____Sठाऱ्ठ्JKव्_६,१.७५ः

छे तुकिति वर्तते ।
दीर्घात्परो यः छकारः तस्मिन्पूर्वस्य तस्य+एव दीर्घस्य तुगागमो भवति ।
ह्रीच्छति ।
म्लेच्छति ।
अपचाच्छायते ।
विचाच्छायते । ।


____________________________________________________________________


  1. <पदान्ताद्वा># । । PS_६,१.७६ । ।



_____Sठाऱ्ठ्JKव्_६,१.७६ः

दीर्घात्छे तुकिति वर्तते ।
पदान्ताद्दीर्घात्परो यः छकारः तस्मिन्पूर्वस्य तस्य+एव दीर्घस्य पूर्वेण नित्यं प्राप्तो वा तुगागमो भवति ।
कुटीच्छाया, कुटीछाया ।
कुवलीच्छाया, कुवलीछाया ।
विश्वजनादीनां छदसि वा तुगागमो भवति इति वक्तव्यं ।
विश्वजनच्छत्रम्, विश्वजनछत्रं ।
नच्छायां करवोऽपरं ।
न छायां करवोऽपरं । ।


____________________________________________________________________


  1. <इको यणचि># । । PS_६,१.७७ । ।



_____Sठाऱ्ठ्JKव्_६,१.७७ः

अचि परतः इको यणादेशो भवति ।
दध्यत्र ।
मध्वत्र ।
कर्त्रर्थं ।
लाकृतिः ।
इकः प्लुतपूर्वस्य सवर्नदीर्घबाधनार्थं यणादेशो वक्तव्यः ।
भो३इ इन्द्रं ।
भो३यिन्द्रं ।
अचि इति च अयं अधिकारः संप्रसारणाच्च (*६,१.१०८) इति यावत् । ।


____________________________________________________________________


  1. <एचोऽय्-अव्-आय्-आवः># । । PS_६,१.७८ । ।



_____Sठाऱ्ठ्JKव्_६,१.७८ः

एचः स्थाने अचि परतः अयवायावित्येते आदेशाः यथासङ्ख्यं भवन्ति ।
चयनं ।
लवनं ।
चायकः ।
लावकः ।
कयेते ।
ययेते ।
वायाववरुणद्धि । ।

____________________________________________________________________


  1. <वान्तो यि प्रत्यये># । । PS_६,१.७९ । ।



_____Sठाऱ्ठ्JKव्_६,१.७९ः

योऽयं एचः स्याने वन्तादेशः ओकारस्य अव्, औकारस्य आव्, स यकारादौ प्रत्यये परतो भवति ।
बाभ्रव्यः ।
माण्डव्यः ।
शङ्कव्यं दारु ।
पिचव्यः कार्पासः ।
नाव्यो ह्रदः ।
वान्तः इति किं ? रायं इच्छति रैयति ।
यि इति किं ? योभ्यां ।
नौभ्यां ।
प्रत्यये इति किं ? गोयानं ।
नौयानं ।

[#६१७]

गोर्यूतौ छन्दसि ।
गोशब्दस्य यूतौ परतः छन्दसि विसये वान्तादेशो वक्तव्यः ।
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतं ।
छन्दसि इति किं ? गोयूतिः ।
अध्वपरिमाणे च ।
गोर्यूतौ परतो वान्तादेशो वक्तव्यः ।
गव्यूतिमात्रं अध्वानं गतः । ।


____________________________________________________________________


  1. <धातोस्तन्निमित्तस्य+एव># । । PS_६,१.८० । ।



_____Sठाऱ्ठ्JKव्_६,१.८०ः

एचः इति वर्तते, वान्तो यि प्रत्यये इति च ।
धातोर्य एच्तन्निमित्तो यकारादिप्रत्ययनिमित्तः, तस्य यकारादौ प्रत्यये परतो वान्तादेशो भवति ।
लव्यं ।
पव्यं ।
अवश्यलाव्यं ।
अवश्यपाव्यं ।
धातोः इति किं ? प्रातिपदिकस्य नियमो म भूथ् ।
तत्र को दोषः ? बाभ्रव्यः इत्यत्रा+एव स्यात्, इह न स्यात्गव्यम्, नाव्यं इति ।
तन्निमित्तस्य इति किं ? अतन्निमित्तस्य मा भूथ् ।
उपोयते ।
औयत ।
लौयमानिः ।
पौयमानिः ।
अत इञ्(*४,१.९५) ।
एवकारकरणं किं ? धात्ववधारणं यथा स्यात्, तन्निमित्तावधारणं मा भूतिति तानिमित्तस्य हि धातोश्च अधातोश्च भवति ।
बाभ्रव्यः ।
अवश्यलाव्यं ।
लवं । ।


____________________________________________________________________


  1. <क्षय्य-जय्यौ शक्यार्थे># । । PS_६,१.८१ । ।



_____Sठाऱ्ठ्JKव्_६,१.८१ः

क्षि जि इत्येतयोर्धात्वोः यति रत्यये परतः शक्यार्थे गम्यमाने एकारस्य अयादेशो निपात्यते ।
शक्यः क्षेतुं क्षय्यः ।
शक्यो जेतुं जय्यः ।
शक्यार्थे इति किं ? क्षेयं पापं ।
जेयो वृषलः । ।


____________________________________________________________________

  1. <क्रय्यस्तदर्थे># । । PS_६,१.८२ । ।



_____Sठाऱ्ठ्JKव्_६,१.८२ः

क्रीणातेः धातोः तदर्थे क्रयार्थें यत्तस्मिन्नभिधेये यति प्रत्यये परतः अयादेशो निपात्यते ।
क्रय्यो गौः ।
क्रय्यः कम्बलः ।
क्रयार्थं यः प्रसारितः स उच्यते ।
तदर्थे इति किं ? क्रेयं नो धान्यं, न च अस्ति क्रय्यं । ।


____________________________________________________________________


  1. <भ्य्यप्रवय्ये च च्छन्दसि># । । PS_६,१.८३ । ।



_____Sठाऱ्ठ्JKव्_६,१.८३ः

बिभेतेर्धातोः रपुर्वस्य च वी इत्येतस्य्यति प्रत्यये परतः छन्दसि विषये अयादेशः निपात्यते ।
भ्य्यं किलासीथ् ।
वत्सतरी प्रवय्या ।
भय्येति कृत्यल्युटो बहुलं (*३,३.११३) इत्यपदाने यत्प्रत्ययः ।
बिभेत्यस्मादिति भ्य्यं ।
प्रव्य्या इति स्त्रियां एव निपातनं ।
अन्यत्र प्रवेयं इत्येव भवति ।
छन्दसि इति किं ? भेयं प्रवेयं ।
ह्रदय्या आप उपसङ्ख्यानं ।
ह्रदय्या आपः ।
ह्रदे भवा, भवे छन्दसि (*४,४.११०) इति यत्प्रत्ययः । ।


____________________________________________________________________


[#६१८]

  1. <एकः पूर्वपरयोः># । । PS_६,१.८४ । ।



_____Sठाऱ्ठ्JKव्_६,१.८४ः

अधिकारोऽयं ।
ख्यत्यात्परस्य (*६,१.११२) इति प्रागेतस्मात्सूत्रातिति उत्तरं यद्वक्ष्यामस्तत्र पूर्वस्य परस्य द्वयोरपि स्थाने एकादेशो भवति इत्येतद्वेदितव्यं ।
वक्ष्यति आद्गुणः (*६,१.८७) इति ।
तत्र अचि पूर्वस्य अवर्णात्च परस्य स्थाने एको गुणो भवति ।
खट्वेन्द्रः मालेन्द्रः ।
पूर्वपरग्रहणं द्वयोरपि युगपदादेशप्रतिपत्त्यर्थम्, एकस्य+एव हि स्यात्, नोभे सप्तमीपञ्चम्यौ युगपत्प्रकल्पिके भवतः इति ।
एकग्रहणं पृथगादेशनिवृत्त्यर्थं, स्थानिभेदाद्धि भिन्नादिषु नत्ववद्द्वावादेशौ स्यातां । ।


____________________________________________________________________


  1. <अन्तादिवच्च># । । PS_६,१.८५ । ।



_____Sठाऱ्ठ्JKव्_६,१.८५ः

एकः इति वर्तते, पूर्वपरयोः इति च ।
एकः पूर्वपरयोः (*६,१.८४) इति योऽयं एकादेशो विधीयते स पूर्वस्य अन्तवद्भवति, परस्यादिवद्भवति ।
यथा तस्यान्तः आदिर्वा तदन्तर्भूतः तद्ग्रहणेन गृह्यते, तद्वदेकादेशोऽपि तद्ग्रहणेन ग्र्ह्यते इत्येषोऽतिदेशार्थः ।
ब्रह्मबन्धूः इत्यत्र ब्रह्मबन्धु इति प्रातिपदिकम्, ऊङिति अप्रातिपदिकम्, तयोः प्रातिपदिकाप्रातिपदिकयोर्यः एकादेशः स प्रातिपदिकस्य अन्तवद्भवति, यथा शक्यते कर्तुं ङ्याप्प्रातिपदिकात्(*४,१.१) इति स्वादिविधिः ।
वृक्षौ इत्यत्र सुबौकारः असुबकारः, तयोः सुबसुपोरेकादेशः सुपः आदिवद्भवति, यथा शक्यते वक्तुं सुबन्तं पदं इति ।
वर्णाश्रयविधौ अयं अनतादिवद्भावो निस्यते ।
तथा हि खट्वाभिः इत्यत्र अन्तवद्भावाभावाततो भिस ऐस्(*७,१.९) इति न भवति ।
ह्वयतेः जुहाव इति सम्प्रसारणपूर्वत्वस्य आदिवद्भावाहावातात औ णलः (*७,१.३४) इति न भर्वात ।
अस्यै अश्वः, अस्या अश्वः इति वृद्धिरेचि (*६,१.८८) इति वृद्धिः, एङः पदान्तादति (*६,१.१०९) इत्यत्र विधौ आदिवन्न भवति ।
पूर्वपरसमुदाय एकादेशस्य स्थानी, स हि तेन निवर्तयते ।
तत्र अवयवयोरानुमानिकं स्थानित्वं इति तदाश्रयं कार्यं स्थानिवद्भावादप्राप्तं इत्यन्तादिवद्भावो विधीयते । ।


____________________________________________________________________


  1. <षत्व-तुकोरसिद्धः># । । PS_६,१.८६ । ।



_____Sठाऱ्ठ्JKव्_६,१.८६ः

षत्वे तुकि च कर्तव्ये एकदेशोऽसिद्धो भवति, सिद्धकार्यं न करोति इत्यर्थः ।
असिद्धवचनं आदेशलक्षणप्रतिषेधर्थम्, उत्सर्गलक्षणभावार्थं च ।
कोऽसिचतित्यत्र एङः पदान्तादति (*६,१.१०९) इति एकादेशस्य परं प्रत्यादिवद्भावातपदादेरिण उत्तरस्य आदेशस्य सकारस्य षत्वं प्राप्नोति, तदसिद्धत्वान्न भवति ।
कोऽस्य, योऽस्य, कोऽस्मै, योऽस्मै इत्येकादेशस्य असिद्धत्वातिणः इति षत्वं न भवति ।
तुग्विधौ - अधीत्य, प्रेत इत्यत्र+एकादेशस्य असिद्धत्वात्ह्रस्वस्य पिति कृति तुक्(*६,१.७१) इति तुग्भवति ।
सम्प्रसारनङीट्सु प्रतिषेधो वक्तव्यः ।

[#६१९]

सम्प्रसारणे - ब्रह्महूषु ।
सम्प्रसारणपूर्वत्वस्य असिद्धत्वात्षत्वं न प्राप्नोति ।
ङौ - वृक्षे च्छत्रम्, वृक्षे छत्रं ।
इटि - अपचे च्छत्रम्, अपचे छत्रं ।
आद्गुणस्य असिद्धत्वाद्ह्रस्वलक्षणो नित्योऽत्र तुक्प्राप्नोति, दीर्घात्, पदान्ताद्वा (*६,१.७६) इति तुग्निकल्प इष्यते । ।


____________________________________________________________________


  1. <आद्गुणः># । । PS_६,१.८७ । ।



_____Sठाऱ्ठ्JKव्_६,१.८७ः

अचि इत्यनुवर्तते ।
अवर्नात्परो योऽच्च पूर्वो योऽवर्णः तयोः पूर्वपरयोः अवर्णाचोः स्थाने एको गुण आदेशो भवति ।
तवेदं ।
खट्वेन्द्रः ।
मालेन्द्रः ।
तवेहते ।
खट्वेहते ।
तवोदकं ।
खट्वोदकं ।
तवर्श्यः ।
खट्वर्श्यः ।
तवल्कारः ।
खट्वल्कारः ।
लृकारस्य स्थाने योऽने योऽण्तस्य लप्रत्वं इष्यते । ।


____________________________________________________________________


  1. <वृद्धिरेचि># । । PS_६,१.८८ । ।



_____Sठाऱ्ठ्JKव्_६,१.८८ः

आतिति वर्तते ।
अवर्णात्परो य एच्, एचि च पूर्वो यः अवर्णः, तयोः पूर्वपरयोः अवर्णैचोः स्थाने वृद्धिरेकादेशो भवति ।
आद्गुणस्य अपवादः ।
ब्रहमैडका ।
खट्वैडका ।
ब्रह्मैतिकायनः ।
खट्वैतिकायनः ।
ब्रह्मौदनः ।
खट्वौदनः ।
ब्रह्मौपगवः ।
खट्वौपगवः । ।


____________________________________________________________________


  1. <एत्य्-एधत्य्-ऊठ्सु># । । PS_६,१.८९ । ।



_____Sठाऱ्ठ्JKव्_६,१.८९ः

वृद्धिरेचि इति वर्तते, आतिति च ।
तदेततेज्ग्रहणं एतेरेव विशेषणं , न पुनरेधतेः, अव्यभिचारात्, ऊठश्च सम्भवाथ् ।
इण्गतौ इत्येतस्मिन्धातौ एचि, एध वृद्धौ इत्येतस्मिनूठि च पूर्वं यदवर्णं ततश्च परो योऽच्, तयोः पूर्वपर्योः अवर्णाचोः स्थाने वृद्धिरेकादेशो भवति ।
उपैति ।
उपैषि ।
उपैमि ।
उपैधते ।
प्रैधते ।
प्रष्ठौहः ।
प्रष्ठौहा ।
प्रष्ठौहे ।
ऊठि आद्गुणापवादो वृद्धिर्विधीयते ।
एत्येधत्योः तु एङि पररूपापवादः ।
ओम्-आङोश्च (*६,१.९५) इत्येतत्तु पररूपं न बाध्यते, येन न अप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति इति, पुरस्तादपवादा अनन्तरान्विधीन्बधन्ते इति वा ।
तेन+इह न भवति, उप आ इतः उपेतः इति ।
एचि इतेव, उप इतः उपेतः ।
अक्षादूहिन्यां वृद्धिर्वक्तव्या ।
अक्षौहिणी ।
स्वादीरेरिण्योर्वृद्धिर्वक्तव्या ।
स्वैरं ।
स्वैरिणी ।
प्रादूढोढ्येषैष्येषु वृद्धिर्वक्तव्या ।
प्रौढः ।
प्रौढिः ।
प्रैषः ।
प्रैष्यः ।

[#६२०]

ऋते च तृतीयासमासेऽवर्णाद्वृद्धिर्वक्तव्या ।
सुखेन ऋतः सुखार्तः ।
दुःखेन ऋतः दुःखार्तः ।
ऋतः इति किं ? सुखेन इतः सुखेतः ।
तृतीया इति किं ? परमर्तः ।
समासे इति किं ? सुखेनर्तः ।
प्रवत्सतरकम्बलवसनानाम्र्णे वृद्धिर्वक्तव्या ।
प्र - प्रार्णं ।
वत्सतर - वत्सतरार्णं ।
कम्बल - कम्बलार्णं ।
वसन - वसनार्णं ।
ऋणदशाभ्यां वृद्धिर्वक्तव्या ।
ऋणार्णं ।
दशार्णं । ।


____________________________________________________________________


  1. <आटश्च># । । PS_६,१.९० । ।



_____Sठाऱ्ठ्JKव्_६,१.९०ः

एचि इति निवृत्तं ।
अचि इत्यनुवर्तते ।
आटः परो यो अच्, अचि च पूर्वो य आट्, तयोः पूर्वपरयोः आडचोः स्थाने वृद्धिरेकादेशो भवति ।
ऐक्षिष्ट ।
ऐक्षत ।
ऐक्षिष्यत ।
औभीथ् ।
आर्ध्नोन् ।
औब्जीथ् ।
चकारोऽधिकविधानार्थः, उसि ओम्-आङोश्च (*६,१.९५) इति पररूपबाधनार्थः ।
औस्रीयथ् ।
औङ्कारीयथ् ।
आ ऊढा ओढा, तामैच्छतौढीयत् । ।


____________________________________________________________________


  1. <उपसर्गादृति धातौ># । । PS_६,१.९१ । ।



_____Sठाऱ्ठ्JKव्_६,१.९१ः

आतित्येव ।
अवर्णान्तादुपसर्गातृकारादौ धातौ परतः पूर्वपरयोः स्थाने वृद्धिरेकादेशो भवति ।
आद्गुणापवादः ।
उपार्च्छति ।
प्रार्च्छति ।
उपार्ध्नोति ।
उपसर्गातिति किं ? खट्वर्च्छति ।
मालर्च्छति ।
प्रगता ऋ च्छका अस्माद्देशात्प्रर्च्छको देशः ।
यत्क्रियायुक्ताः प्रादयः तं प्रति गत्युपसर्गसञ्ज्ञकाः इति ।
ऋति इति किं ? उप इतः उपेतः ।
तपरकरणं किं ? उप ऋकरीयति उपर्कारीयति ।
वा सुप्यापिशलेः (*६,१.९२) इति विकल्पः स्याथ् ।
उपसर्गग्रहणादेव धातुग्रहणे सिद्धे धातुग्रहणं शाकलनिवृत्त्यर्थं ।
ऋत्यकः (*६,१.१२८) इति हि शाकल्यस्य प्रक्र्तिभावः प्राप्नोति । ।


____________________________________________________________________


  1. <वा सुप्यापिशलेः># । । PS_६,१.९२ । ।



_____Sठाऱ्ठ्JKव्_६,१.९२ः

आतित्येव, उपसर्गातृति धातौ इति च ।
सुबन्तावयवे धातौ ऋकारादौ परतः अवर्णान्तातुपसर्गात्पूर्वपरयोः आपिशलेराचार्यस्य मतेन वा वृद्धिरेकादेशो भवति ।
उपर्शभीयति, उपार्षभीयति ।
उपल्कारीयति, उपाल्कारीयति ।
ऋकारलृकारयोः सावर्ण्यविधिः इति ऋति इति लृकारोऽपि गृह्यते ।
आपिशलिग्रहणं पूजर्थम्, वा इति ह्युच्यते एव । ।


____________________________________________________________________


[#६२१]

  1. <आ-ओतोऽम्-शसोः># । । PS_६,१.९३ । ।


_____Sठाऱ्ठ्JKव्_६,१.९३ः

ओतः अमि शसि च परतः पूर्वपरयोः आकारः आदेशो भवति ।
गां पश्य ।
गाः पश्य ।
द्यां पश्य ।
द्याः पश्य ।
द्योशब्दोऽपि ओकारान्त एव विद्यते, ततोऽपि परं सर्वनामस्थानं णितिष्यते, तेन नाप्राप्तायां वृद्धौ अयं आकारो विधीयमानस्तां बाधते ।
अं इति द्वितीयैकवचनं गृह्यते, शसा साहचर्यात्, सुपि इति चाधिकाराथ् ।
तेन अचिनवम्, असुनवं इत्यत्र न भवति । ।


____________________________________________________________________


  1. <एङि पररूपम्># । । PS_६,१.९४ । ।



_____Sठाऱ्ठ्JKव्_६,१.९४ः

आतित्येव, उपसर्गाद्धातौ इति च ।
अवर्णान्तातुपसर्गातेङादौ धातौ पूर्वपरयोः पररूपं एकादेशो भवति ।
वृद्धिरेचि (*६,१.८८) इत्यस्य अपवादः ।
उपेलयति ।
प्रेलयति ।
उपोषति ।
प्रोषति ।
केचित्वा सुप्यापिशलेः (*६,१.९२) इत्यनुवर्त्यन्ति, तच्च वाक्यभेदेन सुब्धातौ विकल्पं करोति ।
उपेडकीयति, उपैडकीयति ।
उपोदनीयति, उपौदनीयति ।
शकन्ध्वादिषु पररूपं वाच्यं ।
शक अन्धुः शकन्धुः ।
कुल अटा कुलटा ।
सीमन्तः केशेषु ।
सीम्नोऽन्तः सीमन्तः ।
अन्यत्र सीमान्तः ।
एवे चानियोगे पररूपं वक्तव्यं ।
इह एव इहेव ।
अद्य एव अद्येव ।
अनियोगे इति किं ? इहैअ भव, मा अन्यत्र गाः ।
ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यं ।
स्थूल ओतुः स्थूलौतुः, स्थूलोतुः ।
बिम्बौष्ठी, बिम्बोष्ठी ।
समासे इति किं ? तिष्ठ देवदत्तौष्ठं पश्य ।
एमन्नादिषु छन्दसि पररूपं वक्तव्यं ।
अपां त्वा एमनपां त्वेमन् ।
अपां त्वा ओद्मनपां त्वोद्मन् । ।


____________________________________________________________________


[#६२२]

  1. <ओम्-आङोश्च># । । PS_६,१.९५ । ।



_____Sठाऱ्ठ्JKव्_६,१.९५ः

आतित्येव ।
अवर्णान्तातोमि आङि च परतः पूर्वपरयोः स्थाने पररूपं एकादेशो भवति ।
का ओं इत्यवोचत्, कों इत्यवोचथ् ।
यों इत्यवोचथ् ।
आगि खल्वपि - आ ऊढा ओढा ।
अद्य ओढा अद्योढा ।
कदा ओढा कदोढा ।
तदा ओढा तदोढा ।
वृद्धिरेचि (*६,१.८८) इत्यस्य पवादः ।
इह तु आ ऋश्यातर्श्यात्, अद्य अर्श्यातद्यर्श्यातिति अकः सवर्णे दीर्घत्वं बाधते । ।


____________________________________________________________________


  1. <उस्यपदान्तात्># । । PS_६,१.९६ । ।


_____Sठाऱ्ठ्JKव्_६,१.९६ः

आतित्येव ।
अवर्णातपदान्तातुसि पूर्वपरयोः आद्गुणापवादः पररूपं एकादेशो भवति ।
भिन्द्या उस्भिन्द्युः ।
छिन्द्या उस्छिन्द्युः ।
अदा उसदुः ।
अया उसयुः ।
अपदान्तातिति किं ? का उस्रा कोस्रा ।
का उषिता कोषिता ।
आतित्येव, चक्रुः ।
अबिभयुः । ।


____________________________________________________________________


  1. <अतो गुणे># । । PS_६,१.९७ । ।



_____Sठाऱ्ठ्JKव्_६,१.९७ः

अपदान्तातिति वर्तते ।
अकारातपदन्तात्गुणे परतः पूर्वपरयोः स्थने पररूपं एकादेशो भवति ।
पचन्ति ।
यजन्ति ।
अकः सवर्ने दीर्घस्य अपवादः ।
पचे, यजे इत्यत्र वृद्धिरेचि इति वृद्धिः प्राप्नोति ।
अतः इति किं ? यान्ति ।
वान्ति ।
गुणे इति किं ? अपचे ।
अयजे ।
अपदान्तातित्येव, दण्डाग्रं ।
युपाग्रं । ।


____________________________________________________________________

  1. <अव्यक्त-अनुकरणस्य अत इतौ># । । PS_६,१.९८ । ।



_____Sठाऱ्ठ्JKव्_६,१.९८ः

अव्यक्तं अपरिस्फुटवर्णम्, तदनुकरणं परिस्फुटवर्णं एव केनचित्सादृश्येन तदव्यक्तं अनुकरोति, तस्य यो अत्शब्दः तस्मातितौ पूर्वपरयोः स्थाने पररूपं एकादेशो भवति ।
पटतिति पटिति ।
घटतिति घटिति ।
ज्ञटतिति ज्ञतिति ।
छमितिति छमिति ।
अव्यक्तानुकरणस्य इति किं ? जगतिति जगदिति ।
अतः इति किं ? मरटिति मरडिति ।
इतौ इति किं ? पटतत्र पटदत्र ।
अनेकाच इति वक्तव्यं ।
इह मा भूत्, श्रतिति श्रदिति ।
कथं घटदिति गम्भीरमम्बुदैर्नदितं इति ? दकारान्तं एतदनुकरणं द्रष्टव्यं । ।


____________________________________________________________________


[#६२३]

  1. <न आम्रेडितस्य अनत्यस्य तु वा># । । PS_६,१.९९ । ।



_____Sठाऱ्ठ्JKव्_६,१.९९ः

अव्यक्तानुकरणस्य आम्रेडितस्य यो अत्शब्दः इतौ तस्य पररूपं न भवति, तस्य योऽन्त्यस्तकारस्तस्य वा भवति ।
पटत्पटदिति, पटत्पटेति करोति ।
नित्यवीप्सयोः (*८,१.४) इति द्विर्वचनं ।
यदा तु समुदायानुकरणं तदा भवत्येव पूर्वेण पररूपम्, पटत्पटेति करोति । ।


____________________________________________________________________


  1. <नित्यं आम्रेडिते डाचि># । । PS_६,१.१०० । ।


_____Sठाऱ्ठ्JKव्_६,१.१००ः

अव्यक्तानुकरणस्य, अतः, अन्त्यस्य इति च अनुवर्तते ।
डाच्परं यदम्रेदितं तस्मिन्पूर्वस्य अव्यक्तानुकरनस्य अच्छब्दस्य योऽन्त्यः तकारः तस्य पूर्वस्य परस्य चाद्यस्य वर्णस्य नित्यं पररूपं एकदेशो भवति ।
पटपटा करोति ।
दमदमा करोति ।
पटदित्यस्मातव्यक्तानुकरणातिति डाचि विहिते डाचि बहुलं इति द्विर्वचनम्, तच्च टिलोपात्पूर्वं एव+इष्यते । ।


____________________________________________________________________


  1. <अकः सवर्णे दीर्घः># । । PS_६,१.१०१ । ।



_____Sठाऱ्ठ्JKव्_६,१.१०१ः

अकः सवर्णे अचि परतः पूर्वपरयोः स्थाने दीर्घ एकादेशो भवति ।
दण्डाग्रं ।
दधीन्द्रः ।
मधूदके ।
होत्éश्यः ।
अकः इति किं ? अग्नये ।
सवर्ने इति किं ? दध्यत्र ।
अचि इत्येव, कुमारी शेते ।
नाज्झलौ (*१,१.१०) इत्यत्र यतचिति प्रत्याहारग्रहणं तत्र ग्रहणकशास्त्रस्य अनभिनिर्वृत्तत्वात्सवर्णा न गृह्यन्त इति सवर्नत्वमीकारशकारयोरप्रतिषिद्धं ।
सवर्णदीर्घत्वे ऋति ऋ वा वचनं ।
ऋति सवर्णे परभूते तत्र ऋ वा भवति इति वक्तव्यं ।
होतृ ऋकारः होतृकारः ।
यदा न ऋ तदा दीर्घ एव होत्éकारः ।
लृति लृ वा वक्तव्यं ।
ल्ट्ति सवर्णे परतो लृ वा भवति इति वक्तव्यं ।
होतृ लृकारः होत्लृकारः ।
होत्éकारः ।
ऋकारलृकारयोः सवर्णासञ्ज्ञाविधिरुक्तः ।
दीर्घपक्षे तु समुदायान्तरतमस्य लृवर्णस्य दीर्घस्य अभावातृकारः क्रियते । ।

____________________________________________________________________


  1. <प्रथमयोः पूर्वसवर्णः># । । PS_६,१.१०२ । ।



_____Sठाऱ्ठ्JKव्_६,१.१०२ः

अकः इति दीर्घः इति वर्तते ।
प्रथमाशब्दो विभक्तिविशेषे रूढः, तत्साहचर्याद्द्वितीयाऽपि प्रथमा इति उक्ता ।
तस्यां प्रथमायां द्वितीयायां च विभक्तौ अचि अकः पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घः एकादेशो भवति ।
अग्नी ।
वायू ।
वृक्षाः ।
प्लक्षाः ।
वृक्षान् ।
प्लक्षान् ।
अतो गुणे (*६,१.९७) इति यदकारे पररूपं ततकः सवर्णे दीर्घत्वं एव बाधते, न तु पूर्वसवर्नदीर्घत्वम्, पुरस्तादपवाद अनन्तरान्विधीन्बाधन्ते न+उत्तरातिति ।
अचि इत्येव, वृक्षः ।
प्लक्षः ।
अकः इत्येव, नावौ ।
पूर्वसवर्नग्रहणं किं ? अग्नी इत्यत्र पक्षे परसवर्णो मा भूथ् ।
दीर्घग्रहणं किं ? त्रिमात्रे स्थानिनि त्रिमात्रादेशनिवृत्त्यर्थं । ।


____________________________________________________________________


[#६२४]

  1. <तस्माच्छसो नः पुंसि># । । PS_६,१.१०३ । ।



_____Sठाऱ्ठ्JKव्_६,१.१०३ः

तस्मात्पूर्वसवर्णदीर्घातुत्तरस्य शसोऽवयवस्य सकारस्य पुंसि नकारादेशो भवति ।
वृक्षान् ।
अग्नीन् ।
वायून् ।
कर्त्éन् ।
हर्त्éन् ।
षण्डकान् ।
षण्ढकान् ।
षण्ढकान् ।
स्थूरान् ।
अररकान्पश्य ।
सर्व एते पुंलिङ्गविशिष्टं स्वार्थं प्रतिपादयन्ति ।
इह तु चञ्चेव चञ्चा, लुम्मनुष्ये इति कनो लुपि कृते लुपि युक्तवद्व्यक्तिवचने (*१,२.५) इति पुंसोऽपि स्त्रीलिङ्गत, तेन नत्वं न भवति, चञ्चाः पश्य, वध्रिकाः पश्य इति ।
तस्मातिति किं ? एतांश्चरतो गाः पश्य ।
शासः इति किं ।
वृक्षाः ।
प्लक्षाः ।
पुंसि इति किं ? धेनूः ।
बह्वीः ।
कुमरीः । ।


____________________________________________________________________


  1. <नादिचि># । । PS_६,१.१०४ । ।



_____Sठाऱ्ठ्JKव्_६,१.१०४ः

अवर्णातिचि पूर्वसवर्णदीर्घो न भवति ।
वृक्षौ ।
प्लक्षौ खट्वे ।
कुण्डे ।
आतिति किं ? अग्नी ।
इचि इति किं ? वृक्षाः । ।


____________________________________________________________________


  1. <दीर्घाज्जसि च># । । PS_६,१.१०५ । ।



_____Sठाऱ्ठ्JKव्_६,१.१०५ः

दीर्घात्जसि इचि च परतः पूर्वसवर्णदीर्घः न भवति ।
कुमार्यौ ।
कुमार्यः ।
ब्रह्मबन्ध्वौ ।
ब्रह्मबन्ध्वः । ।


____________________________________________________________________


  1. <वा छन्दसि># । । PS_६,१.१०६ । ।



_____Sठाऱ्ठ्JKव्_६,१.१०६ः

दीर्घात्छन्दसि विषये जसि च इचि च परतो वा पूर्वसवर्नदीर्घो न भवति ।
मारुतीश्चतस्रः पिण्डीः ।
मारुत्यश्चतस्रः पिण्ड्यः ।
वाराही ।
उपानही ।
वाराह्यौ ।
उपानह्यौ । ।


____________________________________________________________________


  1. <अमि पूर्वः># । । PS_६,१.१०७ । ।



_____Sठाऱ्ठ्JKव्_६,१.१०७ः

अकः इत्येव ।
अमि परतोटकः पूर्वपरयोः स्थाने पूर्वरुपं एकादेशो भवति ।
वृक्षं ।
प्लक्षं ।
अग्निं ।
वायुं ।
पूर्वग्रहणं किं ? पूर्व एव यथा स्यात्, पूर्वसवर्णोऽन्तरतमो मा भूतिति, कुमारीं इत्यत्र हि त्रिमात्रः स्याथ् ।
वा छन्दसि (*६,१.१०६) इत्येव, शमीं च, शम्यं च ।
गौरीं च, गौर्यं च । ।


____________________________________________________________________


[#६२५]

  1. <सम्प्रसारणाच्च># । । PS_६,१.१०८ । ।



_____Sठाऱ्ठ्JKव्_६,१.१०८ः

पूर्वः इत्येव ।
सम्प्रसारणातचि परतः पूर्वपरयोः स्थाने पूर्वरूपं एकादेशो भवति ।
यजि - इष्टं ।
वपि - उप्तं ।
ग्रहि - गृहीतं ।
सम्प्रसरणविधानसामर्थ्यात्विगृहीतस्य श्रवणे प्राप्ते पूर्वत्वं विधीयते ।
वा छन्दसि (*६,१.१०६) इत्येव, मित्रो नो अत्र वरुणो यज्यमानः ।
परपूर्वत्वविधाने सत्यर्थवत्सम्प्रसारणविधानं इति इष्ट इत्येवं आदिषु पूर्वत्वभावे यणादेशो भवत्येव ।
अन्तरङ्गे च अचि इऋतार्थं वचनं इति बाह्ये पश्चात्सन्निपतिते पूर्वत्वं न भवति ।
शकह्वौ ।
शकह्वर्थं । ।


____________________________________________________________________


  1. <एङः पदान्तादति># । । PS_६,१.१०९ । ।


_____Sठाऱ्ठ्JKव्_६,१.१०९ः

एङ्यः पदान्तः तस्मादति परतः पूर्वपरयोः स्थाने पूर्वरूपं एकाद्शो भवति ।
अग्नेऽत्र ।
वायोऽत्र ।
अयवादेशयोरयं अपवादः ।
एङः इति किं ।
दध्यत्र ।
मध्वत्र ।
पदान्तातिति किं ? चयनं ।
लवनं ।
अति इति इं ।
वायो इति ।
भानो इति ।
वायविति ।
भानविति ।
तपरकरणं इति किं ? वायवायाहि । ।


____________________________________________________________________


  1. <ङसिङसोश्च># । । PS_६,१.११० । ।



_____Sठाऱ्ठ्JKव्_६,१.११०ः

एङः इति वर्तते, अति इति च ।
एङः उत्तरयोः ङसिङसोः अति परतः पूर्वपरयोः स्थाने पूर्वरूपं एकादेशो भवति ।
अग्नेरागच्छति ।
वायोरागच्छति ।
अग्नेः स्वं ।
वायोः स्वं ।
अपदान्तार्थः आरम्भः । ।


____________________________________________________________________

  1. <ऋत उत्># । । PS_६,१.१११ । ।



_____Sठाऱ्ठ्JKव्_६,१.१११ः

ङसिङसोः इत्येव ।
ऋकारान्तादुत्तरयोः ङ्सिङसोः अति परतः पूर्वपरयोः उकार एकादेशो भवति ।
होतुरागच्छति ।
होतुः स्वं ।
द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यः स लभतेऽन्यतरव्यपदेशं इति उरण्रपरः (*१,१.५१) इति रपरत्वं अत्र कृत्वा रात्सस्य (*८,२.२४) इति सलोपः कर्तव्यः । ।


____________________________________________________________________


  1. <ख्यत्यात्परस्य># । । PS_६,१.११२ । ।



_____Sठाऱ्ठ्JKव्_६,१.११२ः

ङसिङसोः इति वर्तते, उतिति च ।
ख्यत्यातिति खिशब्दखीशब्दयोः तिशब्दतीशब्दयोश्च कृतयणादेशयोरिदं ग्रहणं, ताभ्यां परस्य ङसिङसोः अत उकारादेशो भवति ।
सख्युरागच्छति ।
सख्युः स्वं ।
पत्युरागच्छति ।
पत्युः स्वं ।
खीशब्दस्य+उदाहरणं - सह खेन वर्तते इति सखः, तं इच्छति इति क्यच्सखीयति ।
सख यतेः क्विप्सखीः, तस्य ङसिङसोः सख्युः इति ।

[#६२६]

तीशब्दस्य अपि - लूनं इच्छति लूनीयति, लूनीयतेः क्विपि लुप्ते, लून्युराग्च्छति ।
लून्युः स्वं ।
निष्ठानत्वं पूर्वत्रासिद्धं (*८,२.१) इत्यसिद्धं ।
विकृतनिर्देशादेव इह न भवति, अतिसखेरागच्छति, सेनापतेरागच्छति इति ।
सखिशब्दस्य केवलस्य घिसञ्ज्ञा प्रतिषिध्यते, न तदन्तस्य । ।


____________________________________________________________________


  1. <अतो रोरप्लुतादप्लुते># । । PS_६,१.११३ । ।



_____Sठाऱ्ठ्JKव्_६,१.११३ः

अति, उतिति वर्तते ।
अकारादप्लुतादुत्तरस्य रो रेफस्य उकारानुबन्धविशिष्टस्य अकारेऽप्लुते परत उकारादेशो भवति ।
वृक्षोऽत्र ।
प्लक्षोऽत्र ।
भो-भगो-अघो-अपूर्वस्य योऽशि (*८,३.१७) इत्यस्मिन्प्राप्ते उत्वं विधीयते ।
रुत्वं अपि आश्रयात्पूर्वत्र असिद्धं (*८,२.१) इति असिद्धं न भवति ।
अतः इति किं ? अग्निरत्र ।
तपरकरणं किं ? वृक्षा अत्र ।
सानुबन्धग्रहणं किं ? स्वरत्र ।
प्रातरत्र ।
अति इत्येव, वृक्ष इह ।
तस्य अपि तपरत्वादत्र न भवति ।
वृक्ष आश्रितः ।
अलुतातिति किं ? सुस्रोता३अत्र न्वसि ।
अप्लुते इति किं ? तिष्ठतु पय अ३च्श्विन् ।
अत्र प्लुतस्य असिद्धत्वातुत्वं प्राप्नोति इति अप्लुतादप्लुते इति उच्यते । ।


____________________________________________________________________


  1. <हशि च># । । PS_६,१.११४ । ।



_____Sठाऱ्ठ्JKव्_६,१.११४ः

हशि च परतः अत उत्तरस्य रोरुकारादेशो भवति ।
पुरुषो याति ।
पुरुषो हसति ।
पुरुषो ददाति । ।

____________________________________________________________________


  1. <प्रकृत्याऽन्तःपादं अव्यपरे># । । PS_६,१.११५ । ।



_____Sठाऱ्ठ्JKव्_६,१.११५ः

एङोऽति (*६,१.१०९) इत्येव ।
एङः इति यत्पञ्चम्यन्तं अनुवर्तते, तदर्थादिह प्रथमान्तं भवति ।
प्रकृतिः इति स्वभावः कारणं वाऽभिधीयते ।
अन्तरिति अव्ययं अधिकरनभूतं मध्यं आचष्टे ।
पादशब्देन च ऋक्पादस्य+एव ग्रहणं इष्यते, न तु श्लोकपदस्य ।
अवकारयकारपरे अति परतः एङ्प्रकृत्या भवति ।
स्वभावेन अवतिष्ठते कारणात्मना वा भवति, न विकारं आपद्यते ।
तौ चेन्निमित्तकार्यिणौ अन्तःपादमृक्पादमध्ये भवतः ।
ते अग्रे अश्वमायुञ्जन् ।
ते अस्मिञ्जवमादधुः ।
उपप्रयन्तो अध्वरं ।
शिरो अपश्यं सुजाते अश्वसूनृते ।
अध्वर्त्यो अद्रिभिः सुतं ।
अन्तःपादं इति किं ।
कया मती कुत एतास एतेऽर्चन्ति ।
अव्यपरे इति किं ।
तेऽवदन् ।
तेजोऽयस्मयं ।
एङिति किं ? अन्वग्निरुषसामग्रमख्यथ् ।
केचिदिदं सूत्रं न अन्तःपादं अव्यपरे इति पठन्ति, ते संहितायां इह यदुच्यते तस्य सर्वस्य प्रतिषेधं वर्णयन्ति । ।


____________________________________________________________________


[#६२७]

  1. <अव्याद्-अवद्याद्-अवक्रमुर्-अव्रत-अयम्-अवन्त्व्-अवस्युसु च># । । PS_६,१.११६ । ।


_____Sठाऱ्ठ्JKव्_६,१.११६ः

अव्यातवद्यातवक्रमुः अव्रत अयं अवन्तु अवस्यु इत्येतेषु वकार-यकारपरेऽप्यति परतः अन्तःपादं एङ्प्रकृत्या भवति ।
अग्निः प्रथमो वसुभिर्नो अव्याथ् ।
मित्रमहो अवद्याथ् ।
मा शिवासो अवकृअमुः ।
ते नो अव्रताः ।
शतधारो अयं मणिः ।
ते नो अवन्तु पितरः ।
कुशिकासो अवस्यवः । ।

____________________________________________________________________


  1. <यजुष्युरः># । । PS_६,१.११७ । ।



_____Sठाऱ्ठ्JKव्_६,१.११७ः

उरःशब्दः एङन्तः यजुषि विषये अति रकृत्या भवति ।
उरो अन्तरिक्षं ।
अपरे यजुष्युरो इति सूत्रं पठन्ति, उकारान्तं उरुशब्दं सम्बुद्ध्यन्तं अधीयते, ते इदं उदाहरन्ति उरो अन्तरिक्षं सजूः इति ।
यजुषि पादानां अभावातनन्तःपादर्थं वचनं । ।


____________________________________________________________________


  1. <आपो-जुषणो-वृष्णो-वर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे># । । PS_६,१.११८ । ।



_____Sठाऱ्ठ्JKव्_६,१.११८ः

यजुषि इत्येव ।
आपो जुषाणो वृष्णो वर्षिष्ठे इत्येते शब्दाः अम्बे अम्बाले इत्येतौ च यावम्बिके शब्दात्पूर्वौ यजुषि पठितौ ते अति परतः प्रकृत्या भवन्ति ।
आपो अस्मान्मातरः शुन्धयन्तु ।
जुषणो अप्तुराज्यस्य ।
वृष्णो अंशुभ्यां गभस्तिपूतः ।
वषिष्ठे अधि नाके ।
अम्बे अम्बाल्यम्बिके यजुषीदमीदृशं एव पठ्यते ।
अस्मादेव निपातनातम्बार्थनद्योर्ह्रस्वः (*७,६.१०७) इति ह्रस्वत्वं न भवति । ।


____________________________________________________________________


  1. <अङ्ग इत्यादौ च># । । PS_६,१.११९ । ।



_____Sठाऱ्ठ्JKव्_६,१.११९ः

अङ्गशब्दे य एङ्तदादौ चाकारे यः पूर्वः स यजुसि विषये अति प्रकृत्या भवति ।
ऐन्द्रः प्राणो अङ्गे अङ्गे अदीध्यथ् ।
ऐन्द्रः प्राणो अङ्गे अङ्गे निदीध्यथ् ।
ऐन्द्रः प्राणो अङ्गे अङ्गे अरोचिषं । ।


____________________________________________________________________


  1. <अनुदात्ते च कुधपरे># । । PS_६,१.१२० । ।



_____Sठाऱ्ठ्JKव्_६,१.१२०ः

यजुषि इत्येव ।
अनुदात्ते च अति कवर्गधकारपरे परतो यजुसि विषये एङ्प्रकृत्या भवति ।
अयं सो अग्निः ।
अयं सो अध्वरः ।
अनुदात्ते इति किं ? अधोग्रे ।
अग्रशब्द आद्युदात्तो निपात्यते ।
कुधपरे इति किं ? सोऽयं अग्निः सहस्रियः । ।


____________________________________________________________________

[#६२८]

  1. <अवपथासि च># । । PS_६,१.१२१ । ।



_____Sठाऱ्ठ्JKव्_६,१.१२१ः

यजुषि इत्येव ।
अनुदात्ते इति चशब्देन अनुकृष्यते ।
अवपथाःशब्देऽनुदात्ते अकारादौ परतो यजुषि विषये एङ्प्रकृत्या भवति ।
त्री रुद्रेभ्यो अवपथाः ।
वपेर्लङि थासि तिङ्ङ्-अतिङः (*८,१.२८) इति निघातेन अनुदात्तत्वं ।
अनुदात्ते इत्येव, यद्रुद्रेभ्योऽवपथाः ।
निपातैर्यद्-यदि-हन्त इति निघातः प्रतिषिध्यते । ।


____________________________________________________________________


  1. <सर्वत्र विभाषा गोः># । । PS_६,१.१२२ । ।



_____Sठाऱ्ठ्JKव्_६,१.१२२ः

सर्वत्र छन्दसि भाषायां च अति परतो गोः एङ्प्रकृत्या भवति विभाषा ।
गोऽग्रम्, गो अग्रं ।
छन्दसि - अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वान् । ।


____________________________________________________________________


  1. <अवङ्स्फोटायनस्य># । । PS_६,१.१२३ । ।



_____Sठाऱ्ठ्JKव्_६,१.१२३ः

अति इति निवृत्तं ।
अचि इत्येतत्त्वनुवर्तत एव ।
अचि परतः गोः स्फोटायनस्य आचार्यस्य मतेन अवङादेशो भवति ।
गवाग्रम्, गोऽग्रं ।
गवाजिनम्, गोऽजिनं ।
गवौ दनम्, गवोदनं ।
गवोष्ट्रम्, गवुष्ट्रं ।
आद्युदात्तश्च अयं आदेशो निपात्यते, स निपातनस्वरो बहुव्रीहौ प्रकृतिस्वरविधाने भवति ।
गावः अग्रं अस्य गवाग्रः इति ।
अन्यत्र तु समासान्त-उदात्तत्वेन बाध्यते ।
स्फोटायनग्रहणं पूजार्थं, विभाषा इत्येव हि वर्तते ।
व्यवस्थितविभाषा इयं, तेन गवाक्षः इत्यत्र नित्यं अवङ्भवति । ।


____________________________________________________________________


  1. <इन्द्रे च नित्यम्># । । PS_६,१.१२४ । ।



_____Sठाऱ्ठ्JKव्_६,१.१२४ः

इन्द्रशब्दस्थे अचि परतो गोर्नित्यं अवङादेशो भवति ।
गवेन्द्रः ।
गवेन्द्रयज्ञस्वरः । ।


____________________________________________________________________


  1. <प्लुत-प्रगृह्या अचि># । । PS_६,१.१२५ । ।



_____Sठाऱ्ठ्JKव्_६,१.१२५ः

प्लुताश्च प्रगृह्याश्च अचि प्रकृत्या भवन्ति ।
देवदत्त३अत्र न्वसि ।
यज्ञदत्त३इदं आनय ।
आश्रयादत्र प्लुतः सिद्धः ।
प्रगृह्याः - अग्नी इति ।
वायू इति ।
खट्वे इति ।
माले इति ।
अचि इत्यनुवर्तमाने पुनरज्ग्रहणं आदेशनिमित्तस्य अचिः परिग्रहार्थं ।
तेन+इह न भवति, जानु उ अस्य रुजति जान्वस्य रुजति ।
प्रगृह्यादुकारात्परस्य अकारस्य सवर्णदीर्घत्वं प्रत्यनिमित्तत्वादत्र प्रकृतिभावो न भवति ।
नित्यग्रहणं इह अनुवर्तते ।
प्लुतप्रगृह्याणां नित्यं अयं एव प्रकृतिभावो यथा स्याद्, इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (*६,१.१२७) इत्येतन्मा भूतिति । ।


____________________________________________________________________


[#६२९]

  1. <आङोऽनुनासिकश्छन्दसि># । । PS_६,१.१२६ । ।



_____Sठाऱ्ठ्JKव्_६,१.१२६ः

आङोऽचि परतः संहितायां छन्दसि विषयेऽनुनासिकादेशो भवति, स च प्रकृत्या भवति ।
अभ्र ॐ अपः ।
गभीर ॐ उग्रपुत्रे जिघांसतः ।
केचिदाङोऽनुनासिकश्छन्दसि बहुलं इत्यधीयते ।
तेन+इह न भवति, इन्द्रो बाहुभ्यामातरथ् ।
आ अतरत् । ।


____________________________________________________________________


  1. <इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च># । । PS_६,१.१२७ । ।



_____Sठाऱ्ठ्JKव्_६,१.१२७ः

इकोऽसवर्ने अचि परतः शाकल्यस्य आचार्यस्य मतेन प्रकृत्या भवन्ति, ह्रस्वश्च तस्य इकः स्थाने भवति ।
दधि अत्र, दध्यत्र ।
मधु अत्र, मध्वत्र ।
कुमारि अत्र, कुमार्यत्र ।
किशोरि अत्र, किशोर्यत्र ।
इकः इति किं ? खट्वेन्द्रः ।
असवर्णे इति किं ।
कुमारीन्द्रः ।
शाकल्यस्य ग्रहणं पूजार्थं ।
आरम्भसामर्थ्यादेव हि यणादेशेन सह विकल्पः सिद्धः ।
सिन्नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः ।
सिति - अयं ते योनिरृत्वियः ।
नित्यसमासे - व्याकरनं ।
कुमार्यर्थं ।
ईषा अक्षादिषु छन्दसि प्रकृतिभावमात्रं वक्तव्यं ।
ईषा अक्षो हिरण्ययः ।
का इमरे पिशङ्गिला ।
पथा अगमन् । ।


____________________________________________________________________


  1. <ऋत्यकः># । । PS_६,१.१२८ । ।



_____Sठाऱ्ठ्JKव्_६,१.१२८ः

शाकल्यस्य ह्रस्वश्च इत्येतदनुवर्तते ।
ऋकारे परतः शाक्ल्यस्य आचार्यस्य मतेन अकः प्रकृत्या भवन्ति ह्रस्वश्च तस्यकः स्थाने भवति ।
खट्व ऋश्यः ।
माल ऋश्यः ।
कुमारि ऋश्यः ।
होतृ ऋश्यः ।
ऋति इति किं ? खट्वेन्द्रः ।
अकः इति किं ।
वृक्षावृश्यः ।
सवर्णार्थमनिगर्थं च वचनं । ।

____________________________________________________________________


  1. <अप्लुतवद्-उपस्थिते># । । PS_६,१.१२९ । ।



_____Sठाऱ्ठ्JKव्_६,१.१२९ः

उपस्थितं नाम अनार्षः अतिकरणः, समुदायादवच्छिद्य पदं येन स्वरूपेऽवस्थाप्यते ।
तस्मिन्परतः प्लुतः अप्लुतवद्भवति ।
प्लुतकार्यं प्रकृतिभावं न करोति ।
सुश्लोक३ इति सुश्लोकेति ।
सुमङ्गल३ इति सुमङ्गलेति ।
वत्करणं किं ? अप्लुत इति उच्यमाने प्लुत एव प्रतिषिद्यते ।
तत्र को दोषः ? प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणं न स्यात्, अग्नी३ इति, वायू३ इति । ।


____________________________________________________________________


[#६३०]

  1. <ई३ चाक्रवर्मणस्य># । । PS_६,१.१३० । ।



_____Sठाऱ्ठ्JKव्_६,१.१३०ः

ई३कारः प्लुतोऽचि परतः चाक्रवर्मणस्य आचार्यस्य मतेन प्लुतवद्भवति ।
अस्तु हीत्यब्रूताम्, अस्तु ही३ इत्यब्रूतां ।
चिनु हीदं ।
चिनु ही३ इदं ।
चाक्रवर्मणग्रहणं विकल्पार्थम्, तदुपस्थिते निवृत्त्यर्थं अनुपस्थिते प्राप्त्यर्थं इत्युभयत्रविभाषा इयं ।
ईकारादन्यत्र अप्ययं अप्लुतवद्भाव इष्यते ।
वशा३ इयं वशेयं । ।


____________________________________________________________________

  1. <दिव उत्># । । PS_६,१.१३१ । ।



_____Sठाऱ्ठ्JKव्_६,१.१३१ः

एङः पदान्तादति (*६,१.१०९) इत्यतः पदग्रहणं अनुवर्तते ।
दिवः इति प्रातिपदिकं गृह्यते, न धातुः, सानुबन्धकत्वाथ् ।
दिवः पदस्य उकारादेशो भवति ।
दिवि कामो यस्य द्युकामः ।
द्युमान् ।
विमलद्यु दिनं ।
द्युभ्यां ।
द्युभिः ।
निरनुबन्धकग्रहणादिह न भवति, अक्षद्यूभ्याम्, अक्षद्यूभिः इति ।
तपरकरनं ऊठो निवृत्त्यर्थम्, द्युभ्याम्, द्युभिः इति ।
अत्र हि परत्वातूटः प्राप्नोति ।
पदस्य इति किं ? दिवौ ।
दिवः । ।


____________________________________________________________________


  1. <एतत्-तदोः सुलोपोऽकोरनञ्समासे हलि># । । PS_६,१.१३२ । ।



_____Sठाऱ्ठ्JKव्_६,१.१३२ः

एतत्तदौ यावककारौ नञ्समासे न वर्तते तयोर्यः सुशब्दः, कश्च तयोः सुशब्दः ? यः तदर्थेन सम्बद्धः, तस्य संहितायां विषये हलि परतो लोपो भवति ।
एष ददाति ।
स ददाति ।
एष भुङ्क्ते ।
स भुङ्क्ते ।
एतत्तदोः इति किं ? यो ददाति ।
यो भुङ्क्ते ।
सुग्रहणं किं ? एतौ गावौ चरतः ।
अकोः इति किं ? एषको ददाति ।
सको ददाति ।
तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति रूपभेदेऽपि साकच्कावेतत्तदावेव भवतः ।
अनञ्समासे इति किं ? अनेषो ददाति ।
असो ददाति ।
उत्तरपदार्थप्रधानत्वान्नञ्समासस्य एतत्तदोरेव अत्र सम्बद्धः सुशब्दः ।
हलि इति किं ? एषोऽत्र सोऽत्र । ।


____________________________________________________________________


  1. <स्यश्छन्दसि बहुलम्># । । PS_६,१.१३३ । ।



_____Sठाऱ्ठ्JKव्_६,१.१३३ः

स्य इत्येतस्य छन्दसि हलि परतः बहुलं सोर्लोपो भवति ।
उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपि कक्ष आसनि ।
एष स्य ते पवत इन्द्र सोमः ।
न च भवति, यत्र स्यो निपतेत् । ।


____________________________________________________________________


[#६३१]

  1. <सोऽचि लोपे चेत्पादपूरणम्># । । PS_६,१.१३४ । ।



_____Sठाऱ्ठ्JKव्_६,१.१३४ः

सः इत्येतस्य अचि परतः सुलोपो भवति, लोपे सति चेत्पादः पूर्यते ।
सेदु राजा क्षयते चर्षणीनां ।
सौषधीरनुरुध्यसे ।
लोपे चेत्पादपूरणं इति किं ? स इव व्याघ्रो भवेथ् ।
अचि इति वस्पष्टार्थं ।
पादग्रहणेन अत्र श्लोकपादस्य अपि ग्रहणं केचिदिच्छन्ति, तेन+इदं सिद्धं भवति ।
सैष दाशरथी रामः सैष राजा युधिष्ठिरः ।
सैष कर्णो महात्यागी सैषा भीमो महाबलः । ।


____________________________________________________________________


  1. <सुट्कात्पूर्वः># । । PS_६,१.१३५ । ।



_____Sठाऱ्ठ्JKव्_६,१.१३५ः

अधिकारोऽयं पारस्करप्रभृतीनां च सञ्ज्ञायां (*६,१.१७५) इति यावथ् ।
इत उत्तरं यद्वक्ष्यामस्तत्र सुटिति , कात्पूर्वः इति च+एतदधिकृतं वेदितव्यं ।
वक्ष्यति - सम्पर्युपेभ्यः करोतौभूषणे (*६,१.१३७) ।
संस्कर्ता ।
संस्कर्तुं ।
संस्कर्तव्यं ।
कात्पूर्वग्रहणं सुटोऽभक्तत्वज्ञापनार्थं ।
तथा हि संस्कृषीष्ट, संस्क्रियते इति संयोगादिलक्षणौ इड्गुणौ न भवतः ।
तिङ्ङतिङः (*८,१.१८) इति निघातोऽपि तर्हि न प्राप्नोति, सुटा व्यवहितत्वात्? स्वरविधौ व्यञ्जनं अविद्यमानवतिति वचनान्न अस्ति व्यवधानं संचस्करतुः, संचस्करुः इति गुणः कथं ? तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति ।
संयोगोपधग्रहणं च ऋतश्च संयोगादेर्गुणः (*७,४.१०) इत्यत्र कर्तव्यं ।
टित्करणं सुट्स्तुस्वञ्जां इत्यत्र विशेषणार्थं । ।


____________________________________________________________________


  1. <अड्-अभ्यास-व्यवायेऽपि># । । PS_६,१.१३६ । ।



_____Sठाऱ्ठ्JKव्_६,१.१३६ः

अड्व्यवाये, अभ्यासव्यवाये अपि सुट्कात्पूर्वः भवति ।
संस्करोथ् ।
समस्कार्षीथ् ।
सञ्चस्कर ।
परिचस्कार ।
किमर्थं पुनरिदं उच्यते, पूर्वं धातुरुपसर्गेण युज्यते इति तत्र धातूपसर्गयोः कर्यं अन्तरङ्गं इति पूर्वं सुट्क्रियते पश्चादङभ्यासौ ? अभक्तश्च सुटित्युक्तम्, ततः सकारादुत्तरावडभ्यासौ अनिष्टे देशे स्यातां ।
एतस्मिंस्तु सत्यत एव वचनात्कृतयोरडभ्यासयोः तद्व्यवाये अपि सुट्कात्पूर्वः क्रियते इति सिद्धं इष्टं भवति । ।


____________________________________________________________________


  1. <सम्पर्युपेभ्यः करोतौ भूषणे># । । PS_६,१.१३७ । ।



_____Sठाऱ्ठ्JKव्_६,१.१३७ः

सं परि उप इत्येतेभ्यः भुषणार्थे करोतौ परतः सुट्कात्पूर्वो भवति ।
संस्कर्ता ।
संस्कर्तुं ।
संस्कर्तव्यं ।
अत्र संपुंकानां सत्वं इति समो मकारस्य सकारः, पूर्वस्य चाकारस्य अनुनासिकः ।
परिष्कर्ता ।
परिष्कर्तुं ।
परिष्कर्तव्यं ।
सुट्स्तुस्वञ्जां इति षत्वं ।
उपस्कर्ता ।
उपस्कर्तुं ।
उपस्कर्तव्यं ।
भूषणे इति किं ? उपकरोति ।
सम्पूर्वस्य क्वचिदभूषणेऽपि सुडिष्यते, संस्कृतमन्नं इति । ।


____________________________________________________________________


[#६३२]

  1. <समवाये च># । । PS_६,१.१३८ । ।



_____Sठाऱ्ठ्JKव्_६,१.१३८ः

समवायः समुदायः, तस्मिंश्चार्थे करोतौ सम्पर्युपेभ्यः कात्पूर्वः सुडागमो भवति ।
तत्र नः संस्कृतं ।
तत्र नः परिष्कृतं ।
तत्र न उपस्कृतं ।
समुदितं इत्यर्थः । ।


____________________________________________________________________


  1. <उपात्प्रतियत्न-वैकृत-वाक्य-अध्याहारेसु># । । PS_६,१.१३९ । ।



_____Sठाऱ्ठ्JKव्_६,१.१३९ः

सतो गुणान्तराधानमाधिक्याय वृद्धस्य वा तादवस्थ्याय समीहा प्रतियत्नः ।
विकृतं एव वैकृतं ।
प्रज्ञादित्वादण् ।
गम्यमानार्थस्य वाक्यस्य स्वरूपेण+उपादानं वाक्यस्य अध्याहारः ।
एतेष्वर्थेषु गम्यमानेसु करोतौ धातौ परतः उपात्सुट्कात्पूर्वः भवति ।
प्रतियत्ने तावत्- एधो दकस्य+उपस्कुरुते ।
काण्डगुणस्य+उपस्कुरुते ।
वैकृते - उपस्कृतं भुङ्क्ते ।
उपस्कृतं गच्छति ।
वाक्याध्याहारे - उपस्कृतं जल्पति ।
उपस्कृतं अधीते ।
एतेषु इति किं ? उपकरोति । ।


____________________________________________________________________


  1. <किरतौ लवने># । । PS_६,१.१४० । ।



_____Sठाऱ्ठ्JKव्_६,१.१४०ः

उपातित्येव ।
उपादुत्तरस्मिन्किरतौ धातौ लवनविषये सुत्कत्पूर्वः भवति ।
उपस्कारं मद्रका लुनन्ति ।
उपस्कारं काश्मीरका लुनन्ति ।
विक्षिप्य लुनन्ति इत्यर्थः ।
णमुलत्र वक्तव्यः ।
लवने इति किं ? उपकिरति देवदत्तः । ।


____________________________________________________________________


  1. <हिंसायां प्रतेश्च># । । PS_६,१.१४१ । ।



_____Sठाऱ्ठ्JKव्_६,१.१४१ः

किरतौ इत्येव ।
उपात्प्रतेश्च उत्तरस्मिन्किरतौ सुट्कात्पूर्वः भवति हिंसयां विषये ।
उपस्कीर्णं हं ते वृषल भूयाथ् ।
प्रतिस्कीर्णं हं ते वृषल भूयाथ् ।
तथा ते वृषल विक्षेपो भूयात्यथा हिंसामनुबध्नाति इत्यर्थः ।
हिंसायां इति किं ।
प्रतिकीर्णं । ।


____________________________________________________________________


  1. <अपाच्चतुष्पाच्-छकुनिष्वालेखने># । । PS_६,१.१४२ । ।



_____Sठाऱ्ठ्JKव्_६,१.१४२ः

किरतौ इत्येव ।
अपातुत्तरस्मिन्किरतौ चतुष्पाच्छकुनिषु यदालेखनं तस्मिन्विसये सुत्कात्पूर्वः भवति ।
अपस्किरते वृषभो हृष्टः ।
अपस्किरते कुक्कुटो भक्ष्यार्थी ।
अपस्किरते श्वा आश्रयार्थी ।
आलिख्य विक्षिपति इत्यर्थः ।
चतुष्पाच्छकुनिषु इति किं ? अपकिरति देवदत्तः ।
हर्षजीविकाकुलायकरणेष्विति वक्तव्यं ।

[#६३३]

इह मा भूत्, अपकिरति श्वा ओदनपिण्डमाशितः ।
हर्षजीविकाकुलायकरणेष्वेव किरतेरात्मनेपदस्य+उपसंख्यानं । ।


____________________________________________________________________


  1. <कुस्तुम्बुरूणि जातिः># । । PS_६,१.१४३ । ।



_____Sठाऱ्ठ्JKव्_६,१.१४३ः

कुस्तुम्बुरूणि इति सुट्निपात्यते जातिश्चेद्भवति ।
कुस्तुम्बुरुर्नामौषधिजातिः धान्यकं ।
तत्फलान्यपि कुसुम्बुरुणि सूत्रनिर्देशे नपुंसकमविवक्षितं ।
जातिः इति किं ? कुत्सितानि तुम्बुरूणि कुतुम्बुरूणि ।
तुम्बुरुशब्देन तिन्दुकीफलान्युच्यन्ते, समासेन तेषां कुत्सा । ।


____________________________________________________________________


  1. <अपरस्पराः क्रियासातत्ये># । । PS_६,१.१४४ । ।



_____Sठाऱ्ठ्JKव्_६,१.१४४ः

अपरास्परा इति सुट्निपात्यते क्रियासातत्ये गम्यमाने ।
अपरस्पराः सार्थाः गच्छन्ति ।
सन्ततमविच्छेदेन गच्छन्ति इत्यर्थः ।
क्रियासातत्ये इति किं ? अपरपराः सार्थाः गच्छन्ति ।
अपरे च परे च सकृदेव गच्छन्ति इत्यर्थः ।
न अत्र गमनस्य सातत्यप्रबन्धो विवक्षितः ।
किं इदं सातत्यं इति ? सततस्य भावः सातत्यं ।
कथं सततं ? समस्तते विकल्पेन मकारलोपो विधीयते ।
लुम्पेदवश्यमः कुत्ये तुंकाममनसोरपि ।
समो वा हितततयोर्मांसस्य पचियुड्घञोः । ।


____________________________________________________________________


  1. <गोष्पदं सेवित-असेवित-प्रमाणेसु># । । PS_६,१.१४५ । ।



_____Sठाऱ्ठ्JKव्_६,१.१४५ः

गोष्पदं इति सुट्निपात्यते, तस्य च षत्वं सेविते असेविते प्रमाने च विषये ।
गोष्पदो देशः ।
गावः पद्यन्ते यस्मिन्देशे स गोभिः सेवितो देशो गोष्पदः इत्युच्यते ।
असेविते - अगोष्पदान्यरण्यानि ।
असेविते गोष्पदशब्दो न सम्भवति इत्यगोष्पदशब्दार्थं निपातनं ।
यद्येवं न अर्थ एतेन, गोष्पदप्रतिषेधादगोष्पदं भविस्यति ? सत्यं एतत्, यत्र तु सेवितप्रसङ्गोऽस्ति तत्र+एव स्यादगोष्पदं इति, यत्र त्वत्यन्तासम्भव एव तत्र न स्यात्, अगोष्पदान्यरण्यानि इति ? असेवितग्रहणात्तत्र अपि भवति ।
यानि हि महान्त्यरणानि येषु गवां अत्यन्तासम्भवस्तान्येवं उच्यन्ते ।
प्रमाणे - गोस्पदमात्रं क्षेत्रं ।
गोष्पदपूरं वृष्टो देवः ।
न अत्र गोष्पदं स्वार्थप्रतिपादनार्थं उपादीयते, किं तर्हि, क्षेत्रस्य वृष्टेश्च परिच्छेत्तुमियत्तां ।
सेवितासेवितप्रमाणेसु इति किं ? गोः पदं गोपदं । ।


____________________________________________________________________


[#६३४]

  1. <आस्पदं प्रतिष्ठायाम्># । । PS_६,१.१४६ । ।



_____Sठाऱ्ठ्JKव्_६,१.१४६ः

आत्मयापनाय स्थानं प्रतिष्ठा, तस्यां आस्पदं इति सुट्निपात्यते ।
आस्पदं अनेन लब्धं ।
प्रतिष्थायां इति किं ? आ पदातापदं । ।


____________________________________________________________________


  1. <आश्चर्यं अनित्ये># । । PS_६,१.१४७ । ।



_____Sठाऱ्ठ्JKव्_६,१.१४७ः

अनित्यतया विषयभूतया अद्भुतत्वं इह उपलक्ष्यते, तस्मिन्नाचर्यं निपात्यते ।
चरेराङि चागुरौ इति यत्प्रत्यये कृते निपातनात्सुठ् ।
आश्चर्यं यदि स भुञ्जीत ।
आश्चर्यं यदि सोऽधीयीत ।
चित्रं अद्भुतं इत्यर्थः ।
अनित्ये इति किं ? आचर्यं कर्म शोभनं । ।


____________________________________________________________________


  1. <वर्चस्केऽवस्करः># । । PS_६,१.१४८ । ।



_____Sठाऱ्ठ्JKव्_६,१.१४८ः

कुत्सितं वर्चः वर्चस्कं अन्नमलम्, तस्मिन्नभिधेयेऽवस्करः इति निपात्यते ।
अवपूर्वस्य किरतेः कर्मणि ऋदोरप्(*३,३.५७) इत्यप्, निपातनाप्सुठ् ।
अवकीर्यते इत्यवस्करोऽन्नमलम्, तत्सम्बन्धात्देशोऽपि तथा+उच्यते ।
वर्चस्के इति किं ? अवकरः । ।


____________________________________________________________________


  1. <अपस्करो रथाङ्गम्># । । PS_६,१.१४९ । ।



_____Sठाऱ्ठ्JKव्_६,१.१४९ः

अपस्करः इति निपात्यते रथाङ्गं चेद्भवति ।
अपपूर्वात्किरतेः ऋदोरप्(*६,६.५७) इत्यप्, निपातनात्सुठ् ।
अपस्करो रथावयवः ।
रथाङ्गं इति किं ? अपकरः । ।


____________________________________________________________________


  1. <विष्किरः शुकुम्निर्विकिरो वा># । । PS_६,१.१५० । ।



_____Sठाऱ्ठ्JKव्_६,१.१५०ः

विष्किरः इति किरतेः विपूर्वस्य इग्-उपध-ज्ञा-प्री-किरः कः (*३,१.१३५) इति कप्रत्यये विहिते सुट्निपात्यते शुकुनिश्चेद्भवति ।
विकिरशब्दाभिधेयो वा शकुनिर्भवति ।
सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृते ।
विष्किरो वा शकुनौ इति व ग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणं इह तस्य अपि शकुनेरन्यत्र प्रयोगो म भूत् । ।


____________________________________________________________________


  1. <ह्वस्वाच्चन्द्र-उत्तरपदे मन्त्रे># । । PS_६,१.१५१ । ।



_____Sठाऱ्ठ्JKव्_६,१.१५१ः

चन्द्रशब्दे उत्तरपदे ह्रस्वात्परः सुडागमो भवति मन्त्रविसये ।
सुश्चन्द्रः युष्मान् ।
ह्रस्वातिति किं ? सूर्याचन्द्रमसाविव ।
मन्त्रे इति किं ? सुचन्द्रा पौर्णमासी ।
उत्तरपदं समास एव भवति इति प्रसिद्धम्, तत इह न भवति, शुक्रमसि, चन्द्रमसि । ।

____________________________________________________________________


[#६३५]

  1. <प्रतिष्कशश्च कशेः># । । PS_६,१.१५२ । ।



_____Sठाऱ्ठ्JKव्_६,१.१५२ः

कश गतिशासनयोः इत्येतस्य धातोः प्रतिपूर्वस्य पचाद्यचि कृते सुट्निपात्यते, तस्य+एव षत्वं ।
ग्राममद्य प्रवेक्ष्यामि भव मे त्वं प्रतिष्कशः ।
वार्तापुरुषः, सहायः, पुरोयायी वा प्रतिष्कशः इत्यभिधीयते ।
कशेः इति किं ।
प्रतिगतः कशां प्रतिकशोऽश्वः ।
अत्र यद्यपि कशेरेव कशाशब्दः, तथा अपि कशेरिति धातोरुपादानं तदुपसर्गस्य प्रतेः प्रतिपत्त्यर्थं ।
तेन धात्वन्तरोपसर्गान्न भवति । ।


____________________________________________________________________


  1. <प्रस्कण्व-हरिश्चन्द्रावृषी># । । PS_६,१.१५३ । ।



_____Sठाऱ्ठ्JKव्_६,१.१५३ः

प्रस्कण्व हरिश्चन्द्र इति सुट्निपात्यते ऋषी चेदभिधेयौ भवतः ।
प्रस्कण्व ऋषिः ।
हरिश्चन्द्र ऋषिः ।
हरिश्चन्द्रग्रहणं अमन्त्रार्थं ।
ऋषी इति किं ? प्रकण्वो देशः ।
हरिचन्द्रो माणवकः । ।


____________________________________________________________________

  1. <मस्करमस्करिणौ वेणुपरिव्राजकयोः># । । PS_६,१.१५४ । ।



_____Sठाऱ्ठ्JKव्_६,१.१५४ः

मस्कर मस्करिनित्येतौ यथासङ्ख्यं वेणौ परिव्राजके च निपात्येते ।
मकरशब्दो ह्यव्युत्पन्नं प्रातिपदिकम्, तस्य वेणौ अभिधेये सुट्निपात्यते, परिव्राजके त्विनिः अपि ।
मस्करः वेणुः ।
मस्करी परिव्राजकः ।
वेणुपरिव्राजकयोः इति किं ? मकरो ग्राहः ।
मकरी समुद्रः ।
केचित्पुनरत्र माङि उपपदे करोतेः करणेऽच्प्रत्ययं अपि निपातयन्तिक्माङ्श्च ह्रस्वत्वं सुट्च ।
मा क्रियते येन प्रतिषिध्यते स मस्करो वेणुः ।
वेणुग्रहणं च प्रदर्शनार्थं अन्यत्र अपि भवति, मस्करो दण्डः इति ।
परिव्राजके अपि माङि उपपदे करोतेस्ताच्छील्ये इनिर्निपात्यते, माङो ह्रस्वत्वं सुट्च तथा+एव ।
माकरणशीलो मस्करी कर्मापवादित्वात्परिव्राज्क उच्यते ।
स ह्येवं आह - मा कुरुत कर्माणि शान्तिर्वः श्रेयसी इति । ।


____________________________________________________________________


  1. <कास्तीराजस्तुन्दे नगरे># । । PS_६,१.१५५ । ।



_____Sठाऱ्ठ्JKव्_६,१.१५५ः

कास्तीर अजस्तुन्द इत्येतौ शब्दौ निपात्येते नगरेऽभिधेये ।
ईषत्तीरमस्य, अजस्येव तुन्दमस्य इति व्युत्पत्तिरेव क्रियते, नगरं तु वाच्यं एतयोः ।
कास्तीरं नाम नगरं ।
अजस्तुन्दं नाम नगरं ।
नगरे इति किं ? कातीरं ।
अजतुनदं । ।


____________________________________________________________________


  1. <कारस्करो वृक्षः># । । PS_६,१.१५६ । ।



_____Sठाऱ्ठ्JKव्_६,१.१५६ः

कारस्कर इति सुट्निपात्यते व्र्क्षश्चेद्भवति ।
कारं करोति इति दिवाविभानिशाप्रभाभास्करान्त इति टप्रत्ययः ।
कारस्करो वृक्षः ।
वृक्षः इति किं ? कारकरः ।
केचिदिदं नाधीयते, पारस्करप्रभृतिष्वेव कारस्करो वृक्षः इति पठन्ति । ।


____________________________________________________________________


[#६३६]

  1. <पारस्करप्रभृतीनि च सञ्ज्ञायाम्># । । PS_६,१.१५७ । ।



_____Sठाऱ्ठ्JKव्_६,१.१५७ः

पारस्करप्रभृतीनि च शब्दरूपाणि निपात्यन्ते सञ्ज्ञायां विषये ।
पारस्करो देशः ।
कारस्करो वृक्षः ।
रथस्पा नदी ।
किष्कुः प्रमाणं ।
किष्किन्धा गुहा ।
तद्बृहतोः करपत्योश्चोरदेवतयोः सुट्तलोपश्च ।
तस्करश्चोरः ।
वृहस्पतिदेवता ।
चोरदेवतयोः इति किं ? तत्करः ।
बृहत्पतिः ।
सञ्ज्ञाग्रहणादुपाधिपरिग्रहे सिद्धे गणे चोरदेवताग्रहणं प्रपञ्चार्थं ।
प्रात्तुम्पतौ गवि कर्तरि ।
तुम्पतौ धातौ प्रशब्दात्परः सुट्भवति गवि कर्तरि ।
प्रस्तुम्पति गौः ।
गवि इति किं ? प्रतुम्पति वनस्पतिः ।
पारस्करप्रभृतिराकृतिगणः ।
अविहितलक्षणः सुट्पारस्करप्रभृतिषु द्रष्टव्यः ।
प्रायश्चित्तं ।
प्रायश्चित्तिः ।
यदुक्तं प्रायस्य चितिचित्तयोः सुडस्कारो वा इति तत्सङ्गृहीतं भवति । ।


