काशिकावृत्तिः/सप्तमोध्यायः
← षष्टोध्यायः | काशिकावृत्तिः सप्तमोध्यायः [[लेखकः :|]] |
अष्टमोध्यायः → |
युवोरनाकौ ॥ ७,१.१ ॥
_____ काशिकावृत्तिः७,१.१:
यु वु इत्येतयोः उत्सृष्टविशेषणयोः अनुनासिकयणोः प्रत्यययोर्ग्रहणम्, तयोः स्थाने यथासङ्ख्यमन अक इत्येतावादेशौ भवतः ।
योः अनः, वोः अकः ।
नन्द्यादिभ्यो ल्युः नन्दनः ।
रमणः ।
सायमादिभ्यष्ट्युट्युलौ तुट्च सायनतनः ।
चिरन्तनः ।
ण्वुल्तृचौ कारकः ।
हारकः ।
वासुदेवार्जुनाभ्यां वुन् (*४,३.९८) वूसुदेवकः ।
अर्जुनकः ।
अनुनासिकयणोः इति किम् ? ऊर्णाया युस्(*५,२.१२३) ऊर्णायुः ।
भुजिमृङ्भ्यां युक्त्युकौ भुज्युः, मृत्युः इति ।
एवमादीनां हि यणोऽनुनासिकत्वं न प्रतिज्ञायते, प्रतिज्ञानुनासिक्याः पाणिनीयाः ।
इह युवोरिति निर्देशाद्द्वन्द्वैकवद्भावपक्षे अनित्यमागमशासनमिति नुं न क्रियते ।
नपुंसकलिङ्गता वा लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य इति न भवति ।
इतरेतरपक्षे तु छान्दसत्वात्वर्णलोपो द्रष्टव्यः ।
युवोश्चेद्द्वित्वनिर्देशो द्वित्वे यण्तु प्रसज्यते ।
अथ चेदेकवद्भावः कथं पुंवद्भवेदयम् ॥
द्वित्वे वैगमिको लोप एकत्वे नुमनित्यता ।
अशिष्यत्वाद्धि लिङ्गस्य पुंस्त्वं वेह समाश्रितम् ॥
आयनेयीनीयियः फढखछघां प्रत्ययाअदीनाम् ॥ ७,१.२ ॥
_____ काशिकावृत्तिः७,१.२:
आयनेयीनीयियित्येते आदेशाः भवन्ति यथासङ्ख्यं फ ढ ख छ घ इत्येतेषा प्रत्ययादीनाम् ।
फ इत्येतस्य आयनादेशो भवति ।
नडादिभ्यः फक्(*४,१.९९) नाडायनः ।
चारायणः ।
ढस्य एयादेशो भवति ।
स्त्रीभ्यो ढक्(*४,१.१३०) सौपर्णेयः ।
वैनतेयः ।
खस्य ईनादेशो भवति कुलात्खः (*४,१.१३९) आढ्यकुलीनः ।
श्रोत्रियकुलीनः ।
छस्य ईयादेशो भवति ।
वृद्धाच्छः (*४,२.११४) गार्गीयः ।
वात्सीयः ।
घ इत्येतस्य इयादेशो भवति ।
क्षत्राद्धः (*४,१.१३८) क्षत्रियः ।
प्रत्ययग्रहणं किम् ? फक्कति ।
ढौकते ।
खनति ।
छिनत्ति ।
घूर्णते ।
आदिग्रहणं किम् ? ऊरुदघ्नम् ।
जानुदघ्नम् ।
एते आयन्नादयः प्रत्ययोपदेशकाल एव भवन्ति ।
कृतेष्वेतेषु प्रत्ययाद्युदात्तत्वं भवति, तथा च घच्छौ च (*४,४.११७) इति घचश्चित्करनमर्थवद्भवति ।
शङ्खः, षण्ढः इत्येवमादीनां हि उणादयो बहुलमिति बहुलवचनादादेशा न भवन्ति ।
ऋतेरीयङ्(*३,१.२९) इति वावचनं ज्ञापकं धातुप्रत्ययानामादेशाभावस्य ।
एजेः खश्(*३,२.२८), पदरुजविशस्पृशो घञ्(*३,३.१६) इत्येवमादिषु तु इत्सञ्ज्ञया भवितव्यम् ।
तद्धितेषु हि खकारघकारयोरादेशवचनमवकाशवदिति इत्सञ्ज्ञां बाधितुं न+उत्सहते ।
आयन्नीनोः नकारस्य इत्सञ्ज्ञायां प्राप्तायां प्रतिविधातव्यम्, नित्कार्यं हि सम्भवति ॥
[॰७७४]
झोऽन्तः ॥ ७,१.३ ॥
_____ काशिकावृत्तिः७,१.३:
प्रत्ययग्रहणमनुवर्तते, आदिग्रहणं निवृत्तम् ।
प्रत्ययावयवस्य झस्य अन्त इत्ययमादेशो भवति ।
कुर्वन्ति ।
सुन्वन्ति ।
चिन्वन्ति ।
अद्य श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै ।
जॄविशिभ्यां झच् जरनतः ।
वेशन्तः ।
प्रत्ययस्य इत्येव, उज्झिता ।
उज्झितुम् ।
उज्झितब्यम् ।
अस्मिन्नप्यन्तादेशे कृते प्रत्ययाद्युदात्त्वं भवति ।
तथा च झचः चित्करणमर्थवच्भवति ॥
अदभ्यस्तात् ॥ ७,१.४ ॥
_____ काशिकावृत्तिः७,१.४:
अभ्यस्ता दङ्गादुत्तरस्य झकारस्य अतित्ययमादेशो भवति ।
ददति ।
ददतु ।
दधति ।
दधतु ।
जक्षति ।
जक्षतु ।
जाग्रति ।
जाग्रतु ।
अन्तादेशापवादोऽयं जुसादेशेन तु बाध्यते ।
अदघुः ।
अजागरुः ।
अत्राप्यादेशो कृते प्रत्ययाद्युदातत्वं भवति ॥
आत्मनेपदेष्वनतः ॥ ७,१.५ ॥
_____ काशिकावृत्तिः७,१.५:
आत्मनेपदेषु यो झकारः, तस्य अनकारान्तातङ्गातुत्तरस्य अतित्ययमादेशो भवति ।
चिन्वते ।
चिन्वताम् ।
अचिन्वत ।
पुनते ।
लुनते ।
लुनताम् ।
अलुनत ।
आत्मनेपदेषु इति किम् ? चिन्वन्ति ।
लुनन्ति ।
अनतः इति किम् ? च्यवन्ते ।
प्लवन्ते ।
नित्यत्वादत्र विकरणे कृते झोऽन्तादेशेन भवितव्यमित्यदादेशो न भवति ।
अनकारान्तेन अङ्गेन झकारविशेषणं किम् ? इह मा भूत्, अद्य श्वो विजनिष्यमाणाः पतिभिः शयान्तै ॥
शीङो रुट् ॥ ७,१.६ ॥
_____ काशिकावृत्तिः७,१.६:
शीङोऽङ्गादुत्तरस्य झादेशस्य अतः रुडागमो भवति ।
शेरते ।
शेरताम् ।
अशेरत ।
रुडयं परादिः क्रियते ।
स यदि झकारस्य+एव स्याददादेशो न स्यादित्यत एव अयमादेशस्य आगमो विधीयते ।
सानुबन्धग्रहणमाङ्लुगर्थम् ।
तेन+इह न भवति, व्यतिशेश्यते ॥
वेत्तेर्विभाषा ॥ ७,१.७ ॥
_____ काशिकावृत्तिः७,१.७:
वेत्तेरङ्गादुत्तरस्य झादेशस्य अतो विभाषा रुढागमो भवति ।
संविदते, संविद्रते ।
संविदताम्, संविद्रताम् ।
समविदत, समविद्रत ।
वेत्तेः इति लुग्विकरणस्य ग्रहणं किम् ? इह मा भूत्, विन्ते, विन्दाते, विन्दते इति ॥
[॰७७५]
बहुलं छन्दसि ॥ ७,१.८ ॥
_____ काशिकावृत्तिः७,१.८:
छन्दसि विषये बहुलं रुडागमो भवति ।
देवा अदुह्र ।
गन्धर्वा अप्सरसो अदुह्र ।
दुहेर्लङि झकारस्य अदादेशे कृते रुट् ।
लोपस्य आत्मनेपदेषु (*७,२.४१) इति तकारलोपः ।
न च भवति, अदुहत ।
बहुलवचनादन्यत्र अपि भवति ।
अदृश्रमस्य केतवः ।
ऋदुशोऽडि गुणः (*७,४.१६) इत्येतदपि बहुलवचनादेव अत्र न भवति ॥
अतो भिस ऐस् ॥ ७,१.९ ॥
_____ काशिकावृत्तिः७,१.९:
अकारान्तादङ्गादुत्तरस्य भिसः ऐसित्ययमादेशो भवति ।
वृक्षैः ।
प्लक्षैः ।
अतिजरसैः ।
जरामतिक्रान्तैः इति विगृह्य समासे कृते ह्रस्वत्वे च भिस ऐसादेशो भवति ।
एकदेशविकृतमनन्यवद्भवति इति जरशब्दस्य जरसादेशः ।
सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषा इयमनित्या, कष्टाय क्रमणे (*३,१.१४) इति निर्देशात् ।
अतः इति किम् ? अग्निभिः ।
वायुभिः ।
तपरकरणं किम् ? खट्वाभिः ।
मालाभिः ।
एत्वं भिसि परत्वाच्चेदत ऐस्क्व भविष्यति ।
कृतेऽप्येत्वे भौतपूर्व्यादैस्तु नित्यस्तथा सति ॥
अतः इत्यधिकारो जसः शी इति यावत् ॥
बहुलं छन्दसि ॥ ७,१.१० ॥
_____ काशिकावृत्तिः७,१.१०:
छन्दसि विषये बहुलमैसादेशो भवति ।
अतः इत्युक्तम्, अनतोऽपि भवति नद्यैः इति ।
अतो न भवति , देवेभिः सर्वेभिः प्रोक्तमिति ॥
न+इदमदसोरकोः ॥ ७,१.११ ॥
_____ काशिकावृत्तिः७,१.११:
इदमदसित्येतयोः अककारयोः भिस ऐस्न भवति ।
एभिः ।
अमीभिः ।
अकोः इति किम् ? इमकैः ।
अमुकैः ।
अकोः इत्येतदेव प्रतिषेधवचनं ज्ञापकं तन्मध्यपतितस्तद्ग्रहनेन गृह्यते इति ।
इदमदसोः कातिति नोक्तम्, विपरीतोऽपि नियमः सम्भाव्येत इदमदसोरेव कातिति ।
ततश्च+इह न स्यात्, सर्वकैः, विश्वकैः ।
इह च स्यादेव, एभिः, अमीभिः ।
प्रतिषेधकरणं विपरीतनियमनिवृत्त्यर्थम् ॥
टाङसिङसामिनात्स्याः ॥ ७,१.१२ ॥
_____ काशिकावृत्तिः७,१.१२:
अकारान्तादङ्गादुत्तरेषां टाङसिङसामिन आत्स्य इत्येते आदेशाः भवन्ति यथासङ्ख्यम् ।
टा इत्येतस्य इनादेशो भवति ।
वृक्षेण ।
प्लक्षेण ।
ङसि इत्येतस्य आत् ।
वृक्षात् ।
प्लक्षात् ।
ङसित्येतस्य स्यादेशो भवति ।
वृक्षस्य ।
प्लक्षस्य ।
अतः इति किम् ? सख्या ।
पत्या ।
अतिजरसिन, अतिजरसातिति केचिदिच्छन्ति ।
यथा तु भाष्ये तथा न+एतदिष्यते इति लक्ष्यते ॥
[॰७७६]
ङेर्यः ॥ ७,१.१३ ॥
_____ काशिकावृत्तिः७,१.१३:
ङेः इति चतुर्थ्येकवचनस्य ग्रहणम् ।
अकारान्तादङ्गादुत्तरस्य ङे इत्येतस्य यः इत्ययमादेशो भवति ।
वृक्षाय ।
प्लक्षाय ।
अतः इति किम् ? सख्ये ।
पत्ये ।
सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषेयमनित्या, तेन दीर्घो भवति ॥
सर्वनाम्नः स्मै ॥ ७,१.१४ ॥
_____ काशिकावृत्तिः७,१.१४:
अकारान्तात्सर्वनाम्नः उत्तरस्य ङेः स्मै इत्ययमादेशो भवति ।
सर्वस्मै ।
विश्वस्मै ।
यस्मै ।
तस्मै ।
कस्मै ।
अतः इत्येव, भवते ।
अथोऽत्र अस्मै इत्यन्वादेशेऽशादेशे एकादेशः प्राप्नोति ? तत्र अन्तरङ्गत्वादेकादेशात्पूर्वं स्मैभावः क्रियते पश्चादेकादेशः इति ॥
ङसिङ्योः समात्स्मिनौ ॥ ७,१.१५ ॥
_____ काशिकावृत्तिः७,१.१५:
ङसि ङि इत्येतयोरकारान्तात्सर्वनाम्नः उत्तरयोः स्मात्स्मिनित्येतावादेशौ भवतः ।
ङसि इत्येतस्य स्मात् ।
सर्वस्मात् ।
विश्वस्मात् ।
यस्मात् ।
तस्मात् ।
कर्मात् ।
ङि इत्येतस्य स्मिन् ।
सर्वस्मिन् ।
विश्वस्मिन् ।
यस्मिन् ।
तस्मिन् ।
अन्यस्मिन् ।
अतः इत्येव, भवतः ।
भवति ।
सर्वनाम्नः इत्येव, वृक्षात् ।
वृक्षे ॥
पूर्वादिभ्यो नवभ्यो वा ॥ ७,१.१६ ॥
_____ काशिकावृत्तिः७,१.१६:
पूर्वादिभ्यो नवभ्यः सर्वनाम्नः उत्तरयोः ङसिङ्योः स्मात्स्मिनित्येतावादेशौ वा भवतः ।
पूर्वस्मात्, पूर्वात् ।
पूर्वस्मिन्, पूर्वे ।
परस्मात्, परात् ।
परस्मिन्, परे ।
अवरस्मात्, अवरात् ।
अवरस्मिन्, अवरे ।
दक्षिणस्मात्, दक्षिणात् ।
दक्षिणस्मिन्, दक्षिणे ।
उत्तरस्मात्, उत्तरात् ।
उत्तरस्मिन्, उत्तरे ।
अपरस्मात्, अपरात् ।
अपरस्मिन्, अपरे ।
अधरस्मात्, अधरात् ।
अधरस्मिन्, अधरे ।
स्वस्मात्, स्वात् ।
स्वस्मिन्, स्वे ।
अन्तरस्मात्, अन्तरात् ।
अन्तरस्मिन्, अन्तरे ।
नवभ्यः इति किम् ? त्यस्मात् ।
त्यस्मिन् ॥
जसः शी ॥ ७,१.१७ ॥
_____ काशिकावृत्तिः७,१.१७:
अकारान्तात्सर्वनाम्नः उत्तरस्य जसः शी इत्ययमादेशो भवति ।
सर्वे ।
विश्वे ।
ये ।
के ।
ते ।
दीर्घोच्चारणमुत्तरार्हम् ।
त्रपुणी ।
जतुनी ॥
औङ आपः ॥ ७,१.१८ ॥
_____ काशिकावृत्तिः७,१.१८:
आबन्तादङ्गादुत्तरस्य औङः शी इत्ययमादेशो भवति ।
खट्वे तिष्ठतः ।
खट्वे पश्य ।
बहुराजे ।
करीषगन्ध्ये ।
ङकारः सामान्यग्रहणार्थः, औटोऽपि ग्रहणं यथा स्यात् ।
[॰७७७]
औकारोऽयं शीविधौ ङिद्गृहीतो ङिच्चास्माकं न अस्ति कोऽयं प्रकारः ।
सामान्यार्थस्तस्य च असञ्जनेऽस्मिन् ङित्कार्यं ते श्यां प्रसक्तं स दोषः ॥
ङित्त्वे विद्याद्वर्णनिर्देशमात्रं वर्णे यत्स्यात्तच्च विद्यात्तदादौ ।
वर्णश्चायं तेन ङित्त्वेऽप्यदोषो निर्देशोऽयं पूर्वसूत्रेण वा स्यात् ॥
नपुंसकाच्च ॥ ७,१.१९ ॥
_____ काशिकावृत्तिः७,१.१९:
नपुंसकादङ्गादुत्तरस्य औङः शी इत्ययमादेशो भवति ।
कुण्डे तिष्ठतः कुण्डे पश्य ।
यस्य+इति लोपः प्राप्तः ।
श्यां प्रतिषेधो वक्तव्यः ।
इति न भवति ।
दधिनी ।
मधुनी ।
त्रपुणी ।
जतुनी ॥
जश्शसोः शिः ॥ ७,१.२० ॥
_____ काशिकावृत्तिः७,१.२०:
नपुंसकादङ्गादुत्तरयोः जश्शसोः शि इत्ययमादेशो भवन्ति ।
कुण्डानि तिष्थन्ति ।
कुण्डानि पश्य ।
दधीनि ।
मधूनि ।
त्रपूणि ।
जतूनि ।
जसा सहचरितस्य शसो ग्रहणादिह न भवति, कुण्डशो ददाति, वन्शः प्रविशन्ति इति ॥
अष्टाभ्य औश् ॥ ७,१.२१ ॥
_____ काशिकावृत्तिः७,१.२१:
अश्टाभ्यः इति कृताकारोऽष्टन्शब्दो गृह्यते ।
तस्मादुत्तरयोः जश्शसोः औशित्यादेशो भवति ।
अष्टौ तिष्ठन्ति ।
अष्टौ पश्य ।
कृताकारस्य ग्रहणं किम् ? अष्ट तिष्ठन्ति ।
अष्ट पश्य ।
एतदेव कृतात्वस्य ग्रहणं ज्ञापकमष्टन आ विभक्तौ (*७,२.८४) इत्यात्वविकल्पस्य ।
षड्भ्यो लुक्(*७,१.२२) इत्यस्य अयमपवादः, नाप्राप्ते तस्मिन्निदमारभ्यते ।
यस्तु सुपो धातुप्रातिपदिकयोः (*२,४.७१) इति, तस्मिन् प्राप्ते च अप्राप्ते च इति स न बाध्यते, अष्टपुत्रः, अष्टभार्यः इति ।
तदन्तग्रहणमत्र+इष्यते ।
परमाष्टौ ।
उत्तरमाष्टौ ।
प्रियाष्टनः इत्यत्रात्वस्य अभावादौश्त्वं न भवति ॥
षड्भ्यो लुक् ॥ ७,१.२२ ॥
_____ काशिकावृत्तिः७,१.२२:
षट्सञ्ज्ञकेभ्य उत्तरयोः जश्शसोर्लुक्भवति ।
षट्तिष्ठन्ति ।
षट्पश्य ।
पञ्च ।
सप्त ।
नव ।
दश ।
षट्प्रधानात्तदन्तादपि भवति ।
उत्तमषत् ।
यत्र तु उपसर्जनं षट्ततो न भवति, प्रियषषः, प्रियपञ्चानः इति ॥
[॰७७८]
स्वमोर्नपुंसकात् ॥ ७,१.२३ ॥
_____ काशिकावृत्तिः७,१.२३:
सु अमित्येतयोः नपुंसकादुत्तरयोः लुग्भवति ।
दधि तिष्ठति ।
दधि पश्य ।
मधु तिष्ठति ।
मधु पश्य ।
त्रपु ।
जतु ।
तद्ब्राह्मणकुलमित्यत्र लुका त्यदाद्यत्वं बाध्यते, पूर्वविप्रतिषेधेन नित्यत्वाद्वा ।
लुको हि निमित्तमतोऽम् (*७,१.२४) इति लक्षणान्तरेण विहन्यते, न पुनस्त्यदाद्यत्वेन+एव ।
यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यं भवति ॥
अतोऽम् ॥ ७,१.२४ ॥
_____ काशिकावृत्तिः७,१.२४:
अकारान्तान्नपुंसकादुत्तरयोः स्वमोः अमित्ययमादेशो भवति ।
कुण्डं तिष्ठति ।
कुण्डं पश्य ।
पीठम् ।
मकारः कस्मान्न क्रियते ? धीर्घत्वं प्राप्नोति ॥
अद्ड्डतरादिभ्यः पञ्चभ्यः ॥ ७,१.२५ ॥
_____ काशिकावृत्तिः७,१.२५:
डतरादिभ्यः परयोः स्वमोः अद्डित्ययमादेशो भवति ।
कतरत्तिष्ठति ।
कतरत्पश्य ।
कतमत्तिष्ठति ।
कतमत्पश्य ।
इतरत् ।
अन्यतरत् ।
अन्यत् ।
पञ्चभ्यः इति किम् ? नेमं तिष्ठति ।
नेमं पश्य ।
डित्करणं किम् ? कतरत्तिष्ठति इत्यत्र पूर्वसवर्नदीर्घो मा भूत् ।
इह तु कतरत्पश्य इति स्थनिवद्भावादमि पूर्वंत्वेन अपि सिध्यति ।
एवं तर्हि तकारादेश एव कस्मान्न विधीयते ? हे कतरतिति सम्बुद्धेर्लोपो मा भूत् ।
अपृक्तश्चेदमो दोषो निवृत्ते डतरादिषु ।
अड्डित्त्वाड्डतरादीनां न लोपो न अपि दीर्घता ॥
न+इतराच्छन्दसि ॥ ७,१.२६ ॥
_____ काशिकावृत्तिः७,१.२६:
इतरशब्दादुत्तरयोः स्वमोः छन्दसि विषये अद्डादेशो न भवति ।
मृतमितरमाण्डमवापद्यत ।
वार्त्रघ्नमितरम् ।
छन्दसि इति किम् ? इतरत्काष्ठम् ।
इतरत्कुड्यम् ।
अतोऽम् (*७,१.२४) इत्यस्मादनन्तरमितराच्छन्दसि इति वक्तव्यम् ? नेतराच्छन्दसि इति वचनं योगविभगर्थमेकतराद्धि सर्वत्र छन्दसि भाषायां प्रतिषेध इष्यते ।
एकतरं तिष्ठति, एकतरं पश्य इति ॥
[॰७७९]
युष्मदस्मद्भ्यां ङसोऽश् ॥ ७,१.२७ ॥
_____ काशिकावृत्तिः७,१.२७:
युष्मदस्मदित्येताभ्यामुत्तरस्य ङसः अशित्ययमादेशो भवति ।
तव स्वम् ।
मम स्वम् ।
शित्करणं सर्वादेशार्थम् ।
अन्यथा हि आदेशव्यपदेशप्रक्लृप्त्यर्थमादेरेव स्यात्, ततश्च योऽचि (*७,२.८९) इतेतन्न स्यात् ॥
ङे प्रथमयोरम् ॥ ७,१.२८ ॥
_____ काशिकावृत्तिः७,१.२८:
ङे इत्यविभक्तिको निर्देशः ।
ङे इत्येतस्य प्रथमयोश्च विभक्त्योः प्रथाद्वितीययोः युष्मदस्मद्भ्यामुत्तरयोः अमित्ययमादेशो भवति ।
तुभ्यं दीयते ।
मह्यं दियते ।
प्रथमयोः त्वम् ।
अहम् ।
युवाम् ।
आवाम् ।
यूयम् ।
वयम् ।
त्वाम् ।
माम् ।
युवाम् ।
आवाम् ॥
शसो न ॥ ७,१.२९ ॥
_____ काशिकावृत्तिः७,१.२९:
युष्मदस्मद्भ्यासुत्तरस्यशसो नकारादेशो भवति ।
युष्मन् ब्राह्मणान् ।
अस्मान् ब्राह्मणान् ।
युष्मन् ब्राह्मणीः ।
अस्मान् ब्राह्मणीः ।
युष्मान् कुलानि ।
अस्मान् कुलानि ॥
भ्यसो भ्यम् ॥ ७,१.३० ॥
_____ काशिकावृत्तिः७,१.३०:
युष्मदस्मद्भ्यामुत्तरस्य भ्यसः भ्यमित्ययमादेशो भवति ।
युष्मभ्यं दीयते ।
अस्मभ्यं दीयते ।
भ्यमादेशे कृते शेषेलोपे च बहुवचने झल्येत्(*७,३.१०३) इति एत्वं प्राप्नोति, ततङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति न भवति ।
केचित्पुनरभ्यमादेशमेत्वनिवृत्त्यर्थं कुर्वन्ति ।
येषां तु शेषेलोपः टिलोपः, तेषामभ्यमादेश एव ।
उदात्तनिवृत्तिस्वरश्चादेरेव भवति ॥
पञ्चम्या अत् ॥ ७,१.३१ ॥
_____ काशिकावृत्तिः७,१.३१:
पञ्चम्याः भ्यसः युष्मदस्मद्भ्यामुत्तरस्य अतित्ययमादेशो भवति युष्मद्गच्छन्ति ।
अस्मद्गच्छन्ति ॥
एकवचनस्य च ॥ ७,१.३२ ॥
_____ काशिकावृत्तिः७,१.३२:
पञ्चम्या एकवचनस्य युष्मदस्मद्भ्यामुत्तरस्य अतित्ययमादेशो भवति ।
त्वद्गच्छन्ति ।
मद्गच्छन्ति ॥
[॰७८०]
साम आकम् ॥ ७,१.३३ ॥
_____ काशिकावृत्तिः७,१.३३:
साम इति षष्थीबहुवचनमागतसुट्कं गृह्यते ।
तस्य युष्मदस्मद्भ्यामुत्तरस्य आकमित्ययमादेशो भवति ।
युष्माकम् ।
अस्माकम् ।
अथ किमर्थमागतसुट्को गृह्यते, न घादेशविधानकाले सुड्विद्यते ? तस्य+एव तु भाविनः सुटो निवृत्त्यर्थम् ।
आदेशे कृते हि शेषेलोपे युष्मदस्मदोरकारान्तत्वात्सुट्प्राप्त्नोति, स स्थान्यन्तर्भूतत्वात्निवर्तते ।
दीर्घोच्चारणं सवर्णदिर्घार्थम् ।
अकमि तु सति ह्रस्वकरणे तद्विधानसामर्थ्यादेव सवर्णदीर्घत्वं न प्राप्नोति ? तत्सामर्थ्यमेत्वं प्रति भविष्यति इति अकारकरणमेत्वनिवृत्त्यर्थमिति ।
अतो गुणे पररूपत्वं स्यात् ॥
आत औ णलः ॥ ७,१.३४ ॥
_____ काशिकावृत्तिः७,१.३४:
आकारान्तादङ्गादुत्तरस्य णलः औकारादेशो भवति ।
पपौ ।
तस्थौ ।
जग्लौ ।
मम्लौ ।
अत्र औत्वम्, एकादेशः , स्थानिवद्भावः, द्विर्वचनमित्यनेन क्रमेण कार्याणि क्रियन्ते ।
एकादेशादनवकाशत्वादौत्वं द्विर्वचनादपि परत्वादेकादेशः इति ॥
तुह्योस्तातङाशिष्यन्यतरस्याम् ॥ ७,१.३५ ॥
_____ काशिकावृत्तिः७,१.३५:
तु हि इत्येतयोः आशिषि विषये तातङादेशो भवत्यन्यतरस्याम् ।
जीवताद्भवान् ।
जीवतात्त्वम् ।
जीवतु भवान् ।
जीव त्वम् ।
ङित्करणं गुणवृद्धिप्रतिषेधार्थमिति सर्वादेशस्तातङ्भवति ।
ङित्त्वाच्चास्य स्थानिवद्भावात्यत्पित्त्वं प्राप्नोति तन्निवर्तते ।
ङिच्च पित्न भवति ।
तेन ब्रुव ईट्(*७,३.९३) इति ब्रूताद्भवानिति ईट्न भवति ।
आशिषि इति किम् ? ग्रामं गच्छतु भवान् ।
गच्छ त्वम् ।
तातङि ङित्वं सङ्क्रमकृत्स्यादन्त्यविधिश्चेत्तच्च तथा न ।
हेरधिकारे हेरधिकारो लोपविधौ तु ज्ञापकमाह ॥
तातङो ङित्त्वसामर्थ्यान्न अयमन्त्यविधिः स्मृतः ।
न तद्वदनङादीनां तेन तेऽन्त्यविकारजाः ॥
विदेः शतुर्वसुः ॥ ७,१.३६ ॥
_____ काशिकावृत्तिः७,१.३६:
विद ज्ञाने इत्येतस्माद्धातोरुत्तरस्य शतुः वसुरादेशः भवति ।
विद्वान्, विद्वांसौ, विद्वांसः ।
स्थानिवद्भावादुगित्कार्ये सिद्धे वसोः उकारकरणं वसोः सम्प्रसारणम् (*६,४.१३१) इत्यत्र क्वसोरपि सामान्यग्रहणार्थम् ।
एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य इत्येतदपि न भवति ।
तथा सति उकारकरणमनर्थकं स्यात् ।
अन्यतरस्यांग्रहणं केचिदनुवर्तयन्ति ।
विदन्, विदन्तौ, विदन्तः ॥
[॰७८१]
समासेऽनञ्पूर्वे क्त्वो ल्यप् ॥ ७,१.३७ ॥
_____ काशिकावृत्तिः७,१.३७:
समासेऽनञ्पूर्वे क्त्वा इत्येतस्य ल्यपित्ययमादेशो भवति ।
प्रकृत्य ।
प्रहृत्य ।
पार्श्वतःकृत्य ।
नानाकृत्य ।
द्विधाकृत्य ।
समासे इति किम् ? कृत्वा ।
हृत्वा ।
अनञ्पूर्वे इति किम् ? अकृत्वा ।
अहृत्वा ।
परमकृत्वा ।
उत्तमकृत्वा ।
अनञिति नञा अन्यदनञ्नञ्सदृशमव्ययं परिगृह्यते ।
तेन नञनव्ययं चनञ्न भवति ।
स्नात्वाकालकादिषु मयूरव्यंसकादिषु निपातनाल्ल्यबादेशो न भवति ।
अथवा समासे इति निर्धारणे सप्तमी ।
तेन क्त्वान्तः समास एव परिगृह्यते ।
स च येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिना, न तु कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति ।
तथा च अनञ्पूर्वे इत्युच्यते ।
गतिकारकपूर्वस्येव तु ग्रहणे सति नञ्पूर्वस्य प्रसङ्ग एव न अस्ति, नञ्न गतिर्न कारकमिति ।
प्रधाय, प्रस्थाय इत्यादिषु हिप्रभृतीनन्तरङ्गनपि विधीन् बहिरङ्गो ल्यब्बाधते एव इति ज्ञापितमेतत् ॥
क्त्वा अपि छन्दसि ॥ ७,१.३८ ॥
_____ काशिकावृत्तिः७,१.३८:
समासे अनञ्पूर्वे क्त्वा इत्येतस्य क्त्वा इत्ययमादेशो भवति, अपिशब्दाल्ल्यबपि भवति छन्दसि विषये ।
कृष्णं वासो यजमानं परिधापयित्वा ।
प्रत्यञ्चमर्कं प्रत्यर्पयित्वा ।
ल्यबपि भवति ।
उद्धृत्य जुहोति ।
वा च्छन्दसि इति नोक्त, सर्वोपाधिव्यभिचारार्थम् ।
तेन असमासे ल्यब्भवति ।
अर्च्य तान् देवान् गतः ।
छन्दोऽधिकारः आज्जसेरसुक्(*७,१.५०) इति यावत् ॥
सुपां सुलुक्पूर्वसवर्नाच्छेयाडाड्यायाजालः ॥ ७,१.३९ ॥
_____ काशिकावृत्तिः७,१.३९:
छन्दसि विषये सुपां स्थाने सु लुक्पूर्वसवर्ण आ आत्शे या डा ड्या याचालित्येते आदेशाः भवन्ति ।
सु अनृक्षरा ऋजवः सन्तु पन्थाः ।
पन्थानः इति प्राप्ते ।
सुपां सुपो भवन्ति इति वक्तव्यम् ।
धुरि दक्षिणायाः ।
दक्षिणायामिति प्राप्ते ।
तिङां तिङो भवन्दि इति वक्तव्यम् ।
चषालं ये अश्वयूपाय तक्षति ।
तक्षन्ति इति प्राप्ते ।
लुक् आर्द्रे चर्मन् ।
रोहिते चर्मन् ।
चर्मणि इति प्राप्ते ।
हविर्धाने यत्सन्वन्ति तत्सामिधेनीरन्वाह ।
यस्मिन् सुन्वन्ति तस्मिन् सामिधेनीः इति प्राप्ते ।
[॰७८२]
पूर्वसवर्णः धीती ।
मती ।
सुष्टुती ।
धीत्या, मत्या, सुष्टुत्या इति प्राप्ते ।
आ द्वा यन्तारा ।
द्वौ यन्तारौ इति प्राप्ते ।
आत् न ताद्ब्राह्मणाद्निन्दामि ।
तान् ब्राह्मणानिति प्राप्ते ।
शे न युष्मे वाजबन्धवः ।
अस्मे इन्द्राबृहस्पती ।
यूयं वयमिति प्राप्ते ।
युयादेशो वयादेशश्च छन्दसत्वान्न भवति ।
या उरुया ।
धृष्णुया ।
उरुणा, धृष्णुना इति प्राप्ते ।
डा नाभा पृथिव्याम् ।
नाभौ पृथिव्यामिति प्राप्ते ।
ड्या अनुष्टुयोच्च्यावयतात् ।
अनुष्टुभा इति प्राप्ते ।
याच् साधुया ।
साधु इति सोर्लुकि प्राप्ते ।
आल् वसन्ता यजेत ।
वसन्ते इति प्राप्ते ।
इयाडियाजीकाराणामुपसङ्ख्यानम् ।
इया उर्विया परि ख्यन् ।
दार्विया परिज्मन् ।
उरुणा, दारुणा इति प्राप्ते ।
डियाच्सुक्षेत्रिया सुगातुया ।
सुक्षेत्रिणा, सुगात्रिणा इति प्राप्ते ।
ईकारः दृतिं न शुष्कं सरसी शयानम् ।
सरसि शयानमिति प्राप्ते ।
आङयाजयारां च+उपसङ्ख्यानम् ।
आङ् प्र बाहवा ।
प्रवहुना इति प्राप्ते ।
अयाच् स्वप्नया सचसे जनम् ।
स्वप्नेन इति प्राप्ते ।
अयार् स नः सिन्धुमिव नावया ।
नावा इति प्राप्ते ॥
अमो मश् ॥ ७,१.४० ॥
_____ काशिकावृत्तिः७,१.४०:
अमः प्रति मिबादेशो गृह्यते ।
तस्य छन्दसि विषये मशादेशो भवति ।
वधीं वृत्रम् ।
त्रमीं वृक्षस्य शाखाम् ।
लुङि बहुलं छन्दस्यमाङ्योगेऽपि (*६,४.७५) इत्यडागमाभावः ।
शित्करणं सर्वादेशार्थम् ।
मकारस्य अपि हि मकारवचनमनुस्वारनिवृत्त्यर्थं स्यात् ॥
[॰७८३]
लोपस्त आत्मनेपदेषु ॥ ७,१.४१ ॥
_____ काशिकावृत्तिः७,१.४१:
आत्मनेपदेषु यस्तकारः तस्य छन्दसि विषये लोपो भवति ।
देवा अदुह्र ।
गन्धर्वाप्सरसो अदुह्र ।
अदुहत इति प्राप्ते ।
दुहामश्विभ्यां पयो अघ्न्येयम् ।
दुग्धामिति प्राप्ते ।
दक्षिणत उपशये ।
शेते इति प्राप्ते ।
अपि इत्यधिकारान्न भवति, तत्र आत्मानमनृतं कुरुते ।
आत्मनेपदेषु इति किम् ? वत्सं दुहन्ति कलशं चतुर्बिलम् ॥
ध्वमो ध्वात् ॥ ७,१.४२ ॥
_____ काशिकावृत्तिः७,१.४२:
छन्दसि विषये ध्वमो ध्वातित्ययमादेशो भवति ।
अन्तरेवोष्माणं वारयध्वात् ।
वारयध्वमिति प्राप्ते ॥
यजध्वैनमिति च ॥ ७,१.४३ ॥
_____ काशिकावृत्तिः७,१.४३:
यजध्वमित्येतस्य एनमित्येतस्मिन् परतो मकारलोपो निपात्यते वकारस्य च यकारः छन्दसि विषये ।
यजध्वैनं प्रियमेधाः ।
यजध्वमेनमिति प्राप्ते ॥
तस्य तात् ॥ ७,१.४४ ॥
_____ काशिकावृत्तिः७,१.४४:
तशब्दस्य लोण्मध्यमपुरुषबहुवचनस्य स्थाने तातित्ययमादेशो भवति ।
गात्रं गात्रमस्यानूनं कृणुतात् ।
कृणुत इति प्राप्ते ।
ऊवध्यगोहं पार्थिवं खनतात् ।
खनत इति प्राप्ते ।
अस्ना रक्षः संसृजतात् ।
संसृजत इति प्राप्ते ।
सूर्यं चक्षुर्गमयतात् ।
गमयत इति प्राप्ते ॥
तप्तनप्तनथनाश्च ॥ ७,१.४५ ॥
_____ काशिकावृत्तिः७,१.४५:
तस्य इति वर्तते ।
छन्दसि विषये तस्य स्थाने तप्तनप्तन थन इत्येते आदेशा भवन्ति ।
तप् शृणोत ग्रावाणः ।
शृणुत इति प्राप्ते ।
सुनोत ।
सुनुत इति प्राप्ते ।
तनप् सं वरत्रा दधातन ।
धत्त इति प्राप्ते ।
तन जुजुष्टन ।
जुषत इति प्राप्ते ।
छान्दसत्वात्श्लुः ।
थन यदिष्ठन् ।
यदिच्छत इति प्राप्ते ।
पित्करनमङित्त्वार्थम् ॥
[॰७८४]
इदन्तो मसि ॥ ७,१.४६ ॥
_____ काशिकावृत्तिः७,१.४६:
छन्दसि विषये मसित्ययं शब्दः इकारान्तो भवति ।
मसः सकारान्तस्य इकारागमो भवति, स च तस्यान्तो भवति ।
तद्ग्रहणेन गृह्यते इत्यर्थः ।
पुनस्त्वोद्दीपयामसि ।
उद्दीपयामः इति प्राप्ते ।
शलभं भञ्जयामसि ।
भञ्जयामः इति प्राप्ते ।
त्वयि रात्रिं वसामसि ।
वसामः इति प्राप्ते ॥
क्त्वो यक् ॥ ७,१.४७ ॥
_____ काशिकावृत्तिः७,१.४७:
क्त्वा इत्येतस्य यगागमो भवति छन्दसि विषये ।
दत्त्वाय सविता धियः ।
दत्त्वा इति प्राप्ते ।
क्त्वापि छन्दसि (*७,१.३८) इत्यस्य अन्तन्तरमिदं कस्मान्न+उच्यते ? समासे इति तत्र अनुवर्तते ॥
इष्ट्वीनमिति च ॥ ७,१.४८ ॥
_____ काशिकावृत्तिः७,१.४८:
इष्ट्वीनमित्ययं शब्दो निपात्यते छन्दसि विषये ।
यजेः क्त्वाप्रत्ययान्तस्य ईनमादेशोऽन्त्यस्य निपात्यते ।
इष्ट्वीनं देवान् ।
इष्ट्वा देवानिति प्राप्ते ।
पीत्वीनमित्यपि इष्यते ।
चकारस्य अनुक्तसमुचयार्थत्वात्सिद्धम् ॥
स्नात्व्यादयश्च ॥ ७,१.४९ ॥
_____ काशिकावृत्तिः७,१.४९:
स्नात्वी इत्येवमादयः शब्दा निपात्यन्ते छन्दसि विसये ।
स्नात्वी मलदिव ।
स्नात्व इति प्राप्ते ।
पीत्वी सोमस्य वावृधे ।
पीत्वा इति प्राप्ते ।
प्रकारार्थोऽयमादिशब्दः ॥
आज्जसेरसुक् ॥ ७,१.५० ॥
_____ काशिकावृत्तिः७,१.५०:
अवर्णान्तातङ्गादुत्तरस्य जसेः असुकागमो भवति छन्दसि विषये ।
ब्राह्मणासः पितरः सोम्यासः ।
ब्राह्मणाः सोम्याः इति प्राप्ते ।
ये पूर्वासो य उपरासः इत्यत्र परत्वादसुकि पुनः प्रसङ्गविज्ञानात्शिभावः प्राप्तः, सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव इति न भवति ॥
अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ॥ ७,१.५१ ॥
_____ काशिकावृत्तिः७,१.५१:
छन्दसि इत्यतःप्रभृति निवृत्तम् ।
अश्व क्षीर वृष लवण इत्येतेषामङ्गानामात्मप्रीतिविषये क्यचि परतोऽसुगागमो भवति ।
अश्वस्यति वडवा ।
क्षीरस्यति माणवकः ।
वृषस्यति गौः लवणस्यत्युष्ट्रः ।
आत्मप्रीतौ इति किम् ? अश्वीयति ।
क्षीरियति ।
वृषीयति ।
लवणीयति ।
[॰७८५]
अश्ववृषयोर्मैथुनेच्छायामिति वक्तव्यम् ।
क्षीरलवणयोर्लालसायामिति वक्तव्यम् ।
तृष्णातिरेको लालसा ।
अन्यत्रात्मप्रीतावपि न भवति ।
अपर आह सर्वप्रातिपदिकेभ्यो लालसायामसुग्वक्तव्यः ।
दध्यस्यति, मध्वस्यति इत्येवमाद्यर्थम् ।
अपर आह सुग्वक्तव्यः ।
दधिस्यति, मधुस्यति इत्येवमाद्यर्थम् ॥
आमि सर्वनाम्नः सुट् ॥ ७,१.५२ ॥
_____ काशिकावृत्तिः७,१.५२:
आतिति वर्तते ।
अवर्णात्सर्वनाम्न उत्तरस्य आमः सुडागमो भवति ।
सर्वेषाम् ।
विश्वेषाम् ।
येषाम् ।
तेषाम् ।
सर्वासाम् ।
यासाम् ।
तासाम् ।
आतित्येव ।
भवताम् ।
आमि इति षष्ठीबहुवचनं गृह्यते, न ङेरां नद्याम्नीभ्यः (*८,३.११६) इति , तस्य हि परत्वाताड्याट्स्याटो भवन्ति ।
यश्च घातामुः , आमश्च लिटि, न तौ सर्वनान्मः स्तः ।
सानुबन्धकौ इति वा तौ न गृह्येते ।
आमि इति सप्तमीनिर्देशः उत्तरार्थः ।
इह तु सर्वनाम्नः इति पञ्चमीनिर्देशात्तस्मादित्युत्तरस्य (*१,१.६७) इति , षष्ठीप्रक्लृप्तिर्भविष्यति ॥
त्रेस्त्रयः ॥ ७,१.५३ ॥
_____ काशिकावृत्तिः७,१.५३:
त्रि इत्येतस्य आमि परे त्रय इत्ययमादेशो भवति ।
त्रयाणाम् ।
त्रीणामित्यपि छन्दसि इष्यते ।
त्रीणामपि समुद्राणामिति ॥
ह्रस्वनद्यापो नुट् ॥ ७,१.५४ ॥
_____ काशिकावृत्तिः७,१.५४:
ह्रस्वान्तात्नद्यन्ताताबन्ताच्च+उत्तरस्य आमः नुडागमो भवति ।
ह्रस्वान्तात्तावत् वृक्षाणाम् ।
प्लक्षाणाम् ।
अग्नीनाम् ।
वायूनाम् ।
कर्तॄणाम् ।
नद्यन्तात् कुमारीणाम् ।
किशोरीणाम् ।
गौरीणाम् ।
शार्ङ्गरवीणाम् ।
लक्ष्ंीणाम् ।
ब्रह्मबन्धूनाम् ।
वीरबन्धूनाम् ।
आबन्तात्खट्वानाम् ।
मालनाम् ।
बहुराजानाम् ।
कारीषगन्ध्यानाम् ॥
षट्चतुर्भ्यश्च ॥ ७,१.५५ ॥
_____ काशिकावृत्तिः७,१.५५:
षट्सञ्ज्ञकेभ्यः चतुःशब्दाच्च+उत्तरस्यामो नुडागमः भवति ।
षण्णाम् ।
पञ्चानाम् ।
सप्तानाम् ।
नवानाम् ।
दशानाम् ।
चतुर्णाम् ।
रेफान्तायाः सङ्ख्यायाः षट्सञ्ज्ञा न विहिता, षड्भ्यो लुक्(*७,१.२२) इति लुग्मा भूत् ।
बहुवचननिर्देशादत्र सङ्ख्याप्रधानस्य ग्रहणं भवति ।
परमषण्णाम् ।
परमपञ्चानाम् ।
परमसप्तानाम् ।
परमचतुर्णाम् ।
उपसर्जनीभूतायास्तु सङ्ख्यायाः न भवति, प्रियषषाम्, प्रियपञ्चाम्, प्रियचतुरामिति ॥
[॰७८६]
श्रीग्रामण्योश्छन्दसि ॥ ७,१.५६ ॥
_____ काशिकावृत्तिः७,१.५६:
श्री ग्रामणी इत्येतयोः छन्दसि विषये आमो नुडागमो भवति ।
श्रीणामुदारो धरुणो रयीणाम् ।
अपि तत्र सूतग्रामणीनाम् ।
श्रीशब्दस्य वामि (*१,४.५) इति विकल्पेन नदीसञ्ज्ञा, तत्र नित्यार्थं वचनम् ।
सूतग्रामणीनामिति यदा सूताश्च ते ग्रामण्यश्च सूतग्रामण्यो भवन्ति तदर्थमिदं वचनम् ।
यदा तु सूतश्च ग्रामणीश्च सूतग्रामणि, सूतग्रामणि च सूतग्रामणि च सूतग्रामणि च इति सूतग्रामणीनामिति, तदा ह्रस्वातित्येव सिद्धम् ॥
गोः पादान्ते ॥ ७,१.५७ ॥
_____ काशिकावृत्तिः७,१.५७:
गो इत्येतस्मातृक्पादान्ते वर्तमानादुत्तरस्य आमः नुडागमो भवति ।
विद्मा हि त्वा गोपतिं शूर गोनाम् ।
पादान्ते इति किम् ? गवां गोत्रमुदसृजो यदङ्गिरः ।
सर्वे विधयश्छन्दसि विकल्प्यन्ते इति पादान्तेऽपि क्वचिन्न भवति ।
हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥
इदतो नुं धातोः ॥ ७,१.५८ ॥
_____ काशिकावृत्तिः७,१.५८:
इदितो धातोर्नुमागमो भवति ।
कुडि कुण्डिता ।
कुण्डितुम् ।
कुण्डितव्यम् ।
कुण्डा ।
हुडि हुण्डिता ।
हुण्डितुम् ।
हुण्दितव्यम् ।
हुण्डा ।
इदितः इति किम् ? पचति ।
पठति ।
अयं धातूपदेशावस्थायामेव नुगाममो भवति कुण्डा, गुण्डा इति, गुरोश्च हलः (*३,३.१०३) इत्यकारप्रत्ययो यथा स्यात् ।
तथा हि धिन्विकृण्व्योर च (*३,१.८०) इति प्रत्ययविधावेव नुमनुषक्तयोर्ग्रहणम् ।
धातुग्रहणं च+इह क्रियते धातूपदेशकाल एव नुमागमो यथा स्यातित्येवमर्थम् ।
तासिसिचोरिदित्कार्यं न अस्ति इत्युच्चारणार्थो निरनुनासिक इकारः पठ्यते ।
अमंस्त इत्येवमादौ हि हनः सिच्(*१,२.२४) इति कित्वविधानसामर्थ्यात्नकारलोपो न भवति ।
मन्ता इत्यत्र अपि असिद्धवदत्रा भात्(*६,४.२२) इति टिलोपस्य असिद्धत्वान्नलोपो न भवति ।
इह कस्मान्न भवति, भेत्ता, धेत्ता इति ? इरितां समुदायस्येत्सञ्ज्ञा इति इदित्वं न अस्ति ।
अवयवशोऽपि इत्सञ्ज्ञायां सत्यां गोः पादान्ते (*७,१.५७) इतोऽन्तग्रहणमनुवर्तयितव्यम्, तेनान्तेदितो धातवो गृह्यन्ते ॥
शे मुचादीनाम् ॥ ७,१.५९ ॥
_____ काशिकावृत्तिः७,१.५९:
शे प्रत्यये परतो मुचादीनं नुमागमो भवति ।
मुच्लृ मुञ्चति ।
लुप्लृ लुम्पति ।
विद्लृ विन्दति ।
लिपि लिम्पति ।
सिच् सिञ्चति ।
कृती कृन्तति ।
खिद खिन्दति ।
पिश पिंशति ।
शे इति किम् ? मोक्ता ।
मोक्तुम् ।
[॰७८७]
मोक्तव्यम् ।
मुचादीनामिति किम् ? तुदति ।
नुदति ।
शे तृम्फादीनामुपसङ्ख्यानं कर्तव्यम् ।
के पुनः तृम्फादयः ? तृफ तृम्फ तृप्तौ दृफ ड्र्म्फ उत्क्लेशे, गुफ गुम्फ ग्रन्थे, उभ उम्भ पूरणे, शुभ शुम्भ शोभार्थे इत्यत्र ये सानुषङ्गाः तृम्फादयः तेषामनिदितां हल उपधायाः क्ङिति (*६,४.२४) इति अनुनासिकलोपे कृते नुं विधीयते, स च विधानसामर्थ्यात्न लुप्यते ।
तृम्फति ।
दृम्फति ।
गुम्फति ।
उम्भति ।
शुम्भति ।
ये तु निरनुषङ्गाः तेषां तृफति, दृफति, गुफति, उभति, शुभति इत्येवं भवति ॥
मस्जिनशोर्झलि ॥ ७,१.६० ॥
_____ काशिकावृत्तिः७,१.६०:
मस्जि नशि इत्येतयोरङ्गयोः झलादौ प्रत्यये नुमागमो भवति ।
मङ्क्ता ।
मङ्क्तुम् ।
मङ्क्तव्यम् ।
नंष्टा ।
नंष्टुम् ।
नंष्टव्यम् ।
झलि इति किम् ? मज्जनम् ।
नशनम् ।
मस्जेरन्त्यात्पूर्व नुममिच्छन्ति अनुषङ्गादिलोपार्थम् ।
मग्नः ।
मग्नवन् ॥
रधिजभोरचि ॥ ७,१.६१ ॥
_____ काशिकावृत्तिः७,१.६१:
रधि जभि इत्येतयोः अजादौ प्रत्यये नुमागमो भवति ।
रन्धयति ? रन्धकः ।
साधुरन्धी ।
रन्धंरन्धम् ।
रन्धो वर्तते ।
जम्भयति ।
जम्भकः ।
साधुजम्भी ।
जम्भंजम्भम् ।
जम्भो वर्तते ।
परापि सती वृद्धिर्नुमा बाध्यते, नित्यत्वातचि इति किम् ? रद्धा ।
जभ्यम् ॥
नेट्यलिटि रधेः ॥ ७,१.६२ ॥
_____ काशिकावृत्तिः७,१.६२:
इडादौ अलिटि प्रत्यये परे रधेर्नुमागमो न भवति ।
रधिता ।
रधितुम् ।
रधितव्यम् ।
इटि इति किम् ? रन्धनम् ।
रन्धकः ।
अलिटि इति किम् ? ररन्धिव ।
ररन्धिम ।
नुमि कृते संयोगान्तत्वातसंयोगल्लिट्कित्(*१,२.५) इति कित्त्वं न अस्ति इति नलोपो न भवति ।
अथ क्वसौ कथं भवितव्यम् ? रेधिवानिति ।
कथम् ? एत्वभ्यासलोपयोः कृतयोः इडागमः क्रियते, ततो नुमागमः, तस्य औपदेशिककित्त्वश्रयो लोपः ।
अथ इटि लिटि इत्येवं नियमः कस्मान्न क्रियते, लिट्येव इटि न अन्यत्र इति ? विपरीतमप्यवधारणं सम्भाव्येत, इट्येव लिटि न अन्यत्र इति ।
तथा हि सति ररन्ध इत्यत्र न स्यात्, रधिता इत्यत्र च स्यादेव ॥
रभेरशब्लिटोः ॥ ७,१.६३ ॥
_____ काशिकावृत्तिः७,१.६३:
रभेरङ्गस्य शब्लिड्वर्जितेऽजादौ प्रत्यये परतो नुमागमो भवति ।
आरम्भयति ।
आरम्भकः ।
साध्वारम्भी ।
आरम्भमारम्भम् ।
आरम्भो वर्तते ।
अशब्लिटोः इति किम् ? आरभते ।
आरेभे ।
अचि इत्येव, आरब्धा ॥
[॰७८८]
लभेश्च ॥ ७,१.६४ ॥
_____ काशिकावृत्तिः७,१.६४:
लभेश्च अजादौ प्रत्यये शब्लिड्वर्जिते नुमागमो भवति ।
लम्भयति ।
लम्भकः ।
साधुलम्भी ।
लम्भंलम्भम् ।
लम्भो वर्तते ।
अशब्लिटोः इत्येव, लभते ।
लेभे ।
अचि इत्येव, लब्धा ।
लभेश्च पृथग्योगकरनमुत्तरार्थम् ॥
आङो यि ॥ ७,१.६५ ॥
_____ काशिकावृत्तिः७,१.६५:
आङः उत्तरस्य लभेः यकारादिप्रययविषये नुमागमो भवति ।
आलम्भ्या गौः ।
आलम्भ्या वडवा ।
प्राक्प्रत्ययोत्पत्तेः नुमि कृते विहितमदुपधत्वमिति ऋहलोर्ण्यत्(*३,१.१२४) इति ण्यत्प्रत्ययः, तत्र कृदुत्तरपदप्रकृतिस्वरत्वेन अन्तस्वरितत्वं भवति ।
यति तु पुनरुत्तरपदाद्युदात्तत्वं स्यात् ।
आङः इति किम् ? लभ्यम् ।
कथमग्निष्टोम आलभ्यः इति ? सर्वे विधयश्छन्दसि विकल्प्यन्ते ।
अथ वा आलभ्यः इत्यत्र नुमि कृतेऽनुषङ्गलोपः क्रियते ॥
उपात्प्रशंसायाम् ॥ ७,१.६६ ॥
_____ काशिकावृत्तिः७,१.६६:
उपादुत्तरस्य लभेः प्रशंसायां गम्यमानायां यकारादिप्रत्ययविषये नुमागमो भवति ।
उपलम्भ्या भवता विद्या ।
उपलम्भ्यानि धनानि ।
ण्यत्प्रत्ययान्तत्वातन्तस्वरितत्वमेव ।
प्रशंसायामिति किम् ? उपलभ्यमस्माद्वृषलात्किञ्चित् ।
पोरदुपधत्वाद्यत्प्रत्ययान्तमिदम् ॥
उपसर्गात्खल्घञोः ॥ ७,१.६७ ॥
_____ काशिकावृत्तिः७,१.६७:
उपसर्गादुत्तरस्य लभेः खल्घञोः परतः नुमागमो भवति ।
ईषत्प्रलम्भः ।
सुप्रलम्भः ।
दुष्प्रलम्भः ।
घञि प्रलम्भः ।
विप्रलम्भः ।
सिद्धे सत्यारम्भो नियमार्थः, उपसर्गादेव लभेः खल्घञोः परतो नुमागमो भवति, न अन्यत्र ।
ईषल्लभः ।
लाभो वर्तते ॥
न सुदुर्भ्यां केवलाभ्याम् ॥ ७,१.६८ ॥
_____ काशिकावृत्तिः७,१.६८:
सु दुरित्येताभ्यां केवलाभ्यामन्योपसर्गरहिताभ्यामुपसृष्टस्य लभेः खल्घञोः परतः नुमागमो न भवति ।
सुलभम् ।
दुर्लभम् ।
घञि सुलाभः ।
दुर्लाभः ।
केवलाभ्यामिति किम् ? सुप्रलम्भः ।
दुष्प्रलम्भः ।
सुदुर्भामिति तृतीयां मत्वा केवलग्रहणं क्रियते ।
पञ्चम्यां हि व्यवहितत्वादेव अप्रसङ्गः ।
अतिसुलभमित्यत्र कर्मप्रवचनीयत्वादेतेः केवल एव सुशब्द उपसर्गः इति भवति प्रतिषेधः ।
यदा तु अतिशब्दो न कर्मप्रवचनीयः, तदा नुं भवति एव अतिसुलम्भः इति ।
पञ्चमीनिर्देशपक्षेऽप्येवमर्थं केवलग्रहणं कर्तव्यम् ॥
[॰७८९]
विभाषा चिण्णमुलोः ॥ ७,१.६९ ॥
_____ काशिकावृत्तिः७,१.६९:
चिण्णमुलित्येतयोः विभाषा लभेर्नुं भवति ।
अलाभि, अलम्भि ।
लाभंलाभम्, लम्भंलम्भम् ।
व्यवस्थितविभाषा चेयम्, तेन अनुपसृष्टस्य विकल्पः, उपसृष्टस्य नित्यं नुं भवति ।
प्रालम्भि ।
प्रलम्भम् ॥
उगिदचां सर्वनामस्थानेऽधातोः ॥ ७,१.७० ॥
_____ काशिकावृत्तिः७,१.७०:
उगितामङ्गानां धातुवर्जितानामञ्चतेश्च सर्वनामस्थाने परतो नुमागमो भवति ।
भवतु भवान्, भवन्तौ, भवन्तः ।
ईयसुन् श्रेयान्, श्रेयांसौ, श्रेयांसः ।
शतृ पचन्, पचन्तौ, पचन्तः ।
अञ्चतेः प्राङ्, प्राञ्चौ, प्राञ्चः ।
उगिदचामिति किम् ? दृषद्, दृषदौ, दृषदः ।
सर्वनामस्थाने इति किम् ? भवतः पश्य ।
श्रेयसः पश्य ।
अञ्चतिग्रहणं नियमार्थम्, अञ्चतेरेव धातोरन्यस्य मा भूत् ।
उखास्रत् ।
पर्णध्वत् ।
अधातोः इति किम् ? अधातुभूतपूर्वस्य यथा स्यात् ।
गोमन्तमिच्छति गोमत्यति, गोमत्यतेरप्रत्ययः गोमान् ।
अत्र हि धातुत्वादञ्चतिग्रहणान्न स्यात् ॥
युजेरसमासे ॥ ७,१.७१ ॥
_____ काशिकावृत्तिः७,१.७१:
युजेरसमासे सर्वनामस्थाने परतो नुमागमो भवति ।
युङ्, युञ्जौ, युञ्जः ।
असमासे इति किम् ? अश्वयुक्, अश्वयुजौ, अश्वयुजः ।
युजेः इति इकारनिर्देशात्युज समाधौ इत्यस्य ग्रहणं न भवति ।
युजमापन्ना ऋषयः ॥
नपुंसकस्य झलचः ॥ ७,१.७२ ॥
_____ काशिकावृत्तिः७,१.७२:
नपुंसकस्य झलन्तस्य च सर्वनामस्थाने परतो नुमागमो भवति ।
उदश्विन्ति ।
शकृन्ति ।
यशांसि ।
पयांसि ।
अजन्तस्य कुण्डानि ।
वनानि ।
त्रपूणि ।
जतूनि ।
नपुंसकस्य इति किम् ? अग्निचिद्ब्राह्मणः ।
झलचः इति किम् ? बहुपुरि ।
बहुधुरि ।
विमलदिवि ।
चत्वारि ।
अहानि ।
उगितो झलन्तस्य नपुंसकस्य परत्वादनेन+एव नुं भवति ।
श्रेयांसि ।
भूयांसि ।
कुर्वन्ति ।
कृषन्ति ब्राह्मणकुलानि ।
बहूर्जि प्रतिषेधो वक्तव्यः ।
बहूर्जि ब्राह्मणकुलानि ।
अन्त्यात्पूर्वं नुममेके इच्छन्ति ।
बहूर्ञ्जि ब्राह्मणकुलानि ॥
[॰७९०]
इकोऽचि विभक्तौ ॥ ७,१.७३ ॥
_____ काशिकावृत्तिः७,१.७३:
इगन्तस्य नपुंसकस्य अङ्गस्य अजादौ विभक्तौ नुमागमो भवति ।
त्रपुणी ।
जतुनी ।
तुम्बुरुणी ।
त्रपुणे ।
जतुने ।
तुम्बुरुणे ।
इकः इति किम् ? कुण्डे ।
पीठे ।
अचि इति किम् ? उत्तरार्थम् ।
यद्येवम्, तत्र+एव कर्तव्यम् ? इह तु करणस्य एतत्प्रयोजनम्, हे त्रपो इत्यत्र नुं मा भूत्, इति, न ङिसम्बुद्ध्योः (*८,२.८) इति नलोपप्रतिषेधः स्यात् ।
ननु च न लुमताङ्गस्य (*१,१.६३) इति प्रत्ययलक्षणे प्रतिषिद्धे विभक्तिरेव न अस्ति ? एतदेव अज्ग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधोऽत्र न भवति इति ।
तथा च सम्बुद्धिगुणः क्रियते ।
विभक्तौ इति किं ? तौम्बुरवं चूर्णम् ।
इकोऽचि व्यञ्जने मा भूदस्तु लोपः स्वरः कथम् ।
स्वरो वै श्रूयमाणेऽपि लुप्ते किं न भविष्यति ।
रायात्वं तिसृभावश्च व्यवधानान्नुमा अपि ।
नुड्वाच्य उत्तरार्थं तु इह किञ्चित्त्रपो इति ॥
तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य ॥ ७,१.७४ ॥
_____ काशिकावृत्तिः७,१.७४:
तृतीयादिषु विभक्तिष्वजादिषु भाषितपुंस्कमिगन्तं नपुंसकं गालवस्याचार्यस्य मतेन पुंवद्भवति ।
यथा पुंसि ह्रस्वनुमौ न भवतः, तद्वदत्र अपि न भवतः इत्यर्थः ।
ग्रामणीः ब्राह्मणः ।
ग्रामणि ब्राह्मणकुलम् ।
ग्रामण्या ।
ब्राह्मणकुलेन, ग्रामणिना ब्राह्मणकुलेन ।
ग्रामण्ये ब्राह्मणकुलाय, ग्रामणिने ब्राह्मणकुलाय ।
ग्रामण्यो ब्राह्मणकुलात्, ग्रामणिनो ब्राह्मणकुलात् ।
ग्रामण्यो ब्राह्मणकुलस्य, ग्रामणिनो ब्राह्मणकुलस्य ।
ग्रामण्योर्ब्राह्मणकुलयोः, ग्रामणिनोर्ब्राह्मणकुलयोः ।
ग्रामण्यां ब्राह्मणकुलानाम्, नुमचिर इति पूर्वविप्रतिषेधेन नुट्, ग्रामणीनां ब्राह्मणकुलानाम् ।
ग्रामण्यां ब्राह्मणकुले, ग्रामणिनि ब्राह्मणकुले ।
शुचिर्ब्राह्मणः ।
शुचि ब्राह्मणकुलम् ।
शुचये ब्राह्मणकुलाय, शुचिने ब्राह्मणकुलाय ।
शुचेर्ब्राह्मणकुलात्, शुचिनो ब्राह्मणकुलात् ।
शुचेर्ब्राह्मणकुलस्य, शुचिनो ब्राह्मणकुलस्य ।
शुच्योर्ब्राह्मणकुलयोः, शुचिनोर्ब्राह्मणकुलयोः ।
शुचौ ब्राह्मणकुले, शुचिनि ब्राह्मणकुले ।
तृतीयादिषु इति किम् ? ग्रामणिनी ब्राह्मणकुले ।
शुचिनी ब्राह्मणकुले ।
भाषितपुंस्कमिति किम् ? त्रपुणे ।
जतुने ।
इह कस्मान्न भवति, पीलुर्वृक्षः, पीलु फलम्, पीलुने फलाय इति ? समानायामाकृतौ यद्भाषीत्पुंस्कं तुल्ये प्रवृत्तिनिमत्ते तस्य पुंवद्भावः ।
इह तु वृक्षाकृतिः प्रवृत्तिनिमित्तं पुंसि शब्दस्य, फलाकृतिर्नपुंसके ।
तदेतदेवं कथं भवति भासितपुंस्कमिति ? भाषितः पुमान् यस्मिन्नर्थे प्रवृत्तिनिमित्ते स भासितपुंस्कशब्देन उच्यते, उअद्योगादभिधेयमपि यद्नपुंसकं तदपि भाषितपुंसकम् ।
तस्य प्रतिपादकं यच्छब्दरूपं तदपि भाषितपुंस्कमिति ? इकः इत्येव, कीलालपा ब्राह्मणः ।
कीलालपं बाह्मणकुलम् ।
कीलालपेन ब्राह्मणकुलेन ।
अचि इत्येव, ग्रामणिभ्यां ब्राह्मणकुलाभ्याम् ॥
[॰७९१]
अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः ॥ ७,१.७५ ॥
_____ काशिकावृत्तिः७,१.७५:
अस्थि दधि सक्थि अक्षि इत्येतेषा नपुंसकानां तृतीयादिषु अजादिषु विभक्तिषु परतोऽनङित्ययमादेशो भवति, स च+उदात्तो भवति ।
अस्थ्ना ।
अस्थ्ने ।
दध्ना ।
दध्ने ।
सक्थ्ना ।
सक्थ्ने ।
अक्ष्णा ।
अक्ष्णे ।
अस्थ्यादय आद्युदात्ताः, तेषामनङादेशः स्थानिवद्भावादनुदात्तः स्यातिति उदात्तवचनम् ।
तत्र भसञ्ज्ञायामल्लोपे कृते उदात्तनिवृत्तिस्वरेण विभक्तिरुदात्ता भवति ।
एतैरस्थ्यादिभिर्नपुंसकैरनपुंसकस्य अपि अङ्गस्य तदन्तग्रहणमिष्यते ।
प्रियास्थ्ना ब्राह्मणेन ।
प्रियदध्ना ।
तृतीयादिषु इति किम् ? अस्थिनी ।
दधिनी ।
अचि इत्येव, अस्थिभ्याम् ।
दधिभ्याम् ॥
छन्दस्यपि दृश्यते ॥ ७,१.७६ ॥
_____ काशिकावृत्तिः७,१.७६:
अस्थिदधिसक्थ्यक्ष्णामनङ्छन्दस्यपि दृश्यते ।
यत्र विहितस्ततोऽन्यत्र अपि दृश्यते ।
अचि इत्युक्तम्, अनजादौ ऐ दृश्यते ।
इन्द्रो दधीचो अस्थभिः ।
भद्रं पश्येमाक्षभिः ।
तृतीयादिषु इत्युक्तम्, अतृतीयादिषु अपि दृश्यते ।
अस्थान्युत्कृत्य जुहोति ।
विभक्तौ इत्युक्त, अविभक्तावपि दृश्यते ।
अक्षण्वता लाङ्गलेन ।
अस्थन्वन्तं यदनस्था बिभर्ति ॥
ई च द्विवचने ॥ ७,१.७७ ॥
_____ काशिकावृत्तिः७,१.७७:
द्विवचने परतः छन्दसि विषये अस्थ्यादीनामीकारादेशो भवति, स च उदात्तः ।
अक्षी ते इन्द्र पिङ्गले कपेरिव ।
अक्षीभ्यां ते नासिकाभ्याम् ।
अक्षी इत्यत्र नुं परत्वादीकारेण बध्यते ।
तेन कृते सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव इति पुनर्नुं न क्रियते ॥
न अभ्यस्ताच्छतुः ॥ ७,१.७८ ॥
_____ काशिकावृत्तिः७,१.७८:
अभ्यस्तादङ्गादुत्तरस्य शतुः नुं न भवति ।
ददत्, ददतौ, ददतः ।
दधत्, दधौ, दधतः ।
जक्षत्, जक्षतौ, जक्षतः ।
जाग्रत्, जाग्रतौ, जाग्रतः ।
शतुरनन्तर ईकारो न विहितः इति व्यवहितस्य अपि नुमः प्रतिषेधो विज्ञायते ॥
वा नपुंसकस्य ॥ ७,१.७९ ॥
_____ काशिकावृत्तिः७,१.७९:
अभ्यस्तादङ्गादुत्तरो यः शतृप्रत्ययस्तदन्तस्य नपुंसकस्य वा नुमागमो भवति ।
ददति, ददन्ति कुलानि ।
दधति, दधन्ति कुलानि ।
जक्षति, जक्षन्ति कुलानि ।
जाग्रति, जाग्रन्ति कुलानि ॥
[॰७९२]
आच्छीनद्योर्नुम् ॥ ७,१.८० ॥
_____ काशिकावृत्तिः७,१.८०:
अवर्णान्तादङ्गादुत्तरस्य शतुः वा नुमागमो भवति शीनद्योः परतः ।
तुदती कुले, तुअदन्ती कुले ।
तुदती ब्राह्मणी, तुदन्ती ब्राह्मणी ।
याती कुले, यान्ती कुले ।
याती ब्राह्मणी, यान्ती ब्राह्मणी ।
करिष्यती कुले, करिष्यन्ती कुले ।
करिष्यती ब्राह्मणी, करिष्यन्ती ब्राह्नणी ।
अत्र अन्तरङ्गत्वादेकादेशे कृते व्यपवर्गाभावातवर्णान्ता दङ्गादुत्तरस्य शतुः इति न युज्यते वक्तुम्, उभयत आश्रये नान्तदिवतित्यन्तादिवद्भावोऽपि नास्ति, भूतपूर्वगत्याश्रयणे वा अदती, घ्नती इत्येवमादिषु अतिप्रसङ्गः इति ? अत्र समाधिं केचिदाहुः ।
शतुरवयवे शतृशब्दो वर्तते अवर्णान्तादङ्गादुत्तरो यः शत्रवयवः इति ।
अपरे पुनराहुः ।
आतित्यनेन शीनद्यावेव विशेष्येते ।
अवर्णान्तादङ्गादुत्तरे ये शीनद्यौ तयोः परतः शत्रन्तस्य नुं भवति इति ।
तत्र येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातिति तकारेण एव व्यवधानमाश्रयिष्यते ।
आतिति किम् ? कुर्वती ।
सुन्वती ।
शीनद्योः इति किम् ? तुदताम् ।
नुदताम् ॥
शप्श्यनोर्नित्यम् ॥ ७,१.८१ ॥
_____ काशिकावृत्तिः७,१.८१:
शप्श्यनित्येतयोः शतुः शीनद्योः परतो नित्यं नुमागमो भवति ।
पचन्ती कुले ।
पचन्ती ब्राह्मणी ।
दीव्यन्ती कुले ।
दीव्यन्ती ब्राह्मणी ।
सीव्यन्ती कुले ।
सिव्यन्ती ब्राह्नणी ।
नित्यग्रहणं वा इत्यस्य अधिकारस्य निवृत्त्यर्थम् ।
इहारम्भसामर्थ्यान्नित्यमुत्तरत्र विकल्प एव अशङ्क्येत ॥
सावनडुह ॥ ७,१.८२ ॥
_____ काशिकावृत्तिः७,१.८२:
सौ परतः अनडुहोऽङ्गस्य नुमागमो भवति ।
अनड्वान् ।
हे अनड्वन् ।
अत्र केचितातित्यधिकारादाममोः कृतयोः नुमं कुर्वन्ति ।
तेन नुमा आममौ न बाध्येते, आअमम्भ्यां च नुमिति ।
अपरे तु सत्यपि सामान्यविशेषत्वे आममोः नुमश्च समावेशमिच्छन्ति, न बाध्यबाधकभावम्, यथा चिचीषत्यादिषु दीर्घत्वद्विर्वचनयोः इति ॥
दृक्स्ववस्स्वतवसां छन्दसि ॥ ७,१.८३ ॥
_____ काशिकावृत्तिः७,१.८३:
दृक्स्ववस्स्वतवसित्येतेषां सौ परतो नुमागमो भवति छन्दसि विषये ।
ईदृङ् ।
तादृग् ।
यादृग् ।
सदृङ् ।
स्ववान् ।
स्वतवान् पायुरग्ने ॥
दिव औत् ॥ ७,१.८४ ॥
_____ काशिकावृत्तिः७,१.८४:
दिवित्येतस्य सौ परतः औतित्ययमादेशो भवति ।
द्यौः ।
दिविति प्रातिपदिकमस्ति निरनुबन्धकम् ।
धातुस्तु सानुबन्धकः, स इह न गृह्यते, अक्षद्यूः ॥
[॰७९३]
पथिमथ्यृभुक्षामात् ॥ ७,१.८५ ॥
_____ काशिकावृत्तिः७,१.८५:
पथिन्मथिनृभुक्षिनित्येतेषामङ्गानां सौ परतः आकारः आदेशो भवति ।
पन्थाः ।
अन्थाः ।
ऋभुक्षाः ।
स्थानिन्यनुनासिकेऽपि आकारोऽनुनासिको न भवति ।
भाव्यमनेन सवर्णानां ग्रहणं न भवति इति शुद्धो ह्ययमुच्वार्यते ॥
इतोऽत्सर्वनामस्थाने ॥ ७,१.८६ ॥
_____ काशिकावृत्तिः७,१.८६:
पथ्यादीनामिकारस्य स्थाने अकारादेशो भवति सर्वनामस्थाने परतः ।
पन्थाः, पथानौ, पन्थानः ।
पन्थानम्, पन्थानौ ।
मन्थाः, मन्थानौ, मन्थानः ।
मन्थानम्, मन्थानौ ।
ऋभुक्षाः, ऋक्भुक्षाणौ, ऋभुक्षाणः ।
ऋभुक्षाणम्, ऋभुक्षाणौ ।
आतिति वर्तामाने पुनरद्वचनं षपूर्वार्थम् ।
ऋभुक्षणमित्यत्र वा षपूर्वस्य निगमे (*६,४.९) इति दीर्घविकल्पः ॥
थो न्थः ॥ ७,१.८७ ॥
_____ काशिकावृत्तिः७,१.८७:
पथिमथोः थकारस्य स्थाने न्थः इत्ययमादेशो भवति सर्वनामस्थाने परतः ।
पन्थाः, पन्थानौ, पन्थानः ।
मन्थाः, मन्थानौ, मन्थानः ॥
भस्य टेर्लोपः ॥ ७,१.८८ ॥
_____ काशिकावृत्तिः७,१.८८:
पथ्यादीनां भसञ्ज्ञकानां टेः लोपो भवति ।
पथः ।
पथा ।
पथे ।
मथः ।
मथा ।
मथे ।
ऋभुक्षः ।
ऋभुक्षा ।
ऋभुक्षे ।
सर्वनामस्थाने इत्यनुवर्तमानमपि विरोधादिह न सम्बध्यते ॥
पुंसोऽसुङ् ॥ ७,१.८९ ॥
_____ काशिकावृत्तिः७,१.८९:
पुंस इत्येतस्य सर्वनामस्थाने परतोऽसुङित्ययमादेशो भवति ।
पुमान्, पुमांसौ, पुमांसः ।
इह परमपुमानिति प्रागेव विभक्त्युत्पत्तेः समासान्तोदात्तत्वम्, उत्पन्नायां विभक्तौ असुञित्यनिष्टः स्वरः प्राप्नोति ? तदर्थमसुङि उपदेशिवद्वचनं कर्तव्यम् ।
तेन परमपुमानित्यन्तोदात्तो भवति ।
पुमानित्ययं पुनराद्युदात्त एव ॥
[॰७९४]
गोतो णित् ॥ ७,१.९० ॥
_____ काशिकावृत्तिः७,१.९०:
गोशदात्परं सर्वनामस्थानं णित्भवति ।
णित्कार्यं तत्र भवति इत्यर्थः ।
गौः, गावौ, गावः ।
तपरकरणं किम् ? चित्रगुः ।
शबलगुः ।
कथं हे चित्रगो, हे शबलगव इति ? अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति सम्बुद्धिजसोर्गुने कृते णित्त्वं न भवति ।
अथ वा गोतः इति सम्बधलक्षणा षष्ठी, गोतः सम्बन्धि यत्सर्वनामस्थानमिति ।
यच्च तदर्थस्यैकत्वादिषु सर्वनामस्थानं तद्गोः सर्वनामस्थानमित्युच्यते ।
चित्रगुशब्दात्तु सर्वनामस्थानं तदन्यपदार्थसैकत्वादिनाह ।
तपरकरणं तु निर्देशर्थमेव ।
केचितोतो णितिति पठन्ति, द्योशब्दादपि यत्सर्वनामस्थानं विद्यते तदर्थम् ।
द्यौः, द्यावौ, द्यावः ।
गोतः इत्येतदेव तपरकरणनिर्देशातोकारान्तोपलक्षणं द्रष्टव्यम् ।
वर्णनिर्देशेषु हि तपरकरणं प्रसिद्धम् ॥
णलुत्तमो वा ॥ ७,१.९१ ॥
_____ काशिकावृत्तिः७,१.९१:
उत्तमो णल्वा णित्भवति ।
णित्कार्यं तत्र वा भवति इत्यर्थः ।
अहं चकर, अहं चकार ।
अहं पपच, अहं पपाच ॥
सख्युरसम्बुद्धौ ॥ ७,१.९२ ॥
_____ काशिकावृत्तिः७,१.९२:
असम्बुद्धौ यः सखिशब्दः तस्मात्परं सर्वनामस्थानं णित्भवति ।
सखायौ ।
सखायः ।
असम्बुद्धौ इति किम् ? हे सखे ॥
अनङ्सौ ॥ ७,१.९३ ॥
_____ काशिकावृत्तिः७,१.९३:
सखिशब्दस्य सौ परतः अनङित्ययमादेशो भवति, स चेत्सुशब्दः सम्बुद्धिः न भवति ।
सखा ।
असम्बुद्धौ इति किम् ? हे सखे ॥
ऋदुशनस्पुरुदंसोऽनेहसां च ॥ ७,१.९४ ॥
_____ काशिकावृत्तिः७,१.९४:
ऋकारान्तानामङ्गानामुशनस्पुरुदंससनेहसित्येतेषां च असम्बुद्धौ सौ परतः अनङादेशो भवति ।
कर्ता ।
हर्ता ।
माता ।
पिता ।
भ्राता ।
उशना ।
उरुदंसा ।
अनेहा ।
असम्बुद्धौ इत्येव, हे कर्तः ।
हे मातः ।
हे पितः ।
हे पुरुदंसः ।
हे अनेहः ।
हे उशनः ।
उशनसः सम्बुद्धौ अपि पक्षे अनङिष्यते ।
हे उशनन् ।
न ङिसम्बुद्ध्योः (*८,२.८) इति नलोपप्रतिषेधोऽपि पक्षे इष्यते ।
हे उशन ।
तथा चोक्तम् सम्बोधने तूशनस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् ।
माध्यन्दिनिर्वष्टि गुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः ॥
इति ।
तपरकरणमसन्देहार्थम् ॥
[॰७९५]
तृज्वत्क्रोष्टुः ॥ ७,१.९५ ॥
_____ काशिकावृत्तिः७,१.९५:
क्रोष्टुशब्दः तुन्प्रत्ययान्तः सञ्ज्ञाशब्दः सर्वनामस्थानेऽसम्बुद्धौ परतः तृज्वद्भवति ।
तृजन्तस्य यद्रूपं तदस्य भवति इत्यर्थः ।
रूपातिदेशोऽयम् ।
प्रयासत्तेश्च क्रुशेरेव ऋजन्तस्य य रूपं तदतिदिश्यते ।
तच्च क्रोष्तृ इत्येतदन्तोदात्तम् ।
क्रोष्टा, क्रोष्टारौ, क्रोष्टारः ।
क्रोष्टारम्, क्रोष्टरौ ।
सर्वनामस्थाने इत्येव, क्रोष्टून् ।
असम्बुद्धौ इत्येव, हे क्रोष्टो ॥
स्त्रियां च ॥ ७,१.९६ ॥
_____ काशिकावृत्तिः७,१.९६:
असर्वनामस्थानार्थमारम्भः ।
स्त्रियां च क्रोष्तुशब्दस्य तृज्वद्भवति ।
क्रोष्ट्री ।
क्रोष्ट्रीभ्याम् ।
क्रोष्ट्रीभिः ।
क्रोष्टुशब्दं केचिद्गौरादिषु पठन्ति, ते ङीषि प्रत्यये तृज्वद्भावं कुर्वन्ति ।
तेषां पञ्चभिः क्रोष्ट्रीभिः क्रीतैः पञ्चक्रोष्टृभी रथैः इति स्त्रीशब्दस्य लुकि कृते न सिध्यति, तत्र प्रतिविधेयम् ।
ये तु गौरादिषु न पठन्ति, तेषां स्त्रियामित्यर्थनिर्देशः, स्त्रियां वर्तमानः क्रोष्टुशब्दः तृज्वद्भवति ।
कृतेऽतिदेशे ऋन्नेभ्यो ङीप्(*४,१.५) इति ङीप्प्रत्ययः ।
तत्र उदात्तयणो हल्पूर्वात्(*६,१.१७४) इत्यन्तोदात्त एव क्रोष्ट्रीशब्दो भवति ॥
विभाषा तृतीयादिष्वचि ॥ ७,१.९७ ॥
_____ काशिकावृत्तिः७,१.९७:
तृतीयादिषु विभक्तिषु अजादिषु क्रोष्टुर्विभाषा तृज्वद्भवति ।
क्रोष्ट्री, क्रोष्टुना ।
क्रोष्ट्रे क्रोष्टवे ।
क्रोष्टुः, क्रोष्टोः ।
क्रोष्टरि, क्रोष्टौ ।
क्रोष्ट्रोः, क्रोष्ट्वोः ।
तृतीयादिषु इति किम् ? क्रोष्टून् ।
अचि इति किम् ? क्रोष्टुभ्याम् ।
क्रोष्टुभिः ।
तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम्नुटौ भवतः ।
प्रियक्रोष्टुने अरण्याय ।
हतक्रोष्टु वृषलकुलाय ।