____________________________________________________________________


  1. <अनुदात्तं पदं एकवर्जम्># । । PS_६,१.१५८ । ।



_____Sठाऱ्ठ्JKव्_६,१.१५८ः

परिभाषा+इयं स्वरविधिविषया ।
यत्र अन्यः स्वरः उदात्तः स्वरितो वा विधीयते, तत्र अनुदात्तं पदं एकं वर्जयित्वा भवति इत्येतदुपस्थितं द्रष्टव्यं ।
अनुदात्ताच्कं अनुदात्तं ।
कः पुनरेको वर्ज्यते ? यस्य असौ स्वरो विधीयते ।
वक्ष्यति - धातोः (*६,१.१६२) अन्तः उदात्तो भवति ।
गोपायति ।
धूपायति ।
धातोरन्त्यं अचं वर्जयित्वा परिशिष्टं अनुदात्तं भवति ।
धातुस्वरं श्नाश्वरो बाधते ।
लुनाति ।
पुनाति ।
श्नाश्वरं तस्स्वरः ।
लुनीतः ।
पुनीतः ।
तस्स्वरमांस्वरः ।
लुनीतस्तरां ।
पुनीतस्तरां ।
आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च ।
पृथक्ष्वरनिवृत्त्यर्थं एकवर्जं पदस्वरः । ।
आगमस्य - चितुरनुडुहोरामुदात्तः (*७,१.९८) ।
चत्वारः ।
अनड्वाहः ।
आगमस्वरः प्रकृतिस्वरं बाधते ।
विकारस्य - अस्थनि, दधनि इत्यनङ्स्वरः प्रकृतिस्वरं बाधते ।
प्रकृतेः - गोपायति ।
धूपायति ।
प्रकृतिस्वरः प्रत्ययस्वरं बाधते ।
प्रत्ययस्य - कर्तव्यं ।
हर्तव्यं ।
प्रत्ययस्वरः प्रकृतेः स्वरस्य बाधकः ।
परनित्यान्तरङ्गापवादैः स्वरैर्व्यावस्था सतिशिष्टेन च ।
यो हि यस्मिन्सति शिष्यते स तस्य बाधको भवति ।
तथा हि - गोपायति इत्यत्र धातुस्वरापवादः प्रत्ययस्वरः, तेन+एव धातुस्वरेण प्रत्ययान्तस्य धातोः सतिशिष्टत्वाद्बाध्यते ।
कार्ष्णोत्तरासङ्गपुत्रः इत्यत्र च समासस्वरापवादो बहुव्रिहिस्वरः सतिशिष्टेन समासान्तोदात्तत्वेन वाध्यते ।
विकरणस्वरस्तु सतिशिष्टोऽपि सार्वधातुकस्वरं न बाधते ।
लुनीतः इति तस एव स्वरो भवति ।
विभक्तिस्वरान्नञ्स्वरो बलीयानिति वक्तव्यं ।
अतिस्रः इत्यत्र तिसृभ्यो जसः (*६,१.१६६) इति सतिशिष्टोऽपि विभक्तिस्वरो नञ्स्वरेण बाध्यते ।

[#६३७]

विभक्तिनिमित्तस्वराच्च नञ्स्वरो बलीयानिति वक्तव्यं ।
अचत्वारः, अनन्ड्वाहः इति ।
यस्य विभक्तिर्निमित्तमामः, तस्य यदुदात्तत्वं तनप्रस्वरेण बाद्यते ।
पदग्रहनं किं ? देवदत्त गामभ्याज शुक्लां इति वाक्ये हि प्रतिपदं स्वरःपृथग्भवति ।
परिमाणार्थं च+इदं पदग्रहणं पदाधिकारस्य निवृत्तिं करोति ।
तेन प्रागेव पदव्यपदेशात्स्वरविधिसमकालें एव शिष्टस्य अनुदात्तत्वं भवति ।
तथा च कुवल्या विकारः कौवलं इत्यत्र अनुदात्तादिलक्षणोऽञ्सिद्धो भवति ।
तथा गर्भिणीशब्दश्च अनुदात्तादिलक्षणस्य अञो बाधनर्थं भिक्षादिषु पठ्यते ।
कुवलगर्भशब्दौ आद्युदात्तौ । ।


____________________________________________________________________


  1. <कर्ष-आत्वतो घञोऽन्त उदात्तः># । । PS_६,१.१५९ । ।



_____Sठाऱ्ठ्JKव्_६,१.१५९ः

कर्षतेर्धातोराकारवतश्च घञन्तस्यान्त उदात्तो भवति ।
कर्षः ।
पाकः ।
त्यागः ।
रागः ।
दायः ।
धायः ।
ञ्नित्यादिर्नित्यं (*६,१.१९७) इत्यस्य अपवादः ।
कर्षः इति विकृतनिर्देशः कृषतेर्निवृत्त्यर्थः ।
तौदादिकस्य घञन्तस्य कर्षः इत्याद्युदात्तः एव भवति । ।


____________________________________________________________________


  1. <उच्छादीनां च># । । PS_६,१.१६० । ।



_____Sठाऱ्ठ्JKव्_६,१.१६०ः

उच्छ इत्येवं आदीनां अन्त उदात्तो भवति ।
उञ्छः, म्लेच्छः, जञ्जः, जल्पः एते घञन्ताः इति ञित्स्वरः प्राप्तः ।
जपः, व्यधः इत्यबन्तौ, तयोर्धातुस्वरः प्राप्तः ।
केचित्तु वधः इति पठन्ति ।
युगः ।
युजेर्घञन्तस्य निपातनादगुणत्वं विशिष्टविषये च निपातनं इदं इष्यते ।
कालविशेषे रथाद्युपकरणे च युगशब्दस्य प्रयोगः अन्यत्र हि योगः एव भवति ।
गरो दूष्येऽबन्तः ।
गरशब्दोऽबन्तः, स दूष्य एव अन्तोदात्तः ।
गरो विषं ।
अन्यत्राद्युदात्त एव ।
वेदवेगवेष्टबन्धाः करणो ।
हलश्च (*३,३.१२१) इति घञन्ता एते करणोऽन्तोदात्ता भवन्ति ।
भावे आद्युदात्ता एव ।
स्तुयुद्रुवश्छन्दसि ।
उपसमस्तार्थं एतथ् ।
परिष्टुथ् ।
संयुथ् ।
परिद्रुथ् ।
वर्तनिः स्तोत्रे ।
स्तोत्रं साम ।
तत्स्थो वर्तनिशब्दोऽन्तोदात्तो भवति, अन्यत्र मध्योदात्तः ।
श्वभ्रे दरः ।
श्वभ्रेऽभिधेये दरशब्दोऽन्तोदत्तः, अन्यत्राबन्तत्वादाद्युदात्तः ।
साम्बतापौ भावगर्हायां ।
अन्तोदातौ अन्यत्राद्युदात्तौ ।
उत्तमशश्वत्तमौ सर्वत्र ।
केचित्तु भावगर्हायां इत्यत्र अपि अनुवर्तयन्ति ।
भक्षमन्थभोगदेहाः एते घञन्ताः ।
भक्षिर्ण्यन्तोऽपि घञन्त एव, एरच्(*३,३.५६) अण्यन्तानां इति वचनात् । ।


____________________________________________________________________


[#६३८]

  1. <अनुदात्तस्य च यत्र+उदात्तलोपः># । । PS_६,१.१६१ । ।



_____Sठाऱ्ठ्JKव्_६,१.१६१ः

उदात्तः इति वर्तते ।
यस्मिन्ननुदात्ते परतः उदात्तो लुप्यते तस्य अनुदात्तस्यादिरुदात्तो भवति ।
कुमार ई कुमारी ।
कुमारशब्दोऽन्तोदात्तः, तस्य ङीप्यनुदाते उदात्तो लुप्यते ।
अनुदात्तो ङीपुदात्तः ।
भस्य टेर्लोपः (*७,१.८८) ।
पथः ।
पथा ।
पथे ।
पथिन्शब्दोऽन्तोदात्तः ।
कुमुदनडवेतसेभ्यो ड्मतुप् ।
कुमुद्वान् ।
नड्वान् ।
वेतस्वान् ।
कुमुदादयोऽन्तोदात्ताः ।
ड्मतुबनुदात्तः ।
अनुदात्तस्य इति किं ? प्रासङ्गं वहति प्रासङ्ग्यः ।
प्रासङ्गशब्दस्थाथादिस्वरेण अन्तोदात्तः ।
तस्य यति तित्स्वरितं इति स्वरिते उदात्तो लुप्यते ? न+एतदस्ति, स्वरिते हि विधीयमाने परिशिष्टं अनुदात्तम्, तत्कुत उदात्तलोपः ।
तदेतदनुदात्तग्रहणमादेरनुदात्तस्य+उदात्तार्थं ।
अन्तः इति हि प्रकृतत्वादन्तस्य स्यात्, मा हि धुक्षाताम्, मा हि धुक्षाथां ।
यत्र इति किं ? भर्गवः, भार्गवौ, भृगवः ।
प्राक्सुबुत्पत्तेर्गोत्रप्रत्ययस्य लुक् ।
उदात्तग्रहणं किं ? बैदी और्वी । ।


____________________________________________________________________


  1. <धातोः># । । PS_६,१.१६२ । ।



_____Sठाऱ्ठ्JKव्_६,१.१६२ः

अन्तः इत्येव ।
धातोरन्त उदात्तो भवति ।
पचति ।
पठति ।
ऊर्णोति ।
गोपायति ।
याति । ।


____________________________________________________________________


  1. <चितः># । । PS_६,१.१६३ । ।



_____Sठाऱ्ठ्JKव्_६,१.१६३ः

चितोऽन्त उदात्तो भवति ।
भञ्ज-भास-मिदो घुरच्(*३,२.१६१) भङ्गुरं ।
भासुरं ।
मेदुरं ।
आगस्त्य-कौण्डिनययोरगस्ति-कुण्डिनच्(*२,४.७०) ।
कुण्डिनाः ।
चिति प्रत्यये प्रकृतिप्रत्ययसमुदायस्य अन्त उदात्त इष्यते ।
बहुपटुः ।
उच्चकैः । ।


____________________________________________________________________


  1. <तद्धितस्य># । । PS_६,१.१६४ । ।



_____Sठाऱ्ठ्JKव्_६,१.१६४ः

चितः इत्येव ।
चितस्तद्धितस्य अन्त उदात्तो भवति ।
गोत्रे कुञ्ज-आदिभ्यश्च्फञ्(*४,१.९८) - कौञ्जायनाः ।
मौञ्जायनाः ।
किं अर्थं इदं ? परं अपि ञित्स्वरं बाधित्वाऽन्तोदात्तत्वं एव यथा स्यादिति । ।


____________________________________________________________________


  1. <कितः># । । PS_६,१.१६५ । ।



_____Sठाऱ्ठ्JKव्_६,१.१६५ः
तद्धितस्य इत्येव ।
तद्धितस्य कितोऽन्त उदात्तो भवति ।
नडादिभ्यः फक्(*४,१.९९) - नाडायनः ।
चारायणः ।
प्राग्वहतेष्ठक्(*४,४.१) - आक्षिकः ।
शालाकिकः । ।

____________________________________________________________________


[#६३९]

  1. <तिसृभ्यो जसः># । । PS_६,१.१६६ । ।



_____Sठाऱ्ठ्JKव्_६,१.१६६ः

तिसृभ्य उत्तरस्य जसोऽन्त उदात्तो भवति ।
तिस्रस्तिष्ठन्ति ।
उदात्त-स्वरितयोर्यणः स्वरितोऽनुदात्तस्य (*८,२.४) इत्यस्य अपवादः ।
शसि उदात्तयणो हल्-पूर्वात्(*६,१.१७४) इति सिद्धेऽन्यत्र बहुवचने षट्त्रिचतुर्भ्यो हलादिः (*६,१.१७९) इति विधानात्जसेव लभ्यते इति जस्ग्रहणं उपसमस्तार्थं एके इच्छन्ति अतितिस्त्रौ इत्यत्र स्वरो मा भूतिति । ।


____________________________________________________________________


  1. <चतुरः शसि># । । PS_६,१.१६७ । ।



_____Sठाऱ्ठ्JKव्_६,१.१६७ः

चतुरः शसि परतोऽन्त उदात्तो भवति ।
चतुरः पश्य ।
चतस्रादेशे आद्युदात्तनिपातनाद्यणादेशस्य च पूर्वविधौ स्थानिवत्त्वादयं स्वरो न भवति चतस्रः पश्य इति । ।


____________________________________________________________________


  1. <सावेक-अचस्तृतीया-आदिर्विभक्तिः># । । PS_६,१.१६८ । ।



_____Sठाऱ्ठ्JKव्_६,१.१६८ः

सौ इति सप्तमीबहुवचनस्य सुशब्दस्य ग्रहणं ।
तत्र सौ य एकाच्तस्मत्परा तृतीयादिर्विभक्तिरुदात्ता भवति ।
वाचा ।
वाग्भ्यां ।
वाग्भिः ।
वाग्भ्यः ।
याता ।
याद्भ्यां ।
याद्भिः ।
सौ इति किं ? राज्ञा ।
रज्ञे ।
एकाचः इति किं ? हरिणा ।
गरिणा ।
राजसु ।
तृतीयादिः इति किं ? वाचौ ।
वाचः ।
विभक्तिः इति किं ? वाक्तरा ।
वाक्तमा ।
सप्तमीबहुवचनस्य ग्रहणादिह न भवति त्वया, त्वयि इति । ।


____________________________________________________________________


  1. <अन्त-उदात्तादुत्तरपदादन्यतरस्यां अनित्यसमासे># । । PS_६,१.१६९ । ।



_____Sठाऱ्ठ्JKव्_६,१.१६९ः

एकाचः इति वर्तते, तृतीयादिर्विभक्तिरिति च ।
नित्यशब्दः स्वर्यते, तेन नित्याधिकारविहितः समासः पर्युदस्यते ।
नित्यसमासादन्यत्रानित्यसमासे यदुत्तरपदं अन्तोदात्तं एकाच्च तस्मात्परा तृतीयादिर्विभक्तिरन्यतरस्यां उदात्ता भवति ।
परमवाच, परमवाचा ।
परमवाचे, परमवाचे ।
परमत्वचा, पर्मत्वचा ।
परमत्वचे, परमत्वचे ।
यदा विभक्तिरुदात्ता न भवति, तदा समासान्तोदात्तत्वं एव ।
अन्तोदात्तातिति किं ? अवाचा ।
सुवाचा ।
सुत्वचा ।
तत्पुरुषोऽयं ।
तत्र तत्पुरुषे तुल्यार्थ-तृतीया-सप्तम्य्-उपमान. अव्ययय (*६,-२.२.) इति पूर्वपदप्रकृतिस्वरः ।
उत्तरपदग्रहणं एकाच्त्वेन+उत्तरपदं विशेषयितुम्, अन्यथा हि समासविशेषणं एतत्स्याथ् ।
तत्र शुनः ऊर्क, श्वोर्जा इत्यत्र+एव अयं विधिः स्याथ् ।
अनित्यसमासे इति किं ।
अग्निचिता ।
सोमसुता उपपदं अतिङ्(*२,२.१९) इत्ययं नित्याधिकारे समासो विधीयते ।
तत्र गतिकारक-उपपदात्कृत्(*६,२.१३९) इत्युत्तरपदप्रकृतिस्वरेन चित्शब्दः उदात्तः ।
यस्तु विग्रहाभावेन नित्यसमासस्तत्र भवत्येव विकल्पः, अवाचा ब्राह्मणेन, सुबाचा ब्राह्मणेन इति ।
बहुव्रीहौ नञ्सुभ्यां (*६,२.१७२) इत्युत्तरपदान्त-उदात्तत्वं भवति । ।


____________________________________________________________________


[#६४०]

  1. <अञ्चेश्छन्दस्यसर्वनामस्थानम्># । । PS_६,१.१७० । ।



_____Sठाऱ्ठ्JKव्_६,१.१७०ः

अञ्चेः परा असर्वनामस्थानविभक्तिरुदात्ता भवति छन्दसि विषये ।
इन्द्रो दधीचो अस्थभिः ।
चौ इति पूर्वपदान्तोदात्तत्वं प्राप्तं ।
तृतीयादिः इति वर्तमानेन्शसोऽपि परिग्रहार्थं असर्वनामस्थानग्रहणं ।
इह अपि यथा स्यात्, प्रतीचो बाहून्प्रतिभङ्ग्ध्येषां इति । ।


____________________________________________________________________


  1. <ऊड्-इदं-पदाद्य्-अप्-पुम्-रै-द्युभ्यः># । । PS_६,१.१७१ । ।



_____Sठाऱ्ठ्JKव्_६,१.१७१ः
ऊटः इदं पदादि अप्पुं रै दिवित्येतेभ्योऽसर्वनामस्थानविभक्तिरुदात्ता भवति ।
ऊटः - प्रष्टौहः ।
प्रष्ठौहा ।
ऊठ्युपधाग्रहणं कर्तव्यं ।
इह मा भूत्, अक्षद्युवा ।
अक्षद्युवे ।
इदं - आभ्यां ।
एभिः ।
अन्तोदात्तातित्यधिकारादन्वादेशे न भवति, अथो आभ्यां निपुणमधीतं इति ।
पदादयः पद्दन्नोमास (*६,१.६३) इत्येवं आदयो निश्पर्यन्ता इह गृह्यन्ते ।
नि पदश्चतुरो जहि ।
या दतो धावते ।
असन्प्रभृतिभ्यो विभक्तिरनुदात्तैव भवति ।
ग्रीवायां बद्धो अपि कक्ष आसनि ।
मत्स्यं न दीन उदनि क्षियन्तं ।
अप्- अपः पश्य ।
अद्भिः ।
अद्भ्यः ।
पुं - पुंसः ।
पुम्भ्यां ।
पुम्भ्यः ।
पुंसा ।
पुंसे ।
रै - रायः पश्य ।
राभ्यां ।
राभिः ।
दिव्- दिवः पश्य ।
दिवा ।
दिवे । ।


____________________________________________________________________


  1. <अष्टनो दीर्घात्># । । PS_६,१.१७२ । ।



_____Sठाऱ्ठ्JKव्_६,१.१७२ः
अष्टनो दीर्घान्तादसर्वनामस्थानविभक्तिरुदात्ता भवति ।
अष्टाभिः ।
अष्टाभ्यः ।
अष्टासु ।
घृतादिपाठातष्टन्शब्दोऽन्तोदात्तः, तत्र ज्ञल्युपोत्तमं (*६,१.१८०) इत्यस्य अपवादो विभक्तिरेव+उदात्तत्वं विधीयते ।
दीर्घातिति किं ? अष्टसु प्रक्रमेषु ब्राह्मणोऽग्नीनादधीत ।
इदं एव दीर्घग्रहणं अष्टन आत्त्वविकल्पं ज्ञापयति, कृतात्वस्य च षट्सञ्ज्ञां ज्ञापयति ।
अन्यथा ह्यात्वपक्षे सावकाशोऽष्टनः ।
स्वरः परत्वादनात्वपक्षे षट्स्वरेण बाधिष्यते इति किं दीर्घग्रहणेन । ।


____________________________________________________________________


[#६४१]

  1. <शतुरनुमो नद्य्-अज्-आदी># । । PS_६,१.१७३ । ।



_____Sठाऱ्ठ्JKव्_६,१.१७३ः

अद्न्तोदात्तातिति वर्तते ।
अनुं यः शतृप्रत्ययस्तदन्तात्परा नदी अजादिर्विभक्तिरसर्वनामस्थानं उदात्ता भवति ।
तुदती ।
नुदती ।
लुनती ।
पुनती ।
तुदता ।
लुनता ।
पुनता ।
अनुमः ।
इति किं ? तुदन्ती ।
नुदन्ती ।
अत्र अप्युपदेशातिति लसार्वधातुकादनुदात्तत्वे एकादेशः, तस्य एकादेश उदात्तेन+उदात्तः (*८,२.५) इत्युदात्तत्वं , तस्य पूर्वत्र असिद्धत्वं न+इष्यते इति शत्रन्तं अन्तोदात्तं भवति ।
नद्यजादी इति किं ? तुदद्भ्यां ।
नुदद्भ्यां ।
तुदद्भिः ।
अन्तोदात्तातित्येव, ददती ।
दधतः ।
अभ्यस्तानां आदिः (*६,१.१८९) इत्याद्युदात्तवेतौ ।
बृहन्महतोरुपसङ्ख्यानं ।
बृहती ।
महती ।
बृहता ।
महता । ।


____________________________________________________________________


  1. <उदात्तयणो हल्पूर्वात्># । । PS_६,१.१७४ । ।



_____Sठाऱ्ठ्JKव्_६,१.१७४ः

उदात्तस्थाने यो यण्हलपूर्वस्तस्मात्परा नदी अजादिर्या असर्वनामविद्भक्तिरुदात्ता भवति ।
कर्त्री ।
हर्त्री ।
प्रलवित्री ।
प्रसवित्री ।
कर्त्रा ।
हर्त्रा ।
प्रलवित्रा ।
प्रसवित्रा ।
तृजन्ता एतेऽन्तोदात्ताः ।
उदात्तग्रहणं किं ? कर्त्री ।
हर्त्री ।
कर्त्रा ।
हर्त्रा ।
तृन्नन्तोऽयं आद्युदात्तः ।
हल्पूर्वातिति किं ? बहुतितवा ब्राह्मण्या ।
नकारग्रहणं कर्तव्यं ।
वाक्पत्नी इयं कन्या । ।


____________________________________________________________________

  1. <न+उङ्-धात्वोः># । । PS_६,१.१७५ । ।



_____Sठाऱ्ठ्JKव्_६,१.१७५ः

ऊङो धातोश्च य उदात्तयण्हलपूर्वः, तस्मात्परा तृतीयादिर्विभक्तिर्न+उदात्ता भवति ।
ब्रह्मबन्ध्वा ।
ब्रह्मबन्ध्वे ।
वीरबन्ध्वा ।
वीरबन्ध्वे ।
ऊङ्प्रत्ययस्वरेण उदात्तः ।
तेन सह य एकादेशः सोऽप्युदात्तः इति उदात्तयण्वकारः, तस्मादुदात्तत्वे प्रतिषिद्धे उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (*८,२.४) इति विभक्तिः स्वर्यते ।
धातुयणः खल्वपि - सकृल्ल्वा ।
सकृल्ल्वे ।
खलप्वे ।
क्विबन्द्तस्य कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तस्य ओः सुपि (*६,४.८३) यणादेशः । ।


____________________________________________________________________


  1. <ह्रस्व-नुड्भ्यां मतुप्># । । PS_६,१.१७६ । ।



_____Sठाऱ्ठ्JKव्_६,१.१७६ः

अन्तोदात्तातित्येव ।
ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तो भवति ।
अग्निमाथ् ।
वायुमान् ।
कर्तृमान् ।
हर्तृमान् ।
नुटः खल्वपि - अक्षण्वता ।
शीर्षण्वता ।
अन्तोदात्तातित्येव, वसुमान् ।
वसुशब्द आद्युदात्तः, तस्मान्मतुबनुदात्त एव भवति ।
अत्र च स्वरविधौ व्यञ्जनं अविद्यमानवतित्येषा परिभाषा न अश्रीयते नुड्ग्रहणात्, तेन मरुत्वानित्यत्र न भवति ।
[#६४२]

रेशब्दाच्च मतुप उदात्तत्त्वं वक्तव्यं ।
आरेवान् ।
त्रेश्च प्रतिषेधो वक्तव्यः ।
त्रिवतीर्याज्यानुवाक्या भवति इति । ।


____________________________________________________________________


  1. <नां अन्यतरस्याम्># । । PS_६,१.१७७ । ।



_____Sठाऱ्ठ्JKव्_६,१.१७७ः

ह्रस्वग्रहणां अनुवर्तते, मतुब्-ग्रहणं च ।
तेन मतुपा ह्रस्वो विशेष्यते ।
मतुपि यो ह्रस्वः, तदन्तादन्तोदात्तादन्यतरस्यां नां उदात्तो भवति ।
अग्नीनाम्, अग्नीनां ।
वायूनां वायूनां ।
कर्त्éणाम्, कर्त्éणां ।
मतुपा ह्रस्वविशेषनं किं ? भूतपूर्वेऽपि ह्रस्वे यथा स्याथ् ।
अन्यथा हि साम्प्रतिक एव स्यात्, तिसृणाम्, चतसृणां इति ।
सनुट्कस्य ग्रहणं किं ? धेन्वां ।
शकट्यां ।
उदात्तयणो हल्पूर्वात्(*६,१.१७४) इत्ययं अन्तोदात्तः ।
ह्रस्वातित्येव, कुमारीणां ।
अन्तोदात्तातित्येव, त्रपूणां ।
वसूनां । ।


____________________________________________________________________


  1. <ङ्याश्छन्दसि बहुलम्># । । PS_६,१.१७८ । ।



_____Sठाऱ्ठ्JKव्_६,१.१७८ः

ङ्यन्तात्छन्दसि विषये नामुदात्तो भवति बहुलं ।
देवसेनानामभिभञ्जतीनां ।
बह्वीनां पिता ।
न च भवति, नदीनां पारे ।
जयनतीनां मरुतः । ।


____________________________________________________________________


  1. <षट्त्रिचतुर्भ्यो हलादिः># । । PS_६,१.१७९ । ।



_____Sठाऱ्ठ्JKव्_६,१.१७९ः

अन्तोदात्तातित्येतन्निवृत्तं ।
षट्सञ्ज्जाकेभ्यः, त्रि चतुरित्येताभ्यां च परा हलादिर्विभक्तिरुदात्ता भवति ।
षङ्भिः ।
षङ्ह्यः ।
पञ्चानां ।
षण्णां ।
सप्तानां ।
त्रि - त्रिभिः ।
तिर्भ्यः ।
त्रयाणां ।
चतुर्- चतुर्भ्यः ।
चतुर्णां ।
हलादिः इति किं ? चतस्रः पश्य । ।


____________________________________________________________________


  1. <ज्ञल्युपोत्तमम्># । । PS_६,१.१८० । ।



_____Sठाऱ्ठ्JKव्_६,१.१८०ः

षट्त्रिचतुर्भ्यो या ज्ञालादिर्विभक्तिः तदन्ते पदे उपोत्तमं उदात्तं भवति ।
त्रिप्रभृतीनां अन्त्यं उत्तमम्, तत्समीपे च यत्तदुपोत्तमं ।
पञ्चभिः तपस्तपति ।
सप्तभिः पराञ्जयति ।
तिसृभिश्च वहसे त्रिंशता ।
चत्रुभिः ।
ज्ञलि इति किं ? पञ्चानां ।
सप्तानां ।
उपोत्तमं इति किं ? षड्भिः ।
षड्भ्यः । ।


____________________________________________________________________


[#६४३]

  1. <विभाषा भाषायाम्># । । PS_६,१.१८१ । ।



_____Sठाऱ्ठ्JKव्_६,१.१८१ः

षट्-त्रि-चतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तमं उदात्तं भवति विभाषा भषायां विषये ।
पञ्चभिः, पञ्चभिः ।
सप्तभिः, सप्तभिः ।
तिसृभिः, तिसृभिः ।
चतुर्भिः, चतुर्भिः । ।


____________________________________________________________________


  1. <न गो-श्वन्-साववर्ण-राड्-अङ्-क्रुङ्-कृद्भ्यः># । । PS_६,१.१८२ । ।



_____Sठाऱ्ठ्JKव्_६,१.१८२ः
गो श्वन्, साववर्णः सौ प्रथमैकवचने यदवर्णान्तम्, राडङ्क्रुङ्कृदित्येतेभ्यो यदुक्तं तन्न भवति ।
गवा, गवे, गोभ्यां इति ।
सावेकाचस्तृतीयादिर्विभक्तिः (*६,१.१६८) इति प्राप्तिः प्रतिषिध्यते ।
सुगुना, सुगवे, सुगुभ्यां ।
अन्तोदात्तादुत्तरपदातिति प्राप्तिः ।
श्वन्- शुना, शुने, श्वभ्यां ।
परमशुना, परमशुने, परमश्वभ्यां ।
पूर्ववत्प्राप्तिः ।
साववर्णः - सौ प्रथमैकवचने यदवर्णान्तं तस्य ग्रहणं ।
येभ्यः ।
तेभ्यः ।
केभ्यः ।
राट्- राजतिः क्विबन्तः ।
राजा ।
परमराजः ।
अङ्- अञ्चतिः क्विबन्तः, तस्य सनकारस्य ग्रहणं विषयावधारणार्थम्, यत्र अस्य नलोपो न अस्ति तत्र प्रतिषेधो यथा स्याथ् ।
नाञ्चेः पूजायां (*६,४.६०) ।
इति प्रतिषिध्यते नलोपः ।
प्राञ्चा ।
प्राङ्भ्यां ।
नलोपविषये तु भवत्येव विभक्तेरुदात्तत्वं ।
प्राचा ।
प्राचे ।
प्राग्भ्यां ।
क्रुङ्क्विन्नन्त एव -क्रुञ्चा ।
परमक्रुञ्चा ।
कृत्- करोति कृतिर्वा क्विबन्तः ।
कृता ।
परमकृता । ।


____________________________________________________________________


  1. <दिवो झल्># । । PS_६,१.१८३ । ।



_____Sठाऱ्ठ्JKव्_६,१.१८३ः
दिवः परा झलादिर्विभक्तिः न+उदात्ता भवति ।
द्युभ्यां ।
द्युभिः ।
सावेकाचः (*६,१.१६८) इति ऊड्-इदं-पदाद्य्-अप्-पुम्-रै-द्युभ्यः (*६,१.१७१) इति वा प्राप्तिः प्रतिषिध्यते ।
झलि इति किं ? दिवा । ।


____________________________________________________________________


  1. <नृ च अन्यतरस्याम्># । । PS_६,१.१८४ । ।



_____Sठाऱ्ठ्JKव्_६,१.१८४ः

नृ इत्येतस्मात्परा झलादिर्विभक्तिः अन्यतरस्यां न+उदात्ता भवति ।
नृभ्यां ।
नृभिः ।
नृभ्यः ।
नृषु झलित्येव -न्रा ।
न्रे । ।


____________________________________________________________________


  1. <तित्स्वरितम्># । । PS_६,१.१८५ । ।



_____Sठाऱ्ठ्JKव्_६,१.१८५ः

तित्स्वरितं भवति ।
सन्नन्ताद्यत्- चिकीर्ष्यं ।
जिहीर्ष्यं ।
ऋ-हलोर्ण्यत्(*३,१.१२४) - कार्यं ।
हार्यं ।
प्रत्ययाद्य्-उदात्तस्य अपवादः । ।

____________________________________________________________________


[#६४४]

  1. <तास्य्-अनुदातेन्-ङिद्-अद्-उपदेशाल्ल-सार्वधातुकं अनुदात्तं अह्न्विङोः># । । PS_६,१.१८६ । ।



_____Sठाऱ्ठ्JKव्_६,१.१८६ः

तासेरनुदात्तेतो ङितोऽकारान्तोपदेशाच्च शब्दात्परं लसार्वधातुकं अनुदात्तं च भवति ह्नुङिङित्येताभ्यां परं वर्जयित्वा ।
तासेस्तावत्- कर्ता, कर्तारौ, कर्तारः ।
प्रत्ययस्वरापवादोऽयं ।
अनुदात्तेतः - आस - आस्ते ।
वस - वस्ते ।
ङित्- षूङ्- सूते ।
शीङ्- शेते ।
अदुपदेशात्- तुदतः ।
नुदतः ।
पचतः ।
पठतः ।
अनुबन्धस्य अनैकान्तिकत्वादकारान्तोपदेश एव शप् ।
पचमानः ।
यजमानः ।
यद्यत्र मुककारमात्रस्य स्यात्तदा लसार्वधातुकं अदुपदेशादनन्तरं इति सिद्धो निघातः ।
अथाकारान्तस्य अङ्गस्य, तथा अपि लसार्वधातुकानुदात्तत्वे कर्तव्ये बहिरङ्गत्वातसिद्धः इति सिद्धं ।
चित्स्वरोऽप्यनेन लसार्वधातुकानुदात्तत्वेन परत्वाद्बाध्यते ।
तास्यादिभ्यः इति किं ? चिनुतः ।
चिन्वन्ति ।
ङिदयं श्नुः पूर्वस्य कार्यं प्रति न तु परस्य ।
उपदेशग्रहणं किं ? इह च यथा स्यात्, पचावः, पचामः इति ।
इह च मा भूत्, हतो, हथः इति ।
लग्रहणं किं ? कतीहपचमानाः ।
सार्वधातुकं इति किं ? शिश्ये, शिश्याते, शिशियरे ।
अह्न्विङोः इति किं ? ह्नुते ।
यदधीते । ।


____________________________________________________________________


  1. <आदिः सिचोऽन्यतरस्याम्># । । PS_६,१.१८७ । ।



_____Sठाऱ्ठ्JKव्_६,१.१८७ः

उदात्तः इति वर्तते ।
सिजन्तस्य अन्यतरस्यां आदिरुदात्तो भवति ।
मा हि कार्ष्टाम्, मा हि कार्ष्टां ।
एकोऽत्र आद्युदात्तः, अपरोऽन्तोदात्तः ।
मा हि लाविष्टाम्, मा हि लाविष्टां ।
एकोऽत्र आद्युदात्तः, अपरो मद्योदात्तः ।
सिचश्चित्करणादागमानुदात्तत्वं हि वाध्यते ।
सिच आद्युदात्तत्वेऽनिटः पितः पक्षे उदात्तत्वं वक्तव्यं ।
मा हि कर्षम्, मा हि कार्षं ।
अनिटः इति किं ? मा हि लाविसं ।
मध्योदात्त एव आद्युदात्ताभावपक्षे भवति । ।


____________________________________________________________________


  1. <स्वपादि-हिंसां अच्यनिटि># । । PS_६,१.१८८ । ।



_____Sठाऱ्ठ्JKव्_६,१.१८८ः

लसार्वधातुकग्रहणं यदनुवर्तते तदचि अनिटि इति सम्बन्धादिह सप्तम्यन्तं उपजायते स्वपादिरावृत्करणाथ् ।
स्वपादीनां हिंसेश्च अजादवनिटि लसार्वधातुके परतोऽन्यतरस्यां आदिरुदात्तो भवति ।
स्वपन्ति, स्वपन्ति ।
श्वसन्ति, श्वसन्ति ।
हिंसेः खल्वपि - हिंसन्ति, हिंसन्ति ।
प्रत्ययस्वरेण पक्षे मध्योदात्तः ।
अचि इति किं ? स्वप्याथ् ।
हिंस्याथ् ।
अनिटि इति किं ? स्वपितः ।
श्वसितः ।
ङित्यजादावयं विधिरिष्यते ।
इह न भवति, स्वपानि, हिनसानि । ।


____________________________________________________________________


[#६४५]

  1. <अभ्यस्तानां आदिः># । । PS_६,१.१८९ । ।



_____Sठाऱ्ठ्JKव्_६,१.१८९ः

अभ्यस्तानां अजादावनिति लसार्वधातुके परतः आदिरुदात्तो भवति ।
ददति ।
ददतु ।
अधति ।
दधतु ।
जक्षति ।
जक्षतु ।
जाग्रति ।
जाग्रतु ।
अचि इत्येव, दद्याथ् ।
अनिटि इत्येव, जक्षितः ।
आदिः इति वर्तमाने पुनरादिग्रहणं नित्यार्थं । ।


____________________________________________________________________


  1. <अनुदाते च># । । PS_६,१.१९० । ।



_____Sठाऱ्ठ्JKव्_६,१.१९०ः

अविद्यमानोदात्ते च लसार्वधातुके परतोऽभ्यस्तानां आदिरुदात्तो भवति ।
अनजाद्यर्थ आरम्भः ।
ददाति ।
जहाति ।
दधाति ।
जहीते ।
मिमीते ।
अनुदात्ते इति बहुव्रीहिनिर्देशो लोपयणादेशार्थः ।
मा हि स्म दधाथ् ।
दधात्यत्र । ।


____________________________________________________________________


  1. <सर्वस्य सुपि># । । PS_६,१.१९१ । ।



_____Sठाऱ्ठ्JKव्_६,१.१९१ः

सर्वशब्दस्य सुपि परतः आद्युदात्तो भवति ।
सर्वः, सर्वौ, सर्वे ।
सुपि इति किं ? सर्वतरः ।
सर्वतमः ।
प्रत्ययलक्षणेऽप्ययं स्वर इष्यते सर्वस्तोमः इति ।
सर्वस्वरोऽनकच्कस्य+इति वक्तव्यं ।
सर्वकः ।
चित्स्वरेण अन्तोदात्तो भवति । ।


____________________________________________________________________


  1. <भी-ह्री-भृ-हु-मद-जन-धन-दरिद्रा-जागरां प्रत्ययात्पूर्वं पिति># । । PS_६,१.१९२ । ।



_____Sठाऱ्ठ्JKव्_६,१.१९२ः

भी ह्री भृ हु मद जन धन दरिद्रा जागृ इत्येतेषां अभ्यस्तानां लसार्वधातुके पिति प्रत्ययात्पूर्वं उदात्तं भवति ।
विभेति ।
जिह्रेति ।
विभर्ति ।
जुहोति ।
ममत्तु नः परिज्मा ।
मदेः बहुलं छन्दसि इति विकरणस्य श्लुः ।
जजनदिन्द्रं ।
जन जनने इत्यस्य पञ्चमे लकारे रूपं ।
धन धान्ये इत्यस्य पञ्चमे लकारे दधनथ् ।
दरिद्राति ।
जागति ।
भ्यादीनां इति किं ? ददाति ।
पिति इति किं ? दरिद्रति । ।


____________________________________________________________________


  1. <लिति># । । PS_६,१.१९३ । ।



_____Sठाऱ्ठ्JKव्_६,१.१९३ः

लिति प्रत्ययात्पूर्वं उदात्तं भवति ।
चिकीर्षकः ।
जिहीर्षकः ।
भौरिकिविधं ।
भौलिकिविधं ।
ऐषुकारिभक्तं । ।


____________________________________________________________________


[#६४६]

  1. <आदिर्णमुल्यन्यतरस्याम्># । । PS_६,१.१९४ । ।


_____Sठाऱ्ठ्JKव्_६,१.१९४ः

णमुलि परतोऽन्यतरस्यां आदिरुदात्तो भवति ।
लोलूयं लोलूयम्, लोलूयं लोलूयं ।
पोपूयं पोपूयम्, पोपूयं पोपूयं ।
आम्रेडितानुदात्तत्वे कृते पूर्वो लोलूयंशब्द एकत्राद्युदात्तः, अपरत्र लित्स्वरेण मध्योदात्तः । ।


____________________________________________________________________


  1. <अचः कर्तृयकि># । । PS_६,१.१९५ । ।



_____Sठाऱ्ठ्JKव्_६,१.१९५ः

उपदेशे इति वर्तते ।
अजन्ता ये उपदेशे धातवः तेषां कर्तृयकि अन्यतरस्यां आदिरुदात्तो भवति ।
लूयते केदारः स्वयं एव, लूयते केदारः स्वयं एव ।
स्तीर्यते केदारः स्वयं एव, स्तीर्यते केदरः स्वयं एव ।
यदा आद्युदात्तत्वं न भवति तदा लसर्वधातुकनिघाते कृते यक एव स्वरो भवति ।
जनादीनां उपदेशे एवात्वं द्रष्टव्यं ।
तत्र अप्ययं स्वर इष्यते ।
जायते स्वयं एव ।
सायते स्वयं एव ।
खायते स्वयं एव ।
अचः इति किं ? भिद्यते स्वयं एव ।
कर्तृग्रहणं किं ? लूयते केदारो देवदत्तेन । ।


____________________________________________________________________


  1. <थलि च सेटीडन्तो वा># । । PS_६,१.१९६ । ।



_____Sठाऱ्ठ्JKव्_६,१.१९६ः

सेटि थलि इट्वा उदात्तो भवति अन्तो वा आदिर्वा अन्यतरस्यां ।
लुलविथ, लुलविथ, लुलविथ ।
यदा न+एते त्रयः स्वराः , तदा लिति प्रत्ययात्पूर्वं उदात्तं भवति ।
तेन+एते चत्वारः स्वरा पर्यायेण भवन्ति ।
सेटि इति किं ? ययाथ ।
लिति प्रत्ययात्पूर्वं उदात्तं इत्ययं एव स्वरो भवति । ।


____________________________________________________________________


  1. <ञ्नित्यादिर्नित्यम्># । । PS_६,१.१९७ । ।



_____Sठाऱ्ठ्JKव्_६,१.१९७ः

ञिति निति च नित्यं आदिरुदात्तो भवति ।
गर्गादिभ्यो यञ्- गार्ग्यः ।
वात्स्यः ।
वासुदेव-अर्जुनाभ्यां वुन्(*४,३.९८) - वासुदेवकः ।
अर्जुनकः ।
प्रत्ययस्वरापवादोऽयं योगः ।
प्रत्ययलक्षणं अत्र न+इष्यते, तेन गर्गाः, बिदाः, चञ्चाः इत्यत्र यञि कनि च लुप्ते न भवति । ।


____________________________________________________________________


  1. <आमन्त्रितस्य च># । । PS_६,१.१९८ । ।



_____Sठाऱ्ठ्JKव्_६,१.१९८ः

आमन्त्रितस्य आदिरुदात्तो भवति ।
देवदत्त, देवदत्तौ, देवदत्ताः ।
अत्र कारकाद्दत्त-श्रुतयोरेव आशिषि (*६,२.१४८) ।
इति प्राप्तिर्बाध्यते ।
लुमताऽपि लुप्ते प्रत्ययलक्षणं अत्र+इष्यते, सर्पिरागच्छ, सप्तागच्छ इति । ।

____________________________________________________________________


[#६४७]

  1. <पथि-मथोः सर्वनामस्थाने># । । PS_६,१.१९९ । ।



_____Sठाऱ्ठ्JKव्_६,१.१९९ः

पथि-मथि-शब्दावौणादिकाविनिप्रत्ययान्तौ प्रत्ययस्वरेण अन्तोदात्तौ, तयोः सर्वनामस्थाने परतः आदिरुदात्तो भवति ।
पन्थाः, पन्थानौ, पन्थानः ।
मन्थाः, मन्थानौ, मन्थानः ।
सर्वनामस्थाने इति किं ? पथः पश्य ।
मथः पश्य ।
उदात्तनिवृत्तिस्वरेण अन्तोदात्तो भवति ।
प्रत्ययलक्षणं अत्र अपि न+इष्यते ।
पथिप्रियः इत्यत्र पूर्वपदप्रकृतिस्वरेण अन्तोदात्तः पथिशब्दः । ।


____________________________________________________________________


  1. <अन्तश्च तवै युगपत्># । । PS_६,१.२०० । ।



_____Sठाऱ्ठ्JKव्_६,१.२००ः

तवैप्रत्ययान्तस्य अन्तः, चशब्दादादिश्च युगपदुदात्तौ भवतः ।
कर्तवै ।
हर्तवै ।
प्रत्ययाद्युदात्तत्वापवादः ।
युगपद्ग्रहणं पर्यायनिवृत्तयर्थं ।
एकवर्जं इति वचनाद्यौगपद्यं न स्यात् । ।


____________________________________________________________________

  1. <क्षयो निवासे># । । PS_६,१.२०१ । ।



_____Sठाऱ्ठ्JKव्_६,१.२०१ः

क्षयशदो निवासेऽभिधेये आद्युदात्तो भवति ।
क्षियन्ति निवसन्ति अस्मिनिति क्षयः ।
पुंसि सञ्ज्ञायां घः प्रयेण (*३,३.११८) इति घप्रत्ययान्तस्य प्रत्ययस्वरः प्राप्तः ।
क्षये जागृहि प्रप्श्यन् ।
निवासे इति किं ? क्षयो वर्तते दस्यूनां ।
एरच्(*३,३.५६) इत्ययं अजन्तः । ।


____________________________________________________________________


  1. <जयः करणम्># । । PS_६,१.२०२ । ।



_____Sठाऱ्ठ्JKव्_६,१.२०२ः

जयशब्दः करणवाची आद्युदात्तो भवति ।
जयन्ति तेन इति जयः ।
पुंसि सञ्ज्ञायां घः प्रायेण (*३,३.११८) इति घः, तस्य प्रत्ययस्वरः प्राप्तः ।
जयोऽश्वः ।
करणं इति किं ? जयो वर्तते ब्राह्मणानां ।
अत्र अपि एरच्(*३,३.५६) इत्ययं अजन्तः । ।


____________________________________________________________________


  1. <वृष-आदीनां च># । । PS_६,१.२०३ । ।



_____Sठाऱ्ठ्JKव्_६,१.२०३ः

वृषः इत्येवं आदीनां आदिरुदात्तो भवति ।
वृषः ।
जनः ।
ज्वरः ।
ग्रहः ।
हयः ।
गयः ।
एते सर्वे पचाद्यच्प्रत्ययान्ताः ।
गयः इत्यत्र गायतेर्निपातनादेत्वं ।
नयः ।
तयः ।
अयः ।
वेदः ।
अंशः ।
अशः ।
दवः ।
एतेऽपि तथा+एव अच्प्रत्ययान्ताः ।
सूदः ।
इगुपधातिति कप्रत्ययान्तः ।
गुहा ।
भिदादिरङ्प्रत्ययान्तः ।
शमरणौ सञ्ज्ञायां सम्मतौ भावकर्मणोः ।
शमो भावे ।
रणः करमणि ।
अजन्तावेतौ निपातनाद्भावकर्मणोः भवतः ।
मन्त्रः पचाद्यजन्तः ।
शान्तिः इति क्तिजन्तः ।
कामः ।
यामः ।
घञन्तावेतौ ।
आरा ।
धारा ।
कारा ।
भिदादयः ।
वहः ।
गोचरादिषु घप्रत्ययान्तः ।
कल्पः ।
अजन्तः ।
पादः ।
घञन्तः ।
तत्र क्वचित्प्रत्ययस्वरः प्राप्तः, क्वचित्कर्षात्वतो घञोऽन्त उदात्तः (*६,१.१५९) इति ।
वृषादिराकृतिगणः ।
अविहितं आद्युदात्तत्वं वृषादिषु द्रष्टव्यं । ।


____________________________________________________________________


[#६४८]

  1. <सञ्ज्ञायां उपमानम्># । । PS_६,१.२०४ । ।



_____Sठाऱ्ठ्JKव्_६,१.२०४ः

उपमानशब्दः सञ्ज्ञायां आद्युदातो भवति ।
चञ्चा ।
वध्रिका ।
खरकुटी ।
दासी ।
उपमानशब्दा एते उपमेयस्य सञ्ज्ञाः ।
तत्र इवे प्रतिकृतौ (*५,३.९६) इति यः कन्, तस्य लुम्मनुष्ये (*५,३.९८) इति लुप् ।
यद्येवं किं अर्थं इदं उच्यते प्रत्ययलक्षणेन सिद्धं आद्युदात्तत्वं ? एतदेव ज्ञापयति क्वचिदिह स्वरविधौ प्रत्ययलक्षणं न भवति इति ।
तथा च पूर्वत्र+उदाहृतं ।
सञ्ज्ञायां इति किं ? अग्निर्माणवकः ।
उपमानं इति किं ? देवदत्तः । ।


____________________________________________________________________


  1. <निष्ठा च द्व्यजनात्># । । PS_६,१.२०५ । ।



_____Sठाऱ्ठ्JKव्_६,१.२०५ः

निष्ठान्तं द्व्यच्सञ्ज्ञायां विषये आद्युदात्तं भवति स चेदादिराकारो न भवति ।
दत्तः ।
गुप्तः ।
बुद्धः ।
प्रत्ययस्वरापवादः ।
निष्ठा इति किं ? देवः ।
भीमः ।
द्व्यचिति किं ? चिन्तितः ।
रक्षितः ।
अनातिति किं ? त्रातः ।
आप्तः ।
सञ्ज्ञायां इति किं ? कृतं ।
हृतं । ।


____________________________________________________________________


  1. <शुष्क-धृष्तौ># । । PS_६,१.२०६ । ।



_____Sठाऱ्ठ्JKव्_६,१.२०६ः

आदिः उदात्तः इति वर्तते ।
शुष्क धृष्ट इत्येतावाद्युदात्तौ भवतः ।
शुष्कः ।
धृष्टः ।
असञ्ज्ञार्थ आरम्भः । ।


____________________________________________________________________


  1. <आशितः कर्ता># । । PS_६,१.२०७ । ।



_____Sठाऱ्ठ्JKव्_६,१.२०७ः

आशितशब्दः कर्तृवाचि आद्युदात्तो भवति ।
आशितो देवदत्तः ।
अशेरयमाङ्पूर्वादविवक्षिते कर्मणि कर्तरि क्तः ।
तत्र थाऽथघञ्(*६,२.१४४) इति प्राप्तः स्वरो बाध्यते ।
कर्तरि इति किं ? आशितमन्नं ।
आशितं देवदत्तेन ।
पूर्वत्र कर्मणि क्तः, उत्तरत्र भावे । ।


____________________________________________________________________


  1. <रिक्ते विभाषा># । । PS_६,१.२०८ । ।



_____Sठाऱ्ठ्JKव्_६,१.२०८ः

रिक्तशब्दे विभाष आदिरुदात्तो भवति ।
रिक्तः, रिक्तः ।
सञ्ज्ञायाम्, निष्ठा च द्व्यजनात्(*६,१.२०५) इत्यनेन पूर्वविप्रतिषेधेन नित्यं आद्युदात्तः । ।


____________________________________________________________________


  1. <जुष्ट-अर्पिते च च्छन्दसि># । । PS_६,१.२०९ । ।



_____Sठाऱ्ठ्JKव्_६,१.२०९ः

जुष्ट अर्पित इति शब्दरूपे छन्दसि विषये विभाषा आद्युदात्ते भवतः ।
जुष्टः, जुष्टः ।
अर्पितः, अर्पितः ।
छन्दसि इति किं ? भाषायां प्रत्ययस्वरेण अन्तोदात्तवेतौ । ।


____________________________________________________________________

[#६४९]

  1. <नित्यं मन्त्रे># । । PS_६,१.२१० । ।



_____Sठाऱ्ठ्JKव्_६,१.२१०ः

जुष्ट अर्पित इत्येते शब्दरूपे मन्त्रविषये नित्यं आद्युदात्ते भवतः ।
जुष्टं देवानां ।
अर्पितं पित्éणां ।
पूर्वेण अत्र विकल्पः प्राप्तः ।
केचिदत्र जुष्ट इत्येतदेव अनुवर्तयन्ति ।
अर्पितशब्दस्य विभाषा मन्त्रेऽपि इच्छन्ति ।
अन्तोदात्तोऽपि ह्ययं मन्त्रे पठयते, तस्मिन्साकं त्रिशता न शङ्कवोऽर्पिताः इति । ।


____________________________________________________________________


  1. <युष्मद्-अस्मदोर्ङसि># । । PS_६,१.२११ । ।



_____Sठाऱ्ठ्JKव्_६,१.२११ः

युष्मदस्मदी मदिक्प्रत्ययान्तेऽन्तोदात्ते, तयोर्ङसि परतः आदिः उदात्तो भवति ।
तव स्वं ।
मम स्वं । ।


____________________________________________________________________


  1. <ङयि च># । । PS_६,१.२१२ । ।



_____Sठाऱ्ठ्JKव्_६,१.२१२ः

युष्मदस्मदोः इति वर्तते, आदिरुदात्तः इति च ।
ङे इत्येतस्मिंश्च परतो युष्मदस्मदोः आदिरुदात्तो भवति ।
तुभ्यं ।
मह्यं ।
पृथग्योगकरणं यथासङ्ख्यशङ्कानिवृत्त्यर्थं । ।


____________________________________________________________________


  1. <यतोऽनावः># । । PS_६,१.२१३ । ।



_____Sठाऱ्ठ्JKव्_६,१.२१३ः

निष्था च द्व्यजनात्(*६,१.२०५) ।
इत्यतो द्व्यज्ग्रहणं अनुवर्तते ।
यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तो भवति न चेन्नौशब्दात्परो भवति ।
अचो यत्(*३,१.९७) - च+इयं ।
जेयं ।
शरीरावयवाद्यत्(*५,१.६) - कण्ठ्यं ।
ओष्ठ्यं ।
तस्वरितं (*६,१.१८५) इत्यस्य अपवादः ।
अनावः इति किं ? नाव्यं ।
द्व्यचः इत्येव, चिकीर्ष्यं ।
ललाट्यं । ।


____________________________________________________________________


  1. <ईड-वन्द-वृ-शंस-दुहां ण्यतः># । । PS_६,१.२१४ । ।



_____Sठाऱ्ठ्JKव्_६,१.२१४ः

ईड वन्द वृ शंस दुह इत्येतेषां यो ण्यत्तदन्तस्य आदिरुदात्तो भवति ।
ईड्यं ।
वन्द्यं ।
वार्यं ।
शंस्यं ।
दोह्या धेनुः ।
द्व्यनुबन्धकत्वात्ण्यतो यद्ग्रहणेन ग्रहणं न अस्ति इति तित्स्वरितं (*६,१.१८५) इत्येतत्प्राप्तं ।
वार्यं इति वृङ्सम्भक्तौ इत्यस्य अयं ण्यथ् ।
क्यब्विधौ हि वृञ एव ग्रहणं इष्यते । ।


____________________________________________________________________


  1. <विभाषा वेण्व्-इन्धानयोः># । । PS_६,१.२१५ । ।



_____Sठाऱ्ठ्JKव्_६,१.२१५ः

वेणु इन्धान इत्येतयोः विभाषा आदिरुदात्तो भवति ।
वेणुः, वेणुः ।
इन्धानः, इन्धानः, इन्धानः ।
वेणुशब्दोऽयं अजिवृरीभ्यो निच्च इति णुप्रत्ययान्तो नित्वान्नित्यं आद्युदात्तः प्राप्तः ।
इन्धानशब्दोऽपि यदा चानशन्तस्तदा चित्त्वदन्तोदात्तः ।
अथ शानजन्तस्तदा लसार्वधतुक-अनुदात्तत्वे कृते उदात्तनिवृत्तिस्वरेण मध्योदात्तः ।
तदेवं इन्धाने सर्वथा अप्राप्तं उदात्तत्वं पक्षे विधीयते ।
वेणुरिव वेणुः इत्युपमानं यदा सञ्ज्ञा भवति, तदा सञ्ज्ञायां उपमानं (*६,१.२०४) इति नित्यं आद्युदात्तत्वं इष्यते । ।


____________________________________________________________________


[#६५०]

  1. <त्याग-राग-हास-कुह-श्वठ-क्रथानाम्># । । PS_६,१.२१६ । ।



_____Sठाऱ्ठ्JKव्_६,१.२१६ः

त्याग राग हास कुह श्वठ क्रथ इत्येतेषां विभाषा आदिरुदात्तो भवति ।
त्यागः तयागः ।
रागः, रागः ।
हासः, हासः ।
एते घञन्ताः, तेषां पक्षे कर्षात्वतो घञोऽन्त उदात्तः (*६,१.१५९) इत्युदात्तत्वं एव भवति ।
कुहः, कुहः ।
श्वठः, श्वठः ।
क्रथः, क्रथः ।
एते पचाद्यजन्ताः । ।


____________________________________________________________________


  1. <उपोत्तमं रिति># । । PS_६,१.२१७ । ।



_____Sठाऱ्ठ्JKव्_६,१.२१७ः

रिदन्तस्य उपोत्तमं उदात्तं भवति ।
त्रिप्रभृतीनां अन्त्यं उत्तमं तस्य समीपे यत्तदुपोत्तमं ।
करणीयं ।
हरणीयं ।
पठुजातीयः ।
मृदुजातीयः ।
प्रत्ययस्वरापवादोऽयं । ।


____________________________________________________________________


  1. <चङ्यन्यतरस्याम्># । । PS_६,१.२१८ । ।



_____Sठाऱ्ठ्JKव्_६,१.२१८ः

चङन्तेऽन्यतरस्यां उपोत्तमं उदात्तं भवति ।
मा हि चीकरताम्, मा हि चीकरतां ।
न माङ्योगे (*६,४.७४) इत्यटि प्रतिषिद्धे हि च (*८,१.३४) इति निघातेऽदुपदेशातिति लसार्वधातुकानुदात्तत्वे इऋते चङ एव स्वरे प्राप्ते पक्षे धात्वकार उदात्तो भवति ।
उपोत्तमग्रहणाद्द्व्यचो न भवति, मा हि दधत् । ।

____________________________________________________________________


  1. <मतोः पूर्वमात्सञ्ज्ञायां स्त्रियाम्># । । PS_६,१.२१९ । ।



_____Sठाऱ्ठ्JKव्_६,१.२१९ः

मतोः पूर्वः आकार उदात्तो भवति तच्चेन्मत्वन्तं स्त्रीलिङ्गे सञ्ज्ञा भवति ।
उदुम्बरावती ।
पुष्करावती ।
वीरणावती ।
शरावती ।
शरादीनां च (*६,३.१२०) इति दीर्घः ।
आतिति किं ? इक्षुमती ।
द्रुमवती ।
सञ्ज्ञायं इति किं ? खट्वावती ।
स्त्रियां इति किं ? शरावान् ।
मतोः इति किं ? गवादिनी । ।


____________________________________________________________________


  1. <अन्तोऽवत्याः># । । PS_६,१.२२० । ।



_____Sठाऱ्ठ्JKव्_६,१.२२०ः

सञ्ज्ञायां इत्येव ।
अवतीशब्दान्तस्य सञ्ज्ञायां अन्त उदात्तो भवति ।
अजिरवती ।
खदिरवती ।
हंसवती ।
कारण्डवती ।
ङीपः पित्त्वादनुदात्तत्वं प्राप्तं ।
अवत्याः इति किं उच्यते, न वत्या इत्येवं उच्येत ? न+एवं शक्यं इह अपि स्यात्, राजवती ।
स्वरविधौ नलोपस्य असिद्धत्वान्न अयं अवतीशब्दः ।
वत्वं पुनराश्रयात्सिद्धं । ।


____________________________________________________________________


  1. <ईवत्याः># । । PS_६,१.२२१ । ।



_____Sठाऱ्ठ्JKव्_६,१.२२१ः

ईवतीशब्दान्तस्य अन्त उदातो भवति स्त्रियां सञ्ज्ञायां विषये ।
अहीवती ।
कृषीवती ।
मुनीवती । ।


____________________________________________________________________


[#६५१]

  1. <चौ># । । PS_६,१.२२२ । ।



_____Sठाऱ्ठ्JKव्_६,१.२२२ः

चौ इति अञ्चतिर्लुप्तनकारो गृह्यते ।
तस्मिन्परतः पूर्वस्य अन्त उदात्तो भवति ।
दधीचा ।
दधीचे ।
मधूचः पश्य ।
मधूचा ।
मधूचे ।
उदात्तनिवृत्तिस्वरापवादोऽयं ।
चावतद्धित इति वक्तव्यं ।
दाधीचः ।
माधूचः ।
प्रत्ययस्वर एव अत्र भवति । ।


____________________________________________________________________


  1. <समासस्य># । । PS_६,१.२२३ । ।



_____Sठाऱ्ठ्JKव्_६,१.२२३ः

समासस्यन्त उदात्तो भवति ।

[#६५०]

राजपुरुषः ।
ब्रहमणकम्बलः ।
कन्यास्वनः ।
पटहशब्दः ।
नदीघोषः ।
राजपृषथ् ।
ब्राह्मणसमिथ् ।
स्वरविधौ व्यञ्जनमविद्यमानवतिति हलन्तेष्वप्यन्तोदात्तत्वं भवति ।
नानापदस्वरस्य अपवादः । ।
इति काशिकायां वृत्तौ षष्ठाध्यायस्य प्रथमाः पादः । ।

______________________________________________________

[#६५२]

षष्ठाध्यायस्य द्वितीयः पादः ।


____________________________________________________________________


  1. <बहुव्रीहौ प्रकृत्या पूर्वपदम्># । । PS_६,२.१ । ।



_____Sठाऱ्ठ्JKव्_६,२.१ः

पूर्वपदग्रहणं अत्र पूर्वपदस्थे स्वरे उदात्ते स्वरिते वा वर्तते ।
बहुव्रीहौ समासे पूर्वपदस्य यः स्वरः स प्रकृत्या भवति, स्वभावेन अवतिष्ठते, न विकारमनुदात्तत्वं आपद्यते ।
समासान्तोदात्तत्वे हि सति अनुदात्तं पदं एकवर्जं (*६,१.१५८) इति सोऽनुदात्तः स्यातिति समासान्तोदात्तत्वापवादोऽयं आरभ्यते ।
कार्ष्णोत्तरासङ्गाः ।
कृष्णो मृगः तस्य विकारः कार्ष्णः, प्राणि-रजत-आदिभ्योऽञ्(*४,३.१५४) इति अञ्प्रत्ययान्तो ञिस्वरेण आद्युदात्तः ।
यूपवलजः ।
यूपशब्दः उणादिषु कुसुयुभ्यश्च इति पप्रत्ययान्तः ।
तत्र च दीर्घः इति निदिति च वर्तते तेन आद्युदात्तः ।
ब्रह्मचारिपरिस्कन्दः ।
ब्रहमचारिशब्दः कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तः ।
स्नातकपुत्रः ।
स्नातकशब्दः कन्प्रत्ययान्तो नित्स्वरेण आद्युदात्तः ।
अध्यापकपुत्रः ।
लित्स्वरेण अध्यापकशब्दो मध्योदात्तः ।
श्रोत्रियपुत्रः ।
श्रोत्रियशब्दो नित्वादाद्युदात्तः ।
मन्ष्यनाथः ।
मनुष्यशब्दः तित्स्वरितं (*६,१.१८५) इति स्वरितान्तः ।
उदात्तग्रहणं स्वरितग्रहणं च अत्र अनुवर्तते, तेन सर्वानुदात्ते पूर्वपदे विधिरेव न अस्ति इति समासान्तोदात्तत्वं भवति ।
समाभ्यागः इति समशब्दो हि सर्वानुदातः । ।


____________________________________________________________________


  1. <तत्पुरुषे तुल्यार्थ-तृतीया-सप्तम्य्-उपमान-अव्यय-द्वितीया-कृत्याः># । । PS_६,२.२ । ।



_____Sठाऱ्ठ्JKव्_६,२.२ः

तत्पुरुषे समासे तुल्यार्थं तृतीयान्तं सप्तम्यन्तं उपमानवाचि अव्ययं द्वितीयान्तं कृत्यान्तं च यत्पूर्वपदं तत्प्रकृतिस्वरं भवति ।
तुल्यार्थ - तुल्यार्थ - तुल्यश्वेतः ।
तुल्यलोहितः ।
तुल्यमहान् ।
सदृक्श्वेतः ।
सदृशमहान् ।
एते कृत्य-तुल्य-आख्या अजात्या (*२,१.६८) इति कर्मधरयाः ।
तत्र तुल्यशब्दः यतोऽनावः (*६,१.२१३) इत्याद्युदात्तः ।
सदृक्शब्दः समानान्ययोश्च इति क्विन्प्रत्ययान्तः, कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तः ।
सदृशशब्दोऽपि कञन्तो मध्योदात्तः ।
तुल्यार्थ ।
तृतीया - शङ्कुलया खण्डः शङ्कुलाखण्डः ।
किरिणा काणः किरिकाणः ।
शङ्कुपूर्वाल्लातेः घञर्थे कविधानं इति वा कप्रत्ययान्तः शङ्कुलाशब्दोऽन्तोदात्तः ।
किरिशब्दोऽपि किरतेः क्éग्éश्éप्éकुटि भिदिच्छिदिभ्यश्च इति इकारप्रत्ययः किदौणादिकः, तेन असावन्तोदात्तः ।
तृतीया ।
सप्तमी - अक्षेषु शौण्डः अक्षशौण्डः ।
पानशौण्डः ।
अशेर्देवने इति सप्रत्ययान्तोऽक्षशब्दोऽन्तोदात्तः ।
पानशब्दो ल्युडन्तो लित्स्वरेण आद्युदात्तः ।
सप्तमी ।

[#६५३]

उपमान - शस्त्रीश्यामा ।
कुमुदश्येनी ।
हंसगद्गदा ।
न्यग्रोधपरिमण्डला ।
दूर्वाकाण्डश्यामा ।
शरकाण्डगौरी ।
उपमानानि सामान्यवचनैः (*२,१.५५) इति समासः ।
शस्त्रीशब्दो ङीष्प्रत्ययान्तोऽन्तोदात्तः ।
कुमुदशब्दोऽपि कौ मोदते इति मूलविभुजादित्वात्कप्रत्ययान्तः, नब्विषयस्य अनिसन्तस्य इति वा आद्युदात्तः ।
हंसशब्दो व्éत्éविदिहनिकमिकशिभ्यः सः इति सप्रत्ययन्तः ।
न्यग्रोहति इति न्यग्रोधः, पचादित्वादच्प्रत्ययान्तः तस्य न्यग्रोधस्य च केवलस्य (*७,३.५) इति निपातनाद्हकारस्य धकारो मध्योदात्तत्वं च ।
दूर्वाकाण्डशरकाण्डशब्दौ षष्ठीतत्पुरुषावुत्तरपदाद्युदातौ ।
उपमान ।
अव्यय - अब्राह्मणः ।
अवृषलः ।
कुब्राह्मणः ।
कुवृषलः ।
निष्कौशाम्बिः ।
निर्वाराणसिः ।
अतिखट्वः ।
अतिमालः ।
एतान्यव्ययान्याद्युदात्तानि ।
अव्यये नञ्कुनिपातानां इति वक्तव्यं ।
इह मा भूत्, स्नत्वाकालकः इति ।
अव्यय ।
द्वितीया - मुहूर्तसुखं ।
मुहूर्तरमणीयं ।
सर्वरात्रकल्याणी ।
सर्वरात्रशीभना ।
अत्यन्तसंयोगे च (*२,२.२१) इति द्वितीयासमसः ।
मुहूर्तशब्दः पृषोदरादिरन्तोदात्तः ।
सर्वरात्रशब्दोऽप्यच्प्रत्ययान्तः ।
द्वितीया ।
कृत्य - भोज्योष्णं ।
भोज्यलवणं ।
पानीयशीतं ।
हरणीयचूर्णं ।
भोज्यशब्दो ण्यदन्तोऽन्तस्वरितः ।
पाणीयहरणीयशब्दयोः उपोत्तमं रिति (*६,१.२१७) इति ईकार उदात्तः । ।


____________________________________________________________________


  1. <वर्णो वर्नेष्वनेते># । । PS_६,२.३ । ।



_____Sठाऱ्ठ्JKव्_६,२.३ः

प्रकृत्या पूर्वपदम्, तत्पुरुषे इति च वर्तते ।
वर्णं वर्णवाचि पूर्वपदं वर्नवाचिष्वेव+उत्तरपदेषू एतशब्दवर्जितेषु परतस्तत्पुरुषे समसे प्रकृतिस्वरं भवति ।
कृष्णसारङ्गः ।
लोहितसारङ्गः ।
कृष्णकल्माषः ।
लोहितकल्माषः ।
कृषेर्वर्ने इति कृष्णशब्दो नक्प्रत्ययान्तः अन्तोदात्तः ।
लोहितशब्दोऽपि रुहेरश्च लो वा इति इतन्प्रययान्तः आद्युदात्तः ।
वर्नः इति किं ? परमकृष्णः ।
वर्नेषु इति किं ? कृष्णतिलाः ।
अनेते इति किं ? कृष्णैतः ।
लोहितैतः । ।


____________________________________________________________________


[#६५४]

  1. <गाध-लवनयोः प्रमाणे># । । PS_६,२.४ । ।



_____Sठाऱ्ठ्JKव्_६,२.४ः

प्रमाणवाचिनि तत्पुरुषे समासे गाध लवण इत्येतयोरुत्तरपदयोः पूर्वपदं प्रकृतिस्वरं भवति ।
शम्बगाधमुदकं ।
अरित्रगाधमुदकं ।
तत्प्रमाणं इत्यर्थः ।
गोलवणं ।
अश्वलवणं ।
अश्वलवणं ।
यावद्गवे दीयते तावदित्यर्थः ।
षष्ठीसमासा एते ।
तत्र शमेर्बनिति बन्प्रत्ययान्तत्वाच्छम्बशब्द आद्युदात्तः ।
अरित्रशब्दः अर्तिलूधूसू इति इत्रप्रत्ययान्तो मध्योदात्तः ।
गोशब्दो डोप्रत्ययान्तः अन्तोदातः ।
अश्वशब्दो अशूप्रुषिलटिकणिखतिविशिभ्यः क्वनिति क्वन्प्रत्ययान्तः आद्युदात्तः ।
प्रमाणं इयत्तापरिच्छेदमात्रं इह द्रष्टव्यं न पुनरायाम एव ।
स्वरव्यङ्ग्यं च प्रमानविशेषविषयत्वं एतेषां ।
प्रमाणे इति किं ? परमगाधं ।
परमलवणं । ।


____________________________________________________________________

  1. <दायाद्यं दायादे># । । PS_६,२.५ । ।



_____Sठाऱ्ठ्JKव्_६,२.५ः

तत्पुरुषे समासे दायादशब्दे उत्तरपदे दायाद्यवाचि पूर्वपदं प्रकृतिस्वरं भवति ।
विद्यादायादः ।
धनदायादः ।
सञ्ज्ञायां समजनिषद इति विद्याशब्दः क्यप्प्रत्ययान्तः ।
उदात्तः इति च तत्र वर्तते, तेन अयं अन्तोदात्तः ।
क्éप्éवृजिमन्दिनिधाञ्भ्यः क्युः इति बहुलवचनात्केवलादपि धाञः क्युः प्रत्ययः, तेन धनशब्दः प्रत्ययस्वरेण आद्युदात्तः ।
अथ विद्यादायादः इति केन षष्ठी ? स्वामीरीश्वराधिपतिदायाद इति ।
यद्येवं प्रतिपदविधाना च षष्ठी न समस्यते इति समासप्रतिषेधः प्राप्नोति ? एवं तर्हि शेषलक्षणैवात्र षष्ठी, तस्यस्तु सप्तमी विधीयमाना बाधिका मा विज्ञायि इति पुनरभ्यनुज्ञायते ।
दायाद्यं इति किं ? परमदायादः ।
अत्र समासान्तोदातत्वं एव भवति । ।


____________________________________________________________________


  1. <प्रतिबन्धि चिर-कृच्छ्रयोः># । । PS_६,२.६ । ।



_____Sठाऱ्ठ्JKव्_६,२.६ः

तत्पुरुषे समासे चिरकृच्छ्रयोरुत्तरपदयोः प्रतिबन्धिवाचि पूर्वपदं प्रकृतिस्वरं भवति ।
गमनचिरं ।
गमनकृच्छ्रं ।
व्याहरणचिरं ।
व्याहरणकृच्छ्रं ।
गमनव्याहरनशब्दौ ल्युडन्तौ, तयोर्लित्स्वरः ।
गमनं च यच्चिरं च इति विशेषणसमासोऽयम्, मयूरव्यंसकादिर्वा एष द्रष्टव्यः ।
गमनं हि कारणविकलतया विरकालभावि कृच्छ्रयोगि वा प्रतिबन्धि जायते ।
प्रतिबन्धि इति किं ? मूत्रकृच्छ्रं । ।


____________________________________________________________________

  1. <पदेऽपदेशे># । । PS_६,२.७ । ।



_____Sठाऱ्ठ्JKव्_६,२.७ः

अपदेशो व्याजः, तद्वाचिनि तत्पुरुषे समासे पदशब्दे उत्तरपदे पूर्वपदं प्रकृतिस्वरं भवति ।
मूत्रपदेन प्रस्थितः ।
उच्चारपदेन प्रस्थितः ।
मूत्रशब्दः सिविमुच्योष्टेरू च इति ष्ट्रन्प्रत्ययान्तः, मूत्रयतेर्वा घञन्तः आद्युदात्तः ।
उच्चारशब्दोऽपि घञन्तः थ-अथ-घञ्-क्त-अज्-अब्-इत्र-काणां (*६,२.१४४) इत्यन्तोदात्तः ।
विशेषनसमासोऽयं मयूरव्यंसकादिर्वा ।
अपदेशे इति किं ? विष्णोः पदं विष्णुपदं । ।


____________________________________________________________________


[#६५५]

  1. <निवाते वातत्राणे># । । PS_६,२.८ । ।



_____Sठाऱ्ठ्JKव्_६,२.८ः

निवातशब्दे उत्तरपदे वातत्राणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति ।
कुट्येव निवातं कुटीनिवातं ।
शमीनिवातं ।
कुड्यनिवातं ।
वातस्याभावो निवातम्, अर्थाभावः इत्यव्ययीभावः ।
निरुद्धो वातोऽस्मिनिति वा निवातं इति बहुव्रीहिः ।
तत्र कुड्यादिहेतुके निवाते कुड्यादयो वर्तमानाः समानाधिकरणेन निवातशब्देन सह समस्यन्ते ।
कुटीशमीशब्दौ गौरादिङोषन्तावन्तोदातौ ।
कुड्यशब्दोऽपि कवतेर्यत्डक्किच्च इति यत्प्रत्ययान्त आद्युदात्त इत्येके ।
ड्यक्प्रत्ययान्तोऽन्तोदात्तः इत्यपरे ।
वातत्राने इति किं ? राजनिवाते वसति ।
सुखं मातृनिवातं ।
निवातशब्दोऽयं पार्श्ववाची रूढिशब्दस्तत्रोभयत्र षष्ठीसमासः । ।

____________________________________________________________________


  1. <शारदेऽनार्तवे># । । PS_६,२.९ । ।



_____Sठाऱ्ठ्JKव्_६,२.९ः

ऋतौ भवमार्तवं ।
अनार्तववाचिनि शारदशब्दे उत्तरपदे उत्तरपदे तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति ।
रज्जुशारदमुदकं ।
दृषत्शारदाः सक्तवः ।
शारदशब्दोऽयं प्रत्यग्रवाची, तस्य नित्यसमासोऽस्वपदविग्रह इष्यते ।
सद्यो रज्जूद्धृतमुदकं प्रत्यग्रमनुपहतं रज्जुशारां उच्यते ।
रज्जुशदः सृजेरसुं च इति उप्रत्ययान्तः आदिलोपश्च ।
धान्ये नितिति च तत्र वर्तते, तेन आद्युदात्तः ।
दृषत्शब्दः दृणातेः षुख्रस्वश्च इति अदिप्रत्ययान्तोऽन्तोदात्तः ।
अनार्तवे इति किं ? पर्मशारदं ।
उत्तरमशारदं ।
शरदि ऋतुविशेषे भवं यत्तदिह शारदं । ।


____________________________________________________________________


  1. <अध्वर्यु-कषाययोर्जातौ># । । PS_६,२.१० । ।



_____Sठाऱ्ठ्JKव्_६,२.१०ः

अध्वर्यु कषाय इत्येतयोः जातिवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति ।
प्राच्याध्वर्युः ।
कठाद्वर्युः ।
कलापाध्वर्युः ।
एते समानाधिकरणसमासाः जातिवाचिनो नियतविषयाः ।
तत्र प्राच्यशब्दः यत्प्रत्ययान्त आद्युदात्तः ।
कठशब्दः पचाद्यचि व्युत्पादितः ।
ततः कठेन प्रोक्तं इति वैशम्पायन-अन्तेवासिभ्यश्च (*४,३.१०४) इति णिनिः, तस्य कठ-चरकाल्लुक्(*४,३.१०७) इति लुक् ।
कलापिना प्रोक्तं इति कलापिनोऽण्(*४,३.१०८), तस्मिनिनण्यनपत्ये (*६,४.१६४) इति प्रकृतिभावे प्राप्ते नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिल. अङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणां उपसङ्ख्यानं इति टिलोपः ।
तदेवं कलापशब्दोऽन्तोदात्तः ।
सर्पिर्मण्डकषायं ।
उमापुष्पकषायं ।
दौवारिककषायं ।
षष्ठीसमासव्युत्पादिता रूढिशब्दा एते ।
तत्र सर्पिर्मण्डशब्दः उमापुष्पशब्दश्च षष्ठीसमासाबन्दोदात्तौ ।
दौवारिकशब्दोऽपि द्वारि नियुक्तः इति ठकि सत्यन्तोदात्तः एव ।
जातौ इति किं ? परमाध्वर्युः ।
परमकषायः । ।


____________________________________________________________________


  1. <स-दृश-प्रतिरूपयोः सादृश्ये># । । PS_६,२.११ । ।



_____Sठाऱ्ठ्JKव्_६,२.११ः

सदृश प्रतिरूप इत्येतयोः उत्तरपदयोः सादृश्यवाचिनि तत्प्रुषे समासे पूर्वपदं प्रकृतिस्वरं भवति ।
पितृसदृशः ।
मातृसदृशः ।
पितृ-मातृ-शब्दावुणादिष्वन्तोदात्तौ निपातितौ ।
षष्ठीसमासार्थं च सदृशग्रहणं इह तदलुकि षष्ठ्याः प्रयोजयति, दास्याः सदृशः, वृषल्याः सदृशः इति ।

[#६५६]

अत्र दासीवृषलीशब्दयोरन्तोदात्तत्वादुदात्तयणो हल्पूर्वत्(*६,१.१७४) इति विभक्तिरन्तोदात्ता ।
पितृप्रतिरूपः ।
मातृप्रतिरूपः ।
सादृश्ये इति किं ? परमसदृशः ।
उत्तमसदृशः ।
समासार्थोऽत्र पूज्यमानता न सादृश्यं । ।


____________________________________________________________________

  1. <द्विगौ प्रमाणे># । । PS_६,२.१२ । ।



_____Sठाऱ्ठ्JKव्_६,२.१२ः

द्विगावुत्तरपदे प्रमणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति ।
प्राच्यसप्तशमः ।
गान्धारिसप्तशमः ।
सप्तशमाः प्रमाणं अस्य इति मात्रचः उत्पन्नस्य प्रमाणे लः द्विगोर्नित्यं इति लुक् ।
प्राच्यश्च असौ सप्तशमश्च प्राच्यसप्तशमः ।
प्राच्यशब्दः आद्युदात्तः ।
गान्धरिशब्दः कर्दमादित्वादाद्युदात्तो मद्योदत्तो वा ।
द्विगौ इति किं ? व्रीहिप्रस्थः प्रमाणे इति किं ? परमसप्तशमं । ।


____________________________________________________________________


  1. <गन्तव्य-पण्य वाणिजे># । । PS_६,२.१३ । ।



_____Sठाऱ्ठ्JKव्_६,२.१३ः

वाणिजशब्दे उत्तरपदे तत्पुरुषे समासे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरं भवति ।
मद्रवाणिजः ।
काश्मीरवाणिजः ।
गान्धारिवाणिजः ।
मद्रादिषु गत्वा व्यवहरन्ति इत्यर्थः ।
सप्तमीसमासा एते ।
तत्र मद्रशब्दो रक्प्रत्ययान्तत्वादन्तोदात्तः ।
काश्मीरशब्दोऽपि पृषोदरादिषु मद्योदातः ।
गान्धारिशब्दः कर्दमादिषु पठ्यते, तत्र कर्दमादीनां च इति पक्षे आद्युदात्तो भवति, द्वितीयो वा ।
पण्ये - गोवाणिजः ।
अश्ववाणिजः ।
गोशब्दोऽन्तोदात्तः ।
अश्वशब्दः आद्युदात्तः ।
गन्तव्याण्यं इति किं ? परमवाणिजः ।
उत्तमवाणिजः । ।


____________________________________________________________________


  1. <मात्रोपज्ञोपक्रमच्छाये नपुंसके># । । PS_६,२.१४ । ।



_____Sठाऱ्ठ्JKव्_६,२.१४ः

मात्रा उपज्ञा उपक्रम छाया एतेषु उत्तरपदेषु नपुंसकवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति ।
भिक्षामात्रं न ददाति याचितः ।
समुद्रमात्रं न सरोऽस्ति किंचन ।
मात्रशब्दोऽयं वृत्तिविषय एव तुल्यप्रमाणे वर्तते ।
तत्र भिक्षायास्तुल्यप्रमाणं इति अस्वपदविग्रहः षष्ठीसमासः ।
तत्र भिक्षाशब्दः गुरोश्च हलः (*३,३.१०३) इत्यप्रत्ययान्तोऽन्तोदात्तः ।
समुद्रशब्दोऽपि फिषि पाटलापालङ्काम्बासागरार्थानां इत्यन्तोदात्त एव ।
उपज्ञा - पाणिनोपज्ञं अकालकं व्याकरणं ।
व्याङ्युपज्ञं दुष्करणं ।
आपिशल्युपज्ञं गुरुलाघवं ।
षष्ठीसमासा एते ।
तत्र पणिनोऽप्त्यं इत्यणन्तः पाणिनशब्दः प्रत्ययस्वरेण अन्तोदात्तः ।
व्याडिरिञन्तत्वादाद्युदात्तः ।
तद्वदापिशलिः ।
उपक्रं - आढ्योपक्रमं प्रासादः ।
दर्शनीयूपक्रमं ।
सुकुमारोपक्रमं ।
नन्दोपक्रमाणि मानानि ।
एतेऽपि षष्ठीसमासा एव ।
तत्रैत्यैनं ध्यायन्ति इत्याढ्याः ।
घञर्थे कविधानं इति कप्रत्ययः ।
आङ्पूर्वाद्ध्यायतेः पृषोदरादित्वाद्धस्य ढत्वं ।
तदयं आढ्यशब्दः थाथादिस्वरेण अन्तोदात्तः ।
दर्शनीयशब्दो रित्वादुपोत्तमोदात्तः ।
सुकुमारशब्दः नञ्सुभ्यां (*६,२.१७२) इत्यन्तोदात्तः ।
दर्शनियशब्दो रित्वादुपोत्तमोदात्तः ।
सुकुमारशब्दः नञ्सुभ्यां (*६,२.१७२) इत्यन्तोदात्तः ।
नन्दशब्दः पचाद्यचि व्युत्पादितः ।
उपज्ञोपक्रमान्तस्य तत्पुरुषस्य नपुंसकलिङ्गता उपज्ञोपक्रमं तदाद्याचिख्यासायां (*२,३.२१) इति ।

[#६५७]

छाया - इषुच्छायं ।
धनुश्छायं ।
इषुशब्दः ईषेः किच्च इत्युप्रत्ययान्तः, तत्र च धान्ये नितिति वर्तते, तेन आद्युदात्तः ।
धनुः शब्दोऽपि नब्विषयस्य अनिसन्तस्य इत्याद्युदात्त एव ।
इषूणां छाया इति षष्ठीसमासः ।
छाया बाहुल्ये (*२,४.२२) इति नपुंसकलिङ्गता ।
नपुंसके इति किं ? कुड्यच्छाया । ।


____________________________________________________________________


  1. <सुख-प्रिययोर्हिते># । । PS_६,२.१५ । ।



_____Sठाऱ्ठ्JKव्_६,२.१५ः

सुख प्रिय इत्येतयोरुत्तरपद्योर्हितवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति ।
गमनसुखं ।
वचनसुखं ।
व्याहरणसुखं ।
प्रिय - गमनप्रियं ।
वचनप्रियं ।
व्याहरणप्रियं ।
समानाधिकरणसमासा एते ।
तत्र सुखप्रियशब्दौ तद्धेतावायत्यां प्रीतिकरे वर्तते ।
तद्धि हितं यदायत्यं प्रीतिं करोति ।
गमनादिषु ल्युडन्तेषु लित्वरः ।
हिते इति किं ? परमसुखं ।
परमप्रियं । ।


____________________________________________________________________

  1. <प्रीतौ च># । । PS_६,२.१६ । ।



_____Sठाऱ्ठ्JKव्_६,२.१६ः

प्रीतौ गमयमानायां सुख प्रिय इत्येतयोः उत्तपदयोः तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति ।
ब्राह्मणसुखं पायसं ।
छात्रप्रियोऽनध्यायः ।
कन्यप्रियो मृदङ्गः ।
सुखप्रिययोः प्रीत्यव्यभिचारादिह प्रीतिग्रहणं तदतिशयप्रतिपत्त्यर्थं ।
ब्राह्मणछात्रशब्दौ प्रत्ययस्वरेण अन्तोदातौ ।
कन्याशब्दः स्वरितान्तः ।
प्रीतौ इति किम्? राजसुखं ।
राजप्रियं । ।


____________________________________________________________________


  1. <स्वं स्वामिनि># । । PS_६,२.१७ । ।



_____Sठाऱ्ठ्JKव्_६,२.१७ः

स्वामिशब्दे उत्तरपदे तत्पुरुषे समासे स्ववाचि पूर्वपदं प्रकृतिस्वरं भवति ।
गोस्वामी ।
अश्वस्वामी ।
धनस्वामी ।
अश्वधनगवां कथित एव स्वरः ।
स्वं इति किं ? परमस्वामी । ।


____________________________________________________________________


  1. <पत्यावैश्वर्ये># । । PS_६,२.१८ । ।


_____Sठाऱ्ठ्JKव्_६,२.१८ः

पतिशब्दे उत्तरपदे ऐश्वर्यवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरं भवति ।
गृहपतिः ।
सेनापतिः ।
नरपतिः ।
धान्यपतिः ।
गेहे कः (*३,१.१४४) इति प्रकृतिस्वरेण अन्तोदात्तो गृहशब्दः ।
सह इनेन वर्तते इति बहुव्रीहौ प्रकृत्या पूर्वपदं (*६,२.१) इति सेनाशब्द आद्युदात्तः ।
न्é नये एतस्मादृदोरप्(*३,३.५७) इति अप्प्रत्ययान्त आद्युदात्तो नरशब्दः ।
धान्यं अन्तस्वरितं ।
ऐश्वर्यं इति किं ? ब्राह्मणो वृषलीपतिः ।
वृषल्या भर्ता इत्यर्थः । ।


____________________________________________________________________


[#६५८]

  1. <न भू-वाक्-चिद्-दिधिषु># । । PS_६,२.१९ । ।



_____Sठाऱ्ठ्JKव्_६,२.१९ः

पतिशब्दे उत्तरपदे ऐश्वर्यवाचिनि तत्पुरुषे समासे भू वाक्चित्दिधिषू इत्येतानि पूर्वपदानि प्रकृतिस्वराणि न भवन्ति ।
पूर्वेण प्राप्तः स्वरः प्रतिषिध्यते ।
भूपतिः ।
वाक्पतिः ।
चित्पतिः ।
दिधिषूपतिः ।
षष्ठीसमासा एते समासस्वरेण अन्तोदात्ता भवन्ति । ।


____________________________________________________________________


  1. <वा भूवनम्># । । PS_६,२.२० । ।


_____Sठाऱ्ठ्JKव्_६,२.२०ः

पतिशब्दे उत्तरपदे ऐश्वर्यवाचिनि तत्पुरुष समासे भुवनशब्दः पूर्वपदं वा प्रकृतिस्वरं भवति ।
भुवनपतिः, भुवनपतिः ।
पूर्वपद-प्रकृतिस्वरपक्षे आदिरुदात्तः ।
रञ्जेः क्युनिति वर्तमाने भुसूधूभ्रास्जिभ्यश्छन्दसि इति क्युन्प्रत्ययान्तो भुवनशब्दः आद्युदात्तो व्युत्पादितः ।
कथं भुवनपतिरादित्यः इति ? उणादयो बहुलं (*३,३.१) इति बहुलवचनाद्भषायां अपि प्रयुज्यते । ।


____________________________________________________________________


  1. <आशङ्क-आबाध-नेदीयस्सु सम्भावने># । । PS_६,२.२१ । ।



_____Sठाऱ्ठ्JKव्_६,२.२१ः

प्रकृत्या पूर्वपदम्, तत्पुरुषे इति वर्तते ।
आशङ्क आबाध नेदियसित्येतेषु उत्तरपदेषु सम्भावनवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति ।
अस्तित्वाध्यवसायः सम्भावनं ।
गमनाशङ्कं वर्तते ।
गमनमाशङ्क्यते इति सम्भाव्यते ।
वचनाशङ्कं ।
व्याहरणाशङ्कं ।
आबाध - गमनाबाधं ।
वचनाबाधं ।
व्यहरणाबाधं ।
गमनं बाध्यते इति सम्भाव्यते ।
नेदीयस्- गमननेदीयः ।
व्याहरणनेदीयः ।
गमनमतिनिकटतरं इति सम्भाव्यते ।
सम्भावने इति किं ? परमनेदियः ।
पूर्वपदानि ल्युडन्तान्युक्तस्वराणि । ।


____________________________________________________________________

  1. <पूर्वे भूतपूर्वे># । । PS_६,२.२२ । ।



_____Sठाऱ्ठ्JKव्_६,२.२२ः

पूर्वशदे उत्तरपदे भूतपूर्ववाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति ।
आढ्यो भूतपूर्वः आढ्यपूर्वः ।
पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते, तत्र विशेषणं विशेष्येण इति समासः, मयूरव्यंसकादिर्वा द्रष्टव्यः ।
दर्शनीयपूर्वः ।
सुकुमारपूर्वः ।
भूतपूर्वे इति किं ? परमपूर्वः ।
उत्तमपूर्वः ।
अत्र प्रमश्चासौ पूर्वश्च इति समासो, न तु परमो भूतपूर्वः इति ।
तथा हि सति उदाहरणं एव भवति । ।


____________________________________________________________________


  1. <सविध-सनीड-समर्याद-सवेश-सदेशेषु सामीप्ये># । । PS_६,२.२३ । ।



_____Sठाऱ्ठ्JKव्_६,२.२३ः

सविध सनीड समर्याद सवेश सदेश इत्येतेषु सामीप्यवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति ।
मद्रसविधं ।
गान्धारिसविधं ।
काश्मीरसविधं ।
मद्रसनीडं ।
गान्धारिसनीडं ।
काश्मीरसनीडं ।
मद्रसमर्यादं ।
गान्धरिसमर्यादं ।
काश्मीरसमर्यादं ।
मद्रसवेशं ।
गान्धारिसवेशं ।
काश्मीरसवेशं ।
मद्रसदेशं ।
गान्धरिसदेशं ।
काश्मीरसदेशं ।
पूर्वपदान्युक्तस्वराणि ।
सविधादीनां सह विधया इत्येवं आदिका व्युत्पत्तिरेव केवलं ।
समीपवाचिनस्त्वेते समुदायाः ।
मद्राणां सविधं समीपं इत्यर्थः ।
समीप्ये इति किं ? सह मर्यादया वर्तते समर्यादं क्षेत्रं ।
देवदत्तस्य समर्यादं देवदत्तसमर्यादं ।
सविधादिसु इति किं ? देवदत्तसमया । ।


____________________________________________________________________


[#६५९]

  1. <विस्पष्ट-आदीनि गुणवचनेषु># । । PS_६,२.२४ । ।



_____Sठाऱ्ठ्JKव्_६,२.२४ः

विस्पष्टादिनि पूर्वपदानि गुनवानेषु उत्तरपदेषु प्रकृतिस्वराणि भवन्ति ।
विस्पष्टकटुकं ।
विचित्रकटुकं ।
व्यक्तकटुकं ।
विस्पष्टलवणं ।
विचित्रलवणं ।
व्यक्तलवणं ।
विस्पष्टं कटुकं इति विगृह्य सुप्सुपा इति समासः ।
विस्पष्टादयो ह्यत्र प्रवृत्तिनिमित्तस्य विशेषणं ।
कटुकादिभिश्च शब्दैर्गुनवद्द्रव्यं अभिधीयते इत्यसामानाधिकरन्यं अतो न अस्ति कर्मधारयः ।
विस्पष्टशब्दो गतिरनन्तरः (*६,२.४९) इत्याद्युदात्तः ।
विचित्रशब्दोऽपि अव्ययस्वरेण ।
विचित्तशब्दमन्ये अहन्ति ।
सोऽपि बहुव्रीहिस्वरेण आद्युदात्त एव ।
व्यक्तशब्दः उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (*८,२.४) इत्यादिस्वरितः ।
ये च अत्र अपरे पठ्यन्ते तत्र सम्पन्नशब्दस्थाथादिस्वरेण अन्तोदात्तः ।
पटुपण्डितशब्दौ प्रत्ययस्वरेण ।
कुशलशब्दः कृत्स्वरेण अन्तोदत्तः ।
चपलशब्दश्चित्स्वरेण अन्तोदात्तः, चुपेरच्चोपधायाः इत्यत्र हि चिदिति वर्तते ।
निपुणशब्दस्थाथादिस्वरेण अन्तोदत्तः, पुणेरिगुपधलक्षणः कप्रत्ययोऽयं ।
विस्पष्टादीनि इति किं ? परमलवणं ।
उत्तमलवणं ।
गुणवचनेषु इति किं ? विस्पष्टब्राह्मणः ।
विस्पष्ट ।
विचित्र ।
व्यक्त ।
सम्पन्न ।
पटु ।
पण्डित ।
कुशल ।
चपल ।
निपुण ।
विस्पष्टादिः । ।


____________________________________________________________________


  1. <श्र-ज्य-अवम-कन्-पाप-वत्सु भावे कर्मधारये># । । PS_६,२.२५ । ।



_____Sठाऱ्ठ्JKव्_६,२.२५ः

श्र ज्य अवम कनित्येतेषु पापशब्दवति च+उत्तरपदे कर्मधार्ये समासे भाववाचि पूर्वपदं प्रकृतिस्वरं भवति ।
गमनश्रेष्ठं ।
गमनश्रेयः ।
ज्य - वचनज्येष्ठं ।
वचनज्यायः ।
अवम - गमनावमं ।
वचनावमं ।
कन्- गमनकनिष्ठं ।
गमनकनीयः ।
पापवत्- गमनपापिष्ठं ।
गमनपापीयः ।
ल्युडन्तान्येतानि पूर्वपदानि लित्स्वरेण आद्युदात्तानि ।
श्रज्यकनां आदेशानां ग्रहणं इति सामर्थ्यात्तद्वदुत्तरपदं गृह्यते ।
आदिष्विति किं ? गमनशोभनं ।
भावे इति किं ? गम्यतेऽनेन इति गमनं तत्श्रेयः, गमनश्रेयः ।
कर्मधारये इति किं ? गमनं श्रेयः गमनश्रेयः । ।


____________________________________________________________________


  1. <कुमारश्च># । । PS_६,२.२६ । ।



_____Sठाऱ्ठ्JKव्_६,२.२६ः

कुमारशब्दः पूर्वपदं कर्मधारये समासे प्रकृतिस्वरं भवति ।
कुमारश्रमणा ।
कुमारकुलटा ।
कुमारतापसी ।
कुमारशब्दोऽन्तोदात्तः ।
अत्र केचित्लक्षणप्रतिपदोकयोः प्रतिपदोक्तस्य+एव ग्रहणं इत्परिभाषया कुमारः श्रमणादिभिः (*२,१.७०) इत्यत्र+एव समासे स्वरं एतं इच्छन्ति ।
केचित्पुनरविशेषेण सर्वत्र+एव कर्मधारये । ।


____________________________________________________________________


  1. <आदिः प्रत्येनसि># । । PS_६,२.२७ । ।



_____Sठाऱ्ठ्JKव्_६,२.२७ः

कर्मधारये इति वर्तते ।
प्रतिगत एनसा, प्रतिगतमेनो वा यस्य स प्रत्येनाः ।
तस्मिन्नुत्तरपदे कर्मधारये कुमारस्य आदिरुदात्तो भवति ।
कुमारप्रत्येनाः ।
उअदात्तः इत्येतदत्र सामर्थ्याद्वेदितव्यं ।
पूर्वपदप्रकृतिस्वर एव ह्ययं आदेरुपदिश्यते । ।

____________________________________________________________________


[#६६०]

  1. <पूगेष्वन्यतरस्याम्># । । PS_६,२.२८ । ।



_____Sठाऱ्ठ्JKव्_६,२.२८ः

पूगा गणाः, तद्वाचिनि उत्तरपदे कर्मधारये समासे कुमारस्य अन्यतरस्यां आदिरुदात्तो भवति ।
कुमारचातकाः, कुमारचातकाः, कुमारचातकाः ।
कुमारलोहध्वजाः, कुमारलोहध्वजाः, कुमारलोहध्वजाः ।
कुमारबलाहकाः, कुमारबलाहकाः, कुमारबलाहकाः ।
कुमारजीमूताः, कुमारजीमूताः, कुमारजीमूताः ।
चातकादयः पूगशब्दाः, तेभ्यः पूगाञ्ञ्योऽग्रामणीपूर्वात्(*५,३.११२) इति ञ्यः प्रत्ययः, तस्य तद्राजस्य बहुषु तेन+एव स्त्रियां (*२,४.६२) इति लुक् ।
अत्र यदा आद्युदात्तत्वं न भवति तदा कुमारश्च (*६,२.२६) इति पूर्वपदप्रकृतिस्वरत्वं एके कुर्वन्ति ।
ये तु तत्र प्रतिपदोक्तस्य ग्रहणं इच्छन्ति तेषां समासान्तोदात्तत्वं एव भवति । ।


____________________________________________________________________


  1. <इगन्त-काल-कपाल-भगाल-शरावेषु द्विगौ># । । PS_६,२.२९ । ।



_____Sठाऱ्ठ्JKव्_६,२.२९ः

इगन्ते उत्तरपदे, कालवाचिनि, कपाल भगाल शराव इत्येतेषु च द्विगौ समासे पूर्वपदं प्रकृतिस्वरं भवति ।
इगन्त - पञ्चारत्निः ।
दशारत्निः ।
पञ्चारत्नयः प्रमाणमस्य, दशारत्नयः प्रमाणमस्य इति तद्धितार्थे द्विगुः, प्रमाणे लः द्विगोर्नित्यं इति मात्रचो लोपः ।
इगन्त ।
काल - पञ्चमास्यः ।
दशमास्यः ।
पञ्च मासान्भृतो भूतो भावी वा इति तद्धितार्थे द्विगोर्यप्(*५,१.८२) ।
पञ्चवर्षः ।
दशवर्षः ।
वर्षाल्लुक्च (*५,१.८८) इति ठञो लुक् ।
काल ।
कपाल - पञ्चकपालः ।
दशकपालः ।
कपाल ।
भगाल - पञ्चभगालः ।
दशभगालः ।
भगाल ।
शराव - पञ्चशरावः ।
दशशरावः ।
संस्कृतं भक्षाः (*४,२.१६) इति तद्धितार्थे एते समासाः द्विगोर्लुगनपत्ये (*४,१.८८) इति कृताण्प्रत्ययलोपा द्रष्टव्याः ।
इगन्तादिषु इति किं ? पञ्चभिरश्वैः क्रीतः पञ्चाश्वः ।
दशाश्वः ।
द्विगौ इति किं ? परमारत्निः ।
परमशरावं ।
पञ्चारत्न्यो दशारत्न्यः इति च यण्गुणयोः बहिरङ्गलक्षणयोरसिद्धत्वात्स्थानिवद्भावाद्वा द्विगुस्वर इगन्तलक्षणः प्रवर्तते । ।


____________________________________________________________________


  1. <बह्व्-अन्यतरस्याम्># । । PS_६,२.३० । ।



_____Sठाऱ्ठ्JKव्_६,२.३०ः

बहुशब्दः पूर्वपदं इगन्तादिषु उत्तरपदेषु द्विगौ समासेऽन्यतरस्यां प्रकृतिस्वरं भवति ।
पूर्वेण नित्यं प्राप्ते विकल्पः ।
बह्वरत्निः, बह्वरत्निः ।
भ्ॐआस्यः, बहुमास्यः ।
बहुकपालः, बहुकपालः ।
बहुभगालः, बहुभगालः ।
बहुशरावः, बहुशरावः ।
बहुशब्दोऽन्तोदात्तः, तस्य प्रकृतिस्वरे कृते यत्र यणादेशः तत्र उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (*८,२.४) इत्येष स्वरो भवति । ।


____________________________________________________________________

  1. <दिष्टि-वितस्त्योश्च># । । PS_६,२.३१ । ।



_____Sठाऱ्ठ्JKव्_६,२.३१ः

दिष्टि वितस्ति इत्येतयोरुत्तरपदयोः द्विगौ समासे पूर्वपदं अन्यतरस्यां प्रकृतिस्वरं भवति ।
पञ्चदिष्टिः, पञ्चदिष्टिः ।
पञ्चवितस्तिः, पञ्चवितस्तिः ।
दिष्टिवितस्ती प्रमाणे, तेन अत्र मात्रचो लुक् । ।


____________________________________________________________________


[#६६१]

  1. <सप्तमी सिद्ध-शुष्क-पक्व-बन्धेष्वकालात्># । । PS_६,२.३२ । ।



_____Sठाऱ्ठ्JKव्_६,२.३२ः

सप्तम्यन्तं पूर्वपदं सिद्ध शुष्क पक्व बन्ध इत्येतेषु उत्तरपदेषु रकृतिस्वरं भवति सा चेत्सप्तमी कालान्न भवति ।
सांकश्यसिद्धः, सांकाश्यसिद्धः ।
काम्पिल्यसिद्धः, काम्पिल्यसिद्धः ।
सांकाश्यकाम्पिल्यशब्दौ ण्यप्रत्ययान्तौ अन्तोदात्तौ ।
फिषि तु सांकाश्यकाम्पिल्यनसिक्यदार्वाघाटानां अन्तः पूर्वं वा इति पठ्यते, तत्र पक्षे मध्योदात्तावपि भवतः ।
शुष्क - ऊकशुष्कः ।
निधनशुष्कः ।
ऊकशब्दो बहुलवचनादवतेः कक्प्रत्ययान्तोऽन्तोदात्तः ।
निधनशब्दः निधाञः क्यप्रत्यये मध्योदात्तः ।
पक्व - कुम्भीपक्वः ।
कलसीपक्वः ।
भ्राष्ट्रपक्वः ।
कुम्भीकलसीशब्दौ ङीषन्तावन्तोदात्तौ ।
भ्राष्ट्रशब्दः ष्ट्रन्प्रत्ययान्तः आद्युदात्तः ।
बन्ध - चक्रबन्धः ।
चारकबन्धः ।
चक्रशब्दोऽन्तोदात्तः ।
चारकशब्दो ण्वलन्त आद्युदात्तः ।
अकालातिति किं ? पूर्वाह्णसिद्धः ।
अपराह्णसिद्धः ।
सप्तमीस्वरः कृत्स्वरेण बाधितः पुनरयं विधीयते । ।


____________________________________________________________________


  1. <परि-प्रत्य्-उप-अपा वर्ज्यमान-अहोरात्र-अवयवेषु># । । PS_६,२.३३ । ।



_____Sठाऱ्ठ्JKव्_६,२.३३ः

परि प्रति उप अप इत्येते पूर्वपदभूता वर्ज्यमानवाचिनि अहरवयववाचिनि रात्र्यवयववाचिनि च+उत्तरपदे प्रकृतिस्वरा भवन्ति ।
परित्रिगर्तं वृष्टो देवः ।
परिसौवीरं ।
परिसार्वसेनि ।
प्रति - प्रतिपूर्वाह्णं ।
प्रत्यपराह्णं ।
प्रतिपूर्वरात्रं ।
प्रत्यपररात्रं ।
उप - उपपूर्वाह्णं ।
उपापराह्णं ।
उपपूर्वरात्रं ।
उपापररात्रं ।
अप - अपत्रिगर्तं वृष्टो देवः ।
अपसौवीरं ।
अपसार्वसेनि ।
निपाता आद्युदात्ता उपसर्गाश्च अभिवर्जं इति आद्युदात्तानि पूर्वपदानि ।
तत्पुरुषे बहुव्रीहौ च सिद्धत्वातव्ययईभावार्थोऽयं आरम्भः ।
तत्र अपपरीवर्जने वर्तेते, इति तयोरेव वर्ज्यमानं उत्तरपदं, नेतरयोः ।
अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्ति इति न पृथगुदाह्रियते ।
वर्ज्यमानाहोरात्रावयवेषु इति किं ? प्रत्यग्नि शलभाः पतन्ति ।
परिवनं इत्यत्र वनं समासे (*६,२.१७८) इत्येतद्भवति । ।


____________________________________________________________________

  1. <राजन्य-बहुवचन-द्वन्द्वेऽन्धक-वृष्णिषु># । । PS_६,२.३४ । ।



_____Sठाऱ्ठ्JKव्_६,२.३४ः

राजन्यवाचिनां बहुवचनान्तानां यो द्वन्द्वोऽन्धकवृष्णिषु वर्तते तत्र पूर्वपदं प्रकृतिस्वरं भवति ।
श्वाफल्कचैत्रकाः ।
चैत्रकरोधकाः ।
शिनिवासुदेवाः ।
श्वाफल्कशब्दः चैत्रकशब्दश्च ऋष्यन्धकवृष्णिकुरुभ्यश्च (*४,१.११४) इति अणन्तावन्तोदात्तौ ।
शिनिशब्द आद्युदात्तः, स तदपत्येष्वभेदेन वर्तते ।
राजन्य इति किं ? द्वैप्यहैमायनाः ।
द्वीपे भवाः इति द्वीपादनुसमुद्रं यञ्(*४,३.१०) ।
हैमेरपत्यं युवा हैमायनः ।
अन्धकवृष्णय एते न तु राजन्याः ।
राजन्यग्रहणं इह अभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थं ।
एते च न अभिषिक्तवंश्याः ।
बहुवचनग्रहणं किं ? सङ्कर्षणवासुदेवौ ।
द्वन्द्वे इति किं ? वृष्णीनां कुमाराः वृष्णिकुमाराः ।
अन्धकवृष्णिषु इति किं ? कुरुपञ्चालाः । ।


____________________________________________________________________


[#६६२]

  1. <सङ्ख्या># । । PS_६,२.३५ । ।



_____Sठाऱ्ठ्JKव्_६,२.३५ः

द्वन्द्वसमासे सङ्ख्यावाचि पूर्वपदं प्रकृतिस्वरं भवति ।
एकादश ।
द्वादश ।
त्रयोदश, त्रयोदश ।
इण्भीकापाशल्यतिमर्चिभ्यः कनिति नित्त्वादाद्युदात्त एकशब्दः ।
त्रेस्त्रयसदेशोऽन्तोदात्तो निपात्यते । ।


____________________________________________________________________


  1. <आचार्य-उपसर्जनश्च अन्तेवासी># । । PS_६,२.३६ । ।



_____Sठाऱ्ठ्JKव्_६,२.३६ः

आचार्योपसर्जनान्तेवासिनां यो द्वन्द्वः, तत्र पूर्वपदं प्रकृतिस्वरं भवति ।
आपिशलपाणिनीयाः ।
पाणिनीयरौढीयाः ।
रौढीयकाशकृत्स्नाः ।
अपिशलस्यापत्यमापिशलिराचर्यः, अत इञ्(*४,१.९५) ।
तेन प्रोक्तं आपिशलम्, इञश्च (*४,२.११२) इत्यण् ।
तदधीयते येऽन्तेवासिनः तेऽप्यापिशलाः, प्रोक्ताल्लुक्(*४,२.६४) इति तस्य तद्धितस्याध्येतरि विहितस्य लुक्क्रियते ।
आपिशलेर्वा छात्राः आपिशलाः, इत्युभयथाप्याचर्योपसर्जनश्चान्तेवासी भवति ।
आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणार्थम्, सकलो द्वन्द्वः आचार्योपसर्जनो यथा विज्ञायेत ।
इह मा भूत्, पाणिनियदेवदत्तौ ।
आचार्योपसर्जने इति किं ? छान्दसवैयाकरणाः ।
अन्तेवासी इति किं ? आपिशलपाणिनीये शास्त्रे । ।


____________________________________________________________________


  1. <कार्त-कौजप-आदयश्च># । । PS_६,२.३७ । ।



_____Sठाऱ्ठ्JKव्_६,२.३७ः

कार्तकौजपादयो ये द्वन्द्वाः तेषु पूर्वपदं प्रकृतिस्वरं भवति ।
प्रकृतिस्वरपूर्वपदाः कार्तकौजपादयो भवन्ति ।
विभक्त्यन्तानां पाठो वचनविवक्षार्थः ।
चकारो द्वन्द्वाधिकारानुवृत्त्यर्थः ।
कार्तकौजपौ ।
कृतस्य अपत्यं, कुजपस्य अपत्यं इत्यणन्तावेतौ ।
सावर्णिमाण्डूकेयौ ।
सावर्णिरिञन्तः ।
अवन्त्यश्मकाः ।
अवन्तेरपत्यानि वहूनि, तन्निवासो जनपदोऽवन्तयः ।
तथा अश्मकाः ।
पैलश्यापर्णेयाः ।
युवद्वन्द्वोऽयं ।
पीलायाः अपत्यं पैलः, तस्य अपत्यं युवा इति अणो द्व्यचः (*४,१.१५६) इति विहितस्य फिञः पैलादिभ्यश्च (*२,४.५९) इति लुक् ।
श्यापर्णशब्दो बिदादिः, तस्य अपत्यं स्त्री श्यापर्णी, तदपत्यं युवा श्यापर्णेयः ।
बहुवचनमतन्त्रम्, तेन पैलश्यापर्णेयौ इत्यत्र अपि भवति ।
कपिश्यापर्णेयाः ।
कपिरन्तोदात्तः, तस्य अपत्यं बहुत्वे कपि-बोध-अङ्गिरसे (*४,१.१०७) इति उत्पन्नस्य यञः यञञोश्च इति लुक्, तेन अत्र बहुत्वं आश्रीयत एव ।

[#६६३]

शैतिकाक्षपाञ्चालेयाः ।
शितिकाक्षो नाम ऋषिः, तस्य अपत्यं इति ऋष्यण्, तदपत्ये यूनि य इञ्तस्य ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (*२,४.५८) इति लुक् ।
पाञ्चालस्य अपत्यं स्त्री पाञ्चाली, तदपत्यं युवा पाञ्चालेयः ।
अत्र अपि बहुवचनं अविवक्षितं इति शैतिकाक्षपञ्चालेयौ इत्यत्र अपि भवति ।
कटुकवार्चलेयाः ।
कटुकस्य अपत्यं इति अत इञ्(*४,१.९५), तस्य बह्वच इञः प्राच्यभरतेषु (*२,४.६६) इति बहुषु लुक् ।
वर्चलायाः अपत्यं वार्चलेयः ।
शाकलशुनकाः ।
शकलस्य अपत्यं शाकल्यः, तस्य छात्राः शाकलाः ।
कण्वादिभ्यो गोत्रे (*४,२.१११) इत्यण् ।
शुनकस्य अपतयं इति बिदादिभ्योऽञ्(*४,१.१०४), तस्य बहुषु लुक् ।
शाकलशणकाः इति केचित्पठन्ति ।
तेषां शणकशबादुत्पन्नस्य इञः बह्वच इञः प्राच्यभरतेषु (*२,४.६६) इति बहुषु लुक् ।
शुनकधात्रेयाः ।
धात्र्या अपत्यं धात्रेयः ।
शणकबाभ्रवाः ।
बभ्रोरपत्यं बाभ्रवः ।
आर्चाभिमौद्गलाः ।
ऋचाभेन प्रोक्तं अधीयते आर्चाभिनः ।
वैशम्पायनान्तेवासित्वात्णिनिः ।
मुद्गलः कण्वादिः, तदपत्यस्य छात्रा मौद्गलाः ।
कुन्तिसुराष्ट्राः ।
कुन्तेः सुराष्ट्रस्य च अपत्येषु बहुषु तन्निवासे वा जनपदे द्वन्द्वोऽयं ।
कुन्तिचिन्तिशब्दौ अन्तोदात्तौ ।
चिन्तिसुराष्ट्राः कुन्तिसुराष्ट्रवथ् ।
तण्डवतण्डाः ।
पचाद्यच्प्रत्ययान्तौ अन्तोदात्तौ एतौ गर्गादिषु पठ्येते ।
तत्र अपत्यबहुत्वे यञो लुक्क्रियते ।
गर्गवत्साः ।
अत्र अपि अपत्येषु बहुषु इञः बह्वच इञः प्राच्यभरतेषु (*२,४.६६) इति लुक्क्रियते ।
बाभ्रवशालङ्कायनाः ।
बभ्रोरपत्यं बाभ्रवः ।
शलङ्कु शलङ्कं च इति शालङ्कायनः ।
बाभ्रवदानच्युताः ।
दानच्युतशब्दातिञः बह्वचः इति लुक् ।
कठकालापाः ।
कठेन प्रोक्तं अधीयते कठाः, वैशम्पायनान्तेवासित्वात्णिनिः, तस्य कठचरकाल्लुक् ।
कलापिना प्रोक्तमधीयते कालापाः ।
कलापिनोऽण्(*४,३.१०८) इत्यण्प्रत्ययः, तस्मिनिनण्यनपत्ये (*६,४.१६४) इति प्रकृतिभावे प्राप्ते न अन्तस्य टिलोपे सब्रह्मचारिपीठसर्पि इत्यादिनोपसङ्ख्यानेन टिलोपः ।
कठकौथुमाः ।
कुथुमिना प्रोक्तमधीयते इति प्राग्दीव्यतोऽण्(*४,१.८३), तस्य पूर्ववत्टिलोपः ।
कौथुमलौकाक्षाः ।
लोकाक्षेण प्रोक्तं अधीयते लौकाक्षाः ।
लोकाक्षस्य वा अपत्यं लौकाक्षिः, तस्य छात्राः लौकाक्षाः ।
स्त्रीकुमारं ।
स्त्रीशब्दोऽन्तोदात्तः ।
मौदपैप्पलादाः ।
मुदस्य अपत्यं मौदिः ।
तस्य छात्रा मौदाः ।
तथा पैप्पलादाः ।
मौदपैप्पलादाः इति द्विः पठ्यते, तस्य प्रयोजनं पक्षे समासान्तोदात्तत्वं एव यथा स्यादिति ।
वत्सजरथ् ।
वत्सश्च जरच्च ।
वत्सशब्दोऽन्तोदात्तः ।
सौश्रुतपार्थवाः ।
सुश्रुतस्य पृथोश्च छात्राः, प्राग्दीव्यतोऽण्(*४,१.८३) ।
जरामृत्यू ।
याज्यानुवाक्ये ।
यजेर्ण्यत्, यजयाचरुचप्रवचर्चश्च (*७,३.६६) इति कुत्वाभावः ।
तत्स्वरितं (*६,१.१८५) इत्यन्तस्वरितः ।
अनुवाक्या इति वचेरनुपूर्वात्ण्यथ् ।
आचार्योपसर्जनान्तेवासिनां इह पाठः प्रप्ञ्चार्थः । ।


____________________________________________________________________


[#६६४]

  1. <महान्व्रीह्य्-अपराह्ण-गृष्टि-इष्वास-जाबाल-भार-भारत-हैलिहिल-रौरव-प्रवृद्धेषु># । । PS_६,२.३८ । ।



_____Sठाऱ्ठ्JKव्_६,२.३८ः

प्रकृत्या पूर्वपदं इति वर्तते, द्वन्द्वे इति निवृत्तं ।
महानित्येतत्पूर्वपदं व्रीहि अपराह्ण गृष्टि इष्वास जाबाल भार भारत हैलिहिल लौरव प्रवृद्ध इत्येतेषु उत्तरपदेषु प्रकृतिस्वरं भवति ।
महव्रीहिः ।
महापराह्णः ।
महागृष्टिः ।
महेष्वासः ।
महाजाबालः ।
महाभारः ।
महाभारतः ।
महाहैलिहिलः ।
महारौरवः ।
महाप्रवृद्धः ।
महच्छब्दोऽन्तोदात्तः, तस्य रतिपदोक्तो यः समासः सन्महत्परमोत्कृष्टाः पूज्यमानैः (*२,१.६१) इति तत्र+एष स्वरः ।
तेन+एषां षष्ठीसमासोऽन्तोदात्त एव भवति, महतो व्रीहिः महद्व्रीहिः इति ।
कर्मधारयेऽनिष्ठा (*६,२.४६) इत्ययं अपि श्रेण्यादिसमासे विधिः इति प्रवृद्धशब्दः इह पठ्यते । ।


____________________________________________________________________


  1. <क्षुल्लकश्च वैश्वदेवे># । । PS_६,२.३९ । ।



_____Sठाऱ्ठ्JKव्_६,२.३९ः
क्षुल्लक इत्येतत्पूर्वपदं महांश्च वैश्वदेवे उत्तरपदे प्रकृतिस्वरं भवति ।
क्षुल्लकवैश्वदेवं ।
महावैश्वदेवं क्षुधं लाति इति क्षुल्लः ।
तस्मादज्ञातादिसु प्रगिवात्केऽन्तोदात्तः क्षुल्लकशब्दः । ।


____________________________________________________________________


  1. <उष्ट्रः सादि-वाम्योः># । । PS_६,२.४० । ।



_____Sठाऱ्ठ्JKव्_६,२.४०ः

उष्ट्रशब्दः पूर्वपदं सादिवाम्योरुत्तरपदयोः प्रकृतिस्वरं भवति ।
उष्ट्रसादि ।
उष्ट्रवामि ।
उष्ट्रशब्द उषेः ष्ट्रन्प्रत्ययान्तः आद्युदात्तः ।
कर्मधारयोऽयं षष्ठीसमासो वा । ।


____________________________________________________________________


  1. <गौः साद-सादि-सारथिषु># । । PS_६,२.४१ । ।



_____Sठाऱ्ठ्JKव्_६,२.४१ः

गोशब्दः पूर्वपदं साद सादि सारथि इत्येतेषु उत्तरपदेषु प्रकृतिस्वरं भवति ।
गोः सादः गोसादः ।
गां सादयति इति वा गोसादः ।
गोः सादिः गोसादिः ।
गोसारथिः । ।


____________________________________________________________________

[#६६५]

  1. <कुरुगार्हपत-रिक्तगुर्व्-असूतजरत्य्-अश्लीलदृढरूपा-पारेवडवा-तैतिलकद्रू-पण्यकम्बलो दासीभाराणां च># । । PS_६,२.४२ । ।



_____Sठाऱ्ठ्JKव्_६,२.४२ः

कुरुगार्हपत रिक्तगुरु असूतजरती अश्लीलदृढरूपा-पारेवडवा तैतिलकद्रू पण्यकम्बल इत्येते समासाः, तेषां दासीभारादीनां च पूर्वपदं प्रकृतिस्वरं भवति ।
कुरूणां गार्हपतं कुरुगार्हपतं ।
कृग्रोरुच्च इति कुरुशब्दः कुप्रत्ययान्तोऽन्तोदात्तः ।
कुरुवृज्योर्गार्हपत इति वक्तव्यं ।
वृजीनां गार्हपतं वृजिगार्हपतं ।
वृजिशब्द आद्युदात्तः ।
रिक्तो गुरुः रिक्तगुरुः, रिक्तगुरुः ।
रिक्ते विभाषा (*६,१.२०८) इति पूर्वपदं आद्युदात्तं अन्तोदत्तं वा ।
असूता जरती असूतजरती ।
अश्लीला दृढरूपा अश्लीलदृढरूपा ।
अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः ।
श्रीः यस्य अस्ति तत्श्लीलं ।
सिध्मादेराकृतिगणत्वाल्लछ् ।
कपिलकादित्वाच्च लत्वं ।
अश्लीलदृढरूपा इति हि संस्थानमात्रेण शोभना निःश्रीका लावण्यविरहिता उच्यते ।
पारे वडवा इव पारेवडवा ।
निपातनादिवार्थे समासो विभक्त्यलोपश्च ।
पारशदो घृतादित्वादन्तोदात्तः ।
तैतिलानां कद्रूः तैतिलकद्रूः ।
तितिलिनोऽपत्यं छात्रो वा तैतिलः इत्यणन्तः ।
पण्यकम्बलः ।
पण्यशब्दो यदन्तत्वादाद्युदात्तः ।
पण्यकम्बलः सञ्ज्ञायां इति वक्तव्यं ।
अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्त्वं एव ।
प्रतिपदोक्ते हि कृत्यानां समासे द्वितीया दृत्या इत्येष विहितः स्वरितः ।
दास्या भारः दासीभारः ।
देवहूतिः ।
देवजूतिः ।
देवसूतिः ।
देवनीतिः ।
अन्तोदात्तं पूर्वपदं ।
वसुनीतिः ।
वसुशदः आद्युदात्तः ।
श्éस्वृस्निहित्रप्यसिवसि इत्यत्र धान्ये नितिति वर्तते ।
ओषधिः ।
ओषो धीयतेऽस्यां इति कर्मण्यधिकरणे च (*३,३.९३) इति किप्रत्ययः ।
ओषशब्दो घञन्तत्वादाद्युदात्तः ।
चन्द्रमाः ।
चन्द्रे मो डितिति असिप्रत्ययान्तोऽयं ।
चन्द्रशब्दस्तु रक्प्रत्यान्तत्वादन्तोदात्तः ।
यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वं इष्यते, न च विहितं, स सर्वो दासीभारादिसु द्रष्टव्यः । ।


____________________________________________________________________


  1. <चतुर्थी तदर्थे># । । PS_६,२.४३ । ।



_____Sठाऱ्ठ्JKव्_६,२.४३ः

चतुर्थ्यन्तं पूर्वपदं तदर्थे उत्तरपदे तदभिधेयार्थं यत्तद्वाचिन्युत्तरपदे प्रकृतिस्वरं भवति ।
ततिति चतुर्थ्यन्तस्य अर्थः परामृश्यते ।
यूपदारु ।
कुण्डलहिरण्यं ।
यूपशब्द आद्युदात्तः ।
कुसुयुभ्यश्च इत्यत्र नितिति वर्तते ।
कुन्डलशब्दोऽपि वृषादिभ्यश्चितिति कलप्रत्ययान्तोऽन्तोदात्तः ।
रथदारु ।
वल्लीहिरण्यं ।
रथशब्द आद्युदात्तः ।

[#६६६]

हनिकुषिनीरमिकाशिभ्यः क्थनित्यादिना क्थन्प्रत्ययः ।
वल्लीशब्दो ङीषः स्वरेण अन्तोदात्तः ।
तदर्थे इति किं ? कुबेरबलिः ।
प्रकृतिविकारभावे स्वरोऽयं इष्यते । ।

____________________________________________________________________


  1. <अर्थे># । । PS_६,२.४४ । ।



_____Sठाऱ्ठ्JKव्_६,२.४४ः

चतुर्थी इति वर्तते ।
अर्थशब्दे उत्तरपदे चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवति ।
मात्रे इदं मात्रर्थं ।
पित्रर्थं ।
देवतार्थं ।
अतिथ्यर्थं ।
मातृपितृशब्दावन्तोदात्तावुणादिषु निपातितौ ।
देवताशब्दो लित्स्वरेण मध्योदात्तः ।
अतिथिः इति अतेरिथिनिति इथिन्प्रत्ययान्तः ।
तदर्थविशेषा एव दारुहिरण्यादयो भवन्ति, न त्वर्थशब्दवाच्यं सामान्यं इत्यतदर्थार्थोऽयं आरम्भः ।
केचित्पुनराहुः ज्ञापकार्थं इदं ।
एतदनेन ज्ञाप्यते, पूर्वो विधिः प्रकृतिविकृत्योः समासे भवति ।
अश्वघासः, श्वश्रूसुरं इत्यत्र सत्यपि तादर्थ्ये न भवति । ।


____________________________________________________________________


  1. <क्ते च># । । PS_६,२.४५ । ।



_____Sठाऱ्ठ्JKव्_६,२.४५ः

क्तान्ते च+उत्तरपदे चतुर्थ्यन्तं प्रकृतिस्वरं भवति ।
गोहितं ।
अश्वहितं ।
मनुष्यहितं ।
गोरक्षितं ।
अश्वरक्षितं ।
वनं तापसरक्षितं ।
अश्वशब्द आद्युदात्तः ।
मनुष्यशब्दोऽन्तस्वरितः ।
परिशिष्ट - पूर्वपदमन्तोदात्तं ।
गोभ्यो रक्षितं इति सम्प्रदाने चतुर्थी । ।


____________________________________________________________________


  1. <कर्मधारयेऽनिष्ठा># । । PS_६,२.४६ । ।



_____Sठाऱ्ठ्JKव्_६,२.४६ः

कर्मधार्ये समासे क्तान्ते उत्तरपदेऽनिष्ठान्तं पूर्वपदं प्रकृतिस्वरं भवति ।
श्रेणिकृताः ।
ऊककृताः ।
पूगकृताः ।
निधनकृताः ।
श्रेणिशब्द आद्युदात्तः ।
ऊकपूगशब्दावन्तोदात्तौ ।
निधनशब्दोऽयं मध्योदात्तः ।
कर्मधारये इति किं ? श्रेण्या कृतं श्रेणिकृतं ।
अनिष्ठा इति किं ? कृताकृतं । ।


____________________________________________________________________


  1. <अहीने द्वितीया># । । PS_६,२.४७ । ।



_____Sठाऱ्ठ्JKव्_६,२.४७ः

अहीनवाचिनि समासे क्तान्ते उत्तरपदे द्वितीयान्तं पूर्वपदं प्रकृतिस्वरं भवति ।
कष्टश्रितः ।
त्रिशकलपतितः ।
ग्रामगतः ।
कष्टशब्दोऽन्तोदात्तः ।
त्रीणि शकलानि अस्य त्रिशकलः, बहुव्रीहिस्वरेण आद्युदात्तः ।
ग्रामशब्दो नित्स्वरेण आद्युदात्तः ।
अहीने इति किं ? कान्तारातीतः ।
योजनातीतः ।
द्वितीयाऽनुपसर्गे इति वक्तव्यं ।
इह मा भूत्, सुखप्राप्तः ।
दुःखप्राप्तः ।
सुखापन्नः ।
दुःखापन्नः ।
अन्तः थाथेत्यस्य अपवादोऽयं । ।


____________________________________________________________________


[#६६७]

  1. <तृतीया कर्मणि># । । PS_६,२.४८ । ।



_____Sठाऱ्ठ्JKव्_६,२.४८ः

कर्मवाचिनि क्तान्ते उत्तरपदे तृतीयान्तं पूर्वपदं प्रकृतिस्वरं भवति ।
अहिहतः, अहिहतः ।
वज्रहतः ।
महाराजहतः ।
नखनिर्भिन्ना ।
दात्रलूना ।
आङि श्रिहनिभ्यां ह्रस्वश्च इति अहिरन्तोदात्तो व्युत्पादितः ।
केचिदाद्युदात्तं इच्छन्ति ।
वज्रो रक्प्रत्ययान्तः ।
महाराजश्टच्प्रत्ययान्तः ।
नास्य खमस्तीति बहुव्रीहौ नकुलनखेति नखशब्दो निपातितः ।
तेन नञ्सुभ्यां (*६,२.१७२) इत्यन्तोदात्तः ।
दात्रशब्दो दाम्नीशस इति ष्ट्रन्प्रत्ययान्तः ।
कर्मणि इति किं ? रथेन यातः रथयातः ।
गत्यर्थत्वात्कर्तरि क्तः । ।

____________________________________________________________________


  1. <गतिरनन्तरः># । । PS_६,२.४९ । ।



_____Sठाऱ्ठ्JKव्_६,२.४९ः

क्ते कर्मणि इति वर्तते ।
कर्मवाचिनि क्तान्ते उत्तरपदे गतिरनन्तरः पूर्वपदं प्रकृतिस्वरं भवति ।
प्रकृतः ।
प्रहृतः ।
अनन्तरः इति किं ? अभ्युद्धृतः ।
समुद्धृतः ।
समुदाहृतः ।
व्यवहितस्य गतेरयं स्वरो न भवति ।
अनन्तरे पुनरिष्यते ।
कारकपूर्वस्य तु सति शिष्टत्वात्थाथादिस्वर एव भवति दूरादागतः इति ।
अनन्तरग्रहणसामर्थ्यादेव कृद्ग्रहणे गतिकारकपूर्वस्य अपि इत्येतन्न अश्रीयते ।
कर्मणि इत्येव, प्रकृतः कटं देवदत्तः ।
थाथादिस्वरापवादो योगः । ।


____________________________________________________________________


  1. <त-आदौ च निति कृत्य्-अतौ># । । PS_६,२.५० । ।



_____Sठाऱ्ठ्JKव्_६,२.५०ः

तकारादौ च तुशब्दवर्जिते निति कृति परतो गतिरनन्तरः प्रकृतिस्वरो भवति ।
प्रकर्ता ।
प्रकर्तुं ।
प्रकृतिः ।
प्रकर्ता इति तृन्नन्तः ।
कृत्स्वरबाधनार्थं वचनं ।
तादौ इति किं ? प्रजल्पाकः ।
निति इति किं ? प्रकर्ता ।
तृजन्तः ।
कृद्ग्रहणं उपदेशे ताद्यर्थं ।
इह अपि यथा स्यात्, प्रलपिता ।
प्रलपितुं ।
अतौ इति किं ? आगन्तुः । ।


____________________________________________________________________


  1. <तवै च अन्तश्च युगपत्># । । PS_६,२.५१ । ।



_____Sठाऱ्ठ्JKव्_६,२.५१ः

तवैप्रत्ययस्य अन्त उदात्तो भवति गतिश्च अनन्तरः प्रकृतिस्वरः इति एतदुभयं युगपद्भवति ।
अन्वेतवै ।
परिस्तरितवै ।
परिपातवै ।
तस्मादग्निचिन्न अभिचरितवै ।
उपसर्गा आद्युदात्ता अभिवर्जं इत्यभिरन्तोदात्तः ।
कृत्स्वरापवादो योगः । ।


____________________________________________________________________


  1. <अनिगन्तोऽञ्चतौ वप्रत्यये># । । PS_६,२.५२ । ।



_____Sठाऱ्ठ्JKव्_६,२.५२ः

अनिगन्तो गतिः प्रकृतिस्वरो भवति अञ्चतौ वप्रत्यये परतः ।
प्राङ्, प्राञ्चौ, प्राञ्चः ।
प्राङ्, प्राञ्चौ, प्राञ्चः ।
स्वरितो वा+अनुदात्ते पदादौ (*८,२.६) इत्ययं एकादेशः उदात्तः स्वरितो वा ।
[#६६८]

पराङ्, पराञ्चौ, पराञ्चः ।
अनिगन्तः इति किं ? प्रत्यङ्, प्रत्यञ्चौ, प्रत्यञ्चः ।
कृदुत्तरपदप्रकृतिस्वर इह भवति ।
वप्रत्यये इति किं ? उदञ्चनः ।
चोरनिगन्तोऽञ्चतौ वप्रत्ययः इत्येव स्वरो भवति वप्रतिषेधेन ।
पराचः ।
पराचा । ।


____________________________________________________________________


  1. <न्य्-अधी च># । । PS_६,२.५३ । ।



_____Sठाऱ्ठ्JKव्_६,२.५३ः

नि अधि इत्येतौ चाञ्चतौ वप्रत्यये परतः प्रकृतिस्वरौ भवतः ।
न्यङ्, न्यञ्चौ, न्यञ्चः ।
उदात्तस्वरितयोर्यनः स्वरितोऽनुदात्तस्य (*८,२.४) इत्यञ्चतेरकारः स्वरितः ।
अध्यङ्, अध्यञ्चौ, अध्यञ्चः ।
अधीचः ।
अधीचा । ।


____________________________________________________________________


  1. <ईषदन्यतरस्याम्># । । PS_६,२.५४ । ।



_____Sठाऱ्ठ्JKव्_६,२.५४ः

ईषतित्येतत्पूर्वपदं अन्यतरस्यां प्रक्र्तिस्वरं भवति ।
ईषत्कडारः, ईषत्कडारः ।
ईषत्पिङ्गलः, ईषत्पिङ्गलः ।
ईषतित्ययं अन्तोदात्तः ।
ईषद्भेदः इत्येवं आदौ कृत्स्वर एव भवति । ।


____________________________________________________________________


  1. <हिरण्यपरिमाणं धने># । । PS_६,२.५५ । ।



_____Sठाऱ्ठ्JKव्_६,२.५५ः

हिरण्यपरिमाणवाचि पूर्वपदं धनशब्दे उत्तरपदेऽन्यतरस्यां प्रक्र्तिस्वरं भवति ।
द्विसुवर्णधनम्, द्विसुवर्णधनं ।
द्वौ सुवर्णौ परिमाणं अस्य द्विसुवर्णम्, तदेव धनं इति कर्मधारयः ।
बहुव्रीहावपि परत्वाद्विकल्प एव भवति ।
द्विसुवर्नधनः, द्विसुवर्णधनः ।
हिरण्यग्रहणं किं ? प्रस्थधनं ।
परिमाणग्रहणं किं ? काञ्चनधनं ।
धने इति किं ? निष्कमाला । ।


____________________________________________________________________


  1. <प्रथमोऽचिर-उपसम्पत्तौ># । । PS_६,२.५६ । ।



_____Sठाऱ्ठ्JKव्_६,२.५६ः

प्रथमशब्दः पूर्वपदं अचिरोपसम्पत्तौ गम्यमानायां अन्यतरस्यां प्रक्र्तिस्वरं भवति ।
अचिरोपसम्पत्तिः अचिरोपश्लेषः, अभिनवत्वं ।
प्रथ्मवैयाकरणः, प्रथमवैयाकरणः ।
अभिनववैयाकरणः, सम्प्रति व्याकरणं अध्येतुं प्रवृत्तः इत्यर्थः ।
प्रथमशब्दः प्रथेरमचिति चित्त्वादन्तोदात्तः ।
अचिरोपसम्पत्तौ इति किं ? प्रथमवैयाकरणः ।
वैयाकरणानामाद्यो मुख्यो वा यः स नित्योऽन्तोदात्तः एव । ।

____________________________________________________________________


[#६६९]

  1. <कतर-कतमौ कर्मधारये># । । PS_६,२.५७ । ।



_____Sठाऱ्ठ्JKव्_६,२.५७ः

कतरशब्दः कतमशदश्च पूर्वपदं कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति ।
कतरकठः, कतरकठः ।
कतमकठः, कतमकठः ।
कर्मधारयग्रहणं उत्तरार्थं इह तु प्रतिपदोक्तत्वादेव सिद्धं । ।


____________________________________________________________________


  1. <आर्यो ब्राह्मण-कुमारयोः># । । PS_६,२.५८ । ।



_____Sठाऱ्ठ्JKव्_६,२.५८ः

आर्यशब्दः पूर्वपदं ब्रह्मणकुमारयोः कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति ।
आर्यब्रह्मणः, आर्यब्राह्मणः ।
आर्यकुमारः, आर्यकुमारः ।
आर्यशब्दः ण्यदन्तोऽन्तस्वरितः ।
आर्यः इति किं ? परमब्रह्मणः ।
परमकुमारः ।
ब्रह्मणकुमारयोः इति किं ? आर्यक्षत्रियः ।
कर्मधारये इत्येव, आर्यस्य ब्राह्मणः आर्यब्राह्मणः । ।


____________________________________________________________________

  1. <राजा च># । । PS_६,२.५९ । ।


_____Sठाऱ्ठ्JKव्_६,२.५९ः

राजा च पूर्वपदं ब्राह्मणकुमारयोः उत्तरपदयोः कर्मधारये समासे अन्यतरस्यां प्रक्र्तिस्वरं भवति ।
राजब्राह्मणः, राजब्राह्मणः ।
राजकुमारः, राजकुमारः ।
कर्मधारये इत्येव, राज्ञो ब्राह्मणः राजब्रहमणः ।
राजकुमारः ।
पृथग्योगकरणं उत्तरार्थं । ।


____________________________________________________________________


  1. <षष्ठी प्रत्येनसि># । । PS_६,२.६० । ।



_____Sठाऱ्ठ्JKव्_६,२.६०ः

राजा इति वर्तते, अन्यतरस्यां इति च ।
षष्ठ्यन्तो राजशब्दः पूर्वपदं प्रत्येनसि उत्तरपदेऽन्यतरस्यां प्रकृतिस्वरं भवति ।
राज्ञः प्रत्येनाः राजप्रत्येनाः, राजप्रत्येनाः ।
षष्ठी इति किं ? राजा चासौ प्रत्येनाश्च राजप्रत्येनाः । ।


____________________________________________________________________


  1. <क्ते नित्य-अर्थे># । । PS_६,२.६१ । ।



_____Sठाऱ्ठ्JKव्_६,२.६१ः

क्तान्ते उत्तरपदे नित्यार्थे समासे पूर्वपदं अन्यतरस्यां प्रक्र्तिस्वरं भवति ।
नित्यप्रहसितः, नित्यप्रहसितः ।
सततप्रहसितः, सततप्रहसितः ।
कालाः इति द्वितीयासमासोऽयं ।
नित्यशब्दः त्यब्नेर्घ्रुवे इति त्यबन्तः आद्युदात्तः ।
सतत इति यदा भावे क्तः तदा थाथादिस्वरेण अन्तोदात्तः ।
नित्यार्थे इति किं ? मुहूर्तप्रहसितः । ।


____________________________________________________________________


  1. <ग्रामः शिल्पिनि># । । PS_६,२.६२ । ।



_____Sठाऱ्ठ्JKव्_६,२.६२ः

ग्रामशब्दः पूर्वपदं शिल्पिवाचिन्युत्तरपदेऽन्यत्रस्यां प्रकृतिस्वरं भवति ।
ग्रामनापितः, ग्रामनापितः ।
ग्रामकुलालः, ग्रामकुलालः ।
ग्रामशब्दः आद्युदात्तः ।
ग्रामः इति किं ? परमनापितः ।
शिल्पिनि इति किं ? ग्रामरथ्या । ।


____________________________________________________________________


[#६७०]

  1. <राजा च प्रशंसायाम्># । । PS_६,२.६३ । ।



_____Sठाऱ्ठ्JKव्_६,२.६३ः

राजशब्दः पूर्वपदं शिलिवाचिनि उत्तरपदे प्रशंसायां गम्यमानायां अन्यतरस्यां प्रक्र्तिस्वरं भवति ।
राजनापितः, राजनापितः ।
राजकुलालः, राजकुलालः ।
कर्मधारये राजगुणाध्यरोपेणोत्तरपदार्थस्य प्रशंसा ।
षष्ठीसमासे च राजयोग्यतया तस्य ।
राजा इति किं ? परमनापितः ।
प्रशंसायां इति किं ? राजनापितः ।
शिल्पिनि इत्येव, राजहस्ती । ।

____________________________________________________________________


  1. <आदिरुदात्तः># । । PS_६,२.६४ । ।



_____Sठाऱ्ठ्JKव्_६,२.६४ः

आदिरुदात्तः इत्येतदधिकृतं ।
इत उत्तरं यद्वक्ष्यामः तत्र पूर्वपदस्य आदिरुदात्तो भवति इत्येवं तद्वेदितव्यं ।
वक्ष्यति - सप्तमीहारिणौ धर्म्येऽहरणे (*६,२.६५) इति ।
स्तूपेशाणः ।
सुकुटेकार्षापणं ।
याज्ञिकाश्वः ।
वैयाकरणहस्ती ।
दृषदिमाषकः ।
आदिरिति प्रागन्ताधिकाराथ् ।
उदात्तः इति प्रकृत्या भगालं (*६,२.१३७) इति यावत् । ।


____________________________________________________________________


  1. <सप्तमीहारिणौ धर्म्येऽहरणे># । । PS_६,२.६५ । ।



_____Sठाऱ्ठ्JKव्_६,२.६५ः

सप्तम्यन्तं हारिवाचि च पूर्वपदं धर्म्येवाचिनि हरणशब्दादन्यस्मिन्नुत्तरपदे आद्युदात्तं भवति ।
हारि इति देयं यः स्वीकरोति सोऽभिधीयते ।
धम्र्यं इत्याचारनियतं देयं उच्यते ।
धर्मो हि अनुवृत्त आचारः, तस्मादनपेतं तेन वा प्राप्यं इति ।
स्तूपेशाणः ।
मुकुटेकार्षापणं ।
हलेद्विपदिका ।
हलेत्रिपदिका ।
दृषदिमाषकः ।
सञ्ज्ञायां इति सप्तमीसमासः, कारनाम्नि च इति विभक्तेरलुक् ।
हारिणि - याज्ञिकाश्वः ।
वैयाकरणहस्ती ।
मातुलाश्वः ।
पितृव्यगवः ।
क्वचिदयं आचारो व्यवस्थितः, स्तूपादिषु शाणादि दातव्यम्, याज्ञिकादीनां अश्वादि इति ।
धर्म्ये इति किं ? स्तम्बेरमः ।
कर्मकरवर्धितकः ।
अहरणे इति किं ? वाडवहरणं ।
वडवायाः अयं वाडवः ।
तस्य बीजनिषेकादुत्तरकालं शरीरपूष्ट्यर्थं यद्दीयते हरणं इति तदुच्यते ।
परोऽपि कृत्स्वरो हारिस्वरेण बाध्यते विप्रतिषेधेन इत्येतदहरणे इत्यनेन ज्ञाप्यते, तेन वाडवहार्यं इति हारिस्वरः सिद्धो भवति । ।


____________________________________________________________________


  1. <युक्ते च># । । PS_६,२.६६ । ।



_____Sठाऱ्ठ्JKव्_६,२.६६ः

युक्तवाचिनि च समासे पूर्वपदं आद्युदात्तं भवति ।
गोबल्लवः ।
अश्वबल्लवः ।
गोमणिन्दः ।
अश्वमणिनदः ।
गोसङ्ख्यः ।
अश्वसङ्ख्यः ।
युक्तः इति समाहितः, कर्तव्ये तत्परो यः स उच्यते । ।


____________________________________________________________________


  1. <विभाषा अध्यक्षे># । । PS_६,२.६७ । ।



_____Sठाऱ्ठ्JKव्_६,२.६७ः

अध्यक्षशब्दे उत्तरपदे विभाषा पूर्वपदं आद्युदात्तं भवति ।
गवाद्यक्षः, गवाध्यक्षः ।
अश्वाध्यक्षः, अश्वाध्यक्षः । ।


____________________________________________________________________


[#६७१]

  1. <पापं च शिल्पिनि># । । PS_६,२.६८ । ।



_____Sठाऱ्ठ्JKव्_६,२.६८ः

पापशदः शिल्पिवाचिनि उतरपदे विभाषा आद्युदात्तो भवति ।
पापनापितः, पापनापितः ।
पापकुलालः, पापकुलालः ।
पापाणके कुत्सितैः (*२,१.५४) इति पापशब्दस्य प्रतिपदोक्तः समानाधिकरणसमासः इति षष्ठीसमसे न भवति, पापस्य नापितः पापनापितः इति । ।


____________________________________________________________________


  1. <गोत्र-अन्तेवासि-मानव-ब्राह्मणेसु क्षेपे># । । PS_६,२.६९ । ।



_____Sठाऱ्ठ्JKव्_६,२.६९ः

गोत्रवाचिनि अन्तेवासिवाचिनि च+उत्तरपदे मानवब्राह्मनयोश्च क्षेपवाचिनि समासे पूर्वपदं आद्युदात्तं भवति ।
जङ्घावात्स्यः ।
यो जङ्घादानं ददान्यहं इति वात्स्यः सम्पद्यते स जङ्घावात्स्यः इति क्षिप्यते ।
भार्यासौश्रुतः ।
सुश्रुतापत्यस्य बार्याप्रधानतया क्षेपः ।
वाशाब्राह्मकृतेयः ।
ब्रह्मकृतशदः शुभ्रादिसु पठ्यते ।
गोत्र ।
अन्तेवासि - कुमारीदाक्षाः ।
कम्बलचारायणीयाः ।
घृतरौढीयाः ।
ओदनपाणिनीयाः ।
कुमार्यादिलाभकामा ये दाक्षादिभिः प्रोक्तानि शास्त्राण्यधीयते तच्छिष्यतां वा प्रतिपद्यन्ते त एवं क्षिप्यन्ते ।
अन्तेवासि ।
माणव - भिक्षामाणवः ।
भिक्षां लप्स्येऽहमिति माणवो भवति ।
माणव ।
ब्राह्मण - दासीब्राह्मणः ।
वृषलीब्राह्मणः ।
भयब्राह्मणः ।
यो भयेन ब्राह्मणः सम्पद्यते ।
अत्र यस्य अन्यत्समासलक्षणं न अस्ति, सुप्सुपा इत्येव तत्र समासः कर्तव्यः ।
गोत्रादिषु इति किं ? दासीश्रोत्रियः ।
क्षेपे इति किं ? महाब्राह्मणः । ।


____________________________________________________________________


  1. <अङ्गानि मैरेये># । । PS_६,२.७० । ।



_____Sठाऱ्ठ्JKव्_६,२.७०ः

मैरेयशब्दे उत्तरपदे तदङ्गवाचिनि पूर्वपदान्याद्युदात्तानि भवन्ति ।
गुडमैरेयः ।
मधुमैरेयः ।
मद्यविशेषो मैरेयस्तस्य गुडविकारस्य गुदोऽङ्गं भवति, मधुविकारस्य तस्य मधु अङ्गं ।
अङ्गानि इति किं ? परममैरेयः ।
मैरेये इति किं ? पुष्पासवः ।
फलासवः । ।


____________________________________________________________________

  1. <भक्त-आख्यास्तदर्थेषु># । । PS_६,२.७१ । ।



_____Sठाऱ्ठ्JKव्_६,२.७१ः

भक्तमन्नम्, तदाख्यास्तद्वाचिनः शब्दाः, तदर्थेषु उत्तरपदेषु आद्युदात्ता बवन्ति ।
भिक्षाकंसः ।
श्राणाकंसः ।
भाजीकंसः ।
भिक्षादयोऽन्नवचनाः ।
भक्ताख्याः इति किं ? समाशशालयः ।
समशनं समाशः इति क्रियामात्रं उच्यते, न द्रव्यं ।
तदर्थेसु इति किं ? भिक्षाप्रियः ।
बहुव्रीहिरयम्, अत्र पूर्वपदं अन्तोदात्तं । ।


____________________________________________________________________


  1. <गो-बिडाल-सिंह-सैन्धवेषु उपमाने># । । PS_६,२.७२ । ।



_____Sठाऱ्ठ्JKव्_६,२.७२ः

गवादिषु उपमानवाचिषु उत्तरपदेषु पूर्वपदं आद्युदात्तं भवति ।
धान्यगवः ।
भिक्षाबिडालः ।
तृणसिंहः ।

[#६७२]

काष्ठसिंहः ।
सक्तुसैन्धवः ।
पानसैन्धवः ।
धान्यं गौरिव इति विगृह्य व्याघ्रादेराकृतिगणत्वादुपमितं व्याघ्रादिभिः इति समासः ।
उपमानार्थोऽपि यथासम्भवं यथाप्रसिद्धि च योजयितव्यः ।
गवाकृत्या संनिवेशितं धान्यं धान्यगवशब्देन+उच्यते ।
उपमाने इति किं ? परमसिंहः । ।

____________________________________________________________________


  1. <अके जीविका-अर्थे># । । PS_६,२.७३ । ।



_____Sठाऱ्ठ्JKव्_६,२.७३ः

अकप्रत्ययान्ते उत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदं आद्युदात्तं भवति ।
दन्तलेखकः ।
नखलेखकः ।
अवस्करशोधकः ।
रमणीयकारकः ।
दन्तलेखनादिभिर्येषां जीविका त एवं उच्यन्ते ।
नित्यं क्रीडाजीविकयोः (*२,२.१७) इति समासः ।
अके इति किं ।
रमणीयकर्ता ।
जीविकार्थे इति किं ? इक्षुभक्षिकां मे धारयसि । ।


____________________________________________________________________


  1. <प्राचां क्रीडायां># । । PS_६,२.७४ । ।



_____Sठाऱ्ठ्JKव्_६,२.७४ः

प्राग्देशवर्तिनां या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते उत्तरपदे पूर्वपदं आद्युदात्तं भवति ।
उद्दालकपुष्पभज्जिका ।
वीरणुपुष्पप्रचायिका ।
शालभञ्जिका ।
तालभञ्जिका ।
सञ्ज्ञायं (*३,३.१०९) इति ण्वुल् ।
नित्यं क्रीडाजीविकयोः (*२,२.१७) इति षष्ठीसमासः ।
प्राचां इति किं ? जीवपुत्रप्रचायिका ।
इयं उदीचां क्रीडा ।
क्रीडायां इति किं ? तवपुष्पप्रचायिका ।
पर्याये ण्वुच्प्रत्ययो भवति । ।


____________________________________________________________________


  1. <अणि नियुक्ते># । । PS_६,२.७५ । ।



_____Sठाऱ्ठ्JKव्_६,२.७५ः

अणन्ते उत्तरपदे नियुक्तवाचिनि समासे पूर्वपदं आद्युदात्तं भवति ।
छत्रधारः ।
तूणीरघारः ।
कमण्डलुग्राहः ।
भृङ्गारधारः ।
नियुक्तोऽधिकृतः, स च कस्मिंश्चित्कर्तव्ये तत्परो न भवति इति नियुक्तः इत्यनेन सिध्यति ।
नियुक्तः इति किं ? काण्डलावः ।
शरलावः । ।