नुट् क्रोष्टूनाम् ॥
चतुरनडुहोरामुदात्तः ॥ ७,१.९८ ॥
_____ काशिकावृत्तिः७,१.९८:
चतुरनडुः इयेतयोः सर्वनामस्थाने परतः आमागमो भवति, स चोदात्तः ।
चत्वारः ।
अनड्वान्, अनड्वाहौ, अनड्वाहः ।
अनड्वाहम् ।
तदन्तविधिरत्र+इष्यते ।
प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः ।
प्रियानड्वान्, प्रियान्ड्वाहौ, प्रियानड्वाहः ।
अनडुहः स्त्रियां वेति वक्तव्यम् ।
अनडुही, अनड्वाही ।
गौरादिपाठात्सिद्धम् ॥
[॰७९६]
अं सम्बुद्धौ ॥ ७,१.९९ ॥
_____ काशिकावृत्तिः७,१.९९:
सम्बुद्धौ परतश्चतुरनडुहोः अमागमो भवति ।
पूर्वस्य अयमपवादः ।
हे प्रियचत्वः ।
हे प्रियानड्वन् ॥
ॠत इद्धतोः ॥ ७,१.१०० ॥
_____ काशिकावृत्तिः७,१.१००:
ॠकारान्तस्य धातोः अङ्गस्य इकारादेशो भवति ।
किरति ।
गिरति ।
आस्तीर्णम् ।
विशीर्णम् ।
धातोः इति किम् ? पितॄणाम् ।
मातॄणाम् ।
लाक्षणिकस्य अप्यत्र ग्रहणमिष्यते ।
चिकीर्षति इत्यत्र अपि यथा स्यातिति धातुग्रहणं क्रियते ॥
उपधायाश्च ॥ ७,१.१०१ ॥
_____ काशिकावृत्तिः७,१.१०१:
उपधायाश्च ॠकारस्य इकारादेशो भवति ।
कीर्तयति, कीर्तयतः, कीर्तयन्ति ॥
उदोष्ठ्यपूर्वस्य ॥ ७,१.१०२ ॥
_____ काशिकावृत्तिः७,१.१०२:
ओष्थ्यः पूर्वो यस्मादॄकारातसौ ओष्ठ्यपूर्वः, तदन्तस्य धातोरङ्गस्य उकारादेशो भवति ।
पूर्ताः पिण्डाः ।
पुपूर्षति ।
मुमूर्षति ।
सुस्वूर्षति ।
दन्त्योष्ठ्यपूर्वोऽप्योष्ठ्यपूर्वो भवति इत्यत्र अपि भवति, वुवूर्षति ऋत्विजम्, प्रावुवूर्षति कम्बलम् ।
ओष्ठ्यो ह्यत्र प्रत्यासत्तेरङ्गावयव एव गृह्यते, तेन ॠ गतौ इत्यस्य सम्पूर्वस्य समीर्णमिति भवति ।
इत्त्वोत्त्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन ।
आस्तरणम् ।
आस्तारकः ।
निपरणम् ।
निपारकः ।
निगरणम् ।
निगारकः ॥
बहुलं छन्दसि ॥ ७,१.१०३ ॥
_____ काशिकावृत्तिः७,१.१०३:
छन्दसि विषये ॠकारान्तस्य धातोरङ्गस्य बहुलमुकारादेशो भवति ।
ओष्ठ्यपूर्वस्य इत्युक्तम्, अनोष्थ्यपूर्वस्य अपि भवति ।
मित्रावरुणौ ततुरिः ।
दूरे ह्यध्वा जगुरिः ।
ओष्ठ्यपूर्वस्य अपि न भवति ।
पप्रितमम् ।
वव्रितमम् ।
क्वचिद्भवति ।
पुपुरिः ॥
इति काशिकायां वृत्तौ सप्तमाध्यायस्य प्रथम्ः पादः ॥ ॥
सप्तमाध्यायस्य द्वितीयः पादः ।
[॰७९७]
सिचि वृद्धिः परस्मैपदेषु ॥ ७,२.१ ॥
_____ काशिकावृत्तिः७,२.१:
परस्मैपदपरे सिचि परतः इगन्तस्य अङ्गस्य वृद्धिर्भवति ।
अचैषीत् ।
अनैषीत् ।
अलावीत् ।
अपावीत् ।
अकार्षीत् ।
अहार्षीत् ।
अन्तरङ्गमपि गुणमेषां वृद्धिर्वचनाद्बाधते ।
न्यनुवीत्, न्यधुवीतित्यत्र कुटादित्वात्ङित्त्वे सति प्रतिषिद्धायां वृद्धौ उवङादेशः क्रियते ।
परस्मैपदेषु इति किम् ? अच्योष्ट ।
अप्लोष्ट ॥
अतो ल्रान्तस्य ॥ ७,२.२ ॥
_____ काशिकावृत्तिः७,२.२:
रेफलकारौ यावतः अन्तौ समीपौ तदन्तस्य अङ्गस्य अत एव स्थाने वृद्धिः भवति ।
क्षर अक्षारीत् ।
त्सर अत्सारीत् ।
ज्वल अज्वालीत् ।
ह्मल अह्मालीत् ।
अतो हलादेर्लघोः (*७,२.७) इति विकल्पस्य अयमपवादः ।
अतः इति किम् ? न्यखोरीत् ।
न्यमीलीत् ।
ल्रान्तस्य इति किम् ? मा भवानटीत् ।
मा भवानशीत् ।
अन्तग्रहणं किम् ? अवभ्रीत् ।
अश्वल्लीत् ।
अत्र यौ रेफलकारौ अङ्गस्य अन्तौ न तावतः समीपौ ॥
वदव्रजहलन्तस्य अचः ॥ ७,२.३ ॥
_____ काशिकावृत्तिः७,२.३:
वदव्रजोः हलन्तानां च अङ्गानामचः स्थाने वृद्धिर्भवति सिचि परस्मैपदे परतः ।
अवादीत् ।
अव्राजीत् ।
विकल्पबाधनार्थं वदिव्रजिग्रहणम् ।
हलन्तानाम् अपाक्षीत् ।
अभैत्सीत् ।
अच्छैत्सीत् ।
अरौत्सीत् ।
अत्र योगविभागे सति हलन्तग्रहणमन्तरेण अपि सिध्यति ।
कथम् ? वदिव्रज्योः इत्यत्र प्रथमयोगे अतः इति स्थानी अनुवर्तते, ततो यतचः इति सूत्रं तत्र अङ्गेन अज्विशेष्यते, अङ्गस्य अचः सिचि परतः वृद्धिर्भवति ।
तदेतद्धल्ग्रहणं हल्समुदायपरिग्रहार्थम् ।
इह अपि स्यात्, अराङ्क्षीत्, असाङ्क्षीत् ।
अन्यथा हि येन न अव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातित्येकेन वर्णेन व्यवधाने स्यात्, अनेकेन हला न स्यात् ।
उदवोढाम्, उदवोढमित्यत्र वहेः सिचि ढत्वसलोपादीनां पूर्वत्र असिद्धम् (*८,२.१) इत्यसिद्धत्वात्पूर्वं हलन्तलक्षणा वृद्धिः क्रियते, पश्चाद्ढलोपनिमित्तमोत्वम् ।
तत्र कृते पुनर्वृद्धिर्न भवति, कृतत्वात् ।
यत्र त्वकृता वृद्धिः, ओकारस्य एव तत्र भवति, सोढामित्रस्य अपत्यं सौढामित्रिः इति ॥
नेटि ॥ ७,२.४ ॥
_____ काशिकावृत्तिः७,२.४:
इढादौ सिचि हलनतस्य अङ्गस्य वृद्धिर्न भवति ।
अदेवीत् ।
असेवीत् ।
अकोषीत् ।
अमोषीत् ।
हलन्तस्य इत्येव, अलावीत् ।
ननु च एतदप्यन्तरङ्गत्वात्गुणावादेशयोः कृतयोः हलन्तं भवति ? न+एतदेवम् ।
अन्तरङ्गमपि गुणं वचनारम्भसामर्थ्यात्सिचि वृद्धिर्बाधते इत्युक्तम् ॥
[॰७९८]
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ॥ ७,२.५ ॥
_____ काशिकावृत्तिः७,२.५:
हकारान्तानां मकारान्तानां यकारान्तानामङ्गानाम्, क्षण श्वस जागृ णि श्वि इत्येतेषाम्, एदितां च इडादौ सिचि परस्मैपदे परतो वृद्धिर्न भवति ।
ग्रह अग्रहीत् ।
स्यम अस्यमीत् ।
व्यय अव्ययीत् ।
टुवम अवमीत् ।
क्षण अक्षणीत् ।
श्वस अश्वसीत् ।
जागृ अजागरीत् ।
णि औनयीत् ।
ऐलयीत् ।
श्वि अश्वयीत् ।
एदिताम् रगे अरगीत् ।
कखे अकखीत् ।
ह्म्यन्तक्षणश्वसामेदितां च अतो हलादेर्लघोः (*७,२.७) इति विकल्पे प्राप्ते प्रतिषेधः ।
जागृणिश्वीनां तु सिचि वृद्धिः प्राप्ता, सा च नेटि (*७,२.४) इति न प्रतिषिध्यते ।
न च अन्तरङ्गत्वादत्र पूर्वं गुणो भवति, सिचि वृद्धेरनवकाशत्वात् ।
यदि पूर्वं गुणः स्यादिह णिश्विग्रहणमनर्थकं स्यात्, गुणायादेशयोः कृतयोः यकारन्तत्वादेव प्रतिषेधस्य सिद्धत्वात् ।
तस्मादिदमेव श्विग्रहणं ज्ञापकं न सिद्यन्तरङ्गमस्ति इति ।
अथ जागृग्रहणं किमर्थम्, जाग्रोऽविचिण्णल्ङित्सु (*७,३.८५) इति जागर्तेर्गुणो वृद्धेरपवादो विधीयते, स यथा अचो ञ्णिति (*६,२.११५) इति वृद्धिं बाधते तथा सिचि वृद्धिमपि बाधिष्यते ? न+एतदस्ति ।
कृते गुणे अतो ल्रान्तस्य (*७,२.२) इति य वृद्धिः प्राप्नोति सा प्रतिषिध्यते ।
अथ गुणविधानसमर्थ्यादुत्तरकालभाविन्यपि वृद्धिर्बाध्यते, यथा जागरयति इत्यत्र अत उपधायाः (*७,१.११३) इत्यपि वृद्धिर्न भवति, तथा चिण्णलोः प्रतिषेधोऽर्थवान् भवति इति शक्यमिह जागृग्रहणमकर्तुम् ? तत्तु क्रियते विस्पष्टार्थम् ॥
ऊर्णोतेर्विभाषा ॥ ७,२.६ ॥
_____ काशिकावृत्तिः७,२.६:
ऊर्णोतेरिडादौ सिचि परस्मैपदपरे परतो यिभाषा वृद्धिर्न भवति ।
प्रौर्णवीत्, प्रौर्णावीत् ।
विभाषोर्णोः (*१,२.३) इति अङित्त्वपक्षे वृद्धिविकल्पोऽयम् ।
ङित्त्वपक्षे तु गुणवृद्ध्योरभावे उवङ्भवति ।
प्रौर्णुवीत् ॥
अतो हलादेर्लघोः ॥ ७,२.७ ॥
_____ काशिकावृत्तिः७,२.७:
हलादेरङ्गस्य लघोरकारस्य इडादौ सिचि परस्मैपदपरे परतो विभाषा वृद्धिर्न भवति ।
अकणीत्, अकाणीत् ।
अरणीत्, अराणीत् ।
अतः इति किम् ? अदेवीत् ।
असेवीत् ।
न्यकुटीत्, न्यपुटीत्, इत्यत्र अतः इत्यस्मिन्नसति स्थानिनिर्देशार्थमचः इत्येतदनुवर्तयितव्यम् ।
तत्र अज्लक्षणा वृद्धिरिग्लक्षणा न भवति इति क्ङिति च (*७,२.११८) इति प्रतिषेधो न स्यात् ।
हलादेरिति किम् ? म भवानशीत् ।
मा भवानटीत् ।
लघोः इति किम् ? अतक्षीत् ।
अरक्षीत् ।
अथ+इह कस्मान्न भवति अचकासीतिति ? येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातिति हला व्यवधानमाश्रितम्, न पुनरचापि व्यवधानमिति वृद्धिर्न भवति ।
अथ पुनरेकेन वर्णेन व्यवधानमश्रीयते न पुनरनेकेन इति कल्पने शक्यमकर्तुं लघोः इति, अतक्षीतित्यत्र अनेकेन व्यवधानमिति न भविस्यति ? तत्क्रियते विस्पष्टार्थम् ।
इटि इत्येव, अपाक्षीत् ॥
[॰७९९]
नेड्वशि कृति ॥ ७,२.८ ॥
_____ काशिकावृत्तिः७,२.८:
वशादौ कृति प्रत्यये परतः इडागमो न भवति ।
वरमनादौ प्रयोजनम् ।
ईशिता ।
ईशितुम् ।
ईश्वरः ।
दीपिता ।
दीपितुम् ।
दीप्रः ।
भसिता ।
भसितुम् ।
भस्म ।
याचिता ।
आचितुम् ।
याच्ञा ।
वरमनादौ इत्युदाहरणप्रदर्शनार्थम्, न परिगणनम् ।
तेन ञमन्ताड्डः इत्येवमादावपि हि प्रतिषेधो भवति ।
अथ तत्र उणादयो बहुलम् (*३,३.१) इति समाधीयते ? सम्भवोदाहरनप्रदर्शनमेतत् ।
कृति इति किम् ? रुदिवः ।
रुदिमः ॥
तितुत्रतथसिसुसरकसेषु च ॥ ७,२.९ ॥
_____ काशिकावृत्तिः७,२.९:
ति तु त्र त थ सि सु सर क स इत्येतेषु कृत्सु इडागमो न भवति ।
ति इति क्तिङ्क्तिचोः सामन्यग्रहणम् ।
क्तिच् तनिता ।
तनितुम् ।
तन्तिः ।
क्तिन् दीपिता ।
दीपितुम् ।
दीप्तिः ।
तु सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन् ।
सचिता ।
सचितुम् ।
सक्तुः ।
त्र दाम्नीशसयुयुज इति ष्ट्रन् ।
पतिता ।
पतितुम् ।
पत्रं वाहनम् ।
उणादिष्वपि सर्वधातुभ्यः ष्ट्रन् ।
तनिता ।
तनितुम् ।
तन्त्रम् ।
त हसिमृग्रिण्वा+अमिदमिलूपूधुर्विभ्यस्तन् ।
हसिता ।
हसितुम् ।
हस्तः ।
लविता ।
लवितुम् ।
लोतः ।
पविता ।
पवितुम् ।
पोतः ।
धूर्विता ।
धूर्वितुम् ।
धूर्तः ।
औणादिकस्य+एव तशब्दस्य ग्रहणमिष्यते, न पुनः क्तस्य, हसितमित्येव हि तत्र भवति ।
थ हनिकुषिनीरमिकाशिभ्यः क्थन् ।
कोषिता ।
कोषितुम् ।
कुष्ठम् ।
काशिता ।
काशितुम् ।
काष्ठम् ।
सि प्लुषिशुषिकुषिभ्यः क्षिः ।
कोषिता ।
कोषितुम् ।
कुक्षिः ।
सुक्च इषेः ।
एषिता ।
एषितुम् ।
इक्षुः ।
अशेः क्षरन् ।
अशिता ।
अशितुम् ।
अक्षरम् ।
क इण्भीकापाशल्यतिमर्चिभ्यः कन् ।
शलिता ।
शलितुम् ।
शल्कः ।
स वॄतॄवदिहनिकमिकषिभ्यः सः ।
वदिता ।
वदितुम् ।
वत्सः ।
तितुत्रतथेष्वग्रहादीनामिति वक्तव्यम् ।
ग्रहादयो ग्रहप्रकाराः, येषामिट्क्तिनि दृश्यते ।
निगृहीतिः ।
उपस्निहितिः ।
निकुचितिः ।
निपठितिः ।
कृति इत्येव, रोदिति ।
स्वपिति ॥
एकाच उपदेशेऽनुदात्तात् ॥ ७,२.१० ॥
_____ काशिकावृत्तिः७,२.१०:
उपदेशे य एकाच्धातुरनुदात्तश्च तस्मादिडागमो न भवति ।
प्रकृत्याश्रयोऽयं प्रतिषेधः ।
के पुनरुपदेशेऽनुदात्ताः ? ये तथा गणे पठ्यन्ते, त एव विस्पष्टार्थमनिट्कारिकासु प्रविभक्ताः प्रदर्श्यन्ते ।
[॰८००]
अनिट्स्वरान्तो भवति इति दृश्यतामिमांस्तु सेटः प्रवदन्ति तद्विदः ।
अदन्तमॄदन्तमृतां च वृङ्वृञौ श्विडीङिवर्णेष्वथ शीङ्श्रिञावपि ॥
गुणस्थमूदन्तमुतां च रुस्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः ।
इति स्वरान्ता निपुणं समुच्चितास्ततो हलन्तानपि सन्निबोधत ॥
द्वये एव धातवः, स्वरान्ताः व्यञ्जनान्ताश्च ।
तत्र सर्वे स्वरान्ताः एकाचः अनुदात्ताः ।
अवधिष्ट ।
ॠदन्तम् तरिता, तरीता ।
ऋतां च वृङ्वृञौ निर्वरिता, निर्वरीता ।
प्रवरिता, प्रवरीता ।
श्विडीङिवर्णेष्वथ शीङ्श्रिञावपि श्वयिता ।
उड्डयिता ।
शयिता ।
श्रयिता ।
गणस्थमूदन्तम् लविता ।
पविता ।
उतां च उर्स्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः रविता ।
प्रस्नविता ।
क्षविता ।
प्रोर्णविता ।
वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनमित्यतिदेशादेकाच्त्वमूर्णोतेरस्ति इति उदात्त उपदिश्यते ।
यविता ।
नविता ।
क्ष्णविता ।
इति स्वरान्ता निपुणं समुच्चितास्ततो हलन्तानपि सन्निबोधत ।
शकिस्तु कान्तेष्वनिडेक इष्यते घसिश्च सान्तेसु वसिः प्रसारणी ।
घसिः प्रकृत्यन्तरमस्ति घस्ता ।
वसिः प्रसारणी वस्ता ।
प्रसारणी इति किम् ? वसिता वस्त्राणाम् ।
वस निवासे इत्यस्य यजादित्वात्संप्रसारणं विहितम्, न तु वस आच्छादने इत्यस्य ।
सभिस्तु भान्तेष्वथ मैथुने यभिस्ततस्तृतीयो लभिरेव नेतरे ॥
आरब्धा ।
यब्धा ।
लब्धा ।
यमिर्यमन्तेष्वनिडेक इष्यते रमिस्च यश्च श्यनि पठ्यते मनिः ।
नमिश्चतुर्थो हनिरेव पञ्चमो गमिश्च षष्ठः प्रतिषेधवाचिनाम् ॥
यन्ता ।
रन्ता ।
मन्ता ।
श्यनि इति किम् ? मनुतेः मनिता इत्येव भवति ।
नन्ता ।
हन्ता ।
गन्ता ।
दिहिर्दुहिर्मेहतिरोहती वहिर्नहिस्तु षष्थो दहतिस्तथा लिहिः ।
इमेऽनिटोऽष्टाविह मुक्तसंशया गणेषु हान्ताः प्रविभज्य कीर्तिताः ॥
देग्धा ।
दोग्धा ।
मेढा ।
रोढा ।
वोढा ।
नद्धा ।
दग्धा ।
लेढा ।
मुक्तसंशयाः इति किम् ? तन्त्रान्तरे चत्वारोऽपरे पठ्यन्ते ।
सहिमुहिरिहिलुहयः ।
तत्र सहेर्विकल्पस्तकारादौ, मुहिरपि रधादौ पठ्यते, तेन तौ ससंशयौ सविकल्पौ ।
इतरौ तु धातुषु न पठ्येते, कैश्चिदभ्युपगम्येते इति स्वरूपेण+एव ससंशयौ ।
[॰८०१]
दिशिं दृशिं दंशिमथो मृशिं स्पृशिं रिशिं रुशिं क्रोशतिमष्टमं विशिम् ।
लिशं च शान्ताननिटः पुराणगाः पठन्ति पाठेषु दशैव नेतरान् ॥
देश्टा ।
द्रष्ता ।
दंष्टा ।
आम्रष्टा, आमर्ष्टा ।
स्प्रष्टा, स्पर्ष्टा ।
ऋदुपधानामुदात्तोपदेशानां मृजिदृशी वर्जयित्वा अनुदात्तस्य चर्दुपधस्य अन्यतरस्याम् (*६,१.५९) इति रमागमविकल्पः ।
रेष्टा ।
रोष्टा ।
क्रोष्टा ।
प्रवेष्टा ।
लेष्टा ।
रुधिः सराधिर्युधिबन्धिसाधयः क्रुधक्षुधी शुध्यतिबुध्यती व्यधिः ।
इमे तु धान्ता दश येऽनिटो मतास्ततः परं सिध्यतिरेव नेतरे ॥
रोद्धा ।
राद्धा ।
योद्धा ।
बन्द्धा ।
साद्धा ।
क्रोद्धा ।
क्षोद्धा ।
शोद्धा ।
बोद्धा ।
व्यद्धा ।
सेद्धा ।
बुध्यतिसिध्यत्योः श्यना निर्देशात्न्याय्यविकरणयोर्बुद्धिसिध्योरिड्भवत्येव ।
बोधिता ।
सिधिता ।
निष्ठायामापि प्रतिषेधाभावात्बुधितम्, सिधितमित्येव भवति ।
शिषिं पिषिं शुष्यतिपुष्यती त्विषिं विषिं श्लिषिं तुष्यतिदुष्यती द्विषिम् ।
इमान् ।
दशैवोपदिशन्त्यनिड्विधौ गणेषु षान्तान् कृषिकर्षती तथा ॥
शेष्टा ।
पेष्टा ।
शोष्ट ।
पोष्टा ।
त्वेष्टा ।
वेष्टा ।
श्लेष्ट ।
तोष्टा ।
दोष्टा ।
द्वेष्टा ।
क्रष्ट ।
कर्ष्टा ।
कृषेस्तौदादिकस्य भौवादिकस्य च कृषिकर्षती इति निर्देशः ।
तपिं तिपिं चापिमथो वपिं स्वपिं लिपिं लुपिं तृप्यतिदृप्यती सृपिम् ।
स्वरेण वीचेन शपिं छुपिं क्षिपिं प्रतीहि पान्तान् पठितांस्त्रयोदश ॥
तप्ता ।
तेप्ता ।
आप्ता ।
वप्ता ।
स्वप्ता ।
लेप्ता ।
लोप्ता ।
तृप्यतिदृप्यत्योरनुदात्तत्वममागमार्थमेव ।
इट्त्वनयोः रधादिपाठाद्विकल्पेन भवति ।
त्रप्ता, तर्प्ता, तर्पिता ।
द्रप्ता, दर्प्ता, दर्पिता ।
तुदादिषु तु यौ तृपिदृपी तावुदत्तावेव ।
स्रप्ता, सर्प्ता ।
शप्ता ।
छोप्ता ।
क्षेप्ता ।
अदिं हदिं स्कन्दिभिदिच्छिदिक्षुदीन् शदिं सदिं स्विद्यतिपद्यती खिदिम् ।
तुदिं नुदिं विद्यति विन्त इत्यपि प्रतीहि दान्तान् दश पञ्च चानिटः ॥
अत्ता ।
हत्ता ।
स्कन्ता ।
भेत्ता ।
छेत्ता ।
क्षोत्ता ।
शत्ता ।
सत्ता ।
स्वेत्ता ।
स्विद्यति इति श्यना निर्देशो ञिष्विदा इत्यस्य ग्रहणं मा भूतिति ।
उदात्त एव अयम् ।
पत्ता ।
खेत्ता ।
तोत्ता ।
नोत्ता ।
वेत्ता ।
विद्यति विन्त इत्यपि श्यना श्नमा च निर्देशोऽन्यविकरणनिवृत्त्यर्थः ।
वेत्तिविन्दती उदात्तौ एव ।
वेदिता विद्यानाम् ।
वेदिता धनानाम् ।
[॰८०२]
पचिं वचिं विचिरिचिरञ्जिपृच्छतीन्निजिं सिचिं मुचिभजिभञ्जिभृज्जातीन् ।
त्यजिं यजिं युजिरुजिसञ्जिमज्जतीन् भुजिं स्वजिं सृजिमृजी विद्ध्यनिट्स्वरान् ॥
पक्ता ।
वक्ता ।
विवेक्ता ।
रेक्ता ।
रङ्क्ता ।
प्रष्टा ।
निर्णेक्ता ।
सेक्ता ।
मोक्ता ।
भक्ता ।
भङ्क्ता ।
भ्रष्टा, भर्ष्टा ।
त्यक्ता ।
यष्टा ।
योक्ता ।
रोक्ता ।
सङ्क्ता ।
मङ्क्ता ।
भोक्ता ।
परिष्वक्ता ।
स्रष्टा ।
मार्ष्टा ।
मृजिरयमूदित्पठ्यते, ततोऽस्य विकल्पेन इटा भवितव्यम् ।
मार्ष्टा, मर्जिता इति, अमागमोऽप्यस्य न दृश्यते ? तदिह पाठस्य प्रयोजनं चिन्त्यम् ।
केचिदस्य स्थाने विजिं पठन्ति, सृजिं विजिं विद्ध्यनिट्स्वरानिति ।
निजादिषु यो विजिरसौ अनिडिष्यते ।
तथा च तन्त्रान्तरे निजिविजिष्वञ्जिवर्जमित्युक्तम् ।
एकाच इति किम् ? अवधीत् ।
वृद्धिनिवृत्त्यर्थमदन्तो विधिरुपदिश्यते ।
उपदेशग्रहणं किम् ? इह च यथा स्यात्, लविष्यति, पचिष्यति ।
इह च मा भूत्, कर्ता कटान्, कर्तुमिति ॥
श्र्युकः किति ॥ ७,२.११ ॥
_____ काशिकावृत्तिः७,२.११:
श्रि इत्येतस्य उगन्तानां च किति प्रत्यये परतः इडागमो न भवति ।
श्रि श्रित्वा ।
श्रितः ।
श्रितवान् ।
उगन्तानां चयुत्वा ।
युतः ।
युतवान् ।
लूत्वा ।
लूनः ।
लूनवान् ।
वृत्वा ।
वृतः ।
वृतवान् ।
तीर्त्वा ।
वीर्णः ।
तीर्णवान् ।
श्र्युकः इति किम् ? विदितः ।
किति इति किम् ? श्रयिता ।
श्रयितुम् ।
श्रयितव्यम् ।
केचिदत्र द्विककारनिर्देशेन गकारप्रश्लेषं वर्नयन्ति, भूष्णुः इत्येवं यथा स्यात् ।
सौत्रत्वाच्च निर्देशस्य श्र्युकः किति इत्यत्र चर्त्वस्य असिद्धत्वमनाश्रित्य रोरुत्वं न कृतं विसर्जनीयश्च कृतः इति ।
ग्लाजिस्थश्च क्ष्नुः (*३,२.१३९) इत्यत्र स्था आ इत्याकारप्रश्लेषेण स्थास्नोः सिद्धत्वान्न किंचिदेतत् ।
उपदेशे इत्येव, तीर्ण इत्यत्र अपि यथा स्यात् ।
इत्वे हि कृते रपरत्वे चन स्यात् ।
मा भूदेवम् ।
इट्सनि वा (*७,२.४१) इति विकल्पे विहिते यस्य विभाषा (*७,२.१५) इति निष्ठायां प्रतिषेधो भविष्यति ? कस्य पुनः सा विभाषा ? ॠतः ।
यद्येवमित्वे हि कृते न अयम् ॠकरान्तो भविष्यति ? स्थानिवद्भावाद्भविष्यति ।
अनल्विधौ स्थानिवद्भावः, अल्विधिश्चायम् ? तस्मादनुवर्तयितव्यमुपदेशे इति ।
तथा च सति जागरितः, जागरितवानित्यत्र अपि प्राप्नोति, तदर्थमेकाचः इत्यनुवर्तयितव्यम् ।
ऊर्णोतेस्तु वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम् ।
आमश्च प्रतिषेधार्थमेकाचश्चेडुपग्रहात् ॥
प्रोर्णुतः ।
प्रोर्णुतवान् ॥
[॰८०३]
सनि ग्रहगुहोश्च ॥ ७,२.१२ ॥
_____ काशिकावृत्तिः७,२.१२:
ग्रह गुह इत्येतयोः उगन्तानां च सनि प्रत्यये परतः इडागमो न भवति ।
जिघृक्षति ।
जुघुक्षति ।
उगन्तानां च रुरूषति ।
लुलूषति ।
सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपि सनाम् (*७,२.४९) इति विकल्पविधानात्श्रयतिरत्र न अनुकृस्यते ।
ग्रहेर्नित्यं प्राप्तः ।
गुहेः ऊदित्वाद्विकल्पः ॥
कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि ॥ ७,२.१३ ॥
_____ काशिकावृत्तिः७,२.१३:
कृ सृ भृ वृ स्तु द्रु स्रु श्रु इत्येतेषां लिटि प्रत्यये इडागमो न भवति ।
कृ चकृव, चकृम ।
सृ ससृव, ससृम ।
भृ बभृव, बभृम ।
वृञ् ववृव, ववृम ।
वृङ् ववृवहे, ववृमहे ।
स्तु तुष्टुव, तुष्टुम ।
द्रु दुद्रुव, दुद्रुम ।
स्रु सुस्रुव, सुस्रुम ।
श्रु शुश्रुव, शुश्रुम ।
सिद्धे सत्यारम्भो नियमर्थः , क्रादय एव लिटि अनिटः, ततोऽन्ये सेटः इति ।
बिभिदिव, बिभिदिम ।
लुलुविव, लुलुविम ।
अनुदात्तोपदेशानामत्र प्रकृत्याश्रयः प्रतिषेधः, वृञ्वृङोस्तु प्र्त्ययाश्रयः, तदुभयस्य अप्ययं नियमः ।
वृञो हि थलि ववर्थ इति निपातनाद्व्यवस्था ।
स्तुद्रुस्रुश्रुवां तु ऋतो भारद्वाजस्य (*७,२.६३) इत्यस्मादपि नियमात्य इट्प्राप्नोति सोऽपि नेष्यते ।
तुष्टोथ ।
दुद्रोथ सुस्रोथ ।
शुश्रोथ ।
कृञोऽसुट्कस्य+इति वक्तव्यम् ।
ससुट्कस्य इडगमो यथा स्यात् ।
सञ्चस्करिव, सञ्चस्करिम ।
ऋतो भारद्वाजस्य (*७,२.६३) इत्येतदप्यसुट्कस्य+एव+इष्यते, सञ्चस्करिथ ॥
श्वीदितो निष्थायाम् ॥ ७,२.१४ ॥
_____ काशिकावृत्तिः७,२.१४:
श्वयतेः ईदितशनिष्थायामिडागमो न भवति ।
शूनः ।
शूनवान् ।
ईदितः ओलजी लग्नः ।
लग्नवान् ।
ओविजी उद्विग्नः ।
उद्विग्नवान् ।
ओदितश्च (*८,२.४५) इति निष्थातकारस्य नकारः ।
दीपी दीप्तः ।
दीप्तवान् ।
डीङस्त्वोदितां मध्ये पाठो ज्ञापको निष्ठायामनिट्त्वस्य ।
स हि नत्वार्थः, नत्वं च निष्थातोऽनन्तरस्य विधीयते ।
उड्डीनः ।
उड्डीनवान् ।
निष्ठायामित्यधिकारः आर्धधातुकस्य+इड्वलादेः (*७,२.३५) इति यावत् ॥
[॰८०४]
यस्य विभाषा ॥ ७,२.१५ ॥
_____ काशिकावृत्तिः७,२.१५:
यस्य धातोः विभाषा क्वचिदिडुक्तः तस्य निष्ठायां परतः इडागमो न भवति ।
वक्ष्यति स्वरतिसूतिसूयतिधूञूदितो वा (*७,२.४४) ।
विधूतः ।
विधूतवान् ।
गुहू गूढः ।
गूढवान् ।
उदितो वा वृधु वृद्धः ।
वृद्धवान् ।
तनिपतिदरिद्राणामुपसङ्ख्यानमिति पतेर्विभाषितेट्कस्य अपि द्वितीयाश्रितातीतपतित (*२,१.२४) ति निपातनातिडागमः ॥
आदितश्च ॥ ७,२.१६ ॥
_____ काशिकावृत्तिः७,२.१६:
आदितश्च धतोर्निष्थायमिडागमो न भवति ।
ञिमिदा मिन्नः ।
मिन्नवान् ।
ञिक्ष्विदा क्ष्विण्णः ।
क्ष्विण्णवान् ।
ञिष्विदा स्विन्नः ।
स्वन्नवान् ।
कारोऽनुक्तसमुच्चयार्थः ।
आश्वस्तः ।
वान्तः ।
योगविभागकरणं किमर्थम्, आदितश्च विभाषा भावादिकर्मणोः इत्येवं पठितव्यम्, अन्यत्र हि भावादिकर्मभ्यां यस्य विभाषा (*७,२.१५) इति प्रतिषेधो भविष्यति ? ज्ञापनार्थमेतत् ।
ज्ञापयति यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः इति ।
तेन विभाषा गमहनविदविशाम् (*७,२.६८) इत्यत्र विदेर्लाभार्थस्य विभाषा इति ज्ञानार्थस्य प्रतिषेधो न भवति ।
विदितः ।
विदितवान् ॥
विभाषा भावादिकर्मणोः ॥ ७,२.१७ ॥
_____ काशिकावृत्तिः७,२.१७:
भवे आदिकर्मणि च आदितो धातोः विभाषा निष्ठायामिडागमो न भवति ।
मिन्नमनेन, मेदितमनेन प्रमिन्नः, प्रमेदितः ।
सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन ।
शकितो घटः कर्तुम्, शक्तो घटः कर्तुम् ।
भावे न भवत्येव, शक्तमनेन ।
अस्यतेर्भावे, असितमनेन ।
आदिकर्मणि च न भवत्येव, अस्तः काण्डः ॥
क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ॥ ७,२.१८ ॥
_____ काशिकावृत्तिः७,२.१८:
क्षुब्ध स्वान्त ध्वान्त लगन्म्लिष्ट विरिब्ध फाण्ट बाढ इत्येते निपात्यन्ते यथासङ्ख्यं मन्थ मनः तमः सक्त अविस्पष्ट स्वरः अनायास भृश इत्येतेष्वर्थेषु ।
क्षुब्ध इति भवति मन्थाभिधानं चेत् ।
क्षुब्धो मन्थः ।
क्षुभितमन्यत् ।
[॰८०५]
क्षुभितं मन्थेन ।
क्षुब्धा गिरिनदी इत्येवमाद्युपमानात्भविष्यति ।
स्वान्तमिति मनोऽभिधानं चेत् ।
स्वनितमन्यत ।
स्वनितो मृदङ्गः ।
स्वनितं मनसा ।
ध्वान्तमिति भवति तमोऽभिधानं चेत् ।
ध्वनितमन्यत् ।
ध्वनितो मृदङ्गः ।
ध्वनितं तमसा ।
लग्नमिति भवति सक्तं चेत् ।
लगितमन्यत् ।
म्लिष्टमिति भवति अविस्पष्टं चेत् ।
म्लेच्छितमन्यत् ।
इत्वमप्येकारस्य निपातनादेव विरिब्धमिति स्वरश्चेत् ।
विरेभितमन्यत् ।
रेभृ शब्दे इत्यस्य+एतन्निपातनम् ।
अन्ये तु विरिभितमन्यतिति पठन्ति ।
रभिं सौत्रं धातुं पठन्ति, ते विरिभितमिति प्रत्युदाहरन्ति ।
फाण्टमिति भवति अनायासश्चेत् ।
फाणितमन्यत् ।
यदशृतमपिष्टं च कषायमुदकसम्पर्कमात्रात्विभक्तरसमीषदुष्णं तत्फाण्टम् ।
तदल्पप्रयत्नसाध्यत्वादनायासेन लक्ष्यते ।
बाढमिति भवति भृशं चेत् ।
बाहितमन्यत् ।
बाहृ प्रयत्ने इत्यस्य धातोरेतन्निपातनम् ।
अतिशयश्च भृशमिह+उच्यते ॥
धृषी शसी वैयात्ये ॥ ७,२.१९ ॥
_____ काशिकावृत्तिः७,२.१९:
वियातस्य भावो वैयात्यं प्रागल्भ्यम्, अविनीतता ।
तत्र धृष शस इत्येतयोः निष्ठायामिडागमो न भवति ।
धृष्टोऽयम् ।
विशस्तोऽयम् ।
धृषेः आदितश्च (*७,२.१६) इति प्रतिषेधः सिद्ध एव, शसेरपि उदितो वा (*७,२.५६), यस्य विभाषा (*७,२.१५) इति ? नियमार्थं वचनम्, धृषिशस्योः वैयात्ये एव इड्न भवति ।
भावादिकर्मणोरपि वैयात्ये धृषिर्नास्ति ।
धृष्टः ।
विशस्तः ।
वैयात्ये इति किम् ? धर्षितः ।
विशसितः ॥
दृढः स्थूलबलयोः ॥ ७,२.२० ॥
_____ काशिकावृत्तिः७,२.२०:
दृढ इति निपात्यते स्थूले बलवति चार्थे ।
दृढः स्थूलः ।
दृढो बलवान् ।
किमत्र निपात्यते ? दृंहेः क्तप्रत्यये इडभावः, हकारनकारयोः लोपः, परस्य ढत्वम् ।
अथ दृहिः प्रकृत्यनतरमस्ति ? तत्र अप्येतदेव सर्वं नलोपवर्जम्, नकारस्य अभावात् ।
हलोपनिपातनं पूर्वत्र असिद्धत्वनिवृत्त्यर्थम् ।
ढलोपे हि सति तस्य पूर्वत्र असिद्धत्वात्द्रढिमा, द्रढीयान्, द्रढयति इत्यत्र र ऋतो हलादेर्लघोः (*६,२.१६१) इति रेफो न स्यात्, इह च परिद्रढ्य्य गत इति ल्यपि लघुपूर्वात्(*६,४.५६) इति णेरयादेशो न स्यात्, इह च परिदृढस्यापत्यं पारिदृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ्च प्रसज्येत ।
स्थूलबलयोः इति किम् ? दृंहितम् ।
दृहितम् ॥
प्रभौ परिवृढः ॥ ७,२.२१ ॥
_____ काशिकावृत्तिः७,२.२१:
परिवृढ इति निपात्यते प्रभुश्चेद्भवति ।
परिवृढः कुटुम्बी ।
पूर्वेण तुल्यमेतत् ।
वृंहेर्निपातनम् ।
वृहिश्च यदि प्रकृतियन्तरमस्ति तस्य अपि तदेव सर्वम् ।
हलोपनिपातनस्य च तदेव प्रयोजनम् ।
परिव्रढयति ।
परिव्रढ्य्य गतः ।
पारिवृढी कन्या ।
परिवृढमाचष्टे इति विगृह्य वृढशब्दादेव णिजुत्य्पद्यते ।
संग्रामयतेरेव सोपसर्गाण्णिजुत्पत्तिरिष्यते न अन्यस्मातिति ।
तथा सति परिव्रढयति इति तिङ्ङतिङः (*८,२.२८) इति निघातः ।
परिव्रढय्य इत्यत्र परिशब्दस्य क्त्वाप्रत्ययान्तेन समासे सति ल्यबादेशः सिद्धो भवति ।
प्रभौ इति किम् ? परिवृंहितम् ।
परिवृहितम् ॥
[॰८०६]
कृच्छ्रगहनयोः कषः ॥ ७,२.२२ ॥
_____ काशिकावृत्तिः७,२.२२:
कृच्छ्र गहन इत्येतयोरर्थयोः कषेर्धातोः निष्ठायामिडागमो न भवति ।
कष्टोऽग्निः ।
कष्टं व्याकरणम् ।
ततोऽपि कष्टतराणि सामानि ।
कृच्छ्रं दुःखम्, तत्कारणमप्यग्न्यादिकं कृच्छ्रमित्युच्यते ।
गहने कष्टानि वनानि ।
कष्टाः पर्वताः ।
कृच्छ्रगहनयोः इति किम् ? कषितं सुवर्णम् ॥
घुषिरविशब्दने ॥ ७,२.२३ ॥