____________________________________________________________________


  1. <शिल्पिनि च अकृञः># । । PS_६,२.७६ । ।



_____Sठाऱ्ठ्JKव्_६,२.७६ः

शिल्पिवाचिनि समासे अणन्ते उत्तरपदे पूर्वपदं आद्युदात्तं भवति, स चेदण्कृञो न भवति ।
तन्तुवायः ।
तुन्नवायः ।
वालवायः ।
शिल्पिनि इति किं ? काण्डलावः ।
शरलावः ।
अकृञः इति किं ? कुम्भकारः ।
अयस्कारः । ।

____________________________________________________________________


[#६७३]

  1. <सञ्ज्ञायां च># । । PS_६,२.७७ । ।



_____Sठाऱ्ठ्JKव्_६,२.७७ः

सञ्ज्ञायां विषये अणन्ते उत्तरपदे अकृञः पूर्वपदं आद्युदात्तं भवति ।
तन्तुवायो नाम कीटः ।
वालवायो नाम पर्वतः ।
अकृञः इत्येव, रथकारो नाम ब्राह्मणः । ।


____________________________________________________________________


  1. <गोतन्तियवं पाले># । । PS_६,२.७८ । ।



_____Sठाऱ्ठ्JKव्_६,२.७८ः

गो तन्ति यव इत्येतानि पूर्वपदानि पालशब्दे अद्युदात्तनि भवन्ति ।
गोपालः ।
तन्तिपालः ।
यवपालः ।
अनियुक्तार्थ आरम्भः ।
गोतन्तियवं इति किं ? वत्सपालः ।
पाले इति किं ? गोरक्षः । ।


____________________________________________________________________


  1. <णिनि># । । PS_६,२.७९ । ।


_____Sठाऱ्ठ्JKव्_६,२.७९ः

णिनन्ते उत्तरपदे पूर्वपदं आद्युदात्तं भवति ।
पुष्पहारी ।
फलहारी ।
पर्णहारी । ।


____________________________________________________________________


  1. <उपमनं शब्द-अर्थ-प्रकृतावेव># । । PS_६,२.८० । ।



_____Sठाऱ्ठ्JKव्_६,२.८०ः

उपमानवाचि पूर्वपदं शब्दार्थंप्रकृतौ एव णिनन्ते उत्तरपदे आद्युदात्तं भवति ।
उपमानं नियम्यते ।
उष्ट्रक्रोशी ।
ध्वाङ्क्षरावी ।
खरनादी ।
उपमानग्रहनं अस्य पूर्वस च योगस्य विषयविभागार्थं ।
शब्दार्थप्रकृतौ इति किं ? वृकवञ्ची ।
वृकप्रेक्षी ।
प्रकृतिग्रहणं किं ? प्रकृतिरेव यत्र+उपसर्गनिरपेक्षा शब्दार्था भवति तत्र+एव यथा स्याद्, इह मा भूद्गर्दभोच्चारी, कोकिलाभिव्याहारी इति ।
एवकारकरणं उपमानावधारणार्थं ।
शब्दार्थं ।
शब्दार्थप्रकृतौ त्वनुपमानमुपमानं च आद्युदात्तं भवति ।
सिंहविनर्दी ।
पुष्कलजल्पी । ।


____________________________________________________________________


  1. <युक्तारोह्य्-आदयश्च># । । PS_६,२.८१ । ।


_____Sठाऱ्ठ्JKव्_६,२.८१ः

युक्तारोह्यादयः समासाः आद्युदात्ता भवन्ति ।
युक्तारोही ।
आगतरोही ।
आगतयोधी ।
आगतवञ्ची ।
आगतनर्दी ।
आगतप्रहारी ।
एते णिनन्ताः णिनि (*६,२.७९) इत्यस्य+एव+उदाहरनार्थं पथ्यन्ते पुर्वोत्तरपदनियमार्था इति केचिथ् ।
इह मा भूत्, वृक्षारोहि, युक्ताध्यायी इति ।
आगतमत्स्या ।
क्षीरहोता ।
भगिनीभर्ता ।
याजकादित्वात्षष्ठीसमासावेतौ ।
ग्रामगोधुक् ।
अश्वत्रिरात्रः ।
गर्गत्रिरात्रः ।
व्युष्टत्रिरात्रः ।
शणपादः ।
समपादः ।
षष्ठीसमासा एते ।
एकशितिपथ् ।
एकः शितिः पादोऽस्य इति त्रिपदो बहुव्रीहिः ।
तत्र एकशितिशब्दस्तद्धितार्थोत्तरपदः इति तत्पुरुषसञ्ज्ञः, तस्य निमित्तिस्वरबलीयस्त्वादन्तोदात्तत्वं प्राप्तं इत्याद्युदात्तत्वं विधीयते ।

[#६७४]

एवं अपि न अर्थ एतेन, इगन्त द्विगौ (*६,२.२९) इति सिद्धत्वात्? एवं तर्हि ज्ञापनार्थं ।
एतज्ज्ञापयति शित्यन्तस्य+उत्तरपदे द्विगुस्वरो न भवति इति ।
तेन द्विशितिपादित्यत्र तिशब्द उदात्तो भवति ।
निमित्तिस्वरबलीयस्त्वस्य अप्येकशितिपात्स्वरवचनं एव ज्ञापकं वर्णयन्ति ।
पात्रेसमितादयश्च युक्तारोह्यादयस्ततस्तेऽप्याद्युदात्ता भवन्ति । ।


____________________________________________________________________


  1. <दीर्घ-काश-तुष-भ्राष्ट्र-वटं जे># । । PS_६,२.८२ । ।



_____Sठाऱ्ठ्JKव्_६,२.८२ः

दीर्घान्तं पूर्वपदम्, काश तुष भ्राष्ट्र वट इत्येतानि च जे उत्तरपदे आद्युदात्तानि भवन्ति ।
कुटीजः ।
शमीजः ।
काशजः ।
तुषजः ।
भ्राष्ट्रजः ।
वटजः । ।


____________________________________________________________________


  1. <अन्त्यात्पूर्वं बह्व्-अचः># । । PS_६,२.८३ । ।



_____Sठाऱ्ठ्JKव्_६,२.८३ः

जे उत्तरपदे बह्वचः पूर्वपदस्य अन्त्यात्पूर्वं उदात्तं भवति ।
उपसरजः ।
मन्दुरजः ।
आमलकीजः ।
वडवाजः ।
बह्वचः इति किं ? दग्धजानि तृणानि । ।


____________________________________________________________________


  1. <ग्रामेऽनिवसन्तः># । । PS_६,२.८४ । ।



_____Sठाऱ्ठ्JKव्_६,२.८४ः

ग्रामशब्दे उत्तरपदे पूर्वपदं आद्युदात्तं भवति न चेद्निवसद्वाचि भवति ।
मल्लग्रामः ।
विणिग्ग्रामः ।
ग्रामशब्दोऽत्र समूहवाची ।
देवग्रामः ।
देवस्वामिकः इत्यर्थः ।
अनिवसन्तः इति किं ? दाक्षिग्रामः ।
माहकिग्रामः ।
दाक्ष्यादयो निवसन्ति यस्मिन्ग्रामे स तेषां इति व्यपदिश्यते । ।


____________________________________________________________________


  1. <घोष-आदिषु च># । । PS_६,२.८५ । ।



_____Sठाऱ्ठ्JKव्_६,२.८५ः

घ्षादिषु च+उत्तरपदेषु पूर्वपदं आद्युदात्तं भवति ।
दाक्षिघोषः ।
दाक्षिकटः ।
दाक्षिपल्वलः ।
दाक्षिह्रदः ।
दाक्षिबदरी ।
दाक्षिपिङ्गलः ।
दाक्षिपिशङ्गः ।
दाक्षिशालः ।
दाक्षिरक्षा ।
दाक्षिशिल्पी ।
दाक्ष्यश्वत्थः ।
कुन्दतृणं ।
दाक्षिशाल्मली ।
आश्रममुनिः ।
शाल्मलिमुनिः ।
दाक्षिप्रेक्षा ।
दाक्षिकूटः ।
यान्यत्र निवासनां अधेयानि तेषु निवसद्वाचीनि अपि पूर्वपदानि आद्युदात्तानि भवन्ति ।
अनिवसन्तः इति न अनुवर्तयन्ति केचिथ् ।
अपरे पुनरनुवर्तयन्ति । ।


____________________________________________________________________


  1. <छात्र्य्-आदयः शालायाम्># । । PS_६,२.८६ । ।



_____Sठाऱ्ठ्JKव्_६,२.८६ः

शालायां उत्तरपदे छात्र्यादयः आद्युदात्ता भवन्ति ।
छात्रिशाला ।
ऐलिशाला ।
भाण्दिशाला छात्रि ।
ऐलि ।
भाण्दि ।
व्याडि ।
आपिशलि ।
आख्यण्डि ।
आपारि ।
गोमि ।
यदा शालान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति तदा अपि तत्पुरुषे शालायां नपुंसके (*६,२.१२३) इत्येतस्मात्पूर्वविप्रतिषेधेन पूर्वपदं आद्युदात्तं भवति ।
छात्रिशालं ।
ऐलिशालं । ।


____________________________________________________________________


[#६७५]

  1. <प्रस्थेऽवृद्धं अकर्क्य्-आदीनाम्># । । PS_६,२.८७ । ।



_____Sठाऱ्ठ्JKव्_६,२.८७ः

प्रस्थशब्दे उत्तरपदे कर्क्यादिवर्जितं अवृद्धं पूर्वपदं आद्युदात्तं भवति ।
इन्द्रप्रस्थः ।
कुण्डप्रस्थः ।
ह्रदप्रस्थः ।
सुवर्णप्रस्थः ।
अवृद्धं इति किं ? दाक्षिप्रस्थः ।
माहकिप्रस्थः ।
अकर्क्यादीनां इति किं ? कर्कीप्रस्थः ।
मघीप्रस्थः ।
कर्की ।
मघी ।
मकरी ।
कर्कन्धू ।
शमी ।
करीर ।
कटुक ।
कुरल ।
बदर ।
कर्क्यादिः । ।


____________________________________________________________________


  1. <मालादीनां च># । । PS_६,२.८८ । ।



_____Sठाऱ्ठ्JKव्_६,२.८८ः

प्रस्थे इति वर्तते ।
प्रस्थे उत्तरपदे मालादीनं आदिरुदात्तो भवति ।
मालाप्रस्थः ।
शालाप्रस्थः ।
माला ।
शाला ।
शोणा ।
द्राक्षा ।
क्ष्ॐआ ।
क्षामा ।
काञ्ची ।
एक ।
काम ।
मालदिः ।
वृद्धार्थ आरम्भः ।
एकाशोणाशब्दयोः एङ्प्राचां देशे (*१,१.७५) इति वृद्धसज्ञा । ।


____________________________________________________________________


  1. <अमहन्-नवं नगरेऽनुदीचाम्># । । PS_६,२.८९ । ।



_____Sठाऱ्ठ्JKव्_६,२.८९ः

नगरशब्दे उत्तरपदे महन्नवशब्दवर्जितं पूर्वपदं आद्युदात्तं भवति, तच्चेदुदीचां न भवति ।
सुह्मनगरं ।
पुण्ड्रनगरं ।
अमहन्नवं इति किं ? महानगरं ।
नवनगरं ।
अनुदीचां इति किं ? नदीनगरं ।
कान्तीनगरं । ।


____________________________________________________________________


  1. <अर्मे च अवर्णं द्व्यच्त्र्यच्># । । PS_६,२.९० । ।



_____Sठाऱ्ठ्JKव्_६,२.९०ः

अर्मशब्दे उत्तरपदे द्व्यच्त्र्यच्पूर्वपदं अवर्णान्तं आद्युदात्तं भवति ।
दत्तार्मं ।
गुप्तार्मं ।
कुक्कुटार्मं ।
वायसार्मं ।
अवर्णं इति किं ? वृहदर्मं ।
द्व्यच्त्र्यचिति किं ? कपिञ्जलार्मं ।
अमहन्नवं इत्येव, महार्मं ।
नवार्मं । ।


____________________________________________________________________


  1. <न भूत-अधिक-सञ्जीव-मद्र-अश्म-कज्जलम्># । । PS_६,२.९१ । ।



_____Sठाऱ्ठ्JKव्_६,२.९१ः

भूत अधिक सञ्जीव मद्र अश्मन्कज्जल इत्येतानि पूर्वपदानि अर्मशब्दे उत्तरपदे नाद्युदात्तानि भवन्ति ।
भूतार्मं ।
अधिकार्मं ।
सञ्जीवार्मं ।
मद्राश्मग्रहणं सङ्घातविगृहीतार्थं ।
मद्रार्मं ।
अश्मार्मं ।
मद्राश्मार्मं ।
कज्जलार्मं ।
समासान्तोदात्तत्वं एव अत्र भवति ।

[#६७६]

आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसङ्ख्यानं ।
दिवोदासं वध्र्यश्वाय दाशुषे । ।


____________________________________________________________________


  1. <अन्तः># । । PS_६,२.९२ । ।



_____Sठाऱ्ठ्JKव्_६,२.९२ः

अन्तः इत्यधिकृतं ।
इत उत्तरं यद्वक्ष्यामस्तत्र पूर्वपदस्य अन्तः उदात्तो भवति इत्येवं वेदितव्यं ।


____________________________________________________________________


  1. <व्क्ष्यति - सर्वं गुणकार्त्स्न्ये># । । PS_६,२.९३ । ।



_____Sठाऱ्ठ्JKव्_६,२.९३ः

सर्वश्वेतः ।
सर्वकृष्णः ।
प्राकुत्तरपदादिः (*६,२.१११) इत्येतस्मादयं अधिकारो वेदितव्यः । ।
सर्वं गुणकार्त्स्न्ये (*६,२.९३) ।
सर्वशब्दः पूर्वपदं गुणकार्त्स्न्ये वर्तमानं अन्तोदात्तं भवति ।
सर्वश्वेतः ।
सर्वकृष्णः ।
सर्वमहान् ।
सर्वं इति किं ।
परमश्वेतः ।
आश्रयव्याप्त्या परमत्वं श्वेतत्वस्य इति गुणकार्त्स्न्ये वर्तते ।
गुणग्रहणं किं ? सर्वसौवर्णः ।
सर्वराजतः ।
कार्त्स्न्ये इति किं ? सर्वेषां श्वेततत्रः सर्वश्वेतः ।
गुणात्तरेण समासस्तरलोपश्च वक्तव्यः इत्येवं अत्र समासस्तरलोपश्च । ।


____________________________________________________________________


  1. <सञ्ज्ञायां गिरिनिकाययोः># । । PS_६,२.९४ । ।



_____Sठाऱ्ठ्JKव्_६,२.९४ः
सञ्ज्ञायां विषये गिरि निकाय इत्येतयोः उत्तरपदयोः पूर्वपदं अन्तोदात्तं भवति ।
अञ्जनागिरिः ।
भञ्जनागिरिः ।
निकाये - शापिण्दिनिकायः ।
मौण्डिनिकायः ।
चिखिल्लिनिकायः ।
सञ्ज्ञायां इति किं ? परमगिरिः ।
ब्राह्मणनिकायः । ।


____________________________________________________________________


  1. <कुमार्यां वयसि># । । PS_६,२.९५ । ।



_____Sठाऱ्ठ्JKव्_६,२.९५ः

कुमार्यां उत्तरपदे वयसि गम्यमाने पूर्वपदं अन्तोदात्तं भवति ।
वृद्धकुमारी ।
जरत्कुमारी ।
कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तं उपादाय प्रयुक्तो वृद्धादिभिर्वयो विशेषवचनैः समानाधिकरणो भवति ।
तच्च वयः इह गृह्यते, न कुमारत्वं एव ।
वयसि इति किं ? परमकुमारी । ।


____________________________________________________________________


  1. <उदकेऽकेवले># । । PS_६,२.९६ । ।



_____Sठाऱ्ठ्JKव्_६,२.९६ः

अकेवलं मिश्रं ।
तद्वाचिनि समासे उदकशब्दे उत्तरपदे पूर्वपदं अन्तोदात्तं भवति ।
गुडमिश्रं उदकं गुडोदकम्, गुडोदकं ।
तिलोदकम्, तिलोदकं ।
स्वरे कृते एकादेशः स्वरितो वानुदात्ते पदादौ (*८,२.६) इति पक्षे स्वरितो भवति ।
अकेवले इति किं ? शीतोदकं ।
उष्णोदकं । ।


____________________________________________________________________


[#६७७]

  1. <द्विगौ क्रतौ># । । PS_६,२.९७ । ।



_____Sठाऱ्ठ्JKव्_६,२.९७ः

द्विगौ उत्तरपदे क्रतुवाचिनि समासे पूर्वपदं अन्तोदात्तं भवति ।
गर्गत्रिरात्रः ।
चरकत्रिरात्रः ।
कुसुरविन्दसप्तरात्रः ।
गर्गाणां त्रिरात्रः गर्गत्रिरात्रः ।
द्विगौ इति किं ? अतिरात्रः ।
अचश्चित्वा दन्तोदात्तः ।
क्रतौ इति किं ? बिल्वसप्तरात्रः ।
बिल्वशतस्य बिल्वहोमस्य वा सप्तरात्रः बिल्वसप्तरात्रः । ।


____________________________________________________________________


  1. <सभायां नपुंसके># । । PS_६,२.९८ । ।



_____Sठाऱ्ठ्JKव्_६,२.९८ः

सभाशब्दे उत्तरपदे नपुंसकलिङ्गे समासे पूर्वपदं अन्तोदात्तं भवति ।
गोपालसभं ।
पशुपालसभं ।
स्त्रीसभं ।
दासीसभं ।
सभायां इति किं ? ब्राह्मणसेनं ।
नपुंसकं इति किं ? राजसभा ।
ब्राह्मणसभा ।
सभायां प्रतिपदोक्तं नपुंसकलिङ्गं गृह्यते इति समणीयसभम्, ब्राह्मणकुलं इत्यत्र न भवति । ।


____________________________________________________________________


  1. <पुरे प्राचाम्># । । PS_६,२.९९ । ।



_____Sठाऱ्ठ्JKव्_६,२.९९ः

पुरशब्दे उत्तरपदे प्राचां देशे पूर्वपदं अन्तोदात्तं भवति ।
ललाटपुरं ।
काञ्चीपुरं ।
शिवदत्तपुरं ।
कार्णिपुरं ।
नार्मपुरं ।
प्राचां इति किं ? शिवपुरं । ।


____________________________________________________________________


  1. <अरिष्ट-गौड-पूर्वे च># । । PS_६,२.१०० । ।



_____Sठाऱ्ठ्JKव्_६,२.१००ः

अरिष्त गौड इत्येवं पूर्वे समासे पुरशब्दे उत्तरपदे पूर्वपदं अन्तोदात्तं भवति ।
अरिष्टपुरं ।
गौडपुरं ।
पूर्वग्रहणं किं ? इह अपि यथा स्याथ् ।
अरिष्टश्रितपुरं ।
गौडभृत्यपुरं । ।

____________________________________________________________________


  1. <न हास्तिन-फलक-मार्देयाः># । । PS_६,२.१०१ । ।



_____Sठाऱ्ठ्JKव्_६,२.१०१ः

हास्तिन फलक मार्देय इत्येतानि पूर्वपदानि पुरशब्दे उत्तरपदे न अन्तोदात्तानि भवन्ति ।
पुरे प्राचां (*६,२.९९) इति प्राप्तिः प्रतिषिध्यते ।
हास्तिनपुरं ।
फलकपुरं ।
मार्देयपुरं ।
मृदोरपत्यं मार्देयः ।
शुभ्रादित्वात्ढक्(*४,१.१२३) । ।


____________________________________________________________________


  1. <कुसूल-कूप-कुम्भ-शालं बिले># । । PS_६,२.१०२ । ।



_____Sठाऱ्ठ्JKव्_६,२.१०२ः

कुसूल कूप कुम्भ शाला इत्येतानि पूर्वपदानि बिलशब्दे उत्तरपदे अन्तोदात्तानि भवन्ति ।
कुसूलबिलं ।
कूपबिलं ।
कुम्भबिलं शालाबिलं ।
कुसूलादिग्रहणं किं ? सर्पबिलं ।
बिले इति किं ? कुसूलस्वामी । ।


____________________________________________________________________


[#६७८]

  1. <दिक्-शब्दा ग्राम-जनपद-आख्यान-चानराटेषु># । । PS_६,२.१०३ । ।



_____Sठाऱ्ठ्JKव्_६,२.१०३ः

दिक्शब्दाः पूर्वपदानि अन्तोदात्तनि भवन्ति ग्रामजनपदाख्यानवाचिषु उत्तरपदेषु, चानराटशब्दे च ।
पूर्वेषुकामशमी, पूर्वेषुकामशमी ।
अपरेषुकामशमी, अपरेषुकामशमी ।
पूर्वकृष्णमृत्तिका ।
अपरकृष्णमृत्तिका ।
जनपद - पूर्वपञ्चालाः ।
अपरपञ्चालाः ।
आख्यान - पूर्वाधिरामम्, पूर्वाधिरामं ।
पूर्वयायातं ।
अपरयायातं ।
अधिरामं अधिकृत्य कृतो ग्रन्थः आधिरामं ।
तथा यायातं ।
चानराट - पूर्वचानराटं ।
अपरचानराटं ।
शब्दग्रहणं कालवाचिनोऽपि दिक्शब्दस्य परिग्रहार्थं । ।


____________________________________________________________________


  1. <आचार्य-उपसर्जनश्च अन्तेवासिनि># । । PS_६,२.१०४ । ।



_____Sठाऱ्ठ्JKव्_६,२.१०४ः

आचार्योपसर्जनान्तेवासिवाचिनि उत्तरपदे दिक्शब्दा अन्तोदात्ताः भवन्ति ।
पुर्वपाणिनीयाः ।
अपरपाणिनीयाः ।
पूर्वकाशकृत्स्नाः ।
अपरकाशकृत्स्नाः ।
आचार्योपसर्जनः इति किं ? पूर्वशिष्याः ।
अन्तेवासिनि इति किं ? पूर्वपाणिनीयं शास्त्रं । ।

____________________________________________________________________


  1. <उत्तरपदवृद्धौ सर्वं च># । । PS_६,२.१०५ । ।



_____Sठाऱ्ठ्JKव्_६,२.१०५ः

उत्तरपदस्य (*७,३.१०) इत्यधिकृत्य या विहिता वृद्धिः, तद्वत्युत्तरपदे सर्वशब्दो दिक्शब्दाश्च अन्तोदात्ता भवन्ति ।
सर्वपञ्चालकः ।
पूर्वपञ्चालकः ।
उत्तरपाञ्चालकः ।
सुसर्वार्धदिक्शब्देभ्यो जनपदस्य+इति तदन्तविधिना जनपदलक्षणो वुञ्प्रत्ययः ।
सुसर्वार्धाज्जनपदस्य (*७,३.१२) दिशोऽमद्राणां (*७,३.१३) इति च+उत्तरपदवृद्धिः ।
अधिकारलक्षणादिह न भवति, सर्वमासः, सर्वकारकः इति । ।


____________________________________________________________________


  1. <बहुव्रीहौ विश्वं सञ्ज्ञायां># । । PS_६,२.१०६ । ।



_____Sठाऱ्ठ्JKव्_६,२.१०६ः

बहुव्रीहौ समासे विश्वशब्दः पूर्वपदं सञ्ज्ञायां विषयेऽन्तोदात्तं भवति ।
विश्वदेवः ।
विश्वयशाः ।
विश्वमहान् ।
पूर्वपदप्रकृतिस्वरत्वेन आद्युदात्तत्वं प्राप्तं ।
बहुव्रीहौ इति किं ? विश्वे च ते देवाः विश्वदेवाः ।
सञ्ज्ञायां इति किं ? विश्वे देवा अस्य विश्वदेवः ।
विश्वामित्रः, विश्वाजिनः इत्यत्र सञ्ज्ञायां मित्राजिनयोः (*६,२.१६५) इत्येतद्भवति परत्वाथ् ।
बहुव्रीहौ इत्येतदधिक्रियते प्रागव्ययीभावसञ्ज्ञानात् । ।


____________________________________________________________________

  1. <उदर-अश्व-इषुषु># । । PS_६,२.१०७ । ।



_____Sठाऱ्ठ्JKव्_६,२.१०७ः

उदर अश्व इषु इत्येतेषु उत्तरपदेसु बहुव्रीहौ समासे सञ्ज्ञायांविषये पूर्वपदं अन्तोदात्तं भवति ।
वृकोदरः ।
दामोदरः ।
हर्यश्वः ।
यौवनाश्वः ।
सुवर्णपुङ्खेषुः ।
महेषुः । ।


____________________________________________________________________


[#६७९]

  1. <क्षेपे># । । PS_६,२.१०८ । ।



_____Sठाऱ्ठ्JKव्_६,२.१०८ः

क्षेपे गम्यमाने उदरादिषु उत्तरपदेषु बहुव्रीहौ समासे सञ्ज्ञायां विषये पूर्वपदं अन्तोदात्तं भवति ।
कुण्दोदरः ।
घटोदरः ।
कटुकाश्वः ।
स्पन्दिताश्वः ।
अनिघातेषुः ।
चलाचलेषुः ।
अनुदरः, सूदरः इत्यत्र नञ्सुभ्यां (*६,२.१७२) इत्येतद्भवति विप्रतिषेधेन । ।


____________________________________________________________________


  1. <नदी बन्धुनि># । । PS_६,२.१०९ । ।


_____Sठाऱ्ठ्JKव्_६,२.१०९ः

बहुव्रीहौ समासे बन्धुन्युत्तरपदे नद्यन्तं पूर्वपदं अन्तोदात्तं भवति ।
गार्गीबन्धुः ।
वात्सीबन्धुः ।
नदी इति किं ? ब्रह्मबन्धुः ।
ब्रह्मशब्द आद्युदात्तः ।
बन्धुनि इति किं ? गार्गीप्रियः । ।


____________________________________________________________________


  1. <निष्ठा-उपसर्गपूर्वं अन्यतरस्याम्># । । PS_६,२.११० । ।



_____Sठाऱ्ठ्JKव्_६,२.११०ः

बहुव्रीहौ समासे निष्ठान्तं उपसर्गपूर्वं पूर्वपदं अनतरस्यां अनतोदात्तं भवति ।
प्रधौतमुखः, प्रधौतमुखः प्रधौतमुखः ।
प्रक्षालितपादः, प्रक्षालितपादः ।
यदि मुखशब्दः स्वाङ्गवाची तदा पक्षे मुखं स्वाङ्गं (*६,२.१६७) इत्येतद्भवति, न चेत्पूर्वपदप्रकृतिस्वरत्वेन गतिरनन्तरः (*६,२.४९) इत्येतद्भवति ।
निष्ठा इति किं ? प्रसेचकमुखः ।
उपसर्गपूर्वं इति किं ? शुष्कमुखः । ।


____________________________________________________________________


  1. <उत्तरपद-आदिः># । । PS_६,२.१११ । ।



_____Sठाऱ्ठ्JKव्_६,२.१११ः

उत्तरपदादिः इत्येतदधिकृतं ।
यदित ऊर्ध्वं अनुक्रमिष्याम उत्तरपदस्य आदिरुदात्तो भवति इत्येवं तद्वेदितव्यं ।

____________________________________________________________________


वक्ष्यति - #<कर्णो वर्णलक्षणात्># । । PS_६,२.११२ । ।


_____Sठाऱ्ठ्JKव्_६,२.११२ः

शुक्लकर्णः ।
कृष्णकर्णः ।
उत्तरपदस्य इत्येतदपादपरिसमाप्तेः ।
आदिः इति प्रकृत्या भगालं (*६,२.१२७) इति यावत् । ।
कर्णो वर्ण-लक्षणात्(*६,२.११२) ।
बहुव्रीहौ समासे वर्णवाचिनो लक्षणवाचिनश्च कर्णशब्द उत्तरपदं आद्युदात्तं भवति ।
शुक्लकर्णः ।
कृष्णकर्णः ।
लक्षणात्- दात्राकर्णः ।
शङ्कूकर्णः ।
लक्षणस्य इति दीर्घत्वं ।
पशूनां विभागज्ञापनार्थं दात्रशङ्कुप्रतिरूपकं कर्णादिषु चिह्नं यत्क्रियते तदिह लक्षणं गृह्यते, तेन स्थूलकर्णः इत्यत्र न भवति ।
कर्णः इति किं ? श्वेतपादः ।
कूटशृङ्गः ।
वर्णलक्षणातिति किं ? शोभनकर्णः । ।


____________________________________________________________________


  1. <सञ्ज्ञा-औपम्ययोश्च># । । PS_६,२.११३ । ।



_____Sठाऱ्ठ्JKव्_६,२.११३ः

सञ्ज्ञायां औपम्ये च यो बहुव्रीहिर्वर्तते तत्र कर्णशब्द उत्तरपदं आद्युदात्तं भवति ।
सञ्ज्ञायां - कुञ्चिकर्णः ।
मणिकर्णः ।
औपम्ये - गोकर्णः ।
खरकर्णः । ।

____________________________________________________________________


[#६८०]

  1. <कण्ठ-पृष्थ-ग्रीवा-जङ्घं च># । । PS_६,२.११४ । ।



_____Sठाऱ्ठ्JKव्_६,२.११४ः

कण्ठ पृष्ठ ग्रीवा जङ्घा इत्येतानि उत्तरपदानि बहुव्रीहौ समासे सञ्ज्ञौपम्ययोराद्युदात्तानि भवन्ति ।
कण्ठः सञ्ज्ञायां - शितिकण्ठः ।
नीलकण्ठः ।
औपम्ये - खरकण्ठः ।
उष्ट्रकण्ठः ।
पृष्ठः सञ्ज्ञायां - काण्डपृष्ठः ।
नाकपृष्ठः ।
औपम्ये - गोपृष्ठः ।
अजपृष्ठः ।
ग्रीवा सञ्ज्ञायां - सुग्रीवः ।
नीलग्रीवः ।
दशग्रीवः ।
औपम्ये - गोग्रीवः ।
अश्वग्रीवः ।
जङ्घा सञ्ज्ञायां - नाडीजङ्घः ।
तालजङ्घः ।
औपम्ये - गोजङ्घः ।
अश्वजङ्घः ।
एणीजङ्घः । ।


____________________________________________________________________


  1. <शृङ्गं अवस्थायां च># । । PS_६,२.११५ । ।



_____Sठाऱ्ठ्JKव्_६,२.११५ः

शृङ्गशब्दः उत्तारपदं अवस्थायां सञ्ज्ञौ पम्ययोश्च बहुव्रीहौ आद्युदात्तं भवति ।
उद्गतशृङः ।
द्व्यङ्गुलशृङ्गः ।
अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्थ ।
अस्ञ्ज्ञायां - ऋष्यशृङ्गः ।
औपम्ये - गोशृङ्गः मेषशृङ्गः ।
अवस्थादिषु इति किं ? स्थूलशृङ्गः । ।


____________________________________________________________________


  1. <नञो जर-मर-मित्र-मृताः># । । PS_६,२.११६ । ।



_____Sठाऱ्ठ्JKव्_६,२.११६ः

नञ उत्तरे जरमरमित्रमृता बहुव्रीहौ समासे आद्युदात्ता भवन्ति ।
अजरः ।
अमरः ।
अमित्रः ।
अमृतः ।
नञः इति किं ? ब्राह्मणमित्रः ।
जरादयः इति किं ? अशत्रुः, नञ्सुभ्यं (*६,२.१७२) इति उत्तरपदान्तोदात्तत्वं एव अत्र भवति । ।


____________________________________________________________________


  1. <सोर्मन्-असी अलोम-उषसी># । । PS_६,२.११७ । ।



_____Sठाऱ्ठ्JKव्_६,२.११७ः

सोः उत्तरं मनन्तं असन्तं च बहुव्रीहौ समासे आद्युदात्तं भवति लोमोषसी वर्जयित्वा ।
सुकर्मा ।
सुधर्मा ।
सुप्रथिमा ।
असन्तं - सुपयाः ।
सुयशाः ।
सुस्रोताः ।
सुस्रथ् ।
सुध्वथ् ।
सोः इति किं ? कृतक्रमा ।
कृतयशाः ।
मनसी इति किं ? सुराजा ।
सुतक्षा ।
अलोमोषसी इति किं ? सुलोमा ।
सूषाः ।
अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति इत्यनर्थकयोरपि मनसोरिह ग्रहणं ।
नञ्सुभ्यां (*६,२.१७२) इत्यस्य अयं अपवादः ।
कपि तु परत्वात्कपि पूर्वं इत्येतद्भवति ।
सुकर्मकः ।
सुस्रोतस्कः । ।


____________________________________________________________________


  1. <क्रत्व्-आदयश्च># । । PS_६,२.११८ । ।



_____Sठाऱ्ठ्JKव्_६,२.११८ः

क्रत्वादयः सोरुत्तरे बहुव्रीहौ समासे आद्युदात्ता भवन्ति ।
सुक्रतुः ।
सुदृशीकः ।
क्रतु ।
दृशीक ।
प्रतीक ।
प्रतूर्ति ।
हव्य ।
भग ।
क्रत्वादिः । ।

____________________________________________________________________


[#६८१]

  1. <आद्य्-उदात्तं द्व्यच्छन्दसि># । । PS_६,२.११९ । ।



_____Sठाऱ्ठ्JKव्_६,२.११९ः

यदाद्युदात्तं द्व्यचुत्तरपदं बबुव्रीहौ समासे सोरुत्तरं तदाद्युदात्तं एव भवति छन्दसि विसय ।
स्वश्वास्त्वा सुरथा मर्जयेम ।
नित्स्वरेण अश्वरथशब्दावाद्युदात्तौ ।
आद्युदात्तं इति किं ? या सुबाहुः स्वङ्गुरिः ।
बाहुशब्दः प्रत्ययस्वरेण अन्तोदात्तः ।
द्व्यचिति किं ? सुगुरसथ् ।
सुहिरण्यः ।
नञ्सुभ्यां (*६,२.१६२) इत्यस्य अयं अपवादः । ।


____________________________________________________________________


  1. <वीर-वीर्यौ च># । । PS_६,२.१२० । ।



_____Sठाऱ्ठ्JKव्_६,२.१२०ः

वीर वीर्य इत्येतौ च शब्दौ शोरुत्तरौ बहुव्रीहौ समासे छन्दसि विषये आद्युदात्तौ भवतः ।
सुवीरस्ते ।
सुवीर्यस्य पतयः स्यम ।
वीर्यं इति यत्प्रत्ययान्तं तत्र यतोऽनावः (*६,१.१२३) इति आद्युदात्तत्वं न भवति इत्येतदेव वीर्यग्रहणं ज्ञापकं ।
तत्र हि सति पूर्वेण+एव सिद्धं स्यात् । ।


____________________________________________________________________

  1. <कूल-तीर-तूल-मूल-शाला-अक्ष-समं अव्ययीभावे># । । PS_६,२.१२१ । ।



_____Sठाऱ्ठ्JKव्_६,२.१२१ः

कूल तीर तूल मूल शाला अक्ष सम इत्येतानि उत्तरपदानि अवयीभावसमासे आद्युदात्तानि भवन्ति ।
परिकूलं ।
उपकूलं ।
परितीरं ।
उपतीरं ।
परितूलं ।
उपतूलं ।
परिमूलं ।
उपमूलं ।
परिशालं ।
उपशालं ।
पर्यक्षं ।
उपाक्षं ।
सुषमं ।
विषमं ।
निषमं ।
दुःषमं ।
तिष्ठद्गुप्रभृतिषु एते पठ्यन्ते ।
कूलादिग्रहणं किं ? उपकुम्भं ।
अव्ययीभावे इति किं ? परमकूलं ।
उत्तरमकूलं ।
पर्यादिभ्यः कूलादीनां आद्युदात्तत्वं विप्रतिषेधेन भवति ।
परिकूलं ।
उपकूलं । ।


____________________________________________________________________


  1. <किंस-मन्थ-शूर्प-पाय्य-काण्डं द्विगौ># । । PS_६,२.१२२ । ।



_____Sठाऱ्ठ्JKव्_६,२.१२२ः
कंस मन्थ शूर्प पाय्य काण्ड इत्येतानि उत्तरपदानि द्विगौ समासे आद्युदात्तानि भवन्ति ।
द्विकंसः ।
त्रिकंसः ।
द्विमन्थः ।
त्रिमन्थः ।
द्विशूर्पः ।
त्रिशूर्पः ।
द्विपाय्यः ।
त्रिपाय्यः ।
द्विकाण्डः ।
त्रिकाण्डः द्विगौ इति किं ? परमकंसः ।
उत्तरमकंसः । ।


____________________________________________________________________


  1. <तत्पुरुषे शालायां नपुंसके># । । PS_६,२.१२३ । ।



_____Sठाऱ्ठ्JKव्_६,२.१२३ः

शालाशब्दान्ते तत्पुरुषे समासे नपुंसकलिङ्गे उत्तरपदं आद्युदात्तं भवति ।
ब्राह्मनशालं ।
क्षत्रियशालं ।
विभाषा सेना-सुरा-च्छाया-शाला-निशानां (*२,४.२५) इति नपुंसकलिङ्गता ।
तत्पुरुषे इति किं ? दृढशालं ब्राह्मणकुलस् ।
शालायां इति किं ? ब्राह्मणसेनं नपुंसके इति किं ? ब्राह्मणशाला । ।


____________________________________________________________________


[#६८२]

  1. <कन्था च># । । PS_६,२.१२४ । ।



_____Sठाऱ्ठ्JKव्_६,२.१२४ः

तत्पुरुषे समासे नपुंसकलिङ्गे कन्थाशब्दः उत्तरपदं आद्युदात्तं भवति ।
सौशमिकन्थं ।
आह्वकन्थं ।
चप्पकन्थं ।
सञ्ज्ञायां कन्थोशीनरेषु (*२,४.२०) इति नपुंसकलिङ्गता ।
षष्ठीसमासा एते ।
नपुंसके इत्येव, दाक्षिकन्था । ।


____________________________________________________________________


  1. <आदिश्चिहणादीनां># । । PS_६,२.१२५ । ।



_____Sठाऱ्ठ्JKव्_६,२.१२५ः

कन्थान्ते तत्पुरुषे समासे नपुंसकलिङ्गे चिहणादीनां आदिरुदात्तो भवति ।
चिहणकन्थं ।
मडरकन्थं ।
मडुर इति केचित्पठन्ति ।
मडुरकन्थं ।
चिहण ।
मडर ।
मडुर ।
वैतुल ।
पटत्क ।
चैत्तलिकर्णः ।
वैतालिकर्णिः इत्यन्ये पथन्ति ।
कुक्कुट ।
चिक्कण ।
चित्कण इत्यपरे पथन्ति ।
आदिः इति वर्तमाने पुनरादिग्रहणं पूर्वपदाद्युदात्तार्थं । ।


____________________________________________________________________

  1. <चेल-खेट-कटुक-काण्डं गर्हायाम्># । । PS_६,२.१२६ । ।



_____Sठाऱ्ठ्JKव्_६,२.१२६ः

चेल खेट कतुक काण्ड इत्येतानि उत्तरपदानि तत्पुरुसे समासे गर्हायां गम्यमानायां आद्युदात्तानि भवन्ति ।
पुत्रचेलं ।
भार्याचेलं ।
उपानत्खेटं ।
नगरखेटं ।
दधिकटुकं ।
उदश्वित्कटुकं ।
भूतकाण्डं ।
प्रजाकाण्डं ।
चेलाअदिसादृश्येन पुत्रादीनां गर्हा ।
तत्र पुत्रः चेलं इव इति विगृह्य व्याघ्रादेराकृतिगणत्वादुपमितं व्याघ्रादिभिः इति समासः ।
गर्हायां इति किं ।
परमचेलं । ।


____________________________________________________________________


  1. <चीरं उपमानम्># । । PS_६,२.१२७ । ।



_____Sठाऱ्ठ्JKव्_६,२.१२७ः

चीरमुत्तरपदं उपमानवाचि तत्पुरुषे समासे आद्युदात्तं भवति ।
वस्त्रं चीरं इव वस्त्रचीरं ।
पटचीरं ।
अम्बलचीरं ।
उपमानं इति किं ? परमचीरं । ।


____________________________________________________________________

  1. <पलल-सूप-शाकं मिश्रे># । । PS_६,२.१२८ । ।



_____Sठाऱ्ठ्JKव्_६,२.१२८ः

पलल सूप शाक इत्येतान्युत्तरपदानि मिश्रवाचिनि तत्पुरुषे समासे आद्युदात्तनि भवति ।
गुडपललं ।
घृतपललं ।
घृतसूपः ।
मूलकसूपः ।
घृतशाकं ।
मुद्गशाकं ।
गुडेन मिश्रं पललं गुडपललं ।
भक्षेण मिश्रीकरणं (*२,१.३५) इति समासः ।
मिश्रे इति किं ? परमपललं । ।


____________________________________________________________________


[#६८३]

  1. <कूलसूदस्थलकर्षाः सञ्ज्ञायाम्># । । PS_६,२.१२९ । ।



_____Sठाऱ्ठ्JKव्_६,२.१२९ः

कूल सूद स्थल कर्ष इत्येतानि उत्तरपदानि तत्पुरुषे समासे सञ्ज्ञायां विषये आद्युदात्तनि भवन्ति ।
दाक्षिकूलं ।
माहकिकूलं ।
देवसूदं ।
भाजीसूदं ।
दण्डायनस्थली ।
माहकिस्थली ।
दाक्षिकर्षः ।
ग्रामनामधेयानि एतानि ।
स्थालग्रहणे लिङ्गविशिष्टत्वात्स्थालीशब्दोऽपि गृह्यते ।
जानपदकुण्ड इत्यनेन ङीष् ।
सञ्ज्ञायां इति किं ? परमकूलं । ।


____________________________________________________________________


  1. <अकमधारये राज्यम्># । । PS_६,२.१३० । ।



_____Sठाऱ्ठ्JKव्_६,२.१३०ः

कर्मधारयवर्जिते तत्पुरुषे समासे राज्यं इत्येतदुत्तरपदं आद्युदात्तं भवति ।
ब्राह्मणराज्यं ।
क्षत्रियराज्यं ।
अकर्मधारये इति किं ? परमराज्यं ।
चेलराज्यादिस्वरादव्ययस्वरो भवति पूर्वविप्रतिषेधेन ।
कुचेलं ।
कुराज्यं । ।


____________________________________________________________________


  1. <वर्ग्य-आदयश्च># । । PS_६,२.१३१ । ।



_____Sठाऱ्ठ्JKव्_६,२.१३१ः

वग्य इत्येवं आदीनि उत्तरपदानि अकर्मधारये तत्पुरुषे समासे आद्युदत्तानि भवन्ति ।
वासुदेववर्ग्यः ।
वासुदेवपक्ष्यः ।
अर्जुनवर्ग्यः ।
अर्नपक्ष्यः ।
अकर्मधारये इत्येव, परमवर्ग्यः ।
वर्ग्यादयः प्रातिपदिकेसु न पठ्यन्ते ।
दिगादिषु तु वर्ग पूग गण पक्ष इत्येवं आदयो ये पठिताः, ते एव यत्प्रत्ययान्ता वर्ग्यादयः इह प्रतिपत्तव्या । ।


____________________________________________________________________


  1. <पुत्रः पुम्भ्यः># । । PS_६,२.१३२ । ।



_____Sठाऱ्ठ्JKव्_६,२.१३२ः
पुत्रशब्दः पुंशब्देभ्य उत्तरस्तत्पुरुषे आद्युदत्तो भवति ।
कौनटिपुत्रः ।
दामकपुत्रः ।
माहिषकपुत्रः ।
पुत्रः इति किं ? कौनटिमातुलः ।
पुम्भ्यः इति किं ? गार्गीपुत्रः ।
वात्सीपुत्रः । ।


____________________________________________________________________


  1. <न आचार्य-राज-र्त्विक्-संयुक्त-ज्ञात्य्-आख्येभ्यः># । । PS_६,२.१३३ । ।



_____Sठाऱ्ठ्JKव्_६,२.१३३ः

आचर्यः उपाद्यायः ।
राजा ईश्वरः ।
ऋत्विजो याजकाः ।
संयुक्ताः स्त्रीसम्बन्धिनः श्यालादयः ।
ज्ञातयो मातृपितृसम्बन्धिनो बान्धवाः ।
आचार्याद्याख्येभ्यः परः पुत्रशब्दो नद्युदात्तो भवति आख्याग्रहणात्स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणं भवति ।
आचार्यपुत्रः ।
उपाध्यायपुत्रः ।
शाकटायनपुत्रः ।
राजपुत्रः ।
ईश्वरपुत्रः ।
नन्दपुत्रः ।
ऋत्विक्पुत्रः ।
याजकपुत्रः ।
होतुःपुत्रः ।
संयुक्तपुत्रः ।
सम्बन्धिपुत्रः ।
श्यालपुत्रः ।
जञातिपुत्रः ।
भ्रातुष्पुत्रः ।
ऋतो विद्यायोनिसम्बधेभ्यः (*६,३.२३) ।
इति षष्ठ्या अलुक् ।
पुत्रस्वरे प्रतिषिद्धे समासान्तोदात्तत्वं एव भवति । ।


____________________________________________________________________


[#६८४]

  1. <चूर्ण-आदीन्यप्राणिषष्ठ्याः># । । PS_६,२.१३४ । ।



_____Sठाऱ्ठ्JKव्_६,२.१३४ः

उत्तरपदादिः इति वर्तते, तत्पुरुषे इति च ।
चूर्णादीनि उत्तरपदानि अप्राणिवाचिनः षष्ठ्यन्तात्पराणि तत्पुरुषे समासे आद्युदात्तानि भवन्ति ।
मुद्गचूर्णं ।
मसूरचूर्णं ।
अप्राणिषष्ठ्याः इति किं ? मत्स्यचूर्णं ।
षष्ठ्याः इति किं ? परमचूर्णं ।
चूर्ण ।
करिप ।
करिव ।
शाकिन ।
शाकट ।
द्राक्षा ।
तूस्त ।
कुन्दम ।
दलप ।
चमसी ।
चक्कन ।
चौल ।
चूर्णादिः ।
चूर्णादीन्य्प्राण्युपग्रहातिति सूत्रस्य पाठान्तरं ।
तत्र+उपग्रहः इति षष्ठ्यन्तं एव पूर्वाचार्योपचारेण गृह्यते । ।


____________________________________________________________________


  1. <षट्च काण्डादीनि># । । PS_६,२.१३५ । ।



_____Sठाऱ्ठ्JKव्_६,२.१३५ः

षट्पुर्वोक्तानि काण्डादीनि उत्तरपदानि अप्राणिषष्ठ्या आद्युदात्तनि भवन्ति ।
काण्डं गहार्यां इत्युक्तम्, अगर्हायां अपि भवति ।
दर्भकाण्डं ।
शरकाण्डं ।
चीरं उपमानं (*६,२.१२७) इत्युक्तम्, अनुपमानं अपि भवति ।
दर्भचीरं ।
कुशचीरं ।
पललसूपशाकं मिश्रे (*६,२.१२८) इत्युक्तम्, अनुपमानं अपि भवति ।
दर्भचीरं ।
कुशचीरं ।
पलल-सूप-शाकं मिश्रे (*६,२.१२८) इत्युक्तम्, अमिश्रेऽपि भवति ।
तिलपललं ।
मुद्गसूपः ।
मूलकशाकं ।
कूलं सञ्ज्ञायां (*६,२.१२९) इत्युक्तम्, असञ्ज्ञायां अपि भवति ।
नदीकूलं ।
समुद्रकूलं ।
षटिति किं ? राजसूदः । ।


____________________________________________________________________


  1. <कुण्डं वनम्># । । PS_६,२.१३६ । ।



_____Sठाऱ्ठ्JKव्_६,२.१३६ः

कुण्डशब्दोऽत्र कुण्डसादृश्येन वने वर्तते ।
कुण्डं इत्येततुत्तरपदं वनवाचि तत्पुरुषे समासे आद्युदात्तं भवति ।
दर्भकुण्डं ।
शरकुण्डं ।
वनं इति किं ? मृत्कुण्डं । ।


____________________________________________________________________


  1. <प्रकृत्या भगालम्># । । PS_६,२.१३७ । ।



_____Sठाऱ्ठ्JKव्_६,२.१३७ः

भगालवाच्युत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति ।
कुम्भीभगालं ।
कुम्भीकपालं ।
कुम्भीनदालं ।
भगालादयो मध्योदात्ताः ।
प्रकृत्या इत्येतदधिकृतं अन्तः (*६,२.१४३) इति यावद्वेदितव्यं । ।


____________________________________________________________________


  1. <शितेर्नित्य-अबह्व्-अज्ब्-अहुव्रीहावभसत्># । । PS_६,२.१३८ । ।



_____Sठाऱ्ठ्JKव्_६,२.१३८ः

शितेः उत्तरपदं नित्यं यदबह्वज्भसच्छब्दवर्जितं बहुव्रीहौ समासे तत्प्रकृतिस्वरं भवति ।
शितिपादः ।
शित्यंसः ।
शित्योष्ठः ।
पादशब्दो वृषादित्वादद्युदात्तः ।
अंसौष्ठशब्दौ च प्रत्ययस्य नित्त्वाथ् ।
शितेः इति किं ? दर्शनीयपादः ।
नित्यग्रहणं किं ? शितिककुत्ककुदस्य वस्थायां लोपो विधीयते ।
तत्र अवस्थाया अन्यत्र शितिककुद इति बह्वजुत्तरपदं भवति इति तेन न नित्याबह्वछ् ।
अबह्वचिति किं ? शितिललाटः ।
बहुव्रीहौ इति किं ? शितेः पादः शितिपादः ।
अभसतिति किं ? शितिभसद् ।
शितिशब्द आद्युदात्तः ।
पूर्वपदप्रकृतिस्वरापवादो योगः । ।


____________________________________________________________________


[#६८५]

  1. <गति-कारक-उपपदात्कृत्># । । PS_६,२.१३९ । ।



_____Sठाऱ्ठ्JKव्_६,२.१३९ः

तत्पुरुषे इति वर्तते, न बहुव्रीहौ इति ।
गतेः कारकातुपपदात्च कृदन्तं उत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति ।
प्रकारकः ।
प्रकरणं ।
प्रहारकः ।
प्रहरणं ।
कारकात्- इध्मप्रव्रश्चनः ।
पलाशशातनः ।
श्मश्रुकल्पनः ।
उपपदात्- ईषत्करः ।
दुष्करः ।
सुकरः ।
सर्वत्र+एव अत्र लित्स्वरः ।
गतिकार - कोपपदातिति किं ? देवदत्तस्य कारकः देवदत्तकारकः ।
देवदत्तस्य इति शेषलक्षण षष्ठी ।
कृद्ग्रहणं विस्पष्टार्थं ।
प्रपचतितराम्, प्रपचतितमां इत्यत्र तरबाद्यन्तेन समासे कृते पश्चादां ।
तत्र सति शिष्टत्वादाम एव स्वरो भवति इत्येके ।
प्रपचतिदेश्याद्यर्थं कृद्ग्रहणं दृश्यत एव । ।


____________________________________________________________________


  1. <उभे वनस्पत्यादिषु युगपत्># । । PS_६,२.१४० । ।



_____Sठाऱ्ठ्JKव्_६,२.१४०ः

प्रकृत्या इति वर्तते ।
वनस्पत्यादिषु समासेषु उभे पूर्वोत्तरपदे युगपत्प्रकृतिस्वरे भवतः ।
वनस्पतिः ।
वनपतिशब्दावाद्युदात्तौ, पारस्करप्रभृतित्वात्सुठ् ।
बृहस्पतिः ।
बृहतां पतिः ।
तद्बृहतोः करपत्योश्चोरदेवतयोः सुट्तलोपश्च इति सुट्तकारलोपश्च ।
बृहदित्येतदन्तोदात्तं निपातयन्ति ।
तस्य केचिदाद्युदात्तत्वं वर्णयन्ति ।
शचीपतिः ।
शचीशब्दः कृदिकारादक्तिनः इति ङीषन्तत्वादन्तोदात्तः ।
केचित्तु शार्ङ्गरवादिसु पठन्ति तेषां आद्युदात्तः ।
तनूनपाथ् ।
तनोतेरौणादिकः ऊप्रत्ययः, तेन तनूशब्दोऽन्तोदात्तः ।
न पाति न पालयति वा नपात्क्विबन्तः ।
नभ्राण्नपाद्(*६,३.७५) इत्यादिना आद्युदात्तो निपातितः ।
तन्वा नपात्तनूनपाथ् ।
नराशंसः ।
नरा अस्मिनासीनाः शंसन्ति, नरा एवं शंसन्ति इति वा नराशंसः ।
न्é नये ।
अबन्तो नरशब्दः आद्युदात्तः ।
शंसशब्दोऽपि घञन्तः ।
अन्येषां अपि दृश्यते (*६,३.१६७) इति दीर्घत्वं ।
शुनःशेपः ।
शुन इत्व शेपः अस्य इति बहुव्रीहिः ।
तत्र शेपपुच्छलाङ्गूलेषु शुनः सञ्ज्ञायां (*६,३.२१) इति षष्ठ्या अलुक् ।
उभावाद्युदात्तौ ।
शण्डामर्कौ ।
शण्डमर्कशब्दौ घञन्तत्वादाद्युदात्तौ ।
तयोर्द्वन्द्वे अन्येषां अपि दृश्यते (*६,३.१६७) इति दीर्घत्वं ।

[#६८६]

तृष्णावरूत्री ।
तृष्णाशब्द आद्युदात्तः ।
वरूत्रीशब्दो ग्रसितादिसूत्रे निपातितोऽन्तोदात्तः ।
तत्र द्वन्द्वे दीर्घत्वं पूर्ववथ् ।
बम्बाविश्ववयसौ ।
बम्बशब्दोऽन्तोदात्तः ।
विश्ववयःशब्दोऽपि बहुव्रीहौ विश्वं सञ्ज्ञायां (*६,२.१०६) इति विश्वशदोऽन्तोदात्तः ।
तयोर्द्वन्द्वे दीर्घत्वं पूर्ववथ् ।
मर्मृत्युः ।
मरिति मृञो विच्प्रत्ययः ।
मृत्युशब्दोऽन्तोदात्तः ।
द्वन्द्वानामदेवताद्वन्द्वार्थोऽनुदात्ताद्युत्तरपदार्थश्च वनस्पत्यादिषु पाठः । ।

____________________________________________________________________


  1. <देवताद्वन्द्वे च># । । PS_६,२.१४१ । ।



_____Sठाऱ्ठ्JKव्_६,२.१४१ः

देवतावाचिनां यो द्वन्द्वस्तत्र युगपदुभे पूर्वोत्तरपदे प्रकृतिस्वरे भवतः ।
इन्द्रासोमौ ।
इन्द्रावरुणौ ।
इन्द्राबृहस्पती ।
ऋज्रेन्द्राग्र इति इन्द्रशब्दः आद्युदात्तो निपातितः ।
सोम इति मन्प्रत्ययान्तः ।
वरुण उनन्प्रत्ययान्तः, तेन आद्युदात्तः बृहस्पतिशब्दे वनस्पत्यादित्वात्द्वावुदात्तौ, तेन इन्द्राबृहस्पती इत्यत्र त्रय उदात्ता भवन्ति ।
देवताग्रहणं किं ? प्लक्षन्यग्रोधौ ।
द्वन्द्वग्रहणं किं ? अग्निष्टोमः । ।


____________________________________________________________________


  1. <न+उत्तरपदेऽनुदात्तादावपृथिवी-रुद्र-पूष-मन्थिषु># । । PS_६,२.१४२ । ।



_____Sठाऱ्ठ्JKव्_६,२.१४२ः

उत्तरपदेऽनुदात्तादौ पृथिवी रुद्र पूषमन्थिवर्जिते देवताद्वन्द्वे न+उभे युगपत्प्रकृतिस्वरे भवतः ।
इन्द्राग्नी ।
इन्द्रवायू ।
अग्निवायुशब्दौ अन्तोदात्तौ ।
उत्तरपदग्रहणं अनुदात्तादौ इत्युत्तरपदविशेषणं यथा स्यात्, द्वन्द्वविशेषणं मा भूतिति ।
अनुदात्तादौ इति विधिप्रतिषेधयोः विषयविभागार्थं ।
अपृथिव्यादिषु इति किं ? द्यावापृथिव्यौ ।
द्यावाशब्द आद्युदात्तो निपातितः ।
पृथिवीशब्दो ङीष्प्रत्ययान्तत्वादन्तोदात्तः ।
रुद्र - सोमारुद्रौ ।
रोदेर्णिलुक्च इति रुद्रशब्दो रक्प्रत्ययान्तोऽन्तोदात्तः ।
पूषन्- इन्द्रापूषणौ ।
स्वन्नुक्षन्पूषनिति पूषान्तोदात्तो निपात्यते ।
मन्थिन्- शुक्रामन्थिनौ मन्थोऽस्य अस्ति इति मन्थी ।
इन्नतत्वादन्तोदात्तः ।
पृथिव्यादिषु तु उभे युगपत्प्रकृतिस्वरे भवत एव । ।


____________________________________________________________________


  1. <अन्तः># । । PS_६,२.१४३ । ।



_____Sठाऱ्ठ्JKव्_६,२.१४३ः
अन्तः इत्यधिकारः ।
यदित ऊर्ध्वं अनुक्रमिष्यामस्तत्र समासस्य+उत्तरपदस्य अन्तः उदात्तः भवति इत्येवं तद्वेदितव्यं ।
वक्ष्यति थाथघञ्क्ताजबित्रकाणां (*६,२.१४४) इति ।
सुनीथः ।
अवभृथः । ।


____________________________________________________________________


[#६८७]

  1. <थ-अथ-घञ्-क्त-अज्-अब्-इत्र-काणाम्># । । PS_६,२.१४४ । ।



_____Sठाऱ्ठ्JKव्_६,२.१४४ः

थ अथ घञ्क्त अचपित्र क इत्येवं अन्तानां उत्तरपदानां गतिकारकोपपदात्परेषां अन्तः उदात्तो भवति ।
सुनीथः ।
अवभृथः ।
हनिकुषिनीरमिकाशिभ्यः क्थनिति अवे भृञः इति च क्थन्प्रत्ययान्तावेतौ ।
तत्र कृदुत्तरपदप्रकृतिस्वरत्वेन आद्युदात्तं उत्तरपदं स्याथ् ।
अथ - आवसथः उपवसथः ।
उपसर्गे वसेः इति अथन्प्रत्ययः घञ्- प्रभेदः ।
काष्ठभेदः ।
रज्जुभेदः ।
क्त - दूरादागतः ।
आतपशुष्कः ।
विशुष्कः ।
अच्- प्रक्षयः ।
प्रजयः ।
क्षयो निवासे (*६,१.२०१) जयः करणं (*६,१.२०२) इति च आद्युदात्तौ क्षयजयशब्दौ प्रयोजयतः ।
अप्- प्रलवः ।
प्रसवः ।
इत्र - प्रलवित्रं ।
प्रसवित्रं ।
क - गोवृषः ।
खरीवृषः ।
गां वर्षति, खरीं वर्षति इति मूलविभुजादित्वात्कप्रत्ययः ।
प्रवृषः ।
प्रहृषः ।
इगुपध इति कप्रत्ययः ।
वृषादीनां च (*६,१.२०३) इति वृषशब्दः आद्युदात्तः ।
गतिकारकोपपदातित्येव, सुस्तुतं भवता ।
कर्मप्रवचनीये अव्ययस्वरः एव भवति । ।


____________________________________________________________________


  1. <सु-उपमानात्क्तः># । । PS_६,२.१४५ । ।



_____Sठाऱ्ठ्JKव्_६,२.१४५ः

सु इत्येतस्मादुपमानाच्च परं क्तान्तं उत्तरपदं अन्तोदात्तं भवति ।
सुकृतं ।
सुभुक्तं ।
सुपीतं ।
उपमानात्- वृकावलुप्तं ।
शशप्लुतं ।
सिंहविनर्दितं ।
सुशब्दात्गतिरनन्तरः (*६,२.४९) इति प्राप्ते उपमाना दपि तृतीया कर्मणि (*६,२.४८) इत्ययं अपवादः ।
गतिकारकोपपदातित्येव, सुस्तुतं भवता । ।


____________________________________________________________________


  1. <सञ्ज्ञायां अनाचितादीनाम्># । । PS_६,२.१४६ । ।



_____Sठाऱ्ठ्JKव्_६,२.१४६ः

सञ्ज्ञायां विषये गतिकारकोपपदाद्क्तान्तं उत्तरपदं अन्तोदात्तं भवति आचितादीन्वर्जयित्वा ।
सम्भूतो रामायणः ।
उपहूतः शाकल्यः ।
परिजग्धः कौण्डिन्यः ।
सम्भूतः इति प्रत्यर्थात्भवतेः कर्मणि क्तः ।
गतिरनन्तरः (*६,२.४९) इत्यत्र हि कर्मणि इत्यनुवर्तते, तद्बाधनार्थं चेदं ।
धनुष्खाता नदी ।
कुद्दालखातं नगरं ।
हस्तिमृदिता भूमिः ।
तृतीया कर्मणि (*६,२.४८) इति प्राप्तिरिह बाध्यते ।
अनाचितादीनां इति किं ? आचितं ।
अप्र्याचितं ।
आस्वापितं ।
परिगृहीतं ।
नरुक्तं ।
प्रतिपन्नं ।
प्राश्लिष्टं ।
उपहतं ।
उपस्थितं ।
संहिताऽगवि ।
संहिताशब्दो यदा गोरन्यस्य सञ्ज्ञा तदा अन्तोदत्तो न भवति ।
यदा तु गोः सञ्ज्ञा तदा अन्तोदात्त एव । ।


____________________________________________________________________


  1. <प्रवृद्धादीनां च># । । PS_६,२.१४७ । ।



_____Sठाऱ्ठ्JKव्_६,२.१४७ः

प्रवृद्धादीनां च क्तान्तं उत्तरपदं अन्तोदात्तं भवति ।
प्रवृद्धं यानं ।
प्रवृद्धो वृषलः ।
प्रयुक्ताः सक्तवः आकर्षे अवहितः ।
अवहितो भोगेसु ।
खट्वारूढः ।
कविशस्तः ।
यानदीनां अत्र गणे पाठः प्रायोवृत्तिप्रदर्शनार्थः, न विषयनियमार्थः ।
यानादिभ्योऽन्यत्र अपि तेषां अन्तोदात्तत्वं भवत्येव ।
विषयनियमार्थ एव+इत्येके ।
असञ्ज्ञार्थोऽयं आरम्भः ।
आकृतिगणश्च प्रवृद्धादिर्द्रष्तव्यः ।
तेन पुनरुत्स्यूतं वासो देयम्, पुनर्निष्कृतो रथः इत्येवं आदि सिद्धं भवति । ।


____________________________________________________________________


[#६८८]

  1. <कारकाद्दत्त-श्रुतयोरेव आशिषि># । । PS_६,२.१४८ । ।



_____Sठाऱ्ठ्JKव्_६,२.१४८ः

सञ्ज्ञायां इति वर्तते, क्तः इति च ।
सञ्ज्ञायां विषये आशिषि गम्यमानायां कारकादुत्तरयोः दत्तश्रुतयोरेव क्तान्तयोरन्त उदात्तो भवति ।
देवा एनं देयासुः देवदत्तः ।
विष्णुरेनं श्रूयात्विष्णुश्रुतः ।
कारकातिति किं ? कारकान्नियमो मा भूथ् ।
सम्भूतो रामायणः ।
दत्तश्रुतयोः इति किं ? देवपालितः ।
एतस्मान्नियमादत्र सञ्ज्ञायां अनाचितादीनां (*६,२.१४६) इत्यन्तोदात्तत्वं न भवति ।
तृतीया कर्मणि (*६,२.४८) इत्येव अत्र भवति ।
एवकारकरणं किं ? कारकावधारणं यथा स्यत्, दत्तश्रुतावधारणं मा भूथ् ।
अकारकादपि दत्तश्रुतयोरन्त उदात्तो भवति ।
संश्रुतः ।
विश्रुतः ।
आशिषि इति किं ? अनाअशिषि नियमो मा भूथ् ।
देवैः खाता देवखाता ।
कारकाद्दत्तश्रुतयोराशिस्येव इत्येवं अत्र नियम इष्यते ।
तेन आहतो नदति देवदत्तः इत्यत्र न भवति ।
देवदत्त इति कस्यचिच्छङ्खस्य नाम ।
तत्र तृतीया कर्मणि (*६,२.४८) इति पूर्वपदप्रकृतिस्वरत्वं एव भवति । ।


____________________________________________________________________


  1. <इत्थंभूतेन कृतं इति च># । । PS_६,२.१४९ । ।



_____Sठाऱ्ठ्JKव्_६,२.१४९ः

इमं प्रकारमापन्न इत्थम्भूतः ।
इत्थंभूतेन कृतं इत्येतस्मिन्नर्थे यः समसो वर्तते तत्र क्तान्तं उत्तरपदं अन्तोदात्तं भवति ।
सुप्तप्रलपितं ।
उन्मत्तप्रलपितं ।
प्रमत्तगीतं ।
विपन्नश्रुतं ।
कृतं इति क्रियासामान्ये करोतिर्वर्तते, नाभूतप्रादुर्भाव एव ।
तेन प्रलपिताद्यपि कृतं भवति ।
तृतीया कर्मणि (*६,२.४८) इत्यस्य अयं अपवादः ।
भावे तु यदा प्रलपितादयस्तदा थाथादिस्वरेण+एव सिद्धं अन्तोदात्तत्वं भवति । ।


____________________________________________________________________


  1. <अनो भाव-कर्म-वचनः># । । PS_६,२.१५० । ।



_____Sठाऱ्ठ्JKव्_६,२.१५०ः

अनप्रत्ययान्तं उत्तरपदं भाववचनं कर्मवचनं च कारकात्परमन्तोदात्तं भवति ।
ओदनभोजनं सुखं ।
पयःपानं सुखं ।
चन्दनप्रियङ्गुकालेपनं सुखं ।
कर्मवचनः - राजभोजनाः शालयः ।
राजच्छादनानि वसांसि ।
कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखं (*३,३.११६) इत्ययं योगः उभयथा वर्ण्यते ।
कर्मण्युपपदे भावे ल्युड्भवति, कर्मण्यभिधेये ल्युड्भवति इति ।
तत्र पूर्वस्मिन्सूत्रार्थे भाववचनोदाहरणानि, उत्तरत्र कर्मवचनोदाहरणानि ।
अनः इति किं ? हस्तहार्यमुदश्विथ् ।
भावकर्मवचनः इति किं ? दन्तधावनं ।
करणे ल्युठ् ।
कारकातित्येव ।
निदर्शनं ।
अवलेखनं ।
सर्वेसु प्रत्युदाहरणेषु प्रकृतिस्वरो भवति । ।


____________________________________________________________________


[#६८९]

  1. <मन्-क्तिन्-व्याख्यान-शयन-आसन-स्थान-याजक-आदि-क्रीताः># । । PS_६,२.१५१ । ।



_____Sठाऱ्ठ्JKव्_६,२.१५१ः

मन्नन्तं क्तिन्नन्तं व्याख्यान शयन स्थान इत्येतानि याजकादयः क्रीतशब्दश्च+उत्तरपदं अनतोदात्तं भवति ।
मन्- रथवर्त्म ।
शकटवर्त्म ।
क्तिन्- पाणिनिकृतिः ।
आपिशलिकृतिः ।
व्याख्यान - ऋगयनव्याख्यानं ।
छन्दोव्याख्यानं ।
शयन - राजशयनं ।
ब्राह्मणशयनं ।
आसन - राजासनं ।
ब्राह्मणासनं ।
स्थान - गोस्थानं ।
अश्वस्थानं ।
याजकादिः - ब्राह्मणयाजकः ।
क्षत्रिययाजकः ।
ब्राह्मणपूजकः ।
क्षत्रियपूजकः ।
याजकादयो ये याजकदिभिश्च (*२,२.९) इति षष्ठीसमासार्थाः पठ्यन्ते त एव+इह गृह्यन्ते ।
क्रीत - गोत्रीतः ।
अश्वक्रीतः ।
कृत्स्वरापवादोऽयं योगः ।
क्रीतशब्दे तु तृतीया कर्मणि (*६,२.४८) इत्यस्य अपवादः ।
व्याख्यानशयनासनस्थानानां अभावकर्मार्थं ग्रहणं ।
कारकातित्येव, प्रकृतिः ।
प्रहृतिः । ।


____________________________________________________________________


  1. <सप्तम्याः पुण्यम्># । । PS_६,२.१५२ । ।



_____Sठाऱ्ठ्JKव्_६,२.१५२ः

सप्तम्यन्तात्परं पुण्यं इत्येतदुत्तरपदं अन्तोदात्तं भवति ।
अध्ययने पुण्यं अध्ययनपुण्य ।
वेदे पुण्य वेदपुण्यं ।
सप्तमी इति योगविभागात्समासः ।
तत्पुरुषे तुल्यार्थ इति पूर्वपदकृतिस्वरत्वं प्राप्तं इत्यन्तोदात्तत्वं विधीयते ।
उणादीनां तु व्युत्पत्तिपक्षे कृत्स्वरेण आद्युदात्तः पुण्यशब्दः स्यातिति ।
सप्तम्याः इति किं ? वेदेन पुण्यं वेदपुन्यं । ।


____________________________________________________________________


  1. <ऊनार्थ-कलहं तृतीआयाः># । । PS_६,२.१५३ । ।



_____Sठाऱ्ठ्JKव्_६,२.१५३ः

ऊनार्थान्युत्तरपदानि कलहशब्दश्च तृतीयान्तात्पराण्यनतोदात्तानि भवन्ति ।
माषोनं ।
कार्षापणोनं ।
माषविकलं ।
कार्षापणविकलं ।
कलह - असिकलहः ।
वाक्कलहः ।
तृतीयापूर्वपदप्रकृतिस्वरापवदो योगः ।
अत्र केचिदर्थे इति स्वरूपग्रहणं इच्छन्ति ।
धान्येन अर्थो धान्यार्थः ।
ऊनशब्देन+एव त्वर्थनिर्देशर्थेन तदर्थानां ग्रहणं इति प्रतिपदोक्तत्वादेव तृतीयासमासपरिग्रहे सिद्धे तृतीयाग्रहणं विस्पष्टार्थं । ।


____________________________________________________________________


  1. <मिश्रं च अनुपसर्गं असन्धौ># । । PS_६,२.१५४ । ।



_____Sठाऱ्ठ्JKव्_६,२.१५४ः

तृतीया इति वर्तते ।
मिश्र इत्येतदुत्तरपदं अनुपसर्गं तृतीयान्तात्परं अन्तोदात्तं भवति असन्धौ गम्यमाने ।
गुडमिश्राः ।
तिलमिश्राः ।
सर्पिर्मिश्राः ।
मिश्रं इति किं ? गुडधानाः ।
अनुपसर्गं इति किं ? गुडसंमिश्राः ।
इह अनुपसर्गग्रहणं ज्ञापकं अन्यत्र मिश्रगहणे सोपसर्गग्रहणस्य ।
तेन मिश्रश्लक्ष्णैः इति सोपसर्गेण अपि मिश्रशब्देन तृतीयासमासो भवति ।
असन्धौ इति किं ? ब्राह्मणमिश्रो राजा ।
ब्राह्मणैः सह संहितः ऐकार्थ्यां आपन्नः ।
सन्धिः इति हि पणबन्धेन ऐकार्थ्यं उच्यते ।
केचित्पुनराहुः गृह्यमाणविशेषा प्रत्यासत्तिः सन्धिः इति ।
अत्र राज्ञो ब्राह्मणैः सह देशप्रत्यासत्तावपि सत्यां मूर्तिविभागो गृह्यते इति ब्राह्मणमिश्रो रजा इति प्रत्युदाह्रियते ।

[#६९०]

उदाहरणेष्वविभागापत्तिरेव गुडमिश्राः इति । ।


____________________________________________________________________


  1. <नञो गुणप्रतिषेधे सम्पाद्य्-अर्ह-हित-अलमर्थास्तद्धिताः># । । PS_६,२.१५५ । ।



_____Sठाऱ्ठ्JKव्_६,२.१५५ः

सम्पादि अर्ह हित अलं इत्येवं अर्था ये तद्धिताः तदन्तानि उत्तरपदानि नञो गुणप्रतिषेधे वर्तमानात्पराणि अन्तोदात्तानि भवन्ति ।
सम्पादि-कर्णवेष्टकाभ्यां सम्पादि मुखं कार्णवेष्टकिकम्, न कार्णवेष्टकिकं अकार्णवेष्टकिकं ।
अर्हं - छेदमर्हति छैदिकः, न छैदिकः अच्छैदिकः ।
हित - वत्सेभ्यो हितः वत्सीयः, न वर्सीयः अवर्सीयः ।
अलमर्थ - सन्तापाय प्रभवति सान्तापिकः, न सान्तापिकः असान्तापिकः ।
नञः इति किं ? गर्दभरथं अर्हति, गार्दभरथिकः ।
विगार्दभरथिकः ।
गुणप्रतिषेधे इति किं ? गार्दभरथिकादन्यः अगार्दभरथिकः ।
गुण इति तद्धितार्थप्रवृत्तिनिमित्तं सम्पादित्वाद्युच्यते ।
तत्प्रतिषेधो यत्र+उच्यते समासे तत्र अयं विधिः कर्नवेष्टकाभ्यां ।
सम्पादि मुखं इति ।
सम्पाद्यर्हहितालमर्थाः इति किं ? पाणिनीयं अधीते पाणिनीयः, न पाणिनीयः अपाणिनीयः ।
तद्धिताः इति किं ? अन्यां वोढुमर्हति कन्यावोढा, न वोढा अवोढा ।
अर्हे कृत्यतृचश्च (*३,३.१६९) इति तृच् । ।


____________________________________________________________________


  1. <य-यतोश्च अतदर्थे># । । PS_६,२.१५६ । ।



_____Sठाऱ्ठ्JKव्_६,२.१५६ः

य यतित्येतौ यौ तद्धितावतदर्थे वर्तते तदन्तस्य+उत्तरपदस्य नञो गुणप्रतिषेधविषयादन्त उदात्तो भवति ।
पाशानां समूहः पाश्या, न पाश्या अपाश्या ।
अतृण्या ।
यत्- दन्तेषु भवं दन्त्यम्, न दन्त्यं अदन्त्यं ।
अकर्ण्यं ।
अतदर्थे इति किं ? पादार्थमुदकं पाद्यम्, न पाद्यं अपाद्यं ।
तद्धिता इत्येव, अदेयं ।
गुणप्रतिषेधे इत्येव, दन्त्यादन्यददन्त्यं ।
निरनुबन्धकैकानुबन्धकयोर्ययतोर्ग्रहणादिह न भवति, वामदेवाड्ड्यड्ड्यौ (*४,२.५) वामदेव्यम्, न वामदेव्यं अवामदेव्यं इति । ।