_____ काशिकावृत्तिः७,२.२३:
घुषेर्धातोरविशब्दनेऽर्थे निष्ठायामिडागमो न भवति ।
घुष्टा रज्जुः ।
घुष्टौ पादौ ।
अविशब्दने इति किम् ? अवघुषितं वाक्यमाह ।
विशब्दनं प्रतिज्ञानम् ।
घुषिरशब्दार्थे इति भूवादिषु पठ्यते ।
घुषिर्विशब्दने इति चुरादिषु ।
तयोरिह सामान्येन ग्रहणम् ।
विशब्दनप्रतिषेधश्च ज्ञापकश्चुरादिणिज्विशब्दनार्थस्य अनित्यः इति ।
तेन अयमपि प्रयोगः उपपन्नो भवति, महीपालवचः श्रुत्वा जुघुषुः पुष्पमाणवाः ।
स्वाभिप्रायं शब्देन अविष्कृतवन्तः इत्यर्थः ॥
अर्देः संनिविभ्यः ॥ ७,२.२४ ॥
_____ काशिकावृत्तिः७,२.२४:
सं नि वि इत्येतेभ्य उत्तरस्य अर्देः निष्ठायामिडागमो न भवति ।
समर्णः ।
न्यर्णः ।
व्यर्णः ।
अर्देः इति किम् ? समेधितः ।
संनिविभ्यः इति किम् ? अर्दितः ॥
अभेश्च आविदूर्ये ॥ ७,२.२५ ॥
_____ काशिकावृत्तिः७,२.२५:
अभिशबादुत्तरस्य अर्देः आविदूर्येऽर्थे निष्ठायामिडागमो न भवति ।
अभ्यर्णा सेना ।
अभ्यार्णा शरत् ।
आविदूर्ये इति किम् ? अभ्यर्दितो वृषलः ।
शीतेन पीडितः इत्यर्थः ।
विदूरं विप्रकृष्टम्, ततोऽन्यदविदूरम्, तस्य भावः आविदूर्यम् ।
एतस्मादेव निपातनात्न नञ्पूर्वात्तत्पुरुषात्(*५,१.१२१) इत्युत्तरस्य भावप्रत्ययस्य प्रतिषेधो न भवति ॥
णेरध्ययने वृत्तम् ॥ ७,२.२६ ॥
_____ काशिकावृत्तिः७,२.२६:
ण्यन्तस्य वृत्तेर्निष्ठायामध्ययनार्थे वृत्तमिति इडभावः णिलुक्च निपात्यते ।
वृत्तो गुणे देवदत्तेन ।
वृत्तं पारायणं देवदत्तेन ।
अध्ययने इति किम् ? वर्तितमन्यत्र ।
वृतिरयमकर्मकः, स ण्यर्थे वर्तमानः सकर्मको भवति ।
तेन निर्वृत्तमिति हि प्रकृटेरेव कर्मणि क्तप्रत्ययो दृश्यते ।
तद्वदिह अपि ण्यर्थवृत्तेरेव च वृतेः वृत्तो गुणो देवदत्तेन इति भविष्यति इति निपातनमनर्थकम् ? तत्क्रियते यदापि णिचैव ण्यर्थोऽभिधीयते तदावर्तितमित्यध्ययने मा भूतिति केचित् ।
अपरे तु वर्तितो गुणो देवदत्तेन इत्यपि इच्छन्ति ॥
[॰८०७]
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ॥ ७,२.२७ ॥
_____ काशिकावृत्तिः७,२.२७:
णेः इत्यनुवर्तते ।
दं शं पूरी दस्स्पश्छद्ज्ञपित्येतेषां ण्यन्तानां धातूनां वा अनिट्त्वं निपात्यते ।
दान्तः, दमितः ।
शान्तः, शमितः ।
पूर्णः, पूरितः ।
दस्तः, दासितः ।
स्पष्टः, स्पाशितः ।
छन्नः, छादितः ।
ज्ञप्तः, ज्ञपितः ।
इट्प्रतिषेधो णिलुक्च निपात्यते ।
ज्ञप्तेस्तु भरज्ञपिसनामिति विकल्पविधानात्यस्य विभाषा (*७,२.१५) इति नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं निपातनम् ॥
रुष्यमत्वरसङ्घुषास्वनाम् ॥ ७,२.२८ ॥
_____ काशिकावृत्तिः७,२.२८:
वा इति वर्तते ।
रुषि अम त्वर सङ्घुष आस्वन इत्येतेषां निष्ठायां वा इडागमो न भवति ।
रुष्टः रुषितः ।
तीषसहलुभरुष. रिषः (*४,२.४८) इति विकल्पविधानात्यस्य विभाषा (*७,२.१५) इति प्रतिषेधे प्राप्ते विकल्पार्थं वचनम् ।
अम अभ्यान्तः, अभ्यमितः ।
त्वर तूर्णः, त्वरितः ।
आदितश्च (*७,२.१६) इति प्रतिषेधे प्राप्ते वचनम् ।
सङ्घुष सङ्घुष्टौ पादौ, सङ्घुषितौ पादौ ।
सङ्घुष्टं वाक्यमाह, सङ्घुषितं वाक्यमाह ।
सङ्घुष्टौ दम्यौ, सङ्घुषितौ दम्यौ ।
सम्पूर्वस्य घुषेरविशद्दनेऽपि परत्वादयमेव विकल्पो भवति ।
आस्वन आस्वान्तो देवदत्तः, आस्वनितो देवदत्तः ।
आस्वान्तं मनः, आस्वनितं मनः ।
आङ्पूर्वस्य स्वनेर्मनोऽभिधानेऽपि परत्वादयं विकल्पः क्षुब्धस्वान्त इति निपातनं बाधते ॥
हृषेर्लोमसु ॥ ७,२.२९ ॥
_____ काशिकावृत्तिः७,२.२९:
लोमसु वर्तमानस्य हृषेर्निष्ठायां वा इडागमो न भवति ।
हृष्टानि लोमानि, हृषितानि लोमानि ।
हृष्टं लोमभिः, हृषितं लोमभिः ।
हृष्टाः केशाः, हृषिताः केशाः ।
हृष्टं केशैः हृषितं केशैः ।
हृषु अलीके इत्युदित्त्वान्निष्ठायामनिट्, हृष तुष्टौ इत्ययं सेट्, तयोरुभयोरिह ग्रहणमित्युभयत्र विभाषा इयम् ।
लोमानि मूर्धजानि अङ्गजानि च सामान्येन गृह्यन्ते, यथा लोमनखं स्पृष्ट्वा शौचं कर्तव्यमिति ।
तद्विषये च हर्षे वर्तमानो लोमसु वर्तते इत्युच्यते ।
लोमसु इति किम् ? हृष्टो देवदत्त इत्यलीकार्थस्य, हृषितो देवदत्तः इति तुष्ट्यर्थस्य ।
विस्मितप्रतिघातयोश्च+इति वक्तव्यम् ।
हृष्टो देवदत्तः, हृसितो देवदत्तः ।
विस्मितः इत्यर्थः ।
हृष्टाः दन्ताः, हृषिताः दन्ताः ।
प्रतिहताः इत्यर्थः ॥
[॰८०८]
अपचितश्च ॥ ७,२.३० ॥
_____ काशिकावृत्तिः७,२.३०:
अपचितः इति वा निपात्यते ।
अपपूर्वस्य चाय्तेः निष्ठायामनिट्त्वं चिभावश्च निपात्यते ।
अपचितोऽनेन गुरुः, अपचायितोऽनेन गुरुः ।
क्तिनि नित्यमिति वक्तव्यम् ।
क्तिनि नित्यं चिभावो निपात्यते ।
अपचितिः ॥
ह्रु ह्वरेश्छन्दसि ॥ ७,२.३१ ॥
_____ काशिकावृत्तिः७,२.३१:
ह्वरतेः धातोर्निष्ठायं छन्दसि ह्रु इत्ययमादेशो भवति ।
ह्रु तस्य चाह्रु तस्य च ।
अह्रु तमसि हविर्धानम् ।
छन्दसि इति किम् ? ह्वृतम् ॥
अपरिह्वृताश्च ॥ ७,२.३२ ॥
_____ काशिकावृत्तिः७,२.३२:
अपरिह्वृताः इति निपात्यते छन्दसि विषये ।
ह्रु इत्येतस्य आदेशस्य अभावो निपात्यते ।
अपरिह्वृताः सनुयाम वाजम् ॥
सोमे ह्वरितः ॥ ७,२.३३ ॥
_____ काशिकावृत्तिः७,२.३३:
ह्वरितः इति ह्वरतेर्निष्ठायामिडागमो गुणश्च निपात्यते छन्दसि विषये, सोमश्चेद्भवति ।
मा नः सोमो ह्वरितः ।
विह्वरितस्त्वम् ॥
ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ता विशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमिति इति च ॥ ७,२.३४ ॥
_____ काशिकावृत्तिः७,२.३४:
ग्रसित स्कभित स्तभित उत्तभित चत्त विकस्त विशस्तृ शंस्तृ शास्तृ तरुतृ तरूतृ वरुतृ वरूतृ वरूत्रीः उज्ज्वलिति क्षरिति क्षमिति वमिति अमिति इत्येतानि छन्दसि विषये निपात्यन्ते ।
तत्र ग्रसित स्कभित स्तभित उत्तभित इति ग्रसु स्कम्भु स्तम्भु इत्येतेषामुदित्त्वान्निष्ठायामिट्प्रतिषेधे प्राप्ते इडागमो निपात्यते ।
ग्रसितं वा एतत्सोमस्य ।
ग्रस्तमिति भाषायाम् ।
स्कभित विष्कभिते अजरे ।
विष्कब्ध इति भाषायाम् ।
स्तभित येन स्वः स्तभितम् ।
स्तब्धमिति भाषायाम् ।
उत्तभित सत्येनोत्तभिता भूमिः ।
उत्तब्धा इति भाषायाम् ।
उत्तभित इति उत्पूर्वस्य निपातसामर्थ्यादन्योपसर्गपूर्वः स्तभितशब्दो न भवति ।
[॰८०९]
चत्त, विकस्त इति चतेः कसेश्च विपूर्वस्य निष्ठायामिडभावो निपात्यते ।
चत्ता वर्षेण विद्युत्चतिता इति भाषायाम् ।
विकस्त उत्तानाया हृदयं यद्विकस्तम् ।
विकसितमिति भाषायाम् ।
निपातनं बहुत्वापेक्षम्, विकस्ताः इति बहुवचनं कृतम् ।
अपरेषु तु निपातनेषु प्रत्येकं विभक्तिनिर्देशः ।
विशस्तृ शंस्तृ शास्तृ इति शसेर्विपूर्वस्य शंसेः शासेश्च तृचि इडभावो निपात्यते ।
विशस्तृ एकस्त्वष्टुरश्वस्याविशस्ता ।
विशसिता इति भाषायाम् ।
शंस्तृ उत शंस्ता सुविप्रः ।
शंसिता इति भाषायाम् ।
शास्तृ प्रशास्ता ।
प्रशासितमिति भाषायाम् ।
तरुतृ तरूतृ वरुतृ वरूतृ वरूत्रीः इति तरतेः वृङ्वृञोश्च तृचि उटूटित्येतावागमौ निपात्येते ।
तरुतारं रथानाम्, तरूतारम् ।
तरितारम्, तरीतारमिति भाषायाम् ।
वरुतारं रथानाम्, वरूतारं रथानाम् ।
वरितारम्, वरीतारमिति भाषायाम् ।
वरुत्री त्वा देवी विश्वदेव्यवती ।
जसि पूर्वसवर्णोच्चारणं प्रयोगदर्शनार्थम् ।
अतन्त्रं चैतत् ।
इदमपि हि भवति अहोरात्राणि वै वरूत्रयः इति ।
छान्दसिकमत्र ह्रस्वत्वम् ।
प्रपञ्चार्थमेव च ङीबन्तस्य निपातनम् ।
वरूतृशब्दो हि निपातितः, तत एव ङीपि सति सिद्धो वरूत्रीशब्दः ।
उज्ज्वलिति क्षरिति क्षमिति वमिति अमिति इति च ज्वलतेरुत्पूर्वस्य क्षर क्षम वम इत्येतेषां च तिपि शपः इकारादेशो निपात्यते, शपो लुग्वा, इडागमः ।
अग्निरुज्ज्वलिति ।
उज्ज्वलति इति भाषायाम् ।
क्षरिति स्तोकं क्षरिति ।
क्षरति इति भाषायाम् ।
क्षमिति स्तोमं क्षमिति ।
क्षमति इति भाषायाम् ।
वमिति यः सोमं वमिति ।
वमति इति भाषायाम् ।
अमिति अभ्यमिति वरुणः ।
अभ्यमति इति भाषायाम् ।
इतिकरणं प्रदर्शनार्थं तेन क्वचितीकारो भावति, रविमभ्यमीति वरुणः इत्यपि हि वेदे पठ्यते ॥
आर्धधातुकस्य+इड्वलादेः ॥ ७,२.३५ ॥
_____ काशिकावृत्तिः७,२.३५:
छन्दसि इति निवृत्तम् ।
आर्धधातुकस्य वलादेरिडागमो भवति ।
लविता ।
लवितुम् ।
लवितव्यम् ।
पविता ।
पवितुम् ।
पवितव्यम् ।
आर्धधातुकस्य इति किम् ? आस्ते ।
शेते ।
वस्ते ।
रुदादिभ्यः सार्वधातुके (*७,२.५६) इत्येतस्मिन्नियमार्थे वज्ञायमाने प्रतिपत्तिगौरवं भवति इति आर्धधातुकग्रहणं क्रियते ।
वलादेः इति किम् ? लव्यम् ।
पव्यम् ।
लवनीयम् ।
पवनीयम् ।
इटिति वर्तमाने पुनः इड्ग्रहणं प्रतिषेधनिवृत्त्यर्थम् ॥
[॰८१०]
स्नुक्रमोरनात्मनेपदनिमित्ते ॥ ७,२.३६ ॥
_____ काशिकावृत्तिः७,२.३६:
नियमार्थमिदम् ।
स्नुक्रमोः आर्धधातुकस्य वलादेः इडागमो भवति, न चेत्स्नुक्रमी आत्मनेपदस्य निमित्तं भवतः ।
क्व च तावात्मनेपदस्य निमित्तम् ? यत्र आत्मनेपदं तदाश्रयं भवति, भावकर्मकर्मकर्तृकर्मव्यतिहाराः क्रमेर्वृत्त्यादयश्च ।
तेन अयं सत्यात्मनेपदे प्रतिषेधो भवति न असति इति ।
प्रतिषेधफलं च+इदं सूत्रम् ।
स्नुक्रमोरुदित्वातिट्सिद्ध एव ।
प्रस्नविता ।
प्रस्नवितुम् ।
प्रस्नवितव्यम् ।
प्रक्रमिता ।
प्रक्रमितुम् ।
प्रक्रमितव्यम् ।
अनात्मनेपदनिमित्ते इति किम् ? प्रस्नोषीष्ट ।
प्रक्रंसीष्ट ।
प्रस्नोष्यते ।
प्रक्रंस्यते ।
प्रसुस्नूषिष्यते ।
प्रचिक्रंसिष्यते ।
सर्वत्र+एव अत्र स्नैतिः क्रमिश्च आत्मनेपदस्य निमित्तम् ।
सनन्तादपि पूर्ववत्सनः (*१,३.६२) इति आत्मनेपदं विधीयते ।
निमित्तग्रहणं किम् ? सीयुडादेस्तत्परपरस्य च प्रतिषेधार्थम् ।
इह तु प्रस्नवितेवाचरति इति प्रस्नवित्रीयते इति क्यङतमात्मनेपदस्य निमित्तम्, न स्नौतिः ।
क्रमेस्तु कर्तर्यात्मनेपदविषयादसत्यात्मनेपदे कृति प्रतिषेधो वक्तव्यः ।
प्रक्रन्ता ।
उपक्रन्ता ।
कर्तरि इति किम् ? प्रक्रमितव्यम् ।
उपक्रमितव्यम् ।
आत्मनेपदविषयातिति किम् ? निष्ट्रमितिआ ।
स्नौतेः सनि किति च प्रत्यये श्र्युकः किति (*७,२.११), सनि ग्रहगुहोश्च (*७,२.१२) इत्येव प्रतिषेधो भवति ।
प्रसुस्नूषति ।
प्रस्नुतः ।
प्रस्नुतवान् ॥
ग्रहोऽलिटि दीर्घः ॥ ७,२.३७ ॥
_____ काशिकावृत्तिः७,२.३७:
ग्रहः उत्तरस्य इटः अलिटि दीर्घो भवति ।
ग्रहीता ।
ग्रहीतुम् ।
ग्रहीतव्यम् ।
अलिटि इति किम् ? जगृहिव ।
जगृहिम् ।
प्रकृतस्येटो दीर्घत्वमिदम्, चिण्वदिटो न भवति ।
ग्राहिता ।
ह्राहिष्यते ॥
वॄतो वा ॥ ७,२.३८ ॥
_____ काशिकावृत्तिः७,२.३८:
वृ इति वृङ्वृञोः सामान्येन ग्रहणम् ।
तस्मादुत्तरस्य ॠकारान्तेभ्यश्च इटो वा दीर्घो भवति ।
वरिता, वरीता ।
प्रावरिता, प्रावरीता ।
ॠकारान्तेभ्यः तरिता, तरीता ।
आस्तरिता, आस्तरीता ।
वॄतः इति किम् ? कर्ष्यति ।
हरिष्यति ।
अलिटि इत्येव, ववरिथ ।
तेरिथ ॥
[॰८११]
न लिङि ॥ ७,२.३९ ॥
_____ काशिकावृत्तिः७,२.३९:
वृतः उत्तरस्य इटो लिङि दीर्घो न भवति ।
विवरिषीष्ट ।
प्रावरिषीष्ट ।
आस्तरिषीष्ट ।
विस्तरिषीष्ट ॥
सिचि च परस्मैपदेषु ॥ ७,२.४० ॥
_____ काशिकावृत्तिः७,२.४०:
परस्मैपदपरे सिचि वॄत उत्तरस्य इटो दीर्घः न भवति ।
प्रावारिष्टाम् ।
प्रावारिषुः ।
अतारिष्टाम् ।
अतारिषुः ।
आस्तारिष्टाम् ।
आस्तारिषुः ।
परस्मैपदेषु इति किम् ? प्रावरिष्ट, प्रावरीष्ट ॥
इट्सनि वा ॥ ७,२.४१ ॥
_____ काशिकावृत्तिः७,२.४१:
वॄतः सनि वा इडागमो भवति ।
वुवूर्षते, विवरिषते, विवरीषते ।
प्रावुवूर्षति, प्राविवरिषति, प्राविवरीषति ।
ॠकारान्तेभ्यः तितीर्षति, तितरिषति, तितरीषति ।
आतिस्तीर्षते, आतिस्तरिषते, आतिस्तरीषते ।
सनि ग्रहगुहोश्च (*७,२.१२) इति इट्प्रतिषेधे प्राप्ते पक्षे इडागमो विधीयते ।
इटश्च वॄतो वा (*७,२.३८) इति पक्षे दीर्घः ।
चिकीर्षति, जिहीर्षति इत्यत्र+उपदेशाधिकारात्लाक्षणिकत्वाच्च इडागमो न भवति ॥
लिङ्सिचोरात्मनेपदेषु ॥ ७,२.४२ ॥
_____ काशिकावृत्तिः७,२.४२:
वॄतो लिङि सिचि च आत्मनेपदपरे वा इडागमो भवति ।
वृषीष्ट, वरिषीष्ट ।
प्रवृषीष्ट, प्रावरिषीष्ट ।
आस्तरिषीष्ट, आस्तीर्षीष्ट ।
सिचि खल्वपि अवृत, अवरिष्ट, अवरीष्ट ।
प्रावृत, प्रावरिष्ट, प्रावरीष्ट ।
आस्तीर्ष्ट, आस्तरिष्ट, आस्तरीष्ट ।
आत्मनेपदेषु इति किम् ? प्रावारिष्टाम् ।
प्रावारिषुः ।
लिङः प्रत्युदाहरणं न दर्शितम्, असम्भवात्यासुटोऽवलादित्वातिति ॥
ऋतश्च संयोगादेः ॥ ७,२.४३ ॥
_____ काशिकावृत्तिः७,२.४३:
ऋदन्ताद्धातोः संयोगादेः उत्तरयोः लिङ्सिचोरात्मनेपदेषु वा इडागमो भवति ।
ध्वृषीष्ट, ध्वरिषीष्ट ।
स्मृषीष्ट, समरिषीष्ट ।
अध्वृषाताम्, अध्वरिषाताम् ।
अस्मृषाताम्, अस्मरिषाताम् ।
ऋत इति किम् ? च्योषीष्ट ।
प्लोषीष्ट ।
अच्योष्ट ।
अप्लोष्ट ।
संयोगादेः इति किम् ? कृषीष्ट ।
हृषीष्ट ।
अकृत ।
अहृत आत्मनेपदेषु इत्येव, अध्वार्षीत् ।
अस्मार्षीत् ।
संस्कृषीष्ट, समस्कृत इत्यत्र+उपदेशाधिकारात्, अभाक्तत्वाच्च सुट इडागमो न भवति ॥
[॰८१२]
स्वरतिसूतिसूयतिधूञूदितो वा ॥ ७,२.४४ ॥
_____ काशिकावृत्तिः७,२.४४:
स्वरति सूति सूयति धूञित्येतेभ्यः, ऊदिद्भ्यश्च+उत्तरस्य वलादेरार्धधातुकस्य वा इडागमो भवति ।
स्वर्ता, स्वरिता ।
सूति प्रसोता, प्रसविता ।
सूयति सोता, सविता ।
धूञ् धोता, धविता ।
ऊधिद्भ्यः खल्वपि गाहू विगाढा, विगाहिता ।
गुपू गोप्ता, गोपिता ।
वा इति वर्तमने पुनर्वाग्रहणं लिङ्सिचोर्निवृत्त्यर्थम् ।
सूतिसूयत्योर्विकरणनिर्देशः षू प्रेरणे इत्यस्य निवृत्त्यर्थः ।
धूञिति सानुबन्धकस्य निर्देसो धू विधूनने इत्यसय्निवृत्त्यर्थः ।
सविता, धुविता इत्येव नित्यमेतयोर्भवति ।
स्वरतेरेतस्माद्विकल्पातृद्धनोः स्ये (*७,२.७०) इत्येतद्भवति विप्रतिषेधेन ।
स्वरिष्यति ।
किति तु प्रत्यये श्र्युकः किति (*७,२.११) इति नित्यः प्रतिषेधो भवति पूर्वविप्रतिषेधेन ।
स्वृत्वा ।
सूत्वा ।
धूत्वा ॥
रधादिभ्यश्च ॥ ७,२.४५ ॥
_____ काशिकावृत्तिः७,२.४५:
रध हिंसासंसिद्ध्योः इत्येवमादिभ्योऽष्टाभ्य उत्तरस्य वलादेरार्धधातुकस्य वा इडागमो भवति ।
रद्धा, रधिता ।
नंष्टा, नशिता ।
त्रप्ता, तर्प्ता, तर्पिता ।
द्रप्ता, दर्प्ता, दर्पिता ।
द्रोग्धा, द्रोढा, द्रोहिता ।
मोग्धा, मोढा, मोहिता, स्नोग्धा, स्नोढा, स्नोहिता ।
स्नेग्धा, स्नेढा, स्नेहिता ।
क्रादिनियमाल्लिटि रधादिभ्यः परत्वाद्विकल्पं केचिदिच्छन्ति ।
अपरे पुनराहुः, पूर्वविधेरिण्निषेधविधानसामर्थ्यात्बलीयस्त्वं प्रतिषेधनियमस्य इति नित्यमिटा भवितव्यम् ।
ररन्धिव, ररन्धिम इति भवति ॥
निरः कुषः ॥ ७,२.४६ ॥
_____ काशिकावृत्तिः७,२.४६:
निरित्येवं पूर्वात्कुष उत्तरस्य वलादेरार्धधातुकस्य वा इडागमो भवति ।
निष्कोष्टा, निष्कोषिता ।
निष्कोष्टुम्, निष्कोषितुम् ।
निष्कोष्टव्यम्, निष्कोषितव्यम् ।
निरः इति किम् ? कोषिता ।
कोषितुम् ।
कोषितव्यम् ।
निसः इति वक्तव्ये निरः इति निर्देशेन रेफान्तमुपसर्गान्तरमस्ति इति ज्ञाप्यते ।
तस्य हि निलयनमिति उपसर्गस्य अयतौ (*८,२.१९) इति लत्वं भवति ।
निसो हि रुत्वस्य असिद्धत्वाल्लत्वं न स्यात् ॥
इण्निष्ठायाम् ॥ ७,२.४७ ॥
_____ काशिकावृत्तिः७,२.४७:
निरः कुषो निष्ठायामिडागमो भवति ।
निष्कुषितः ।
निष्कुषितवान् ।
इङ्ग्रहणं नित्यार्थम् ।
आरम्भो हि यस्य निभाषा (*७,२.१५) इत्यस्य बाधकः, अन्यथा हि निकल्पार्थ एव स्यात् ।
अत्र+एव नित्यमिडागमः, उत्तरत्र विकल्प एव इति ॥
[॰८१३]
तीषसहलुभरुषरिषः ॥ ७,२.४८ ॥
_____ काशिकावृत्तिः७,२.४८:
तकारादावार्धधातुके इषु सह लुभ रुष इत्येतेभ्यो वा इडागमो भवति ।
इषु एष्टा, एषिता ।
इषु इच्छायामित्यस्य अयं विकल्प इष्यते ।
यस्तु इष गतौ इति दैवादिकः, तस्य प्रेषिता, प्रेषितुम्, प्रेषितव्यमिति नित्यं भवति ।
योऽपि इष आभीक्ष्ण्ये इति कृयादौ पठ्यते, तस्य अप्येवमेव ।
तदर्थमेव तीषसह इति सूत्रे केचितुदितमिषं पठन्ति ।
सह सोढा, सहिता ।
लुभ लोब्धा, लोभिता ।
रुष रोष्टा, रोषिता ।
रिष रेष्टा, रेषिता ।
तीति किम् ? एषिष्यति ॥
सनि इवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ॥ ७,२.४९ ॥
_____ काशिकावृत्तिः७,२.४९:
इवन्तानां धातूनाम्, ऋधु भ्रस्ज दम्भु श्रि स्वृ यु ऊर्णु भर ज्ञपि सनित्येतेषां च सनि वा इडागमो भवति ।
इवन्तानाम् दिदेविषति, दुद्यूषति ।
सिसेविषति, सुस्यूषति ।
ऋधु अर्दिधिषति, ईर्त्सति ।
भ्रस्ज बिभ्रज्जिषति, बिभ्रक्षति, बिभर्ज्जिषति, बिभर्क्षति ।
दम्भु दिदम्भिषति, धिप्सति, धीप्सति ।
श्रि उच्छिश्रयिषति, उच्छिश्रीषति ।
स्वृ सिस्वरिषति, सुस्वूर्षति ।
यु यियविषति, युयूषति ।
ऊर्णु प्रोर्णुनविषति, प्रोर्णुनविषति, प्रोर्णुनूषति ।
भर इति भृञित्येतस्य भौवादिकस्य ग्रहणम्, शपा निर्देशात् ।
विभरिषति, बुभूर्षति ।
ज्ञपि जिज्ञपयिषति, ज्ञीप्सटि ।
सन् सिसनिषति, सिषासति ।
केचिदत्र भरज्ञपिसनितनिपतिदरिद्राणामिति पठन्ति ।
तनि तितनिषति, तितंसति, तितांसति ।
पति पिपतिषति, पित्सति ।
दरिद्रा दिदरिद्रिषति, दिदरिद्रासति ।
सनि इति किम् ? देविता ।
भ्रष्टा ॥
क्लिशः क्त्वानिष्ठयोः ॥ ७,२.५० ॥
_____ काशिकावृत्तिः७,२.५०:
क्लिशः क्त्वानिष्ठ्योः वा इडागमो भवति ।
क्लिष्ट्वा, क्लिशित्वा ।
क्लिष्टः, क्लिशितः ।
क्लिष्टवान्, क्लिशितवान् ।
क्लिशू विबाधने इत्यस्य क्त्वायां विकल्पः सिद्ध एव निष्ठायां तु यस्य विभाषा (*७,२.१५) इति प्रतिषेधः प्राप्नोति ।
क्लिश उपतापे इत्येतस्य तु क्त्वायां निष्ठायां च नित्यमिडागमः प्राप्नोति, तदर्थं क्त्वाग्रहणं क्रियते ॥
पूङश्च ॥ ७,२.५१ ॥
_____ काशिकावृत्तिः७,२.५१:
पूङश्च क्त्वानिष्ठयोर्वा इडागमो भवति ।
पूर्वा, पवित्वा ।
सोमोऽतिपूतः, सोमोऽतिपवितः ।
पूतवान्, पवितवान् ।
श्र्युकः किति (*७,२.११) इति प्रतिषेधे प्राप्ते विकल्पो विधीयते ॥
[॰८१४]
वसतिक्षुधोरिट् ॥ ७,२.५२ ॥
_____ काशिकावृत्तिः७,२.५२:
वसतेः क्षुधेश्च क्त्वानिष्ठयोः इडागमः भवति ।
उषित्वा ।
उषितः ।
उषितवान् ।
क्षुधित्वा ।
क्षुधितः ।
क्षुधितवान् ।
वसति इति विकरणो निर्देशार्थ एव ।
वस्तेस्तु उदात्तत्वादेव भवितव्यमिटा ।
पुनरिड्ग्रहणं नित्यार्थम् ॥
अञ्चेः पूजायाम् ॥ ७,२.५३ ॥
_____ काशिकावृत्तिः७,२.५३:
अञ्चेः पूजायामर्थे क्त्वानिष्ठयोः इडागमो भवति ।
अञ्चित्वा जानु जुहोति ।
अञ्चिता अस्य गुरवः ।
उदितो वा (*७,२.५६) इति क्त्वाप्रत्यये विकल्पः प्राप्तः, निष्ठायां यस्य विभाषा (*७,२.१५) इति प्रतिषेधः प्राप्तः, तदर्थमिदं प्रारब्धम् ।
पूजायामिति किम् ? उदक्तमुदकं कूपात् ।
उद्धृतमित्यर्थः ॥
लुभो विमोहने ॥ ७,२.५४ ॥
_____ काशिकावृत्तिः७,२.५४:
लुभो विमोहनेऽर्थे वर्तमानात्क्त्वानिष्ठयोः इडागमो भवति ।
लुभित्वा, लोभित्वा ।
विलुभिताः केशाः ।
विलुभितः सीमन्तः ।
विलुभितानि पदानि ।
विमोहनमाकुलीकरणम्, तत्र क्त्वायां तीषसहलुभरुषरिषः (*७,२.४८) इति विकल्पः, निष्ठायां यस्य विभाषा (*७,२.१५) इति प्रतिषेधः प्राप्तः ।
विमोहने इति किम् ? लुब्धो वृषलः ।
शीतेन पीडितः इत्यर्थः ।
लुब्ध्वा, लुभित्वा, लोभित्वा ।
गार्ध्ये यथाप्राप्तमेव भवति ॥
जॄव्रश्च्योः क्त्वि ॥ ७,२.५५ ॥
_____ काशिकावृत्तिः७,२.५५:
जॄ व्रश्चि इत्येतयोः क्त्वाप्रत्यये इडागमो भवति ।
जरित्वा, जरीत्वा ।
व्रश्चित्वा ।
जॄ इत्येतस्य श्र्युकः किति (*७,२.११) इति प्रतिषेधः प्राप्तः, व्रश्चेरुदित्वाद्विकल्पः ।
क्त्वाग्रहणं निष्ठानिवृत्त्यर्थम् ॥
उदितो वा ॥ ७,२.५६ ॥
_____ काशिकावृत्तिः७,२.५६:
उदितो धातोः क्त्वाप्रत्यये परतो वा इडागमो भवति ।
शमु शमित्वा, शान्त्वा ।
तमु तमित्वा, तान्त्वा ।
दमु दमित्वा, दान्त्वा ॥
[॰८१५]
सेऽसिचि कृतचृतच्छृदतृदनृतः ॥ ७,२.५७ ॥
_____ काशिकावृत्तिः७,२.५७:
सकारादावसिचि आर्धधातुके कृत चृत छृद तृद नृत इत्येतेभ्यो धातुभ्यो वा इडागमो भवति ।
कृत कर्त्स्यति ।
अकर्त्स्यत् ।
चिकृत्सति ।
कर्तिष्यति ।
अकर्तिष्यत् ।
चिकर्तिषति ।
चृत चएत्स्यति ।
अचर्त्स्यत् ।
चिचृत्सति ।
चर्तिष्यति ।
अचर्तिष्यत् ।
चिचर्तिषति ।
छृद छर्त्स्यति ।
अच्छर्त्स्यत् ।
चिच्छृत्सति ।
छर्दिष्यति ।
अच्छर्दिष्यत् ।
चिछर्दिषति ।
तृद तर्त्स्यति ।
अतर्त्स्यत् ।
तितृत्ससि ।
तर्दिष्यति ।
अतर्दिष्यत् ।
तितर्दिषति ।
नृत नर्त्स्यति ।
अनर्त्स्यत् ।
निनृत्सति ।
नर्तिष्यति ।
अनर्तिष्यत् ।
निनर्तिषति ।
से इति किम् ? कर्तिता ।
असिचि इति किम् ? अकर्तीत् ॥
गमेरिट्परस्मैपदेषु ॥ ७,२.५८ ॥
_____ काशिकावृत्तिः७,२.५८:
गमेर्धातोः सकारादेरार्धधातुकस्य परस्मैपदेसु इडागमो भवति ।
गमिष्यति ।
अगमिष्यत् ।
जिगमिषति ।
गमेः इति किम् ? चेष्यति ।
इड्ग्रहणं नित्यार्थम् ।
परस्मैपदेषु इति किम् ? संगंसीष्ट ।
संगंस्यते ।
संजिगंसते ।
संजिगंसिष्यते ।
अधिजिगांसते ।
अधिजिगांसिष्यते ।
गमेरिङादेशस्य अज्झनगमां सनि (*६,४.१६) इति दीर्घत्वम् ।
से इत्येव, गन्तास्मि, गन्तास्वः, गन्तास्मः ।
आत्मनेपदेन समानपदस्थस्य गमेः अयमिडागमो नेष्यते ।
अन्यत्र सर्वत्रैवेष्यते ।
कृत्यपि हि भवति, परस्मैपदलुकि च, संजिगमिषिता, अधिजिगमिषिता व्याकरणस्य, जिगमिष त्वमिति ।
पदशेषकारस्य पुनरिदं दर्शनम् गम्युपलक्षणार्थं परस्मैपदग्रहणम्, परस्मैपदेषु यो गमिरुपलक्षितस्तस्मात्सकारादेरार्धधातुकस्य इड्भवति ।
तन्मतेन संजिगंसिता, अधिजिगंसिता व्याकरणस्य इत्येव भवितव्यम् ॥
न वृद्भ्यश्चतुर्भ्यः ॥ ७,२.५९ ॥
_____ काशिकावृत्तिः७,२.५९:
वृतादिभ्यश्चतुर्भ्यः उत्तरस्य सकारादेरार्धधातुकस्य परस्मैपदेषु इडगमो न भवति ।
वृत् वर्त्स्यति ।
अवर्त्स्यत् ।
विवृत्सति ।
वृधू वर्त्स्यति ।
अवर्त्स्यत् ।
विवृत्सति ।
शृधू शर्त्स्यति ।
अशर्त्स्यत् ।
शिशृत्सति ।
स्यन्दू स्यन्त्स्यति ।
अस्यन्त्स्यत् ।
सिस्यन्त्सति ।
चतुर्भ्यः इति न वक्तव्यम्, वृद्ग्रहणं हि तत्र द्युतादिपरिसमाप्त्यर्थं क्रियते कृपू सामर्थ्ये वृतिति, तदेव यदि वृतादिसमाप्त्यर्थमपि विज्ञायते न किञ्चिदनिष्टं प्राप्नोति ? तत्क्रियते स्यन्देरूदिल्लक्षणमन्तरङ्गमपि विकल्पं प्रतिषेधो यथा बाधेत इति ।
चतुर्ग्रहणे हि सति तात्पर्येण स्यन्दिः संनिधापितो भवति ।
परस्मैपदेषु इत्येव, वर्तिष्यते ।
वर्तिषीष्ट ।
अवर्तिष्यत ।
विवर्तिषते ।
अत्र अपि आत्मनेपदेन समानपदस्थेभ्यो वृतादिभ्य इडागम इष्यते ।
अन्यत्र सर्वत्र प्रतिषेधः ।
कृत्यपि हि परस्मैपदलुकि च प्रतिषेधो भवति, विवृत्सिता, विवृत्स त्वमिति ॥
[॰८१६]
तासि च कॢपः ॥ ७,२.६० ॥
_____ काशिकावृत्तिः७,२.६०:
कृप उत्तरस्य तासेः सकारादेश्च अर्धधातुकस्य परस्मैपदेषु इडागमो न भवति ।
श्वः कल्प्ता ।
कल्प्स्यति ।
अकल्प्स्यत् ।
चिकॢप्सति ।
पर्स्मैपदेषु इत्येव, कल्पितासे ।
कल्पिष्यते ।
कल्पिषीष्ट ।
अकल्पिष्यत ।
चिकल्पिषते ।
कॢपेरप्यात्मनेपदेन समानपदस्थस्य इडागमः इष्यते ।
अन्यत्र प्रतिषेधः ।
कृत्यपि हि पर्समिपदलुकि च प्रतिषेधो भवति, चिकॢप्सिता, चिकॢप्स त्वमिति ॥
अचस्तास्वत्थल्यनिटो नित्यम् ॥ ७,२.६१ ॥
_____ काशिकावृत्तिः७,२.६१:
तासौ ये नित्यानिटो धातवः अजन्ताः, तेभ्यस्तासाविव थलि इडागमो न भवति ।
याता ययाथ ।
चेता चिचेथ ।
नेता निनेथ ।
होता जुहोथ ।
अचः इति किम् ? भेत्ता बिभेदिथ ।
तास्वतिति किम् ? लूत्वा लुलविथ ।
थलि इति किम् ? याता ययिव ।
ययिम ।
अनिड्ग्रहणं नित्यमित्यनेन विशेषणार्थम् ।
नित्यग्रहणं किम् ? विधोता, विधविता विदुधविथ ।
तासि विभाषितेट्, थलि नित्यमिडागमो भवति ।
तास्वतिति वतिनिर्देशः किमर्थः ? तासौ ततस्थलि प्रतिषेधार्थः ।
यो हि तासावसन्, असत्त्वाच्च नित्यानिट्, तस्य थलि प्रतिषेधो न भवति ।
जघसिथ ।
उवयिथ ।
उत्तरसूत्रेऽपि तास्वदिति वर्तते ।
अदादेशो हि घसिः, वेञादेशश्च वयिस्तासौ न अस्ति ॥
उपदेशेऽत्वतः ॥ ७,२.६२ ॥
_____ काशिकावृत्तिः७,२.६२:
उपदेशे यो धातुरकारवान् तासौ नित्यानिट्तस्मात्तासाविव थलि इडागमो न भवति ।
पक्ता पपक्थ ।
यष्टा इयष्ठ ।
श्क्ता शशक्थ ।
उपदेशे इति किम् ? कर्ष्टा चकर्षिथ ।
अत्वतः इति किम् ? भेत्ता विभेदिथ ।
तपरकरणं किम् ? राद्धा रराधिथ ।
तास्वतित्येव, जिघृक्षति ।
जग्रहिथ ।
नित्यमनिटः इत्येव, अङ्क्ता, अञ्जिता आनञ्जिथ ॥
ऋतो भारद्वाजस्य ॥ ७,२.६३ ॥
_____ काशिकावृत्तिः७,२.६३:
ऋकारान्ताद्घातोः भारद्वाजस्य अचार्यस्य मतेन तासाविव नित्यानिटस्थलि इडागमो न भवति ।
स्मर्ता सस्मर्थ ।
ध्वर्ता दध्वर्थ ।
सिद्धे सत्यारम्भो नियमार्थः, ऋत एव भारद्वाजस्य, नान्येषां धातूनाम् ।
ययिथ ।
वविथ ।
पेचिथ ।
शेकिथ ।
तदयमर्थात्पूर्वयोः योगयोर्विकल्पः ।
तपरकरणमृकारान्तस्य निवृत्त्यर्थम् ।
तथा हि सति विध्यर्थमेतत्स्यात् ॥
[॰८१७]
वभूथाततन्थजगृभ्मववर्थ+इति निगमे ॥ ७,२.६४ ॥
_____ काशिकावृत्तिः७,२.६४:
बभूथ आततन्थ जगृभ्म ववर्थ इत्येतानि निपात्यन्ते निगमविषये ।
निगमो वेदः ।
त्वं हि होता प्रथमो बभूथ ।
बभूविथ इति भाषायाम् ।
आततन्थ येनानतरिक्षमुर्वाततन्थ ।
आतेनिथ इति भाषायाम् ।
जगृभ्म जगृभ्मा ते दक्षिणमिन्द्र हस्तम् ।
जगृहिम इति भाषायाम् ।
ववर्थ ववर्थ त्वं हि ज्योतिषा ।
ववरिथ इति भाषायाम् ।
क्रादिसूत्रादेव अस्य प्रतिषेधो सिद्धे नियमार्थं वचनम्, निगमे एव, न भषायामिति ॥
विभाषा सृजिदृशोः ॥ ७,२.६५ ॥
_____ काशिकावृत्तिः७,२.६५:
सृजि दृशि इत्येतयोः थलि विभाषा इडागमो न भवति ।
ससृअष्ठ, ससर्जिथ ।
दद्रष्ठ, ददर्शिथ ॥
इडत्त्यर्तिव्ययतीनाम् ॥ ७,२.६६ ॥
_____ काशिकावृत्तिः७,२.६६:
अत्ति अर्ति व्ययति इत्येतेषां थलि इडागमो भवति ।
आदिथ ।
आरिथ ।
विव्ययिथ ।
व्येञः न व्यो लिटि (*६,१.४६) इति आत्वप्रतिषेधः ।
अत्तिव्ययत्योः ऋतो भारद्वाजस्य (*७,२.६३) इति नियमाद्विकल्पः ।
अर्त्तेरपि नित्यः प्रतिषेधः ।
अत्र इड्ग्रहणं विस्पष्टार्थम् ।
विकल्पविधाने हि सति अत्तिव्ययतिग्रहणमनर्थकम्, प्रतिषेधविधाने च अर्तिग्रहणमिति नित्योऽयं विधिः इड्ग्रहणमन्तरेण अपि शक्यते विज्ञातुम् ॥
वस्वेकाजाद्घसाम् ॥ ७,२.६७ ॥
_____ काशिकावृत्तिः७,२.६७:
कृतद्विर्वचनानां धातूनामेकाचाम्, आकारान्तानाम्, घसेश्च वसौ इडागमो भवति ।
आदिवान् ।
आशिवान् ।
पेचिवान् ।
शेकिवान् ।
धात्वभ्यासयोः एकादेशे कृते एत्वाभ्यासलोपयोश्च कृतयोः कृतद्विर्वचना एते एकाचो भवन्ति आत् ययिवान् ।
तस्थिवान् ।
घस् जक्षिवान् ।
सिद्धे सत्यारम्भो नियमार्थः, एकाजाद्घसामेव वसाविडागमो भवति न अनयेषाम् ।
बिभिद्वान् ।
चिच्छिद्वान् ।
बभूवान् ।
शिश्रिवान् ।
क्रादिनियमात्प्रतिषेधाभावाच्च य इट्प्रसक्तः स नियम्यते ।
आद्ग्रहणमनेकाज्ग्रहणार्थम् ।
द्विर्वचने हि कृते इटि हि सति आतो लोपेन भवितव्यम् ।
दरिद्रातेस्तु कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थमित्यामा भवितव्यम् ।
दरिद्राञ्चकार ।
अथाप्यां न क्रियते तथापि च दरिद्रातेः आर्धधातुके लोपः सिद्धश्च प्रत्ययविधौ इति प्रागेव प्रत्ययोत्पत्तेराकारे लुप्ते इडागमस्य निमित्तं विहतमिति न इडागमो भवति, ददरिद्र्वानिति भवितव्यम् ।
घसेरपि यदि ग्रहणमिह न क्रियते तदा द्विर्वचनात्परत्वाद्घसिभसोर्हलि च (*६,४.१००) इति उपधालोपे कृते द्विर्वचनमेव न स्यात्, अनच्कत्वात् ।
इह तु घसिग्रहणादुपधालोपमपि परत्वातिडागमो बाधते ।
तत्र कृते गमहनजनखनघसाम् (*६,४.९८) इति उपधालोपः ।
स च द्विर्वचनेऽचि (*१,१.५९) इति द्विर्वचने कर्तव्ये स्थानिवद्भवति, तेन जक्षिवानिति सिध्यति ॥
[॰८१८]
विभाषा गमहनविदविशाम् ॥ ७,२.६८ ॥
_____ काशिकावृत्तिः७,२.६८:
गम हन विद विश इत्येतेषां धातूनां वसौ विभाषा इडागमो भवति ।
गम जग्मिवान्, जगन्वान् ।
मो नो धातोः (*८,२.६४) इति नकारः ।
हन जघ्निवान्, जघन्वान् ।
विद विविदिवान्, विविद्वान् ।
विश विविशिवान्, विविश्वान् ।
विशिना साहचर्यादिह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम् ।
ज्ञानार्थस्य तु नित्यं विविद्वानित्येव भवति ।
दृशेश्चेति वक्तव्यम् ।
ददृशिवान्, ददृश्वान् ॥
सनिंससनिवांसम् ॥ ७,२.६९ ॥
_____ काशिकावृत्तिः७,२.६९:
सनोतेः सनतेर्वा धातोः सनिंससनिवांसमिति निपात्यते ।
अञ्चित्वाग्ने सनिंससनिवांसम् ।
इडागम एत्वाभ्यासलोपश्च निपात्यते ।
सनिङ्पूर्वातन्यत्र सेनिवांसमित्येव भवति ।
छन्दसि इदं निपातनं विज्ञायते ।
भाषायां सेनिवांसमिति भवति ॥
ऋद्धनोः स्ये ॥ ७,२.७० ॥
_____ काशिकावृत्तिः७,२.७०:
ऋकारान्तानां धातूनां हन्तेश्च स्ये इडागमो भवति ।
करिष्यति ।
हरिष्यति ।
हनिस्यति ।
स्वरतेर्वेट्त्वातृद्धनोः स्ये इत्येतद्भवति विप्रतिषेधेन ।
स्वरिष्यति ।
तपरकरणं विस्पष्टार्थम् ॥
अज्ञेः सिचि ॥ ७,२.७१ ॥
_____ काशिकावृत्तिः७,२.७१:
अञ्जेः सिचि इडागमो भवति ।
आञ्जीत्, आञ्जीष्टाम्, आञ्जिषुः ।
सिचि इति किम् ? अङ्क्ता अञ्जिता ।
ऊदित्वाद्विभाषा भवति ॥
स्तुसुधूञ्भ्यः परस्मैपदेषु ॥ ७,२.७२ ॥
_____ काशिकावृत्तिः७,२.७२:
स्तु सु धूञित्येतेभ्यः सिचि परसमिपदे परत इडागमो भवति ।
अस्तावीत् ।
असावीत् ।
अधावीत् ।
परस्मैपदेषु इति किम् ? अस्तोष्ट ।
असोष्ट ।
अधोष्ट, अधविष्ट ॥
[॰८१९]
यमरमनमातां सक्च ॥ ७,२.७३ ॥
_____ काशिकावृत्तिः७,२.७३:
यम रम नम इत्येषामङ्गानामाकारान्तानां च सगागमो भवति परस्मैपदे सिचि, इडागमश्च ।
यमयंसीत्, अयंसिष्टामयंसिष्टां, अयंसिषुः ।
रम् अरंसीत्, अरंसिष्टाम्, अरंसिषुः ।
नम् अनंसीत्, अनंसिष्टामनंसिषुः ।
अकारान्तानाम् अयासीत्, अयासिष्टाम्, अयासिषुः ।
यमादीनां हलन्तलक्षणा वृद्धिः प्राप्ता सा नेटि प्रतिषिध्यते ।
परस्मैपदेषु इत्येव, अयंस्त ।
अरंस्त ।
अनंस्त ॥
स्मिपूङ्रञ्ज्वशां सनि ॥ ७,२.७४ ॥
_____ काशिकावृत्तिः७,२.७४:
स्मिङ्पूङृ अञ्जू अशू इत्येतेषां धातूनां सनि इडागमो भवति ।
सिस्मयिषते ।
पिपविषते ।
अरिरिषति ।
अञ्जिजिषति ।
अशिशिषते ।
ङकारग्रहणं पूञो मा भूत् ।
पुपूषति इत्येव तस्य भवति ।
अशेः ऊदितो ग्रहणातश्नोतेर्नित्यमिडागमोऽस्त्येव ॥
किरश्च पञ्चभ्यः ॥ ७,२.७५ ॥
_____ काशिकावृत्तिः७,२.७५:
किरादिभ्यः पञ्चभ्यः सनि इडागमो भवति ।
कॄ चिकरिषति ।
गॄ जिगरिषति ।
दृङ् दिदरिषते ।
धृङ् दिधरिषते ।
प्रच्च्ः पित्रच्छिषति ।
पञ्चभ्यः इति किम् ? सिसृक्षति ।
किरतिगिरत्योः इट्सनि वा (*७,२.४१) इति विकल्पः प्राप्तः, वॄतो वा (*७,२.३५) इति च ।
अस्येटो दीर्घत्वं न+इच्छन्ति ॥
रुदादिभ्यः सार्वधातुके ॥ ७,२.७६ ॥
_____ काशिकावृत्तिः७,२.७६:
रुदादिभ्यः उत्तरस्य वलादेः सार्वधातुकस्य इडागमो भवति ।
रुद् रोदिति ।
स्वप् र्वपिति ।
श्वस् श्वसिति ।
अन् प्राणिति ।
जक्ष् जक्षिति ।
पञ्चभ्यः इत्येव, जागर्ति ।
सार्वधातुके इति किम् ? स्वप्ता ।
वलादेः इत्येव, रुदन्ति ॥
ईशः से ॥ ७,२.७७ ॥
_____ काशिकावृत्तिः७,२.७७:
ईश उत्तरस्य से इत्येतस्य सार्वधातुकस्य इडागमो भवति ।
ईशिषे ।
ईशिष्व ॥
[॰८२०]
ईडजनोर्ध्वे च ॥ ७,२.७८ ॥
_____ काशिकावृत्तिः७,२.७८:
ईड जन इत्येताभ्यामुत्तरस्य ध्वे इत्येतस्य, स्ये इत्येतस्य च सर्वधातुकस्य इडागमो भवति ।
ईडिध्वे ।
ईडिध्वम् ।
ईडिषे ।
ईडिष्व ।
जनिध्वे ।
जनिध्वम् ।
जनिषे ।
जनिष्व ।
जनी प्रादुर्भावे इत्यस्य छान्दसत्वात्श्यनो लुकुपधालोपाभावश्च ।
जन जनने इत्यस्य अपि श्लुविकरणस्य ग्रहणमत्र+इष्यते ।
तस्य कर्मव्यतिहारे व्यतिजज्ञिषे, व्यतिजज्ञिष्व, व्यतिजज्ञिध्वे, व्यतिजज्ञिध्वमिति च भवति ।
ध्वेशब्दे ईशेरपि इडागम इष्यते ईशिध्वे ईशिध्वमिति ।
तदर्थं केचितीडिजनोः स्ध्वे च इति सूत्रं पठन्ति ।
तत्र सकारादेः सेशब्दस्य सूत्र एव+उपादानाच्चशब्दो भिन्नक्रमः ईशेरनुकर्षणार्थो विज्ञायते ।
ईशीडिजनां सेध्वयोः इत्येकमेव सूत्रं न पठितम् ? विचित्रा हि सूत्रस्य कृतिः पणिनेः इति ।
ध्वे इति कृतटेरेत्वस्य ग्रहणात्लङि ध्वमि न भवितव्यमिटा ।
लोटि पुनरेकदेशविकृतस्य अनन्यत्वात्भवितव्यमिटा ॥
लिङः सलोपोऽनन्त्यस्य ॥ ७,२.७९ ॥
_____ काशिकावृत्तिः७,२.७९:
सार्वधातुके इति वर्तते ।
सार्वधातुके यो लिङ्तस्य अनन्त्यस्य सकारस्य लोपो भवति ।
कः पुनरनन्त्यो लिङः सकारः ? यो यासुट्सुट्सीयुटाम् ।
कुर्यात्, कुर्याताम्, कुर्युः ।
कुर्वीत, कुर्वीयाताम्, कुर्वीरन् ।
अनन्यस्य इति किम् ? कुर्युः ।
कुर्याः ।
सार्वधातुके इत्येव, क्रियास्ताम् ।
क्रियासुः ।
कृषीष्ट, कृषीयास्ताम्, कृषीरन् ॥
अतो येयः ॥ ७,२.८० ॥
_____ काशिकावृत्तिः७,२.८०:
अकारान्तातङ्गादुत्तरस्य या इत्येतस्य सार्वधातुकस्य इयित्ययमादेशो भवति, पचेत्, पचेताम्, पचेयुः इति ।
अत्र उस्यपदान्तात्(*६,१.९६) इति पररूपं बाधितम् ।
अतः इति किम् ? चिनुयात् ।
सुनुयात् ।
तपरकरणं किम् ? यायात् ।
सार्वधातुक इत्येव, चिकीर्ष्यात् ।
ननु च अतो लोपः (*६,४.४८) इत्यनेन अत्र भवितव्यम्, पचेतित्यत्र अपि हि तर्हि अतो दीर्घो यञि (*७,३.१०१) इति दीर्घत्वेन भवितव्यम्, तदनेन अवश्यं विध्यन्तरं बाधितव्यम्, स यथैव दीर्घस्य बाधकः एवमतो लोपस्य अपि बाधकः स्यात्? स्यादेतदेवं यदि दीर्घः सार्वधातुके विधीयते ।
अथ तु तिङि विधीयते, तदा येन नाप्राप्तिन्यायेन दीर्घस्यैव बाधकः स्यान्न पुनरतो लोपस्य ।
येयः इत्यविभक्तिको निर्देशः ।
यः इति वा षष्ठीनिर्देशे यलोपस्य असिद्धत्वमनाश्रित्य आद्गुणः कृतः, सौत्रत्वान्निर्देशस्य इति ।
केचितत्र अतो यासियः इति सूत्रं पथन्ति ।
तेषां सकारान्तः स्थानी, षष्ठीसमासश्च ॥
[॰८२१]
आतो ङितः ॥ ७,२.८१ ॥
_____ काशिकावृत्तिः७,२.८१:
आकारस्य ङिदवयवस्य आकारान्तादङ्गादुत्तरस्य सार्वधातुकस्य इयित्ययमादेशो भवति ।
पचेते पचेथे ।
पचेताम् ।
पचेथाम् ।
यजेते ।
यजेथे ।
यजेताम् ।
यजेथाम् ।
सार्वधातुकमपित्(*१,२.४) इत्यत्र न ङितीव ङिद्वतित्येवमङ्गीक्रियते, अपि तु ङित इव ङिद्वतिति ।
पूर्वसूत्र एव उच्चुकुटिषति इति प्रसिद्धये तथाङ्गीकरणम् ।
यदि गाङ्कुटादिसूत्रे ङित इव ङिद्वद्भवति इत्येवमङ्गीक्रियते, तदा अनुदात्तङिति आत्मनेपदम् (*१,३.१२) इत्यात्मनेपदं प्रप्नोति इति ।
आतः इति किम् ? पचन्ति ।
यजन्ति ।
पचन्ते ।
यजन्ते ।
ङितः इति किम् ? पचावहै ।
पचामहै ।
अतः इत्येव, चिन्वाते ।
सुन्वाते ।
तपरकरणं किम् ? मिमाते ।
मिमाथे ॥
आने मुक् ॥ ७,२.८२ ॥
_____ काशिकावृत्तिः७,२.८२:
आने परतोऽङ्गस्यातः मुगागमो भवति ।
पचमानः ।
यजमानः ।
अकारमात्रभक्तोऽयं मुकदुपदेशग्रहणेन गृह्यते इति अदुपदेशादिति लसार्वधातुकानुदत्तत्वं भवति ।
यद्येवमातो ङितः (*७,२.८१) इत्ययमपि चिधिः प्राप्नोति ? तपरनिर्देशान्न भविष्यति ।
मुकि सति अध्यर्धमात्रो भवति ।
लसार्वधातुकानुदात्तत्वमपि तर्हि न प्राप्नोति ? न+एष दोषः ।
उपदेशग्रहणं तत्र क्रियते ।
तेन उपदेशादूर्धं सत्यपि कालभेदे भवितव्यम् ।
तथा च पचवः, पचामः इत्यत्र अपि भवति ॥
ईदासः ॥ ७,२.८३ ॥
_____ काशिकावृत्तिः७,२.८३:
आसः उत्तरस्य आनशब्दस्य ईकारादेशो भवति ।
आसीनो यजते ।
अत्र पञ्चम्याः परस्य षष्ठी कल्प्यते ॥
अष्टन आ विभक्तौ ॥ ७,२.८४ ॥
_____ काशिकावृत्तिः७,२.८४:
अष्टनो विभक्तौ परतः आकारादेशो भवति ।
अष्टाभिः ।
अष्टाभ्यः ।
अष्टानाम् ।
अष्टासु ।
विभक्तौ इति किम् ? अष्टत्वम् ।
अष्टता ।
आ इति व्यक्तिनिर्देशोऽयम् ।
आकृतिनिर्देशे तु नकारस्थनेऽनुनासिकाकारः स्यात् ।
विकल्पेन अयमाकारो भवति, एतज्ज्ञापितमष्टनो दीर्घात्(*६,१.१७२) इति दीर्घग्रहणात्, अष्टाभ्य औश्(*७,१.२१) इति च कृतात्वस्य निर्देशात् ।
तेन अष्टभिः, अष्टभ्यः इत्यपि भवति ।
तदन्तविधिश्च अत्र+इष्यते ।
प्रियाः अष्टौ येषां ते प्रियाष्टानः ।
प्रियाष्टौ ॥
[॰८२२]
रायो हलि ॥ ७,२.८५ ॥
_____ काशिकावृत्तिः७,२.८५:
रै इत्येतस्य हलादौ विभक्तौ परतः आकारादेशो भवति ।
राभ्याम् ।
राभिः ।
हलि इति किम् ? रायौ ।
रायः ।
विभक्तौ इति किम् ? रैत्वम् ।
रैता ।
मृजेर्वृद्धिः (*७,२.११४) इत्यतः प्राग्विभक्त्यधिकारः ॥
युष्मदस्मदोरनादेशे ॥ ७,२.८६ ॥
_____ काशिकावृत्तिः७,२.८६:
युष्मदस्मदित्येतयोः अनादेशे विभक्तौ परतः आकारादेशो भवति ।
युष्माभिः ।
अस्माभिः ।
युष्मासु ।
अस्मासु ।
अनादेशे इति किम् ? युष्मत् ।
अस्मत् ।
हलि इत्यधिकारादप्यत्र न स्यात् ।
उत्तरत्र तु अनादेशग्रहणेन प्रयोजनं योऽचि (*७,२.८९) इति, तदिहैव क्रियते ॥
द्वितीयायां च ॥ ७,२.८७ ॥
_____ काशिकावृत्तिः७,२.८७:
द्वितीयायां च परतः युष्मदस्मदोः आकारादेशो भवति ।
त्वाम् ।
माम् ।
युवाम् ।
आवाम् ।
युष्मान् ।
अस्मान् ।
आदेशार्थं वचनम् ॥
प्रथमायाश्च द्विवचने भाषायाम् ॥ ७,२.८८ ॥
_____ काशिकावृत्तिः७,२.८८:
प्रथमायाश्च द्विवचने परतो भाषायां विषये युष्मदस्मदोः आकारादेशो भवति ।
युवाम् ।
आवाम् ।
प्रथमायाः इति किम् ? युवयोः ।
आवयोः ।
द्विवचने इति किम् ? त्वम् ।
अहम् ।
यूयम् ।
वयम् ।
भाषायामिति किम् ? युवं वस्त्राणि पीवसा वसाथे ॥
योऽचि ॥ ७,२.८९ ॥
_____ काशिकावृत्तिः७,२.८९:
अजादौ विभक्तौ अनादेशे युष्मदस्मदोः यकारादेशो भवति ।
त्वया ।
मया ।
त्वयि ।
मयि ।
युवयोः ।
आवयोः ।
अचि इति किम् ? युवाभ्याम् ।
आवाभ्याम् ।
युष्मदस्मदोरनादेशे (*७,२.८६) इत्यत्र यदि हलि इति अनुवर्तते, शक्यमकर्तुमचि इति एतत्? तत्क्रियते विस्पष्टार्थम् ।
अनादेशे इत्येव ।
त्वद्गच्छति ।
मद्गच्छति ॥
शेषे लोपः ॥ ७,२.९० ॥
_____ काशिकावृत्तिः७,२.९०:
शेषे विभक्तौ युष्मदस्मदोर्लोपो भवति ।
कश्च शेषः ? यत्र आकारो यकारश्च न विहितः ।
पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि ।
यान्यद्विवचनान्यत्र तेषु लोपो विधीयते ॥
[॰८२३]
त्वम् ।
अहम् ।
यूयम् ।
वयम् ।
तुभ्यम् ।
मह्यम् ।
युष्मभ्यम् ।
अस्मभ्यम् ।
त्वत् ।
मत् ।
युष्मत् ।
अस्मत् ।
तव ।
मम ।
युष्माकम् ।
कस्माकम् ।
शेषग्रहणं विस्पष्टार्थम् ।
शेषे लोपे कृते स्त्रियां टाप्कस्मान्न भवति, त्वं ब्राह्मणी, अहं ब्राह्मणी ? स्न्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य, अलिङ्गे वा युस्मदस्मदी इति ।
केचित्तु शेषे लोपं टिलोपमिच्छन्ति ।
कथम् ? वक्ष्यमाणादेशापेक्षः शेषः, ते चादेशा मपर्यन्तस्य विधीयन्ते, तेन मपर्यन्ताद्योऽन्यः स शेषः इति ।
तत्र अयं लोपः इति टिलोपो भवति ॥
मपर्यन्तस्य ॥ ७,२.९१ ॥
_____ काशिकावृत्तिः७,२.९१:
मपर्यन्तस्य इत्ययमधिकारः ।
यदित ऊर्ध्वमनुक्रमिष्यामो मपर्यन्तस्य इत्येवं तद्वेदितव्यम् ।
वक्ष्यति युवावौ द्विवचने ॥ ७,२.९२ ॥
_____ काशिकावृत्तिः७,२.९२:
युवाम् ।
आवाम् ।
मपर्यन्तस्य इति किम् ? युवकाम्, आवकामिति साकच्कस्य मा भूत् ।
त्वमावेकवचने (*७,२.९७) त्वया ।
मया ।
मपर्यन्तस्य इति किम् ? सर्वस्य मा भूत् ।
तथा च सति त्वमयोरकारस्य योऽचि (*७,२.८९) इति यकारे कृते अनिष्टं रूपं स्यात् ।
मान्तस्य इत्येव सिद्धे अस्मिन् यत्परिग्रहणं कृतम्, अवधिद्योतनार्थं तत् ।
मान्ते मा भूत् ।
कदा ? यदा ण्यन्तयोः क्विपि मान्तत्वं विद्यते युष्मदस्मदोः ।
स्थानिवत्त्वं च णेरत्र क्वौ लुतत्वान्न विद्यते ॥
युवावौ द्विवचने (*७,२.९२) ।
द्विवचने इत्यर्थग्रहणम् ।
द्विवचने ये युष्मदस्मदी द्व्यर्थाभिधानविषये तयोः मपर्यन्तस्य स्थाने युव आव इत्येतावादेशौ भवतः ।
युवाम् ।
आवाम् ।
युवाभ्याम् ।
आवाभ्याम् ।
युवयोः ।
आवयोः ।
यदा समासे द्व्यर्थे युष्मदस्मदी भवतः, समासार्थस्य अन्यसङ्खत्वातेकवचनं बहुवचनं वा भवति, तदा अपि द्व्यर्थयोः युष्मदस्मदोः युवावौ भवतः , यदि त्वाहौ सौ (*७,२.९४) इत्येवमादिना आदेशान्तरेण न बाध्येते ।
अतिक्रान्तं युवामतियुवाम् ।
अत्यावाम् ।
अतिक्रान्तान् युवामतियुवान् ।
अत्यावान् ।
अतिक्रान्तेन युवामतियुवया ।
अत्यावया ।
अतिक्रान्तैर्युवामतियुवाभिः ।
अत्यावाभिः ।
अतिक्रान्तेभ्यो युवामतियुवभ्यम् ।
अत्यावभ्यम् ।
अतिक्रान्ताद्युवामतियुवत् ।
अत्यावत् ।
अतिक्रान्तेभ्यो युवामतियुवत् ।
अत्यावत् ।
अतिक्रान्तानां युवामतियुवाकम् ।
अत्यावाकम् ।
अतिक्रान्ते युवामतियुवयि ।
अत्यावयि ।
अतिक्रान्तेषु युवामतियुवासु ।
अत्यावासु ।
त्वाहादीनां तु विषये परत्वात्ते एव भवन्ति ।
अतिक्रान्तो युवामतित्वम् ।
अत्यहम् ।
अतिक्रान्ता युवामतियूयम् ।
अतिवयम् ।
अतिक्रान्ताय युवामतियुभ्यम् ।
अतिमह्यम् ।
अतिक्रान्तस्य युवामतितव ।
अतिमम ।
यदा तु युष्मदस्मदी एकत्वबहुत्वयोर्वर्तेते, समासार्थस्तु द्वित्वे, तदा युवावौ न भवतः ।
अतिक्रान्तौ त्वामतित्वाम् ।
अतिमाम् ।
अतिक्रान्तौ युष्मानतियुष्मान् ।
अत्यस्मान् ।
एवमुन्नेयम् ॥
[॰८२४]
यूयवयौ जसि ॥ ७,२.९३ ॥
_____ काशिकावृत्तिः७,२.९३:
युष्मदस्मदोः मपर्यन्तस्य जसि परतो यूय वय इत्येतावादेशौ भवतः ।
यूयम् ।
वयम् ।
परमयूयम् ।
परमवयम् ।
अतियूयम् ।
अतिवयम् ।
तदन्तविधिरत्र भवति, अङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति ॥
त्वाहौ सौ ॥ ७,२.९४ ॥
_____ काशिकावृत्तिः७,२.९४:
युष्मदस्मदोर्मपर्यन्तस्य सौ परे त्व अह इत्येतौ आदेशौ भवतः ।
त्वम् ।
अहम् ।
परमत्वम् ।
परमाहम् ।
अतित्वम् ।
अत्यहम् ॥
तुभ्यमह्यौ ङयि ॥ ७,२.९५ ॥
_____ काशिकावृत्तिः७,२.९५:
युष्मदस्मदोः मपर्यन्तस्य तुभ्य मह्य इत्येतावादेशुअ भवतो ङयि परतः ।
तुभ्यम् ।
मह्यम् ।
परमतुभ्यम् ।
परममह्यम् ।
अतितुभ्यम् ।
अतिमह्यम् ॥
तवममौ ङसि ॥ ७,२.९६ ॥
_____ काशिकावृत्तिः७,२.९६:
युष्मदस्मदोः मपर्यन्तस्य तव मम इत्येतावादेशौ भवतो ङसि परतः ।
तव ।
मम ।
परमतव ।
परममम ।
अतितव ।
अतिमम ॥
त्वमावेकवचने ॥ ७,२.९७ ॥
_____ काशिकावृत्तिः७,२.९७:
एकवचने इत्यर्थनिर्देशः ।
एकवचने ये युष्मदस्मदी एकार्थामिधानविषये तयोर्मपर्यन्तस्य स्थाने त्व म इत्येतावादेशौ भवतः ।
त्वाम् ।
माम् ।
त्वया ।
मया ।
त्वत् ।
मत् ।
त्वयि ।
मयि ।
यदा समासे एकार्थे युष्मदस्मदी भवतः, समासार्थस्य त्वन्यसङ्ख्यत्वात्द्विवचनं बहुवचनं वा भवति, तदापि त्वमावादेशौ भवतः ।
आदेशान्तराणां तु त्वाहौ सौ (*७,२.९४) इत्येवमादीनां विषये पूर्वविप्रतिषेधेन ते एवेष्यन्ते ।
अतिक्रान्तः त्वामतित्वम् ।
अत्यहम् ।
अतिक्रान्तौ त्वामतित्वाम् ।
अतिमाम् ।
अतिक्रान्तान् त्वामतित्वान् ।
अतिमान् ।
अतिक्रान्ताभ्यां त्वामतित्वाभ्याम् ।
अतिमाभ्याम् ।
अतिक्रान्तैः त्वामतित्वाभिः ।
अतिमाभिः ।
इत्येवमाद्युदाहर्तव्यम् ॥
[॰८२५]
प्रत्ययोत्तरपदयोश्च ॥ ७,२.९८ ॥
_____ काशिकावृत्तिः७,२.९८:
एकवचने इत्यनुवर्तते ।
प्रत्यये उत्तरपदे च परत एकवचने वर्तमानयोः युस्मदस्मदोर्मपर्यन्तस्य त्व म इत्येतावादेशौ भवतः ।
तवायं त्वदीयः ।
मदीयः ।
अतिशयेन त्वं त्वत्तरः ।
मत्तरः ।
त्वामिच्छति त्वद्यति ।
मद्यति ।
त्वमिवाचरति त्वद्यते ।
मद्यते ।
उत्तरपदे तव पुत्रः त्वत्पुत्रः ।
मत्पुत्रः ।
त्वं नाथोऽस्य त्वन्नाथः ।
मन्नथः ।
एकवचने इत्येव, युष्माकमिदं युष्मदीयम् ।
अस्मदीयम् ।
युष्माकं पुत्रः, अस्माकं पुत्रः युष्मत्पुत्रः, अस्मत्पुत्रः ।
विभक्तौ इत्यधिकारात्पूर्वयोगो विभक्तावेव ।
ततोऽन्यत्र अपि प्रत्यये उत्तरपदे च यथा स्यातित्ययमारम्भः ।
ननु चात्राप्यन्तर्वर्तिनी विभक्तिरस्ति, तस्यामेव आदेशौ भविस्यतः ? न+एवं शक्यम्, लुका तस्या भवितव्यम् ।
बहिरङ्गो लुक्, अन्तरङ्गौ आदेशौ, प्रथमं तौ भविष्यतः ? एतदेव तर्हि आदेशवचनं ज्ञापकमन्तरङ्गानपि विधीन् बहिरङ्गोऽपि लुक्बाधते इति ।
तेन गोमान् प्रियोऽस्य गोमत्प्रियः इत्येवमादौ नुमादि लुका बाध्यते ।
एवं च सति त्वाहौ सौ (*७,२.९४) इत्येवमादयोऽपि प्रत्ययोत्तर्पदयोरादेशा न भवन्ति ।
त्वं प्रधानमेषां त्वत्प्रधानाः ।
मत्प्रधानाः ।
यूयं पुत्रा अस्य युष्मत्पुत्रः ।
अस्मत्पुत्रः तुभ्यं हितं त्वद्धितम् ।
मद्धितम् ।
तव पुत्रः त्वत्पुत्रः ।
मत्पुत्रः ।
अथ किमर्थ्मेषां त्वाहादीनां बाधनार्थमेतन्न विज्ञायते ? लक्ष्यस्थित्यपेक्षया ।
ज्ञाप्कार्थे ह्येतस्मिन् बहुतरमिष्टं सङ्गृह्यते ॥
त्रिचतुरोः स्त्रियां तिसृचतसृ ॥ ७,२.९९ ॥
_____ काशिकावृत्तिः७,२.९९:
त्रि चतुरित्येतयोः स्त्रियां वर्तमानयोः तिसृ चतसृ इत्येतावादेशौ भवतो विभक्तौ परतः ।
तिस्रः ।
चतस्रः ।
तिसृभिः ।
चतसृभिः ।
स्त्रियामिति किम् ? त्रयः ।
चत्वारः ।
त्रीणिं ।
चत्वारि ।
स्त्रियामिति च+एतत्त्रिचतुरोरेव विशेषणं न अङ्गस्य ।
तेन यदा त्रिचतुःशब्दौ स्त्रियाम्, अङ्गं तु लिङ्गान्तरे, तदा अप्यादेशौ भवत एव ।
प्रियाः तिस्रो ब्राह्मण्योऽस्य ब्राह्मणस्य प्रियतिसा ब्राह्मणः ।
प्रियतिस्रौ, प्रियतिस्रः ।
प्रियतिसृ ब्राह्मणकुलम्, प्रियतिसृणी, प्रियतिसॄणि ।
प्रियचतसा, प्रियचतस्रौ, प्रियचतस्रः ।
प्रियचतसृ, प्रियचतसृणी, प्रियचतसॄणि ।
नद्यृतश्च (*५,४.१५३) इति समासान्तो न भवति, विभक्त्याश्रयत्वेन तिसृभावस्य बहिरङ्गलक्षणत्वात् ।
यदा तु त्रिचतुःशब्दौ लिङ्गान्तरे, स्त्रियामङ्गम्, तदा आदेशौ न भवतः ।
प्रियाः त्रयोऽस्याः, प्रियाणि त्रीणि वा अस्याः ब्राह्मण्याः सा प्रियत्रिः ।
[॰८२६]
प्रियत्री, प्रियत्रयः ।
प्रियचत्वा, प्रियचत्वारौ, प्रियचत्वारः ।
तिसृभावे सञ्ज्ञायां कन्युपसङ्ख्यानं कर्तव्यम् ।
तिसृका नाम ग्रामः ।
चतसर्याद्युदात्तनिपातनं कर्तव्यम् ।
चतस्त्रः पश्य इत्यत्र चतुरः शसि (*६,१.१३७) इत्येष स्वरो मा भूत् ।
चतसृणामित्यत्र तु षट्त्रिचतुर्भ्यो हलादिः (*६,१.१७९) इत्येव स्वरो भवति ।
हलादिग्रहणसामर्थ्यान्निपातनस्वरो बाध्यते ॥
अचि र ऋतः ॥ ७,२.१०० ॥
_____ काशिकावृत्तिः७,२.१००:
तिसृ चतसृ इत्येतयोः ऋतः स्थाने रेफादेशो भवति अजादौ विभक्तौ परतः ।
तिस्रः तिष्ठन्ति ।
तिस्रः पश्य ।
चतस्रः तिष्ठन्ति ।
चतस्रः पश्य ।
प्रियतिस्रः आनय ।
प्रियातस्रः आनय ।
प्रियतिस्रः स्वम् ।
प्रियचतस्रः स्वम् ।
प्रियतिस्रि निधेहि ।
प्रियचतस्रि निर्धेहि ।
पूर्वसवर्णोत्त्वङिसर्वनामस्थानगुणानामपवादः ।
परमपि ङिसर्वनामस्थानगुणं पूर्वविप्रतिषेधेन बाधते ।
अचि इति किम् ? तिसृभिः ।
चतसृभिः ।
ऋतः इति किम् ? तिसृचतस्रोः प्रतिपत्त्यर्थम्, अन्यथा हि तदपवादः त्रिचतुरोरेव अयमादेशो विज्ञायेत ॥
जराया जरसन्यतरस्याम् ॥ ७,२.१०१ ॥
_____ काशिकावृत्तिः७,२.१०१:
जरा इत्येतस्य जरसित्ययमादेशो भवति अन्यत्रस्यामजादौ विभक्तौ परतः ।
जरसा दन्ताः शीर्यन्ते, जरया दन्ताः शीर्यन्ते ।
जरसे त्वा परिदद्युः, जरायै त्वा परिदद्युः ।
अचि इत्येव, जराभ्याम् ।
जराभिः ।
नुमो विधानात्जरसादेशो भवति विप्रतिषेधेन ।
अतिजरांसि ब्राह्मणकुलानि ।
इह अतिजरसं ब्राह्मणकुलं पश्य इति लुग्न भवति, आनुपूर्व्या सिद्धत्वत् ।
अतिजर अमिति स्थिते लुक्, अम्भावः, जरस्भावः इति त्रीणि कार्याणि युगपत्प्राप्नुवन्ति ।
तत्र लुक्तावदपवादत्वादम्भावेन बाध्यते, अम्भावोऽपि परत्वाज्जरसादेशेन ।
न च पुनर्लुक्शास्त्रं प्रवर्तते, भ्रष्टावसरत्वात्, इति एवमेव भवति अतिजरसं ब्राह्मणकुलं पश्य इति ।
प्रथमैकवचने तृतीयाबहुवचने च अतिजरं ब्राह्मणकुलं तिष्ठति, अतिजरैः इति च भवितव्यमिति गोनर्दीयमतेन ।
किं कारणम् ? सन्निपातलक्षणो विधिरनिमित्तं तद्विद्घातस्य इति ।
अन्ये तु अनित्यत्वातस्याः परिभाषायाः अतिजरसं ब्राह्मणकुलं तिष्ठति, अतिजरसैः इत्येवं भवितव्यमिति मन्यन्ते ॥
[॰८२७]
त्यदादीनामः ॥ ७,२.१०२ ॥
_____ काशिकावृत्तिः७,२.१०२:
त्यदित्येवमादीनामकारादेशो भवति विभक्तौ परतः ।
त्यद् स्यः, त्यौ, त्ये ।
तद् सः, तौ, ते ।
यद् यः, यौ, ये ।
एतद् एषः, एतौ, एते ।
इदम् अयम्, इमौ, इमे ।
अदस् असौ, अमू, अमी ।
द्वि द्वौ ।
द्वाभ्याम् ।
द्विपर्यन्तानां त्यदादीनामत्वमिष्यते ।
इह न भवति, भवत् भवान् ।
सञ्ज्ञोपसर्जनीभूताः त्यदादयः पाठादेव पर्युदस्ताः इति इह न भवति, त्यद्, त्यदौ, त्यदः ।
अतित्यद्, अतित्यदौ, अतित्यदः ।
त्यदादिप्रधाने तु शब्दे भवत्येव, परमसः परमतौ, पर्मते ॥
किमः कः ॥ ७,२.१०३ ॥
_____ काशिकावृत्तिः७,२.१०३:
किमित्येतस्य कः इत्ययमादेशो भवति विभक्तौ परतः ।
कः, कौ, के ।
साकच्कस्य अप्ययमादेशो भवति, तेन अकार एव किमो न विधीयते किमोऽत्(*५,३.१२) इति ॥
कु तिहोः ॥ ७,२.१०४ ॥
_____ काशिकावृत्तिः७,२.१०४:
तकारादौ हकारादौ च विभक्तौ परतः किमित्येतस्य कु इत्ययमादेशो भवति ।
कुतः ।
कुत्र ।
कुह ।
तिहोः इति इकारः उच्चारणार्थः ॥
क्व अति ॥ ७,२.१०५ ॥
_____ काशिकावृत्तिः७,२.१०५:
अति तियेतस्यां विभक्तौ परतः किमित्येतस्य क्व इत्ययमादेशो भवति ।
क्व गमिष्यसि ।
क्व भोक्ष्यते ।
आदेशान्तरवचनमोर्गुण निवृत्त्यर्थम् ।
किमो ड्वतिति प्रत्ययान्तरं न विधीयते, साकच्कार्थम् ॥
तदोः सः सावनन्त्ययोः ॥ ७,२.१०६ ॥
_____ काशिकावृत्तिः७,२.१०६:
त्यदादीनां तकारदकारयोः अनन्त्ययोः सकारादेशो भवति सौ परतः ।
त्यद् स्यः ।
तद् सः ।
एतद् एषः ।
अदस् असौ ।
अनन्त्ययोः इति किम् ? हे स ।
सा ॥
अदस औ सुलोपश्च ॥ ७,२.१०७ ॥
_____ काशिकावृत्तिः७,२.१०७:
अदसः सौ परतः सकारस्य औकारादेशो भवति सोश्च लोपो भवति ।
असौ ।
[॰८२८]
औत्वप्रतिषेधः साकच्काद्वा वक्तव्यः सादुत्वं च ।
यदा च औत्वप्रतिषेधः तदा सकारादुत्तरस्य उत्वं भवति ।
असुकः ।
असुकौ ।
उत्तरपदभूतानां त्यदादीनामकृतसन्धीनामादेशा वक्तव्याः ।
परमाहम् ।
परमायम् ।
परमानेन ।
अदसः सोर्भवेदौत्वं किं सुलोपो विधीयते ।
ह्रस्वाल्लुप्येत सम्बुद्धिर्न हलः प्रकृतं हि तत् ॥
आप एत्वं भवेत्तस्मिन्न झलीत्यनुवर्तनात् ।
प्रत्ययस्थाच्च कादित्वं शीभावश्च प्रसज्यते ॥
इदमो मः ॥ ७,२.१०८ ॥
_____ काशिकावृत्तिः७,२.१०८:
इदमः सौ परतः मकारोऽन्तादेशो भवति ।
इयम् ।
अयम् ।
इदमो मकारस्य मकारवचनं त्यदाद्यत्वबाधनार्थम् ॥
दश्च ॥ ७,२.१०९ ॥
_____ काशिकावृत्तिः७,२.१०९:
इदमो दकारस्य स्थाने मकारादेशो भवति विभक्तौ परतः ।
इमौ, इमे ।
इमम्, इमौ, इमान् ॥
यः सौ ॥ ७,२.११० ॥
_____ काशिकावृत्तिः७,२.११०:
इदमो मकारस्य यकारादेशो भवति सौ परतः ।
इयम् ।
उत्तरसूत्रे पुंसि इति वचनात्स्त्रियामयं यकारः ॥
इदोऽय्पुंसि ॥ ७,२.१११ ॥
_____ काशिकावृत्तिः७,२.१११:
इदमः इदरूपस्य पुंसि सौ परतः अयित्ययमादेशो भवति ।