____________________________________________________________________


  1. <अच्-कावशक्तौ># । । PS_६,२.१५७ । ।



_____Sठाऱ्ठ्JKव्_६,२.१५७ः

अच्क इत्येवं अन्तं अशक्तौ गम्यमानायां उत्तरपदं नञः परमन्तोदत्तं भवति ।
अपचः यः पक्तुं न शक्नोति ।
अजयः ।
कः खल्वपि - अविक्षिपः ।
अविलिखः ।
अशक्तौ इति किं ? अपचो दीक्षितः ।
अपचः परिव्राजकः । ।


____________________________________________________________________


  1. <आक्रोशे च># । । PS_६,२.१५८ । ।



_____Sठाऱ्ठ्JKव्_६,२.१५८ः

आक्रोशे च गम्यमाने नञः उत्तरमच्कान्तं अन्तोदात्तं भवति ।
अपचोऽयं जाल्नमः अपठोऽयं जाल्मः ।
पक्तुं पठितुं शक्तोऽप्येवं आक्रुश्यते ।
अविक्षिपः ।
अविलिखः । ।


____________________________________________________________________


[#६९१]

  1. <सञ्ज्ञायाम्># । । PS_६,२.१५९ । ।



_____Sठाऱ्ठ्JKव्_६,२.१५९ः

अक्रोशे गम्यमाने नञः परं उत्तरपदं सञ्ज्ञायां वर्तमानं अन्तोदात्तं भवति ।
अदेवदत्तः ।
अयज्ञदत्तः ।
अविष्णुमित्रः । ।


____________________________________________________________________


  1. <कृत्य-उक-इष्णुच्-चार्व्-आदयश्च># । । PS_६,२.१६० । ।



_____Sठाऱ्ठ्JKव्_६,२.१६०ः

कृत्य उक इष्णुचित्येवं अन्ताश्चार्वादयश्च नञः उत्तरेऽन्तोदात्ताः भवन्ति ।
कृत्य - अकर्तव्यं ।
अक-रणीयं ।
उक - अनागामुकं ।
अनपलाषुकं ।
इष्णुच्- अनलङ्करिष्णुः ।
अनिराकरिष्णुः ।
इष्णुज्- ग्रहणे कर्तरि भुवः खिष्णुच्(*३,२.५७) इत्यस्य द्व्यनुबन्धकस्य अपि ग्रहणं इकारादेर्विधानसामर्थ्याद्भवति ।
अनाढ्यम्भविष्णुः ।
असुभगम्भविष्णुः ।
चार्वादयः - अचारुः ।
असाधुः ।
अयौधिकः ।
अवदान्यः ।
चारु ।
साधु ।
यौधिक ।
अनङ्गमेजय ।
अत्र द्वितीये नञ्समासेऽन्तोदात्तत्वं ।
अननङ्गमेजयः ।
वदान्य ।
अकस्माथ् ।
अत्र अपि द्वितीये नञ्समासेऽन्तोदात्तत्वं ।
अनकस्माथ् ।
अवर्तमानवर्धमानत्वरमाणध्रियमाण. रोचमानशोभमानाः सञ्ज्ञायां ।
एते वर्तमानादयः सञ्ज्ञायां द्रष्दव्याः ।
विकारसदृशे व्यस्तसमस्ते ।
अविकारः ।
असदृशः ।
अविकारसदृशः ।
गृहपति ।
गृहपतिक ।
राजाह्नोश्छन्दसि ।
अराजा ।
अनहः ।
भाषायां नञ्स्वर एव भवति । ।


____________________________________________________________________


  1. <विभाषा तृन्न्-अन्न-तीक्ष्ण-शुचिषु># । । PS_६,२.१६१ । ।



_____Sठाऱ्ठ्JKव्_६,२.१६१ः

तृन्नन्त अन्न तीक्ष्ण शुचि इत्येतेषु नञ उत्तरेषु विभाषा अन्तः उदात्तो भवति ।
तृन्- अकर्ता, अकर्ता ।
अन्न - अनन्नम्, अनन्नं ।
तीक्ष्ण - अतीक्ष्णम्, अतीक्ष्णं ।
शुचि - अशुचिः, अशुचिः ।
पक्षेऽव्ययस्वर एव भवति । ।


____________________________________________________________________


  1. <बहुव्रीहाविदम्-एतत्-तद्भ्यः प्रथम-पूरनयोः क्रियागणने># । । PS_६,२.१६२ । ।



_____Sठाऱ्ठ्JKव्_६,२.१६२ः

बहुव्रीहौ समासे इदं एतद्तदित्येतेभ्यः उत्तरस्य प्रथमशब्दस्य पूरणप्रत्ययान्तस्य च क्रियागणने वर्तमानस्य अनतः उदात्तः भवति ।
इदं प्रथमं गमनं भोजनं वा यस्य स इदंप्रथमः ।
इदंद्वितीयः ।
इदंतृतीयः ।
एतत्प्रथमः ।
एतद्द्वितीयः ।
एतत्तृतीयः ।
तत्प्रथमः ।
तद्द्वितीयः ।
तत्तृतीयः ।
बहुव्रीहौ इति किं ।
अनेन प्रथमः इदंप्रथमः ।
तृतीया इति योगविभागात्समासः ।
इदमेतत्तद्भ्यः इति किं ? यत्प्रथमः ।
प्रथमपूरणयोः इति किं ? तानि बहून्यस्य तद्बहुः ।
क्रियागणने इति किं ? अयं प्रथम एषां ते इदंप्रथमाः ।
द्रव्यगणनं एतथ् ।
गणने इति किं ? अयं प्रथम एषां ते इदंप्रथमाः ।
इदम्प्रधाना इत्यर्थः ।
उत्तरपदस्य कार्यित्वात्कपि पूर्वं अन्तोदात्तं भवति ।
इदम्प्रथमकाः ।
बहुव्रीहौ इत्येतत्वनं समासे (*६,२.१७८) इति प्रागेतस्मादधिकृतं वेदितव्यं । ।


____________________________________________________________________


[#६९२]

  1. <सङ्ख्यायाः स्तनः># । । PS_६,२.१६३ । ।



_____Sठाऱ्ठ्JKव्_६,२.१६३ः
सङ्ख्यायाः परः स्तनशब्दो बहुव्रीहौ समासेऽन्तोदात्तो भवति ।
द्विस्तना ।
त्रिस्तना ।
चतुःस्तना ।
सङ्ख्यायाः इति किं ? दर्शनीयस्तना ।
स्तनः इति किं ? द्विशिराः । ।


____________________________________________________________________


  1. <विभाषा># । । PS_६,२.१६४ । ।



_____Sठाऱ्ठ्JKव्_६,२.१६४ः

छन्दसि विषये बहुव्रीहौ समासे सङ्ख्यायाः परः स्तनशब्दो विभासाऽन्तोदात्तो भवति ।
द्विस्तनां करोति द्यावापृथिव्योर्दोहाय चतुःस्तनां करोति पशूनां दोहायाष्टस्तनां करोति छन्दसां दोहाय । ।


____________________________________________________________________


  1. <सञ्ज्ञायां मित्र-अजिनयोः># । । PS_६,२.१६५ । ।



_____Sठाऱ्ठ्JKव्_६,२.१६५ः

सञ्ज्ञायां विषये बहुव्रीहौ समासे मित्र अजिन इत्येतयोः उत्तरपदयोः अन्तः उदात्तो भवति ।
देवमित्रः ।
ब्रह्ममित्रः ।
वृकाजिनः ।
कूलाजिनः ।
कृष्णाजिनः ।
सञ्ज्ञायां इति किं ? प्रियमित्रः ।
महाजिनः ।
ऋषिप्रतिषेधो मित्रे ।
विश्वामित्र ऋषिः । ।

____________________________________________________________________


  1. <व्यवायिनोऽन्तरम्># । । PS_६,२.१६६ । ।



_____Sठाऱ्ठ्JKव्_६,२.१६६ः

व्यवायी व्यवधाता, तद्वाचिनः प्रमनतरं बहुव्रीहौ समासे अन्तोदात्तं भवति ।
वस्त्रान्तरः ।
पटान्तरः ।
कम्बलान्तरः ।
वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः ।
वस्त्रव्यवधायकः इत्यर्थः ।
व्यवायिनः इति किं ? आत्मान्तरः ।
आत्मा स्वभावोऽन्तरोऽन्यो यस्य असौ आत्मान्तरः । ।


____________________________________________________________________


  1. <मुखं स्वाङ्गं># । । PS_६,२.१६७ । ।



_____Sठाऱ्ठ्JKव्_६,२.१६७ः

मुखं उत्तरपदं स्वाङ्गवाचि बहुव्रीहौ समासेऽन्तोदात्तं भवति ।
गौरमुखः ।
भद्रमुखः ।
स्वाड्गं इति किं ? दीर्घमुखा शाला ।
स्वाङ्गमद्रवादिलक्षणं इह गृह्यते । ।


____________________________________________________________________


[#६९३]

  1. <न अव्यय-दिक्शब्द-गो-महत्-स्थूल-मुष्टि-पृथु-वत्सेभ्यः># । । PS_६,२.१६८ । ।



_____Sठाऱ्ठ्JKव्_६,२.१६८ः

अव्यय दिक्शब्द गो महत्स्थूल मुष्टि पृथु वत्स इत्येतेभ्यः परं मुखं स्वाङ्गवाचि बहुव्रीहौ समासे न अन्तोदात्तं भवति ।
अव्यय - उच्चैर्मुखः ।
नीचैर्मुखः ।
दिक्शब्द - प्राङ्मुखः ।
प्रत्यङ्मुखः ।
गो - गोमुखः ।
महत्- महामुखः ।
स्थूल - स्थूलमुखः ।
मुष्टि - मुष्टिमुखः ।
पृथु - पृथुमुखः ।
वत्स - वत्समुखः ।
पूर्वपदप्रकृतिस्वरो यथायोगं एषु भवति ।
गोमुष्टिवत्सपूर्वस्य+उपमानलक्षणो विकल्पः पूर्वविप्रतिषेधेन बाध्यते । ।


____________________________________________________________________


  1. <निष्ठा-उपमानादन्यतरस्याम्># । । PS_६,२.१६९ । ।



_____Sठाऱ्ठ्JKव्_६,२.१६९ः

निष्ठान्तातुपमानवाचिनश्च मुखं स्वाङ्गं उत्तरपदं अन्यतरस्यां बहुव्रीहौ समासेऽन्तोदात्तं भवति ।
प्रक्षालितमुखः, प्रक्षालितमुखः, प्रक्षालितमुखः ।
यदा+एतदुत्तरपदान्तोदात्तत्वं न भवति तदा निष्ठोपसर्गपूर्वं अन्यतरस्यां (*६,२.११०) इति पक्षे पूर्वपदान्तोदात्तत्वं, तदभावपक्षेऽपि पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरः इति त्रीण्युदाहरणानि भवन्ति ।
उपमानात्- सिंहमुखः, सिंहमुखः ।
व्याघ्रमुखः, व्याघ्रमुखः । ।


____________________________________________________________________


  1. <जाति-काल-सुख-आदिभ्योऽनाच्छादनात्क्तोऽकृत-मित-प्रतिपन्नाः># । । PS_६,२.१७० । ।



_____Sठाऱ्ठ्JKव्_६,२.१७०ः

जातिवाचिनः आच्छादनवर्जितात्कालवाचिनः सुखादिभ्यश्च परं क्तान्तं कृतमितप्रतिपन्नान्वर्जयित्वा बहुव्रीहौ समासेऽन्तोदात्तं भवति ।
सारङ्गजग्धः ।
पलाण्डुभक्षितः ।
सुरापीतः ।
काल - मासजातः ।
संवत्सरजातः ।
द्व्यहजातः ।
त्र्यहजातः ।
सुखादिभ्यः - सुखजातः ।
दुःखजातः ।
तृप्रजातः ।
जात्यादिभ्यः इति किं ? पुत्रजातः ।
आहिताग्न्यादित्वात्परनिपातः ।
अनाच्छादनातिति किं ? वस्त्रच्छन्नः ।
वसनच्छन्नः ।
अकृतमितप्रतिपन्नाः इति किं ? कुण्डकृतः ।
कुण्डमितः ।
कुण्डप्रतिपन्नः ।
एतेसु बहुव्रीहिषु निष्ठान्तस्य पूर्वनिपातो न भवत्येव अस्मादेव ज्ञापकाथ् ।
प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरो योजयितव्यः ।
सुखादयस्तृतीयेऽध्याये पठ्यन्ते । ।


____________________________________________________________________


  1. <वा जाते># । । PS_६,२.१७१ । ।



_____Sठाऱ्ठ्JKव्_६,२.१७१ः

जातशब्दे उत्तरपदे वा अन्त उदात्तो भवति बहुव्रीहौ समासे जातिकालसुखादिभ्यः ।
दन्तजातः, दन्तजातः ।
स्तनजातः, स्तनजातः ।
कालात्- मासजातः, मासजातः ।
संवत्सरजातः, संवत्सरजातः ।
सुखादिभ्यः - सुखजातः, सुखजातः ।
दुःखजातः, दुःखजातः । ।


____________________________________________________________________


[#६९४]

  1. <नञ्-सुभ्याम्># । । PS_६,२.१७२ । ।



_____Sठाऱ्ठ्JKव्_६,२.१७२ः

नञ्सुभ्यां परं उत्तरपदं बहुव्रीहौ समासेऽन्तोदात्तं भवति ।
अयवो देशः ।
अव्रीहिः ।
अमाषः ।
सुयवः ।
सुव्रीहिः ।
सुमाषः ।
समासस्य+एतदन्तोदात्तत्वं इष्यते ।
समासान्ताश्च अवयवा भवन्ति इति अनृचः, बह्वृचः इत्यत्र कृते समासान्तेऽन्तोदात्तत्वं भवति । ।

____________________________________________________________________


  1. <कपि पूर्वम्># । । PS_६,२.१७३ । ।



_____Sठाऱ्ठ्JKव्_६,२.१७३ः

नञ्सुभ्या कपि परतः पूर्वं अन्तोदात्तं भवति ।
अकुमारीको देशः ।
अवृषलीकः ।
अब्रह्मबन्धूकः ।
सुकुमारीकः ।
सुवृषलीकः ।
सुब्रह्मबन्धूकः । ।


____________________________________________________________________


  1. <ह्रस्वान्तेऽन्त्यात्पूर्वम्># । । PS_६,२.१७४ । ।



_____Sठाऱ्ठ्JKव्_६,२.१७४ः

ह्रस्वोऽन्तो यस्य तदिदं ह्रस्वान्तं उत्तरपदं समासो वा, तत्र अन्त्यात्पूर्वं उदात्तं भवति कपि परतो नञ्सुह्यां परं बहुव्रीहौ समासे ।
अयवको देशः ।
अव्रीहिकः ।
अमाषकः ।
सुयवकः ।
सुव्रीहिकः सुमाषकः ।
पूर्वं इति वर्तमने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमप्रतिपत्त्यर्थम्, ह्रस्वान्तेऽन्त्यात्पूर्वं उदात्तं भवति, न कपि पूर्वं इति ।
तेन अज्ञकः, सुज्ञकः इत्यत्र कबन्तस्य+एव अन्तोदात्तत्वं भवति । ।


____________________________________________________________________


  1. <बहोर्नञ्वदुत्तरपदभूम्नि># । । PS_६,२.१७५ । ।



_____Sठाऱ्ठ्JKव्_६,२.१७५ः

उतरपदार्थबहुत्वे यो बहुशब्दो वर्तते तस्मात्नञ इव स्वरो भवति ।
नञ्सुभ्यां (*६,२.१७२) इत्युक्तम्, बहोरपि तथा भवति ।
बहुयवो देशः बहुव्रीहिः ।
बहुतिलः ।
कपि पूर्वं (*६,२.१७३) इत्युक्तम्, बहोरपि तथा भवति ।
बहुकुमारीको देशः ।
बहुवृषलीकः ।
बहुब्रह्मबन्धूकः ।
ह्रस्वान्तेऽन्तोऽन्त्यात्पूर्वं (*६,२.१७४) इत्युक्तम्, बहोरपि तथा भवति ।
बहुयवको देशः ।
बहुव्रीहिकः ।
बहुमाषकः ।
नञो जरमरमित्रमृताः (*६,२.११६) इत्युक्तम्, बहोरपि तथा भवति ।
बहुजरः ।
बहुमरः ।
बहुमित्रः ।
बहुमृतः ।
उत्तरपदभूम्नि इति किं ? बहुषु मनः अस्य बहुमनाः अयं । ।


____________________________________________________________________


  1. <न गुणादयोऽवयवाः># । । PS_६,२.१७६ । ।



_____Sठाऱ्ठ्JKव्_६,२.१७६ः

बुणादयोऽवयववाचिनो बहोरुत्तरे बहुव्रीहौ नान्तोदात्ताः भवन्ति बहुगुणा रज्जुः ।
बह्वक्षरं पदं ।
बहुच्छन्दो मानं ।
बहुसूक्तः ।
बह्वध्यायः ।
गुणादिराकृतिगणो द्रष्टव्यः ।
अवयवाः इति किं ? बहुगुणो ब्राह्मणः ।
अध्ययनश्रुतसदाचारदयोऽत्र गुणाः । ।


____________________________________________________________________


[#६९५]

  1. <उपसर्गात्स्वाङ्गं ध्रुवं अपर्शु># । । PS_६,२.१७७ । ।



_____Sठाऱ्ठ्JKव्_६,२.१७७ः

उपसर्गात्स्वाङ्गं ध्रुवं पर्शुवर्जितं अन्तोदात्तं भवति बहुव्रीहौ समासे ।
प्रपृष्ठः ।
प्रोदरः ।
प्रललाटः ।
ध्रुवं इत्येकरूपं उच्यते, ध्रुवं अस्य शीतं इति यथा ।
सततं यस्य प्रगतं पृष्ठं बह्वति स प्रपृष्ठः ।
उपसर्गातिति किं ? दर्शनीयललाटः ।
स्वाङ्गं इति किं ? प्रशाखो वृक्षः ।
ध्रुवं इति किं ? उद्बाहुः क्रोशति ।
अपर्शु इति किं ? उत्पर्शुः ।
विपर्शुः । ।


____________________________________________________________________


  1. <वनं समासे># । । PS_६,२.१७८ । ।



_____Sठाऱ्ठ्JKव्_६,२.१७८ः

समासमात्रे वनं इत्येतदुत्तरपदं उपसर्गात्परमन्तोदात्तं भवति ।
प्रवणे यष्टव्यं ।
निर्वणे प्रणिधीयते ।
प्रनिरन्तः इति णत्वं ।
समासग्रहणं समासमात्रपरिग्रहार्थम्, बहुव्रीहावेव हि स्यात् । ।


____________________________________________________________________


  1. <अन्तः># । । PS_६,२.१७९ । ।


_____Sठाऱ्ठ्JKव्_६,२.१७९ः

अन्तःशब्दादुत्तरं वनं अन्तोदात्तं भवति ।
अन्तर्वणो देशः ।
अनुपसर्गार्थ आरम्भः । ।


____________________________________________________________________


  1. <अन्तश्च># । । PS_६,२.१८० । ।



_____Sठाऱ्ठ्JKव्_६,२.१८०ः

अन्तःशब्दश्च उत्तरपदं उपसर्गादन्तोदात्तं भवति ।
प्रान्तः ।
पर्यन्तः ।
बहुव्रीहिरयं प्रादिसमासो वा । ।


____________________________________________________________________


  1. <न नि-वि-भ्याम्># । । PS_६,२.१८१ । ।



_____Sठाऱ्ठ्JKव्_६,२.१८१ः

नि वि इत्येताभ्यां उत्तरोऽन्तःशब्दो न अनतोदात्तो भवति ।
न्यन्तः ।
व्यन्तः ।
पूर्वपदप्रकृतिस्वरत्वे कृते यणादेशः ।
तत्र उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (*८,२.४) इति स्वरितो भवति । ।


____________________________________________________________________

  1. <परेरभितोभावि मण्डलम्># । । PS_६,२.१८२ । ।



_____Sठाऱ्ठ्JKव्_६,२.१८२ः

परेरुत्तरं अभितोभविवचनं मण्डलं च अन्तोदात्तं भवति ।
परिकूलं ।
परितीरं ।
परिमण्डलं ।
बहुव्रीहिरयं प्रादिसमासोऽव्ययीभावो वा ।
अव्ययीभावपक्षेऽपि हि परि-प्रत्य्-उप-अपा वर्ज्यमान-अहोरात्र-अवयवेषु (*६,२.३३) इति पूर्वपदप्रकृतिस्वरत्वं प्राप्तं अनेन बाध्यते ।
अभितः इत्युभयतः ।
अभितो भावोऽस्य अस्ति इति तदभितोभावि ।
यच्च+एवं स्वभावं कूलादि तदभितोभाविग्रहणेन गृह्यते । ।


____________________________________________________________________


[#६९६]

  1. <प्राद्-अस्वङ्गं सञ्ज्ञायाम्># । । PS_६,२.१८३ । ।



_____Sठाऱ्ठ्JKव्_६,२.१८३ः

प्रादुत्तरपदं अस्वाङ्गवाचि सञ्ज्ञायां विषयेऽन्तोदात्तं भवति ।
प्रकोष्ठं ।
प्रगृहं ।
प्रद्वारं ।
अस्वङ्गं इति किं ? प्रहस्तं ।
प्रपदं ।
सञ्ज्ञायां इति किं ? प्रपीठं । ।


____________________________________________________________________


  1. <निरुदकादीनि च># । । PS_६,२.१८४ । ।



_____Sठाऱ्ठ्JKव्_६,२.१८४ः

निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि भवन्ति ।
निरुदकं ।
निरुलपं ।
निरुपलं इत्यन्ये पठन्ति ।
निर्मशकं ।
निर्मक्षिकं ।
एषां प्रादिसमासो बहुव्रीहिर्वा ।
अव्ययीभावे तु समासान्तोदात्तत्वेन+एव सिद्धं ।
निष्कालकः ।
निष्क्रान्तः कालकातिति कन्प्रत्ययान्तेन कालशब्देन प्रादिसमासः ।
निष्कालिकः इत्यन्ये पथन्ति ।
निष्पेषः ।
दुस्तरीपः ।
अवित्éस्त्éतन्त्रिभ्य ईः, तरीः ।
तां पाति इति तरीपः ।
कुत्सितः तरीपः दुस्तरीपः ।
निस्तरीपः इति केचित्पठन्ति ।
अपरे निस्तरीकः इति ।
ते तरीशब्दान्ते बहुव्रीहौ कपं कुर्वन्ति ।
निरजिनं ।
उदजिनं ।
उपाजिनं ।
परेर्हस्तपादकेशकर्षाः ।
परिहस्तः ।
परिपादः ।
परिकेशः ।
परिकर्षः ।
निरुदकादिराकृतिगणः । ।


____________________________________________________________________


  1. <अभेर्मुखम्># । । PS_६,२.१८५ । ।



_____Sठाऱ्ठ्JKव्_६,२.१८५ः
अभेरुत्तरं मुखं अन्तोदात्तं भवति ।
अभिमुखः ।
बहुव्रीहिरयं प्रादिसमासो वा ।
अव्ययीभावे तु समासान्तोदात्तत्वेन+एव सिद्धं ।
उपसर्गात्स्वाङ्गं (*६,२.१७७) इति सिद्धे वचनं अबहुव्रीह्यर्थं अध्रुवार्थं अस्वाङ्गार्थं च ।
अभिमुखा शाला । ।


____________________________________________________________________


  1. <अपाच्च># । । PS_६,२.१८६ । ।



_____Sठाऱ्ठ्JKव्_६,२.१८६ः

अपाच्च+उत्तरं मुखं अन्तोदात्तं भवति ।
अपमुखः ।
अपमुखं ।
अव्ययीभावोऽप्यत्र प्रयोजयति ।
तत्र अपि हि परि-प्रत्य्-उप-अपा वर्ज्यमान. अहोरात्र-अव्यवेषु (*६,२.३३) इत्युक्तं ।
योगविभागः उत्तरार्थः । ।


____________________________________________________________________


  1. <स्फिग-पूत-वीणा-अञ्जोऽध्व-कुक्षि-सीरनाम-नाम च># । । PS_६,२.१८७ । ।



_____Sठाऱ्ठ्JKव्_६,२.१८७ः

स्फिग पूत वीणा अञ्जसध्वन्कुक्षि इत्येतान्युत्तरपदानि सीरनामानि च नामशब्दश्च अपादुत्तराण्यन्तोदात्तनि भवन्ति ।
अपस्फिगं ।
अपपूतं ।
अपवीणं ।
अपञ्जः ।
अपाध्वा ।
उपसर्गादध्वनः (*५,४.८५) इति यदा समासान्तो न अस्ति तदा अनेन अन्तोदात्तत्वं भवति ।

[#६९७]

तस्मिन्हि सत्यच्प्रत्ययस्य चित्त्वादेव सिद्धं ।
अनित्यश्च समासान्तः इत्येतदेव ज्ञापकं ।
अपकुक्षिः ।
अपसीरः ।
अपहलं ।
अपलाङ्गलं ।
अपनाम ।
सर्वत्र प्रादिसमासो, बहुव्रीहिः, अव्ययीभावो वा ।
स्फिगपूतकुक्षीणां ग्रहणं अबहुव्रीह्यर्थं अध्रुवार्थं अस्वाङ्गार्थं च । ।


____________________________________________________________________


  1. <अधेरुपरिस्थम्># । । PS_६,२.१८८ । ।



_____Sठाऱ्ठ्JKव्_६,२.१८८ः

अधेरुत्तरं उपरिस्थवाचि अन्तोदात्तं भवति ।
अधिदन्तः ।
अधिकर्णः ।
अधिकेशः ।
अध्यारूढो दन्तः इति प्रादिसमासः ।
अध्यारूढो वा दन्तः इति समानाधिकरण उत्तरपदलोपी समस्सः ।
दन्तस्य+उपरि योऽन्योः दन्तो जायते स उच्यते अधिदन्तः इति ।
उपरिस्थं इति किं ? अधिकरणं । ।


____________________________________________________________________


  1. <अनोरप्रधानकनीयसी># । । PS_६,२.१८९ । ।



_____Sठाऱ्ठ्JKव्_६,२.१८९ः

अनोरुत्तरं अप्रधानवाचि कनीयः च अन्तोदात्तं भवति ।
अनुगतो ज्येष्ठं अनुज्येष्ठः ।
अनुमध्यमः ।
पूर्वपदप्रधानः प्रादिसमासोऽयं ।
अनुगतः कनीयाननुकनीयान् ।
उत्तरपदार्थप्रधानोऽयं ।
प्रधानार्थं च कनीयोग्रहणं ।
अप्रधानकनीयसी इति किं ? अनुगतो ज्येष्ठः अनुज्येष्ठः । ।


____________________________________________________________________


  1. <पुरुषश्च अन्वादिष्टः># । । PS_६,२.१९० । ।



_____Sठाऱ्ठ्JKव्_६,२.१९०ः

पुरुषशब्दोऽन्वादिष्टवाची च अनोरुत्तरोऽन्तोदात्तो भवति ।
अन्वादिष्टः पुरुषः अनुपुरुषः ।
अन्वादिष्ट अन्वाचितः कथितानुकथितो वा ।
अन्वादिष्टः इति किं ? अनुगतः पुरुषः अनुपुरुषः । ।


____________________________________________________________________


  1. <अतेरकृत्-पदे># । । PS_६,२.१९१ । ।



_____Sठाऱ्ठ्JKव्_६,२.१९१ः

अतेः परमकृदन्तं पदशब्दश्च अन्तोदात्तो भवति ।
अत्यङ्कुशो नागः ।
अतिकशोऽश्वः ।
अपदशब्दः खल्वपि - अतिपदा शक्वरी ।
अकृत्पदे इति किं ? अतिकारकः ।
अतेर्धातुलोप इति वक्तव्यं ।
इह माभूत्, शोभनो गार्ग्यः अतिगार्ग्यः ।
इह च यथा स्यात्, अतिक्रान्तः कारकाततिकारकः इति । ।


____________________________________________________________________


  1. <नेरनिधाने># । । PS_६,२.१९२ । ।



_____Sठाऱ्ठ्JKव्_६,२.१९२ः

नेः परमुत्तरपदं अन्तोदात्तं भवति अनिधाने ।
निधानं अप्रकाशता ।
अनिमूलं न्यक्षं ।
नितृणं ।
बहुव्रीहिरयं प्रादिसमासो वा ।
अव्ययीभावे तु समासान्तोदात्तत्वेन+एव सिद्धं ।
अनिधाने इति किं ? निवाग्वृषलः ।
निदण्डः ।
निहितवाक्, निहितदण्डः इत्यर्थः ।
निशब्दोऽत्र निधानार्थं ब्रवीति ।
प्रदयो हि वृत्तिविषये ससाधनां क्रियामाहुः । ।


____________________________________________________________________


[#६९८]

  1. <प्रतेरंश्व्-आदयस्तत्पुरुषे># । । PS_६,२.१९३ । ।



_____Sठाऱ्ठ्JKव्_६,२.१९३ः

प्रतेरंश्वादयस्तत्पुरुषे समासेऽन्तोदात्ताः भवन्ति ।
प्रतिगतः अंशुः प्रत्यंशुः ।
प्रतिजनः ।
प्रतिराजा ।
राजशब्दः समासान्तस्य अनित्यत्वाद्यदा टज्न अस्ति तदा प्रयोजयति ।
तस्मिन्हि सति चित्त्वादेव अन्तोदात्तत्वं सिद्धं ।
तत्पुरुषे इति किं ? प्रतिगताः अंशवः अस्य प्रत्यंशुः अयं उष्ट्रः ।
अंशु ।
जन ।
राजन् ।
उष्ट्र ।
खेटक ।
अजिर ।
आर्द्रा ।
श्रवण ।
कृत्तिका ।
अर्ध ।
पुर । ।


____________________________________________________________________


  1. <उपाद्द्व्यज्-अजिनं अगौरादयः># । । PS_६,२.१९४ । ।



_____Sठाऱ्ठ्JKव्_६,२.१९४ः

उपादुत्तरं द्व्यचजिनं च अन्तोदात्तं भवति तत्पुरुषे समासे गौरादीन्वर्जयित्वा ।
उपगतो देवं उपदेवः ।
उपसोमः ।
उपेन्द्रः ।
उपहोडः ।
अजिन - उपाजिनं ।
अगौरादयः इति किं ।
उपगौरः ।
उपतैषः ।
तत्पुरुषे इत्येव, उपगतः सोमोऽस्य उपसोमः ।
गौर ।
तैष ।
नैष ।
तैट ।
लट ।
लोट ।
जिह्वा ।
कृष्णा ।
कन्या ।
गुड ।
कल्य ।
पाद ।
गौरादिः । ।


____________________________________________________________________


  1. <सोरवक्षेपणे># । । PS_६,२.१९५ । ।



_____Sठाऱ्ठ्JKव्_६,२.१९५ः

सुशब्दात्परमुत्तरपदं तत्पुरुषे समासेऽन्तोदात्तं भवति अवक्षेपणे गम्यमाने ।
अवक्षेपणं निन्दा ।
इह खलु इदानीं सुस्थण्डिले सुस्फिगाभ्यां सुप्रत्यवसितः ।
सुशब्दोऽत्र पूजायां एव ।
वाक्यार्थस्तु अवक्षेपणमसूयया, तथा अभिधानाथ् ।
सोः इति किं ? कुब्राह्मणः ।
अवक्षेपणे इति किं ? शोभनेषु तृणेषु सुतृणेषु । ।


____________________________________________________________________

  1. <विभाषा+उत्पुच्छे># । । PS_६,२.१९६ । ।



_____Sठाऱ्ठ्JKव्_६,२.१९६ः

उत्पुच्छशब्दे तत्पुरुषे विभाषा अन्त उदात्तो भवति ।
उत्क्रान्तः पुच्छातुत्पुच्छः, उत्पुच्छः ।
यदा तु पुच्छमुदस्यति उत्पुच्छयति, उत्पुच्चयतेरचुत्पुच्छः, तदा थाथादिसूत्रेण नित्यं अन्तोदात्तत्वे प्राप्ते विकल्पोऽयं इति सेयं उभयत्र विभाष भवति ।
तत्पुरुषे इत्येव उदस्तं पुच्छं अस्य उत्पुच्छः । ।


____________________________________________________________________


  1. <द्वि-त्रिभ्यां पाद्-दन्-मूर्धसु बहुव्रीहौ># । । PS_६,२.१९७ । ।



_____Sठाऱ्ठ्JKव्_६,२.१९७ः
द्वि त्रि इत्येताभ्यां उत्तरेसु पाद्दत्मूर्धनित्येतेषु उत्तरपदेषु यो बहुव्रीहिः, तत्र विभाषा अन्तः उदात्तो भवति ।
द्वौ पादो अस्य द्विपात्, द्विपाथ् ।
त्रिपात्, त्रिपाथ् ।
द्विदन्, द्विदन् ।
त्रिदन्, त्रिदन् ।
द्विमूर्धा, द्विमूर्धा ।
त्रिमूर्धा, त्रिमूर्धा ।
पादिति कृताकरलोपः पादशब्दो गृह्यते ।
दतिति कृतददादेशो दन्तशब्दः ।
मूर्धनिति त्वकृतसमासन्तो नान्त एव मूर्धन्शब्दः ।
तस्य एतत्प्रयोजनं असत्यपि समासान्तेऽन्तोदात्तत्वं यथा स्याथ् ।
एतदेव ज्ञापकम्, अनित्यः समासान्तो भवति इति ।
यदाऽपि समासान्तः क्रियते तदा अपि बहुव्रीहेः कार्यित्वात्तदेकदेशत्वाच्च समासान्तस्य अन्तोदात्तत्वं पक्षे भवत्येव ।
द्विमूर्धः ।
त्रिमूर्धः ।
द्वित्रिभ्यां इति किं ? कल्याणमूर्धा ।
पादादिषु इति किं ? द्विहस्तं ।
बहुव्रीहौ इति किं ? द्वयोर्मूर्धा द्विमूर्धा । ।

____________________________________________________________________


[#६९९]

  1. <सक्थं च अक्रान्तात्># । । PS_६,२.१९८ । ।



_____Sठाऱ्ठ्JKव्_६,२.१९८ः

सक्थं इति कृतसमासान्तः सक्थिशब्दोऽत्र गृह्यते ।

[#६९८]

सः अक्रान्तात्परो विभाषा अन्तोदात्तो भवति ।
गौरसक्थः, गौरसक्थः ।
श्लक्ष्णसक्थः, श्लक्ष्णसक्थः ।
अक्रान्तातिति किं ? चक्रस्क्थः ।
षचश्चित्वान्नित्यं अन्तोदात्तत्वं भवति । ।


____________________________________________________________________


[#६९९]

  1. <परादिश्छन्दसि बहुलम्># । । PS_६,२.१९९ । ।



_____Sठाऱ्ठ्JKव्_६,२.१९९ः

छन्दसि विसये परादिः उदात्तो भवति बहुलं ।
परशब्देन अत्र सक्थशब्द एव गृह्यते ।
अञ्जिसक्थं आलभेत ।
त्वाष्ट्रौ लोमशसक्थौ ।
ऋजुबाहुः ।
वाक्पतिः ।
चित्पतिः । ।
परादिश्च प्रान्तश्च पूर्वान्तश्च अपि दृश्यते ।
पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं स्मृतः । ।
परादिरुदाहृतः ।
परान्तश्च -- अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दस्युपसङ्ख्यानं ।
त्रिबन्धुरेण त्रिवृता रथेन त्रिचक्रेण ।
पूर्वान्तः -- पूर्वपदान्तोदात्तप्रकरणे मरुद्वृद्धादीनां छन्दस्युपसङ्ख्यानं ।
मरुद्वृद्धः ।
पूर्वादिः -- पूर्वपदाद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसङ्ख्यानं ।
दिवोदासाय समगाय ते इत्येवं आदि सर्वं सङ्गृहीतं भवति । ।
इति काशिकायां वृत्तौ षष्ठाध्यायस्य द्वितीयः पादः । ।


______________________________________________________

[#७००]

षष्ठाध्यायस्य तृतीयः पादः ।


____________________________________________________________________


  1. <अलुगुत्तरपदे># । । PS_६,३.१ । ।



_____Sठाऱ्ठ्JKव्_६,३.१ः

अलुकिति च, उत्तरपदे इति च एतदधिकृतं वेदितव्यं ।
यदिति ऊर्ध्वं अनुक्रमिष्यामोऽलुकुत्तरपदे इत्येवं तद्वेदितव्यं ।


____________________________________________________________________


वक्ष्यति -

  1. <पञ्चम्याः स्तोकादिभ्यः># । । PS_६,३.२ । ।


_____Sठाऱ्ठ्JKव्_६,३.२ः

स्तोकान्मुक्तः ।
अल्पान्मुक्तः ।
उत्तरपदे इति किं ? निष्क्रान्तः स्तोकात्निस्तोकः ।
अन्यार्थं इदं उत्तरपदग्रहणं इह अप्यलुको निवृतिं करोति इत्येवं अर्थं लक्षणप्रतिपदोक्तपरिभाषा न अश्रयितव्या ।
अलुगधिकारः प्रागानङः ।
उत्तरपदाधिकारः प्रागङ्गाधिकारात् । ।
पञ्चम्याः स्तोक-आदिभ्यः (*६,३.२) ।
स्तोकान्तिकदूरार्थकृच्छ्राणि स्तोकादीनि, तेभ्यः परस्याः पञ्चम्याः उत्तरपदे अलुक्भवति ।
स्तोकान्मुक्तः ।
अल्पान्मुक्तः ।
अन्तिकादगतः अभ्याशादागतः ।
दूरादागतः ।
विप्रकृष्टादागतः ।
कृच्छ्रान्मुक्तः ।
समासे कृते प्रातिपदिकत्वात्सुपो लुकि प्राप्ते प्रतिषेधः क्रियते ।
द्विवचनबहुवचनान्तानां तु स्तोकादीनां अनभिधानात्समास एव न भवति स्तोकाभ्यां मुक्तः, स्तोकेभ्यो मुक्तः इति ।
तेन अत्र न कदाचिदैकपद्यं ऐकस्वर्यं च भवति ।
ब्राह्मणाच्छंसिन उपसङ्ख्यानं कर्तव्यं ।
ब्राह्मणदादाय शंसति इति ब्राह्मणाच्छंसी इति ।
ऋत्विग्विशेषस्य रूढिरियं ।
तस्य व्युत्पत्तिरसता सता वा अवयवार्थेन क्रियते । ।


____________________________________________________________________


  1. <ओजः-सहोऽम्भस्-तमसस्तृतीययाः># । । PS_६,३.३ । ।



_____Sठाऱ्ठ्JKव्_६,३.३ः

ओजस्सहसम्भस्तमसित्येतेभ्य उत्तरस्याः तृतीयायाः अलुक्भवति उत्तरपदे ।
ओजसाकृतं ।
सहसाकृतं ।
अम्भसाकृतं ।
तमसाकृतं ।
अञ्जस उपसङ्ख्यानं ।
अञ्जसाकृतं ।
पुंसानुजो जनुषान्ध इति वक्तव्यं ।
पुंसानुजः ।
जनुषान्धः । ।


____________________________________________________________________


[#७०१]

  1. <मनसः सञ्ज्ञायाम्># । । PS_६,३.४ । ।



_____Sठाऱ्ठ्JKव्_६,३.४ः

मनसः उत्तरस्याः तृतीयायाः सञ्ज्ञायां अलुग्भवति ।
मनसादत्ता ।
मनसगुप्ता ।
मनसासङ्गता ।
सञ्ज्ञायां इति किं ? मनोदत्ता ।
मनोगुप्ता । ।


____________________________________________________________________


  1. <आज्ञायिनि च># । । PS_६,३.५ । ।



_____Sठाऱ्ठ्JKव्_६,३.५ः

आज्ञायिन्युत्तारपदे मनसः उत्तरस्य तृतीयायाः अलुग्भवति ।
मनसा अज्ञातुं शीलमस्य मनसाज्ञायी । ।


____________________________________________________________________


  1. <आत्मनश्च पूरणे># । । PS_६,३.६ । ।



_____Sठाऱ्ठ्JKव्_६,३.६ः

आत्मनश्च पूरणे (*६,३.६) ।
आत्मनः उत्तरस्याः तृतीयायाः पूरणप्रत्ययान्ते उतारपदेऽलुग्भवति ।
आत्मनापञ्चमः ।
आत्मनाषष्ठः ।
तृतीयाविधाने प्रकृत्यादिभ्य उपसङ्ख्यानं इति तृतीया ।
तृतीया इति योगविभागात्समासः ।
आत्मना वा कृतः पञ्चमः आत्मनापञ्चमः ।
कथं जनार्दनस्त्वात्मचतुर्थ एव इति ? बहुव्रीहिरयं आत्मा चतुर्थोऽस्य असौ आत्मचतुर्थः । ।


____________________________________________________________________


  1. <वैयाकरणाख्यायां चतुर्थ्याः># । । PS_६,३.७ । ।



_____Sठाऱ्ठ्JKव्_६,३.७ः

वैयाकरनानामाख्या वैयाकरणाख्या ।
आख्या सञ्ज्ञा ।
यया सञ्ज्ञया वैयाकरणा एव व्यहरन्ति तस्यां आत्मनः उत्तरस्याश्चतुर्थ्या अलुग्भवति ।
आत्मनेपदं ।
आत्मनेभषा ।
तदर्थ्ये चतुर्थी ।
चतुर्थी इति योगविभागात्समासः । ।


____________________________________________________________________


  1. <परस्य च># । । PS_६,३.८ । ।



_____Sठाऱ्ठ्JKव्_६,३.८ः

परस्य च या चतुर्थी तस्य वैयाकरणाख्यायां अलुग्भवति ।
परस्मैपदं ।
परस्मैभाषा । ।


____________________________________________________________________


  1. <हल्-अदन्तात्सप्तम्याः सञ्ज्ञायाम्># । । PS_६,३.९ । ।



_____Sठाऱ्ठ्JKव्_६,३.९ः

हलन्ताददन्ताच्च+उत्तरस्याः सप्तम्याः सञ्ज्ञायां अलुग्भवति ।
युधिष्ठिरः ।
त्वचिसारः ।
गविष्ठिरः इत्यत्र तु गवियुधिभ्यां स्थिरः (*८,३.९५) इत्यत एव वचनादलुक् ।
अदन्तात्- अरण्येतिलकाः ।
अरण्येमाषकाः ।
वनेकिंशुकाः ।
वनेहरिद्रकाः ।
वनेबल्बजकाः ।
पुर्वाह्णेस्फोटकाः ।
कूपेपिशाचकाः ।
हलदन्तादिति किं ? नद्यां कुक्कुटिका नदीकुक्कुटिका ।
भूम्यां पाशाः भूमिपाशाः ।
सञ्ज्ञायां इति किं ? अक्षशौण्डः ।
हृद्द्युभां ङेः ।
हृद्दिवित्येतेभ्यां उत्तरस्य ङेरलुग्भवति ।
हृदिस्पृक् ।
दिविस्पृक् । ।


____________________________________________________________________


[#७०२]

  1. <कारनाम्नि च प्राचां हल्-आदौ># । । PS_६,३.१० । ।



_____Sठाऱ्ठ्JKव्_६,३.१०ः

प्राचां देशे यत्कारनाम तत्र हलादवुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्याः अलुग्भवति ।
सूपेशाणः ।
दृषदिमाषकः ।
हलेद्विपदिका ।
हलेत्रिपदिका ।
कारविशेषस्याः सञ्ज्ञा एताः, तत्र पूर्वेण+एव सिद्धे नियमार्थं इदं ।
एते च त्रयो नियमविकल्पा अत्रेष्यन्ते, कारनाम्न्येव, प्राचां एव, हलादावेव इति ।
कारनाम्नि इति किं ? अभ्यर्हिते पशुः अभ्यर्हितपशुः ।
कारादन्यस्या+एतद्देयस्य नाम ।
प्राचां इति किं ? यूथे पशुः यूथपशुः ।
हलादौ इति किं ? अविकटे उरणः अविकटोरणः ।
हलदन्तादित्येव, नद्यां दोहनी नदीदोहनी । ।


____________________________________________________________________


  1. <मध्याद्गुरौ># । । PS_६,३.११ । ।



_____Sठाऱ्ठ्JKव्_६,३.११ः

मध्यादुत्तरस्याः सप्तम्याः गुरावुत्तरपदेऽलुग्भवति ।
मध्येगुरुः ।
अन्ताचेति वक्तव्यं ।
अन्तेगुरुः ।
सप्तमी इति योगविभागात्समासः । ।

____________________________________________________________________


  1. <अमूर्ध-मस्तकात्स्वाङ्गादकामे># । । PS_६,३.१२ । ।



_____Sठाऱ्ठ्JKव्_६,३.१२ः

मूर्ध-मस्तक-वर्जितात्स्वाङ्गादुत्तरस्याः सप्तम्याः अकामे उत्तरपदेऽलुग्भवति ।
कण्ठे कालोऽस्य कण्ठेकालः ।
उरसिलोमा ।
उदरेमणिः ।
अमूर्धमस्तकातिति किं ? मूर्धशिखः ।
मस्तकशिखः ।
अकामे इति किं ? मुखे कामोऽस्य मुखकामः ।
स्वाङ्गातिति किं ? अक्षशौण्डः ।
हलदन्तातित्येव, अङ्गुलित्राणः ।
जङ्घावलिः । ।


____________________________________________________________________


  1. <भन्धे च विभाषा># । । PS_६,३.१३ । ।



_____Sठाऱ्ठ्JKव्_६,३.१३ः

बन्धः इति घञन्तो गृह्यते ।
तस्मिन्नुत्तरपदे हलदन्त्तदुत्तरस्याः सप्तम्याः विभाषा अलुग्भवति ।
हस्तेबन्धः, हस्तबन्धः ।
चक्रेबन्धः, चक्रबन्धः ।
उभयत्र विभाषेयं ।
स्वङ्गाद्धि बहुव्रिहौ पूर्वेण नित्यं अलुक्प्राप्नोति, तत्पुरुषे तु स्वङ्गादस्वाङ्गाच्च न-इन्-सिद्ध-बध्नातिसु च (*६,३.१९) इति प्रतिषेधः प्राप्नोति ।
हलदन्तादित्येव, गुप्तिबन्धः । ।


____________________________________________________________________

  1. <तत्पुरुषे कृति बहुलम्># । । PS_६,३.१४ । ।



_____Sठाऱ्ठ्JKव्_६,३.१४ः

तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलं अलुग्भवति ।
स्तम्बेरमः ।
कर्णेजपः ।
न च भवति ।
कुरुचरः ।
मद्रचरः । ।


____________________________________________________________________


[#७०३]

  1. <प्रावृट्-शरत्-काल-दिवां जे># । । PS_६,३.१५ । ।



_____Sठाऱ्ठ्JKव्_६,३.१५ः

प्रावृट्शरत्काल दिवित्येतेषां जे उत्तरपदे सप्तम्याः अलुक्भवति ।
प्रावृषिजः ।
शरदिजः ।
शरदिजः ।
कालेजः ।
दिविजः ।
पूर्वस्य+एव अयं प्रपञ्चः । ।


____________________________________________________________________


  1. <विभाषा># । । PS_६,३.१६ । ।


_____Sठाऱ्ठ्JKव्_६,३.१६ः

वर्ष क्षर शर वर इत्येतेभ्य उत्तरस्यः सप्तम्याः जे उत्तरपदे विभाषा अलुग्भवति ।
वर्षेजः, वर्षजः ।
क्षरेजः, क्षरजः ।
शरेजः, शरजः ।
वरेजः, वरजः । ।


____________________________________________________________________


  1. <घ-काल-तनेसु कालनाम्नः># । । PS_६,३.१७ । ।



_____Sठाऱ्ठ्JKव्_६,३.१७ः

घ-सञ्ज्ञके प्रत्यये, कालशब्दे, तनप्रत्यये च परतः कालनाम्नः उत्तरस्याः सप्तम्या विभाषा अलुग्भवति ।
घ - पूर्वह्णेतरे, पूर्वाह्णतरे ।
पूर्वाह्णेतमे, पूर्वाह्णतमे ।
काल - पूर्वाह्णेकाले, पूर्वह्णाकाले ।
तन - पूर्वाह्णेतने, पूर्वाह्णतने ।
कालनाम्नः इति किं ? शुक्लतरे ।
शुक्लतमे ।
हलदन्तादित्येव, रात्रितरायां ।
उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्न+इष्यते हृदयस्य हृल्लेख इति लेखग्रहणाल्लिङ्गाथ् ।
तेन घतनग्रहणे, तदन्तग्रहनं न भवति ।
काल इति न स्वरूपग्रहणं । ।


____________________________________________________________________


  1. <शय-वास-वासिष्वकलात्># । । PS_६,३.१८ । ।



_____Sठाऱ्ठ्JKव्_६,३.१८ः

शय वास वासिनित्येतेषु उत्तरपदेष्वकालवाचिनः उत्तरस्याः सप्तम्या विभाषा अलुक्भवति ।
खेशयः, खशयः ।
ग्रामेवासः, ग्रामवासः ।
ग्रामेवासी, ग्रामवासी ।
अकालातिति किं ? पूर्वह्णशयः ।
हलदन्तातित्येव, भूमिशयः ।
अपो योनियन्मतुसु सप्तम्या अलुग्वक्तव्यः ।
अप्सुयोनिः ।
अप्सव्यः ।
अप्सुमन्तौ ।
अप्सु भवः इति दिगादित्वाद्यत्प्रत्ययः ।
सर्वत्र सप्तमी ती योगविभागात्समासः । ।


____________________________________________________________________


  1. <न-इन्-सिद्ध-बध्नातिषु च># । । PS_६,३.१९ । ।



_____Sठाऱ्ठ्JKव्_६,३.१९ः

इन्नन्ते उत्तरपदे सिद्धशब्दे बध्नातौ च परतः सप्तम्याः अलुग्न भवति ।
स्थण्दिलवर्ती ।
सिद्ध - साङ्काश्यसिद्धः ।
काम्पिल्यसिद्धः ।
बध्नाति - चक्रबद्धः ।
चारबद्धः ।
सप्तमी इति योगविभागात्समासः ।
चक्रबन्धः इति केचिदुदाहरन्ति, तत्पचाद्यजन्तं द्रष्टव्यं ।
घञन्ते हि बन्धे च विभाषा (*६,३.१३) इत्युक्तं । ।


____________________________________________________________________


[#७०४]

  1. <स्थे च भाषायाम्># । । PS_६,३.२० । ।



_____Sठाऱ्ठ्JKव्_६,३.२०ः

स्थे च+उत्तरपदे भाषायां सप्तम्या अलुक्न भवति ।
समस्थः ।
विषमस्थः ।
कूटस्थः ।
पर्वतस्थः ।
भाषायां इति किं ? कृणोम्यारेष्ठः ।
पूर्वपदात्(*८,३.१०६) इति षत्वं । ।


____________________________________________________________________


  1. <षष्ठ्या आक्रोशे># । । PS_६,३.२१ । ।



_____Sठाऱ्ठ्JKव्_६,३.२१ः

आक्रोशे गम्यमाने उत्तरपदे षष्ठ्या अलुग्भवति ।
चौरस्यकुलं ।
वृषलस्यकुलं ।
आक्रोशे इति किं ? ब्राह्मनकुलं ।
षष्थीप्रकरने वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु यथासङ्ख्यं अलुग्वक्तव्यः ।
वाचोयुक्तिः ।
दिशोदण्डः ।
पश्यतोहरः । ।
आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च अलुग्वक्तव्यः ।
अमुस्यापत्यं आमुस्यायणः ।
नडादित्वात्फक् ।
अमुष्य पुत्रस्य भावः आमुस्यपुत्रिका ।
मनोज्ञादित्वद्वुञ् ।
तथा आमुस्यकुलिका इति ।
देवानाम्प्रिय इत्यत्र च षष्ठ्या अलुग्वक्तव्यः ।
देवानं प्रियः । ।
शेपपुच्छलङ्कूलेषु शुनः सञ्ज्ञायां अलुग्वक्तव्यः ।
शुनःशेपः ।
शुनःपुच्छः ।
शुनोलाङ्गूलः ।
दिवश्च दासे षष्ठ्या अलुग्वक्तव्यः ।
दिवोदासाय गायति । ।


____________________________________________________________________

  1. <पुत्रेऽन्यतरस्याम्># । । PS_६,३.२२ । ।



_____Sठाऱ्ठ्JKव्_६,३.२२ः

पुत्रशब्दे उत्तरपदे आक्रोशे गम्यमानेऽन्यतरस्यां षष्ठ्याः अलुग्भवति ।
दास्यःपुत्रः, दासीपुत्रः ।
वृषल्याःपुत्रः वृषलीपुत्रः ।
आक्रोशे इत्येव, ब्राह्मणीपुत्रः । ।


____________________________________________________________________


[#७०५]

  1. <ऋतो विद्यायोनिसम्बन्धेभ्यः># । । PS_६,३.२३ । ।



_____Sठाऱ्ठ्JKव्_६,३.२३ः

ऋकारान्तेभ्यो विद्यसम्बन्धवचिभ्यो योनिसम्बन्धवाचिभ्यश्च+उत्तरस्याः षष्ठ्या अलुग्भवति ।
होतुरन्तेवसी ।
होतुःपुत्रः ।
पितुरन्तेवासी ।
पितुःपुत्रः ।
ऋतः इति किं ? आचर्यपुत्रः ।
मातुलपुत्रः ।
विद्यायोनिसम्बन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणं ।
विद्यायोनिसम्बन्धवाचिनि एव+उत्तरपदे यथा स्यात्, अन्यत्र मा भूथ् ।
होतृधनं ।
पितृधनं होतृगृहं ।
पितृगृहं । ।


____________________________________________________________________


  1. <विभाषा स्वसृ-पत्योः># । । PS_६,३.२४ । ।



_____Sठाऱ्ठ्JKव्_६,३.२४ः

स्वसृ पति इत्येतयोः उत्तरपदयोः ऋकारान्तेभ्यः विद्यायोनिसम्बन्धवाचिभ्यः विभाषाऽलुग्भवति ।
मातुःष्वसा, मातुःस्वसा, मातृष्वसा ।
पितुःष्वसा, पितुःस्वसा, पितृष्वसा ।
यदा लुक्तदा मातृपितृभ्यां स्वसा (*८,३.८४) इति नित्यं षत्वं ।
यदा तु अलुक्तदा मातुः पितुर्भ्यं अन्यतरस्यां (*८,३.८५) इति विकल्पेन षत्वं ।
दुहितुःपतिः, दुहितृपतिः ।
ननान्दुःपितिः, ननान्दृपतिः । ।


____________________________________________________________________


  1. <अनङृतो द्वन्द्वे># । । PS_६,३.२५ । ।



_____Sठाऱ्ठ्JKव्_६,३.२५ः

ऋकारान्तानां विद्यायोनिसम्भन्धवाचिनां यो द्वन्द्वस्तत्र+उत्तरपदे पूर्वपदस्य आनङादेशो भवति ।
होतापोतारौ ।
नेष्टोद्गातारौ ।
प्रशास्ताप्रतिहर्तारौ ।
योनिसम्बन्धेभ्यः - मातापितरौ ।
याताननान्दरौ ।
मकारोच्चारणं रपरत्वनिवृत्त्यर्थं ।
ऋतः इति किं ? पितृपितामहौ ।
पुत्रे इत्यत्र अनुवर्तते, ऋतः इति च ।
तेन पुत्रशब्देऽप्युत्तरपदे ऋकारान्तस्य अनङादेशो भवति ।
पितापुत्रौ ।
मातापुत्रौ । ।


____________________________________________________________________


  1. <देवताद्वन्द्वे च># । । PS_६,३.२६ । ।



_____Sठाऱ्ठ्JKव्_६,३.२६ः

देवतावाचिनां यो द्वन्द्वः तत्र+उत्तरपदे पूर्वपदस्य आनङादेशो भवति ।
इन्द्रावरुणौ ।
इन्द्रासोमौ ।
इन्द्राबृहस्पती ।
द्वन्द्वे इति वर्तमाने पुनर्द्वन्द्वग्रहणं प्रसिद्धसहाचर्यार्थं ।
अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वं इत्येतत्निपात्यते ।
तत्र ये लोके प्रसिद्धसाहचर्या वेदे च ये सहवापनिर्दिष्टास्तेषां इह ग्रहणं भवति ।
तेन ब्रहमप्रजापती, शिववैश्रवणौ इत्येवं आदौ न भवति ।
उभ्यत्र वायोः प्रतिषेधो वक्तव्यः ।
अग्निवायू ।
वाय्वग्नी । ।


____________________________________________________________________


  1. <ईदग्नेः सोमवरुणयोः># । । PS_६,३.२७ । ।



_____Sठाऱ्ठ्JKव्_६,३.२७ः

सोम वरुण इत्येतयोः देवताद्वन्द्वे अग्नेः ईकारादेशो भवति ।
अग्नीषोमौ ।
अग्नीवरुणौ ।
अग्नेः स्तुत्-स्तोम-सोमाः (*८,३.८२) इति षत्वं । ।


____________________________________________________________________


[#७०६]

  1. <इद्वृद्धौ># । । PS_६,३.२८ । ।



_____Sठाऱ्ठ्JKव्_६,३.२८ः

कृतवृद्धावुत्तरपदे देवताद्वन्द्वे अग्नेः इकारादेशो भवति ।
आग्निवारुणीमनड्वहीमालभेत ।
आग्निमारुतं कर्म क्रियते ।
अग्नीवरुणौ देवते अस्य, अग्नीअरुतौ देवते अस्य इति तद्धितः ।
तत्र देवताद्वन्द्वे च (*७,३.२१) इत्युभयपदवृद्धौ कृतायां आनङ्, ईत्वं च बाधितुं इकारः क्रियते ।
वृद्धौ इति किं ? आग्रेन्द्रः ।
नेन्द्रस्य परस्य (*७,३.२४) इत्युत्तरपदवृद्धिः प्रतिषिध्यते ।
इद्वृद्धौ विष्णोः प्रतिषेधो वक्तव्यः ।
आग्नावैष्णवं चरुं निर्वपेत् । ।


____________________________________________________________________


  1. <देवो द्यावा># । । PS_६,३.२९ । ।



_____Sठाऱ्ठ्JKव्_६,३.२९ः

दिवित्येतस्य द्यावा इत्ययं आदेशो भवति देवताद्वन्द्वे उत्तरपदे ।
द्यावाक्षामा ।
द्यावाभूमी । ।

____________________________________________________________________


  1. <दिवसश्च पृथिव्याम्># । । PS_६,३.३० । ।



_____Sठाऱ्ठ्JKव्_६,३.३०ः

पृथिव्यां उत्तरपदे देवताद्वन्द्वे दिवो दिवसित्ययं आदेशो भवति, चकाराद्द्यावा च ।
दिवस्पृथिव्यौ ।
द्यावापृथिव्यौ ।
अकारोच्चारणं सकारस्य विकाराभावप्रतिपत्त्यर्थं ।
तेन रुत्वदीनि न भवन्ति ।
कथं द्यावा चिदस्मै पृथिवी नमेते इति ? कर्तव्योऽत्र यत्नः । ।


____________________________________________________________________


  1. <उषासा-उषसः># । । PS_६,३.३१ । ।



_____Sठाऱ्ठ्JKव्_६,३.३१ः

उषसः उषासा इत्ययं आदेशो भवति देवताद्वन्द्वे उत्तरपदे ।
उषासासूर्यं ।
उषासानक्ता । ।


____________________________________________________________________


  1. <मातर-पितरावुदीचम्># । । PS_६,३.३२ । ।



_____Sठाऱ्ठ्JKव्_६,३.३२ः

मातरपितरौ इत्युदीचामाचार्याणां मतेनारङादेशः मातृशब्दस्य निपत्यते मातरपितरौ ।
उदीचां इति किं ? मातापितरौ । ।


____________________________________________________________________


  1. <पितरा-मातरा च च्छन्दसि># । । PS_६,३.३३ । ।



_____Sठाऱ्ठ्JKव्_६,३.३३ः

पितरामातरा इति छन्दसि निपात्यते ।
आ मा गन्तां पितरामातरा च ।
पूर्वपदस्य अराङादेशो निपात्यते ।
उत्तरपदे तु सुपां सु-लुक्पूर्वसवर्ण-आ-आच्-छे-या-डा-ड्या-याज्-आलः (*७,१.३९) इति आकारादेशः ।
तत्र ऋतो ङि-सर्वनामस्थानयोः (*७,३.११०) इति गुणः ।
छन्दसि इति किं ? मातापितरौ । ।


____________________________________________________________________


[#७०७]

  1. <स्त्रियाः पुंवद्-भाषीतपुंस्कादनूङ्समानाधिकरणे स्त्रियां अपूरणी-प्रियादिषु># । । PS_६,३.३४ । ।



_____Sठाऱ्ठ्JKव्_६,३.३४ः

भाषितः पुमान्येन समानायामाकृतावेकस्मिन्प्रवृत्तिनिमित्ते स भाषितपुंस्कः शब्दः ।
तदेतदेवं कथं भवति ? भासितः पुमान्यस्मिन्नर्थे प्रवृत्तिनिमिते स भाषितपुंस्कशब्देन+उच्यते, तस्य प्रतिपादको यः शब्दः सोऽपि भासितपुंस्कः ऊङोऽभावः अनूङ्, भाषितपुंस्कादनूङ्यस्मिन्स्त्रीशब्दे स भाषितपुंस्कादनूङ्स्त्रीशब्दः ।
बहुव्रीहिरयम्, अलुग्निपातनात्पञ्चम्याः ।
तस्य भासितपुंस्काअदनूङः स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवति समानाधिकरणे उत्तरपदे स्त्रीलिङ्गे पूरणीप्रियादिवर्जिते ।
दर्शनीयभार्यः ।
शलक्ष्णचूडः ।
दीर्घजङ्घः ।
स्त्रिया इति किं ? ग्रामणि ब्राह्मणकुलं दृष्टिरस्य ग्रामणिदृष्टिः ।
भाषितपुंस्कातिति किं ? खट्वाभार्यः ।
समानायामाकृतौ इति किं ? द्रोणीभार्यः ।
कथं गर्भिभार्यः, प्रसूतभार्यः, प्रजातभार्यः इति ? कर्तव्योऽत्र यत्नः ।
अनूङ इति किं ? ब्रह्मबन्धूभार्यः ।
समानाधिकरणे इति किं ? कल्याणा माता कल्यणीमाता ।
स्त्रियां इति किं ? कल्याणी प्रधानं एषा कल्याणीप्रधाना इमे ।
अपूरणी इति किं ? कल्याणी पञ्चमी यासां ताः कल्याणीपञ्चमा रात्रयः ।
कल्याणीदशमाः ।
प्रधानपूरणीग्रहणं कर्तव्यं ।
इह मा भूत्, कल्याणीपञ्चमीकः पक्षः इति ।
अप्पूरणीप्रमाण्योः (*५,४.११६) इत्यत्र अपि प्रधानपूरणीग्रहणं एव इत्यप्प्रत्ययो न भवति ।
अप्रियादिषु इति किं ? कल्याणीप्रियः ।
प्रिया ।
मनोज्ञा ।
कल्याणी ।
सुभगा ।
दुर्भगा ।
भक्ति ।
सचिवा ।
अम्बा ।
कान्ता ।
क्षान्ता ।
समा ।
चपला ।
दुहिता ।
वामा ।
प्रियादिः ।
दृढभक्तिः इत्येवं आदिषु स्त्रीपूर्वपदस्य अविवक्षित्वात्सिद्धं इति समाधेयं । ।


____________________________________________________________________


  1. <तसिल्-आदिष्वा कृत्वसुचः># । । PS_६,३.३५ । ।



_____Sठाऱ्ठ्JKव्_६,३.३५ः

पञ्चम्यास्तसिल्(*५,३.७) इत्यतः प्रभृति सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्(*५,४.१७) इति प्रागेतस्माद्ये प्रत्ययाः तेसु भाषितपुंस्कादनूङ्स्त्रियाः पुंवद्भवति ।
तस्याः शालायाः ततः ।
तस्यां तत्र ।
यस्याः यतः ।
यस्यां यत्र ।
तसिलादिसु परिगणनं कर्तव्यं ।
त्रतसौ ।
तरप्तमपौ ।
चरट्जातीयरौ ।
कल्पबदेश्यदेशीयरः ।
रूपप्पाशपौ ।
थंथालौ ।
दार्हिलौ ।
तिल्तातिलौ ।
शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः ।

[#७०८]

बह्वीभ्यो देहि ।
अल्पाभ्यो देहि ।
बहुशो देहि ।
अल्पशो देहि ।
त्वतलोर्गुणवचनस्य पुंवद्भवो वक्तव्यः ।
पट्व्याः भावः पटुत्वम्, पटुता ।
गुणवचनस्य इति किं ? कठ्याः भावः कठित्वं कठीता ।
भस्याढे तद्धिते पुंवद्भावो वक्तव्यः ।
हस्तिनीनां समूहो हास्तिकं ।
अढे इति किं ? श्यैनेयः ।
रौहिणेयः ।
कथं आग्नायी देवता अस्य आग्नेयः स्थालीपाकः इति ? कर्तव्योऽत्र यत्नः ।
ठक्छसोश्च पुंवद्भावो वक्तव्यः ।
भवत्याः छात्राः भावत्काः ।
भवदीयाः । ।


____________________________________________________________________


  1. <क्यङ्-मानिनोश्च># । । PS_६,३.३६ । ।



_____Sठाऱ्ठ्JKव्_६,३.३६ः

क्यङि परतो मानिनि च स्तिर्या भाषितपुंस्कादनूङ्पुंवत्भवति ।
एनी - एतायते ।
श्येनी-श्येतायते ।
मानिनि - दर्शनीयमानी अयमस्याः ।
दर्शनीयमानिनी इयमस्याः ।
मानिनो ग्रहणं अस्त्र्यर्थं असमानाधिकरणार्थं च ।
इह तु दर्शनीयामात्मानं मन्यते दर्शनीयमानिनी इति पूर्वेण+एव सिद्धं । ।


____________________________________________________________________


  1. <न कोपधायाः># । । PS_६,३.३७ । ।



_____Sठाऱ्ठ्JKव्_६,३.३७ः

कोपधायाः स्त्रियाः पुंवद्भावो न भवति ।
पाचिकाभार्यः ।
कारिकाभार्यः ।
मद्रिकाभार्यः ।
वृजिकाभार्यः ।
मद्रिकाकल्पा ।
वृजिकाकल्पा ।
मद्रिकायते ।
वृजिकायते ।
मद्रिकामानिनी ।
वृजिकामानिनी ।
वेलिपिकायाः धर्म्यं वैलेपिकं ।
कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यं ।
इह मा भूत्, पाकभार्यः, भेकभार्यः इति । ।


____________________________________________________________________


  1. <सञ्ज्ञा-पूरण्योश्च># । । PS_६,३.३८ । ।



_____Sठाऱ्ठ्JKव्_६,३.३८ः

सञ्ज्ञायाः पूरण्याश्च स्त्रियाः पुंवद्भावो न भवति ।
दत्तभार्यः ।
गुप्ताभार्यः ।
दत्तापाशा ।
गुप्तापाशा ।
दत्तायते ।
गुप्तायते ।
दत्तामानिनी ।
गुप्तामानिनी ।
पुरण्याः - पञ्चमीभार्यः ।
दशमीभार्यः ।
पञ्चमीपाशा ।
दशमीपाशा ।
पञ्चमीयते ।
दशमीयते ।
पञ्चमीमानिनी ।
दशमीमानिनी । ।


____________________________________________________________________


[#७०९]

  1. <वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे># । । PS_६,३.३९ । ।



_____Sठाऱ्ठ्JKव्_६,३.३९ः

न इति वर्तते ।
वृद्धेर्निमित्तं यस्मिन्स वृद्धिनिमित्तः तद्धितः, स यदि रक्तेऽर्थे विकारे च न विहितः, तदन्तस्य स्त्रीशब्दस्य न पुंवद्भवति ।
स्त्रौघ्नीभार्यः ।
माथुरीभार्यः ।
स्त्रौघनीपाशा ।
माथुरीपाशा ।
सौघनीयते ।
माथुरीयते ।
स्त्रौघ्नीमानिनी ।
माथुरीमानिनीइ ।
वृद्धिनिमित्तस्य इति किं ? मध्यमभार्यः ।
तद्धितस्य इति किं ? काण्डलावभार्यः ।
बहुव्रीहिपरिग्रहः कमर्थः ? तावद्भार्यः ।
यावद्भार्यः ।
अरक्तविकारे इति किं ? कषायेण रक्ता काषायी, काषायी बृहतिका यस्य स काषायवृहतिकः ।
लोहस्य विकारो लौहीं लौही ईषा यस्य रथस्य स लौहेषः ।
खादिरेषः । ।


____________________________________________________________________


  1. <स्वाङ्गाच्च+इतोऽमानिनि># । । PS_६,३.४० । ।



_____Sठाऱ्ठ्JKव्_६,३.४०ः

स्वाङ्गादुत्तरो य ईकारः तदन्तायाः स्त्रियाः न पुंवद्भवति अमानिनि परतः ।
दीर्घकेशीभार्यः ।
श्लक्ष्णकेशीभार्यः ।
दीर्घकेशीपाशा ।
श्लक्ष्णकेशीपाशा ।
दीर्घकेशीयते ।
श्लक्ष्णकेशीयते ।
स्वाङ्गातिति किं ? पटुभार्यः ।
ईतः इति किं ? अकेशभार्यः ।
अमानिनि इति किं ? दीर्घकेशमानिनी । ।


____________________________________________________________________


  1. <जातेश्च># । । PS_६,३.४१ । ।



_____Sठाऱ्ठ्JKव्_६,३.४१ः

जातेश्च स्त्रियाः न पुंवद्भवति अमानिनि परतः ।
कठीभार्यः ।
बह्वृचिभार्यः ।
कठीपाशा ।
बह्वृचीपाशा ।
कठीयते ।
बह्वृचीयते ।
अमानिनि इत्येव, कठमानिनी ।
बह्वृचमानिनीइ ।
अयं प्रतिषेध औपसङ्ख्यानिकस्य पुंवद्भावस्य न+इष्यते ।
हस्तिनीनां समूहो हास्तिकं । ।


____________________________________________________________________


  1. <पुंवत्कर्मधारय-जातीय-देशीयेषु># । । PS_६,३.४२ । ।



_____Sठाऱ्ठ्JKव्_६,३.४२ः

कर्मधरये समासे जातीय देशीय इत्येतयोश्च प्रत्यययोः भाषितपुंस्कादनूङ्स्त्रियाः पुंवद्भवति ।
प्रतिषेधर्थोऽयं आरम्भः ।
न कोपधायाः (*६,३.३७) इत्युक्तम्, तत्र अपि भवति ।
पाचकवृन्दारिका ।
पाचकजातीया ।
पाचकदेशीया ।
सञ्ज्ञापूरण्योश्च (*६,३.३८) इत्युक्तम्, तत्र अपि भवति ।
दत्तवृन्दारिका ।
दत्तजातीया ।
दत्तदेशीया ।
पूरण्याः - पञ्चमवृन्दारिका ।
पञ्चमजातीया ।
पञ्चमदेशीया ।
वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकरे (*६,३.३९) इत्युक्तम्, तत्र अपि भवति ।
स्रौघ्नजातीया ।
स्रौघ्नदेशीया ।
स्वाङ्गाच्च+इतोऽमानिनि (*६,३.४०) इत्युक्तम्, तत्र अपि भवति ।
श्लक्ष्णमुखवृन्दारिका ।
श्लक्ष्णमुखजातीया ।
श्लक्ष्णमुखदेशीया ।
जातेश्च (*६,३.४१) इत्युक्तम्, तत्र अपि भवति ।
कठवृन्दारिका ।
कठजातीया ।
कठदेशीया ।
भाषितपुंस्क्कातित्येव, खट्वावृन्दारिका ।
अनूगित्येव, ब्रह्मबन्धूवृन्दारिका ।

[#७१०]

कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः ।
कुक्कुट्याः अण्डं कुक्कुटाण्डं ।
मृग्याः पदं मृगपदं ।
मृग्याः क्षीरं मृगक्षीरं ।
काक्याः शावः काकशावः ।
न वा अस्त्रीपूर्वपदस्य विवक्षितत्वाथ् ।
स्त्रीत्वेन विना पूर्वपदार्थोऽत्र जतिः सामान्येन विवक्षितः ।
पुंवद्भावात्ह्रस्वत्वं खिद्घादिषु भवति विप्रतिषेधेन ।
खित्- कालिम्मन्या ।
हरिणिम्मन्या ।
घादि - पट्वितरा ।
पट्वितमा ।
पट्विरूपा ।
पट्विकल्पा ।
क - पट्विका ।
मृद्विका ।
इह इडबिड्, दरद्, पृथु, उशिजित्येते जनपदशब्दाः क्षत्रियवाचिनः, तत्र तद्राजप्रत्ययस्य स्त्रियमतश्च इति लुकि कृते इडबिड्वृन्दारिका इति विगृह्य समासः क्रियते ।
ततः पुंवद्भवेन ऐडबिडादयः पुंशब्दाः क्रियन्ते ।
ऐडबिडवृन्दारिका ।
औशिजवृन्दारिका । ।


____________________________________________________________________


  1. <घरूपकल्पचेलड्ब्रूवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः># । । PS_६,३.४३ । ।



_____Sठाऱ्ठ्JKव्_६,३.४३ः

घ रूप कोप चेलट्ब्रूव गोत्र मत हत इत्येतेषू परतो भाषितपुंस्कत्परो यो ङीप्रत्ययस्तदन्तस्य अनेकाचो ह्रस्वो भवति ।
घ - ब्राह्मणितरा ।
ब्राह्मणितमा ।
रूप - ब्राह्मन्णिरूपा ।
कल्प - ब्राह्मणिकल्पा ।
चेलट्- ब्राह्मणिचेली ।
ब्रुव - ब्राह्मणिब्रुवा ।
गोत्र - ब्राह्मणिगोत्रा ।
मत - ब्राह्मणिमता ।
हत - ब्राह्मणिहता ।
घरूपकल्पाः प्रत्ययाश्चेलडादीन्युत्तरपदानि ।
ब्रौव इति ब्रवीति इति ब्रुवः पचाद्युअचि, वच्यादेशो गुणश्च निपातनान्न भवति ।
ङ्यः इति किं ? दत्तातरा ।
गुप्तातरा ।
अनेकचः इति किं ? नद्याः शेषस्य अन्यतरस्यां (*६,३.४४) इति वक्ष्यति ।
भाषितपुंस्कादित्येव, आमलकीतरा ।
कुवलीतरा । ।