अयं ब्राह्मणः ।
पुंसि इति किम् ? इयं ब्राह्मणी ॥
अनाप्यकः ॥ ७,२.११२ ॥
_____ काशिकावृत्तिः७,२.११२:
इदमः अककारस्य इद्रूपस्य स्थाने अन इत्ययमादेशो भवति आपि विभक्तौ परतः ।
अनेन ।
अनयोः ।
अकः इति किम् ? इमकेन ।
इमकयोः ।
आपि इति प्रत्याहारः तृतीयैकवचनात्प्रभृति सुपः पकारेण ॥
[॰८२९]
हलि लोपः ॥ ७,२.११३ ॥
_____ काशिकावृत्तिः७,२.११३:
हलादौ विभक्तौ परतः इदमोऽककारस्य इद्रूपस्य लोपो भवति ।
आभ्याम् ।
एभिः ।
एभ्यः ।
एषाम् ।
एषु ।
नानर्थकेऽलोन्त्यविधिः इति सर्वस्य अयमिद्रूपस्य लोपः ।
अथ वा न अयमिल्लोपः ।
अनाप्यकः (*७,२.११२) इति अङ्ग्रहणमनुवर्तते ॥
मृजेर्वृद्धिः ॥ ७,२.११४ ॥
_____ काशिकावृत्तिः७,२.११४:
विभक्तौ इति निवृत्तम् ।
मृजेरङ्गस्य इको वृद्धिर्भवति ।
मार्ष्टा ।
मार्ष्टुम् ।
मार्ष्टव्यम् ।
मृजेरिति धातुग्रहणमिदम्, धातोश्च कार्यमुच्यमानं धातुप्रत्यय एव वेदितव्यम् ।
तेन किंसपरिमृड्भ्याम्, कंसपरिमृड्भिः इत्यत्र न भवति ॥
अचो ञ्णिति ॥ ७,२.११५ ॥
_____ काशिकावृत्तिः७,२.११५:
अजन्तस्य अङ्गस्य ञिति णिति च प्रत्यये वृद्धिर्भवति ।
ञिति एकस्तण्डुलनिश्चायः ।
द्वौ शूर्पनिष्पावौ ।
कारः ।
हारः ।
णिति गौः, गावौ, गावः ।
सखायौ, सखायः ।
जैत्रम् ।
यौत्रम् ।
च्यौत्नः ।
जयतेर्यौतेश्च उणादयो बहुलम् (*३,३.१) इति ष्ट्रन् प्रत्ययः ।
च्यवतेरपि त्नण् ॥
अत उपधायाः ॥ ७,२.११६ ॥
_____ काशिकावृत्तिः७,२.११६:
अङ्गोपधाया अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिर्भवति ।
पाकः ।
त्यागः ।
यागः ।
पाचयति ।
पाचकः ।
पाठयति ।
पाठकः ।
अतः इति किम् ? भेदयति ।
भेदकः ।
उपधायाः इति किम् ? चकासयति तक्षकः ॥
तद्धितेष्वचामादेः ॥ ७,२.११७ ॥
_____ काशिकावृत्तिः७,२.११७:
तद्धिते ञिति णिति च प्रत्यये परतोऽङ्गस्य अचामादेः अचः स्थाने वृद्धिर्भवति ।
गार्ग्यः ।
वात्स्यः ।
दाक्षिः ।
प्लाक्षिः ।
णिति औपगवः ।
कापटवः ।
त्वाष्ट्रः, जागतः इत्यत्र अचामादेर्वृद्धिरन्त्योपधालक्षणां वृद्धिं बाधते ॥
किति च ॥ ७,२.११८ ॥
_____ काशिकावृत्तिः७,२.११८:
किति च तद्धिते परतोऽङ्गस्याचामादेः अचः स्थाने वृद्धिर्भवति ।
नडादिभ्यः फक्(*४,१.९९) नाडायनः ।
चारायणः प्राग्वहतेष्ठक्(*४,४.१) आक्षिकः ।
शालाकिकः ॥
इति काशिकायां वृत्तौ सप्तमाध्यायस्य द्वितीयः पादः ॥
सप्तमाध्यायस्य तृतीयः पादः ।
[॰८३०]
देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् ॥ ७,३.१ ॥
_____ काशिकावृत्तिः७,३.१:
देविका शिंशपा दित्यवाट्दीर्घसत्र श्रेयसित्येतषामङ्गानामचामादेः अचः स्थने वृद्धिप्रसङ्गे आकारो भवति ञिति, णिति, किति तद्धिते परतः ।
देविकायां भवमुदकं दाविकमुदकम् ।
देविकाकूले भवाः शालयः दाविकाकूलाः शालयः ।
पूर्वदेविका नाम प्राचां ग्रामः, तत्र भवः पूर्वदाविकः ।
प्राचां ग्रामनगराणाम् (*७,३.१४) इति उत्तरपदवृद्धिः, सापि आकार एव भवति ।
शिंशपा शिंशपायाः विकारः चमसः शांशपः चमसः ।
पलाशादिरयम्, तेन पक्षे अण्, अनुदात्तादिलक्षणो वा अञ् ।
शिंशपास्थले भवाः शांशपास्थलाः देवाः ।
पूर्वशिंशपा नाम प्राचां ग्रामः, तत्र भवः पूर्वशांशपः ।
दित्यवाट् दित्यौहः इदं दात्यौहम् ।
दीर्घसत्र दीर्घसत्रे भवं दार्घसत्रम् ।
श्रेयस् श्रेयसि भवं श्रायसम् ।
वहीनरस्येद्वचनं कर्तव्यम् ।
वृद्धिविषयेऽचामादेः अचः स्थाने वहीनरस्य इकारादेशो भवति ।
वहीनरस्य अपत्यं वैहीनरिः ।
केचित्तु विहीनरस्य+एव वैहीनरिमिच्छन्ति ॥
केकयमित्रयुप्रलयानां यादेरियः ॥ ७,३.२ ॥
_____ काशिकावृत्तिः७,३.२:
केकय मित्रयु प्रलय इत्येतेषां यकारादेः इय इत्ययमादेशो भवति तद्धिते ञिति, णिति, किति च परतः ।
केकयस्य अपत्यं कैकेयः ।
जनपदशब्दात्क्षत्रियादञ्(*४,१.१६८) इति अञ्प्रत्ययः ।
मित्रयुभावेन श्लाघते मैत्रेयिकया श्लाघते ।
गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु (*५,१.१३४) इति वुञ् ।
लौकिकं हि तत्र गोत्रं गृह्यते ।
लोके च ऋषिशब्दो गोत्रमित्यभिधीयते ।
प्रलय प्रलयातागतं प्रालेयमुदकम् ॥
न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् ॥ ७,३.३ ॥
_____ काशिकावृत्तिः७,३.३:
यकारवकाराभ्यामुत्तरस्य अचामादेः अचः स्थाने वृद्धिर्न भवति, ताभ्यां तु यकारवकाराभ्यां पूर्वमैजागमौ भवतः ञिति, णिति, किति च तद्धिते परतः ।
यकारातैकारः, वकारातौकारः ।
व्यसने भवं वैयसनम् ।
व्याकरणमधीते वैयाकरणः ।
स्वश्वस्य अपत्यमौवश्वः ।
य्वाभ्यामिति किम् ? न्रर्थस्य अपत्यं न्रार्थिः ।
पदान्ताभ्यामिति किम् ? यष्टिः प्रहरणमस्य याष्टीकः यतः छात्राः याताः ।
प्रतिषेधवचनमैचोर्विषय प्रक्लृप्त्यर्थम् ।
इह मा भूत्, दाध्यश्विः, माध्वश्विः इति ।
नह्यत्र य्वाभ्यामुत्तरस्य वृद्धिप्रसङ्गोऽस्ति ।
[॰८३१]
वृद्धेरभावात्प्रतिषेधोऽपि न अस्ति इत्यप्रसङ्गः ।
उत्तरपदवृद्धेरप्ययं प्रतिषेध इष्यते ।
पूर्वत्र्यलिन्दे भवः पूर्वत्रैयलिन्दः ।
यत्र तु उत्तरपदसम्बन्धी यण्न भवति तत्र न+इष्यते प्रतिषेधः ।
द्वे अशीती भृतो भूतो भावी वा द्व्याशीतिकः ॥
द्वारादीनां च ॥ ७,३.४ ॥
_____ काशिकावृत्तिः७,३.४:
द्वार इत्येवमादीनां य्वाभ्यामुत्तरपदस्य अचामादेरचः स्थाने वृद्धिर्न भवति, पूर्वौ तु ताभ्यामैजागमौ भवतः ।
द्वारे नियुक्तः दौवारिकः ।
द्वारपालस्य इदं दौवारपालम् ।
तदादिविधिश्च अत्र भवति ।
स्वरमधिकृत्य कृतो ग्रन्थः सौवरः ।
सौवरः अध्यायः, सौवर्यः सप्तम्यः इति ।
व्यल्कशे भवः वैयल्कशः ।
स्वस्ति इत्याह सौवस्तिकः ।
स्वर्भवः सौवः ।
अव्ययानां भमात्रे टिलोपः ।
स्वर्गमनमाह सौवर्गमनिकः ।
स्वाध्याय इति केचित्पठन्ति, तदनर्थकम् ।
शोभनोऽध्यायः इत्येतस्यां व्युत्पत्तौ तु पूर्वेण+एव सिद्धम् ।
अथ अपि एवं व्युत्पत्तिः क्रियते, स्वोऽध्यायः स्वाध्यायः इति ? एवमप्यत्र+एव स्वशब्दस्य+एव पाठात्सिद्धम् ।
तदादावपि हि वृद्धिरियं भवत्येव ।
स्फ्यकृतस्य अपत्यं स्फैयकृतः ।
स्वादुमृदुनः इदं सौवादुमृदवम् ।
शुनः इदं शौवनम् ।
अणि अन् (*६,४.१६७) इति प्रकृतिभावः ।
शुनो विकारः शौवं मांसम् ।
प्रणिरजतादिभ्योऽञ्(*४,३.१५४) इत्यञ् ।
श्वादंश्ट्रायां भवः शौवादंष्ट्रो मणिः ।
स्वस्य इदं सौवम् ।
स्वग्रामे भवः सौवग्रामिकः ।
अध्यात्मादित्वात्ठञ् ।
अपदान्तार्थोऽयमारम्भः ।
द्वार ।
स्वर ।
व्यल्कश ।
स्वस्ति ।
स्वर् ।
स्फ्यकृत ।
स्वादुमृदु ।
श्वन् ।
स्व ।
द्वारादिः ॥
न्यग्रोधस्य च केवलस्य ॥ ७,३.५ ॥
_____ काशिकावृत्तिः७,३.५:
न्यग्रोधशब्दस्य केवलस्य यकारादुत्तरस्य अचामादेः अचः स्थाने वृद्धिर्न भवति, तस्माच्च पूर्वमैकार आगमो भवति ।
न्यग्रोधस्य विकारः नैयग्रोधः चमसः ।
केवलस्य इति किम् ? न्यग्रोधमूले भवाः शालयः न्याग्रोधमूलाः शालयः ।
न्यग्रोधयति इति न्यग्रोधः इति व्युत्पत्तिपक्षे नियमार्थम्, अव्युत्पत्तिपक्षे विध्यर्थम् ॥
[॰८३२]
न कर्मव्यतिहारे ॥ ७,३.६ ॥
_____ काशिकावृत्तिः७,३.६:
कर्मव्यतिहारे यदुक्तं तन्न भवति ।
प्रतिषेधागमयोरयं प्रतिषेधः ।
व्यावक्रोशी, व्यावलेखी, व्याववर्ती, व्यावहासी वर्तते ।
कर्मव्यतिहारे णच्स्त्रियाम् (*३,३.४३) इति णच्प्रययः, तदन्तात्णचः स्त्रियामञ्(*५,४.१४) ॥
स्वागतादीनां च ॥ ७,३.७ ॥
_____ काशिकावृत्तिः७,३.७:
स्वागत इत्येवमादीनां यदुक्तं तन्न भवति ।
स्वागतमित्याह स्वागतिकः ।
स्वध्वरेण चरति स्वाध्वरिकः ।
स्वङ्गस्य अपत्यं स्वङ्गिः ।
व्यङ्गस्य अपत्यं व्याङ्गिः ।
व्यडस्य अपत्यं व्याडिः ।
व्यवहारेण चरति व्यावहारिकः ।
व्यवहारशब्दोऽयं लौकिके वृत्ते वर्तते, न तु कर्मव्यतिहारे ।
स्वपतौ साधुः स्वापतेयः ।
द्वारादिषु स्वशब्दपाठादत्र प्राप्तिः ।
स्वागत ।
स्वध्वर ।
स्वङ्ग ।
व्यङ्ग ।
व्यड ।
व्यवहार ।
स्वपति ।
स्वागतदिः ॥
श्वादेरिञि ॥ ७,३.८ ॥
_____ काशिकावृत्तिः७,३.८:
श्वादेः अङ्गस्य इञि परतो यदुक्तं तन भवति ।
श्वभस्त्रस्य अपत्यं श्वाभस्त्रिः ।
श्वादंष्ट्रिः ।
श्वन्श्बदो द्वारादिषु पठ्यते, तत्र च तदादिविधिर्भवति इति एतदेव वचनं ज्ञापकम् ।
इकारादिग्रहणं कर्तव्यं श्वागणिकाद्यर्थम् ।
श्वगणेन चरति श्वागणिकः ।
श्वायूथिकः ।
तदन्तस्य च अन्यत्र अपि तद्धिते प्रतिषेध इष्यते ।
श्वाभस्त्रेः इदं श्वाभस्त्रम् ॥
पदान्तस्य अन्यतरस्याम् ॥ ७,३.९ ॥
_____ काशिकावृत्तिः७,३.९:
श्वादेः अङ्गस्य पदशब्दान्तस्य अन्यतरस्यां यदुक्तं तन्न भवति ।
श्वपदस्य इदं श्वापदम्, शौवापदम् ॥
उत्तरपदस्य ॥ ७,३.१० ॥
_____ काशिकावृत्तिः७,३.१०:
उत्तरपदस्य इत्ययमधिकारः हनस्तोऽचिण्णलोः (*७,३.३२) इति प्रागेतस्मात् ।
मदित ऊर्ध्वमनुक्रमिष्यामः उत्तरपदस्य इत्येवं तद्वेदितव्यम् ।
वक्ष्यति अवयवादृतोः ॥ ७,३.११ ॥
_____ काशिकावृत्तिः७,३.११:
पूर्ववर्षिकम् ।
[॰८३३]
अपरवार्षिकम् ।
पुर्वहैमनम् ।
अपरहैमनम् ।
यत्र पञ्चमीनिर्देशो न अस्ति जे प्रोष्ठपदानाम् (*७,३.१८) इत्येवमादौ, तदर्थमुत्तरपदाधिकारः ।
पञ्चमीनिर्देशेष्वपि विस्पष्टार्थम्, वृद्धेश्च व्यपदेशार्थम् ।
उत्तरपदवृद्धौ सर्वं च (*६,२.१०५) इति उत्तरपदाधिकारे या वृद्धिः इत्येवं विज्ञायते ॥
अवयवादृतोः (*७,३.११) ।
अवयववाचिनः उत्तरस्य ऋतुवाचिनः उत्तरपदस्य च अचामादेः अचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः ।
पूर्ववार्षिकम् ।
पूर्वहैमनम् ।
अपरवार्षिकम् ।
अपरहैमनम् ।
पूर्वं वर्षाणाम्, अपरं वर्षाणामिति एकदेशिसमासः ।
तत्र भवः (*४,३.५३) इत्येतसिमिन्नर्थे वर्षभ्यष्ठक्(*४,३.१८), हेमन्ताच्च (*४,३.२१), सर्वत्र अण्तलोपश्च (*४,३.२२) इत्यण्प्रत्ययः ।
तत्र ऋतोर्वृद्धिमद्विधौ अवयवातिति तदन्तविधिः ।
अवयवातिति किम् ? पूर्वासु वर्षासु भवं पौर्ववर्षिकम् ।
कालाट्ठञ्(*४,३.११) इति ठञ् ।
अवयवपूर्वस्य+एव तदन्तविधिः, न अन्यस्य ॥
सुसर्वार्धाज्जनपदस्य ॥ ७,३.१२ ॥
_____ काशिकावृत्तिः७,३.१२:
सु सर्व अर्ध इत्येतेभ्यः उत्तरस्य जनपदवाचिनः उत्तरपदस्य अचामादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः ।
सुपाञ्चालकः ।
सर्वपाञ्चालकः ।
अर्धपाञ्चालकः ।
जनपदतदवध्योश्च (*४,२.१२४), अवृद्धादपि बहुवचनविषयात्(*४,२.१२५) इति वुञ् ।
सुसर्वार्धदिक्शब्देभ्यो जनपदस्य इति तदन्तविधिः ॥
दिशोऽमद्राणाम् ॥ ७,३.१३ ॥
_____ काशिकावृत्तिः७,३.१३:
दिग्वाचिनः उत्तरस्य जनपदवाचिनो मद्रवर्जितस्य अचामादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः ।
पूर्वपाञ्चालकः ।
अपरपाञ्चालकः ।
दक्षिणपाञ्चालकः ।
पूर्ववत्तदन्तविधिः प्रत्ययश्च ।
दिशः इति किम् ? पूर्वः पञ्चालानां पूर्वपञ्चालः, तत्र भवः पौर्वपञ्चालकः ।
आपरपञ्चालकः ।
अमद्राणामिति किम् ? पौर्वमद्रः ।
आपरमद्रः ।
मद्रेभ्योऽञ्(*४,२.१०८) इति अञ्प्रत्ययः ॥
प्राचां ग्रामनगराणाम् ॥ ७,३.१४ ॥
_____ काशिकावृत्तिः७,३.१४:
प्राचां देशे ग्रामनगराणां दिश उत्तरेषामचामादेरचो वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः ।
ग्रामाणाम् पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः ।
अपरैषुकामशमः ।
पूर्वकार्ष्णमृत्तिकः ।
अपरकार्ष्णमृत्तिकः ।
नगराणाम् पूर्वस्मिन् पाटलिपुत्रे भवः पूर्वपाटलिपुत्रकः ।
[॰८३४]
अपरपाटलिपुत्रकः ।
पूर्वकान्यकुब्जः ।
अपरकान्यकुब्जः ।
ग्रामत्वादेव नगराणामपि ग्रहणे सिद्धे भेदेन यदुभयोरुपादानं तत्सम्बन्धभेदप्रतिपत्त्यर्थम् ।
दिक्पूर्वपदो हि समुदायः पूर्वेषुकामशम्यादिः ग्रामनामधेयम् ।
पाटलिपुत्रादिः पुनरुत्तरपदमेव नगरमाह ।
तत्र ग्रामवाचिनामङ्गानामवयवस्य दिक्शब्दादुत्तरस्य नगरवाचिनामुत्तरपदानामवयवस्य च वृद्धिर्भवति इत्येवमभिसम्बन्धः क्रियते ।
इतरत्र तु दिश उत्तरेषां नगराणामित्येव ।
पूर्वैषुकामशमः इत्येवमादिषु कृतायामुत्तरपदवृद्धौ एकादेशो भवति इति ज्ञापि त नेन्द्रस्य परस्य (*७,३.२२) इति प्रतिषेधेन ॥
सङ्ख्यायाः संवत्सरसङ्ख्यस्य च ॥ ७,३.१५ ॥
_____ काशिकावृत्तिः७,३.१५:
सङ्ख्याया उत्तरपदस्य संवत्सरशब्दस्य सङ्ख्यायाश्च अचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः ।
द्वौ संवत्सराबधीष्टो भृतो भूतो भावी वा द्विसांवत्सरिकः ।
सङ्ख्यायाः द्वे षष्टी अधीष्टो भृतो भूतो भावी वा द्विषाष्टिकः ।
द्विसाप्ततिकः ।
द्विषष्ठ्यादिशब्दो वर्षेषु संख्येयेषु वर्तमानः कालाधिकारविहितं प्रत्ययमुत्पादयति ।
परिमाणान्तस्य असञ्ज्ञाशाणयोः (*७,३.१७) इत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्य अग्रहणार्थम् ।
तेन द्वैसमिकः, त्रैसमिकः इति उत्तरपदवृद्धिर्न भवति ।
द्विवर्षा, त्रिवर्षा माणविका इति अपरिमाणबिस्ताचित इति पर्युदासो न भवति ॥
वर्षस्य अभविष्यति ॥ ७,३.१६ ॥
_____ काशिकावृत्तिः७,३.१६:
सङ्ख्याया उत्तरस्य वर्षशब्दस्य अचामादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः, स चेत्तद्धितो भविष्यत्यर्थे न भवति ।
द्वे वर्षे अधीष्टो भृतो भूतो वा द्विवार्षिकः ।
त्रिवार्षिकः ।
अभविष्यति इति किम् ? यस्य त्रैवर्षिकं धान्यं निहितं भृत्यवृत्तये, अधिकं वा अपि विध्येत, स सोमं पातुमर्हति ।
त्रीणि वर्षाणि भावी इति त्रैवर्षिकम् ।
अधीष्टभृतयोरभविष्यति इति प्रतिषेधो न भवति ।
गम्यते हि तत्र भविष्यत्ता, न तु तद्धितार्थः ।
द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति इति द्विवार्षिको मनुष्यः ॥
परिमाणान्तस्य असञ्ज्ञाशाणयोः ॥ ७,३.१७ ॥
_____ काशिकावृत्तिः७,३.१७:
परिमाणान्तस्य अङ्गस्य सङ्ख्यायाः परं यदुत्तरपदं तस्य अचामादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः, सञ्ज्ञायां विषये शाणे च+उत्तरपदे न भवति ।
द्वौ कुडवौ प्रयोजनमस्य द्विकौडविकः ।
द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम् ।
विभाषा कार्षापणसहस्राभ्यां (*५,१.२९) इत्यत्र सुवर्णशतमानयोरुपसङ्ख्यानमिति लुको विकल्पः ।
द्वाभ्यां निष्काभ्यां क्रीतं द्वित्रिपूर्वान्निष्कात्(*५,१.३०) द्विनैष्किकम् ।
असञ्ज्ञाशाणयो इति किम् ? पाञ्चलोहितिकम् ।
पाञ्चकलापिकम् ।
पञ्च लोहित्यः परिमाणमस्य, पञ्च कलापाः परिमाणमस्य इति विहृह्य तदस्य परिंाणम् (*५,१.५७) इति योगविभागात्प्रत्ययः, तद्धितान्तश्चायं समुदायः सञ्ज्ञा ।
[॰८३५]
द्वाभ्यां शाणाभ्यां क्रीतं द्वै शाणम् ।
त्रैशाणम् ।
शाणाद्वा (*५,१.३५), द्वित्रिपूर्वादण्च (*५,१.३६) इत्यण्प्रत्ययः ।
असञ्ज्ञाशाणकुलिजानामिति केचित्पठन्ति ।
द्वे कुलिजे प्रयोजनमस्य द्वैकुलिजिकः ॥
जे प्रोष्ठपदानाम् ॥ ७,३.१८ ॥
_____ काशिकावृत्तिः७,३.१८:
ज इति जातार्थो निर्दिश्यते ।
तत्र यः तद्धितो विहितः तस्मिन् ञिति, णिति, किति च परतः प्रोष्थपदानामुत्तरस्य अचामादेः अचः वृद्धिर्भवति ।
प्रोष्ठपदा नाम नक्षत्रम्, ताभिः युक्तः कालः इत्यण् ।
तस्य लुबविशेषे (*४,२.४) इति लुप् ।
प्रोष्ठपदासु जातः, ऋतुनक्षत्रेभ्योऽणित्यण्, प्रोष्थपादः माणवकः ।
जे इति किम् ? यदा प्रोष्थपदो मेघो धरणीमभिवर्षति, प्रोष्थपदासु भवः प्रौष्ठपदः ।
प्रोष्थपदानामिति बहुवचननिर्देशात्पर्यायोऽपि गृह्यते भद्रपादः इति ॥
हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ॥ ७,३.१९ ॥
_____ काशिकावृत्तिः७,३.१९:
हृद्भग सिन्धु इत्येवमन्तोऽङ्गे पूर्वपदस्य उत्तरपदस्य च अचामादेरचो वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः ।
सुहृदयस्य इदं सौहार्दम् ।
सुहृदयस्य भावः सौहार्द्यम् ।
सुभगस्य भावः सौभाग्यम् ।
दौर्भाग्यम् ।
सुभगायाः अपत्यं सौभागिनेयः ।
दौर्भागिनेयः ।
कल्याण्यादिषु सुभगदुर्भगेति पठ्यते ।
सुभग मन्त्रे इत्युद्गात्रादिषु पठ्यते ।
तत्र+उत्तरपदवृद्धिर्न+इष्यते ।
महते सौभगाय ।
छन्दसि सर्वविधीना विकल्पितत्वात् ।
सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, सक्तुसिन्धुषु भवः साक्तुसैन्धवः ।
पानसैन्धवः ।
सिन्धुशब्दः कच्छादिषु पठ्यते, तेन तदन्तविधिरिष्यते इति अण्प्रत्ययः ॥
अनुशतिकादीनां च ॥ ७,३.२० ॥
_____ काशिकावृत्तिः७,३.२०:
अनुशतिक इत्येवमादीनां चाङ्गानां पूर्वपदस्य च+उत्तरपदस्य च चामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः ।
अनुशतिकस्य इदमानुशातिकम् ।
अनुहोडेन चरति आनुगौडिकः ।
अनुसंवरणे दीयते आनुसांवरणम् ।
अनुसंवत्सरे दीयते आनुसांवत्सरिकः ।
अङ्गारवेणुः नाम कश्चित्, तस्य अपत्यमाङ्गारवैणवः ।
असिहत्य तत्र भवमासिहात्यम् ।
अस्यहत्य इति केचित्पठन्ति, ततोऽपि विमुक्तादित्वादण् ।
अस्यहत्यशब्दोऽस्मिन्नध्यायेऽस्ति आस्यहात्यः ।
अस्यहेतिः इत्येवमपरे पठन्ति ।
अस्यहेतिः प्रयोजनमस्य आस्यहैतिकः ।
अत एव वचनादस्य समुदायस्य प्रातिपदिकत्वं विभक्तेश्च अलुक् ।
वध्योग इति बिदादिः अयम्, तस्य अपत्यं वाध्यौगः ।
पुष्करसद्, अनुहरतिति बाह्वादिषु पठ्येते ।
पौष्करसादिः ।
[॰८३६]
आनुहारतिः ।
कुरुकत गर्गादिः , कौरुकात्यः ।
कुरुपञ्चाल कुरुपञ्चालेषु भवः कौरुपाञ्चालः ।
जनपदसमुदायो जनपदग्रहणेन न गृह्यते इति वुञ्न भवति ।
उदकशुद्धस्य अपत्यमौदकशौद्धिः ।
इहलोक, परलोक तत्र भवः ऐहलौकिकः, पारलौकिकः ।
लोकोत्तरपदस्य इति ठञ् ।
सर्वलोक तत्र विदितः सार्वलौकिकः ।
सर्वपुरुषस्य इदं सार्वपौरुषम् ।
सर्वभूमेः निमित्तं संयोगः उत्पातो वा सार्वभौमः ।
प्रयोग तत्र भवः प्रायौगिकः ।
परस्त्री पारस्त्रैणेयः ।
कुलटाया वा (*४,१.१२७) इति इनङ् ।
राजपुरुषात्ष्यञि ।
राजपौरुष्यम् ।
ष्यञि इति किम् ? राजपुरुषस्य अपत्यं राजपुरुषायणिः ।
उदीचां वृद्धादगोत्रात्(*४,१.१५७) इति फिञ् ।
शतकुम्भसुखशयनादयः शतकुम्भे भवः शातकौम्भः ।
सौखशायनिकः ।
पारदारिकः ।
सूत्रनडस्य अपत्यं सौत्रनाडिः ।
आकृतिगणश्च अयमिष्यते ।
तेन इदमपि सिद्धं भवति, अभिगममर्हति आभिगामिकः ।
अधिदेवे भवमाधिदैविकम् ।
आधिभौतिकम् ।
चतस्र एव विद्याः चातुर्वैद्यम् ।
स्वार्थे ष्यञ् ।
अनुशतिक ।
अनुहोड ।
अनुसंवरण ।
अनुसंवत्सर ।
अङ्गारवेणु ।
असिहत्य ।
वध्योग ।
पुष्करसद् ।
अनुहरत् ।
कुरुकत ।
कुरुपञ्चाल ।
उदकशुद्ध ।
इहलोक ।
परलोक ।
सर्वलोक ।
सर्वपुरुष ।
सर्वभूमि ।
प्रयोग ।
परस्त्री ।
राजपुरुषात्ष्यञि ।
सूत्रनड ।
अनुशतिकादिः ॥
देवताद्वन्द्वे च ॥ ७,३.२१ ॥
_____ काशिकावृत्तिः७,३.२१:
देवताद्वन्द्वे च पूर्वपदस्य उत्तरपदस्य च अचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः ।
आग्निमारुतीं पृश्निमालभेत ।
आग्निमारुतं कर्म ।
यो देवताद्वन्द्वः सूक्तहविःसम्बन्धी, तत्र अयं विधिः ।
इह तु न भवति, स्कन्दविशाखौ देवते अस्य स्कान्दविशाखः ।
ब्रह्मप्रजापती ब्राह्मप्रजापत्यम् ॥
न+इन्द्रस्य परस्य ॥ ७,३.२२ ॥
_____ काशिकावृत्तिः७,३.२२:
इन्द्रशब्दस्य परस्य यदुक्तं तन्न भवति ।
सौमेन्द्रः ।
आग्नेन्द्रः ।
परस्य इति किम् ? ऐन्द्राग्नमेकादशकपालं चरुं निर्वपेत् ।
इन्द्रशब्दे द्वावचौ, तत्र तद्धिते एकस्य यस्येति च (*६,४.१४८) इति लोपः, अपरस्य पूर्वेण सह एकादेशः इत्यप्राप्तिरेव वृद्धेः, तदेदं प्रतिषेधवचनं ज्ञापकम्, बहिरङ्गमपि पूर्वोत्तरपदयोः पूर्वं कार्यं भवति पश्चादेकादेशः इति ।
तेन पूर्वैषुकामशमः इत्यादि सिद्धं भवति ॥
दिर्घाच्च वरुणस्य ॥ ७,३.२३ ॥
_____ काशिकावृत्तिः७,३.२३:
दिर्घादुत्तरस्य वरुणस्य यदुक्तं तन्न भवति ।
ऐन्द्रावरुणम् ।
मैत्रावरुणम् ।
दीर्घातिति किम् ? आग्निवारुणीमनड्वाहीमालभेते ।
अग्नेः ईदग्नेः सोमवरुणयोः (*६,३.२७) इत्यस्य अनङपवादस्य इद्वृद्धौ (*६,३.२८) इति प्रतिषेधो विधीयते, तेन दीर्घात्परो न भवति ॥
प्राचां नगरान्ते ॥ ७,३.२४ ॥
_____ काशिकावृत्तिः७,३.२४:
प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्य उत्तरपदस्य च अचामादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः ।
[॰८३७]
सुह्मनगरे भवः सौह्मनागरः ।
पौण्ड्रनागरः ।
प्राचामिति किम् ? मद्रनगरमुदक्षु, तत्र भवः माद्रनगरः ॥
जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ॥ ७,३.२५ ॥
_____ काशिकावृत्तिः७,३.२५:
जङ्गल धेनु वलज इत्येवमन्तस्य अङ्गस्य पूर्वपदस्य अचामादेरचो वृद्धिर्भवति, विभाषितमुत्तरमुत्तरपदस्य विभाषा भवति तद्धिते ञिति, णिति, किति च परतः ।
कुरुजङ्गलेषु भवं कौरुजङ्गलम्, अकुरुजाङ्गलम् ।
वैश्वधेनवम्, वैश्वधैनवम् ।
सौवर्णवलजः, सौवर्णवालजः ॥
अर्धात्परिमाणस्य पूर्वस्य तु वा ॥ ७,३.२६ ॥
_____ काशिकावृत्तिः७,३.२६:
अर्धशब्दात्परस्य परिमाणवाचिनः उत्तरस्य अचामादेरचः स्थाने वृद्धिर्भवति, पूर्वस्य तु वा भवति तद्धिते ञिति, णिति, किति च परतः ।
अर्धद्रोणेन क्रीतमार्धद्रौणिकम्, अर्धद्रौणिकम् ।
आर्धकौडविकम्, अर्धकौडविकम् ।
परिमाणस्य इति किम् ? अर्धक्रोशः प्रयोजनमस्य आर्धक्रोशिकम् ॥
नातः परस्य ॥ ७,३.२७ ॥
_____ काशिकावृत्तिः७,३.२७:
अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न भवति, पूर्वस्य तु वा भवति तद्धिते ञिति, णिति, किति च परतः ।
अर्धप्रस्थिकः, आर्धप्रस्थिकः ।
अर्धकंसिकः, आर्धकंसिकः ।
अतः इति किम् ? आर्धकौडविकः ।
तपरकरणं किम् ? इह मा भूत्, अर्धखार्यां भवा अर्धखारी ।
किं च स्यात्? अर्धखारी भार्या यस्य अर्धखारीभार्यः, वृद्धिनिमित्तस्य च तद्धितस्य अरक्तविकारे (*६,३.३९) इति पुंवद्भावप्रतिषेधो न स्यात् ।
यत्र हि तद्धिते वृद्धिः प्रतिषिध्यते, स वृद्धिनिमित्तं न भवति इति पुंवद्भावो न प्रतिषिध्यते, यथा वैयाकरणी भार्या अस्य वैयाकरणभार्यः इति ॥
[॰८३८]
प्रवाहणस्य ढे ॥ ७,३.२८ ॥
_____ काशिकावृत्तिः७,३.२८:
प्रवाहणस्य ढे परतः उत्तरपदस्य अचामादेरचः वृद्धिर्भवति, पूर्वपदस्य वा भवति ।
प्रवाहणस्य अपत्यं प्रावाहणेयः, प्रवाहणेयः ।
शुभ्रादिभ्यश्च (*४,१.१२३) इति ढक्प्रत्ययः ॥
तत्प्रत्ययस्य च ॥ ७,३.२९ ॥
_____ काशिकावृत्तिः७,३.२९:
ढक्प्रययान्तस्य प्रवाहणशब्दस्य तद्धितेषु परतः उत्तरपदस्य अचामादेरचः वृद्धिर्भवति, पूर्वस्य तु वा ।
प्रवाहणेयस्य अपत्यं प्रावाहणेयिः, प्रवाहणेयिः ।
प्रावाहणेयकम्, प्रवाहणेयकम् ।
बाह्यतद्धितनिमित्ता वृद्धिः ढाश्रयेण विकल्पेन बाधितुमशक्या इति सूत्रारम्भः ॥
नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ॥ ७,३.३० ॥
_____ काशिकावृत्तिः७,३.३०:
नञः उत्तरेषां शुचि ईश्वर क्षेत्रज्ञ कुशल निपुण इत्येतेषामचामादेरचः वृद्धिर्भवति, पूर्वपदस्य वा भवति तद्धिते ञिति, णिति, किति च परतः ।
शुचि अशौचम्, आशौचम् ।
ईश्वर अनैश्वर्यम्, आनैश्वर्यम् ।
क्षेत्रज्ञ अक्षैत्रज्ञ्यम्, आक्षैत्रज्ञयम् ।
कुशल अकौशलम्, आकौशलम् ।
निपुण अनैपुणम्, आनैपुणम् ।
अत्र केचिदाहुः इयं पूर्वपदस्य वृद्धिरप्राप्तैव विभाषा विधीयते ।
न नञ्पूर्वात्तत्पुरुषातित्युत्तरो भावप्रत्ययः प्रतिषिध्यते ।
तत्र शुच्यादिभ्यः एव प्रत्यये कृते पश्चान्नञ्समासे सति वृद्धिरनङ्गस्यापि वचनात्भवति इति ।
तदपरे न मृष्यन्ते ।
भाववचनादन्योपि हि तद्धितो वृद्धिनिमित्तमपत्यादिषु अर्थेषु नञ्समासादेव विद्यते ।
बहुव्रीहेश्च नञ्समासात्भाववचनोऽपि अस्ति, तत्र अङ्गाधिकारोपमर्दनं न युज्यते इति ।
अक्षेत्रज्ञानीश्वरौ तत्पुरुषौ एव ब्राह्मणादिषु पठ्येते, ततः ताभ्यां भावे ष्यञ्भवति ॥
यथातथयथापुरयोः पर्यायेण ॥ ७,३.३१ ॥
_____ काशिकावृत्तिः७,३.३१:
यथातथ यथापुर इत्येतयोः नञः उत्तरयोः पर्यायेण अचमादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः ।
आयथातथ्यम्, अयाथातथ्यम् ।
आयथापुर्यमयाथापुर्यम् ।
अयथातथ अय्थापुर इति ब्राह्मणादिषु नञ्समासौ एतौ द्रष्टव्यौ ।
सूत्रे यथातथायथापुरशब्दौ तु यथाऽसादृश्ये (*२,१.७) इति अव्ययीभावसमासौ ।
तथा नपुंसकाश्रयं ह्रस्वत्वं कृतम् ।
भास्ये तु यथादर्शित अयथातथाभावः इति तथा सुप्सुपेति समासो लक्ष्यते ॥
[॰८३९]
हनस्तोऽचिण्णलोः ॥ ७,३.३२ ॥
_____ काशिकावृत्तिः७,३.३२:
तद्धितेषु इति निवृत्तम्, तत्सम्बद्धं किति इत्यपि ।
ञ्णिति इति वर्तते ।
हनः तकारोदेशो भवति ञिति, णिति प्रत्यये परतः चिण्णलौ वर्जयित्वा ।
घातयति ।
घातकः ।
साधुघाती ।
घातंघातम् ।
घातो वर्तते ।
अचिण्णलोः इति किम् ? अघानि ।
जघान ।
धातो कार्यमुच्यमानं धातोः प्रत्यये विज्ञायते ।
इह न भवति, वार्त्रघ्नमितरतिति ॥
आतो युक्चिण्कृतोः ॥ ७,३.३३ ॥
_____ काशिकावृत्तिः७,३.३३:
आकारान्तस्य अङ्गस्य चिणि कृति ञ्णिति युगागमो भवति ।
अदायि ।
अधायि ।
कृति दायः ।
दायकः ।
धायः ।
धायकः ।
चिण्कृतोः इति किम् ? ददौ ।
दधौ ।
चौडिः, बालाकिः, बाह्वादित्वातिञ् ।
ज्ञा देवता अस्य ज्ञः ॥
न+उदात्तोपदेशस्य मान्तस्य अनाचमेः ॥ ७,३.३४ ॥
_____ काशिकावृत्तिः७,३.३४:
उदात्तोपदेशस्य मान्तस्य अनाचमेः (*७,३.३४) ।
उदातोपदेशस्य मान्तस्य अङ्गस्य आचमिवर्जितस्य चिणि कृति च ञ्णिति यदुक्तं तन्न भवति ।
किं च उक्तम् ? अत उपधायाः (*७,२.११६) इति वृद्धिः ।
अशमि ।
अतमि ।
अदमि ।
कृति खल्वपि शमकः ।
तमकः ।
दमकः ।
शमः ।
तमः ।
दमः ।
उदात्तोपदेशस्य इति किम् ? यामकः ।
रामकः ।
कथमुद्यमोपरमौ ? अड उद्यमे, यम उपरमे इति निपातनादनुगन्तव्यौ ।
उपदेशग्रहणं किम् ? शमी, दमी, तमी इत्यत्र यथा स्यात्, इह मा भूत्, यामकः, रामकः इति ।
मान्तस्य इति किम् ? चारकः ।
पाठकः ।
अनाचमेः इति किम् ? आचामकः ।
अनाचमिकमिवमीनामिति वक्तव्यम् ।
आचामः ।
कामः ।
वामः ।
आमः इति चौरादिकस्य णिचि वृद्धौ सत्यां भवति ।
तत्र हि मित्त्वं न अस्ति न अन्ये मितोऽहेतौ इति ।
सूर्यविश्रामा भूमिः इत्येवमादिकं प्रयोगमन्याय्यमेव मन्यन्ते ।
चिण्कृतोः इत्येव, शशाम ।
तताम ॥
जनिवध्योश्च ॥ ७,३.३५ ॥
_____ काशिकावृत्तिः७,३.३५:
जनि वधि इत्येतयोः चिणि कृति च ञ्णिति यदुक्तं तन्न भवति ।
अजनि ।
जनकः ।
प्रजनः ।
अवधि ।
वधकः ।
वधः ।
वधिः प्रकृत्यन्तरं व्यञ्जनान्तोऽस्ति, तस्य अयं प्रतिषेधो विधीयते ।
भक्षकश्चेन्न विद्येत वधकोऽपि न विद्यते इति हि प्रयोगो दृश्यते ।
वधादेशस्य अदन्तत्वादेव वृद्धेरभावः ।
चिण्कृतोः इत्येव, जजान गर्भ महिमानमिन्द्रम् ॥
[॰८४०]
अर्तिह्वीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ ॥ ७,३.३६ ॥
_____ काशिकावृत्तिः७,३.३६:
सर्वं निवृत्तम्, अङ्गस्य इति वर्तते ।
अर्ति ह्री व्ली री क्नूयी क्ष्मायी इत्येतेषामङ्गानामाकारान्तानां च पुगागमो भवति णौ परतः ।
अर्ति अर्पयति ।
ह्री ह्रेपयति ।
व्ली व्लेपयति ।
री रेपयति ।
क्नूयी क्नोपयति ।
क्ष्मायी क्ष्माप्यति ।
आकारान्तानाम् दापयति ।
धापयति ।
अर्ति इति ऋ गतिप्रापणयोः, ऋ गतौ इति द्वयोरपि धात्वोर्ग्रहणम् ।
री इत्यपि री गतिरेषणयोः, रीङ्श्रवणे इति ।
पुकः पूर्वान्तकरणमदीदपतित्यत्र उपधाह्रस्वो यथा स्यातिति ॥
शाच्छासाह्वाव्यावेपां युक् ॥ ७,३.३७ ॥
_____ काशिकावृत्तिः७,३.३७:
शा धा सा ह्वा व्या वे पा इत्येतेषमङ्गानां युगागमो भवति णौ परतः ।
शा निशाययति ।
छा अवच्छाययति ।
सा अवसाययति ।
ह्वा ह्वाययति ।
व्या संव्याययति ।
वे वाययस्ति ।
पा पाययति ।
पाग्रहणे पै ओवै शोषणे इत्यस्य अपि इह ग्रहणमिच्छन्ति ।
पा रक्षणे इत्यस्य लुग्विकरणत्वान्न भवति ।
लुगागमस्तु तस्य वक्तव्यः ।
पालयति ।
धूञ्प्रीञोर्लुग्वक्तव्यः ।
धूनयति ।
प्रीणयति ।
एतेऽपि पूर्वान्ता एव क्रियन्ते, तेन न्यशीशयत्, अपीपलत्, अदूधुनत्, अपिप्रिणतिति उपधाह्रस्वत्वं भवति ।
शाछासाह्वाव्यावेपां कृतात्वानां ग्रहणं पुकः प्राप्तिमाख्यातुम् ।
किमेतस्य आख्याने प्रयोजनम् ? एतस्मिन् प्रकरणे लक्षणप्रतिपदोक्तपरिभाषा न अस्ति इत्युपदिश्यते ।
तेन अध्यापयति, जापयति इत्येवमादि सिद्धं भवति ॥
वो विधूनने जुक् ॥ ७,३.३८ ॥
_____ काशिकावृत्तिः७,३.३८:
वा इत्येतस्य विधूननेऽर्थे वर्तमानस्य जुगागमो भवति णौ परतः ।
पक्षेण+उपवाजयति ।
विधूनने इति किम् ? आवापयति केशान् ।
किमर्थं सूत्रम्, वज गतौ ण्यन्तस्य सिद्धत्वात्? वातेः पुक्मा भूतित्येवमर्थम् ।
पै ओवै शोषणे इत्येतस्य एतद्रूप्म् ॥
[॰८४१]
लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने ॥ ७,३.३९ ॥
_____ काशिकावृत्तिः७,३.३९:
ली ला इत्येतयोरङ्गयोः अन्यतरस्यां नुक्लुकियेतावागमौ भवतो णौ परतः स्नेहविपातनेऽर्थे ।
घृतं विलीनयति, घृतं विलाययति ।
विलालयति, विलापयति ।
ली ई इति ईकारः प्रश्लिष्यते, ततः ईकारान्तस्य+एव नुक्भवति, न तु कृतात्वस्य विभाषा लीयतेः (*६,१.५१) इति ।
स्नेहविपातने इति किम् ? जतु विलापयति ।
जटाभिरालापयते ।
ली इति लीलीङोर्ग्रहणम् ।
ला इति लातेः, कृतात्वस्य च लीयतेः ॥
भियो हेतुभये षुक् ॥ ७,३.४० ॥
_____ काशिकावृत्तिः७,३.४०:
भी इत्येतस्य हेतुभयेऽर्थे षुगागमो भवति णौ परतः ।
मुण्डो भीषयते ।
जटिलो भीषयते ।
अत्र अपि भी ई इति ईकारप्रश्लेषः कृतात्वस्य पुग्निवृत्त्यर्थः ।
मुण्डो भापयते इत्येवं हि तत्र भवति ।
हेतुभये इति किम् ? कुञ्चिकया एनं भाययति ।
न अत्र हेतुः प्रयोजको भयकारणम्, किं तर्हि, कुञ्चिका ॥
स्फायो वः ॥ ७,३.४१ ॥
_____ काशिकावृत्तिः७,३.४१:
स्फायित्येतस्य अङ्गस्य वकारादेशो भवति णौ परतः ।
स्फावयति ॥
शदेरगतौ तः ॥ ७,३.४२ ॥
_____ काशिकावृत्तिः७,३.४२:
शदेः अङ्गस्य अगतौ अर्थे वर्तमानस्य तकारादेशो भवति णौ परतः ।
पुष्पाणि शातयति ।
अगतौ इति किम् ? गाः शादयति गोपालकः ॥
रुहः पोऽन्यतरस्याम् ॥ ७,३.४३ ॥
_____ काशिकावृत्तिः७,३.४३:
रुहेः अङ्गस्य अन्यतरस्यां पकारादेशो भवति णौ परतः ।
व्रीहीन् रोपयति, व्रीहीन् रोहयति ॥
प्रत्ययस्थात्कात्पूर्वस्य अत इदाप्यसुपः ॥ ७,३.४४ ॥
_____ काशिकावृत्तिः७,३.४४:
प्रत्ययस्थात्ककारात्पूर्वस्य अकारस्य इकारादेशो भवति आपि परतः, स चेदाप्सुपः परो न भवति ।
जटिलिका ।
मुण्डिका ।
कारिका ।
हारिका ।
एतिकाश्चरन्ति ।
प्रत्ययग्रहणं किम् ? शक्नोति इति शका ।
स्थग्रहणं विस्पष्तार्थम् ।
[॰८४२]
ककारमात्रं प्रत्ययो न अस्ति इति सामर्थ्यात्प्रत्ययस्थस्य ग्रहणं शक्यते विज्ञातुम् ।
कातिति किम् ? मण्डना ।
रमणा ।
पूर्वस्य इति किम् ? परस्य मा भूत्, पटुका ।
मृदुका ।
अतः इति किम् ? गोका ।
नौका ।
तपरकरणं किम् ? राका ।
धाका ।
आपि इति किम् ? कारकः ।
धारकः ।
अथ आपि इत्यनेन किम् ? विशिष्यते ? ककारः ।
यद्येवम्, कारिका इत्यत्र अपि न प्राप्नोति, अकारेण व्यवहितत्वात्? एकादेशे कृते न अस्ति व्यवधानम् ।
एकादेशः पूर्वविधौ स्थानिवद्भवति इति व्यवधानमेव ? वचनाद्व्यवधानमीदृशं यत्स्थानिवद्भावकृतमेकेन वर्णेन तदाश्रीयते ।
रथकट्यादिषु तु श्रुतिकृतमनेकेन वर्णेन व्यवधानमिति इत्वं न भवति ।
असुपः इति किम् ? बहवः परिव्राजका अस्यां मथुरायां बहुपरिव्राजका मथुरा ।
सुबन्तादयं बहुपरिव्राजकशब्दात्परः आपिति प्रतिषेधो भवति ।
प्रसज्यप्रतिषेधश्चायम्, न पर्युदासः ।
पर्युदासे हि सति समुदायादसुबन्तात्परतः आपिति इत्वमत्र स्यादेव ।
अविद्यमानः सुप्यस्मिन् सोऽयमसुपिति ? एवमपि नाशीयते ।
तथा हि सति बहुचर्मिका इत्यत्र अपि न स्यात् ।
मामकनरकयोरुपसङ्ख्यानं कर्तव्यमप्रत्ययस्थत्वात् ।
मम इयं मामिका नरिका ।
अणि ममकादेशः ।
केवलमामक इति नियमात्सञ्ज्ञाछन्दसोः ईकारो न अस्त्यत्र, तेन अण्प्रत्ययान्तादपि टाप्भवति, नरान् कायति इति नरिका ।
आतोऽनुपसर्गे कः (*३,२.३) इति कः प्रत्ययः ।
प्रत्ययनिषेधे त्यक्त्यपोश्च+उपसङ्ख्यानम् ।
उदीचामातः स्थाने यक्पूर्वायाः (*७,३.४३) इति विकल्पो मा भूतिति ।
दीक्षिणात्यिका ।
इहत्यिका ॥
न यासयोः ॥ ७,३.४५ ॥
_____ काशिकावृत्तिः७,३.४५:
या सा इत्येतयोः इकारादेशो न भवति ।
यका ।
सका ।
या सा इति निर्देशोऽतन्त्रम्, यत्तदोरुपलक्षणमेतत् ।
इह अपि प्रतिषेध इष्यते, यकां यकामधीमहे तकां पचामहे इति ।
यासयोरित्त्वप्रतिषेधे त्यकन उपसङ्ख्यानम् ।
उपत्यका ।
अधित्यका ।
पावकादीनां छन्दस्युपसङ्ख्यानम् ।
हिरण्यवर्णाः शुचयः पावकाः ।
यासु अलोमकाः ।
छन्दसि इति किम् ? पाविका ।
आशिषि च+उपसङ्ख्यानम् ।
जीवतात्जीवका ।
नन्दतात्नन्दका ।
भवतात्भवका ।
[॰८४३]
उत्तरपदलोपे च+उपसङ्ख्यानम् ।
देवदत्तिका, देवका ।
यज्ञदत्तिका, यज्ञका ।
क्षिपकादीनां च+उपसङ्ख्यानम् ।
क्षिपका ।
ध्रुवका ।
तारका ज्योतिष्युपसङ्ख्यानम् ।
तारका ।
ज्योतिषि इति किम् ? तारिका दासी ।
वर्णका तान्तव उपसङ्ख्यानम् ।
वर्णका प्रावरणभेदः ।
तान्तवे इति किम् ? वणिका भागुरी लौकायते ।
वर्तका शकुनौ प्राचामुपसङ्ख्यानम् ।
वर्तका शकुनिः ।
प्राचामन्यत्र उदीचां तु वर्तिका ।
शकुनौ इति किम् ? वर्तिका भागुरी लौकायतस्य ।
अष्टका पितृदैवत्ये ।
अष्टका ।
पितृदैवत्ये इति किम् ? अष्टिका खारी ।
वा सुतकापुत्रकावृन्दारकाणामुपसङ्ख्यानम् ।
सुतिका, सुतका ।
पुत्रिका, पुत्रका ।
वृन्दारिका, वृन्दारका ॥
उदीचामातः स्थाने यकपूर्वायाः ॥ ७,३.४६ ॥
_____ काशिकावृत्तिः७,३.४६:
उदीचामाचार्याणां मतेन यकारपूर्वायाः ककारपूर्वायाश्च आतः स्थाने योऽकारः, तस्यातः स्थाने इकरादेशो भवति ।
उदीचां ग्रहणं विकल्पार्थम् ।
इभ्यिका, इभ्यका ।
क्षत्रियिका, क्षत्रियका ।
ककारपूर्वायाः चटकिका, चटकका ।
मूषिकिका, मूषिकका ।
आतः इति किम् ? साङ्काश्ये भवा साङ्काश्यिका ।
स्थानग्रहणमनुवादेऽपि स्थानसम्बन्धप्रतिपत्त्यर्थम् ।
आतः इत्यनेन ह्यतः इति स्थानी विशिष्यते ।
यकपूर्वायाः इति किम् ? अश्वा अश्विका ।
यकपूर्वायाः इति स्त्रीलिङ्गनिर्देशः आतः स्त्रीप्रत्ययस्य प्रतिपत्त्यर्थम् ।
इह न भवति, शुभं याति इति शुभंयाः शुभंयिका ।
भद्रं याति इति भद्रंया भद्रंयिका ।
[॰८४४]
यकपूर्वाया धात्वन्तप्रतिषेधः ।
धात्वन्तयोः यकारककारयोरस्य प्रतिषेधस्य प्रतिषेधो वक्तव्यः ।
सुनयिका ।
सुशयिका ।
सुपाकिका ।
अशोकिका ॥
भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि ॥ ७,३.४७ ॥
_____ काशिकावृत्तिः७,३.४७:
एषामातः स्थाने योऽकारस्तस्य इत्वं न भवति उदीचामाचर्याणां मतेन ।
भस्त्रा भस्त्रका, भस्त्रिका ।
अभस्त्रका, अभस्त्रिका ।
एषा एषका, एषिका ।
अजा अजका, अजिका ।
अनजका, अनजिका ।
ज्ञा ज्ञका ज्ञिका ।
अज्ञका, अज्ञिका ।
द्वा द्वके, द्विके ।
स्वा स्वका, स्विका ।
अस्वका, अस्विका ।
एषाद्वे नञ्पूर्वे न प्रयोजयतः ।
किं कारणम् ? तत्र हि सति यदि साकच्काभ्यां नञ्समासः, अथापि कृते नञ्समासे पश्चादकच्, उभयथापि समासाद्य विभक्तिरुत्पद्यते तस्यां सत्यां त्यदात्यत्वे सति टापा भवितव्यम्, सोऽन्तर्वर्तिन्या विभक्त्या सुबन्तात्परः इति इत्वस्य प्राप्तिरेव न अस्ति ।
तेन अनेषका, अद्वके इत्येव नित्यं भवितव्यम् ।
स्वशब्दस्तु ज्ञातिधनाख्यायां नञ्पूर्वोऽपि प्रयोजयति ।
भस्त्रा इत्ययमभाषितपुंस्कः, तस्य अभाषितपुंस्काच्च (*७,३.४८) इत्येव सिद्धे यदिह ग्रहणं तदुपसर्जनार्थम् ।
अविद्यमाना भस्त्रा यस्याः अभस्त्रा ।
साल्पा अभस्त्रका, अभस्त्रिका ।
अत्र उपसर्जनह्रस्वत्वे कृते पुनर्बहुव्रिहौ कृते भाषितपुंस्काद्यः टापुत्पद्यते तस्य केऽणः (*७,४.१३) इति यो ह्रस्वः, न असौ अभासितपुंस्काद्विहितस्य अतः स्थाने भवति ।
नञ्पूर्वाणामपि इत्यपिशब्दादन्यपूर्वाणां केवलानां च विधिरयमिष्यते ।
निर्भस्त्रका, निर्भस्त्रिका, बहुभस्त्रका, बहुभस्त्रिका, इत्येवमनयोरपि इष्यते ।
अत्र नञ्पूर्वाणामिति वचनमनुवाद एव मन्दबुद्धिप्रतिपत्त्यर्थः ॥
अभाषितपुंस्काच्च ॥ ७,३.४८ ॥
_____ काशिकावृत्तिः७,३.४८:
अभाषितपुंस्काद्विहितस्य आतः स्थाने योऽकारः तस्य उदीचामाचार्याणां मतेन इकारादेशो न भवति ।
खट्वका, खट्विका ।
अखट्वका, अखट्विका ।
परमखट्वका, परमखट्विका ।
बहुव्रीहौ यदा कपि ह्रस्वः क्रियते तदा भवितव्यमनेन विधिना ।
अत्र अपि अभाषितपुंस्काद्विहितस्य अतः स्थाने भवत्यकारः इति ।
यदा तु अविद्यमाना खट्वा अस्याः अखट्वा, अल्पा अखट्वा अखट्विका इति तदा न भवति ।
तथा अतिक्रान्ता खट्वामतिखट्वा, अल्पा अतिखट्व अतिखट्विका ॥
आदाचार्याणाम् ॥ ७,३.४९ ॥
_____ काशिकावृत्तिः७,३.४९:
अभाषितपुंस्कातातः स्थाने योऽकारः तस्य आचार्याणामाकारादेशो भवति ।
खट्वाका ।
अखट्वाका ।
परमखट्वाका ॥
[॰८४५]
ठस्य+इकः ॥ ७,३.५० ॥
_____ काशिकावृत्तिः७,३.५०:
अङ्गस्य निमित्तं यः ठः, कश्च अङ्गस्य निमित्तम्, प्रत्ययः, तस्य प्रत्ययठस्य इकः इत्ययमादेशो भवति ।
प्राग्वहतेष्ठक्(*४,४.१) आक्षिकः ।
शालाकिकः ।
लवणाट्ठञ्(*४,४.५२) लावणिकः ।
ठगादिषु यदि वर्णमात्रं प्रत्ययः, उच्चारणार्थोऽकारः, तदा इह अपि अकार उच्चारणार्थः, वर्नमात्रं तु स्थानित्वेन+उपादीयते ।
सङ्घातग्रहणे तु प्रत्ययेऽत्र अपि सङ्घातग्रहणमेव ।
तत्र कणेष्ठः कण्ठः इत्येवमादीनामुणादीनामुणादयो बहुलम् (*३,३.१)इति न भवति ।
मथितं पण्यमस्य माथितिकः इत्यत्र तु यस्य+इति च (*६,४.१४८) इति लोपे कृते इसुसुक्तान्तात्कः (*७,३.५१) इति स्थानिवद्भावादिकस्य कादेशः प्राप्नोति, सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति न भवति ।
यस्येति च इति लोपस्य स्थानिवद्भावाद्वा ।
पूर्वस्मादपि हि विधौ स्थानिवद्भावः ॥
इसुसुक्तान्तात्कः ॥ ७,३.५१ ॥
_____ काशिकावृत्तिः७,३.५१:
इसुसित्येवमन्तानामुगन्तानां तान्तानां चाङ्गानामुत्तरस्य ठस्य कः इत्ययमादेशो भवति ।
इस् सार्पिष्कः ।
उस् धानुष्कः ।
याजुष्कः ।
उक् नैषादकर्षुकः ।
शाबरजम्बुकः ।
मातृकम् ।
पैतृकम् ।
तान्तात् औदश्वित्कः ।
शाकृत्कः ।
याकृत्कः ।
इसुसोः प्रतिपदोक्तयोर्ग्रहणादिह न भवति, आशिषा चरति आशिषिकः ।
उषा चरति औषिकः ।
दोष उपसङ्ख्यानम् ।
दोर्भ्यां तरति दौष्कः ॥
चजोः कु घिण्ण्यतोः ॥ ७,३.५२ ॥
_____ काशिकावृत्तिः७,३.५२:
चकारजकारयोः कवर्गादेशो भवति घिति ण्यति च प्रत्यये परतः ।
घिति पाकः ।
त्यागः ।
रागः ।
ण्यति पाक्यम् ।
वाक्यम् ।
रेक्यम् ॥
न्यङ्क्वादीनां च ॥ ७,३.५३ ॥
_____ काशिकावृत्तिः७,३.५३:
न्यङ्कु इत्येवमादीनां कवर्गादेशो भवति ।
न्यङ्कुः नावञ्चेः इति उप्रत्ययः ।
मद्गुः मिमस्जिभ्य उः इति मस्जेः उप्रत्ययः ।
भृगुः प्रथिमदिभ्रस्जां सम्प्रसारणं सलोपश्च इति उप्रत्ययः ।
दूरेपाकः, फलेपाकः दूरे पच्यते स्वयमेव, फले पच्यते स्वयमेव ।
पचाद्यच् ।
निपातनाद्वृद्धिः ।
तत्पुरुषे इऋति बहुलम् (*६,३.१४) इति सप्तम्या अलुक् ।
क्षणेपाकः इत्यपि हि केचित्पठन्ति ।
दूरेपाका, फलेपाका इत्टाबन्तमप्रेऽधीयते ।
उकारान्तावपरे दूरेपाकुः फलेपाकुः इति ।
[॰८४६]
तेषामुप्रत्ययः निपातनादेव ।
तक्रं वक्रमिति पञ्चतेर्वञ्चतेश्च स्फायितञ्चिवञ्चि इत्यादिना सूत्रेण रक् ।
व्यतिषङ्गः व्यतिषजति इति पचाद्यच् ।
अनुषङ्गः ।
अवसर्गः ।
उपसर्गः ।
श्वपाकः, मांसपाकः, कपोतपाकः, उलूकपाकः इति कर्मोपदादण्प्रत्ययः ।
सञ्ज्ञाया अन्यत्र अर्हः, अवदाहः, निदाहः ।
न्यग्रोधः, वीरुदित्यत्र न्यक्पूर्वस्य रुहेः पचाद्यचि, विपूर्वस्य क्विपि धकारो विधीयते ।
न्यग्रोहयति न्यग्रोधः ।
विरोहयति इति वीरुत् ॥
हो हन्तेर्ञ्णिन्नेषु ॥ ७,३.५४ ॥
_____ काशिकावृत्तिः७,३.५४:
हन्तेः हकारस्य कवर्गादेशो भवति ञिति णिति प्रत्यये परतः नकारे च ।
घातयति ।
घातकः ।
साभुघाती ।
घातंघातम् ।
घातो वर्तते ।
नकारे घ्नन्ति ।
घ्नन्तु ।
अघ्नन् ।
हः इति किम् ? अलोऽन्त्यस्य मा भूत् ।
हन्तेः इति किम् ? प्रहारः ।
प्रहारकः ।
ञ्णित्प्रत्ययो हन्तेर्विशेषणम्, नकारो हकारस्य, नकारेऽनन्तरस्य हन्तिहकारस्य इति ।
तच्चानन्तर्य श्रुतिकृतं सन्निपातकृतमाश्रीयते ।
स्थानिवद्भावशास्त्रकृतं तु यदनानन्तर्यं तदविघातकम्, वचनसामर्थ्यात् ।
यद्यपि सर्वैरेव ञ्णिन्नैर्हन्तिहकारो विशिष्यते तथापि येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातिति ञ्णिति धात्ववयवेन व्यवहितेऽपि सति भवति ।
इह तु न भवति, हननमिच्छति हननीयति, हननीयतेर्ण्वुल्हननीयकः इति ॥
अभ्यासाच्च ॥ ७,३.५५ ॥
_____ काशिकावृत्तिः७,३.५५:
अभ्यासादुत्तरस्य हन्तिहकारस्य कवर्गादेशो भवति ।
जिघांसति ।
जङ्घन्यते ।
अहं जघन ।
अभ्यासनिमित्ते प्रत्यये हन्तेरङ्गस्य योऽभ्यासः तस्मादेव+एतत्कुत्वम् ।
इह न भवति, हननीयितुमिच्छति जिहननीयिषति ॥
हेरचङि ॥ ७,३.५६ ॥
_____ काशिकावृत्तिः७,३.५६:
हिनोतेर्हकरस्य अभ्यासादुत्तरस्य कवर्गादेशो भवति अचङि ।
प्रजिघीषति ।
प्रजेघीयते ।
प्रजिघाय ।
अचङि इति किम् ? प्राजीहयत्दूतम् ।
अचङि इति शक्यमकर्तुम् ।
कथम् ? चङ्यभ्यासनिमित्ते णौ हिनोतिरङ्गं भवति, तत्र अभ्यासनिमित्ते प्रत्यये हेरङ्गस्य इति विज्ञायमने प्राप्तिरेव न अस्ति ? तत्क्रियते ज्ञापकार्थम् ।
एतत्ज्ञाप्यते, हेरचङि इति चङोऽन्यत्र हेर्ण्य धिकस्य अपि कुत्वं भवति इति ।
तेन प्रजिघाययिषति इति सिद्धं भवति ॥
सन्लिटोर्जेः ॥ ७,३.५७ ॥
_____ काशिकावृत्तिः७,३.५७:
सनि लिटि च प्रत्यये जेः अङ्गस्य योऽभ्यासः तस्मादुत्तरस्य कवर्गाअदेशो भवति ।
जिगीषति ।
जिगाय ।
सन्लिटोः इति किम् ? जेजीयते ।
जिनातेः सम्प्रसारणे कृते यद्यपि जिर्भवति, तथापि लाक्षणिकत्वात्तस्य ग्रहणं न भवति, जिज्यतुः, जिज्युः इत्येव भवति ॥
[॰८४७]
विभाषा चेः ॥ ७,३.५८ ॥
_____ काशिकावृत्तिः७,३.५८:
चिनोतेः अङ्गस्य सन्लिटोरभ्यासादुत्तरस्य विभाषा कवर्गादेशो भवति ।
चिचीषति चिकीषति ।
चिकाय, चिचाय ।
सन्लिटोः इत्येव, चेचीयते ॥
न क्वादेः ॥ ७,३.५९ ॥
_____ काशिकावृत्तिः७,३.५९:
कवर्गादेः धातोः चजोः कवर्गादेशो न भवति ।
कूजो वर्तते ।
खर्जः ।
गर्जः ।
कूज्यं भवता ।
खर्ज्यम्, गर्ज्यं भवता ॥
अजिव्रज्योश्च ॥ ७,३.६० ॥
_____ काशिकावृत्तिः७,३.६०:
अजि व्रजि इत्येतयोश्च कवर्गादेशो न भवति ।
समाजः ।
उदाजः ।
व्रजि परिव्राजः ।
परिव्राज्यम् ।
अजेस्तु अजेर्व्यघञपोः (*२,४.५६) इति वीभावस्य विधानात्ण्यति न अस्ति उदाहरणम् ॥
भुजन्युब्जौ पाण्युपतापयोः ॥ ७,३.६१ ॥
_____ काशिकावृत्तिः७,३.६१:
भुज न्युबजित्येतौ शब्दौ निपात्येते पाणौ उपतापे च ।
भुज्यते अनेन इति भुजः पाणिः ।
हलश्च (*३,३.१२१) इति घञ् ।
तत्र कुत्वाभावो गुणाभावश्च निपात्यते ।
उब्ज आर्जवे ।
न्युब्जिताः शेरतेऽस्मिन्निति न्युब्जः उपतापः, रोगः ।
तथैव घञि कुत्वाभावो निपात्यते ।
पाण्युपतापयोः इति किम् ? भोगः ।
समुद्गः ॥
प्रयाजानुयाजौ यज्ञाङ्गे ॥ ७,३.६२ ॥
_____ काशिकावृत्तिः७,३.६२:
प्रयाज अनुयाज इत्येतौ निपात्येते यज्ञाङ्गे ।
पञ्च प्रयाजाः पञ्च अनुयाजाः ।
त्वमग्ने प्रयाजानां पश्चात्त्वं पुरस्तात् ।
यज्ञाङ्गे इति किम् ? प्रयागः ।
अनुयागः ।
प्रयाजानुयाजग्रहणं प्रदर्शनार्थम्, अन्यत्र अप्येवं प्रकारे कुत्वं न भवति ।
एकादशोपयाजाः, उपांशुयाजमन्तरा यजति अष्टौ पत्नीसंयाजा भवन्ति, ऋतुयाजैश्चरन्ति इत्येवमादि सिद्धं भवति ॥
वञ्चेर्गतौ ॥ ७,३.६३ ॥
_____ काशिकावृत्तिः७,३.६३:
वञ्चेः अङ्गस्य गतौ वर्तमानस्य कवर्गादेशो न भवति ।
वञ्च्यं वञ्चन्ति वणिजः ।
गतौ इति किम् ? वङ्कं काष्ठम् ।
कुटिलमित्यर्थः ॥
[॰८४८]
ओक उचः के ॥ ७,३.६४ ॥
_____ काशिकावृत्तिः७,३.६४:
उचेर्धातोः के प्रत्यये ओकः इति निपात्यते ।
किं पुनरत्र निपात्यते ? कुत्वं गुणश्च ।
न्योकः शकुनतः ।
न्योको गृहम् ।
कर्तरि इगुपधलक्षणः कः प्रत्ययः ।
अधिकरणादौ तु कारकान्तरे घञर्थे कविधानमिति ।
किमर्थं पुनरयं घञ्येव न व्युत्पद्यते ? स्वरार्थमन्तोदात्तोऽयमिष्यते, घञि सति आद्युदात्तः स्यात् ।
दिवौकसः, जलौकसः इत्येवमादावप्यसुनि प्रत्यये उणादयो बहुलम् (*३,३.१) इति कुत्वं द्रष्टव्यम् ॥
ण्य आवश्यके ॥ ७,३.६५ ॥
_____ काशिकावृत्तिः७,३.६५:
ण्ये परतः आवश्यकेऽर्थे कवर्गो न भवति ।
अवश्यपाच्यम् ।
अवश्यवाच्यम् ।
अवश्यरेच्यम् ।
आवश्यके इति किम् ? पाक्यम् ।
वाक्यम् ।
रेक्यम् ॥
यजयाचरुचप्रवचर्चश्च ॥ ७,३.६६ ॥
_____ काशिकावृत्तिः७,३.६६:
यज याच रुच प्रवच ऋच इत्येतेषां ण्ये परतः कवर्गादेशो न भवति ।
यज याज्यम् ।
याच याच्यम् ।
रुच रोच्यम् ।
प्रवच प्रवाच्यम् ।
ऋच अर्च्यम् ।
ऋदुपधादपि ऋचेरत एव निपातनात्ण्यत्भवति ।
प्रवचग्रहणं शब्दसञ्ज्ञार्थम् ।
प्रवाच्यो नाम पाठविशेषोपलक्षितो ग्रन्थोऽस्ति ।
अपरे पुनराहुः, उपसर्गपूर्वस्य नियमार्थम्, प्रपूर्वस्य+एव वचेरशब्दसञ्ज्ञायां कुत्वप्रतिषेधो यथा स्यात्, अन्योपसर्गपूर्वस्य मा भूतिति ।
अविवाक्यमहः इति पठन्ति ।
एतत्तु विशेष एव+इष्यते, दशरात्रस्य यद्दशममहः ।
अन्यत्र अविवाच्यमेव भवति ।
ण्यति प्रतिषेधे त्यजेरुपसङ्ख्यानम् ।
त्याज्यम् ॥
वचोऽशब्दसञ्ज्ञायां ॥ ७,३.६७ ॥
_____ काशिकावृत्तिः७,३.६७:
वचोऽशब्दसञ्ज्ञायां ण्यति परतः कुत्वं न भवति ।
वाच्यमाह ।
अवाच्यमाह ।
अशब्दसञ्ज्ञायामिति किम् ? अवघुषितं वाक्यमाह ॥
प्रयोज्यनियोज्यौ शक्यार्थे ॥ ७,३.६८ ॥
_____ काशिकावृत्तिः७,३.६८:
प्रयोज्य नियोज्य इत्येतौ शब्दौ शक्यार्थे निपात्येते ।
शक्यः प्रयोक्तुं प्रयोज्यः ।
शक्यो नियोक्तुं नियोज्यः ।
शक्यार्थे इति किम् ? प्रयोग्यः ।
नियोग्यः ॥
[॰८४९]
भोज्यं भक्ष्ये ॥ ७,३.६९ ॥
_____ काशिकावृत्तिः७,३.६९:
भोज्यं निपात्यते भक्ष्येऽभिधेये ।
भोज्यः ओदनः ।
भोज्या यवागूः ।
इह भक्ष्यमभ्यवहार्यमात्रम् ।
भक्ष्ये इति किम् ? भोग्यः कम्बलः ॥
घोर्लोपो लेटि वा ॥ ७,३.७० ॥
_____ काशिकावृत्तिः७,३.७०:
घुसञ्ज्ञकानां लेटि परतो वा लोपो भवति ।
दधद्रत्नानि दाशुषे ।
सोमो ददद्गन्धर्वाय ।
न च भवति ।
यदग्निरग्नये ददात् ।
आडागमे सति लोपेऽपि ददातिति सिद्धं भवति ।
तत्र वावचनं विस्पष्टार्थम्, एषा हि कस्यचिदाशङ्का स्यात्, ददातित्येव नित्ये प्राप्ते लोपः आरभ्य माणो बाधते एव एतद्रूपमिति ॥
ओतः श्यनि ॥ ७,३.७१ ॥
_____ काशिकावृत्तिः७,३.७१:
ओकारान्तस्य अङ्गस्य श्यनि परतो लोपो भवति ।
शो निश्यति ।
छो अवछ्यति ।
द्यो अवद्यति ।
सो अवस्यति ॥
क्षस्य अचि ॥ ७,३.७२ ॥
_____ काशिकावृत्तिः७,३.७२:
क्षस्यजादौ प्रत्यये लोपो भवति ।
अधुक्षाताम् ।
अधुक्षाथाम् ।
अधुक्षि ।
अचि इति किम् ? अधुक्षत् ।
अधुक्षताम् ।
ककारवतः उपादानं किम् ? इह मा भूत्, उत्सौ ।
उत्साः ।
वत्सौ ।
वत्साः ॥
लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये ॥ ७,३.७३ ॥
_____ काशिकावृत्तिः७,३.७३:
दुह दिह लिह गुह इत्येतेषामङ्गानामात्मनेपदे दन्त्यादौ परतः क्षस्य वा लुग्भवति ।
अदुग्ध, अधुक्षत ।
अधुग्धाः, अधुक्षथाः ।
अदुग्ध्वम्, अधुक्षध्वम् ।
अदुह्वहि, अधुक्षावहि ।
दिह अदिग्ध, अधिक्षत ।
लिह अलीढ, अलिक्षत ।
गुह न्यगूढ, न्यघुक्षत ।
दुहादीनामिति किम् ? व्यत्यपुक्षत ।
आत्मनेपदे इति किम् ? अधुक्षत् ।
दन्त्ये इति किम् ? अधुक्षामहि ।
लोप इति वर्तमाने लुग्ग्रहणं सर्वादेशार्थम् ।
तच्च बह्यर्थम् ।
अन्यत्र तु अन्त्यस्य+एव लोपे कृते झलो झलि (*८,२.२६) इति सकारलोपेन सिध्यति ।
स्थानिवद्भावोऽपि अकारलोपस्य न अस्ति, पूर्वत्र असिद्धे न स्थानिवतिति ।
दन्त्योष्ठोऽपि वकारो दन्त्य इति गृह्यते ।
यदि स न गृह्येत ततः तौग्रहणमेव अत्र कृतं स्यात् ॥
[॰८५०]
शमामष्टानां दीर्घः श्यनि ॥ ७,३.७४ ॥
_____ काशिकावृत्तिः७,३.७४:
शमादीनामष्टानां दीर्घो भवति श्यनि परतः ।
शम् शाम्यति ।
तम् ताम्यति ।
दम् दाम्यति ।
भ्रम् भ्राम्यति ।
क्षम् क्षाम्यति ।
क्लम् क्लाम्यति ।
मदी माद्यति ।
अष्टानामिति किम् ? अस्यति ।
श्यनि इति किम् ? भ्रमति ।
वा भ्राश इति श्यनो विकल्पः ।
बभ्राम ॥
ष्ठिवुक्लम्याचमां शिति ॥ ७,३.७५ ॥
_____ काशिकावृत्तिः७,३.७५:
ष्थिवु क्लमि आचमित्येतेषां दीर्घो भवति शिति परतः ।
ष्थीवति ।
क्लमु क्लामति ।
आचम् आचामति ।
क्लमिग्रहणं शबर्थम् ।
चमेराङ्पूर्वस्य ग्रहणम् ।
इह मा भूत्, वमति ।
विचमति ॥
क्रमः परस्मैपदेषु ॥ ७,३.७६ ॥
_____ काशिकावृत्तिः७,३.७६:
क्रमः परस्मैपदपरे शिति परतो दीर्घो भवति ।
क्रामति, क्रामतः, क्रामन्ति ।
परस्मैपदेसु इति किम् ? आक्रमते आदित्यः ।
इह उत्क्राम, सङ्क्राम इति हेर्लुकि कृते न लुमताङ्गस्य (*१,१.६६) इति प्रत्ययलक्षणप्रतिषेधात्दीर्घो न प्राप्नोति ? न+एष दोषः ।
लुमताशब्देन लुप्ते य दङ्गं तस्य कार्ये स प्रतिषेधः ।
न च हौ क्रमिरङ्गम्, किं तर्हि, शपि ॥
इषुगमियमां छः ॥ ७,३.७७ ॥
_____ काशिकावृत्तिः७,३.७७:
इषु गमि यम इत्येतेषां शिति परतः छकारादेशो भवति ।
इच्छति ।
गच्छति ।
यच्छति ।
इषेरुदितो ग्रहणम् ।
इह मा भूत्, इष्यति, इष्णाति इति ।
ये तु इषिमुदितं न अधीयते ते इह च सूत्रे अचि इति अनुवर्तयन्ति ।
तच्च प्रधानमज्ग्रहणं शिति इत्यनेन विशेष्यते इति वर्णयन्ति ।
तथा च सति तदादिविधिर्न भवति ।
यस्मिन् विधिस्तदादावल्ग्रहणे इत्येतदपि विशेष्णेन+एव इस्यते, तेन इषाण इत्यत्र छत्वं न भवति ।
न ह्ययमजेव शितिति ॥
पाघ्राध्मास्हाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्थमनयच्छपश्यर्च्छधौशीयसीदाः ॥ ७,३.७८ ॥
_____ काशिकावृत्तिः७,३.७८:
प घ्रा ध्मा स्था म्ना दाण्दृशि अर्ति सर्ति शद सद इत्येतेषां पिब जिघ्र धम तिष्थ मन यच्छ पश्य ऋच्छ धौ शीय सीद इत्येते आदेशा भवन्ति शिति परतः ।
पा पिबति ।
घ्रा जिघ्रति ।
ध्मा धमति ।
स्था तिष्थति ।
मना मनति ।
दाण् यच्छति ।
दृशि पश्यति ।
अर्ति ऋच्छति ।
सर्ति धावति ।
शद शीयते ।
सद सीदति ।
पिबतेर्लघूपधगुणः प्राप्नोति, सः अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति न भवति ।
अथ वा अकारान्तोऽयमादेशः आद्युदात्तो निपात्यते ।
[॰८५१]
सर्तेर्वेगितायां गतौ धावादेशमिच्छन्ति ।
अन्यत्र सरति, अनुसरति इत्येव भवति ॥
ज्ञाजनोर्जा ॥ ७,३.७९ ॥
_____ काशिकावृत्तिः७,३.७९:
ज्ञ जन इत्येतयोः जादेशो भवति शिति परतः ।
जानाति ।
जायते ।
जनेर्दैवादिकस्य ग्रहणम् ॥
प्वादीनां ह्रस्वः ॥ ७,३.८० ॥
_____ काशिकावृत्तिः७,३.८०:
पू इत्येवमादीनां ह्रस्वो भवति शिति परतः ।
प्वादयः क्र्यादिषु पठ्यन्ते ।
पूञ्पवनित्यतः प्रभृति प्ली गतौ वृतिति यावत्केचितिच्छन्ति, वृत्करणमेतत्ल्वादीनां प्वादीनां च परिसमाप्त्यर्थमिति ।
अपरे तु ल्वादीनामेव परिसमाप्त्यर्थं वृत्करणमेतदिच्छन्ति, आगणान्ताः प्वादयः इति ।