____________________________________________________________________


  1. <नद्याः शेषस्य अन्यतरस्याम्># । । PS_६,३.४४ । ।



_____Sठाऱ्ठ्JKव्_६,३.४४ः
नद्याः शेषस्य घादिषु परतो ह्रस्वो भवति अन्यतरस्यां ।
कश्च शेषः ? अङी च या नदी ङ्यन्तं च यदेकछ् ।
ब्रहमबन्धूतरा, ब्रहमबन्धुतरा ।
वीरबन्धूतरा ।
वीरबन्धुतरा ।
स्त्रितरा, स्त्रीतरा ।
स्त्रितमा, स्त्रीतमा ।
कृन्नद्याः प्रतिषेधो वक्तव्यः ।
लक्ष्मीतरा ।
तन्त्रीतरा । ।


____________________________________________________________________


  1. <उग्-इतश्च># । । PS_६,३.४५ । ।



_____Sठाऱ्ठ्JKव्_६,३.४५ः

उग्-इतश्च परस्याः नद्याः घादिषु अन्यतरस्यां ह्रस्वो भवति ।
श्रेयसितरा, श्रेयसीतरा, श्रेयस्तरा ।
विदुषितरा, विदुषीतरा, विद्वत्तरा ।
पुंवद्भावोऽप्यत्र पक्षे वक्तव्यः ।
प्रकर्षयोगात्प्राक्स्त्रीत्वस्या विवक्षितत्वाद्वा सिद्धं । ।


____________________________________________________________________


[#७११]

  1. <आन्महतः समानाधिकरनजातीययोः># । । PS_६,३.४६ । ।



_____Sठाऱ्ठ्JKव्_६,३.४६ः

समानाधिकरणे उत्तरपदे जातीये च प्रत्यये परतो महतः आकारादेशो भवति ।
महादेवः ।
महाब्राह्मणः ।
महाबाहुः ।
महाबलः ।
जातीये - महाजातीयः ।
समानाधिकरणजातीययोः इति किं ? महतः पुत्रः महत्पुत्रः ।
लक्षणोक्तत्वादेव अत्र न भविष्यति इति चेद्बहुव्रीहावपि न स्याद्महाबाहुः इति ।
तदर्थं समानाधिकरणग्रहणं वक्तव्यं ।
अमहान्महान्सम्पन्नो महद्भूतश्चन्द्रमाः इत्यत्र गौणत्वान्महदर्थस्य न भवत्यात्वं ।
महदात्वे घासकरविशिष्टेषु उपसङ्ख्यानं पुंवद्वचनं च असमानाधिकरणार्थं ।
महत्याः घासः महाघासः ।
महत्याः करः महाकरः ।
महत्याः विशिष्टः महाविशिष्टः ।
अष्टनः कपाले हविष्युपसङ्ख्यानं ।
अष्टकपालं चरुं निर्वपेथ् ।
हविषि इति किं ? अष्टकपालं ब्राह्मणस्य ।
गवि च युक्तेऽष्टन उपसङ्ख्यानं कर्तव्यं ।
अष्टागवेन शकटेन ।
युक्ते इति किं ? अष्टगवं ब्राह्मणस्य तपरकरणं विस्पष्टार्थं । ।


____________________________________________________________________


  1. <द्व्यष्टनः सङ्ख्यायां अबहुव्रीह्य्-अशीत्योः># । । PS_६,३.४७ । ।



_____Sठाऱ्ठ्JKव्_६,३.४७ः

द्वि अष्टनित्येतयोः आकारादेशो भवति सङ्ख्यायां उत्तरपदे अबहुव्रीह्यशीत्योः ।
द्वादश ।
द्वाविंशतिः ।
द्वात्रिंशथ् ।
अष्टादश ।
अष्टाविंशतिः ।
अष्टात्रिंशथ् ।
द्व्यष्टनः इति किं ? पञ्चदश ।
सङ्ख्यायां इति किं ? द्वैमातुरः ।
आष्टमातुरः ।
अबहुव्रीह्यशित्योः इति किं ? द्वित्राः ।
त्रिदशाः ।
द्व्यशीतिः ।
प्राक्शतादिति वक्तव्यं ।
इह मा भूत्, द्विशतं ।
द्विसहस्रं ।
अश्टशतं ।
अष्टसहस्रं । ।


____________________________________________________________________


  1. <त्रेस्त्रयः># । । PS_६,३.४८ । ।



_____Sठाऱ्ठ्JKव्_६,३.४८ः

त्रि इत्येतस्य त्रयसित्ययं आदेशो भवति सङ्ख्यायां अबहुव्रीह्यशीत्योः ।
त्रयोदश ।
त्रयोविंशतिः ।
त्रयस्त्रिंशत ।
सङ्ख्यायां इत्येव, त्रैमातुरः ।
अबहुव्रीह्यशीत्योः इत्येव, त्रिदशाः ।
त्र्यशीतिः ।
प्राक्शतातित्येव, त्रिशतं ।
त्रिसहस्रं । ।


____________________________________________________________________


[#७१२]

  1. <विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्># । । PS_६,३.४९ । ।



_____Sठाऱ्ठ्JKव्_६,३.४९ः

चत्वारिंशत्प्रभृतौ संख्यायां उत्तरपदेऽबहुव्रीह्यशीत्योः सर्वेषां द्वि अष्टन्त्रि इत्येतेषां यदुक्तं तद्विभाष भवति ।
द्विचत्वारिंशत्, द्वाचत्वारिंशथ् ।
त्रिपञ्चाशत्, त्रयःपञ्चाशथ् ।
अष्टपञ्चाशत्, अष्टापञ्चाशथ् ।
प्राक्शतातित्येव, द्विशतं ।
अष्टशतं ।
त्रिशतं । ।


____________________________________________________________________


  1. <हृदयस्य हृल्लेख-यद्-अण्-लासेषु># । । PS_६,३.५० । ।



_____Sठाऱ्ठ्JKव्_६,३.५०ः

हृदयस्य हृतित्ययं आदेशो भवति लेख यतण्लास इत्येतेषु परतः ।
हृदयं लिखति इति हृल्लेखः ।
यत्- हृदयस्य प्रियं हृद्यं ।
अण्- हृदयस्य इदं हार्दं ।
लास - हृदयस्य लासः हृल्लासः ।
लेख इति अणन्तस्य ग्रहणं इष्यते ।
घञि तु हृदयस्य लेखो हृदयलेखः ।
एतदेव लेखग्रहणं ज्ञापकम्, उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणस्य । ।


____________________________________________________________________


  1. <वा शोक-ष्यञ्-रोगेषु># । । PS_६,३.५१ । ।



_____Sठाऱ्ठ्JKव्_६,३.५१ः

शोक स्यञ्रोग इत्येतेषु परतः हृदयस्य वा हृदादेशो भवति ।
हृच्छोकः, हृदयशोकः ।
ष्यञ्- सौहार्द्यम्, सौहृदयं ।
ब्राह्मणादित्वात्ष्यञ् ।
हृदादेशपक्षे हृद्भगसिन्ध्वन्ते पूर्वपदस्य च (*७,३.१९) इत्युभयपदवृद्धिः ।
रोगे - हृद्रोगः, हृदयरोगः ।
हृदयशब्देन समानार्थो हृच्छब्दः प्रकृत्यन्तरं अस्ति, तेन+एव सिद्धे विकल्पविधानं प्रपञ्चार्थं । ।


____________________________________________________________________


  1. <पादस्य पद-आज्य्-आति-ग-उपहतेसु># । । PS_६,३.५२ । ।



_____Sठाऱ्ठ्JKव्_६,३.५२ः

पादस्य पद इत्ययं आदेशो भवति आजि आति ग उपहत इत्येतेषु उत्तरपदेषु ।
पादाभ्यं अजति इति पदाजिः ।
पादाभ्यां अतति इति पदातिः ।
अज्यतिभ्यां, पादे च इत्यौणादिकः इण्प्रत्ययः ।
तत्र अजेर्वीभवो न भवति अत एव निपातनाथ् ।
पादाभ्यां गच्छति इति पदगः ।
पादेन+उपहतः पदोपहतः ।
पादशब्दो वृषादित्वादाद्युदात्तः, तस्य स्थाने पदादेशः उपदेशे एव अन्तोदात्तो निपात्यते, तेन पदोपहतः इति तृतीया कर्मणि (*६,२.४८) इति पूर्वपदप्रकृतिस्वरत्वेन अन्तोदात्तत्वं भवति ।
पदाजिः, पदातिः, पदग इत्येतेषु कृत्स्वरेण समासस्य+एव अन्तोदात्तत्वं । ।


____________________________________________________________________


  1. <पद्यत्यतदर्थे># । । PS_६,३.५३ । ।



_____Sठाऱ्ठ्JKव्_६,३.५३ः

यत्प्रत्यये परतः पादस्य पदित्ययं आदेशो भवत्यतदर्थे ।
पादौ विध्यन्ति पद्याः शर्कराः ।
पद्याः कण्टकाः ।
अतदर्थे इति किं ? पादार्थं उदकं पाद्यं ।
पद्भाव इके चरतावुपसङ्ख्यानं ।
पादभ्यां चरति पदिकः ।
पर्पादिभ्यः ष्ठन्(*४,४.१०) इति पादशब्दात्ष्ठन्प्रत्ययः ।
शरीरावयववचनस्य पादशब्दस्य ग्रहणं इह इष्यत्, तेन पणपादमाषशतद्यत्(*५,१.३४) इत्यत्र पदादेशो न भवति ।
द्विपाद्यं ।
त्रिपाद्यं । ।


____________________________________________________________________


[#७१३]

  1. <हिम-काषि-हतिसु च># । । PS_६,३.५४ । ।


_____Sठाऱ्ठ्JKव्_६,३.५४ः

हिम काषिन्हति इत्येतेषु पादशब्दस्य पदित्ययं आदेशो भवति ।
हिम - पद्धिमं ।
काषिन्- अथ पत्काषिणो यन्ति ।
हति - पद्धतिः । ।


____________________________________________________________________


  1. <ऋचः शे># । । PS_६,३.५५ । ।



_____Sठाऱ्ठ्JKव्_६,३.५५ः

ऋक्षम्बन्धिनः पादशब्दस्य शे परतः पदित्ययं आदेशो भवति ।
पच्छो गायत्रीं शंसति ।
पादं पादं शंसति इति सङ्ख्यैकवचनाच्च वीप्सायां (*५,४.४३) इति शस्प्रत्ययः ।
ऋचः इति किं ? पादशः कार्षापणं ददाति इति । ।

____________________________________________________________________


  1. <वा घोषमिश्रशब्देषु># । । PS_६,३.५६ । ।



_____Sठाऱ्ठ्JKव्_६,३.५६ः

घोष मिश्र शब्द इत्येतेषु च+उत्तरपदेषु पादस्य वा पदित्ययं आदेशो भवति ।
पद्घोषः, पादघोषः ।
पन्मिश्रः, पादमिश्रः ।
पच्छब्दः, पादशब्दः ।
निष्के च+इति वक्तव्यं ।
पन्निष्कः, पादनिष्कः । ।


____________________________________________________________________


  1. <उदकस्य+उदः सञ्ज्ञायाम्># । । PS_६,३.५७ । ।



_____Sठाऱ्ठ्JKव्_६,३.५७ः

उदकशब्दस्य सञ्ज्ञायां विषये उद इत्ययं आदेशो भवति उत्तरपदे परतः ।
उदमेघो नाम यस्य औदमेधिः पुत्रः ।
उदवाहो नाम यस्य औदवहिः पुत्रः ।
सञ्ज्ञायां इति किं ? उदकगिरिः ।
सञ्जायां उत्तरपदस्य्९अ उ)दकशब्दस्य+उदादेशो भवति इति वक्तव्यं ।
लोहितोदः ।
नीलोदः ।
क्षीरोदः । ।


____________________________________________________________________


  1. <पेषम्-वास-वाहन-धिषु च># । । PS_६,३.५८ । ।


_____Sठाऱ्ठ्JKव्_६,३.५८ः

पेषं वास वाहन धि इत्येतेषु च+उत्तरपदेसु उदकस्य उद इत्ययं आदेशो भवति ।
उदपेषं पिनष्टि ।
स्नेहने पिषः (*३,४.३८) इति णमुल् ।
वास - उदकस्य वासः उदवासः ।
वाहन - उदकस्य वाहनः उदवाहनः ।
उदकं धीयतेऽस्मिनिति उदधिः । ।


____________________________________________________________________


  1. <एकहल्-आदौ पूरयितव्येऽन्यतरस्याम्># । । PS_६,३.५९ । ।



_____Sठाऱ्ठ्JKव्_६,३.५९ः

उदकस्योद इति वर्तते ।
एकः, असहायः तुल्यजातीयेन अनन्तरेण हलादिना, हलादिर्यस्य+उत्तरपदस्य तदेकहलादिः, तस्मिन्नेकहलादौ पूरयितव्यवाचिन्यन्यतरस्यां उदकस्य उद इत्ययं आदेशो भवति ।
उदकुम्भः, उदककुम्भः ।
उदपात्रम्, उदकपात्रं ।
एकहलादौ इति किं ? उदकस्थालं ।
पूरयितव्ये इति किं ? उदकपर्वतः । ।


____________________________________________________________________


[#७१४]

  1. <मन्थ-ओदन-सक्तु-बिन्दु-वज्र-भार-हार-वीवध-गाहेषु च># । । PS_६,३.६० । ।



_____Sठाऱ्ठ्JKव्_६,३.६०ः

मन्थ ओदन सक्तु बिन्दु वज्र भार हार वीवध गाह इत्येतेषु उत्तरपदेसु उदकस्य उद इत्ययं आदेशो भवति अन्यतरस्यां ।
उदकेन मन्थः उदमन्थः, उदकमन्थः ।
ओदन - उदकेन ओदनः उदौदनः, उदकौदनः ।
सक्तु - उदकेन सक्तुः उदसक्तुः, उदकसक्तुः ।
बिन्दु - उदकस्य बिन्दुः उदबिन्दुः, उदकबिन्दुः ।
वज्र - उदकस्य वज्रः उदवज्रः, उदकवज्रः ।
भार - उदकं विभर्ति इति उदभारः, उदकभारः ।
हार - उदकं हरति इति उदहारः, उदकहारः ।
वीवध - उदकस्य वीवधः उदवीवधः, उदकवीवधः ।
गाह - उदकं गाहते इति उदगाहः, उदकगाहः । ।


____________________________________________________________________


  1. <इको ह्रस्वोऽङ्यो गालवस्य># । । PS_६,३.६१ । ।



_____Sठाऱ्ठ्JKव्_६,३.६१ः

इगन्तस्य अङ्यन्तस्य उत्तरपदे ह्रस्वः भवति गालवस्य आचर्यस्य मतेन अन्यतरस्यां ।
ग्रामणिपुत्रः ग्रामणीपुत्रः ।
ब्रह्मबन्धुपुत्रः, ब्रह्यबन्धूपुत्रः ।
इकः इति किं ? खट्वापादः ।
मालापादः ।
अङ्यः इति किं ? गार्गीपुत्रः ।
वात्सीपुत्रः ।
गालवग्रहणं पुजार्थं ।
अन्यतरस्यां इति हि वर्तते ।
व्य्वस्थितविभषा च+इयं ।
तेन+इह न भवति, कारीषगन्धीपुत्रः इति ।
इयङुवङ्भाविनां अव्ययानां च न भवति ।
श्रीकुलं ।
भ्रूकुलं ।
काण्दीभूतं ।
वृषलीभूतं ।
भ्रूकुंसादीनां तु भवत्येव ।
भ्रुकुंसः ।
भ्रुकुटिः ।
अपर आह ।
भ्रुकुंसादीनां अकारो भवति इति वक्तव्यं ।
भ्रकुंसः ।
भ्रकुटिः । ।


____________________________________________________________________


  1. <एक तद्धिते च># । । PS_६,३.६२ । ।



_____Sठाऱ्ठ्JKव्_६,३.६२ः

एकशब्दस्य तद्धिते उत्तरपदे ह्रस्वो भवति ।
एकस्या आगतं एकरूप्यं ।
एकमयं ।
एकस्य भावः एकत्वं ।
एकता ।
उत्तरपदे - एकस्याः क्षीरं एकक्षीरं ।
एकदुग्धं ।
लिङ्गविशिष्टस्य ग्रहणं एकशब्दह्रस्वत्वं प्रयोजयति ।
अचा हि गृह्यमाणं अत्र विशेष्यते, न पुनरच्गृह्यमाणेन इति । ।


____________________________________________________________________


  1. <ङ्यापोः सञ्ज्ञाछन्दसोर्बहुलम्># । । PS_६,३.६३ । ।



_____Sठाऱ्ठ्JKव्_६,३.६३ः

ङ्यन्तस्य अबन्तस्य च सञ्ज्ञाछन्दसोः बहुलं ह्रस्वो भवति ।
ङ्यन्तस्य सञ्ज्ञायां - रेवतिपुत्रः ।
रोहिणिपुत्रः ।
भरणिपुत्रः ।
न च भवति ।
नान्दीकरः ।
नान्दीघोषः ।
नान्दीविशालः ।
ग्यन्तस्य छन्दसि - कुमारिदा प्रफर्विदा ।
न च भवति ।
फल्गुनीपौर्णमासी ।
जगतीछदः ।
आबन्तस्य सञ्ज्ञायां - शिलवहं ।
शिलप्रस्थं ।
न च भवति ।
लोमकागृहं ।
लोमकाषण्डं ।
आबन्तस्य छन्दसि - अजक्षीरेण जुहोति ।
ऊर्णम्रदाः पृथिवी दक्षिणावत ।
न च भवति ।
ऊर्णासूत्रेण कवयो वयन्ति । ।


____________________________________________________________________


[#७१५]

  1. <त्वे च># । । PS_६,३.६४ । ।



_____Sठाऱ्ठ्JKव्_६,३.६४ः

त्वप्रत्यये परतो ङ्यापोः बहुलं ह्रस्वो भवति ।
तदजाया भावः अजत्वम्, अजात्वं ।
तद्रोहिण्या भावः रोहिणित्वम्, रोहिणीत्वं ।
सञ्ज्ञायां असम्भवाच्छन्दस्येव+उदाहरणानि भवन्ति । ।


____________________________________________________________________


  1. <इष्टका-इषीका-मालानां चिततूलभारिषु># । । PS_६,३.६५ । ।


_____Sठाऱ्ठ्JKव्_६,३.६५ः

इष्टकेषीकामालानां चित तूल भारिनित्येतेषु उत्तरपदेषु यथासङ्ख्यं ह्रस्वो भवति ।
इष्टकचितं ।
इषीकतूलं ।
मालभारिणी कन्या ।
इष्तकादिभ्यस्तदन्तस्य अपि ग्रहणं भवति ।
पक्वेष्टकचितं ।
मुञ्जेषीकतूलं ।
उत्पलमालभारिणी कन्या । ।


____________________________________________________________________


  1. <खित्यनव्ययस्य># । । PS_६,३.६६ । ।



_____Sठाऱ्ठ्JKव्_६,३.६६ः

खिदन्ते उत्तरपदेऽनव्ययस्य ह्रस्वो भवति ।
कालिंमन्या ।
हरिणिम्मन्या ।
मुमा ह्रस्वो न बाध्यते, अन्यथा हि ह्रस्वशासनं अनर्थकं स्याथ् ।
अनव्ययस्य इति किं ? दोषामन्यमहः ।
दिवामन्या रात्रिः ।
अनव्ययस्य इत्येतदेव ज्ञापकं इह खिदन्तग्रहणस्य । ।


____________________________________________________________________


  1. <अरुर्-द्विषद्-अजन्तस्य मुम्># । । PS_६,३.६७ । ।



_____Sठाऱ्ठ्JKव्_६,३.६७ः

अरुस्द्विषतित्येतयोरजनतानां च खिदन्त उत्तरपदे मुमागमो भवति अनव्ययस्य ।
अरुन्तुदः ।
द्विषन्तपः ।
अजन्तानां - कालिम्मन्या ।
अरुर्द्विषदजन्तस्य इति किं ? विद्वन्मन्यः ।
अनव्ययस्य इत्येव, दोषामन्यमहः ।
दिवामन्या रात्रिः ।
अन्तग्रहणं किं ? कृताजन्तकार्यप्रतिपत्त्यर्थं ।
अतो ह्रस्वे कृते मुं भवति । ।


____________________________________________________________________


  1. <इच एकाचोऽम्प्रत्ययवच्च># । । PS_६,३.६८ । ।



_____Sठाऱ्ठ्JKव्_६,३.६८ः

इजन्तस्य एकाचः खिदन्ते उत्तरपदे अमागमो भवति, अम्प्रत्ययवच्च द्वितीयैकवचनवच्च स भवति ।
अं इति हि द्विरावर्तते ।
गाम्मन्यः ।
स्त्रीम्मन्यः, स्त्रियम्मन्यः ।
श्रियम्मन्यः ।
भ्रुवम्मन्यः ।
अम्प्रत्ययवच्च इत्यतिदेशातात्वपूर्वसवर्णगुणेयङुवङादेशा भवन्ति ।
इचः इति किं ? त्वङमन्यः ।
एकाचः इति किं ? लेखाभ्रुम्मन्याः ।
अथेह कथं भवितव्यम्, श्रियं आत्मानं ब्राह्मणकुलं मन्यते इत्युपक्रम्य श्रिमन्यं इति भवितव्यं इति भाष्ये व्यवस्थितं ? तत्र+इदं भाष्यकारस्य दर्शनम्, अत्र विषये परित्यक्तस्वलिङ्गः श्रीशब्दो ब्राह्मणकुले वर्तते, यथा प्रष्ठादयः स्त्रियां ।
तत्र स्वमोर्नपुंसकात्(*७,१.२३) इत्यमो लुग्भवति । ।


____________________________________________________________________


  1. <वाचंयम-पुरन्दरौ च># । । PS_६,३.६९ । ।



_____Sठाऱ्ठ्JKव्_६,३.६९ः

वाचंयम पुरन्दर इत्येतौ निपात्येते ।
वाचंयम आस्ते ।
पुरं दारयति इति पुरन्दरः । ।


____________________________________________________________________


[#७१६]

  1. <कारे सत्य-अगदस्य># । । PS_६,३.७० । ।



_____Sठाऱ्ठ्JKव्_६,३.७०ः

कारशब्द उत्तरपदे सत्य अगद इत्येतयोर्मुमागमो भवति ।
सत्यं करोति, सत्यस्य व कारः सत्यङ्कारः ।
एवं - अगदङ्कारः ।
अस्तुसत्यागादस्य कार इति वक्तव्यं ।
अस्तुङ्कारः ।
भक्षस्य छन्दसि कारे मुं वक्तव्यः ।
भक्षं करोति, भक्षस्य वा करः भक्षङ्कारः ।
छन्दसि इति किं ? भक्षकारः ।
धेनोर्भव्यायां मुं वक्तव्यः ।
धेनुम्भव्या ।
लोकस्य पृणे मुं वक्तव्यः ।
लोकम्पृणः ।
इत्येऽनभ्याशस्य मुं वक्तव्यः ।
अनभ्याशमित्यः ।
भ्राष्ट्राग्न्योरिन्धे मुं वक्तव्यः ।
भृआष्ट्रमिन्धः ।
अग्निमिन्धः ।
गिलेऽगिलस्य मुं वक्तव्यः ।
तिमिङ्गिलः ।
अगिलस्य इति किं ? गिलगिलः ।
गिलगिले चेति वक्तव्यं ।
तिमिङ्गिलगिलः ।
उष्णभद्रयोः करणे मुं वक्तव्यः ।
उष्णङ्करणं ।
भद्रङ्करणं ।
सूतोग्रराजभोजमेर्वित्येतेभ्य उत्तरस्य दुहितृशब्दस्य पुत्रडादेशो वा वक्तव्यः ।
सूतपुत्री, सूतदुहिता ।
उग्रपुत्री, उग्रदुहिता ।
राजपुत्री, राजदुहिता ।
भोजपुत्री, भोजदुहिता ।
मेरुपुत्री, मेरुदुहिता ।
केचित्तु शार्ङ्गरवादिषु पुत्रशब्दं पठन्ति, तेषां पुत्री इति भवति ।
अन्यत्र अपि हि दृश्यते शैलपुत्री इति । ।


____________________________________________________________________


[#७१७]

  1. <श्येन-तिलस्य पाते ञे># । । PS_६,३.७१ । ।



_____Sठाऱ्ठ्JKव्_६,३.७१ः

श्येन तिल इत्येतयोः पातशब्दे उत्तरपदे ञप्रत्यये परे मुमागमो भवति ।
श्येनपातोऽस्यां क्रीडायां श्यैनम्पाता ।
तैलम्पाता ।
ञे इति किं ? श्येनपातः । ।


____________________________________________________________________


  1. <रात्रेः कृति विभाषा># । । PS_६,३.७२ । ।



_____Sठाऱ्ठ्JKव्_६,३.७२ः

रात्रेः कृदन्त उत्तरपदे विभाषा मुमागमो भवति ।
रात्रिञ्चरः, रात्रिचरः ।
रात्रिमटः, रात्र्यटः ।
अप्राप्तविभाषा इयं ।
खिति हि नित्यं मुं भवति ।
रत्रिम्मन्यः । ।


____________________________________________________________________


  1. <नलोपो नञः># । । PS_६,३.७३ । ।



_____Sठाऱ्ठ्JKव्_६,३.७३ः

नञो नकारस्य लोपो भवति उत्तरपदे ।
अब्राह्मणः ।
अवृषलः ।
असुरापः ।
असोमपः ।
नञो नलोपेऽवक्षेपे तिङ्युपसङ्ख्यानं कर्तव्यं ।
अपचसि त्वं जाल्म ।
अकरोषि त्वं जाल्म । ।


____________________________________________________________________


  1. <तस्मान्नुडचि># । । PS_६,३.७४ । ।



_____Sठाऱ्ठ्JKव्_६,३.७४ः

तस्माल्लुप्तनकारान्नञः नुडागमो भवति अजादवुत्तरपदे ।
अनजः ।
अनश्वः ।
तस्मातिति किं ? नञ एव हि स्याथ् ।
पूर्वान्ते हि ङमो ह्रस्वादचि ङ्मुण्नित्यं (*८,३.३२) इति प्राप्नोति । ।


____________________________________________________________________


  1. <नभ्राण्-नपान्-नवेदा-नासत्या-नमुचि-नकुल-नख-नपुंसक-नक्षत्र-नक्र-नाकेषु प्रकृत्या># । । PS_६,३.७५ । ।



_____Sठाऱ्ठ्JKव्_६,३.७५ः

नभ्राट्नपात्नवेदाः नासत्याः नमुचि नकुल नख नपुंसक नक्षत्र नक्र नाक इत्येतेषु नञ्प्रकृत्या भवति ।
न भ्राजते इति नभ्राठ् ।
भ्राजतेः क्विबन्तस्य नञ्समासः ।
नपाति इति नपाथ् ।
पातिः शत्रन्तः ।
नवेत्ति इति नवेदाः ।
वित्तिरसुन्प्रत्ययान्तः ।
नासत्याः - सत्सु साधवः सत्याः, न सत्याः असत्याः, न असत्याः नासत्याः ।
न मुञ्चति इति नमुचिः ।
मुचेरौणादिकः किप्रत्ययः ।
न अस्य कुलं अस्ति नकुलः ।
नख - न अस्य खं अस्ति इति नखं ।
नपुंसक - न स्त्री न पुमान्नपुंसकं ।
स्त्रीपुंसयोः पुंसकभावो निपात्यते ।
नक्षत्र - न क्षरते क्षीयते इति वा नज्ञात्रं ।
क्षियः क्षरतेर्वा क्षत्रं इति निपात्यते ।
नक्र - न क्रामति इति नक्रः ।
क्रमेर्डप्रत्ययो निपातनाथ् ।
नाक - न अस्मिनकमस्ति नाकं । ।


____________________________________________________________________


[#७१८]

  1. <एकादिश्च+एकस्य च आदुक्># । । PS_६,३.७६ । ।


_____Sठाऱ्ठ्JKव्_६,३.७६ः

एकादिश्च नञ्प्रकृत्या भवति, एकशब्दस्य च आदुकागमो भवति ।
एकेन न विंशतिः कान्नविंशतिः ।
एकान्नत्रिंशथ् ।
तृतीया इति योगविभागात्समासः ।
पूर्वान्तोऽयं आदुक्क्रियते पदान्तलक्षणोऽत्र अनुनासिको विकल्पेन यथा स्यातिति । ।


____________________________________________________________________


  1. <नगोऽप्राणिष्वन्यतरस्याम्># । । PS_६,३.७७ । ।



_____Sठाऱ्ठ्JKव्_६,३.७७ः

नञ्प्रकृत्या भवति अन्यतरस्यां ।
नगा वृक्षाः, अगा वृक्षाः ।
नगाः पर्वताः, अगाः पर्वताः ।
न गच्छन्ति इति नगाः ।
गमेर्डप्रत्ययः ।
अप्राणिषु इति किं ? अगो वृषलः शीतेन । ।


____________________________________________________________________


  1. <सहस्य सः सञ्ज्ञायाम्># । । PS_६,३.७८ । ।



_____Sठाऱ्ठ्JKव्_६,३.७८ः

सहशब्दस्य स इत्ययं आदेशो भवति सञ्ज्ञायां विषये ।
साश्वत्थं ।
सपलाशं ।
सशिंशपं ।
सञ्ज्ञायां इति किं ? सहयुध्वा ।
सहकृत्वा ।
सादेश उदात्तो निपात्यते ।
उदात्तानुदात्तवतो हि सहशब्दस्य अन्तर्यतः स्वरितः स्याथ् ।
सनिपातनस्वरः पूर्वपदप्रकृतिस्वरत्वं यत्र तत्र उपयुज्यते ।
अन्यत्र समासान्तोदात्तत्वेन बाध्यत एव, सेष्टि, सपशुबन्धं इति । ।

____________________________________________________________________


  1. <ग्रन्थान्त-अधिके च># । । PS_६,३.७९ । ।



_____Sठाऱ्ठ्JKव्_६,३.७९ः

ग्रन्थान्ते अधिके च वर्तमानस्य सहशब्दस्य स इत्ययं आदेशो भवति ।
सकलं ज्यौतिषमधीते ।
समुहूर्तं ।
ससङ्ग्रहं व्याकरणं अधीयते ।
कलान्तं, महूर्तान्तं, सङ्ग्रहान्तं इति अन्तवचने इत्यव्ययीभावः समासः ।
तत्र अव्ययीभावे चाकाले इति कालवाचिन्युत्तरपदे समासो न प्राप्नोति इत्ययं आरम्भः ।
अधिके - सद्रोणा खारी ।
समाषः कार्षापणः ।
सकाकिणीको माषः । ।


____________________________________________________________________


  1. <द्वितीये च अनुपाख्ये># । । PS_६,३.८० । ।



_____Sठाऱ्ठ्JKव्_६,३.८०ः

द्वयोः सहयुक्तयोरप्रधानो यः स द्वितीयः ।
उपाख्यायते प्रत्यक्षत उपलभ्यते यः स उपाख्यः ।
उपाख्यादन्यः अनुपाख्यः अनुमेयः ।
तस्मिन्द्वितीयेऽनुपाख्ये सहस्य स इत्ययं आदेशो भवति ।
साग्निः कपोतः ।
सपिशाचा वात्या ।
सराक्षसीका शाला ।
अग्न्यादयः साक्षादनुपलभ्यमानाः कपोतादिभिरनुमीयमानाः अनुपाख्या भवन्ति । ।


____________________________________________________________________


  1. <अव्ययीभावे चाकाले># । । PS_६,३.८१ । ।



_____Sठाऱ्ठ्JKव्_६,३.८१ः

अव्ययीभावे च समासे अकालवाचिनि उत्तरपदे सहस्य स इत्ययं आदेशो भवति ।
सचक्रं धेहि ।
सधुरं प्राज ।
अकाले इति किं ? सहपूर्वाह्णं । ।


____________________________________________________________________


[#७१९]

  1. <वा+उपसर्जनस्य># । । PS_६,३.८२ । ।



_____Sठाऱ्ठ्JKव्_६,३.८२ः

उपसर्जनसर्वावयवः समासः उपसर्जनं ।
यस्य सर्वेऽवयवा उपसर्जनीभूताः स सर्वोपसर्जनो बहुव्रीहिर्गृह्यते ।
तदवयवस्य सहशब्दस्य वा स इत्ययं आदेशो भवति ।
सपुत्रः, सहपुत्रः ।
सच्छात्रः, सहच्छात्रः ।
उपसर्जनस्य इति किं ? सहयुध्वा ।
सहकृत्वा ।
सहकृत्वप्रियः, प्रियसहकृत्वा इति इह बहुव्रीहौ यदुत्तरपदं तत्परः सहशब्दो न भवति इति सभावो न भवति । ।


____________________________________________________________________


  1. <प्रकृत्या आशिष्यगो-वत्स-हलेषु># । । PS_६,३.८३ । ।



_____Sठाऱ्ठ्JKव्_६,३.८३ः

प्रकृत्या सहशब्दो भवति आशिषि विषये अगोवत्सहलेषु ।
स्वस्ति देवत्ताय सहपुत्राय सहच्छात्राय सहामात्याय ।
अगोवत्सहलेषु इति किं ? स्वस्ति भवते सहगवे, सगवे ।
सहवत्साय, सवत्साय ।
सहहलाय, सहलाय ।
वोपसर्जनस्य (*६,३.८२) इति पक्षे भवत्येव सह्बावः । ।


____________________________________________________________________


  1. <समानस्य छन्दस्यपूर्ध-प्रभृत्य्-उदर्केषु># । । PS_६,३.८४ । ।



_____Sठाऱ्ठ्JKव्_६,३.८४ः

स इति वर्तते ।
समानस्य स इत्ययं आदेशो भवति छन्दसि विषये मूर्धन्प्रभृति उदकं इत्येतानि उत्तरपदानि वर्जयित्वा ।
अनुभ्राता सगर्भ्यः ।
अनुसखा सयूथ्यः ।
यो नः सनुत्यः ।
समानो गर्भः सगर्भः, तत्र भवः सगर्थ्यः ।
सगर्भसयूथसनुताद्यत्(*४,४.११४) इति यत्प्रत्ययः ।
अमूर्धप्रभृत्युदर्केषु इति किं ? समानमूर्धा ।
समानप्रभृतयः ।
समानोदर्काः ।
समानस्य इति योगविभाग इष्टप्रसिद्ध्यर्थः क्रियते ।
तेन सपक्षः, साधर्म्यम्, सजातीयः इत्येवं आदयः सिद्धाः भवन्ति । ।


____________________________________________________________________


  1. <ज्योतिर्-जनपद-रात्रि-नाभि-नाम-गोत्र-रूप-स्थान-वर्ण-वर्यो-वचन-बन्धुषु># । । PS_६,३.८५ । ।



_____Sठाऱ्ठ्JKव्_६,३.८५ः

ज्योतिस्जनपद रात्रि नाभि नामन्गोत्र रूप स्थान वर्ण वयस्वचन बन्धु इत्येतेषु उत्तरपदेषु समानस्य स इत्ययं आदेशो भवति ।
सज्योतिः ।
सजनपदः ।
सरात्रिः ।
सनाभिः ।
सनामा ।
सगोत्रः ।
सरूपः ।
सस्थानः सवर्णः ।
सवयाः ।
सवचनः ।
सबन्धुः । ।


____________________________________________________________________


  1. <चरणे ब्रह्मचारिणि># । । PS_६,३.८६ । ।



_____Sठाऱ्ठ्JKव्_६,३.८६ः

चरणे गम्यमाने ब्रह्मचारिणि उत्तरपदे समानस्य स इत्ययं आदेशो भवति ।
समानो ब्रह्मचारी सब्रहमचारी ।
ब्रह्म वेदः, तदध्ययनार्थं यद्व्रतं तदपि ब्रह्म, तच्चरति इति ब्रहमचारी ।
समानः तस्य+एव ब्रह्मणेः समानत्वदित्ययं अर्थो भवति ।
समाने ब्रह्मणि व्रतचरी सब्रह्मचरी इति । ।

____________________________________________________________________


  1. <तीर्थे ये># । । PS_६,३.८७ । ।



_____Sठाऱ्ठ्JKव्_६,३.८७ः

तीर्थशब्द उत्तरपदे यत्प्रत्यये परतः समानस्य स इत्ययं आदेशो भवति ।
सतीर्थ्यः ।
समानतीर्थे वासी (*४,४.१०७) इति यत्प्रत्ययः । ।


____________________________________________________________________


[#७२०]

  1. <विभाषा+उदरे># । । PS_६,३.८८ । ।



_____Sठाऱ्ठ्JKव्_६,३.८८ः

उदरशब्दे उत्तरपदे यत्प्रत्ययान्ते समानस्य विभाषा स इत्ययं आदेशो भवति ।
सोदर्यः, समानोदर्यः ।
समानोदरे शयित ओ च+उदात्तः (*४,४.१०८) इति यत् । ।


____________________________________________________________________


  1. <दृग्-दृश-वतुषु># । । PS_६,३.८९ । ।



_____Sठाऱ्ठ्JKव्_६,३.८९ः

दृक्दृश वतु इत्येतेषु परतः समानस्य स इत्ययं आदेशो भवति ।
सदृक् ।
सदृशः ।
त्यदादिषु दृशोऽनालोचने कञ्च (*३,२.६०) इत्यत्र समानान्ययोश्चेति वक्तव्यं इति कञ्क्विनौ प्रत्ययौ क्रियेते ।
दृक्षे चेति वक्तव्यं ।
सदृक्षः ।
दृशेः क्षप्रत्ययोऽपि तत्र+एव वक्तव्यः ।
वतुग्रहणं उत्तरार्थं । ।


____________________________________________________________________


  1. <इदं किमोरीश्की># । । PS_६,३.९० । ।



_____Sठाऱ्ठ्JKव्_६,३.९०ः

इदं किं इत्येतयोरीश्की इत्येतौ यथासङ्ख्यं आदेशौ भवतो दृग्दृशवतुषु ।
ईदृक् ।
ईदृशः ।
इयान् ।
कीदृक् ।
कीदृशः ।
कियान् ।
किमिंदंभ्यां वो घः (*५,२.४०) इति वतुप् ।
दृक्षे चेति वक्तव्यं ।
ईदृक्षः ।
कीदृक्षः । ।


____________________________________________________________________


  1. <आ सर्वनाम्नः># । । PS_६,३.९१ । ।



_____Sठाऱ्ठ्JKव्_६,३.९१ः

सर्वनाम्नः आकारादेशो भवति दृग्दृशवतुषु ।
तादृक् ।
तादृशः ।
तावान् ।
यादृक् ।
यादृशः ।
यावान् ।
दृक्षे चेति वक्तव्यं ।
तादृक्षः ।
यादृक्षः । ।


____________________________________________________________________


[#७२१]

  1. <विष्वग्-देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये># । । PS_६,३.९२ । ।



_____Sठाऱ्ठ्JKव्_६,३.९२ः
विष्वक्देव इत्येतयोः सर्वनाम्नश्च टेः अद्रि इत्ययं आदेशो भवति अञ्चतौ वप्रत्ययान्ते उत्तरपदे ।
दिष्वगज्चति इति विष्वद्र्यङ् ।
देवद्र्यङ् ।
सर्वनाम्नः - तद्र्यङ् ।
यद्र्यङद्रिसघ्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थं ।
तत्र यणादेशे कृते उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (*८,२.४) इत्येष स्वरो भवति ।
विष्वग्देवयोः इति किं ? अश्वाची ।
अञ्चतौ इति किं ? विष्वग्युक् ।
वप्रत्यये इति किं ? विष्वगञ्चनं ।
वप्रत्ययग्रहणं अन्यत्र धातुग्रहणे तदादिविधिप्रतिपत्त्यर्थं ।
तेन अयस्कृतम्, अयस्कारः इत्यत्र अतः कृकमिकंसकुम्भपात्र इति सत्वं भवति ।
छन्दसि स्त्रियां बहुलं इति वक्तव्यं ।
विश्वाई च घृताची च इत्यत्र न भवति ।
कद्रीची इत्यत्र तु भवत्येव । ।


____________________________________________________________________


  1. <समः समि># । । PS_६,३.९३ । ।



_____Sठाऱ्ठ्JKव्_६,३.९३ः

सं इत्येतस्य समि इत्ययं आदेशो भवति अञ्चतौ वप्रत्ययन्ते उत्तरपदे ।
सम्यक्, सम्यञ्चौ, सम्यञ्चः । ।


____________________________________________________________________


  1. <तिरसस्तिर्यलोपे># । । PS_६,३.९४ । ।



_____Sठाऱ्ठ्JKव्_६,३.९४ः

तिरसित्येतस्य तिरि इत्ययं आदेशो भवति अञ्चाउ वप्रत्ययान्ते उत्तरपदेऽलोपे, यदा अस्य लोपो न भवति ।
तिर्यक्, तिर्यञ्चौ, तिर्यञ्चः ।
अलोपे इति किं ? तिरश्चा ।
तिरश्चे ।
अचः इत्यकारलोपः । ।


____________________________________________________________________


  1. <सहस्य सध्रिः># । । PS_६,३.९५ । ।



_____Sठाऱ्ठ्JKव्_६,३.९५ः

सह इत्येतस्य सघ्रिः इत्ययं आदेशो भवति अञ्चतौ वप्रत्यान्ते उत्तरपदे ।
सघ्र्यङ्सघ्र्यज्चौ, सघ्र्यञ्चः ।
सघ्रीचः ।
सघ्रीचा । ।


____________________________________________________________________


  1. <सध माद-स्थयोश्छन्दसि># । । PS_६,३.९६ । ।



_____Sठाऱ्ठ्JKव्_६,३.९६ः

छन्दसि विषये माद स्थ इत्येतयोरुत्तरपदयोः सहस्य सध इत्ययं आदेशो भवति ।
सधमादो द्युम्निनीरापः ।
सधस्था । ।


____________________________________________________________________


[#७२२]

  1. <द्व्य्-अन्तर्-उपसर्गेभ्योऽप ईत्># । । PS_६,३.९७ । ।



_____Sठाऱ्ठ्JKव्_६,३.९७ः

द्वि अन्तरित्येताभ्यां उपसर्गाच्च उत्तरस्य अपित्येतस्य ईकारादेशो भवति ।

[#७२१]

द्वीपं ।
अन्तरीपं ।
उपसर्गात्- नीपं ।
वीपं ।
समीपं ।
समाप ईत्वे प्रतिशेधो वक्तव्यः ।
समापं नाम देवयजनं ।
अपर आह - ईत्वमनवर्णादिति वक्तव्यं ।
इह मा भूत्, प्रापम्, परापं ।
अप्शब्दं प्रति क्रिययोगाभावातुपसर्गग्रहणं प्राद्युपलक्षणार्थं । ।


____________________________________________________________________


[#७२२]

  1. <ऊदनोर्देशे># । । PS_६,३.९८ । ।



_____Sठाऱ्ठ्JKव्_६,३.९८ः

अनोरुत्तरस्य अपः ऊकारादेशो भवति देशाभिधाने ।
अनूपो देशः ।
देशे इति किं ? अन्वीपं ।
दीर्घोच्चारणं अवग्रहार्थम्, अनु ऊपः अनूपः इति । ।


____________________________________________________________________


  1. <अषष्थ्य्-अतृतीयास्थस्य अनयस्य दुगाशीर्-आशा-आस्था-आस्थित-उत्सुक-ऊति-कारक-राग-च्छेषु># । । PS_६,३.९९ । ।



_____Sठाऱ्ठ्JKव्_६,३.९९ः

अषष्थीस्थस्य अतृतीयास्थस्य च अन्यशब्दस्य दुगागमो भवति आशिसाशा आस्था आस्थित उत्सुक ऊति कारक राग छ इत्येतेषु परतः ।
अन्या आशीः अन्यदाशीः ।
अन्या आशा अन्यदाशा ।
अन्या आस्था अन्यदास्था ।
अन्य आस्थितः अन्यदास्थितः ।
अन्य उत्सुकः अन्यदुत्सुकः ।
अन्या ऊतिः अन्यदूतिः ।
अन्यः कारकः अन्यत्कारकः ।
अन्यः रागः अन्यद्रागः ।
अन्यस्मिन्भवः अन्यदीयः ।
गहादिष्वन्यशब्दो द्रष्टव्यः ।
अषष्ठ्यतृतीयास्थस्य इति किं ? अन्यस्य आशीः अन्याशीः ।
अन्येन आस्थितः अन्यास्थितः ।
दुगागमोऽविशेषेण वक्तव्यः कारकच्छयोः ।
षष्ठीतृतीययोर्नेष्ट आशीरादिषु सप्तसु । ।
अन्यस्य कारकं अन्यत्कारकं ।
अन्यस्य इदं अन्यदीयं ।
अस्य च द्विर्नञ्ग्रहणं लिङ्गं । ।


____________________________________________________________________


  1. <अर्थे विभाषा># । । PS_६,३.१०० । ।



_____Sठाऱ्ठ्JKव्_६,३.१००ः

अर्थशदे उत्तरपदे अन्यस्य विभाषा दुगागमो भवति ।
अन्यदर्थः, अन्यार्थः । ।


____________________________________________________________________


  1. <कोः कत्तत्पुरुषेऽचि># । । PS_६,३.१०१ । ।



_____Sठाऱ्ठ्JKव्_६,३.१०१ः

कु इत्येतस्य क्त इत्ययं आदेशो भवति तत्पुरुषे समासे अजादावुत्तरपदे ।
कदजः ।
कदश्वः ।
कदुष्ट्रः ।
कदन्नं ।
तत्पुरुषे इति किं ? कूष्ट्रो राजा ।
अचि इति किं ? कुब्राह्मणः ।
कुपुरुषः ।
कद्भावे त्रावुपसङ्ख्यानं ।
कुत्सितास्त्रयः कत्त्रयः । ।


____________________________________________________________________


[#७२३]

  1. <रथ-वदयोश्च># । । PS_६,३.१०२ । ।



_____Sठाऱ्ठ्JKव्_६,३.१०२ः

रथ वद इत्येतयोश्च+उत्तरपदयोः कोः कतित्ययं आदेशो भवति ।
कद्रथः ।
कद्वदः । ।


____________________________________________________________________


  1. <दृणे च जातौ># । । PS_६,३.१०३ । ।



_____Sठाऱ्ठ्JKव्_६,३.१०३ः

दृणशब्दे उत्तरपदे जातावभिधेयायां कोः कतित्यादेशो भवति ।
कत्तृणा नाम जातिः ।
जातौ इति किं ? कुत्सितानि तृणानि कुतृणानि । ।


____________________________________________________________________


  1. <का पथ्य्-अक्षयोः># । । PS_६,३.१०४ । ।



_____Sठाऱ्ठ्JKव्_६,३.१०४ः

पथिनक्ष इत्येतयोरुत्तरपदयोः कोः का इत्ययं आदेशो भवति ।
कापथः ।
काक्षः । ।


____________________________________________________________________


  1. <ईषदर्थे च># । । PS_६,३.१०५ । ।



_____Sठाऱ्ठ्JKव्_६,३.१०५ः

ईषदर्थे वर्तमानस्य कोः का इत्ययं आदेशो भवति ।
कामधुरं ।
कालवणं ।
अजादावपि परत्वात्कादेश एव भवति ।
काम्लं ।
कोष्णं । ।


____________________________________________________________________


  1. <विभाषा पुरुषे># । । PS_६,३.१०६ । ।



_____Sठाऱ्ठ्JKव्_६,३.१०६ः

पुरुषशब्दे उत्तरपदे विभाषा कोः का इत्ययं आदेशो भवति ।
कापुरुषः, कुपुरुषः ।
अप्राप्तविभाषेयं ।
ईषदर्थे तु पूर्वविप्रतिषेधेन नित्यं का भवति ।
ईषत्पुरुषः कापुरुषः । ।

____________________________________________________________________


  1. <कवञ्चोष्णे># । । PS_६,३.१०७ । ।



_____Sठाऱ्ठ्JKव्_६,३.१०७ः

उष्णशब्दे उत्तरपदे कोः कवं इत्ययं आदेशो भवति, का च विभाषा ।
कवोष्णम्, कोष्णम्, कदुष्णं । ।


____________________________________________________________________


  1. <पथि च च्छन्दसि># । । PS_६,३.१०८ । ।



_____Sठाऱ्ठ्JKव्_६,३.१०८ः

पथिशब्दे उत्तरपदे छन्दसि विषये कोः कवं का इत्येतावादेशौ भवतो विभाषा ।
कवपथः, कापथः, कुपथः । ।


____________________________________________________________________


[#७२४]

  1. <पृषोदर-आदीनि यथोपदिष्टम्># । । PS_६,३.१०९ । ।



_____Sठाऱ्ठ्JKव्_६,३.१०९ः

पृषोदरप्रकाराणि शब्दरूपाणि, येषु लोपागमवर्नविकाराः शास्त्रेण न विहिताः दृश्यन्ते च, तानि यथोपदिष्टानि साधूनि भवन्ति ।
यानि यानि यथोपदिष्टानि, शष्टैरुच्चारितानि प्रयुक्तानि, तानि तथा+एव अनुगन्तव्यानि ।
पृषदुदरं यस्य पृषोदरं ।
पृषदुद्वानं यस्य पृषोद्वानं ।
अत्र तकारलोपो भवति ।
वारिवाहकः बलाहकः ।
पूर्वशब्दस्य बशब्द आदेशः, उत्तरपदादेश्च लत्वं ।
जीवनस्य मूतः जीमूतः ।
वनशब्दस्य लोपः ।
शवानां शयनं श्मशानं ।
शवशब्दस्य श्मादेशः, शयनशब्दस्य अपि शानशब्द आदेशः ।
ऊर्ध्वं खमस्य इति उलूखलं ।
ऊर्ध्वखशब्दयोः उलू खल इत्येतावादेशौ भवतः ।
पिशिताशः पिशाचः ।
पिशिताशशब्दयोर्यथायोगं पिशाचशब्दौ आदेशौ ।
ब्रुवन्तोऽस्यां सीदन्ति इति बृसी ।
सदेरधिकरणे डट्प्रत्ययः ।
ब्रुवच्छब्दस्य चोपपदस्य बृशब्द आदेशो भवति ।
मह्यां रौति इति मयूरः ।
रौतेरचि टिलोपः ।
महीशब्दस्य मयूभावः ।
एवमन्येऽपि अश्वत्थकपित्थप्रभृतयो यथायोगं अनुगन्तव्याः ।
दिक्शब्देभ्य उत्तरस्य तीरस्य तारभावो वा भवति ।
दक्षिणतीरम्, दक्षिणतारं ।
उत्तरतीरम्, उत्तरतारं ।
वाचो वादे डत्वं च लभावश्च+उत्तरपदस्य+इञि प्रत्यये भवति ।
वाचं वदति इति वाग्वादः ।
तस्यापत्यं वड्वालिः ।
षष उत्वं दतृदशधासूत्तरपदादेष्टुत्वं च भवति ।
षड्दन्ता अस्य षोडन् ।
षट्च दश च षोडश ।
धासु वा षष उत्वं भवत्युत्तरपदादेश्च ष्टुत्वं ।
षोढा, षड्धा कुरु ।
बहुवचननिर्देशो नानाधिकरणवाचिनो धाशब्दस्य प्रतिपत्त्यर्थः ।
इह मा भूत्, षट्दधाति धयति वा षड्धा इति ।
दुरो दाशनाशदभध्येषूत्वं वक्तव्यं उत्तरपदादेश्च ष्टुत्वं ।
कुच्छ्रेण दाश्यते नाश्यते दभ्यते च यः स दूडाशः ।
दूणाशः ।
दूडभ्यः ।
दम्भेः खल्बनुनासिकलोपो निपातनाथ् ।
दुष्टं ध्यायति इति दूढ्यः ।
दुःशब्दोपपदस्य ध्यायतेः आतश्चोपसर्गे (*६,१.१३६) इति कप्रत्ययः ।
[#७२५]

स्वरो रोहतौ छन्दस्युत्वं वक्तव्यं ।
जाय एहि सुवो रोहाव ।
पीवोपवसनादीनां च लोपो वक्तव्यः ।
पीवोपवसनानां ।
पयोपवसनानां ।
वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ ।
धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तं । ।


____________________________________________________________________


  1. <सङ्ख्या-वि-साय-पूर्वस्य अह्नस्य अहन्नन्यतरस्यां ङौ># । । PS_६,३.११० । ।



_____Sठाऱ्ठ्JKव्_६,३.११०ः

सङ्ख्या वि साय इत्येवंपूर्वस्य अह्नशब्दस्य स्थाने अहनित्ययं आदेशो भवत्यन्यतरस्यां ङौ परतः ।
द्वयोरह्नोर्भवः द्व्यह्नः ।
त्र्यह्नः ।
द्व्यह्नि, द्व्यहनि ।
त्र्यह्नि, त्र्यहनि ।
द्व्यह्ने ।
त्र्यह्ने ।
व्यपगतमहः व्यह्नः ।
व्यह्नि, व्यहनि, व्यह्ने ।
सायमह्नः सायाह्नः ।
सायाह्नि, सायाहनि, सायाह्ने ।
एकदेशिसमासः पूर्वादिभ्योऽन्यस्य अपि भवति इत्येतदेव विसायपूर्वस्य अह्नस्य ग्रहणं ज्ञापकं ।
तेन मध्यमह्नः मध्याह्नः इत्यपि भवति ।
सङ्ख्याविसायपूर्वस्य इति किं ? पूर्वाह्णे ।
अपराह्णे । ।


____________________________________________________________________

  1. <ढ्रलोपे पूर्वस्य दीर्घोऽणः># । । PS_६,३.१११ । ।



_____Sठाऱ्ठ्JKव्_६,३.१११ः

ढकाररेफयोः लोपः यस्मिन्स ढ्रलोपः, तत्र पूर्वस्य अणः दीर्घो भवति ।
लीढं ।
मीढं ।
उपगूढं ।
मूढः ।
रलोपे - नीरक्तं ।
अग्नीरथः ।
इन्दूरथः ।
पुना रक्तं वासः ।
प्राता राजक्रयः ।
पूर्वग्रहणं अनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थं ।
अणः इति किं ? आतृढं ।
आवृढं । ।


____________________________________________________________________


  1. <सहि-वहोरोदवर्णस्य># । । PS_६,३.११२ । ।



_____Sठाऱ्ठ्JKव्_६,३.११२ः

सहि वहि इत्येतयोः अवर्णस्य ओकार आदेशो भवति ढ्रलोपे ।
सोढा ।
सोढुं ।
सोढव्यं ।
वोढा ।
वोढुं ।
वोढव्यं ।
अवर्णस्य इति किं ? ऊढः ।
ऊढवान् ।
वर्णग्रहणं किं ? कृतायां अपि वृद्धौ यथा स्याथ् ।
उदवोढां ।
उदवोढं ।
तादपि परः तपरः, तपरत्वादाकारस्य ग्रहणं न स्यात् । ।


____________________________________________________________________


  1. <साढ्यै साढ्वा साढ+इति निगमे># । । PS_६,३.११३ । ।



_____Sठाऱ्ठ्JKव्_६,३.११३ः

साध्यै साढ्वा साढा इति निगमे निपात्यनते ।
साढ्यै समन्तात्साढ्वा शत्रून् ।
सहेः क्त्वाप्रत्यये ओत्वाभावः ।
पक्षे क्त्वाप्रत्ययस्य ध्यैभावः ।
साढा इति तृचि रूपमेतथ् ।
निगमे इति किं ? सोढ्वा, सोढा इति भाषायां । ।


____________________________________________________________________


[#७२६]

  1. <संहितायाम्># । । PS_६,३.११४ । ।



_____Sठाऱ्ठ्JKव्_६,३.११४ः

संहितायां इत्ययं अधिकारः ।
यदिति ऊर्ध्वं अनुक्रमिष्यामः संहितायां इत्येवं तद्वेदितव्यं ।
वक्ष्यति - द्व्यचोऽतस्तिङः (*६,३.१३५) इति ।
विद्मा हि त्वा गोपतिं शूर गोनां ।
संहितायां इति किं ? विद्म, हि, त्वा, गोपतिं, शूर, गोनां । ।


____________________________________________________________________


  1. <कर्णे लक्षणस्य अविष्ट-अष्ट-पञ्च-मणि-भिन्न-च्छिन्न-च्छिद्र-स्रुव-स्वस्तिकस्य># । । PS_६,३.११५ । ।



_____Sठाऱ्ठ्JKव्_६,३.११५ः

कर्णशब्दे उत्तरपदे लक्षणवाचिनो दीर्घो भवति विष्ट अष्टन्पञ्चन्मणि भिन्न छिन्न छिद्र स्रुव स्वस्तिक इत्येतान्वर्जयित्वा ।
दात्राकर्णः ।
द्विगुणाकर्णः ।
त्रिगुणाकर्णः ।
द्व्यङ्गुलाकर्णः ।
अङ्गुलाकर्णः ।
यत्पशूनां स्वामिविशेषसम्बन्धज्ञापनार्थं दात्राकारादि क्रियते तदिह लक्षणं गृह्यते ।
लक्षणस्य इति किं ? शोभनकर्णः ।
अविष्टादीनां इति किं ? विष्टकर्णः ।
अष्टकर्णः ।
पञ्चकर्णः ।
मणिकर्णः ।
भिन्नकर्णः ।
छिन्नकर्णः ।
छिद्रकर्णः ।
स्रुवकर्णः ।
स्वस्तिककर्णः । ।


____________________________________________________________________


  1. <नहि-वृति-वृषि-व्यधि-रुचि-सहि-तनिषु क्वौ># । । PS_६,३.११६ । ।



_____Sठाऱ्ठ्JKव्_६,३.११६ः

नहि वृति वृषि व्यधि रुचि सहि तनि इत्येतेषु क्विप्रत्ययान्तेषु उत्तरपदेषु पूर्वपदस्य दीर्घो भवति संहितायां विषये ।
नहि - उपानथ् ।
परीणथ् ।
वृति - नीवृथ् ।
उपावृथ् ।
वृषि - प्रावृठ् ।
उपावृठ् ।
व्याधि - मर्माविथ् ।
दृदयाविथ् ।
श्वविथ् ।
रुचि - नीरुक् ।
अभिरुक् ।
सहि - ऋतीषठ् ।
तनि - तरीतथ् ।
गमः क्वौ (*६,४.४०) इति गमदीनं इष्यते ।
ततः तनोतेरप्यनुनासिकलोपः ।
क्वौ इति किं ? परिणहनं । ।


____________________________________________________________________


  1. <वन-गिर्योः सज्ञायां कोटर-किंशुलुकादीनाम्># । । PS_६,३.११७ । ।



_____Sठाऱ्ठ्JKव्_६,३.११७ः

वन गिरि इत्येतयोरुत्तरपदयोर्यथासङ्ख्यं कोटरदीनां किंशुलुकादीनां च दीर्घो भवति सज्ञायां विषये ।
वने कोटरादीनां - कोटरवणं ।
मिश्रकावणं ।
सिघ्रकावणं ।
सारिकावणं ।
गिरौ किंशुलुकादीनां - किंशुलुकागिरिः ।
अञ्जनागिरिः ।
कोटरकिंशुलुकादीनां इति किं ? असिपत्रवनं ।
कृष्णगिरिः ।
कोटर ।
मिश्रक ।
पुरक ।
सिघ्रक ।
सारिक ।
कोटरादिः ।
किंशुलुक ।
शाल्वक ।
अञ्जन ।
भञ्जन ।
लोहित ।
कुक्कुठ् ।
किंशुलुकादिः । ।


____________________________________________________________________


  1. <वले># । । PS_६,३.११८ । ।



_____Sठाऱ्ठ्JKव्_६,३.११८ः

वले परतः पूर्वस्य दीर्घः भवति ।
आसुतीवलः ।
कृषीवलः ।
दन्तावलः ।
रजःकृष्यासुतिपर्षदो वलच्(*५,२.११२) इति वलच्प्रत्ययो गृह्यते, न प्रातिपदिकं ।
अनुत्साहभ्रातृपित्éणां इत्येव ।
उत्साहवलः ।
भ्रातृवलः ।
पितृवलः । ।


____________________________________________________________________


[#७२७]

  1. <मतौ बह्वचोऽनजिरादीनाम्># । । PS_६,३.११९ । ।



_____Sठाऱ्ठ्JKव्_६,३.११९ः
मतौ परतो बह्वचोऽजिरादिवर्जितस्य दीर्घो भवति सञ्ज्ञायां विषये ।
उदुम्बरावती ।
मशकावती ।
वीरणावती ।
पुष्करावती ।
अमरावती ।
नद्यां मतुप्(*४,२.८५) इति मतुप्प्रत्ययः ।
सञ्ज्ञायां (*८,२.११) इति मतोर्वत्वं ।
बह्वचः इति किं ? व्रीहिमती ।
अनजिरादीनां इति किं ? अजिरवती ।
खदिरवती ।
पुलिनवती ।
हंसकारण्डववती ।
चक्रवाकवती ।
सञ्ज्ञायां इत्येव, वलयवती । ।


____________________________________________________________________


  1. <शरादीनां च># । । PS_६,३.१२० । ।



_____Sठाऱ्ठ्JKव्_६,३.१२०ः

शरादीनां च मतौ दीर्घो भवति सञ्ज्ञायां विषये ।
शरावती ।
वंशावती ।
शर ।
वंश ।
धूम ।
अहि ।
कपि ।
मणि ।
मुनि ।
शुचि ।
हनु ।
शरादिः ।
सञ्ज्ञायां (*८,२.११) इति मतोर्वत्वं ।
यवादित्वात्व्रीह्यादिभ्यो न भवति । ।


____________________________________________________________________


  1. <इको वहेऽपीलोः># । । PS_६,३.१२१ । ।



_____Sठाऱ्ठ्JKव्_६,३.१२१ः

इगन्तस्य पूर्वपदस्य पीलुवर्जितस्य वहे उत्तरपदे दीर्घो भवति ।
ऋषीवहं ।
कपीवहं ।
मुनीवहं ।
इकः इति किं ? पिण्डवहं ।
अपीलोः इति किं ? पीलुवहं ।
अपील्वादीनां इति वक्तव्यं ।
इह मा भूत्, चारुवहं । ।


____________________________________________________________________


  1. <उपसर्गस्य घञ्यमनुष्ये बहुलम्># । । PS_६,३.१२२ । ।



_____Sठाऱ्ठ्JKव्_६,३.१२२ः

उपसर्गस्य घञन्ते उत्तरपदे अमनुष्येऽभिधेये बहुलं दीर्घो भवति ।
वीक्लेदः ।
वीमार्गः ।
अपामार्गः ।
न च भवति ।
प्रसेवः ।
प्रसारः ।
सादकारयोः कृत्रिमे दीर्घो भवति ।
प्रासादः ।
प्राकारः ।
कृत्रिमे इति किं ? प्रसादः ।
प्रकारः ।
वेशादिषु विभाषा दीर्घो भवति ।
प्रतिवेशः, प्रतीवेशः ।
प्रतिरोधः, प्रतीरोधः ।
अमनुष्ये इति किं ? निषादो मनुष्यः । ।


____________________________________________________________________


  1. <इकः काशे># । । PS_६,३.१२३ । ।



_____Sठाऱ्ठ्JKव्_६,३.१२३ः

इगन्तस्य उपसर्गस्य काशशब्दे उत्तरपदे दीर्घो भवति ।
नीकाशः ।
वीकाशः ।
अनूकाशः ।
पचाद्यच्प्रत्ययान्तोऽयं काशशब्दः, न तु घञन्तः ।
इकः इति किं ? प्रकाशः । ।


____________________________________________________________________


[#७२८]

  1. <दस्ति># । । PS_६,३.१२४ । ।



_____Sठाऱ्ठ्JKव्_६,३.१२४ः

दा इत्येतस्य यः तकारादिरादेशः तस्मिन्परतः इगन्तस्य+उपसर्गस्य दीर्घो भवति ।
नीत्तं ।
वीत्तं ।
परीत्तं ।
अच उपसर्गात्तः (*७,४.४७) इत्यन्तस्य यद्यपि तकारः क्रियते तथापि चर्त्वस्याश्रयात्सिद्धत्वं इति तकारादिर्भवति ।
इकः इत्येव, प्रत्तं ।
अवत्तं ।
दः इति किं ? वितीर्णं ।
नितीर्णं ।
ति इति किं ? सुदत्तं । ।


____________________________________________________________________


  1. <अष्टनः सञ्ज्ञायाम्># । । PS_६,३.१२५ । ।



_____Sठाऱ्ठ्JKव्_६,३.१२५ः

अष्टनित्येतस्य उत्तरपदे सञ्ज्ञायां दीर्घो भवति ।
अष्टावक्रः ।
अष्टाबन्धुरः ।
अष्टापदं ।
सञ्ज्ञायां इति किं ? अष्टपुत्रः ।
अष्टभार्यः । ।


____________________________________________________________________


  1. <छन्दसि च># । । PS_६,३.१२६ । ।



_____Sठाऱ्ठ्JKव्_६,३.१२६ः

छन्दसि विषयेऽष्टनः उत्तरपदे दीर्घो भवति ।
आग्नेयमष्टाकपालं निर्वपेत्चरुं ।
अष्टाहिरण्या दक्षिणा ।
अष्टापदी देवता सुमती ।
अष्टौ पादौ अस्याः इति बहुव्रीहौ पादस्य लोपे कृते पादोऽन्यतरस्यां (*४,१.८) इति ङीप् ।
गवि च युक्ते भाषायामाष्टनो दीर्घो भवति इति वक्तव्यं ।
अष्टागवं शकटं । ।


____________________________________________________________________


  1. <चितेः कपि># । । PS_६,३.१२७ । ।



_____Sठाऱ्ठ्JKव्_६,३.१२७ः

चितिशब्दस्य कपि परतः दीर्घो भवति ।
एकचितीकः ।
द्विचितीकः ।
त्रिचितीकः । ।


____________________________________________________________________


  1. <विश्वस्य वसु-राटोः># । । PS_६,३.१२८ । ।



_____Sठाऱ्ठ्JKव्_६,३.१२८ः

विश्वशब्दस्य वसु राटित्येतयोः उत्तरपदयोः दिर्घ आदेशो भवति ।
विश्वावसुः ।
विश्वाराठ् ।
राटिति विकारनिर्देशो यत्र अस्य एतद्रूपं तत्र+एव यथा स्याथ् ।
इह न भवति, विश्वराजौ ।
विश्वराजः । ।


____________________________________________________________________


  1. <नरे सञ्ज्ञायाम्># । । PS_६,३.१२९ । ।



_____Sठाऱ्ठ्JKव्_६,३.१२९ः

नरशब्द उत्तरपदे सञ्ज्ञायां विषये विश्वस्य दीर्घो भवति ।
विश्वानरो नाम यस्य वैश्वानरिः पुत्रः ।
सञ्ज्ञायां इति किं ? विश्वे नरा यस्य स विश्वनरः । ।


____________________________________________________________________


[#७२९]

  1. <मित्रे चर्षौ># । । PS_६,३.१३० । ।



_____Sठाऱ्ठ्JKव्_६,३.१३०ः

मित्रे च+उत्तरपदे ऋषावभिधेये विश्वस्य दीर्घो भवति ।
विश्वामित्रो नाम ऋषिः ।
ऋषौ इति किं ? विश्वमित्रो माणवकः । ।


____________________________________________________________________


  1. <मन्त्रे सोम-अश्व-इन्द्रिय-विश्वदेव्यस्य मतौ># । । PS_६,३.१३१ । ।



_____Sठाऱ्ठ्JKव्_६,३.१३१ः

मन्रविषये सोम अश्व इन्द्रिय विश्वदेव्य इत्येतेषां मतुप्प्रत्यये परतः दीर्थो भवति ।
सोमावती ।
अश्ववती ।
इन्द्रियावती ।
विश्वदेव्यावती । ।

____________________________________________________________________


  1. <ओषधेश्च विभक्तावप्रथमायाम्># । । PS_६,३.१३२ । ।



_____Sठाऱ्ठ्JKव्_६,३.१३२ः

मन्त्रे इति वर्तते ।
ओषधिशब्दस्य विभक्तावप्रथमायां परतः दीर्घो भवति ।
ओषधीभिरपीतथ् ।
नमः पृथिव्यै नम ओषधीभ्यः ।
विभक्तौ इति किं ? ओषधिपते ।
अप्रथमायां इति किं ? स्थिरेयमस्त्वोषधिः । ।


____________________________________________________________________


  1. <ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्># । । PS_६,३.१३३ । ।



_____Sठाऱ्ठ्JKव्_६,३.१३३ः

ऋचि विषये तु नु घ मक्षु तङ्कु त्र उरुष्य इत्येषां दीर्घो भवति ।
आ तू न इन्द्र वृत्रहन् ।
नु - नू करणे ।
घ - उत वा घा स्यालाथ् ।
मक्षु - मक्षू गोमन्तमीमहे ।
तङ्- भरता जातवेदसं ।
तङिति थादेशस्य ङीत्वपक्षे ग्रहणं, तेन+इह न भवति, शृणोत ग्रावाणः ।
कु - कूमनः ।
त्र - अत्रा गौः ।
उरुष्य - उरुष्या णो । ।


____________________________________________________________________

  1. <इकः सुञि># । । PS_६,३.१३४ । ।



_____Sठाऱ्ठ्JKव्_६,३.१३४ः

सुञ्निपातो गृह्यते ।
इगन्तरय सुञि परतो मन्त्रविषये दीर्घो भवति ।
अभी षु णः सखीनां ।
ऊर्ध्व ऊ षु ण ऊतये ।
सुञः (*८,३.१०७) इति षत्वम्, नश्च धातुस्थोरुषुभ्यः (*८,४.२७) इति णत्वं । ।


____________________________________________________________________


  1. <द्व्यचोऽतस्तिङः># । । PS_६,३.१३५ । ।



_____Sठाऱ्ठ्JKव्_६,३.१३५ः

ऋचि इति वर्तते ।
द्व्यचस्तिङन्तस्य अतः ऋग्विषये दीर्घो भवति ।
विद्मा हि त्वा गोपतिं शूर गोनां ।
विद्मा शरस्य पितरं ।
द्व्यचः इति किं ? अश्वा भवत वाजिनः ।
अतः इति किं ? आ देवान्वक्षि यक्षि च । ।


____________________________________________________________________


[#७३०]

  1. <निपातस्य च># । । PS_६,३.१३६ । ।



_____Sठाऱ्ठ्JKव्_६,३.१३६ः
ऋचि इत्येव ।
निपातस्य च ऋग्विषये दीर्गः आदेशो भवति ।
एवा ते ।
अच्छा । ।


____________________________________________________________________


  1. <अन्येषां अपि दृश्यते># । । PS_६,३.१३७ । ।



_____Sठाऱ्ठ्JKव्_६,३.१३७ः

अन्येषां अपि दीर्घो दृश्यते, स शिष्टप्रयोगादनुगन्तव्यः ।
यस्य दीर्घत्वं विहितं, दृश्यते च प्रयोगे, तदनेन कर्तव्यं ।
केशाकेशि ।
कचाकचि ।
जलाषाठ् ।
नारकः पूरुषः ।
शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु ।
श्वादन्तः ।
श्वादंष्ट्रः ।
श्वाकर्णः ।
श्वाकुन्दः ।
श्वावराहः ।
श्वापुच्छः ।
श्वापदः । ।


____________________________________________________________________


  1. <चौ># । । PS_६,३.१३८ । ।



_____Sठाऱ्ठ्JKव्_६,३.१३८ः

चौ परतः पूर्वपदस्य दीर्घो भवति ।
चौ इति अञ्चतिर्लुप्तनकाराकारो गृह्यते ।
दधीचः पश्य ।
दधीचा ।
दधीचे ।
मधूचः पश्य ।
मधूचा ।
मधूचे ।
अन्तरङ्गोऽपि यणादेशो दीर्घविधानसामर्थ्यान्न प्रवर्तते । ।


____________________________________________________________________


  1. <सम्प्रसारणस्य># । । PS_६,३.१३९ । ।



_____Sठाऱ्ठ्JKव्_६,३.१३९ः

उत्तरप्दे इति वर्तते ।
सम्प्रसारणान्तस्य पूर्वपदस्य+उत्तरपदे दीर्घो भवति ।
कारीषगन्धीपुत्रः ।
कारीषगन्धीपतिः ।
क्ॐउदगन्धीपुत्रः ।
क्ॐउदीगन्धीपतिः ।
करीषस्य इव गन्धोऽस्य, कुमुदस्य इव गन्धोऽस्य, अल्पाख्यायां (*५,४.१३६), उपमानाच्च (*५,४.१३७) इति इकारः समासान्तः ।
करीषगन्धेरपत्यं कारीषगन्ध्या ।
कुमुदगन्धेरपत्यं क्ॐउदगन्ध्या, तस्याः पुत्रः क्ॐउदगन्धीपुत्रः ।
क्ॐउदगधीपतिः ।
इको ह्रस्वोऽङ्यो गालवस्य (*६,३.६१) इत्येतन्न भवति ।
व्यवस्थितविभाषा हि सा ।
अकृत एव दीर्घत्वे ह्रस्वभावपक्षे कृतार्थेन अपि दीर्घेण पक्षान्तरे परत्वाद्ह्रस्वो बाध्यते ।
पुनः प्रसङ्गविज्ञानं च न भवति, सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितं एव इति । ।
इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य तृतीयः पादः । ।


______________________________________________________

[#७३१]

षष्ठाध्यायस्य चतुर्थः पादः ।


____________________________________________________________________


  1. <अङ्गस्य># । । PS_६,४.१ । ।



_____Sठाऱ्ठ्JKव्_६,४.१ः

अधिकारोऽयं आसप्तमाध्यायपरिसमाप्तेः ।
यदित ऊर्ध्वं अनुक्रमिष्यामः अङ्गस्य इत्येवं तद्वेदितव्यं ।
वक्ष्यति - हलः (*६,४.२) - हूतः ।
जीनः ।
संवीतः ।
अङ्गस्य इति किं ? निरुतं ।
दुरुतं ।
नामि दीर्घः (*६,४.६) - अग्नीनां ।
वायूनां ।
अङ्गस्य इति किं ? क्रिमिणां पश्य ।
पामनां पश्य ।
अतो भिस ऐस्(*७,१.९) - वृक्षैः ।
प्लक्षैः ।
अङ्गस्य इति किं ? ब्राह्मणभिस्सा ।
ओदनभिस्सिटा ।
अङ्गाधिकारः कृतोऽन्यार्थो नामि दीर्घत्वाद्यपि व्यवस्थापयति इति तदर्थं अर्थवद्ग्रहणपरिभाषा नाश्रयितव्या भवति ।
अङ्गस्य इति सम्बन्धसामान्ये एषा षष्ठी यथायोगं विशेषेषु अवतिष्ठते ।
अथ वा प्रातिपदिकार्थमात्रं अविवक्षितविभक्त्यर्थं अधिक्रियते ।
ततुत्तरत्र यथायोगं विपरिणम्यते ।
ततोऽकारान्तादङ्गात्भिस ऐसित्येवं आद्यपि सम्यक्सम्पन्नं भवति । ।


____________________________________________________________________


  1. <हलः># । । PS_६,४.२ । ।



_____Sठाऱ्ठ्JKव्_६,४.२ः

अङ्गावयवाद्धलो यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति ।
हूतः ।
जीनः ।
संवीतः ।
हलः इति किं ? उतः ।
उतवान् ।
अङ्गावयवातिति किं ? निरुतं ।
तदन्तस्य इति किं ? विद्धः ।
विचितः ।
अणः इत्येव, तृतीयः ।
तृतीया इति वा निपातनादत्र दीर्घाभावः ।
अङ्गग्रहणं आवर्तयितव्यं हल्विशेषणार्थम्, अङ्गकार्यप्रतिपत्त्यर्थं च । ।


____________________________________________________________________


  1. <नामि># । । PS_६,४.३ । ।



_____Sठाऱ्ठ्JKव्_६,४.३ः

नां इति एतत्षष्ठीबहुवचनं आगतनुट्कं गृह्यते ।
तस्मिन्परतोऽङ्गस्य दीर्घो भवति ।
अग्नीनां ।
वायुनां ।
कर्त्éणां ।
हर्त्éणां ।
अणः इत्येतदत्र निवृत्तं ।
आगतनुट्कग्रहणं उत्तरार्थम्, कृते च नुटि दीर्घप्रतिपत्त्यर्थं ।
अन्यथा हि नुडेव न स्याथ् ।
नामि दीर्घ आमि चेत्स्यात्कृते दीर्घे न नुट्भवेथ् ।
वचनाद्यत्र तन्नास्ति नोपधायाश्च चर्मणां । ।

____________________________________________________________________


[#७३२]

  1. <न तिसृ-चतसृ># । । PS_६,४.४ । ।



_____Sठाऱ्ठ्JKव्_६,४.४ः

तिसृ चतसृ इत्येतयोः नामि दीर्घो न भवति ।
तिसृणां ।
चतसृणां ।
इदं एव नामि इति दीर्घप्रतिषेधवचनं ज्ञापकं अचि र ऋतः (*७,२.१००) इत्येतस्मात्पूर्वविप्रतिषेधेन नुडागमो भवति इति । ।


____________________________________________________________________


  1. <छन्दस्युभयथा># । । PS_६,४.५ । ।



_____Sठाऱ्ठ्JKव्_६,४.५ः

छन्दसि वषये तिसृ-चतस्रोः नामि परतः उभयथा दृश्यते, दीर्घश्चादीर्घश्च ।
तिसृणां मध्यदिने, तिसृणां मध्यदिने ।
चतसृणां मध्यदिने, चतस्éणां मध्यदिने । ।


____________________________________________________________________


  1. <नृ च># । । PS_६,४.६ । ।



_____Sठाऱ्ठ्JKव्_६,४.६ः

नृ इत्येतस्य नामि परे उभयथा भवति ।
त्वं न्éणां नृपते, त्वं नृणां नृपते केचिदत्र छन्दसि इति न अनुवर्तयन्ति, तेन भाषायां अपि विकल्पो भवति । ।


____________________________________________________________________


  1. <न-उपधायाः># । । PS_६,४.७ । ।



_____Sठाऱ्ठ्JKव्_६,४.७ः

नान्तस्य अङ्गस्य उपधायाः नामि परतो दीर्घो भवति ।
पञ्चानां ।
सप्तानां ।
नवानां ।
दशानां ।
नः इति किं ? चतुर्णां ।
नामि इत्येव, चर्माणां । ।


____________________________________________________________________


  1. <सर्वनामस्थाने च असम्बुद्धौ># । । PS_६,४.८ । ।



_____Sठाऱ्ठ्JKव्_६,४.८ः

सर्वनामस्थाने च परतोऽसम्बुद्धौ नोपधायाः दीर्घो भवति ।
राजा, राजानौ, राजानः ।
राजानम्, राजानौ ।
सामानि तिष्ठन्ति ।
सामानि पश्य ।
सर्वनामस्थाने इति किं ? राजनि ।
सामनि ।
असम्बुद्धौ इति किं ? हे राजन् ।
हे तक्षन् । ।

____________________________________________________________________


  1. <वा षपूर्वस्य निगमे># । । PS_६,४.९ । ।



_____Sठाऱ्ठ्JKव्_६,४.९ः

षपूर्वस्य अचः नोपधायाः निगमविषये सर्वनामस्थाने परतः असम्बुद्धौ वा दीर्घो भवति ।
स तक्षाणं तिष्ठन्तमब्रवीथ् ।
स तक्षणं तिष्ठन्तमब्रवीथ् ।
ऋभुक्षाणमिन्द्रं ।
ऋभुक्षणमिन्द्रं ।
निगमे इति किं ? तक्षा, तक्षाणौ, तक्षाणः । ।


____________________________________________________________________


[#७३३]

  1. <सान्तमहतः संयोगस्य># । । PS_६,४.१० । ।



_____Sठाऱ्ठ्JKव्_६,४.१०ः

सकारान्तस्य संयोगस्य यो नकारः महतश्च तस्य+उपधायाः दीर्घो भवति सर्वनामस्थाने परतः असम्बुद्धौ ।
श्रेयान्, श्रेयांसौ, श्रेयांसः ।
श्रेयांसि ।
पयांसि ।
यशांसि ।
महतः स्वल्वपि - महान्, महान्तौ, महान्तः ।
असम्बुद्धौ इति किं ? हे श्रेयन् ।
हे महन् । ।


____________________________________________________________________

  1. <अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्त्éणाम्># । । PS_६,४.११ । ।



_____Sठाऱ्ठ्JKव्_६,४.११ः

अपित्येतस्य, तृनन्तस्य, तृजन्तस्य, स्वसृ नप्तृ नेष्टृ त्वष्तृ क्षत्तृ होतृ पोतृ पशास्तृ इत्येतेषां चाङ्गानां उपधाया दीर्घो भवति सर्वनामस्थाने परतोऽसम्बुद्धौ ।
अप्- आपः ।
बह्वाम्पि तडागानि इति केचिदिच्छन्ति, तत्र समासान्तो विधिरनित्यः इति समासान्तो न क्रियते ।
नित्यं अपि च नुममकृत्व दीर्घत्वं इष्यते ।
तृन्- कर्तारौ कटान् ।
वदितारौ जनापवादान् ।
कर्तारः ।
तृच्- कर्तारौ कटस्य ।
कर्तारः ।
हर्तारौ भारस्य ।
हर्तारः ।
स्वसृ - स्वसा, स्वसारौ, स्वसारः ।
नप्तृ - नप्ता, नप्तारौ, नप्तारः ।
नेष्टृ - नेष्टा, नेष्टारौ, नेष्टारः ।
त्वष्टृ - त्वष्टा, त्वष्टारौ, त्वष्टारः ।
क्षत्तृ - क्षत्ता, क्षत्तारौ, क्षत्तारः ।
होतृ - होता, होतारौ, होतारः ।
पोतृ - पोता, पोतारौ, पोतारः ।
प्रशास्तृ - प्रशास्ता, प्रशास्तारौ, प्रशास्तारः ।
नप्त्रादिनां ग्रहणमव्युत्पत्तिपक्षे विध्यर्थं ।
व्युत्पत्तिपक्षे नियमार्थम्, एवं भूतानां अन्येषां सञ्ज्ञाशब्दानां दीर्घो मा भूतिति ।
पितरौ, पितरः ।
मातरौ,मातरः ।
असम्बुद्धौ इति किं ? हे कर्तः ।
हे स्वसः । ।


____________________________________________________________________


  1. <इन्-हन्-पूष-अर्यम्णां शौ># । । PS_६,४.१२ । ।


_____Sठाऱ्ठ्JKव्_६,४.१२ः

इन्हन्पूषनर्यमनित्येवं अन्तानां अङ्गानां शौ परत उपधाया दीर्घो भवति ।
बहुदण्डीनि ।
बहुच्छत्रीणि ।
बहुवृत्रहाणि ।
बहुभ्रूणहानि ।
बहुपूषाणि ।
बह्वर्यमाणि ।
सिद्धे सत्यारम्भो नियमार्थः, इन्हन्पूषार्यम्णां उपधायः शावेव दीर्घो भवति न अन्यत्र ।
दण्डिनौ ।
छत्रिणौ ।
वृत्रहणौ ।
पूषणौ ।
अर्यमणौ ।
दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटीति सुविद्वान् ।
शौ नियमं पुनरेव विदध्यात्भ्रूणहनीति तथास्य न दुष्येत् । ।
शास्मि निवर्त्य सुटीत्यविशेषे शौ नियमं कुरु वाप्यसमीक्ष्य ।
दीर्घविधेरुपधानियमान्मे हन्त यि दीर्घविधौ च न दोषः । ।
सुट्यपि वा प्रकृतेऽनवकाशः शौ नियमोऽप्रकृतप्रतिषेधे ।
यस्य हि शौ नियमः सुटि नैतत्तेन न तत्र भवेद्विनियम्यं । ।
हन्तेः अनुनासिकस्य क्विझलोः क्ङिति (*२,४.१५) इति दीर्घत्वं यत्तदपि नियमेन बाध्यते वृत्रहणि, भ्रूणहनि इति ।
कथं ? योगविभागः क्रियते ।
इन्हन्पूषार्यम्णां सर्वनामस्थाने एव दीर्घो भवति, न अन्यत्र इति ।
ततः शौ इति द्वितीयो नियमः ।

[#७३४]

शौ एव सर्वनामस्थाने दीर्घो भवति न अन्यत्र इति ।
सर्वस्य+उपधालक्षणस्य दीर्घस्य नियमेन निवृत्तिः क्रियते ।
यस्तु न उपधालक्षणः स भवत्येव ।
वृत्रहायते ।
भ्रूणहायते ।
अथ व अनुवर्तमानेऽपि सर्वनामस्थानग्रहणे सामर्थ्यादयं अविशेषेण नियमः ।
शिशब्दो हि सर्वनामस्थाअं नपुंसकस्य, न च तस्य अन्यत्सर्वनामस्थानं अस्ति इत्यविशेषेण नियमः ।
तत्र तु नपुंसकस्य इत्येतन्न अश्रीयते ।
तेन अनपुंसकस्य अपि दीर्घो न भवति ।
सर्वनामस्थानसञ्ज्ञाविधाने तु नपुंसकस्य व्यापारोऽस्ति इति तत्र नियमः क्रियमणो नपुंसकस्य स्यात् । ।

____________________________________________________________________


  1. <सौ च># । । PS_६,४.१३ । ।



_____Sठाऱ्ठ्JKव्_६,४.१३ः

सावसम्बुद्धौ परतः इन्हन्पूषर्यम्णां उपधाया दीर्घो भवति ।
दण्डी ।
वृत्रहा ।
पूषा ।
अर्यमा ।
असम्बुद्धौ इति किं ? हे दण्डिन् ।
हे पूषन् ।
हे अर्यमन् । ।

____________________________________________________________________


  1. <अत्व्-असन्तस्य च अधातोः># । । PS_६,४.१४ । ।



_____Sठाऱ्ठ्JKव्_६,४.१४ः

अतु असित्येवं अन्तस्य अधातोरुपधायाः सावसम्बुद्धौ परतः दीर्घो भवति ।
डवतु - भवान् ।
क्तवतु - कृतवान् ।
मतुप्- गोमान् ।
यवमान् ।
अत्र कृते दीर्घे नुमागमः कर्तव्यः ।
यदि हि परत्वान्नित्यत्वाच्च नुं स्यत्, दीर्घस्य निमित्तमतूपधा विहन्येत ।
असन्तस्य - सुपयाः ।
सुयशाः ।
सुश्रोताः ।
अधातोः इति किं ? पिण्डं ग्रसते इति पिण्डग्रः ।
चर्म वस्ते इति चर्मवः ।
अनर्थकोऽप्यस्शब्दो गृह्यते, अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति इति ।
अन्तग्रहणं उपदेशप्रयोगैकदेशस्य अप्यत्वन्तस्य परिग्रहार्थम्, अन्यथा मतुपो ग्रहणं न स्याद्, उपदेशे रूपनिर्ग्रहहेतौ नायमत्वन्तः इति ।
असम्बुद्धौ इत्येव, हे गोमन् ।
सुपयः । ।


____________________________________________________________________


  1. <अनुनासिकस्य क्वि-झलोः क्ङिति># । । PS_६,४.१५ । ।



_____Sठाऱ्ठ्JKव्_६,४.१५ः

अनुनासिकान्तस्य अङ्गस्य उपधायाः दीर्घो भवति क्विप्रत्यये परतो झलादौ च क्ङिति ।
प्रशान् ।
प्रतान् ।
झलादौ किति - शान्तः ।
शान्तवान् ।
शान्त्वा ।
शान्तिः ।
ङिति खल्वपि - शंशान्तः ।
तन्तान्तः ।
यङ्लुगन्तादयं तस् ।
अनुनासिकस्य इति किं ? ओदनपक् ।
पक्वः ।
पक्ववान् ।
क्विझलोः इति किं ? गम्यते ।
रम्यते ।
क्ङिति इति किं ? गन्ता ।
रन्ता । ।


____________________________________________________________________


[#७३५]

  1. <अज्-झन-गमां सनि># । । PS_६,४.१६ । ।



_____Sठाऱ्ठ्JKव्_६,४.१६ः

अजन्तानां अङ्गानं हनिगम्योश्च सनि झलादौ परे दीर्घो भवति ।
अजन्तानां - विवीषति ।
तुष्टूषति ।
चिकीर्षति ।
जिहीर्षति ।
हन्- जिघांसति ।
गं - अधिजिगांसते ।
गमेरिङादेशस्य+इति वक्तव्यं ।
इह मा भूत्सञ्जिगंसते वत्सो मात्र इति ।
स्वर्गं लोकं समजिगांसतिति छन्दसि यदनिङादेशस्य अपि दीर्घत्वं दृश्यते, तदन्येषां अपि दृश्यते (*६,३.१३७) इत्यनेन भवति ।
अथ वा इह अज्ग्रहणं न कर्तव्यं ।
सनि दीर्घो भवति इत्येतावदेव सूत्रं कर्तव्यं ।
तत्राचा गृह्यमाणस्य विशेषणे सति सिद्धं अजन्तस्य दीर्घत्वं ? तत्क्रियते प्रवृत्तिभेदेन गमेरपि विशेषणार्थम्, अजन्तस्य अङ्गस्य दीर्घो भवति, अजादेशस्य गमेः इति ।
ततो न वक्तव्यं इदं गमेरिङादेशस्य इति । ।


____________________________________________________________________


  1. <तनोतेर्विभाषा># । । PS_६,४.१७ । ।



_____Sठाऱ्ठ्JKव्_६,४.१७ः

तनोतेरङ्गस्य सनि झलादौ विभाषा दीर्घो भवति ।
तितांसति, तितंसति ।
झलि इत्येव, तितनिषति ।
सनीवन्तर्ध इत्यत्र तनोतेरुपसङ्ख्यानादिडागमो भवति विकल्पेन । ।


____________________________________________________________________


  1. <क्रमश्च क्त्वि># । । PS_६,४.१८ । ।



_____Sठाऱ्ठ्JKव्_६,४.१८ः

क्रम उपधाया विभाषा दिर्घो भवति क्त्वा प्रत्यये झलादौ परतः ।
क्रन्त्वा, क्रान्त्वा ।
झलि इत्येव, क्रमित्वा ।
प्रक्रम्य, उपक्रम्य इति बहिरङ्गोऽपि ल्यबादेशोऽन्तरङ्गानपि विधीन्बाधते इति पूर्वं एव दीर्घत्वं न प्रवर्तते । ।


____________________________________________________________________


  1. <च्चः-वोः श्-ऊडः-अनुनासिके च># । । PS_६,४.१९ । ।



_____Sठाऱ्ठ्JKव्_६,४.१९ः

छ इत्येतस्य सतुक्कस्य, वकारस्य च स्थाने यथासङ्ख्यं शूटः इत्येतावादेशौ भवतः, अनुनासिकादौ प्रत्ययै परतः क्वौ झलादौ च क्ङिति ।
प्रश्नः ।
विश्नः ।
अन्तरङ्गत्वात्छे च (*६,१.७३) इति तुकि कृते सतुक्कस्य शादेशः ।
वकारस्य ऊटः - स्योनः ।
सिवेरौणादिके न प्रत्यये लघूपधगुणात्पूर्वमूटः क्रियते ।
तत्र कृतेऽन्तरङ्गत्वाद्यणादेशो नानाश्रयत्वात्च न वार्णादाङ्गं बलीयः भवति ।
क्वौ छस्य शब्दप्राठ् ।
क्वब्वचि इत्यादिनौणादिकः क्विप्दीर्घश्च ।
गोविठ् ।
वकारस्य - अक्षद्यूः ।
हिरण्यष्ठ्यूः ।

[#७३६]

असिद्धं बहिरङ्गमन्तरङ्गे इति नाजानन्तर्ये इति प्रतिषिध्यते ।
झलादौ छस्य - पृष्टः ।
पृष्टवान् ।
पृष्ट्वा ।
वकारस्य - द्यूतः ।
द्यूतवान् ।
द्यूत्वा ।
क्ङिति इत्येव, द्युभ्यास् ।
द्युभिः ।
केचिदत्र क्ङिति इति न अनुवर्तयन्ति ।
कथं द्युभ्याम्, द्युभिः इति ऊठि कृते ? दिव उत्(*६,१.१३१) इति तपरत्वान्मात्राकालो भविष्यति ।
छशां षः इत्यत्र छग्रहणं न कर्तव्यं ।
अनेन+एव हि सर्वत्र शकारो विधीयते ।
ऊठष्ठित्करणं एत्यधत्यूठ्सु (*६,१.१८९) इति विशेषणार्थं ।
वाह ऊटः (*६,४.१३९) इत्ययं अपि ठिदेव । ।


____________________________________________________________________


  1. <ज्वर-त्वर-स्रिव्य्-अवि-मवां उपधायाश्च># । । PS_६,४.२० । ।



_____Sठाऱ्ठ्JKव्_६,४.२०ः

ज्वर त्वर स्रिवि अव मव इत्येतेषां अङ्गानां वकारस्य उपधायाश्च स्थाने ऊटः इत्ययं आदेशो भवति क्वौ परतोऽनुनासिके झलादौ च क्ङिति ।
जूः, जूरौ, जूरः ।
जूर्तिः ।
त्वर - तूः, तूरौ, तूरः ।
तूर्तिः ।
स्रिविस्रूः, स्रुवौ, स्रुवः ।
स्रूतः ।
स्रूतवान् ।
स्रूतिः ।
अव - ऊः, उवौ, उवः ।
ऊतिः ।
मव - मूः, मुवौ, मुवः ।
मूतः ।
मूतवान् ।
मूतिः ।
ज्वरत्वरोपधा वकारात्परा, स्रिव्यवमवां पूर्वा । ।

____________________________________________________________________


  1. <राल्लोपः># । । PS_६,४.२१ । ।



_____Sठाऱ्ठ्JKव्_६,४.२१ः

रेफादुत्तरयोः छ्वोर्लोपो भवति क्वौ परतो झलादौ क्ङिति च परतः ।
मुर्च्छा - मूः, मुरौ, मुरः ।
मूर्तः ।
मूर्तवान् ।
मूर्तिः ।
न ध्या-ख्या-प्é-मूर्छि-मदां (*८,२.५७) इति निष्ठानत्वाभावः ।
हुर्च्छा - हूः, हुरौ, हुरः ।
हूर्णः ।
हूर्णवान् ।
हूर्तिः ।
राल्लोपे सुतुक्कस्य छस्य अभावात्केवलो गृह्यते ।
वकारस्य - तुर्वी - तूः, तुरौ, तुरः ।
तूर्णः ।
तूर्णवान् ।
तूर्तिः ।
धुर्वी - धूः, धुरौ, धुरः ।
धूर्णः ।
धूर्णवान् ।
धूर्तिः । ।


____________________________________________________________________


  1. <असिद्धवत्र-आ भात्># । । PS_६,४.२२ । ।



_____Sठाऱ्ठ्JKव्_६,४.२२ः

असिद्धवतित्ययं अधिकारः ।
यदित ऊर्ध्वं अनुक्रमिष्यामः आ अध्यायपरिसमाप्तेः तदसिद्धवत्भवति इत्येवं वेदितव्यं ।
आ भातिति विषयनिर्देशः ।
आभसंशब्दनाद्यदुच्यते तत्र कर्तव्ये ।
अत्र इत्समानाश्रयत्वप्रतिपत्त्यर्थं ।
तच्चेदत्र यत्र भवति तदा भात्शास्त्रीयं विधीयते तदाश्रयं एव भवति ।
व्याश्रयं तु नासिद्धवद्भवति इत्यर्थः ।
असिद्धवचनं उत्सर्गलक्षणभावार्थम्, आदेशलकषणप्रतिषेधार्थं च ।
एधि, शाधि इत्यत्र एत्वशाभावयोः कृतयोः झल्लक्षणं धित्वं न प्राप्नोति, असिद्धत्वाद्भवति ।
आगहि, जहि इत्यत्र अनुनासिक लोपे जभावे च अतो हेः (*६,४.१०५) इति लुक्प्राप्नोति, असिद्धत्वान्न भवति ।
आ भातिति किं ? अभाजि ।
रागः ।
अत उपधायाः (*७,२.११६) इति वृद्धौ कर्तव्यायां नलोपो नासिद्धो भवति ।
अत्रग्रहणं किं ? पपुषः पश्य ।
चिच्युषः पश्य ।
लुलुवुषः पश्य ।
वसुसंप्रसारणं आल्लोपे यणादेशे उवङादेशे च कर्तव्ये नासिद्धं भवति ।
आल्लोपादीनि वसौ, वसन्तस्य विभक्तौ संप्रसारणं इति समानाश्रयत्वं न अस्ति ।
असिद्धं बहिरङ्गमन्तरङ्गे इति ? एतदप्यत्र न भवति ।

[#७३७]

किं कारणं ? एषा हि परिभाषा आभाच्छास्त्रीया ।
तस्यां प्रवर्तमानायां वसुसंप्रसारणादीनामाभाच्छास्त्रीयाणां एव असिद्धत्वादन्तरङ्गबहिरङ्गयोः युगपत्समुपस्थापनं न अस्ति इति परिभाष न प्रवर्तते ।
वुग्युटावुवङ्यणोः सिद्धौ भवत इति वक्तव्यं ।
वुगुवङादेशे - बभूव, बहूवतुः, बव्हूवुः ।
युट्यणादेशे - उपदिदीये, उपदिदीयाते, उपदेदीयिरे ।
आभातित्ययं अभिविधावाङ् ।
तेन भाधिकारेऽप्यसिद्धवद्भवति । ।


____________________________________________________________________

  1. <श्नान्नलोपः># । । PS_६,४.२३ । ।



_____Sठाऱ्ठ्JKव्_६,४.२३ः

श्नातिति श्नमयमुत्सृष्टमकारो गृह्यते ।
तत उत्तरस्य नकारस्य लोपो भवति ।
अनक्ति ।
भनक्ति ।
हिनस्ति ।
शकारवतो ग्रहणं किं ? यज्ञानां ।
यत्नानां ।
सुपि च (*७,३.१०२) इति परत्वात्कृतेऽपि दीर्घत्वे स्थानिवद्भवात्नलोपः स्यादेव ।
विश्नानाम्, प्रश्नानां इत्यत्र लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य+एव इत्येवं न भवति । ।


____________________________________________________________________


  1. <अनिदितां हल उपधायाः क्ङिति># । । PS_६,४.२४ । ।



_____Sठाऱ्ठ्JKव्_६,४.२४ः

अनिदितां अङ्गानां हलन्तानां उपधायाः नकारस्य लोपो भवति क्ङिति प्रत्यये परतः ।
स्रस्तः ।
ध्वस्तः ।
स्रस्यते ।
ध्वस्यते ।
सनीस्रस्यते ।
दनीध्वस्यते ।
अनिदितां इति किं ? नन्द्यते ।
नानन्द्यते ।
हलः इति किं ? नीयते ।
नेनीयते ।
उपधायाः इति किं ? नह्यते ।
नानह्यते ।
क्ङिति इति किं ? स्रंसिता ।
ध्वंसिता ।
अनिदितां नलोपे लङ्गिकम्प्योरुपतापशरीरविकारयोरुपसङ्ख्यानं कर्तव्यं ।
विलगितः ।
विकपितः ।
उपतापशरीरविकारयोः इति किं ? विलङ्गितः ।
विकम्पितः ।
रञ्जेर्णौ मृगरमण उपसङ्ख्यानं कर्तव्यं ।
रजयति मृगान् ।
जनीज्éष्क्नसुरञ्जोऽमन्ताश्च इति मित्त्वादुपधाह्रस्वत्वं ।
मृगरमण इति किं ? रञ्जयति वस्त्राणि ।
घिनुणि च रञ्जेरुपसङ्ख्यानं कर्तव्यं ।
रागी ।
त्यजरजभज इति निपातनाद्वा सिद्धं ।
रजकरजनरजःसूपसङ्ख्यानं कर्तव्यं ।
रजकः ।
रजनं ।
रजः । ।


____________________________________________________________________


[#७३८]

  1. <दंश-सञ्ज-स्वञ्जां शपि># । । PS_६,४.२५ । ।



_____Sठाऱ्ठ्JKव्_६,४.२५ः

दंश सञ्ज ष्वञ्ज इत्येतेषां अङ्गानां शपि परत उपधाया नकारस्य लोपो भवति ।
दशति ।
सजति ।
परिष्वजते । ।


____________________________________________________________________


  1. <रञ्जेश्च># । । PS_६,४.२६ । ।



_____Sठाऱ्ठ्JKव्_६,४.२६ः

रञ्जेश्च शपि परतः उपधायाः नकारस्य लोपो भवति ।
रजति, रजतः, रजन्ति ।
पृथग्योगकरनं उत्तरार्थं । ।


____________________________________________________________________


  1. <घञि च भावकरनयोः># । । PS_६,४.२७ । ।



_____Sठाऱ्ठ्JKव्_६,४.२७ः

भावकरनवाचिनि घञि परतो रञ्जेः उपधाया नकारस्य लोपो भवति ।
भावे - आश्चर्यो रागः ।
विचित्रो रागः ।
करणे - रज्यते अनेन इति रागः ।
भावकरणयोः इति किं ? रजन्ति तस्मिन्निति रङ्गः । ।


____________________________________________________________________


  1. <स्यदो जवे># । । PS_६,४.२८ । ।



_____Sठाऱ्ठ्JKव्_६,४.२८ः

जवेऽभिधेये स्यदः इति घञि निपात्यते ।
स्यन्देर्नलोपो वृद्ध्यभावश्च ।
इक्प्रकरणात्न धातुलोपः इति प्रतिषेधो न अस्ति ।
गोस्यदः ।
अश्वस्यदः ।
जव इति किं ? तैलस्यन्दः ।
घृतस्यन्दः । ।


____________________________________________________________________

  1. <अवोद-एदः-ओद्म-प्रश्रथ-हिमश्रथाः># । । PS_६,४.२९ । ।



_____Sठाऱ्ठ्JKव्_६,४.२९ः

अवोद एध ओद्म प्रश्रथ हिमश्रथ इत्येते निपात्यन्ते ।
अवोद इति उन्देरवपूर्वस्य घञि नलोपो निपात्यते ।
एध इति इन्धेर्घञि नलोपो गुणश्च निपात्यते ।
न धातुलोप आर्धधातुके (*१,१.४) इति हि प्रतिषेधः स्याथ् ।
ओद्म इति उन्देरौणादिके मन्प्रत्यये नलोपो गुणश्च निपात्यते ।
प्रश्रथ इति प्रपूर्वस्य श्रन्थेर्घञि नलोपो वृद्ध्यभवश्च निपात्यते ।
हिमश्रथ इति हिमपूर्वस्य श्रन्थेः घञ्येव निपातनं । ।


____________________________________________________________________


  1. <न अञ्चेः पूजायाम्># । । PS_६,४.३० । ।



_____Sठाऱ्ठ्JKव्_६,४.३०ः

अञ्चेः पूजायां अर्थे नकारस्य लोपो न भवति ।
अञ्चिता अस्य गुराः ।
अञ्चितं एव शिरो वहति ।
अञ्चेः पूजयां (*७,२.५३) इति इडागमः ।
पूजायां इति किं ? उदक्तमुदकं कूपाथ् ।
उद्धृतं इत्यर्थः ।
यस्य विभाषा (*७,२.१५) इति इट्प्रतिषेधः । ।


____________________________________________________________________


[#७३९]

  1. <क्त्वि स्कन्दि-स्यन्दोः># । । PS_६,४.३१ । ।


_____Sठाऱ्ठ्JKव्_६,४.३१ः

क्त्वाप्रयये परतः स्कन्द स्यन्द इत्येतयोर्नकारलोपो न भवति ।
स्कन्त्वा ।
स्यन्त्वा ।
स्यन्देरूदित्वात्पक्षे इडागमः ।
स्यन्दित्वा ।
तत्र यदा इडागमः तदा न क्त्वा सेट्(*१,२.१८) इति कित्त्वप्रतिषेधादेव नलोपाभावः । ।


____________________________________________________________________


  1. <जान्त-नशां विभाषा># । । PS_६,४.३२ । ।



_____Sठाऱ्ठ्JKव्_६,४.३२ः

जान्तानां अङ्गानां नशेश्च क्त्वाप्रत्यये परतः विभाषा नकारलोपो न भवति ।
रङ्क्त्वा, रक्त्वा ।
भङ्क्त्वा, भक्त्वा ।
नश - नंष्ट्वा, नष्ट्वा ।
इट्पक्षे नशित्वा । ।


____________________________________________________________________


  1. <भञ्जेश्च चिणि># । । PS_६,४.३३ । ।



_____Sठाऱ्ठ्JKव्_६,४.३३ः

भञ्जेश्च चिणि परतो विभाषा नकारलोपो भवति ।
अभाजि, अभञ्जि ।
अप्राप्तोऽयं नलोपः पक्षे विधीयते, ततो न इति न अनुवर्तते । ।

____________________________________________________________________


  1. <शास इदङ्हलोः># । । PS_६,४.३४ । ।



_____Sठाऱ्ठ्JKव्_६,४.३४ः

शास उपधाया इकारादेशो भवति अङि परतो हलादौ च क्ङिति ।
अन्वशिषत्, अन्वशिषताम्, अन्वशिषन् ।
हलादौ किति-शिष्टः ।
शिष्टवान् ।
ङिति - आवां शिष्वः ।
वयं शिष्मः ।
इत्त्वे कृते शासिवसिघसीनां च (*८,३.६०) इति षत्वं ।
अङ्हलोः इति किं ? शासति ।
शशासतुः ।
शशासुः ।
क्वौ च शास इत्त्वं भवति इति वक्तव्यं ।
आर्यान्शास्ति इति आर्यशीः ।
मित्रशीः ।
यस्मात्शासेः अङ्विहितः शासु अनुशिष्टौ इति, तस्य+एव+इदं ग्रहणं इष्यते ।
आङः शासु इच्छायां इति अस्य न भवति ।
आशास्ते ।
आशास्यमानः ।
क्विप्प्रत्यये तु तस्य अपि भवति इति वक्तव्यं ।
आशीः, आशिषौ, आशिषः ।
क्षियाशीःप्रैषेषु तिङाकाङ्क्षं (*८,२.१०४) इति निपातनाद्वा सिद्धं । ।


____________________________________________________________________


[#७४०]

  1. <शा हौ># । । PS_६,४.३५ । ।



_____Sठाऱ्ठ्JKव्_६,४.३५ः

शासो हौ परतः शा इत्ययं आदेशो भवति ।
अनुशाधि ।
प्रशाधि ।
उपधायाः इति निवृत्तम्, ततः शासः इति स्थानेयोगा षष्ठी भवति ।
क्ङति एतदपि निवृत्तं ।
तेन यदा वा छन्दसि (*३,४.८८) इति पित्त्वं हिशब्दस्य तदा अप्यादेशो भवत्येव ।
शाधि इत्याद्युदात्तं अपि छन्दसि दृश्यते । ।

____________________________________________________________________


  1. <हन्तेर्जः># । । PS_६,४.३६ । ।



_____Sठाऱ्ठ्JKव्_६,४.३६ः

हन्तेर्धातोः जः इत्ययं आदेशो भवति हौ परत ।
जहि शत्रून् । ।


____________________________________________________________________


  1. <अनुदात्त-उपदेश-वनति-तनोत्य्-आदीनां अनुनासिकलोपो झलि क्ङिति># । । PS_६,४.३७ । ।



_____Sठाऱ्ठ्JKव्_६,४.३७ः

अनुदात्तोपदेशानां अङ्गानां वनतेः तनोत्यादीनां च अनुनासिकलोपो भवति झलादौ क्ङिति प्रत्यये परतः ।
यमु - यत्वा ।
यतः ।
यतवान् ।
यतिः ।
रमु - रत्वा ।
रतः ।
रतवान् ।
रतिः ।
अनुदात्तोपदेशा अनुनासिकान्ता यमिरमिनमिगमिहनिमन्यतयः ।
वनति - वतिः ।
क्तिनो रूपं एतथ् ।
क्तिचि तु न क्तिचि दीर्घश्च (*६,४.३९) इति भवति ।
अन्यत्र झलादाविटा भवितव्यं ।
तनोत्यादयः - ततः ।
ततवान् ।
सनोतेरात्वं वक्ष्यति ।
क्षणु - क्षतः ।
क्षतवान् ।
ऋणु - ऋतः ।
ऋतवान् ।
तृणु - तृतः ।
तृतवान् ।
घृणु - घृतः ।
घृतवान् ।
वनु - वतः ।
वतवान् ।
मनु - मतः ।
मतवान् ।
ङिति - अतत ।
अतथाः ।
अनुदात्तोपदेशवनतितनोत्यादीनां इति किं ? शान्तः ।
शान्तवान् ।
तान्तः ।
तान्तवान् ।
दान्तः ।
दान्तवान् ।
अनुनासिकस्य इति किं ? पक्वः ।
पक्ववान् ।
झलि इति किं ? गम्यते ।
रम्यते ।
क्ङिति इति किं ? यन्ता ।
यन्तव्यं ।
उपदेशग्रहणं किं ? इह वयथा स्यात्, गतिः ।
इह च मा भूत्, शान्तः, शान्तवानिति । ।

____________________________________________________________________


  1. <वा ल्यपि># । । PS_६,४.३८ । ।



_____Sठाऱ्ठ्JKव्_६,४.३८ः

ल्यपि परतः अनुदात्तोपदेशवनतितनोत्यादीनां अनुनासिकलोपः वा भवति ।
व्यवस्थितविभाषा च+इयम्, तेन मकारान्तानां विकल्पो भवति, अन्यत्र नित्यं एव लोपः ।
प्रयत्य, प्रयम्य ।
प्ररत्य, प्ररम्य ।
प्रणत्य, प्रणम्य ।
आगत्य, आगम्य ।
आहत्य ।
प्रमत्य ।
प्रवत्य ।
प्रक्षत्य । ।


____________________________________________________________________


  1. <न क्तिचि दीर्घश्च># । । PS_६,४.३९ । ।



_____Sठाऱ्ठ्JKव्_६,४.३९ः

क्तिचि परतोऽनुदात्तोपदेशादीनां अनुनासिकलोपः दीर्घश्च न भवति ।
यन्तिः ।
वन्तिः ।
तन्तिः ।
अनुनासिकलोपे प्रतिषिद्धे अनुनासिकस्य क्विझलोः क्ङिति (*६,४.१५) इति दीर्घः प्राप्नोति, सोऽपि प्रतिषिध्यते । ।


____________________________________________________________________

[#७४१]

  1. <गमः क्वौ># । । PS_६,४.४० । ।



_____Sठाऱ्ठ्JKव्_६,४.४०ः

गमः क्वौ परतः अनुनासिकलोपो भवति ।
अङ्गगथ् ।
कलिङ्गगथ् ।
अध्वगतो हरयः ।
गमादीनां इति वक्तव्यं ।
इह अपि यथा स्यात्, संयथ् ।
परीतथ् ।
ऊ च गमादीनां इति वक्तव्यं ।
अग्रेगूः ।
अग्रेभ्रूः । ।


____________________________________________________________________


  1. <विड्-वनोरनुनासिकस्य आत्># । । PS_६,४.४१ । ।



_____Sठाऱ्ठ्JKव्_६,४.४१ः

विटि वनि च प्रत्यये परतः अनुनासिकान्तस्य अङ्गस्य आकार आदेशो भवति ।
अब्जा गोजा ऋतजा अद्रिजा ।
गोषा इन्दो नृषा असि ।
कूपखाः ।
शतखाः ।
सहस्रखाः ।
दधिक्राः ।
अग्रेगा उन्नेत्éणां ।
जन-सन-खन-क्रम-गमो विट्(*३,२.६७) इति विट्प्रत्ययः ।
सनोतेरनः (*८,३.१०८) इति षत्वं गोषा इन्दो नृषा असि इत्यत्र ।
वन - विजावा ।
अग्रेजावा ।
अन्येभ्योऽपि दृश्यन्ते (*४,३.७५) इति वनिप्प्रत्ययः ।
अनुनासिकस्य इति वर्तमाने पुनरनुनासिकग्रहणं अनुनासिकामात्रपरिग्रहार्थम्, अन्यथा हि अनुदात्तोपदेशवनतितनोत्यादीनां एव स्यात् । ।


____________________________________________________________________


  1. <जन-सन-खनां सञ्-झलोः># । । PS_६,४.४२ । ।



_____Sठाऱ्ठ्JKव्_६,४.४२ः

झलि क्ङिति इति च अनुवर्तते ।
जन सन खन इत्येतेषां अङ्गानां सनि झलादौ क्ङिति झलादौ प्रत्यये परतः आकार आदेशो भवति ।
जन्- जातः ।
जातवान् ।
जातिः ।
सन्- सनि सिषासति ।
सातः ।
सातवान् ।
सातिः ।
खन्- खातः ।
खातवान् ।
खातिः ।
झल्ग्रहणं सन्विशेषणार्थं किमर्थं अनुवर्त्यते ? इह मा भूत्, जिजनिषति ।
सिसनिषति ।
चिखनिषति ।
सनोतेः सनीवन्तर्ध इति पक्षे इडागमः ।
तदिह सनोत्यर्थं एव सङ्ग्रहणं ।
अत्र झलादौ क्ङिति सनोतेर्विप्रतिषेधादात्वं अनुनासिकलोपं बाधते ।
घुमस्थागापाजहातिसां हलि (*६,४.६६) इति हल्ग्रहणं ज्ञापकं अस्मिन्नसिद्धप्रकरणे विप्रतिषेधो भवति इति । ।


____________________________________________________________________


[#७४२]

  1. <ये विभाषा># । । PS_६,४.४३ । ।



_____Sठाऱ्ठ्JKव्_६,४.४३ः

यकारादौ क्ङिति प्रत्यये परतो जनसनखनां आकार आदेशो भवति विभाषा ।
जायते, जन्यते ।
जाजायते, जञ्जन्यते ।
सायते, सन्यते ।
सासायते, संसन्यते ।
खायते, खन्यते ।
चाखायते, चङ्खन्यते ।
जनेः श्यनि ज्ञा-जनोर्जा (*७,३.७९) इति नित्यं जादेशो भवति । ।


____________________________________________________________________


  1. <तनोतेर्यकि># । । PS_६,४.४४ । ।



_____Sठाऱ्ठ्JKव्_६,४.४४ः

तनोतेः यकि परतो विभाषा आकार आदेशो भवति ।
तायते, तन्यते ।
यकि इति किं ? तन्तन्यते । ।


____________________________________________________________________


  1. <सनः क्तिचि लोपश्च अस्य अन्यतरस्याम्># । । PS_६,४.४५ । ।



_____Sठाऱ्ठ्JKव्_६,४.४५ः

सनोतेरङ्गस्य क्तिचि प्रत्यये परत आकार आदेशो भवति, लोपश्च अस्य अन्यतरस्यां ।
सातिः, सन्तिः, सतिः ।
अन्यतरस्यांग्रहणं विस्पष्टार्थम्, येसम्बद्धं हि विभाषाग्रहणं इति निवृत्तं इत्याशङ्क्येत । ।


____________________________________________________________________


  1. <आर्धधातुके># । । PS_६,४.४६ । ।



_____Sठाऱ्ठ्JKव्_६,४.४६ः

आर्धधातुके इत्यधिकारः ।
न ल्यपि (*६,४.६९) इति प्रागेतस्माद्यदित ऊर्ध्वं अनुक्रमिष्यामः आर्धह्दातुके इत्येवं तद्वेदितव्यं ।
वक्ष्यति - अतो लोपः (*६,४.४८) ।
चिकिर्षता ।
जिहीर्षिता ।
आर्धधातुके इति किं ? भवति ।
भवतः ।
अदिप्रभृतिभ्यः शपो लुग्वचनं (*२,४.७२) प्रत्ययलोपलक्षणप्रतिषेधार्थं स्यातित्येतन्न ज्ञापकं शपो लोपाभावस्य ।
यस्य हलः (*६,४.४९) ।
बेभिदिता ।
बेभिदितुं ।
बेभिदितव्यं ।
आर्धधातुके इति किं ? बेभिद्यते ।
णेरनिटि (*६,४.५१) ।
कारणा ।
हारणा ।
आर्धधातुके इति किं ? कारयति ।
हारयति ।
आतो लोप इटि च (*६,४.६४) ।
ययतुः ।
ययुः ।
ववतुः ।
ववुः ।
आर्धधातुके इति किं ? यान्ति ।
वान्ति ।
घुमास्थागापाजहातिसां हलि (*६,४.६६) ।
दीयते ।
धीयते ।
आर्धधातुके इति किं ? अदातां ।
अधातां ।
वाऽन्यस्य संयोगादेः (*६,४.६८) ।
स्नेयात्, स्नायाथ् ।
आर्धधातुके इति किं ? स्नायाथ् ।
आशीर्लिङोऽन्यत्र न भवति ।

[#७४३]

स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्च (*६,४.६२) ।
कारिषीष्ट ।
हारिषीष्ट ।
आर्धधातुके इति किं ? क्रियेत ।
ह्रियेत यगन्तस्य अजन्तत्वाच्चिण्वद्भावे सति वृद्धिः स्यात्, ततश्च युक्प्रसज्येत ।
अतो लोपो यलोपश्च णिलोपश्च प्रयोजनं ।
आल्लोप ईत्वं एत्वं च चिण्वद्भवश्च सीयुटि । ।


____________________________________________________________________


  1. <भ्रस्जो र-उपधयो रं अन्यतरस्याम्># । । PS_६,४.४७ । ।



_____Sठाऱ्ठ्JKव्_६,४.४७ः

भ्रस्जो रेफस्य उपधायाश्च रं अन्यतरस्यां भवति ।
रोपधयोः इति स्थानषष्ठीनिर्देशातुपधा रेफश्च निवर्तेते ।
मित्त्वाच्च अयं अचोऽन्त्यात्परो भवति ।
भ्रष्टा, भर्ष्टा ।
भ्रष्टुम्, भर्ष्टुं ।
भ्रष्टव्यम्, भर्ष्टव्यं ।
भ्रजजनम्, भ्र्जनं ।
भृष्टः, भृष्टवानित्यत्र पूर्वविप्रतिषेधेन सम्प्रसारणं भवति ।
उपदेशे इत्येव, बरीभृज्यते । ।


____________________________________________________________________


  1. <अतो लोपः># । । PS_६,४.४८ । ।



_____Sठाऱ्ठ्JKव्_६,४.४८ः

अकारान्तस्य आर्धधातुके लोपो भवति ।
चिकीर्षिता ।
चिकीर्षितुं ।
चिकीर्षितव्यं ।
धिनुतः ।
कृणुतः ।
अतः इति किं ? चेता ।
स्तोता ।
तपरकरणं किं ? याता ।
वाता ।
आर्धाधातुके इति किं ? वृक्षत्वं ।
वृक्षता ।
वृद्धिदीर्घाभ्यां अतो लोपः पूर्वविप्रतिषेधेन ।
चिकीर्षकः ।
जिहीर्षकः ।
चिकीर्ष्यते ।
जिहीर्ष्यते । ।


____________________________________________________________________


  1. <यस्य हलः># । । PS_६,४.४९ । ।



_____Sठाऱ्ठ्JKव्_६,४.४९ः

हल उत्तरस्य यशब्दस्य आर्धधातुके लोपो भवति ।
बेभिदिता ।
बेभिदितुं ।
बेभिदितव्यं ।
यस्य इति सङ्घातग्रहणं एतथ् ।
तत्र अलोऽन्त्यस्य (*१,१.५२) इत्येतन्न भवति, अतो लोपः (*६,४.४८) इति यकारोऽनेन लुप्यते ।
सङ्घातग्रहणं किं ? ईर्ष्यिता ।
मव्यिता ।
हलः इति किं ? लोलूयिता ।
पोपूयिता । ।


____________________________________________________________________


  1. <क्यस्य विभाषा># । । PS_६,४.५० । ।



_____Sठाऱ्ठ्JKव्_६,४.५०ः

क्यस्य हल उत्तरस्य विभाषा लोपो भवति आर्धधातुके ।
समिध्यिता, समिधिता ।
दृषद्यिता, दृषदिता ।
समिधमात्मनः इच्छति, समिधं इव आत्मानं आचरति इति वा क्यच्क्यङौ यथायोगं कर्तव्यौ । ।


____________________________________________________________________


  1. <णेरनिटि># । । PS_६,४.५१ । ।



_____Sठाऱ्ठ्JKव्_६,४.५१ः

अनिडादावार्धधातुके णेर्लोपो भवति ।
इयङ्यण्गुणवृद्धिदीर्घाणां अपवादः ।
अततक्षथ् ।
अररक्षथ् ।
आशिशथ् ।
आटिटथ् ।
कारणा ।
हारणा ।
कारकः ।
हारकः ।
कार्यते ।
हार्यते ।
ज्ञीप्सति ।
अनिटि इति किं ? कारयिता ।
हारयिता । ।


____________________________________________________________________


[#७४४]

  1. <निष्ठायां सेटि># । । PS_६,४.५२ । ।



_____Sठाऱ्ठ्JKव्_६,४.५२ः

निष्ठायां सेटि परतो णेर्लोपो भवति ।
कारितं ।
हारितं ।
गणितं ।
लक्षितं ।
सेटि इति किं ? संज्ञपितः पशुः ।
सेड्ग्रहणसामर्थ्यादिह पूर्वेण अपि न भवति ।
सनीवन्तर्ध (*७,२.४९) इति ज्ञपेरिटि विकल्पिते यस्य विभाषा (*७,२.१५) इति निष्ठायां प्रतिषेधः ।
अथ पुनः एकाचः इति तत्र अनुवर्तते, तदा नित्यं अत्र भवितव्यं एव इडागमेन इति सेड्ग्रहणं अनर्थकं ? तत्क्रियते कालावधारणार्थम्, इडागमे कृते णिलोपो यथा स्याथ् ।
अकृते हि तत्र णिलोपे सति कारितं इत्यत्र एकाच उपदेशेऽनुदात्तात्(*७,२.१०) इति इटः प्रतिषेधः प्रसज्येत । ।


____________________________________________________________________


  1. <जनिता मन्त्रे># । । PS_६,४.५३ । ।



_____Sठाऱ्ठ्JKव्_६,४.५३ः

जनिता इति मन्त्रविषये इडादौ णिलोपो निपात्यते ।
यो नः पिता जनिता ।
मन्त्रे इति किं ? जनयिता । ।


____________________________________________________________________


  1. <शमिता यज्ञे># । । PS_६,४.५४ । ।



_____Sठाऱ्ठ्JKव्_६,४.५४ः

यज्ञकर्मणि शमिता इति इडादौ तृचि णिलोपो निपात्यते ।
शृतं हविः शमितः ।
तृचि सम्बुद्ध्यन्तं एतथ् ।
यज्ञे इति किं ? शृतं हविः शमयितः । ।


____________________________________________________________________


  1. <अयाम्-अन्त-आल्व्-आय्य-इत्न्व्-इष्णुषु># । । PS_६,४.५५ । ।



_____Sठाऱ्ठ्JKव्_६,४.५५ः

आं अन्त आलु आय्य इत्नु इष्णु इत्येतेषु परतः णेः अयादेशो भवति ।
कारयञ्चकार ।
हारयाज्चकार ।
अन्त - गण्डयन्तः ।
मण्डयन्तः ।
आलु - स्पृहयालुः ।
गृहयालुः ।
आय्य - स्पृहयाय्यः ।
गृहयाय्यः ।
इत्नु - स्तनयित्नुः ।
इष्णु - पोषयिष्णुः ।
पारयिष्णवः ।
न इति वक्तव्ये अयादेशवचनं उत्तरार्थं । ।


____________________________________________________________________


  1. <ल्यपि लघुपूर्वात्># । । PS_६,४.५६ । ।



_____Sठाऱ्ठ्JKव्_६,४.५६ः

ल्यपि परतो लघुपूर्वाद्वर्णादुत्तरस्य णेः अयादेशो भवति ।
प्रणमय्य, प्रतमय्य, प्रदमय्य, प्रशमय्य, सन्दम्य्य गतः ।
प्रबेभिदय्य गतः ।
प्रगणय्य गतः ।
ह्रस्वयलोपाल्लोपानां असिद्धत्वं न भवति असमानाश्रयत्वात्, ह्रस्वादयो हि णौ, ल्यपि णेरयादेशो भवति ।
लघुपूर्वातिति किं ? प्रपात्य गतः । ।


____________________________________________________________________


  1. <विभाषा+आपः># । । PS_६,४.५७ । ।



_____Sठाऱ्ठ्JKव्_६,४.५७ः

आप उत्तरस्य णेर्ल्यपि परतो विभाषा अयादेशो भवति ।
प्रापय्य गतः, प्राप्य गतः ।
इङादेशस्य लाक्षणिकत्वान्न भवति, अध्याप्य गतः । ।


____________________________________________________________________


[#७४५]

  1. <यु-प्लुवोर्दीर्घश्छन्दसि># । । PS_६,४.५८ । ।



_____Sठाऱ्ठ्JKव्_६,४.५८ः

यु प्लु इत्येतयोर्ल्यपि परतः छन्दसि विषये दीर्घो भवति ।
दान्त्यनुपूर्वं वियूय ।
यत्रा यो दक्षिणा परिप्लूय ।
छन्दसि इति किं ? संयुत्य ।
आप्लुत्य । ।


____________________________________________________________________


  1. <क्षियः># । । PS_६,४.५९ । ।



_____Sठाऱ्ठ्JKव्_६,४.५९ः

क्षियश्च दीर्घो भवति ल्यपि परतः ।
प्रक्षीय । ।


____________________________________________________________________


  1. <नष्ठायां अण्यदर्थे># । । PS_६,४.६० । ।



_____Sठाऱ्ठ्JKव्_६,४.६०ः

ण्यतः कृत्यस्य अर्थो भावकर्मणी, ताभ्यां अन्यत्र या निष्ठा तस्यां क्षियो दीर्घो भवति ।
आक्षीणः ।
प्रक्षीणः ।
परिक्षीणः ।
अकर्मकत्वात्क्षियः कर्तरि क्तः ।
प्रक्षीणं इदं देवदत्तस्य इति क्तोऽधिकरणे च ध्रौव्य-गति. प्रत्यवसानार्थेभ्यः (*३,४.७६) इत्यधिकरणे क्तः ।
अण्यदर्थे इति किं ? अक्षितमसि मा मेक्षेष्ठाः ।
क्षितं इति भावे दीर्घाभावात्क्षियो दीर्घात्(*८,२.४६) इति निष्ठानत्वं अपि न भवति । ।


____________________________________________________________________


  1. <वा+आक्रोश-दैन्ययोः># । । PS_६,४.६१ । ।



_____Sठाऱ्ठ्JKव्_६,४.६१ः

आक्रोशे गम्यमाने दैन्ये च क्षियो निष्ठायां अण्यदर्थे वा दीर्घो भवति ।
क्षितायुरेधि, क्षीणायुरेधि ।
दैन्ये - क्षितकः, क्षीणकः ।
क्षितोऽयं तपस्वी, क्षीणोऽयं तपस्वी । ।


____________________________________________________________________


  1. <स्य-सिच्-सीयुट्-तासिषु भाव-कर्मणोरुपदेशेऽज्-झन-ग्रह-दृशां वा चिण्वद्-इट्च># । । PS_६,४.६२ । ।



_____Sठाऱ्ठ्JKव्_६,४.६२ः

स्व सिच्सीयुट्तासि इत्येतेषु भावकर्मविषयेषु परत उपदेशे अजन्तानां अङ्गानां हन्ग्रः दृशित्येतेषां च चिण्वत्कार्यं भवति वा ।
यदा चिण्वत्तदा इडागमो भवति ।
कस्य ? स्यसिच्सीयुट्तासीनां एव इति वेदितव्यं ।
ते हि प्रकृताः ।
अङ्गस्य तु लक्ष्यविरोधात्न क्रियते ।
कानि पुनरस्य योगस्य प्रयोजनानि ? चिण्वद्वृद्धिर्युक्च हन्तेश्च घत्वं दीर्घश्च+उक्तो यो मितां वा चिणीति ।
इट्च असिद्धस्तेन मे लुप्यते णिर्नित्यश्च अयं वल्निमित्तो विघाती । ।


[#७४६]
अजन्तानां तावत्- चायिष्यते, चेष्यते ।
अचायिष्यत, अचेष्यत ।
दायिष्यते, दास्यते ।
अदायिष्यत, अदास्यत ।
शामिष्यते, शमिश्यते, शमयिस्यते ।
अशामिष्यत, अशमिष्यत अशमयिष्यत ।
हन्- घानिष्यते, हनिष्यते ।
अघानिष्यत, अहनिष्यत ।
ग्रः - ग्राहिष्यते, ग्रहीष्यते ।
अग्राहिष्यत, अग्रहीष्यत ।
ग्रहोऽलिटि दीर्घः (*७,२.३७) इति प्रकृतस्य इटो दीर्घत्वं ।
दृश्- दर्शिष्यते, द्रक्ष्यते ।
अदर्शिष्यत, अद्रक्ष्यत ।
सिचि अजन्तानां - अचायिषाताम्, अचेषातां ।
अदायिषाताम्, अदिषातां ।
अशामिषातम्, अशमिषातम्, अशमयिषातां ।
हन्- अघानिषाताम्, अवधिषाताम्, अहसातां ।
ग्रः - अग्राहिषाताम्, अग्रहीषातां ।
दृश्- अदर्शिषाताम्, अदृक्षातां ।
सीयुटि अजन्तानां - चायिषीष्त, चेषीष्ट ।
दायिषीष्ट, दासीष्ट ।
शामिषीष्ट, शमिषीष्ट, शमयिषीष्ट ।
हन्- घानिषीष्ट, वधिषीष्ट ।
ग्रः - ग्राहिषीष्ट, ग्रहीषीष्ट ।
दृश्- दर्शिषीष्ट, दृक्षीष्ट ।
तासावजन्तानां - चायिता, चेता ।
दायिता, दाता ।
शामिता, शमिता, शमयित ।
हन्- घानिता, हन्ता ।
ग्रः - ग्राहिता, ग्रहीता ।
दृश्- दर्शिता, द्रष्टा ।
स्यसिच्सीयुट्तासिषु इति किं ? चेतव्यं ।
दातव्यं ।
भावकर्मणोः इति किं ? चेष्यति ।
दास्यति ।
उपदेशे इति किं ? कारिष्यते इति गुणे कृते रपरत्वे च न प्राप्नोति, उपदेशग्रहणाद्भवति ।
अज्झनग्रहदृशां इति किं ? पठिष्यते ।
अङ्गाधिकारविहितं कार्यं इह अतिदिश्यते, तेन हनिणिङामादेशा न भवन्ति ।
हनिष्यते, घानिष्यते ।
एष्यते, आयिष्यते ।
अध्येष्यते, अध्यायिष्यते ।
हनो वध लिङि (*२,४.४२), लुङि च (*२,४.४३), इणो गा लुङि (*२,४.४५), विभाषा लुङ्लृङोः (*२,४.५०) इत्येते विधयो न भवन्ति । ।


____________________________________________________________________


  1. <दीङो युडचि क्ङिति># । । PS_६,४.६३ । ।



_____Sठाऱ्ठ्JKव्_६,४.६३ः

दीङो युडागमो भवति अजादौ क्ङिति प्रत्यये परतः ।
उपदिदीये, उपदिदीयाते, उपदिदीयिरे ।
दीङः इति पञ्चमीनिर्देशादजादेर्युडागमो भवति ।
विधानसामर्थ्याच्च एरनेक-अचोऽसंयोगपूर्वस्य (*६,४.८२) इति यणादेशे कर्तव्ये तस्य सिद्धत्वं न भवति ।
अचि इति किं ? उपदेदीयते ।
क्ङिति इति किं ? उपदानं । ।


____________________________________________________________________


  1. <आतो लोप इटि च># । । PS_६,४.६४ । ।



_____Sठाऱ्ठ्JKव्_६,४.६४ः

इट्यजादावार्धधातुके क्ङिति च आकारान्तस्य अङ्गस्य लोपो भवति ।
इटि - पपिथ ।
तस्थिथ ।
किति - पपतुः ।
पपुः ।
तस्थतुः ।
तस्थुः ।
गोदः ।
कम्बलदः ।
ङिति - प्रदा ।
प्रधा ।
आर्धधातुके इत्येव, यान्ति ।
वान्ति ।
व्यत्यरे ।
व्यत्यले ।
रातेर्लातेश्च लङि इटि रूपं ।
अचि इत्येव, ग्लायते ।
दासीय । ।


____________________________________________________________________


[#७४७]

  1. <ईद्यति># । । PS_६,४.६५ । ।



_____Sठाऱ्ठ्JKव्_६,४.६५ः

ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः ।
देयं ।
धेयं ।
हेयं ।
स्तेयं । ।


____________________________________________________________________


  1. <घु-मा-स्था-गा-पा-जहाति-सा हलि># । । PS_६,४.६६ । ।



_____Sठाऱ्ठ्JKव्_६,४.६६ः

घुसञ्ज्ञाकानां अङ्गानां, मा स्था गा पा जहाति सा इत्येतेषां हलादौ क्ङिति प्रत्यये परतः ईकारादेशो भवति ।
दीयते ।
धीयते ।
देदीयते ।
देधीयते ।
मीयते ।
मेमीयते ।
स्थीयते ।
तेष्टःईयते ।
गीयते ।
जेगीयते ।
अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत ।
पीयते ।
पेपीयते ।
पातेरिह ग्रहणं न अस्ति, लुग्विकरणत्वाथ् ।
पायते इत्येव तस्य भवति ।
हीयते ।
जेहीयते ।
जहातेरिह निर्देशात्जिहातेर्ग्रहणं न भवति ।
हायते ।
षोऽन्तकर्मणि ।
अवसीयते ।
अवसेसीयते ।
हलि इति किं ? ददतुः ।
ददुः ।
आतो लोपाद्धि परत्वादीत्वं स्याथ् ।
एतदेव हल्ग्रहणं ज्ञापकं अस्मिन्प्रकरणे विप्रतिषेधेन असिद्धत्वं भवति ।
क्ङिति इत्येव, दाता ।
धाता । ।


____________________________________________________________________


  1. <एर्लिङि># । । PS_६,४.६७ । ।



_____Sठाऱ्ठ्JKव्_६,४.६७ः

घुमास्थागापाजहातिसामङ्गानां लिङि परतः एकारादेशो भवति ।
देयाथ् ।
धेया ।
मेयाथ् ।
स्थेयाथ् ।
गेयाथ् ।
पेयाथ् ।
हेयाथ् ।
अवसेयाथ् ।
क्ङिति इत्येव, दासीष्ट ।
धासीष्ट । ।


____________________________________________________________________


  1. <वाऽन्यस्य संयोग-आदेः># । । PS_६,४.६८ । ।



_____Sठाऱ्ठ्JKव्_६,४.६८ः

घ्वादिभ्यः अन्यस्य संयोगादेराकारान्तस्य वा एकारादेशो भवति लिङि परतः ।
ग्लेयात्, ग्लायाथ् ।
म्लेयात्, म्लायाथ् ।
अन्यस्य इति किं ? स्थेयाथ् ।
संयोगादेः इति किं ? यायाथ् ।
क्ङिति इत्येव, ग्लासिष्ट ।
अङ्गस्य इत्येव, निर्वायात् । ।


____________________________________________________________________


  1. <न ल्यपि># । । PS_६,४.६९ । ।



_____Sठाऱ्ठ्JKव्_६,४.६९ः

ल्यपि प्रत्यये परतः घुमास्थागापाजहातिसां यदुक्तं तन्न ।
प्रदाय ।
प्रधाय ।
प्रमाय ।
प्रस्थाय ।
प्रगाय ।
प्रपाय ।
प्रहाय ।
अवसाय । ।


____________________________________________________________________


  1. <मयतेरिद्-अन्यतरस्याम्># । । PS_६,४.७० । ।



_____Sठाऱ्ठ्JKव्_६,४.७०ः

मयतेरिकारादेशो वा भवति ल्यपि परतः ।
अपमित्य, अपमाय । ।


____________________________________________________________________


[#७४८]

  1. <लुङ्-लङ्-लृङ्-क्ष्वड्-उदात्तः># । । PS_६,४.७१ । ।



_____Sठाऱ्ठ्JKव्_६,४.७१ः

लुङ्लङ्लृङित्येतेषु परतोऽङ्गस्य अडागमो भवति, उदात्तश्च स भवति ।
लुङ्- अकार्षीथ् ।
अहार्षीथ् ।
लङ्- अकरोथ् ।
अहरथ् ।
लृङ्- अकरिष्यथ् ।
अहरिष्यत् । ।


____________________________________________________________________


  1. <आडज्-आदीनाम्># । । PS_६,४.७२ । ।



_____Sठाऱ्ठ्JKव्_६,४.७२ः

आडागमो भवति अजादीनां लुङ्-लङ्-लृङ्-क्षु परतः, उदात्तश्च स भवति ।
ऐक्षिष्ट ।
ऐहिष्ट ।
औब्जीथ् ।
ॐभीथ् ।
लङ्- ऐक्षत ।
ऐहत ।
औब्जथ् ।
ॐभथ् ।
लृङ्- ऐक्षिष्यत ।
ऐहिष्यत ।
औब्जिष्यथ् ।
ॐभिष्यथ् ।
इह ऐज्यत, औप्यत, औह्यत इति लङि कृते लावस्थायां अडागमादन्तरङ्गत्वाल्लादेशः क्रियते, तत्र कृते विकरणो नित्यत्वादडागमं बाधते ।
शब्दान्तरप्राप्तेरडागमस्य अनित्यत्वम्, कृते हि विकरणान्तस्य अङ्गस्य तेन भवितव्यम्, अकृते तु धातुमात्रस्य शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति ।
ननु शब्दान्तरादिति विकरणोऽनित्यः ? विकरणे कृते सम्प्रसारणं अडागमान्नित्यत्वादेव भवति, सम्प्रसारणे च कृतेऽजाद्यङ्गं जातं इति आडजादीनां इत्याडागमः । ।


____________________________________________________________________


  1. <छन्दस्यपि दृश्यते># । । PS_६,४.७३ । ।



_____Sठाऱ्ठ्JKव्_६,४.७३ः

छन्दसि विषये आडागमो दृश्यते ।
यत्र हि विहितः ततोऽन्यत्र अपि दृश्यते ।
आङजादीनां (*६,४.७२) इत्युक्तम्, अनजादीनां अपि दृश्यते ।
सुरुचो वेन आवः ।
आनक् ।
आयुनक् ।
आवः इति वृञो लुङि मन्त्रे घसह्वर इति लेर्लुकि कृते च भवति ।
तथा आनकिति नशेः ।
आयुनकिति युजेर्लङि । ।


____________________________________________________________________


  1. <न माङ्योगे># । । PS_६,४.७४ । ।



_____Sठाऱ्ठ्JKव्_६,४.७४ः

माङ्योगे लुङ्लङ्लृङ्क्षु यदुक्तं तन्न भवति ।
मा भवान्कार्षीथ् ।
मा भवान्हार्षीथ् ।
मा स्म करोथ् ।
मा स्म हरथ् ।
मा भवानीहिष्ट ।
मा भवानीक्षिष्ट ।
मा स्म भवानीहत ।
मा स्म भवानीक्षत । ।


____________________________________________________________________


  1. <बहुलं छन्दस्यमाङ्योगेऽपि># । । PS_६,४.७५ । ।



_____Sठाऱ्ठ्JKव्_६,४.७५ः

छन्दसि विषये माङ्योगेऽपि बहुलं अडाटौ भवतः, अमाङ्योगेऽपि न भवतः ।
अमाङ्योगे तावत्- जनिष्ठा उग्रः ।
काममूनयीः ।
काममर्दयीथ् ।
माङ्योगेऽपि भवतः - मा वः क्षेत्रे परबीजान्यवाप्सुः ।
मा अभित्थाः ।
मा आवः । ।


____________________________________________________________________


[#७४९]

  1. <इरयो रे># । । PS_६,४.७६ । ।



_____Sठाऱ्ठ्JKव्_६,४.७६ः

इरे इत्येतस्य छदसि विषये बहुलं रे इत्ययं आदेशो भवति ।
गर्भं प्रथमं दध्र आपः ।
याऽस्य परिदध्रे ।
धाञो रेभावस्य असिद्धत्वादातो लोपो भवति ।
न च भवति ।
परमाया धियोऽग्निकर्माणि चक्रिरे ।
अत्र रेशब्दस्य सेटों धातूनामिटि कृते पुना रेभावः क्रियते, तदर्थं इरयोः इत्ययं द्विवचननिर्देशः । ।


____________________________________________________________________


  1. <अचि श्नु-धातु-भ्रुवां य्-वोरियङ्-उवङौ># । । PS_६,४.७७ । ।



_____Sठाऱ्ठ्JKव्_६,४.७७ः

श्नुप्रत्ययान्तस्य अङ्गस्य धातोः इवर्ण-उवर्णान्तस्य भ्रु इत्येतस्य इयङुवङित्येतावादेशौ भवतोऽजादौ प्रत्यये परतः ।
आप्नुवन्ति ।
राध्नुवन्ति ।
शक्नुवन्ति ।
धातोः - चिक्षियतुः ।
चिक्षियुः ।
लुलुवतुः ।
लुलुवुः ।
नियौ ।
नियः ।
लुवौ ।
लुवः ।
भ्रुवौ ।
भ्रुवः ।
अचि इति किं ? आप्नुयाथ् ।
शक्नुयाथ् ।
साध्नुयाथ् ।
श्नुधातुभ्रुवां इति किं ? लक्ष्म्यौ ।
वध्वै ।
य्वोः इति किं ? चक्रतुः ।
चक्रुः ।
इयङुवङ्भ्यां गुणवृद्धी भवतो विप्रतिषेधेन ।
चयनं ।
चायकः ।
लवनं ।
लावकः ।
इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलं उपसङ्ख्यानं कर्तव्यं ।
तन्वं पुषेम ।
तनुवं पुषेम ।
विष्वं पुषेम ।
विषुवं पुषेम ।
स्वर्गो लोकः ।
सुवर्गो लोकः ।
त्र्यम्बकं यजामहे ।
त्रियम्बकं यजामहे । ।


____________________________________________________________________


  1. <अभ्यासस्य असवर्णे># । । PS_६,४.७८ । ।



_____Sठाऱ्ठ्JKव्_६,४.७८ः

अभ्यासस्य इवर्णोवर्णान्तस्य अवसर्णेऽचि परतः इयङुवङित्येतावादेशौ भवतः ।
इयेष ।
उवोष ।
इयर्ति ।
असवर्णे इति किं ? ईषतुः ।
ईषुः ।
ऊषतुः ।
ऊषुः ।
अचि इत्येव, इयाज ।
उवाप । ।


____________________________________________________________________


  1. <स्त्रियाः># । । PS_६,४.७९ । ।



_____Sठाऱ्ठ्JKव्_६,४.७९ः

स्त्री इत्येतस्य अजादौ प्रत्यये परतः इयङादेशो भवति ।
स्त्री, स्त्रियौ, स्त्रियः ।
स्त्रीणां इत्यत्र परत्वानुडागमः ।
पृथग्योगकरणं उत्तरार्थं । ।

____________________________________________________________________


  1. <वाऽंशसोः># । । PS_६,४.८० । ।



_____Sठाऱ्ठ्JKव्_६,४.८०ः
अमि शसि परतः स्त्रियां वा इयङादेशो भवति ।
स्त्रीं पश्य, स्त्रियं पश्य ।
स्त्रीः पश्य, स्त्रियः पश्य । ।


____________________________________________________________________


[#७५०]

  1. <इणो यण्># । । PS_६,४.८१ । ।



_____Sठाऱ्ठ्JKव्_६,४.८१ः

इणोऽङ्गस्य यणादेशो भवति अचि परतः ।
यन्ति ।
यन्तु ।
आयन् ।
इयङादेशापवदोऽयं ।
मध्येऽपवदाः पूर्वान्विधीन्बाधन्ते इति गुणवृद्धिभ्यां परत्वादयं बाध्यते ।
अयनं ।
आयकः । ।


____________________________________________________________________


  1. <एरनेकाचोऽसम्योगपूर्वस्य># । । PS_६,४.८२ । ।



_____Sठाऱ्ठ्JKव्_६,४.८२ः

धातोः इति वर्तते, तेन संयोगो विशेष्यते ।
धातोरवयवः संयोगः पूर्वो यस्मादिवर्णान भवति असावसंयोगपूर्वः, तदन्तस्य अङ्गस्य अनेकाचोऽचि परतो यणादेशो भवति ।
निन्यतुः ।
निन्युः ।
उन्न्यौ ।
उन्न्यः ।
ग्रामण्यौ ।
ग्रामण्यः ।
एः इति किं ? असंयोगपूर्वग्रहणं इवर्णविशेषणं यथा स्यात्, अङ्गविशेषणं मा भूतिति ।
लुलुवतुः, लुलुवुः इत्येतत्तु ओः सुपि (*६,४.८३) इति नियमादपि सिध्यति ।
अनेकाचः इति किं ? नियौ ।
नियः ।
असंयोगपूर्वस्य इति किं ? यवक्रियौ ।
यवक्रियः ।
धातुना संयोगविशेषणं किं ? इह अपि स्यादुन्न्यौ, उन्न्यः इति ।
गतिकारकाभ्यां अन्यपूर्वस्य नेष्यते, परमनियौ, परमनियः इति । ।


____________________________________________________________________


  1. <ओः सुपि># । । PS_६,४.८३ । ।



_____Sठाऱ्ठ्JKव्_६,४.८३ः

धात्ववयवः संयोगः पूर्वो यस्मादुवर्णान्न भवति, तदन्तस्य अङ्गस्य अनेकाचः अजादौ सुपि परतो यणादेशो भवति ।
खलप्वौ ।
खलप्वः ।
शतस्वौ ।
शतस्वः ।
सकृल्ल्वौ ।
सकृल्ल्वः ।
सुपि इति किं ? लुलुवतुः ।
लुलुवुः ।
अनेकाचः इत्येव, लुवौ ।
लुवः ।
असंयोगपूर्वस्य इत्येव, कटप्रुवौ ।
कटप्रुवः ।
गतिकारकाभ्यां अन्यपूर्वस्य न+इष्यते, परमलुवौ ।
परमलुवः । ।


____________________________________________________________________


  1. <वर्षाभ्वश्च># । । PS_६,४.८४ । ।



_____Sठाऱ्ठ्JKव्_६,४.८४ः

वर्षाभू इत्येतस्य अजादौ सुपि परतो यणादेशो भवति ।
वर्षाभ्वौ ।
वर्षाभ्वः ।
पुनर्भ्वश्चेति वक्तव्यं ।
पुनर्भ्वौ ।
पुनर्भवः ।
कारापूर्वस्यापीष्यते ।
काराभ्वौ ।
काराभ्वः । ।


____________________________________________________________________


  1. <न भूसुधियोः># । । PS_६,४.८५ । ।



_____Sठाऱ्ठ्JKव्_६,४.८५ः

भू सुधी इत्येतयोर्यणादेशो न भवति ।
प्रतिभुवौ ।
प्रतिभुवः ।
सुधियौ ।
सुधियः । ।


____________________________________________________________________


  1. <छन्दस्युभयथा># । । PS_६,४.८६ । ।


_____Sठाऱ्ठ्JKव्_६,४.८६ः

छन्दसि विषये भू सुधि इत्येतयोः उभयथा दृश्यते ।
वनेषु चित्र विभ्वं विशे ।
विभुवं विशे ।
सुध्यो हव्यमग्ने ।
सुधियो हव्यमग्ने । ।


____________________________________________________________________


[#७५१]

  1. <हुश्नुवोः सार्वधातुके># । । PS_६,४.८७ । ।



_____Sठाऱ्ठ्JKव्_६,४.८७ः

हु इत्येतस्य अङ्गस्य श्नुप्रत्ययान्तस्य अनेकाचः असंयोगपूर्वस्य अजादौ सार्वधातुके परतो यणादेशो भवति ।
जुह्वति ।
जुह्वतु ।
जुह्वथ् ।
सुन्वन्ति ।
सुन्वन्तु ।
असुन्वन् ।
हुश्नुवोः इति किं ? योयुवति ।
रोरुवति ।
इदं एव हुश्नुग्रहणं ज्ञापकं भाषायां अपि यङ्लुगस्ति इति ।
छन्दसि छन्दस्युभयथा (*६,४.८६) इत्यार्धधातुकत्वादेव यणादेशस्य अप्रसङ्गः ।
नच यङ्लुगन्तादयत्प्रत्युदाहरणं उवर्णान्तं अनेकाचसंयोगपूर्वं सार्वधातुके विद्यते ।
सार्वधातुके इति किं ? जुहुवतुः ।
जुहुवुः ।
असंयोगपूर्वस्य इत्येव, आप्नुवन्ति ।
राध्नुवन्ति । ।


____________________________________________________________________


  1. <भुवो वुग्लुङ्लिटोः># । । PS_६,४.८८ । ।



_____Sठाऱ्ठ्JKव्_६,४.८८ः

भुवो वुगागमो भवति लुङि लिटि च अजादौ परतः ।
अभूवन् ।
अभूवं लिट्- बभूव, बभूवतुः, बभवुः । ।


____________________________________________________________________


  1. <ऊदुपधाया गोहः># । । PS_६,४.८९ । ।



_____Sठाऱ्ठ्JKव्_६,४.८९ः

गोहोऽङ्गस्य उपधाया ऊकारादेशो भवति अजादौ प्रत्यये परतः ।
निगूहति ।
निगूहकः ।
साधुनिगूही ।
निगूहंनिगूहं ।
निगूहन्ति ।
गूहो वर्तते ।
उपधायाः इति किं ? अलः अन्त्यस्य मा भूथ् ।
गोहः इति विकृतग्रहणं विषयार्थं ।
यत्र अस्य+एतद्रूपं तत्र+एव यथा स्याथ् ।
इह मा भूत्, निजुगुहतुः ।
निजुगुहुः ।
अयादेशप्रतिषेधार्थं च केचिदिच्छन्ति ।
निगूह्य गतः इत्यूत्वस्य असिद्धत्वाद्ल्यपि लघुपूर्वादिति णेरयादेशः स्याथ् ।
व्याश्रयत्वादेव असिद्धत्वं अत्र न अस्ति, णावूत्वं, ण्यन्तस्य च ल्यप्ययादेश इति ।
अचि इत्येव, निगोढा ।
निगोढुं । ।

____________________________________________________________________


  1. <दोषो णौ># । । PS_६,४.९० । ।



_____Sठाऱ्ठ्JKव्_६,४.९०ः

दोषः उपधाया ऊकारः आदेशो भवति णौ परतः ।
दूषयति, दुषयतः, दूषयन्ति ।
विकृतग्रहणं प्रक्रमाभेदार्थं ।
पूर्वत्र हि गोहः इत्युक्तं ।
णौ इति किं ? दोषो वर्तते । ।


____________________________________________________________________


  1. <वा चित्तविरागे># । । PS_६,४.९१ । ।



_____Sठाऱ्ठ्JKव्_६,४.९१ः

चित्तविकरार्थे दोष उपधाया वा ऊकारादेशो भवति णौ परतः ।
चित्तं दूषयति, चित्तं दोषयति ।
प्रज्ञां दूषयति, प्रज्ञां दोषयति । ।


____________________________________________________________________


[#७५२]

  1. <मितां ह्रस्वः># । । PS_६,४.९२ । ।



_____Sठाऱ्ठ्JKव्_६,४.९२ः
मितो धातवः घटादयो मितः इत्येवं आदयो ये प्रतिपादिताः, तेषां उपधाया ह्रस्वो भवति णौ परतः ।
घटयति ।
व्यथयति ।
जनयति ।
रजयति ।
शमयति ।
ज्ञपयति ।
केचिदत्र वा इत्यनुवर्तयन्ति ।
सा च व्यवस्थितविभाषा ।
तेन उत्क्रामयति, सङ्क्रामयति इत्येवं आदि सिद्धं भवति । ।


____________________________________________________________________


  1. <चिण्-णमुलोर्दीर्घोऽन्यतरस्याम्># । । PS_६,४.९३ । ।



_____Sठाऱ्ठ्JKव्_६,४.९३ः

चिण्परे णमुल्परे च णौ परतः मितां अङ्गानां उपधायाः दीर्घो भवति अन्यतरस्यां ।
अशमि, अशामि ।
अतमि, अतामि ।
शमंशमम्, शामंशामं ।
तमन्तमम्, तामन्तामं ।
दीर्घग्रहणं किं, न ह्रस्वविकल्प एव विधीयते ? न+एवं शक्यम्, शमयन्तं प्रयुङ्क्ते इति द्वितीये णिचि ह्रस्वविकल्पो न स्याथ् ।
णिलोपस्य स्थानिवद्भावाद्दीर्घविधौ त्वजादेशो न स्थानिवथ् ।
शयमन्तं प्रयुक्तवान् ।
अशमि, अशामि ।
शमंशमम्, शामंशामं ।
शंशमयतेः - अशंशमि, अशंशामि ।
शंशमंशंशमम्, शंशामंशंशामं ।
योऽसौ णौ णिर्लुप्यते, यश्च यङ्कारः, तयोर्दिर्घविधौ आदेशो न स्थानिवद्भवति इति अस्थानिवद्भावात्दीर्घः सिद्धो भवति ।
ह्रस्वविकल्पे तु विधीयमाने स्थानिवद्भावः स्याथ् ।
णिण्यन्ते यङ्ण्यन्ते त्वसिद्धिरेव ।
व्याश्रयत्वादसिद्धत्वं अपि न अस्ति ।
णौ हि णियङोर्लोपः, चिण्णमुल्परे णावङ्गस्य दीर्घत्वं । ।

____________________________________________________________________


  1. <खचि ह्रस्वः># । । PS_६,४.९४ । ।



_____Sठाऱ्ठ्JKव्_६,४.९४ः

खच्परे णौ परतो ह्रस्वो भवति अङ्गस्य उपधायाः ।
द्विषन्तपः ।
परन्तपः ।
पुरंदरः । ।


____________________________________________________________________


  1. <ह्लादो निष्ठायाम्># । । PS_६,४.९५ । ।



_____Sठाऱ्ठ्JKव्_६,४.९५ः

ह्लादोऽङ्गस्य उपधायाः ह्रस्वो भवति निष्ठायां परतः ।
प्रह्लन्नः ।
प्रह्लन्नवान् ।
निष्ठायां इति किं ? प्रह्लादयति ।
ह्लादः इति योगविभागः क्रियते, क्तिन्यपि यथा स्तात्, प्रह्लत्तिः इति । ।


____________________________________________________________________


  1. <छादेर्घेऽद्व्य्-उपसर्गस्य># । । PS_६,४.९६ । ।



_____Sठाऱ्ठ्JKव्_६,४.९६ः

छादेरङ्गस्य अद्व्युपसर्गस्य घप्रत्यये परतः उपधायाः ह्रस्वो भवति ।
उरश्छदः प्रच्छदः ।
दन्तच्छदः ।
णिलोपस्य असिद्धत्वं स्थानिवद्भावो वावचनसामर्थ्यादत्र न भवति इति ह्रस्वभाविनी उपधा भवति ।
अद्व्युपसर्गस्य इति किं ? समुपच्छादः ।
अद्विप्रभृत्युपसर्गस्य इति वक्तव्यं ।
समुपातिच्छादः ।
उत्तरा हि सङ्ख्या पूर्वसङ्ख्याकृतं व्यपदेशं निवर्तयति, नहि त्रिपुत्रो द्विपुत्रः इति व्यपदिश्यते । ।


____________________________________________________________________


[#७५३]

  1. <इस्-मन्-त्रन्-क्विषु च># । । PS_६,४.९७ । ।



_____Sठाऱ्ठ्JKव्_६,४.९७ः

इस्मन्त्रन्क्वि इत्येतेषु परतः छादेः उपधायाः ह्रस्वो भवति ।
छदिः ।
छद्म ।
छन्त्त्रं ।
धामच्छथ् ।
उपच्छत् । ।


____________________________________________________________________


  1. <गम-हन-जन-खन-घसां लोपः क्ङित्यनङि># । । PS_६,४.९८ । ।



_____Sठाऱ्ठ्JKव्_६,४.९८ः

गम हन जन खा घस इत्येतेषां अङ्गानां उपधाया लोपो भवत्यजादौ प्रत्यये क्ङिति अनङि परतः ।
जग्मतुः ।
जग्मुः ।
जघ्नतुः ।
जघ्नुः ।
जज्ञे, जज्ञाते, जज्ञिरे ।
चख्नतुः ।
चख्नुः ।
जक्षतुः ।
जक्षुः ।
अक्षन्पितरोऽमोमदन्त पितरः ।
क्ङिति इति किं ? गमनं ।
हननं ।
अनङि इति किं ? अगमथ् ।
अघसथ् ।
अचि इत्येव, गम्यते ।
हन्यते । ।


____________________________________________________________________


  1. <तनि-पत्योश्छन्दसि># । । PS_६,४.९९ । ।



_____Sठाऱ्ठ्JKव्_६,४.९९ः

तनि पति इत्येतयोः छन्दसि विषये उपधाया लोपो भवति अजादौ क्ङिति प्रत्यये परतः ।
वितत्निरे कवयः ।
शकुना इव पप्तिम ।
छन्दसि इति किं ? वितेनिरे ।
पेतिम । ।


____________________________________________________________________


  1. <घसि-भसोर्हलि च># । । PS_६,४.१०० । ।



_____Sठाऱ्ठ्JKव्_६,४.१००ः
घसि भस इत्येतयोः छन्दसि उपधाया लोपो भवति लहादौ अजादौ च क्गिति प्रत्यये परतः ।
सग्धिश्च मे सपीतिश्च मे ।
बब्धां ते हरी धानाः ।
सग्धिः इति अदेः क्तिनि बहुलं छन्दसि इति घस्लादेशे उपधायाः लोपे च कृते झलो झलि (*८,२.२६) इति सकारलोपः ।
धत्वं तकारस्य, जश्त्वं घकारस्य ।
ततः समाना ग्धिः सग्धिः इति समासे कृते समानस्य सभावः ।
बब्धां इति भसेर्लोटि तामि श्लौ द्विर्वचने कृते उपधालोपसलोपधत्वजश्त्वानि कर्तव्यानि ।
द्विर्वचनात्परत्वान्नित्यत्वाच्च उपधालोपः प्राप्नोति, छान्दसत्वात्स तथा न क्रियते ।
अजादौ - बप्सति ।
क्ङिति इत्येव, अंशून्बभस्ति । ।


____________________________________________________________________


  1. <हु-झल्भ्यो हेर्धिः># । । PS_६,४.१०१ । ।



_____Sठाऱ्ठ्JKव्_६,४.१०१ः

हु इत्येतस्माद्झलन्तेभ्यस्च+उत्तरस्य हलादेः हेः स्थाने धिरादेशो भवति ।
जुहुधि ।
झलन्तेभ्यः - भिन्धि ।
छिन्धि ।
हुझल्भ्यः इति किं ? क्रीणीहि ।
प्रीणीहि ।
हेः इति किं ? जुहुतां ।
हलि इत्येव, रुदिहि ।
स्वपिहि ।
इह जुहुतात्, भिन्तात्त्वं इति परत्वात्तातङि कृते सकृद्गतौ विप्रतिषेधेन यद्बधितं तद्बाधितं एव इति पुनः धिभावो न भवति ।
भिन्धकि, छिन्धकि इत्यत्र परत्वाद्धिभावे कृते पुनः प्रसङ्गविज्ञानादकच्क्रियते । ।


____________________________________________________________________


[#७५४]

  1. <श्रु-शृणु-प्é-कृ-वृभ्यश्छन्दसि># । । PS_६,४.१०२ । ।



_____Sठाऱ्ठ्JKव्_६,४.१०२ः

श्रु शृणु प्é कृ वृ इत्येतेभ्य उत्तरस्य हेः धिरादेशो हवति छन्दसि विषये ।
श्रुधी हवमिन्द्र ।
शृणुधी गिरः ।
पूर्धि ।
उरु णस्कृधि ।
अपा वृधि ।
शृणुधि इत्यत्र धिभावविधानसामार्थ्यादुतश्च प्रत्ययातिति हेर्लुक्न भवति ।
अन्येषां अपि दृश्यते इति दीर्घत्वं ।
अतोऽन्यत्र व्यत्ययो बहुलं इति शप्, तस्य बहुलं छन्दसि इति लुक् । ।


____________________________________________________________________


  1. <अङितश्च># । । PS_६,४.१०३ । ।



_____Sठाऱ्ठ्JKव्_६,४.१०३ः

अङितश्च हेर्धिरादेशो भवति ।
वा छन्दसि इति पित्वेनास्य अङित्त्वं ।
सोमं रारन्दः ।
असमभ्यं तद्धर्यश्व प्रयन्धि ।
युयोध्यस्मज्जुहुराणमेनः ।
अङितः इति किं ? ह्वयं प्रीणीहि ।
रारन्धि इति रमेर्व्यत्ययेन परस्मैपदं , शपः श्लु, अभ्यासदीर्घत्वं छान्दसत्वाथ् ।
मलोपाभावस्तु अङित्त्वादेव ।
प्रयन्धि इति यमेः शपो लुक् ।
युयोधि इति यौतेः शपः श्लुः । ।


____________________________________________________________________

  1. <चिणो लुक्># । । PS_६,४.१०४ । ।



_____Sठाऱ्ठ्JKव्_६,४.१०४ः

चिण उत्तरस्य प्रत्ययस्य लुग्भवति ।
अकारि ।
अहारि ।
अलावि ।
अपाचि ।
अकारितराम्, अहारितमां इत्यत्र तलोपस्य असिद्धत्वात्तरप्तमपोर्न लुग्भवति ।
चिणो लुकित्येतद्विषयभेदाद्भिद्यते । ।


____________________________________________________________________


  1. <अतो हेः># । । PS_६,४.१०५ । ।



_____Sठाऱ्ठ्JKव्_६,४.१०५ः

अकारान्तादङ्गादुत्तरस्य हेः लुग्भवति ।
पच ।
पठ ।
गच्छ ।
धाब ।
अतः इति किं ? युहि ।
रुहि ।
तपरकरणं किं ? लुनीहि ।
पुनीहि ।
ईत्वस्य असिद्धत्वादकार एव भवति । ।


____________________________________________________________________


  1. <उतश्च प्रत्ययादसंयोगपूर्वात्># । । PS_६,४.१०६ । ।


_____Sठाऱ्ठ्JKव्_६,४.१०६ः

उकारो योऽसंयोगपूर्वः तदन्तात्प्रत्ययादुत्तरस्य हेर्लुक्भवति ।
चिनु ।
सुनु ।
कुरु ।
उतः इति किं ? लुनीहि ।
पुनीहि ।
प्रत्ययातिति किं ? युहि ।
रुहि ।
असंयोगपूर्वातिति किं ? प्राप्नुहि ।
राध्नुहि ।
तक्ष्णुहि ।
उतश्च प्रत्ययाच्छन्दोवावचनं ।
उतश्च प्रत्ययादित्यत्र छन्दसि वा इति वक्तव्यं ।
आतनुहि यातुधानान् ।
धिनुहि यज्ञपतिं ।
तेन मा भगिनं कृणु । ।


____________________________________________________________________


[#७५५]

  1. <लोपश्च अस्य अन्यतरस्यां ंवोः># । । PS_६,४.१०७ । ।



_____Sठाऱ्ठ्JKव्_६,४.१०७ः

योऽयं उकारोऽसंयोगपूर्वः तदन्तस्य प्रत्ययस्य अन्यतरस्यां लोपो भवति वकारं अकारादौ प्रत्यये परतः ।
सुन्वः, सुनुवः ।
सुन्मः, सुनुमः ।
तन्वः, तनुवः ।
तन्मः, अनुमः ।
प्रत्ययस्य इत्येव, युवः ।
युमः ।
असंयोगपूर्वस्य इत्येव, शक्नुवः ।
शक्नुमः ।
लुकिति वर्तमाने लोपग्रहणं अन्त्यलोपार्थं । ।


____________________________________________________________________


  1. <नित्यं करोतेः># । । PS_६,४.१०८ । ।



_____Sठाऱ्ठ्JKव्_६,४.१०८ः

करोतेः उत्तरस्य उकारप्रत्ययस्य वकारमकारादौ प्रत्यये परतः नित्यं लोपो भवति ।
कुर्वः ।
कुर्मः ।
उकारलोपस्य दीर्घविधौ अस्थानिवद्भावाद्हलि च (*८,२.७७) इति दीर्घत्वं प्राप्तम्, न भकुर्छुरां (*८,२.७१) इति प्रतिषिध्यते । ।


____________________________________________________________________


  1. <ये च># । । PS_६,४.१०९ । ।



_____Sठाऱ्ठ्JKव्_६,४.१०९ः

यकारादौच प्रत्यये परतः करोतेः उत्तरस्य उकारप्रत्ययस्य नित्यं लोपो भवति ।
कुर्यात्, कुर्याताम्, कुर्युः । ।


____________________________________________________________________


  1. <अत उत्सार्वधातुके># । । PS_६,४.११० । ।



_____Sठाऱ्ठ्JKव्_६,४.११०ः
उकारप्रत्ययान्तस्य करोतेः अकारस्य स्थाने उकारः आदेशो भवति सार्वधातुके क्ङिति परतः ।
कुरुतः ।
कुर्वन्ति ।
सार्वधातुकग्रहणं किं ? भूतपूर्वेऽपि सार्वधातुके यथा स्यात्, कुरु ।
तपरकरणं लघूपधस्य गुणनिवृत्त्यर्थं ।
क्ङिति इत्येव, करोति ।
करोषि ।
करोमि । ।


____________________________________________________________________


  1. <श्नसोरल्लोपः># । । PS_६,४.१११ । ।



_____Sठाऱ्ठ्JKव्_६,४.१११ः

श्नस्य अस्तेश्च अकारस्य लोपो भवति सार्वधातुके क्ङिति परतः ।
रुन्धः ।
रुन्धन्ति ।
भिन्तः ।
भिन्दन्ति ।
अस्तेः - स्तः ।
सन्ति ।
क्ङिति इत्येव - भिनत्ति ।
अस्ति ।
श्नसोः इति आकारस्य पररूपत्वं शकन्ध्वादिसु द्रष्टव्यं । ।


____________________________________________________________________


  1. <श्ना-अभ्यस्तयोरातः># । । PS_६,४.११२ । ।



_____Sठाऱ्ठ्JKव्_६,४.११२ः

श्ना इत्येतस्य अभ्यस्तानां च अङ्गानां आकारस्य लोपो भवति सार्वधातुके क्ङिति परतः ।
लुनते ।
लुनतां ।
अलुनत ।
अभ्यस्तानां - मिमते ।
मिमतां ।
अमिमत ।
संजिहते ।
संजिहतां ।
समजिहत ।
श्नाभ्यस्तयोः इति किं ? यान्ति ।
वान्ति ।
आतः इति किं ? बिभ्रति ।
क्ङिति इत्येव, अलुनाथ् ।
अजहाथ् ।
आद्ग्रहणं स्पष्टार्थं । ।


____________________________________________________________________


[#७५६]

  1. <ई हल्यधोः># । । PS_६,४.११३ । ।



_____Sठाऱ्ठ्JKव्_६,४.११३ः

श्नान्तानां अङ्गानां अभ्यस्तानां च घुवर्जितानां आतः ईकारादेशो भवति हलादौ सार्वधातुके क्ङिति परतः ।
लुनीतः ।
पुनीतः ।
लुनीथः ।
पुनीथः ।
लुनीते ।
पुनीते ।
अभ्यस्तानां - मिमीते ।
मिमीषे ।
मिमीध्वे ।
संजिहीते ।
संजिहीषे ।
संजिहीध्वे ।
हलि इति किं ? लुनन्ति ।
मिमते ।
अघोः इति किं ? दत्तः ।
धत्तः ।
क्ङिति इत्येव, लुनाति ।
जहाति । ।


____________________________________________________________________


  1. <इद्दरिद्रस्य># । । PS_६,४.११४ । ।



_____Sठाऱ्ठ्JKव्_६,४.११४ः

दरिद्रातेः हलादौ सार्वधातुके क्ङिति परतः इकरादेशो भवति ।
दरिद्रितः दरिद्रिथः ।
दरिद्रिवः ।
दरिद्रिमः ।
हलि इत्येव, दरिद्रति ।
क्ङिति इत्येव, दरिद्राति ।
दरिद्रातेरार्धधातुके लोपो वक्तव्यः ।
सिद्धश्च प्रत्ययविधौ भवति इति वक्तव्यं ।
दरिद्राति इति दरिद्रः ।
आकारान्तलक्षणो णप्रत्ययो न भवति, पचादित्वादजेव भवति ।
न दरिद्रायके लोपो दरिद्राणे च नेष्यते ।
दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा । ।
अद्यतन्यां वेति वक्तव्यं ।
अदरिद्रीत्, अदरिद्रासीथ् ।
दरिद्रस्य इति निर्देशे छान्दसं ह्रस्वत्वं द्रष्तव्यं । ।


____________________________________________________________________

  1. <भियोऽन्यतरस्यम्># । । PS_६,४.११५ । ।



_____Sठाऱ्ठ्JKव्_६,४.११५ः

भी इत्येतस्य अङ्गस्य अन्यतरस्यां इकारादेशो भवति हलादौ क्ङिति सार्वधातुके परतः ।
बिभितः, बिभीतः ।
बिभिथः, बिभीथः ।
बिभिवः, बिभीवः ।
बिभिमः, बिभीमः ।
हलादौ इत्येव, विभ्यति ।
क्ङिति इत्येव, बिभेति ।
सार्वधातुके इत्येव, भीयते । ।


____________________________________________________________________


  1. <जहातेश्च># । । PS_६,४.११६ । ।



_____Sठाऱ्ठ्JKव्_६,४.११६ः

जहातेश्च इकारादेशो भवति अन्यतरस्यां हलादौ क्ङिति सार्वधातुके परतः ।
जहितः, जहीतः ।
जहिथः, जहीथः ।
हलादौ इत्येव, जहति ।
क्ङिति इत्येव, जहाति ।
सार्वधातुके इत्येव, हीयते ।
जेहीयते ।
पृथ्ग्योगकरणं उत्तरर्थं । ।


____________________________________________________________________


[#७५७]

  1. <आ च हौ># । । PS_६,४.११७ । ।



_____Sठाऱ्ठ्JKव्_६,४.११७ः

जहातेराकारश्च अन्तादेशो भवति इकारश्च अन्यतरस्यां हौ परतः ।
जहाहि, जहिहि, जहीहि । ।


____________________________________________________________________


  1. <लोपो यि># । । PS_६,४.११८ । ।



_____Sठाऱ्ठ्JKव्_६,४.११८ः

लोपो भवति जहातेः यकारादौ क्ङिति सार्वधातुके परतः ।

[#७५६]

जह्यात्, जह्याताम्, जह्युः । ।


____________________________________________________________________


[#७५७]

  1. <घ्व्-असोरेद्-धावभ्यासलोपश्च># । । PS_६,४.११९ । ।



_____Sठाऱ्ठ्JKव्_६,४.११९ः

घुसञ्ज्ञाकानां अङ्गानां अस्तेश्च एकारादेशो भवति हौ परतः अभ्यासलोपश्च ।
देहि ।
धेहि ।
अस्तेः - श्न-सोरल्-लोपः (*६,४.१११) ।
इत्यकारलोपः, एधि ।
शिदयं लोपः, तेन सर्वस्याभ्यासस्य भवति । ।


____________________________________________________________________


  1. <अत एकहल्मध्येऽनादेशादेर्लिटि># । । PS_६,४.१२० । ।



_____Sठाऱ्ठ्JKव्_६,४.१२०ः

लिटि परत आदेशः आदिर्यस्य अङ्गस्य न अस्ति तस्य एकहल्मध्ये असहाययोर्हलोर्मध्ये योऽकारस्तस्य एकारादेशो भवति, अभ्यासलोपः च लिटि क्ङिति परतः ।
रेणतुः ।
रेणुः ।
येमतुः ।
येमुः ।
पेचतुः ।
पेचुः ।
देमतुः ।
देमुः ।
अतः इति किं ? दिदिवतुः ।
दिदिवुः ।
तपरकरणं किं ? ररासे, ररासाते, ररासिरे ।
एकहल्मध्ये इति किं ? शश्रमतुः ।
शश्रमुः ।
तत्सरतुः ।
तत्सरुः ।
अनादेशादेः इति किं ? चकणतुः ।
चकणुः ।
जगणतुः ।
जगणुः ।
बभणतुः ।
बभणुः ।
लिटः आदेशविशेषणं किं ? इह अपि यथा स्यात्, नेमतुः ।
नेमुः ।
सेहे, सेहाते, सेहिरे ।
अनैमित्तिके नत्वसत्वे, तदादिर्लिटि आदेशादिर्न भवति ।
इह अभ्यासजश्त्वचर्त्वयोरसिद्धत्वं नास्ति, तेन तदादिरप्यादेशादिर्भवति ।
तथा च फलिभजोरेत्वं विधीयते ।
रूपाभेदे चादेशादिर्न अश्रीयते इति शसिदद्योः प्रतिषेधवचनं ज्ञापकं ।
अन्यथा हि पेचतुः, पेचुः, देमतुः, देमुः इत्येवं आदीनां अपि प्रकृतिजश्चरादीनां एत्वं न स्याथ् ।
क्ङिति इत्येव, अहं पपच ।
अहं पपठ ।
दम्भेरेत्वं वक्तव्यं ।
देभतुः ।
देभुः ।
नलोपस्य असिद्धत्वान्न प्राप्नोति ।
नशिमन्योरलिट्येत्वं वक्तव्यं ।
अनेशं ।
मेनका ।
अनेशं इति नशेः लुङि पुषादित्वादङ् ।
मेनका इति मनेः आशिषि च (*३,१.१५०) इति वुन् ।
क्षिपकादिषु प्रक्षेपादित्वं न क्रियते ।

[#७५८]

छन्दस्यमिपचोरप्यलिट्येत्वं वक्तव्यं ।
व्येमानं ।
अमेर्विपूर्वस्य चानशि मुक्न क्रियते ।
लिङि-पेचिरन् ।
पचेरनित्येतस्य छान्दसं ह्रस्वत्वं ।
यजिवप्योश्च ।
आयेजे ।
आवेपे ।
लङि इटि छन्दस्यपि दृश्यते (*६,४.७३) इति अनजादेरपि इडागमः । ।


____________________________________________________________________


  1. <थलि च सेति># । । PS_६,४.१२१ । ।



_____Sठाऱ्ठ्JKव्_६,४.१२१ः

थलि च सेटि परतोऽनादेशादेः अङ्गस्य एकहल्मध्यगतस्य अतः स्थाने एकार आदेशो भवति, अभ्यासलोपश्च ।
पेचिथ ।
शेकिथ ।
सेटि इति किं ? पपक्थ ।
थल्ग्रहणं विस्पष्टार्थं ।
अक्ङिदर्थं एतद्वचनं इति अन्यस्येटोऽसम्भवाथ् ।
अतः इत्येव, दिदेविथ ।
एकहल्मध्यगतस्य इत्येव, ततक्षिथ ।
ररक्षिथ ।
अनादेशादेरित्येव, चकणिथ ।
बभणिथ । ।


____________________________________________________________________


  1. <त्é-फल-भज-त्रपश्च># । । PS_६,४.१२२ । ।



_____Sठाऱ्ठ्JKव्_६,४.१२२ः

त्é फल भज त्रप इत्येतेषां अङ्गानां अत एकारादेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि ।
तेरतुः ।
तेरुः ।
तेरिथ ।
फेलतुः ।
फेलुः ।
फेलिथ ।
भेजतुः ।
भेजुः ।
भेजिथ ।
त्रेपे, त्रेपाते, त्रेपिरे ।
तरतेर्गुणार्थं वचनं ।
फलिभजोरादेशाद्यर्थं ।
त्रपेरनेकहल्मध्यार्थं ।
श्रन्थेश्च+इति वक्तव्यं ।
श्रेथतुः ।
श्रेथुः । ।

____________________________________________________________________


  1. <रधो हिंसायाम्># । । PS_६,४.१२३ । ।



_____Sठाऱ्ठ्JKव्_६,४.१२३ः

राधः हिंसायामर्थेऽवर्णस्य एकारः आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि ।
अपरेधतुः ।
अपरेधुः ।
अपरेधिथ ।
हिंसायां इति किं ? रराधतुः ।
रराधुः ।
रराधिथ ।
अतः इत्येतदिह+उपस्थितं तपरत्वकृतमपास्य कालविशेषं असम्भवादवर्णमात्रं प्रतिपादयति ।
अथ वा श्नाभ्यस्तयोरातः (*६,४.११२) इत्यनुवर्तते इति व्याख्येयं ।
एकहल्मध्ये वा यः स स्थानी भविष्यति । ।


____________________________________________________________________


  1. <वा ज्é-भ्रमु-त्रसाम्># । । PS_६,४.१२४ । ।



_____Sठाऱ्ठ्JKव्_६,४.१२४ः

ज्é भ्रमु त्रस इत्येतेषां अङ्गानां अतः स्थाने वा एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि ।
जेरतुः ।
जेरुः ।
जेरिथ ।
जजरतुः ।
जजरुः ।
जजरिथ ।
भ्रेमतुः ।
भ्रेमुः ।
भ्रेमिथ ।
बभ्रमतुः ।
बभ्रमुः ।
बभ्रमिथ ।
त्रेसतुः ।
त्रेसुः ।
त्रेसिथ ।
तत्रसतुः ।
तत्रसुः ।
तत्रसिथ । ।


____________________________________________________________________


[#७५९]

  1. <फणां च सप्तानाम्># । । PS_६,४.१२५ । ।



_____Sठाऱ्ठ्JKव्_६,४.१२५ः

फणादीनां सप्तानां धातूनां अवर्णस्य स्थाने वा एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि ।
फेणतुः ।
फेणुः ।
फेणिथ ।
पफणतुः ।
पफणुः ।
पफणिथ ।
रेजतुः ।
रेजुः ।
रेजिथ ।
रराजतुः ।
रराजुः ।
रराजिथ ।
भ्रेजे, भ्रेजाते, भ्रेजिरे ।
बभ्राजे, बभ्राजाते, बभ्राजिरे ।
भ्रेशे, भ्रेशाते, भ्रेशिरे ।
बभ्राशे, बभ्राशाते, बभ्राशिरे ।
भ्लेशे, भ्लेशाते, भ्लेशिरे ।
बभ्लाशे, बभ्लाशाते, बभ्लाशिरे ।
स्येमतुः ।
स्येमुः ।
स्येमिथ ।
सस्यमतुः ।
सस्यमुः ।
सस्यमिथ ।
स्वेनतुः ।
स्वेनुः ।
स्वेनिथ ।
सस्वनतुः ।
सस्वनुः ।
सस्वनिथ ।
सप्तानां इति किं ? दघ्बनतुः ।
दध्बनुः ।
दध्वनिथ । ।


____________________________________________________________________


  1. <न शस-दद-व्-आदि-गुणानाम्># । । PS_६,४.१२६ । ।



_____Sठाऱ्ठ्JKव्_६,४.१२६ः

शस दद इत्येतयोः वकारादीनां च धातूनां गुण इत्येवं अभिनिर्वृत्तस्य च योऽकारः तस्य स्थाने एकारादेशो न भवति, अभ्यासलोपश्च ।
विशशसतुः ।
विशशसुः ।
विशशसिथ ।
दददे, दददाते, ददरिरे ।
वादीनां - ववमतुः ।
ववमुः ।
ववमिथ ।
गुणस्य - विशशरतुः ।
विशशरुः ।
विशशरिथ ।
लुलविथ ।
पुपविथ ।
गुणशब्दाभिनिर्वृत्तस्य अर्शब्दस्य ओकारस्य च अयं अकारः इति एत्वं प्रतिषिध्यते । ।


____________________________________________________________________


  1. <अर्वणस्त्र्-असाव्-अनञः># । । PS_६,४.१२७ । ।



_____Sठाऱ्ठ्JKव्_६,४.१२७ः

अर्वनित्येतस्य अङ्गस्य तृ इत्ययं आदेशो भवति, सुश्चेत्ततः परो न भवति, स च नञ उत्तरो न भवति ।
अर्वन्तौ ।
अर्वन्तः ।
अर्वन्तम्, अर्वतौ, अर्वतः ।
अर्वता, अर्वद्भ्याम्, अर्वद्भिः ।
अर्वती ।
आर्वतं ।
असौ इति किं ? अर्वा ।
अनञः इति किं ? अनर्वाणौ ।
अनर्वाणः ।
अनर्वाणं वृषभं मन्द्रजिह्वं । ।


____________________________________________________________________


  1. <मघवा बहुलम्># । । PS_६,४.१२८ । ।



_____Sठाऱ्ठ्JKव्_६,४.१२८ः

मघवनित्येतस्य अङ्गस्य बहुलं तृ इत्ययं आदेशो भवति ।
मघवान्, मघवन्तौ, मघवन्तः ।
मघवन्तम्, मघवन्तौ, मघवतः ।
मघवता ।
मघवती ।
माघवतं ।
न च भवति ।
मघवा, मघवानौ, मघवानः ।
मघवानम्, मघवानौ, मघोनः ।
मघोना, मघवभ्याम्, मघवभिः ।
मघोनी ।
माघवनं । ।


____________________________________________________________________


  1. <भस्य># । । PS_६,४.१२९ । ।



_____Sठाऱ्ठ्JKव्_६,४.१२९ः

भस्य इत्ययं अधिकारः आ अध्यायपरिसमाअप्तेः ।
यदित ऊर्ध्वं अनुकमिष्यामः भस्य इत्येवं तद्वेदिव्यं ।


____________________________________________________________________


  1. <वक्ष्यति - पादः पत्># । । PS_६,४.१३० । ।



_____Sठाऱ्ठ्JKव्_६,४.१३०ः

द्विपदः पश्य ।
द्विपदा कृतं ।
भस्य इति किं ? द्विपादौ ।
द्विपादः । ।


[#७६०]
पादः पत्(*६,४.१३०) ।
पादः इति पादशब्दो लुप्ताकारो गृह्यते ।
तदन्तस्य अङ्गस्य भस्य पतित्ययं आदेशो भवति ।
स च निर्दिश्यमानस्यादेशा भवन्ति इति पाच्छब्दस्य+एव भवति, न तदन्तस्य सर्वस्य ।
द्विपदः पश्य ।
द्विपदा ।
द्विपदे ।
द्विपदिकां ददाति ।
त्रिपदिकां ददाति ।
वैयाघ्रपद्यः । ।


____________________________________________________________________


  1. <वसोः सम्प्रसारणं># । । PS_६,४.१३१ । ।



_____Sठाऱ्ठ्JKव्_६,४.१३१ः

वस्वन्तस्य भस्य सम्प्रसारणं भवति ।
विदुषः पश्य ।
विदुषा ।
विदुषे ।
पेचुषः ।
पश्य ।
पेचुषा ।
पेचुषे ।
पपुषः पश्य ।
आकारलोपे कर्तव्ये वसुसंप्रसारणस्य व्याश्रयत्वादसिद्धत्वं न भवति ।
वसुग्रहणे क्वसोरपि ग्रहणं इष्यते । ।


____________________________________________________________________


  1. <वाह ऊटः># । । PS_६,४.१३२ । ।


_____Sठाऱ्ठ्JKव्_६,४.१३२ः

वाहः इत्येवं अन्तस्य भस्य ऊटः इत्येतत्सम्प्रसारणं भवति ।
प्रष्ठौहः ।
प्रष्ठौहा ।
प्रष्ठौहे ।
दित्यौहः ।
दित्यौहा ।
दित्यौहे ।
एत्य्-एधत्य्-ऊठ्सु (*६,१.८९) इति वृद्धिः ।
अथ किमर्थमूटः क्रियते, सम्प्रसारणे एव कृते गुणे च वृद्धिरेचि (*६,१.८८) इति वृद्धौ सत्यां सिद्धं रूपं भवति प्रष्ठौहः इति, अनकारान्ते चोपपदे वहेर्ण्विर्न दृश्यते ? झापनार्थं ।
एतज्ज्ञापयति, भवत्येषा परिभाषा असिद्धं बहिरङ्गं अन्तरङ्गे इति ।
तस्यां हि सत्यां बहिरङ्गस्य सम्प्रसारणस्य असिद्धत्वातन्तरङ्गो गुणो न स्यात् । ।


____________________________________________________________________


  1. <श्व-युव-मघोनां अतद्धिते># । । PS_६,४.१३३ । ।



_____Sठाऱ्ठ्JKव्_६,४.१३३ः

श्वन्युवन्मघवनित्येतेषां अङ्गानां अतद्धिते प्रत्यये परतः सम्प्रसारणं भवति ।
शुनः ।
शुना ।
शुने ।
यूनः ।
यूना ।
यूने ।
मघोनः ।
मघोना ।
मघोने ।
अतद्धिते इति किं ? शौवं मांसं ।
यौवनं वर्तते ।
माघवनः स्थालीपाकः ।
शुनो विकारे प्राणिरजतादिभ्योऽञ्(*४,३.१५४), द्वारादित्वादैजागमः ।
श्वादीनां एतत्सम्प्रसारणं नकारान्तानां इष्यते ।
इह न भवति, युवतीः पश्य ।
मघवतः ।
मघवता ।
मघवते ।
तदर्थं उत्तरत्र योगविभागं कुर्वन्ति ।
अल्लोपः ।
अनः ।
अनः इत्युभयोः शेषः इति । ।


____________________________________________________________________


  1. <अल्-लोपोऽनः># । । PS_६,४.१३४ । ।



_____Sठाऱ्ठ्JKव्_६,४.१३४ः

अनित्येवं अन्तस्य भस्य अकारलोपो भवति ।
राज्ञः पश्य ।
राज्ञा ।
राज्ञे ।
तक्ष्णः पश्य ।
तक्ष्णा ।
तक्ष्णे ।
अनो नकारान्तस्याय लोप इष्यते ।
इह न भवति, राजकीयं इति । ।


____________________________________________________________________


[#७६१]

  1. <षपूर्व-हन्-धृतराज्ञां अणि># । । PS_६,४.१३५ । ।



_____Sठाऱ्ठ्JKव्_६,४.१३५ः
षकारपूर्वो यः अन्हनः धृतराज्ञश्च तस्य अकारलोपो भवति अणि परतः ।
औक्ष्णः ।
ताक्ष्णः ।
भ्रौणघ्नः ।
धार्तराज्ञः ।
षपूर्वहन्धृतराज्ञां इति किं ? सामनः ।
वैमनः ।
अनिति प्रकृतिभावेन अल्लोपटिलोपौ उभावपि न भवतः ।
अणि इति किं ? ताक्षण्यः । ।


____________________________________________________________________


  1. <विभाषा ङिश्योः># । । PS_६,४.१३६ । ।



_____Sठाऱ्ठ्JKव्_६,४.१३६ः

ङौ परतः शीशब्दे च अनो विभाषा अकारलोपो भवति ।
राज्ञि, राजनि ।
साम्नि, सामनि ।
साम्नी, सामनी । ।


____________________________________________________________________


  1. <न संयोगाद्व-म्-अन्तात्># । । PS_६,४.१३७ । ।



_____Sठाऱ्ठ्JKव्_६,४.१३७ः

वकार-मकारान्तात्संयोगादुत्तरस्य अनः अकारस्य लोपो न भवति ।
पर्वणा ।
पर्वणे ।
अथर्वणा ।
अथर्वणे ।
संयोगातिति किं ? प्रतिदीव्ना ।
प्रतिदीव्ने ।
साम्ना ।
साम्ने ।
वमन्तातिति किं ? तक्ष्णा ।
तक्ष्णे । ।


____________________________________________________________________


  1. <अचः># । । PS_६,४.१३८ । ।



_____Sठाऱ्ठ्JKव्_६,४.१३८ः

अचः इत्ययं अञ्चतिर्लुप्तनकारो गृह्यते ।
तदन्तस्य भस्य अकारस्य लोपो भवति ।
दधीचः पश्य ।
दधीचा ।
दधीचे ।
मधूचः पश्य ।
मधूचा ।
मधूचे । ।


____________________________________________________________________


  1. <उद ईत्># । । PS_६,४.१३९ । ।



_____Sठाऱ्ठ्JKव्_६,४.१३९ः

उदः उत्तरस्य अचः ईकारादेशो भवति ।
उदीचः ।
उदीचा ।
उदीचे । ।

____________________________________________________________________


  1. <आतो धातोः># । । PS_६,४.१४० । ।



_____Sठाऱ्ठ्JKव्_६,४.१४०ः

आकारान्तस्य धातोः भस्य लोपो भवति ।
कीलालपः पश्य ।
कीलालपा ।
कीललपे ।
शुभंयः पश्य ।
शुभंया ।
शुभंये ।
आतः इति किं ? निया ।
निये ।
धातोः इति किं ? खट्वाः पश्य ।
मालाः पश्य ।
आतः इति योगविभागः, तेन क्त्वो ल्यप्, हलः श्नः शानचित्येवं आदि सिद्धं भवति । ।


____________________________________________________________________


[#७६२]

  1. <मन्त्रेष्वाङ्यादेरात्मनः># । । PS_६,४.१४१ । ।



_____Sठाऱ्ठ्JKव्_६,४.१४१ः

मन्त्रेषु आगि परतः आत्मनः आदेर्लोपो भवति ।
त्मना देवेभ्यः ।
त्मना सोमेषु ।
मन्त्रेषु इति किं ? आत्मना कृतं ।
आङि इति किं ? यदात्मनस्तन्नो वरिष्ठा ।
आगोऽन्यत्र अपि दृश्यते ।
त्मन्या समञ्जन् । ।


____________________________________________________________________


  1. <ति विंशतेर्डिति># । । PS_६,४.१४२ । ।



_____Sठाऱ्ठ्JKव्_६,४.१४२ः

भस्य विंशतेः तिशब्दस्यङिति प्रत्यये लोपो भवति ।
विंशत्या क्रीतः विंशकः ।
विंशं शतं ।
विंशतेः पूर्णो विंशः ।
एकविंशः ।
डिति इति किं ? विंशत्या । ।


____________________________________________________________________


  1. <टेः># । । PS_६,४.१४३ । ।



_____Sठाऱ्ठ्JKव्_६,४.१४३ः

टिसञ्ज्ञकस्य डिति प्रत्यये परतः लोपो भवति ।
कुमुद्वान् ।
नड्वान् ।
वेतस्वान् ।
उपसरजः ।
मन्दुरजः ।
त्रिंशता क्रीतः त्रिंशकः ।
डिति अभस्य अपि अनुबन्धकरणसामर्थ्यत्टिलोपो भवति । ।


____________________________________________________________________


  1. <नस्तद्धिते># । । PS_६,४.१४४ । ।



_____Sठाऱ्ठ्JKव्_६,४.१४४ः

नकारान्तस्य भस्य टेः लोपो भवति तद्धिते परतः ।
आग्निशर्मिः ।
औडुलोमिः ।
बाह्वादित्वादिञ्प्रत्ययः ।
नः इति किं ? सात्वतः ।
तद्धिते इति किं ? शर्मणा ।
शर्मने ।
नानतस्य टिलोपे सब्रह्मचारि-पीठसर्पि-कलापि-कुथुमि. तैतिलि-जाजलिलाङ्ग-लिशिलालि-शिखण्डि-सूकरसद्म-सुपर्वणां उपसङ्ख्यानं कर्तव्यं ।
अत्र ये इन्नन्ताः तेषां इनण्यनपत्ये (*६,४.१६४) इति प्रकृतिभावः प्राप्तः, ये तु अनन्ताः तेषां अन्(*६,४.१६७) इति ।
सब्रह्मचारिणः इमे साब्रह्मचाराः, पीठसर्पिणः पैठसर्पाः ।
कलापिना प्रोक्तमधीयते कालापाः, कुथुमिनः कौथुमाः ।
तैतिलिजाजलिनौ आचार्यौ, तत्कृतो ग्रन्थः उपचारात्तैतिलिजाजलिशब्दाभ्यां अभिधीयते, तं ग्रन्थमधीयते तैतिलाः, जाजलाः ।
शैशिकेष्वर्थेषु वृद्धत्वादत्र छः प्राप्नोति ।
एवं लाङ्गलाः ।
शैलालाः ।

[#७६३]

शिखण्डिनः शैखण्डाः ।
सूकरसद्मनः सौकरसद्माः ।
सुपर्वणः सौपर्णाः ।
अश्मनो विकार उपसङ्ख्यानं ।
अश्मनो विकारः आश्मः ।
अश्मनोऽन्यः ।
चर्मणः कोश उपसङ्ख्यानं ।
चार्मः कोशः ।
चार्मणोऽन्यः ।
शुनः सङ्कोच उपसङ्ख्यानं ।
शौवः सङ्कोचः ।
शौवनोऽन्यः ।
अव्ययानां च सायंप्रतिकाद्यर्थं उपसङ्ख्यानं ।
के पुनः सायंप्रातिकादयः ? येषां अव्ययानां अविहितष्टिलोपः, प्रयोगे च दृश्यते, ते सायंप्रातिकप्रकाराः ग्रहीतव्याः ।
सायंप्रातर्भवः सायंप्रातिकः ।
पौनःपुनिकः ।
बाह्यः ।
कौतस्कुतः ।
कालाट्ठञ्(*४,३.११) इति ठञ्प्रत्ययः ।
ट्युट्युलौ तु नेष्येते ।
आरातीयः, शाश्वतिकः, शाश्वतः इत्येवं आदिषु न दृश्यते टिलोपः । ।


____________________________________________________________________


  1. <अह्नष्ट-खेरेव># । । PS_६,४.१४५ । ।



_____Sठाऱ्ठ्JKव्_६,४.१४५ः

अहनित्येतस्य टखोरेव परतः टिलोपो भवति ।
द्वे अहनी समाहृते द्व्यहः त्र्यहः ।
द्वे अहनी अधीष्टो भृतो भूतो भावी वा द्व्यहीनः ।
त्र्यहीनः ।
अह्नां समूहः क्रतुः अहीनः ।
अह्नः समूहे खो वक्तव्यः ।
सिद्धे सति आरम्भो नियमार्थः ।
इह मा भूत्, अह्ना निर्वृत्तं आह्निकं ।
एवकारकरणं विस्पष्टार्थं ।
अह्नः एव टखोः इत्येवं नियमो न भविस्यति, आत्माध्वानौ खे (*६,१.१६९) इति प्रकृतिभावविधानात् । ।


____________________________________________________________________


  1. <ओर्गुणः># । । PS_६,४.१४६ । ।



_____Sठाऱ्ठ्JKव्_६,४.१४६ः
उवर्णान्तस्य भस्य गुणो भवति तद्धिते परतः ।
बाभ्रव्यः ।
माण्डव्यः ।
शङ्कव्यं दारु ।
पिचव्यः कार्पासः ।
कमण्डलव्या मृत्तिका ।
परशव्यमयः ।
औपगवः ।
कापटवः ।
ओरोतिति वक्तव्ये गुणग्रहणं सञ्ज्ञापूर्वको विधिरनित्यो यथा स्यात्, तेन स्वायम्भुवः इति सिद्धं भवति । ।


____________________________________________________________________


[#७६४]

  1. <ढे लोपोऽकद्र्वाः># । । PS_६,४.१४७ । ।



_____Sठाऱ्ठ्JKव्_६,४.१४७ः

ढे परतः उवर्णान्तस्य भस्य अकर्वाः लोपो भवति ।
कामण्डलेयः ।
शैतवाहेयः ।
जांवेयः ।
माद्रबाहेयः ।
अकद्र्वाः इति किं ? काद्रवेयो मन्त्रं अपश्यत् । ।


____________________________________________________________________


  1. <यस्य+इति च># । । PS_६,४.१४८ । ।



_____Sठाऱ्ठ्JKव्_६,४.१४८ः

इवर्णान्तस्य अवर्णातस्य च भस्य इकारे परे तद्धिते च लोपो भवति ।
इवर्णान्तस्य ईकारे - दाक्षी ।
प्लाक्षी ।
सखी ।
सवर्नदीर्घत्वे हि सति अतिसखेरागच्छति इत्यत्र एकादेशस्य अन्तवत्त्वादस्खि इति घिसञ्ज्ञायाः प्रतिषेधः स्याथ् ।
इवर्णान्तस्य तद्धिते - दुलि - दौलेयः ।
वलि - वालेयः ।
अत्रि - आत्रेयः ।
अवर्णान्तस्य ईकारे - कुमारी ।
गौरी ।
शार्ङ्गरवी ।
अवर्णान्तस्य तद्धिते - दाक्षिः ।
प्लाक्षिः ।
चौडिः ।
बालाकिः ।
स्ॐइत्रिः ।
यस्येत्यौङः श्यां प्रतिषेधो वक्तव्यः ।
काण्डे ।
कुड्ये ।
सौर्ये हिमवतः शृङ्गे ।
औङः शीभावे कृते यस्य+इति च इति, सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः (*६,४.१४९) इति च लोपः प्राप्नोति ।
इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन ।
वत्सान्प्रीणाति वत्सप्रीः, तस्य अपत्यं वात्सप्रेयः ।
चतुष्पाद्भ्यो डञ्(*४,१.१३५) इति ढञ्प्रत्ययः ।
लोखाभ्रूः शुभ्रादिः, तस्याः अपत्यं लैखाभ्रेयः । ।


____________________________________________________________________


  1. <सूर्य-तिष्य-अगस्त्य-मत्स्यानां य उपधायाः># । । PS_६,४.१४९ । ।



_____Sठाऱ्ठ्JKव्_६,४.१४९ः

सूर्य तिस्य अगस्त्य मत्स्य इत्येतेषां यकारस्य उपधायाः भस्य लोपो भवति ईति परतस्तद्धिते च ।
सूर्येणैकदिक्सौरी बलाका ।
अणि यो यस्य+इति लोपः तस्य असिद्धत्वं न अस्ति, व्याश्रयत्वाथ् ।
ईकारे तु यस्तस्या - सिद्धत्वादुपधायकारो भस्याणन्तस्य सूर्यस्य सम्बन्धी इति लुप्यते ।
तिष्य तैष्महः ।
तैषी रात्रिः ।
अगस्त्य - अगस्त्यस्य अपत्यं स्त्री, ऋषित्वादणि कृते आगस्ती ।
आगस्तीयः ।
मत्स्य - गौरादित्वात्ङीष्, मत्सी ।
उपधायाः इति किं ? मत्स्यचरी ।
यग्रहणं उत्तरार्थं ।
विषयपरिगणनं अत्र कर्तव्यं ।

[#७६५]

मत्स्यस्य ङ्यां इति वक्तव्यं ।
इह मा भूत्, मत्स्यस्य+इदं मांसं मात्स्यं ।
सूर्यागस्त्ययोश्छे च ग्यां च ।
सौरीयः ।
सौरी ।
आगस्तीयः ।
आगस्ती ।
इह मा भूत्, सौर्यं चरुं निर्वपेथ् ।
आगस्त्यः ।
तिष्यपुष्ययोर्नक्षत्राणि ।
तिष्येण नक्षत्रेण युक्तः कालः तैषः ।
पौषः ।
अन्तिकस्य तसि कादिलोप आद्युदात्तं च ।
अन्तिकशब्दस्य तसिप्रत्यये परतः ककारदेः शब्दस्य लोपः, आद्युदात्तत्वं च ।
अन्तितो न दूराथ् ।
तमे तादेश्च ।
तमप्रत्यये अन्तिकशब्दस्य तकारादेः ककारादेश्च लोपो वक्तव्यः ।
तत्र तादिलोपे - अन्तमः ।
कादिलोपे - अन्तितमः ।
कादिलोपे बहुलं इति वक्तव्यं ।
अन्यत्र अपि हि वृश्यते, अन्तिके सीदति इति अन्तिषथ् ।
पूर्वपदात्(*८,३.१०६) इति षत्वं ।
ये च ।
अन्तियः । ।


____________________________________________________________________


  1. <हलस्तद्धितस्य># । । PS_६,४.१५० । ।



_____Sठाऱ्ठ्JKव्_६,४.१५०ः

तद्धिते इति निवृत्तं ।
हल उत्तरस्य तद्धितयकारस्य उपधायाः ईति परतो लोपो भवति ।
गार्गी ।
वात्सी ।
हलः इति किं ? कारिकेयी ।
तद्धितस्य इति किं ? वैद्यस्य भार्या वैध्यी । ।


____________________________________________________________________


[#७६६]

  1. <आपत्यस्य च तद्धितेऽनाति># । । PS_६,४.१५१ । ।



_____Sठाऱ्ठ्JKव्_६,४.१५१ः

आपत्ययकारस्य हलः उत्तरस्य तद्धिते अनाकारादौ लोपो भवति ।
गार्ग्याणां समूहो गार्गकं ।
वात्सकं ।
आपत्यस्य इति किं ? साङ्काश्यकः ।
काम्पिल्यकः ।
तद्धितग्रहणं ईत्यनापत्यस्य अपि लोपार्थं ।
स्ॐई इष्टिः ।
अनाति इति किं ? गार्ग्यायणः ।
वात्स्यायनः ।
हलः इत्येव, कारिकेयस्य अपत्यं कारिकेयिः । ।


____________________________________________________________________


  1. <क्यच्व्योश्च># । । PS_६,४.१५२ । ।



_____Sठाऱ्ठ्JKव्_६,४.१५२ः

क्य च्वि इत्येतयोश्च परतः आपत्ययकारस्य हल उत्तरस्य लोपो भवति ।
वात्सीयति ।
गार्गीयति ।
वात्सीयते ।
गार्गीयते ।
च्वौ - गार्गीभूतः ।
वात्सीभूतः ।
आपत्यस्य इत्येव, साङ्काश्यायते ।
साङ्काश्यभूतः ।
हलः इत्येव, कारिकेयीयति ।
कारिकेयीभूतः । ।


____________________________________________________________________


  1. <बिल्वक-आदिभ्यश्छस्य लुक्># । । PS_६,४.१५३ । ।



_____Sठाऱ्ठ्JKव्_६,४.१५३ः

नडादिषु बल्वादयः पठ्यन्ते ।
नडादीनां कुक्च (*४,२.९१) इति कृतकुगागमा बिल्वकादयो भवन्ति ।
तेभ्यः उत्तरस्य छस्य भस्य तद्धिते परतो लुग्भवति ।
बिल्वा यस्यां सन्ति बिल्वकीया, तस्यां भवाः बैल्वकाः ।
वेणुकीया - वैणुकाः ।
वेत्रकीया - वैत्रकाः ।
वेतसकीया - वैतसका ।
तृणकीया - तार्णकाः ।
इक्षुकीया ऐक्षुकाः ।
काष्ठकीया - काष्ठकाः ।
कपोतकीया - कापोतकाः ।
क्रुञ्चायां ह्रस्वत्वं च ।
क्रुञ्चकीया - क्रौञ्चकाः ।
छग्रहणं किं ? छमात्रस्य लुग्यथा स्यात्, कुको निवृत्तिर्मा भूतिति ।
अन्यथा हि संनियोगशिष्टानां अन्यतरापाये उभयोरपि अभावः इति कुगपि निवर्तेत ।
लुग्ग्रहणं सर्वलोपो यथा स्याद्, यकारमात्रस्य मा भूत् । ।


____________________________________________________________________


  1. <तुरिष्ठ-इम-ईयस्सु># । । PS_६,४.१५४ । ।



_____Sठाऱ्ठ्JKव्_६,४.१५४ः

इष्ठनिमनिचीयसुनित्येतेषु परतः तृशब्दस्य लोपो भवति ।
आसुतिं करिष्ठः ।
विजयिष्ठः ।
वहिष्ठः ।
दोहीयसी धेनुः ।
सर्वस्य तृशब्दस्य लोपार्थं वचनं ।
अन्त्यस्य हि टेः (*६,४.१५५) इत्येव सिद्धः ।
लुगित्येतदत्र न अनुवर्तते, तथा हि सति न लुमताङ्गस्य (*१,१.६३) इति प्रतिषेधाद्गुणो न स्याथ् ।
इमनिज्ग्रहणं उत्तरार्थं ।
इतरौ तु तुश्छन्दसि (*५,३.५९) इति भवतः । ।


____________________________________________________________________


[#७६७]

  1. <टेः># । । PS_६,४.१५५ । ।



_____Sठाऱ्ठ्JKव्_६,४.१५५ः
भस्य टेर्लोपो भवति इष्ठेमेयस्सु परतः ।
पटु - पटिष्ठः ।
पटिमा ।
पटीयान् ।
लघु - लघिष्ठः ।
लघिमा ।
लघीयान् ।
णाविष्ठवत्प्रातिपदिकस्य कार्यं भवति इति वक्तव्यं ।
किं प्रयोजनं ? पुंवद्भावरभावटिलोपयणादि. परार्थं ।
पुंवद्भावः - एनीमाचष्टे एतयति ।
श्येतयति ।
तसिलादिष्वाकृत्वसुचः (*६,३.३५) इति इष्ठे पुंवद्भावः उक्तः ।
रभावः - पृथुमाचष्टे प्रथयति ।
म्रदयति ।
टिलोपः - पटुनाचष्टे पटयति ।
लघयति ।
यणादिपरं - स्थूलमाचष्टे स्थवयति ।
भारद्वाजीयास्तु पठन्ति, णाविष्ठवत्प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरविन्मतोर्लुक्कनर्थं इति ।
स्रग्विणमाचष्टे स्रजयति ।
वसुमन्तमाचष्टे वसयति ।
युवानमाचष्टे यवयति ।
कन्यति ।
एतदुभयं अपि उदाहरणमात्रम्, न परिगणनं ।
प्रादयोऽपि हीष्यन्ते, प्रियमाचष्टे प्रापयति । ।


____________________________________________________________________


  1. <स्थूल-दूर-युव-ह्रस्व-क्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः># । । PS_६,४.१५६ । ।



_____Sठाऱ्ठ्JKव्_६,४.१५६ः

स्थूल दूर युव ह्रस्व क्षिप्र क्षुद्र इत्येतेषां यणादिपरं लुप्यते इष्ठेमेयस्सु परतः, पूर्वस्य च गुणो भवति ।
स्थूल - स्थविष्ठः ।
स्थवीयान् ।
दूर - दविष्ठः ।
दवीयान् ।
युवन्- यविष्ठः ।
यवीयान् ।
ह्रस्व - ह्रसिष्ठः ।
ह्रसिमा ।
ह्रसीयान् ।
क्षिप्र - क्षेपिष्ठः ।
क्षेपिमा ।
क्षेपीयान् ।
क्षुद्र - क्षोदिष्ठः ।
क्षोदिमा ।
क्षोदीयान् ।
ह्रस्वक्षिप्रक्षुद्रशब्दाः पृथ्वादिषु पठ्यन्ते ।
परग्रहणं किं ? यविष्ठः, यवीयान्, ह्रसिष्ठः, ह्रसीयानित्यत्र पूर्वस्य यणादेर्लोपो मा भूथ् ।
पूर्वग्रहणं विस्पष्टार्थं । ।


____________________________________________________________________

  1. <प्रिय-स्थिर-स्फिर-उरु-बहुल-गुरु-वृद्ध-तृप्र-दीर्घ-वृन्दारकाणां प्र-स्थ-स्फ-वर्-बंहि-गर्-वर्षि-त्रब्-द्राघि-वृन्दाः># । । PS_६,४.१५७ । ।



_____Sठाऱ्ठ्JKव्_६,४.१५७ः

प्रिय स्थिर स्फिर उरु बहुल गुरु वृद्ध तृप्र दीर्घ वृन्दारक इत्येतेषां प्र स्थ स्फ वर्बंहि गर्वर्षि त्रप्द्राधि वृन्द इत्येते यथासङ्ख्यं आदेशा भवन्ति इष्ठेमेयस्सु परतः ।
प्रिय - प्रेष्ठः ।
प्रेमा ।
प्रेयान् ।
स्थिर - स्थेष्ठः ।
स्थेयान् ।
स्फिर - स्फेष्ठः ।
स्फेयान् ।
उरु - वरिष्ठः ।
वरिमा ।
वरीयान् ।
बहुल - बंहिष्ठः ।
बंहिमा ।
बंहीयान् ।
गुरु - गरिष्थः ।
गरिमा ।
गरीयान् ।
वृद्ध - यर्षिष्ठः ।
वर्षीयान् ।
तृप्र - त्रपिष्ठः ।
त्रपीयान् ।
दीर्घ - द्राधिष्ठः ।
द्राधिमा ।
द्राधीयान् ।
वृन्दारक - वृन्दिष्ठः ।
वृन्दीयान् ।
प्रियोरुगुरुबहुलदीर्घाः पृथ्वादिषु पठ्यन्ते, तेन अन्येषामिमनिज्न भवति इति नोदाह्रियते । ।


____________________________________________________________________


[#७६८]

  1. <बहोर्लोपो भू च बहोः># । । PS_६,४.१५८ । ।



_____Sठाऱ्ठ्JKव्_६,४.१५८ः

बहोरुत्तरेषां इष्थेमेयसां लोपो भवति, तस्य च बहोः स्थाने भू इत्ययं आदेशो भवति ।

[#७६७]

भूमा ।
भूयान् ।
बहुशब्दः पृथ्वादिषु पठ्यते ।
बहोरिति पुनर्ग्रहणं स्थानित्वप्रतिपत्त्यर्थम्, अन्यथा हि प्रत्ययानां एव भूभावः स्यात् । ।


____________________________________________________________________

[#७६८]

  1. <इष्ठस्य यिट्च># । । PS_६,४.१५९ । ।



_____Sठाऱ्ठ्JKव्_६,४.१५९ः

बहोरुत्तरस्य इष्ठस्य यिडागमो भवति, बहोश्च भूरादेशो भवति ।
भूयिष्ठः ।
लोपापवादो यिडागमः, तस्मिन्निकार उच्चारणार्थः । ।


____________________________________________________________________


  1. <ज्यादादीयसः># । । PS_६,४.१६० । ।



_____Sठाऱ्ठ्JKव्_६,४.१६०ः

ज्यदुत्तरस्य ईयसः आकार आदेशो भवति ।
ज्यायान् ।
लोपस्य यिटा व्यवहितत्वातातित्युच्यते ।
लोपे हि सति अकृद्यकार इति दीर्घत्वेन ज्यायानिति सिध्यति । ।


____________________________________________________________________


  1. <र ऋतो हलादेर्लघोः># । । PS_६,४.१६१ । ।



_____Sठाऱ्ठ्JKव्_६,४.१६१ः

रशब्द आदेशो भवति ऋकारस्य हलादेर्लघोः इष्ठेमेयस्सु परतः ।
प्रथिष्ठः ।
प्रथिमा ।
प्रथीयान् ।
म्रदिष्ठः ।
म्रदिमा ।
म्रदीयान् ।
ऋतः इति किं ? पटिष्ठः स् ।
पटिमा ।
पटीयान् ।
हलादेः इति किं ? ऋजिष्ठः ।
ऋजिमा ।
ऋजीयान् ।
लघोः इति किं ? कृष्णा - कृष्णिष्ठः ।
कृष्णिमा ।
कृष्णीयान् ।
परिगणनं अत्र कर्तव्यं ।
पृथुं मृदुं भृशं च+एव कृशं च दृढं एव च ।
परिपूर्वं वृढं च+एव षडेतान्रविधौ स्मरेत् । ।
ततः इह न भवति, कृतमाचष्टे कृतयति ।
मातरमाचष्टे मातयति ।
भ्रातयति । ।


____________________________________________________________________


  1. <विभाषा र्जोश्छन्दसि># । । PS_६,४.१६२ । ।



_____Sठाऱ्ठ्JKव्_६,४.१६२ः

ऋजु इत्येतस्य ऋतः स्थाने विभाषा रेफ आदेशो भवति इष्ठेमेयस्सु परतः छन्दसि विषये ।
रजिष्ठमनु नेषि पन्थां ।
त्वमृजिष्ठः । ।


____________________________________________________________________


[#७६९]

  1. <प्रकृत्या+एक-अच्># । । PS_६,४.१६३ । ।



_____Sठाऱ्ठ्JKव्_६,४.१६३ः

एकाच्यद्भसञ्ज्ञाकं तदिष्ठेमेयस्सु परतः प्रकृत्या भवति ।
स्रग्विन्नित्येतस्य विन्नन्तस्य स्रजिष्ठः, स्रजीयान्, स्रजयति ।
स्रुग्वदित्येतस्य मत्वन्तस्य स्रुचिष्थः, स्रुचीयान्, स्रुचयति ।
एकाचिति किं ? वसुमतित्येतस्य वसिष्ठः, वसीयान् ।
प्रकृत्याऽके राजन्यमनुष्ययुवानः ।
अके प्रत्यये परतो राजन्य मनुष्य युवनित्येते प्रकृत्या भवन्ति ।
राजन्यानां समूहो राजन्यकं ।
मनुष्याणां समूहो मानुष्यकं ।
आपत्यस्य च तद्धितेऽनाति (*६,४.१५१) इति यलोपः प्रकृतिभावेन न भवति ।
यूनो भावः यौवनिका ।
मनोज्ञादित्वाद्वुञ् ।
तस्य नस्तद्धिते (*६,४.१४४) इति टिलोपो न भवति । ।


____________________________________________________________________


  1. <इनण्य्-अनपत्ये># । । PS_६,४.१६४ । ।



_____Sठाऱ्ठ्JKव्_६,४.१६४ः

इन्नन्तमनपत्यार्थे अणि परतः प्रकृत्या भवति ।
साङ्कूटिनं ।
सांराविणं ।
सांमार्जिनं ।
अभिविधौ भाव इनुण्(*३,३.४४), अणिनुणः (*५,४.१५) इत्यण् ।
स्रग्विण इदं स्राग्विणं ।
अणि इति किं ? दण्डिनां समूहो दाण्डं ।
अनुदात्तादेरञ्(*४,२.४४) इति अञ्प्रत्ययः ।
अनपत्ये इति किं ? मेधाविनोऽपत्यं मैधावः । ।


____________________________________________________________________


  1. <गाथि-विदथि-केशि-गणि-पणिनश्च># । । PS_६,४.१६५ । ।



_____Sठाऱ्ठ्JKव्_६,४.१६५ः

गाथिन्विदथिन्केशिन्गणिन्पणिनित्येते च अणि प्रकृत्या भवन्ति ।
गाथिनः अपत्यं गाथिनः ।
वैदथिनः ।
कैशिनः ।
गाणिनः ।
पाणिनः ।
अपत्यार्थोऽयं आरम्भः । ।


____________________________________________________________________


  1. <संयोग-आदिश्च># । । PS_६,४.१६६ । ।



_____Sठाऱ्ठ्JKव्_६,४.१६६ः

संयोगादिश्च इनणि प्रकृत्या भवति ।
शङ्खिनोऽपत्यं शाङ्खिनः ।
माद्रिणः ।
वाज्रिणः । ।


____________________________________________________________________


  1. <अन्># । । PS_६,४.१६७ । ।



_____Sठाऱ्ठ्JKव्_६,४.१६७ः
अन्नन्तमणि प्रकृत्या भवति अपत्ये चानपत्ये च ।
सामनः ।
वैमनः ।
सौत्वनः ।
जैत्वनः । ।


____________________________________________________________________


[#७७०]

  1. <ये च अभाव-कर्मणोः># । । PS_६,४.१६८ । ।



_____Sठाऱ्ठ्JKव्_६,४.१६८ः

यकारादौ च तद्धिते अभावकर्मणोरर्थयोः अन्प्रकृत्या भवति ।
सामसु साधुः सामन्यः ।
वेमन्यः अभावकर्मणोः इति किं ? राज्ञो भावः कर्म वा राज्यं ।
राजनिति पुरोहितादिषु पठ्यते, ततोऽयं यक्प्रत्ययः । ।


____________________________________________________________________


  1. <आत्म-अध्वानौ खे># । । PS_६,४.१६९ । ।



_____Sठाऱ्ठ्JKव्_६,४.१६९ः

आत्मनध्वनित्येतौ खे परतः प्रकृत्या भवतः ।
आत्मने हितः आत्मनीनः ।
अध्वानमलङ्गामी अध्वनीनः ।
खे इति किं ? प्रत्यात्मं ।
प्राध्वं ।
प्रत्यात्मं इति अव्ययीभावे अनश्च (*५,४.१०८) इति समासान्तः टच्प्रत्ययः ।
प्राध्वं इति उपसर्गादध्वनः (*५,४.८५) इति अच्प्रत्ययः । ।

____________________________________________________________________


  1. <न मपूर्वोऽपत्येऽवर्मणः># । । PS_६,४.१७० । ।



_____Sठाऱ्ठ्JKव्_६,४.१७०ः

मपूर्वः अनवर्मणोऽणि परतोऽपत्येऽर्थे न प्रकृत्या भवति ।
सुषाम्णोऽपत्यं सौषामः ।
चान्द्रसामः ।
मपूर्वः इति किं ? सौत्वनः ।
अपत्ये इति किं ? चर्मणा परिवृतो रथः चार्मणः ।
अवर्मनः इति किं ? चक्रवर्मणोऽपत्यं चाक्रवर्मणः ।
मपूर्वप्रतिषेधे वा हितनाम्न इति वक्तव्यं ।
हितनाम्नोऽपत्यं हैतनामः, हैतनामनः । ।


____________________________________________________________________


  1. <ब्राह्मोऽजातौ># । । PS_६,४.१७१ । ।



_____Sठाऱ्ठ्JKव्_६,४.१७१ः

योगविभागोऽत्र क्रियते ।
ब्राह्मः इत्येतदपत्याधिकारेऽपि सामर्थ्यादपत्यादन्यत्राणि टिलोपार्थं निपात्यते ।
ब्राह्मो गर्भः ।
ब्राह्ममस्त्रं ।
ब्राह्मं हविः ।
ततः अजातौ ।
अपत्ये इत्येव ।
अपत्ये आतावणि ब्रह्मणष्टिलोपो न भवति ।
ब्रह्मणोऽपत्यं ब्राह्मणः ।
अपत्ये इत्येव, ब्राह्मी ओषधिः । ।

____________________________________________________________________


  1. <कार्मस्ताच्छील्ये># । । PS_६,४.१७२ । ।



_____Sठाऱ्ठ्JKव्_६,४.१७२ः

कार्मः इति ताच्छील्ये टिलोपो निपात्यते ।
कर्मशीलः कार्मः ।
शीलम्, छत्रादिभ्यो णः (*४,४.६१) इति णप्रत्ययः ।
यद्येवं किं अर्थं इदम्, नस्तद्धिते (*६,४.१४४) इत्येव टिलोपः सिद्धः ? सत्यं एतथ् ।
ज्ञापकार्थं तु ।
एतज्ज्ञापयति ताच्छीलिके णेऽण्कृतानि भवन्ति इति ।
तेन चौरी, तापसी इति णान्तादपि ईकारः सिद्धो भवति ।
ताच्छील्ये इति किं ? कर्मणः इदं कार्मणं । ।


____________________________________________________________________


[#७७१]

  1. <औक्षं अनपत्ये># । । PS_६,४.१७३ । ।



_____Sठाऱ्ठ्JKव्_६,४.१७३ः

औक्षं इति अनपत्येऽणि टिलोपो निपात्यते औक्षं पदं ।
अनप्त्ये इति किं ? उक्ष्णोऽपत्यं औक्ष्णः ।
षपूर्वहन्धृतराज्ञां अणि (*६,४.१६५) इत्यलोपः । ।


____________________________________________________________________


  1. <दाण्डिनायन-हास्तिनायन-आथर्वणिक-जैह्माशिनेय-वासिनायनि-भ्रौणहत्य-धैवत्य-सारव-ऐक्ष्वाक-मैत्रेय-हिरण्मयानि># । । PS_६,४.१७४ । ।


_____Sठाऱ्ठ्JKव्_६,४.१७४ः

दाण्दिनायन हास्तिनायन आथर्वणिक जैह्माशिनेय वासिनायनि भ्रौणहत्य धैवत्य सारव ऐक्ष्वाक मैत्रेय हिरण्मय इत्येतानि निपात्यन्ते ।
दण्डिन्हस्तिनित्येतौ नडादिषु पठयेते, तयोरायने परतः प्रकृतिभावो निपात्यते ।
केषांचित्तु हस्तिनिति नडादिषु न पठ्यते, तेषां अत एव निपातनात्फगपि भवति ।
दण्डिनोऽपत्यं दाण्दिनायनः ।
हस्तिनोऽपत्यं हास्तिनायनः ।
अथर्वनिति वसन्तादिषु पठ्यते ।
अथर्वणा प्रोक्तो ग्रन्थोऽपि उपचारातथर्वनिति उच्यते, तमधीते यः स आथर्वणिकः ।
इके प्रकृतिभावो निपात्यते ।
जिह्माशिनिति शुभ्रादिषु पठ्यते, तस्य ण्ये परतः प्रकृतिभावो निपात्यते ।
जिह्माशिनोऽपत्यं जैह्माशिनेयः ।
वासिनोऽपत्यं ।
ज्दीचां वृद्धादगोत्रात्(*४,१.१५७) इति फिञ् ।
तत्र प्रकृतिभावो निपात्यते ।
वासिनायनिः ।
भ्रूणहन्, धीवनित्येतयोः ष्यञि परतः तकारादेशो निपात्यते ।
भ्रूणघ्नः भावः भ्रौणहत्यं ।
धीव्नः भावः धैवत्यं ।
हनस्तोऽचिण्णलोः (*७,३.३२) इति यत्तत्वं तद्धातुप्रत्यय एव इति भ्रौणघ्नः, वार्त्रघ्नः इत्यत्र न भवति, अतः भ्रौणहत्ये तत्वं निपात्यते ।
सारव इति सरयू इत्येतस्य अणि परतो यूशब्दस्य व इत्यादेशो निपात्यते ।
सरय्वां भवं सारवं उदकं ।
ऐक्ष्वाक इति स्वरसर्वनाम्ना एकश्रुत्या पठ्यते ।
ततोऽयं आद्युदात्तोऽन्तोदात्तश्च निपात्यते ।
इक्ष्वाकोः उपत्यम्, जनपदशब्दात्क्षत्रियादञ्(*४,१.१६६) इति अञ्, तत्र उकारलोपो निपात्यते ।
ऐक्ष्वाकः ।
इक्ष्वाकुषु जनपदेषु भवः, कोपधादण्(*४,२.१३२) इत्यण् ।
ऐक्ष्वाकः ।
मैत्रेय इति ।
मित्रयुशब्दो गृष्ट्यादिषु पठ्यते, ततो ढञि कृते यादेरियादेशापवादो युशब्दलोपो निपात्यते ।
मित्रयोरपत्यं मैत्रेयः ।

[#७७२]

अथ किमर्थं मित्रयुशब्दो बिदादिष्वेव न पठ्यते, तत्राञि कृते यादेः इति इयादेशेनैव सिद्धम्, एवं च युलोपार्थं निपातनं कर्तव्यं न भवति, यस्कादिषु च बहुषु लुगर्थः पाठो न कर्तव्यो भवति, मित्रयवः इत्यञः यञञोश्च (*२,४.६४) इत्येव हि लुकः सिद्धत्वात्? न+एतदस्ति ।
मित्रयूणां सङ्घः इत्यत्र गोत्रचरणाद्वुञं बाधित्वा मैत्रेयकः सङ्घः इत्यत्र सङ्घ-अङ्क-लक्षणेष्वञ्. यञ्-इञां अण्(*४,३.१२७) इति अण्प्राप्नोति ।
हिरण्मयं इति हिरण्यस्य मयटि यादिलोपो निपात्यते, हिरण्यस्य विकारः हिरण्मयः । ।

____________________________________________________________________


  1. <ऋत्व्य-वास्त्व्य-वास्त्व-माध्वी-हिरण्ययानि च्छन्दसि># । । PS_६,४.१७५ । ।



_____Sठाऱ्ठ्JKव्_६,४.१७५ः

ऋत्व्य वास्त्व्य वास्त्व माध्वी हिरण्यय इत्येतानि निपात्यन्ते छन्दसि विषये ।
ऋतु वास्तु इत्येतयोः यति यणदेशो निपात्यते ।
ऋतौ भवं ऋत्व्यं ।
वास्तौ भवं वास्त्व्यं ।
वस्तुशब्दस्य अणि यणादेशो निपात्यते ।
वस्तुनि भवः वास्त्वः ।
मधुशब्दस्य अणि स्त्रियां यणादेशो निपात्यते ।
माध्वीर्नः सन्त्वोषधीः ।
हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते ।
हिरण्ययं । ।
इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य चतुर्थः पादः । ।


______________________________________________________