पूञ् पुनाति ।
लूञ् लुनाति ।
स्तॄञ् स्तृणाति ।
येषामागणान्ताः प्वादयः तेषां जानाति इत्यत्र ह्रस्वः प्राप्नोति, ज्ञाजनोर्जा (*७,३.७९) इति दीर्घकरणसामर्थ्यान्न भवति ।
जनेरपि हि जादेशे सति अतो दीर्घो यञि (*७,३.१०१) इति दीर्घत्वेन जायते इति सिध्यति ॥
मीनातेर्निगमे ॥ ७,३.८१ ॥
_____ काशिकावृत्तिः७,३.८१:
मीनातेरङ्गस्य शिति प्रत्यये परतो ह्रस्वो भवति निगमविषये ।
प्रमिणन्ति व्रतानि ।
निगमे इति किम् ? प्रमीणाति ॥
मिदेर्गुणः ॥ ७,३.८२ ॥
_____ काशिकावृत्तिः७,३.८२:
मिदेरङ्गस्य इको गुणो भवति शिति प्रत्यये परतः ।
मेद्यति, मेद्यतः, मेद्यन्ति ।
शिति इत्येव, मिद्यते ॥
जुसि च ॥ ७,३.८३ ॥
_____ काशिकावृत्तिः७,३.८३:
जुसि च प्रत्यये परतः इगन्तस्य अङ्गस्य गुणो भवति ।
अजुहवुः ।
अबिभयुः ।
अबिभरुः ।
अथ चिनुयुः, सुनुयुः इत्यत्र कस्मान्न भवति ? अत्र हि द्वे ङित्त्वे, सार्वधातुकाश्रयम्, यासुडाश्रयं च ।
तत्र न अप्राप्ते सार्वधातुकाश्रयङित्त्वनिमित्ते प्रतिषेधे जुसि गुणः आरभ्यमाणः तमेव बाधते ।
यासुडाश्रयङित्त्वनिमित्तं तु न बाधते, तत्र हि प्राप्ते च अप्राप्ते च आरभ्यते इति ॥
[॰८५२]
सार्वधातुकार्धधातुकयोः ॥ ७,३.८४ ॥
_____ काशिकावृत्तिः७,३.८४:
सार्वधातुके आर्धधातुके च प्रत्यये परतः इगन्तस्य अङ्गस्य गुणो भवति ।
तरति ।
नयति ।
भवति ।
आर्धधातुके कर्ता ।
चेता ।
स्तोता ।
सार्वधातुकार्धधातुकयोः इति किम् ? अग्नित्वम् ।
अग्निकाम्यति ।
यदि हि प्रत्यये सङि इति वा उच्येत, इह अपि स्यात् ॥
जाग्रोऽविचिण्णल्ङित्सु ॥ ७,३.८५ ॥
_____ काशिकावृत्तिः७,३.८५:
जागु इत्येतस्य अङ्गस्य गुणो भवति अविचिण्णल्ङित्सु परतः ।
जागरयति ।
जागरकः ।
साधुजागरी ।
जागरंजागरम् ।
जागरो वर्तते ।
जागरितः ।
जागरितवान् ।
वॄद्धिविषये प्रतिषेधविषये च यथा स्यातिति जागर्तेरयं गुणः आरभ्यते ।
तस्मिन् कृते या अत उपधायाः (*७,२.११६) वृद्धिः प्राप्नोति सा न भवति ।
यदि हि स्यातनर्थक एव गुणः स्यात्, चिण्णलोश्च प्रतिषेधवचनमनर्थकम् ।
अविचिण्णल्ङित्सु इति किम् ? जॄशॄस्तृर्जागृभ्यः क्विन् जागृविः ।
चिण् अजागारि ।
णल् जजागार ।
ङित् जागृतः ।
जागृथः ।
वि इति केचिदिकारमुच्चारणार्थं वर्णयन्ति, क्वसावपि वकारादौ गुणो न भवति ।
जजागृवान् ।
अजागरुः, अहं जजागर इत्यत्र प्रतिषेधः प्राप्नोति ? न, अप्रतिषेधात् ।
अविचिण्णल्ङित्सु इति पर्युदासोऽयम्, अथवा जाग्रः इति प्रप्तिरसावानन्तर्याद्विचिण्णल्ङित्सु प्रतिषिध्यते ।
या तु जुसि च (*७,३.८३), सार्वधातुकार्धधातुकयोः (*७,३.८४) इति च प्राप्तिः , सा न प्रतिषिध्यते ॥
पुगन्तलघूपधस्य च ॥ ७,३.८६ ॥
_____ काशिकावृत्तिः७,३.८६:
पुगन्तस्य अङ्गस्य लघूपधस्य च सार्वधातुकार्धधातुकयोर्गुणो भवति ।
पुगन्तस्य व्लेपयति ।
ह्रेपयति ।
क्नोपयति ।
लघूपधस्य भेदनम् ।
छेदनम् ।
भेत्ता ।
छेत्ता ।
प्रत्ययादेरङ्गावयवस्य च हलोरानन्तर्ये सति लघूपधगुणो न व्यावर्त्यते इति ज्ञापितमेतत्क्नुसनोः कित्करणेन, त्रसिगृधिधृषिक्षिपेः क्नुः (*३,२.१४०), हलन्ताच्च (*१,२.१०) इति ।
संयोगे गुरुसञ्ज्ञायां गुणो भेत्तुर्न सिध्यति ।
विध्यपेक्षं लघोश्च असौ कथं कुण्डिर्न दुष्यति ॥
धातोनुमः कथं रञ्जेः स्यन्दिश्रन्थ्योर्निपातनात् ।
अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः ॥
अभ्यस्तस्य यदाहाचि लङर्थं तत्कृतं भवेत् ।
क्नुसनोर्यत्कृतं कित्त्वं ज्ञापकं स्याल्लघोर्गणे ॥
[॰८५३]
उपधा च अत्र इगेव गृह्यते, ततो भिनत्ति इति गुणो न भवति ।
अपरे पुकि अन्तः पुगन्तः, लघ्वी उपधा लघूपधा, पुगन्तश्च लघूपधा च पुगन्तलघूय्पधमिति सूत्रार्थं वर्णयन्ति ॥
न अभ्यस्तस्य अचि पिति सार्वधातुके ॥ ७,३.८७ ॥
_____ काशिकावृत्तिः७,३.८७:
अभ्यस्तसञ्ज्ञकस्य अङ्गस्य लघूपधस्य अजादौ पिति सार्वधातुके गुणो न भवति ।
नेनिजानि ।
वेविजानि ।
परिवेविषाणि ।
अनेनिजम् ।
अवेविजम् ।
पर्यवेविषम् ।
अभ्यस्तस्य इति किम् ? वेदानि ।
अचि इति किम् ? नेनेक्ति ।
पिद्ग्रहणमुत्तरार्थम् ।
सार्वधातुके इति किम् ? निनेज ।
लभूपधस्य इत्येव, जुहवानि ।
अजुहवम् ।
बहुलं छन्दसीति वक्तव्यम् ।
जुजोषतिति यथा स्यात् ।
पस्पशाते ।
चाकशीति ।
वावशीति ।
यङ्लुकि छान्दसमुपधाह्रस्वत्वं द्रष्टव्यम् ।
पस्पशाते इत्यत्र अभ्यासह्रस्वत्वं च ।
प्रकृत्यन्तराणां वा स्पशिकशिवशीनामेतानि रूपाणि ॥
भूसुवोस्तिङि ॥ ७,३.८८ ॥
_____ काशिकावृत्तिः७,३.८८:
भू सू इत्येतयोः तिङि सार्वधातुके गुणो न भवति ।
अभूत् ।
अभूः ।
अभूवम् ।
सुवै, सुवावहै, सुवामहै ।
सूतेर्लुग्विकरनस्य+इदं ग्रहणम् ।
सुवतिसूययोर्विकरणेन तिङो व्यवधानम् ।
विकरणस्यैव ङित्त्वाद्गुणाभावः सिद्धः ।
तिङि इति किम् ? भवति ।
सार्वधातुके इत्येव, व्यतिभविषीष्ट ।
अथ बोभवीति इति यङ्लुकि गुणप्रतिषेधः कस्मान्न भवति ? ज्ञापकात्, यदयं बोभूतु इति गुणाभावार्थे निपातनं करोति ॥
उतो वृद्धिर्लुकि हलि ॥ ७,३.८९ ॥
_____ काशिकावृत्तिः७,३.८९:
सार्वधातुके पिति इति वर्तते ।
उकारान्तस्य अङ्गस्य वृद्धिर्भवति लुकि सति हलादौ पिति सार्वधातुके ।
यौति ।
यौषि ।
यौमि ।
नौति ।
नौषि ।
नौमि ।
स्तौति ।
स्तौषि ।
स्तौमि ।
उतः इति किम् ? एति ।
एषि ।
एमि ।
लुकि इति किम् ? सुनोति ।
सुनोषि ।
सुनोमि ।
हलि इति किम् ? यवानि ।
रवाणि ।
पिति इत्येव, युतः ।
रुतः ।
अपि स्तुयाद्राजानमित्यत्र हि ङिच्च पिन्न भवति इति पित्त्वप्रतिषेधाद्वृद्धेरभावः ।
न अभ्यस्तस्य इत्येतदिह अनुवर्तते, योयोति, रोरोति इत्येवमाद्यर्थम् ॥
ऊर्णोतेर्विभाषा ॥ ७,३.९० ॥
_____ काशिकावृत्तिः७,३.९०:
ऊर्णोतेर्विभाषा वृद्धिर्भवति हलादौ पिति सार्वधातुके ।
प्रोर्णौति, प्रोर्णोति ।
प्रोर्णौषि, प्रोर्णोषि ।
प्रौर्णौमि, प्रोर्णोमि ।
हलि इत्येव, प्रोर्णवानि ॥
[॰८५४]
गुणोऽपृक्तो ॥ ७,३.९१ ॥
_____ काशिकावृत्तिः७,३.९१:
ऊर्णोतेर्धातोः अपृक्ते हलि पिति सार्वधातुके गुणो भवति ।
प्रोर्णोत् ।
प्रोर्णोः ।
हलि इति वर्तमाने यदपृक्तग्रहणं क्रियते, तेन+एव ज्ञाप्यते भवत्येषा परिभाषा यस्मिन् विधिस्तदादावल्ग्रहणे इति ॥
तृणह इम् ॥ ७,३.९२ ॥
_____ काशिकावृत्तिः७,३.९२:
तृणह इत्येतस्याङ्गस्य इमागमो भवति हलि पिति सार्वधातुके ।
तृणेढि ।
तृणेक्षि ।
तृणेह्मि ।
अतृणेट् ।
वर्णाश्रयेऽपि अत्र प्रत्ययलक्षणमिष्यते ।
हलि इति किम् ? तृणहानि ।
पिति इत्येव, तृण्ढः ।
तृणह इति आगतश्नंको गृह्यते, श्नमि कृते इमागमो यथा स्यातिति ॥
ब्रुव ईट् ॥ ७,३.९३ ॥
_____ काशिकावृत्तिः७,३.९३:
व्रू इत्येतस्मादुत्तरस्य हलादेः पितः सार्वधातुकस्य ईडागमो भवति ।
ब्रवीति ।
ब्रवीषि ।
ब्रवीमि ।
अब्रवीत् ।
हलि इत्येव, ब्रवाणि ।
पिति इत्येव, ब्रूतः ॥
यङो वा ॥ ७,३.९४ ॥
_____ काशिकावृत्तिः७,३.९४:
यङः उत्तरस्य हलादेः पितः सार्वधातुकस्य ईडागमो भवति वा ।
शाकुनिको लालपीति ।
दुन्दुभिर्वावदीति ।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यामा विवेश ।
न च भवति ।
वर्वर्ति, चर्कर्ति चक्रम् ।
हलादेः पितः सार्वधातुकस्य यङन्तादभावः इति यङ्लुगन्तस्य उदाहरणम् ॥
तुरुस्तुशम्यमः सार्वधातुके ॥ ७,३.९५ ॥
_____ काशिकावृत्तिः७,३.९५:
तु इति सौत्रोऽयं धातुः, रु शब्दे, ष्टुञ्स्तुतौ, शमु उपशमे, अम गत्यादिषु इत्येतेभ्यः परस्य सार्वधातुकस्य हलादेर्वा ईडागमो भवति ।
उत्तौति, उत्तवीति ।
उपरौति, उपरवीति ।
उपस्तौति, उपस्तवीति ।
शाम्यध्वम्, शमीध्वम् ।
अभ्यमति, अभ्यमीति ।
शम्यमोः बहुलं छन्दसि (*२,४.७३) इति विकरणलुकि सति हलादिसार्वधातुकमनन्तरं सम्भवति ।
आपिशलाः तुरुस्तुशम्यमः सार्वधातुकासुच्छन्दसि इति पठन्ति ।
तत्र सर्वेषामेव छन्दसि विषये विधिरयं भवति ।
सार्वधातुके इति अनुवर्तमाने पुनः सार्वधातुकग्रहणमपिदर्थम्, स्तुवीत, शमीध्वमित्यत्र अपि यथा स्यातिति ॥
[॰८५५]
अस्तिसिचोऽपृक्ते ॥ ७,३.९६ ॥
_____ काशिकावृत्तिः७,३.९६:
अस्तेरङ्गात्सिजन्ताच्च परस्य अपृक्तस्य सार्वधातुकस्य ईडागमो भवति ।
अस्तेः आसीत् ।
आसीः ।
सिजन्तात् अकार्षीत् ।
असावीत् ।
अलावीत् ।
अपावीत् ।
अपृक्ते इति किम् ? अस्ति ।
अकार्षम् ।
आहिभुवोरीटि प्रतिषेधः इति स्थानिवद्भावप्रतिषेध तेन+इह न भवति, आत्थ, अभूतिति ॥
बहुलं छन्दसि ॥ ७,३.९७ ॥
_____ काशिकावृत्तिः७,३.९७:
अस्तिसिचोरपृक्तस्य सार्वधातुकस्य ईडगमो भवति बहुलं छन्दसि विषये ।
आप एव+इदं सलिलं सर्वमाः ।
आसीदिति स्थाने आः क्रियापदम् ।
अहर्वाव तर्ह्यासीन्न रात्रिः ।
सिचः खल्वपि गोभिरक्षाः ।
प्रत्यञ्चमत्साः ।
अभैषीर्मा पुत्रक इति च भवति, छान्दसत्वात् ।
माङ्योगेऽपि अडागमो भवति, अक्षः, अत्साः इति, सिच इडभावश्च ॥
रुदश्च पञ्चभ्यः ॥ ७,३.९८ ॥
_____ काशिकावृत्तिः७,३.९८:
रुदादिभ्यः परस्य सार्वधातुकस्य हलादेः अपृक्तस्य ईडागमो भवति ।
अरोदीत् ।
अरोदीः ।
अस्वपीत् ।
अस्वपीः ।
अश्वसीत् ।
अश्वसीः ।
प्राणीत् ।
प्राणीः ।
अजक्षीत् ।
अजक्षीः ।
पञ्चभ्यः इति किम् ? अजागर्भवान् ।
अपृक्तस्य इत्येव, रोदिति ॥
अड्गार्ग्यगालवयोः ॥ ७,३.९९ ॥
_____ काशिकावृत्तिः७,३.९९:
रुदादिभ्यः पञ्चभ्यः परस्य अपृक्तस्य सार्वधातुकस्य अडागमो भवति गार्ग्यगालवयोर्मतेन ।
अरोदत् ।
अरोदः ।
अस्वपत् ।
अस्वपः ।
अश्वसत् ।
अश्वसः ।
प्राणत् ।
प्राणः ।
अजक्षत् ।
अजक्षः ।
गार्ग्यगालवयोर्ग्रहणं पूजार्थम् ॥
अदः सर्वेषाम् ॥ ७,३.१०० ॥
_____ काशिकावृत्तिः७,३.१००:
अद भक्षणे, अस्मादुत्तरस्य अपृक्तस्य सार्वधातुकस्य अडागमो भवति सर्वेषामाचार्याणां मतेन ।
आदत् ।
आदः ।
अपृक्तस्य इत्येव, अत्ति ।
अत्सि ॥
[॰८५६]
अतो दीर्घो यञि ॥ ७,३.१०१ ॥
_____ काशिकावृत्तिः७,३.१०१:
अकारान्तस्य अङ्गस्य दीर्घो भवति यञादौ सार्वधातुके परतः ।
पचामि, पचावः, पचामः ।
पक्ष्यामि, पक्ष्यावः, पक्ष्यामः ।
अतः इति किम् ? चिनुवः ।
चिनुमः ।
यञि इति किम् ? पचतः ।
पचथः ।
सार्वधातुक इत्येव, अङ्गना ।
केशवः ।
केचिदत्र तिङि इत्यनुवर्तयन्ति, तेषां भववानिति क्वसौ सार्वधातुकदीर्घो न भवति ॥
सुपि च ॥ ७,३.१०२ ॥
_____ काशिकावृत्तिः७,३.१०२:
अतो दीर्घो यञि (*७,३.१०१) इत्यनुवर्तते ।
सुपि च यञादौ परतोऽकारान्तस्य अङ्गस्य दीर्घो भवति ।
वृक्षाय ।
प्लक्षाय ।
वृक्षाभ्याम् ।
प्लक्षाभ्याम् ।
अतः इत्येव, अग्निभ्याम् ।
यञि इत्येव, वृक्षस्य ।
प्लक्षस्य ॥
बहुवचने झल्येत् ॥ ७,३.१०३ ॥
_____ काशिकावृत्तिः७,३.१०३:
बहुवचने झलादौ सुपि परतोऽकारान्तस्य अङ्गस्य एकारादेशो भवति ।
व्कृक्षेभ्यः ।
प्लक्षेभ्यः ।
वृक्षेषु ।
प्लक्षेषु ।
बहुवचने इति किम् ? वृक्षाभ्याम् ।
प्लक्षाभ्याम् ।
झलि इति किम् ? वृक्षाणाम् ।
सुपि इत्येव, यजध्वम् ।
पचध्वम् ॥
ओसि च ॥ ७,३.१०४ ॥
_____ काशिकावृत्तिः७,३.१०४:
ओसि परतोऽकारान्तस्य अङ्गस्य एकारादेशो भवति ।
वृक्षयोः स्वम् ।
प्लक्षयोः स्वम् ।
वृक्षयोर्निर्धेहि ।
प्लक्षयोर्निधेहि ॥
आङि चापः ॥ ७,३.१०५ ॥
_____ काशिकावृत्तिः७,३.१०५:
आङिति पूर्वाचार्यनिर्देशेन तृतीयैकवचनं गृह्यते ।
तस्मिन्नाङि परतः, चकारादोसि च, आवन्ताङ्गस्य एकारादेशो भवति ।
खट्वया ।
मालया ।
खट्वयोः मालयोः ।
बहुराजया ।
कारीषगन्ध्यया ।
बहुराजयोः ।
कारीषगन्ध्ययोः ।
आपः इति पितो ग्रहणं किम् ? कीलालपा ब्रह्मणेन ।
कीलालपोः ब्रह्मणकुलयोः ।
ङ्याब्ग्रहणेऽदीर्घग्रहणमिति वचनातिह न भवति, अतिखट्वेन ब्राह्मणकुलेन ॥
सम्बुद्धौ च ॥ ७,३.१०६ ॥
_____ काशिकावृत्तिः७,३.१०६:
आपः इति वर्तते ।
सम्बुद्धौ च परतः आबन्तस्य अङ्गस्य एत्वं भवति ।
हे खट्वे ।
हे बहुराजे ।
हे कारीषगन्ध्ये ॥
[॰८५७]
अम्बार्थनद्योर्ह्रस्वः ॥ ७,३.१०७ ॥
_____ काशिकावृत्तिः७,३.१०७:
सम्बुद्धौ इति वर्तते ।
अम्बार्थनामङ्गानां नद्यन्तानां ह्रस्वो भवति सम्बुद्धौ परतः ।
हे अम्ब ।
हे अक्क ।
हे अल्ल ।
नद्याः खल्वपि हे कुमारि ।
हे शार्ङ्गरवि ।
हे ब्रह्मबन्धु ।
हे वीरबन्धु ।
डलकवतीनां प्रतिषेधो वक्तव्यः ।
हे अम्बाडे ।
हे अम्बाले ।
हे अम्बिके ।
छन्दसि वेति वक्तव्यम् ।
हे अम्बाड, हे अम्बाडे ।
हे अम्बाल, हे अम्बाले ।
हे अम्बिक, हे अम्बिके ।
तलो ह्रस्वो बा ङिसम्बुद्ध्योरिति वक्तव्यम् ।
देवते भक्तिः, देवतायां भक्तिः ।
हे देवत, हे देवते ।
छन्दस्येव ह्रस्वत्वमिष्यते ।
मातॄणां मातच्पुत्रार्थमर्हते ।
मातॄणां मातजादेशो वक्तव्यः सम्बुद्धौ, पुत्राय पुत्रमभिधातुम् ।
कीदृशाय ? अर्हते ।
मात्रा व्यपदेशमर्हति श्लाघनीयत्वाद्यः पुत्रस्तदर्थम् ।
हे गार्गीमात ।
नद्यृतश्च (*५,४.१५३) इति समासान्तापवादो मातजादेशः ।
चित्करणमन्तोदात्तार्थम् ॥
ह्रस्वस्य गुणः ॥ ७,३.१०८ ॥
_____ काशिकावृत्तिः७,३.१०८:
सम्बुद्धौ इति वर्तते ।
ह्रस्वान्तस्य अङ्गस्य गुणो भवति सम्बुद्धौ परतः ।
हे अग्ने ।
हे वायो ।
हे पटो ।
हे कुमारि, हे ब्रह्मबन्धु इत्येवमादीनां ह्रस्वविधानसामर्थ्याद्गुणो न भवति ।
यदि गुणः इष्टः स्यात्, अम्बार्थानां ह्रस्वः इत्युक्त्वा नदीह्रस्वयोर्गुणः इत्येवं ब्रूयात् ॥
जसि च ॥ ७,३.१०९ ॥
_____ काशिकावृत्तिः७,३.१०९:
जसि परतो ह्रस्वान्तस्य अङ्गस्य गुणो भवति ।
अग्नयः ।
वायवः ।
पटवः ।
धेनवः ।
बुद्धयः ।
जसादिषु छन्दसि वावचनं प्राङ्णौ चङ्युपधाया ह्रस्व इत्येतस्मात् ।
इतः प्रकरणात्प्रभृति छन्दसि वा इति वक्तव्यम् ।
किं प्रयोजनम् ? अम्बे, दर्वि, शतक्रत्वः, पश्वे नृभ्यः, किकिदीव्या ।
अम्बे, अम्ब ।
पूर्णा दर्वि, पूर्णा दर्वी ।
अधा शतक्रत्वः, शतक्रतवः ।
पश्वे नृभ्यः, पशवे ।
किकिदीव्या, किकिदीविना ॥
[॰८५८]
ऋतो ङिसर्वनामस्थानयोः ॥ ७,३.११० ॥
_____ काशिकावृत्तिः७,३.११०:
गुणः इति वर्तते ।
ऋकारान्तस्य अङ्गस्य ङौ परतः सर्वनामस्थाने च गुणो भवति ।
ङौ मातरि ।
पितरि ।
भ्रातरि ।
कर्तरि ।
सर्वनामस्थाने कर्तारौ ।
कर्तारः ।
मातरौ ।
पितरौ ।
भ्रातरौ ।
तपरकरणं मुखसुखार्थम् ॥
घेर्ङिति ॥ ७,३.१११ ॥
_____ काशिकावृत्तिः७,३.१११:
घ्यन्तस्याङ्गस्य ङिति प्रत्यये परतो गुणो भवति ।
अग्नये ।
वायवे ।
अग्नेरागच्छति ।
वायोरागच्छति ।
अग्नेः स्वम् ।
वायोः स्वम् ।
घेः इति किम् ? सख्ये ।
पत्ये ।
ङिति इति किम् ? अग्निभ्याम् ।
सुपि इत्येव, पट्वी ।
कुरुतः ॥
आण्नद्याः ॥ ७,३.११२ ॥
_____ काशिकावृत्तिः७,३.११२:
नद्यन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्य आडागमो भवति ।
कुमार्यै ।
ब्राहमबन्ध्वै ।
कुमार्याः ।
ब्रह्मबन्ध्वाः ॥
याडापः ॥ ७,३.११३ ॥
_____ काशिकावृत्तिः७,३.११३:
आबन्ता दङ्गादुत्तरस्य ङितः प्रत्ययस्य याडागमो भवति ।
खट्वायै ।
बहुराजायै ।
कारीषगन्ध्व्यायै ।
खट्वायाः ।
कारीषगन्ध्यायाः ।
बहुराजायाः ।
अतिखट्वाय इत्यत्र अकृते दीर्घे ङ्याब्ग्रहणे अदीर्घः इति वचनाद्याडागमो न भवति, कृते तु लाक्षणिकत्वात् ॥
सर्वनाम्नः स्याड्ढ्रस्वश्च ॥ ७,३.११४ ॥
_____ काशिकावृत्तिः७,३.११४:
सर्वनाम्नः आबन्तादङ्गादुत्तरस्य ङितः प्रत्यय्स्य स्याटागमो ह्रस्वश्च भवति ।
सर्वस्यै ।
विश्वस्यै ।
यस्यै ।
तस्यै ।
कस्यै ।
अन्यस्यै ।
सर्वस्याः ।
विश्वस्याः ।
यस्याः ।
तस्याः ।
कस्याः ।
अन्यस्याः ।
आपः इत्येव, भवति ।
भवते ॥
विभाषा द्वितीयातृतीयाभ्याम् ॥ ७,३.११५ ॥
_____ काशिकावृत्तिः७,३.११५:
द्वितीया तृतिया इत्येताभ्यामुत्तरस्य ङितः प्रत्ययस्य विभाषा स्याटागमो भवति, द्वितीयातृतियायोश्च ह्रस्वो भवति ।
द्वितीयस्यै, द्वितियायै ।
तृतीयस्यै, तृतीयायै ॥
ङेरां नद्याम्नीभ्यः ॥ ७,३.११६ ॥
_____ काशिकावृत्तिः७,३.११६:
नद्यन्ताताबन्तात्नी इत्येतस्माच्च+उत्तरस्य ङेः आमादेशो भवति ।
कुमार्याम् ।
गौर्याम् ।
ब्रह्मबन्ध्वाम् ।
धीबन्ध्वाम् ।
आपः खट्वायाम् ।
बहुराजायाम् ।
कारीषगन्ध्यायाम् ।
नी राजन्याम् ।
सेनान्याम् ॥
[॰८५९]
इदुद्भ्याम् ॥ ७,३.११७ ॥
_____ काशिकावृत्तिः७,३.११७:
इकारोकाराभ्यां नदीसञ्ज्ञकाभ्यामुत्तरस्य ङेः आमादेशो भवति ।
कृत्याम् ।
धेन्वाम् ॥
औत् ॥ ७,३.११८ ॥
_____ काशिकावृत्तिः७,३.११८:
इदुद्भ्यामुत्तरस्य ङेः औकारादेशो भवति ।
यन्न नदिसञ्ज्ञं न अपि घिसञ्ज्ञमिकारान्तम् , तदिह+उदाहरणम् ।
सख्यौ ।
पत्यौ ॥
अच्च घेः ॥ ७,३.११९ ॥
_____ काशिकावृत्तिः७,३.११९:
औतिति वर्तते ।
घिसञ्ज्ञकादुत्तरस्य ङेः औकारादेशो भवति, तस्य च घेः अकारादेशो भवति ।
अग्नौ ।
वायौ कृतौ ।
धेनौ ।
पटौ ।
अतिति तपरकरणं स्त्रियां टापो निव्र्त्त्यर्थम् ।
औदच्च घेः इति येषामेकमेव+इदं सूत्रम्, ते प्रधानशिष्टमिदुद्भ्यामौत्त्वं वर्णयन्ति, अन्वाचयशिष्तं घेः अकारमिति ॥
आङो नाऽस्त्रियाम् ॥ ७,३.१२० ॥
_____ काशिकावृत्तिः७,३.१२०:
घेः उत्तरस्य आङः न अभावो भवति अस्त्रियाम् ।
अग्निना ।
वायुना ।
पटुना ।
पुंसि इति नोक्तम्, अमुना ब्राह्मणकुलेन ।
अस्त्रियामिति किम् ? कृत्या ।
धेन्वा ॥
इति काशिकायां वृत्तौ सप्तमाध्यायस्य तृतीयः पादः ॥ ॥
सप्तमाध्यायस्य चतुर्थः पादः ।
[॰८६०]
णौ चङ्युपधाया ह्रस्वः ॥ ७,४.१ ॥
_____ काशिकावृत्तिः७,४.१:
अङ्गस्य इति वर्तते ।
चङ्परे णौ यदङ्गम्, तस्य उपधाया ह्रस्वो भवति ।
अचीकरत् ।
अजीहरत् ।
अलीलवत् ।
अपीपवत् ।
अत्र द्विर्वचनोपधाह्रस्वत्वयोः प्राप्तयोः परत्वादुपधाह्रस्वत्वम्, तत्र कृते द्विर्वचनम् ।
इह तु मा भवानटिटतिति नित्यत्वाद्द्वितीयस्य द्विर्वचनं प्राप्नोति, तथा सति ह्रस्वभाविनोऽङ्गस्य अकारस्य उपधात्वं विहितमिति ह्रस्वो न स्यात्? नैष दोषः ।
ओणेः ऋदित् करणं ज्ञापकं नित्यमपि द्विर्वचनमुपधाह्रस्वत्वेन बाध्यते इति ।
णौ इति किम् ? चङ्युपधाया ह्रस्वः इत्युच्यमाने अलीलवतित्यत्र वचनसामर्थ्यातन्तरङ्गामपि वृद्धिमादेशं च बाधित्वा ह्रस्वः स्यात् ।
अदीदपतित्यत्र ह्रस्वत्वेन पुको बाधः स्यात् ।
अपीपचतित्येवमादौतु नैव स्यात् ।
चङि इति किम् ? कारयति ।
हारयति ।
उपधाया इति किम् ? अचकाङ्क्षत् ।
अववाञ्छत् ।
तदेददुपधाग्रहणमुत्तरार्थमवश्यं कर्तव्यं तदिह अपि ह्रस्वत्वं निवर्तयति इत्येवमर्थं येन न अव्यवधानमित्येतन्नाश्रयितव्यमिति ।
उपधाह्रस्वत्वे णेर्णिच्युपसङ्ख्यानम् ।
वदित्वन्तं प्रयोजितवानवीवदत्वीणां परिवादकेन ।
योऽसौ णौ णिलोपस्तस्य स्थानिवद्भावेन अग्लोपित्वातङ्गस्य ह्रस्वो न प्राप्नोति ।
ण्याकृतिनिर्देशात्सिद्धम् ॥
न अग्लोपिशास्वृदिताम् ॥ ७,४.२ ॥
_____ काशिकावृत्तिः७,४.२:
अग्लोपिनामङ्गानां शासेः ऋदितां च णौ चङि उपधाया ह्रस्वो न भवति ।
अग्लोपिनां तावत् मालामाख्यतममालत् ।
मातरमाख्यतममातरत् ।
राजानमतिक्रान्तवानत्यरराजत् ।
लोमान्यनुमृष्टवानन्वलुलोमत् ।
अगेव यत्र केवलो लुप्यते तत्र स्थानिवद्भावादपि सिद्धम्, हलचोरादेशे तु न सिध्यति इति तदर्थमेतद्वचनम् ।
शासेः अशशासत् ।
ऋदिताम् बाधृ अबवाधत् ।
याचृ अययाचत् ।
ढौकृ अडुढौकत् ॥
भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् ॥ ७,४.३ ॥
_____ काशिकावृत्तिः७,४.३:
भ्राज भास भाष दीप जीव मील पीड इत्येतेषामङ्गानां णौ चङि उपधाया ह्रस्वो भवति अन्यतरस्याम् ।
भ्राज अबिभ्रजत्, अबभ्राजत् ।
भास अबीभसत्, अबभासत् ।
भाष अबीभषत्, अबभाषत् ।
दीप अदीदिपत्, अदिदीपत् ।
जीव अजीजिवत्, अजिजीवत् ।
मील अमीमिलत्, अमिमीलत् ।
पीड अपीपिडत्, अपिपीडत् ।
भ्राजभासोरृदित्करणमपाणिनीयम् ।
[॰८६१]
काण्यादीनां चेति वक्तव्यम् ।
कण अचीकणत्, अचकाणत् ।
वण अवीवणत्, अववाणत् ॥
लोपः पिबतेरीच्च अभ्यासस्य ॥ ७,४.४ ॥
_____ काशिकावृत्तिः७,४.४:
पिबतेः अङ्गस्य णौ चङि उपधायाः लोपो भवति, अभ्यासस्य ईकारादेशो भवति ।
अपीप्यत्, अपीप्यताम्, अपीप्यन् ।
उपधालोपे कृते ओः पुयण्वचनं ज्ञापकं णौ स्थानिवद्भावस्य इति स्थानिवद्भावाद्द्विर्वचनम् ॥
तिष्ठतेरित् ॥ ७,४.५ ॥
_____ काशिकावृत्तिः७,४.५:
तिष्ठतेरङ्गस्य णौ चङि उपधायाः इकारादेशो भवति ।
अतिष्ठिपत्, अतिष्ठिपताम्, अतिष्ठिपन् ॥
जिघ्रतेर्वा ॥ ७,४.६ ॥
_____ काशिकावृत्तिः७,४.६:
जिघ्रतेः अङ्गस्य नौ चङि उपधाया इकारादेशो वा भवति ।
अजिघ्रिपत्, अजिघ्रिपताम्, अजिघ्रिपन् ।
अजिघ्रपत्, अजिघ्रपताम्, अजिघ्रपन् ॥
उरृत् ॥ ७,४.७ ॥
_____ काशिकावृत्तिः७,४.७:
णौ चङि उपधायाः ऋवर्णस्य स्थाने वा ऋकारादेशो भवति ।
इररारामपवादः ।
इर् अचिकीर्तत्, अचीकृतत् ।
अर् अववर्तत्, अवीवृतत् ।
आर् अममार्जत्, अमीमृजत् ।
वचनसामर्थ्यादन्तरङ्गा अपि इररारो बाध्यन्ते ।
तप्रकरणं दीर्घेऽपि स्थानिनि ह्रस्व एव यथा स्यात्, अचीकृततिति ।
न च अयं भाव्यमानः, किन्तु आदेशान्तरनिवृत्त्यर्थं स्वरूपमेव+एतदभ्यनुज्ञायते ॥
नित्यं छन्दसि ॥ ७,४.८ ॥
_____ काशिकावृत्तिः७,४.८:
छन्दसि विषये णौ चङि उपधाया ऋवर्णस्य स्थाने ऋकरादेशो भवति नित्यम् ।
अवीवृधत्पुरोडाशेन ।
अवीवृधताम् ।
अवीवृधन् ॥
[॰८६२]
दयतेर्दिगि लिटि ॥ ७,४.९ ॥
_____ काशिकावृत्तिः७,४.९:
दयतेरङ्गस्य लिटि परतो दिगि इत्ययमादेशो भवति ।
अव्दिग्ये, अवदिग्याते, अवदिग्यिरे ।
दयतेः इति दीङो ग्रहणं न तु दय दाने इत्यस्य ।
तस्य हि लिति आं विहितः ।
दिग्यादेशेन द्विर्वचनस्य बाधनमिष्यते ॥
ऋतश्च संयोगादेर्गुणः ॥ ७,४.१० ॥
_____ काशिकावृत्तिः७,४.१०:
ऋकारान्तस्य अङ्गस्य संयोगादेः गुणो भवति लिटि परतः ।
स्वृ सस्वरतुः ।
सस्वरुः ।
ध्वृ दध्वरतुः ।
दध्वरुः ।
स्मृ सस्मरतुः ।
सस्मरुः ।
ऋतः इति किम् ? चिक्षियतुः ।
चिक्षियुः ।
संयोगादेः इति किम् ? चक्रतुः ।
चकृउः ।
प्रतिषेधविषयेऽपि गुणो यथा स्यातित्ययमारम्भः ।
वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिरेव+इष्यते ।
सस्वार ।
सस्मार ।
लिटि इत्येव, स्मृतः ।
स्मृतवान् ।
संयोगादेर्गुणविधाने संयोगोपधग्रहणं कृञर्थं कर्तव्यम् ।
सञ्चस्करतुः, सञ्चस्करुः इति ।
अत्र हि पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण इत्यत्र दर्शने लिति कृते, तदाश्रये च द्विर्वचने, पश्चादुपसर्गयोगे सति, अडभ्यासव्यवायेऽपि (*६,१.१३६) इति सुत्क्रियते ।
एवं च कृत्वा संस्कृषीष्ट, उपस्कृषीष्ट इत्यत्र सुटो बहिरङ्गलक्षणस्य असिद्धत्वातृतश्च संयोगादेः इति इडागमो न भवति ॥
ऋच्छत्य्ताम् ॥ ७,४.११ ॥
_____ काशिकावृत्तिः७,४.११:
ऋच्छतेरङ्गस्य, ऋ इत्येतस्य, ॠकारान्तानां च लिटि परतो गुणो न भवति ।
ऋच्छ आनर्च्छ, आनर्च्छतुः, आनर्च्छुः ।
ऋ आरतुः, आरुः ।
ॠकारान्तानाम् निचकरतुः, निचकरुः ।
निजगरतुः, निजगरुः ।
ऋच्छेरलघूपधत्वादप्राप्तो गुणो विधीयते, ॠतां तु प्रतिषिद्धः ।
वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिरेव+इष्यते ।
निचकार ।
निजगार ॥
शॄदॄप्रां ह्रस्वो वा ॥ ७,४.१२ ॥
_____ काशिकावृत्तिः७,४.१२:
शॄ दॄ पॄ इत्येतेषामङ्गानां लिटि परतो वा ह्रस्वो भवति ।
शॄ विशश्रतुः, विशश्रुः ।
विशशरतुः, विशशरुः ।
दॄ विदद्रतुः, विदद्रुः ।
विददरतुः, विददरुः ।
पॄ निपप्रतुः, निपप्रुः ।
निपपरतुः, निपपरुः ।
ह्रस्ववचनमित्वोत्वनिवृत्त्यर्थम् ।
केचिदेतत्सूत्रं प्रत्याचक्षते ।
श्रा पाके, द्रा कुत्सायां गतौ, प्रा पूरणे इत्येतेषामनेकार्था धातवः इति शॄदॄप्रामर्थे वर्तमानानां विशश्रतुः, विशश्रुः, विदद्रतुः, विदद्रुः, निपप्रतुः, निपप्रुः इत्येतानि रूपाणि साधयन्ति ।
तथा च सति क्वसौ विशशृवानित्येतद्रूपं न स्यात् ॥
[॰८६३]
केऽणः ॥ ७,४.१३ ॥
_____ काशिकावृत्तिः७,४.१३:
के प्रत्यये परतोऽणो ह्रस्वो भवति ।
ज्ञका कुमारिका ।
किशोरिका ।
अणः इति किम् ? गोका ।
नौका ।
राका, धाका इत्यत्र उणादयो बहुलम् (*३,३.१) इति ह्रस्वो न भवति ।
न कपि (*७,४.१४) इति प्रतिषेधसामर्थ्यात्कनोऽपि सानुबन्धकस्य ग्रहणमिह भवति ॥
न कपि ॥ ७,४.१४ ॥
_____ काशिकावृत्तिः७,४.१४:
कपि प्रत्यये परतोऽणो ह्रस्वो न भवति ।
बहुकुमारीकः ।
बहुवधूकः ।
बहुलक्ष्मीकः ।
गोस्त्रियोरुपसर्जनस्य (*१,२.४८) इत्ययमपि ह्रस्वः कपि न भवति ।
समासार्थे हि उत्तरपदे कपि कृते, पश्चात्कबन्तेन सह समासेन भवितव्यमिति स्त्रीप्रत्ययान्तसमासप्रातिपदिकं न भवति ॥
अपोऽन्यतरस्याम् ॥ ७,४.१५ ॥
_____ काशिकावृत्तिः७,४.१५:
आबन्तस्याङ्गस्य कपि ह्रस्वः न भवत्यन्तरस्याम् ।
बहुखट्वाकः, बहुखट्वकः ।
बहुमाल कः बहुमालकः ॥
ऋदृशोऽङि गुणः ॥ ७,४.१६ ॥
_____ काशिकावृत्तिः७,४.१६:
ऋवर्णान्तानां दृशेश्च अङि परतो गुणो भवति ।
शकलाङ्गुष्ठकोऽकरत् ।
अहं तेभ्योऽकरं नमः ।
असरत् ।
आरत् ।
जरा ।
दृशेः अदर्शत्, अदर्शताम्, अदर्शन् ॥
अस्यतेस्थुक् ॥ ७,४.१७ ॥
_____ काशिकावृत्तिः७,४.१७:
अस्यतेरङ्गस्य थुगागमो भवति अङि परतः ।
आस्थत्, आस्थताम्, आस्थन् ॥
श्वयतेरः ॥ ७,४.१८ ॥
_____ काशिकावृत्तिः७,४.१८:
श्वयतेः अङ्गस्य अकारादेशो भवति अङि परतः ।
अश्वत्, अश्वताम्, अश्वन् ॥
पतः पुम् ॥ ७,४.१९ ॥
_____ काशिकावृत्तिः७,४.१९:
पतेरङ्गस्य पुमागमो भवति अङि परतः ।
अपप्तत्, अपप्तताम्, अपप्तन् ॥
[॰८६४]
वच उम् ॥ ७,४.२० ॥
_____ काशिकावृत्तिः७,४.२०:
वचेः अङ्गस्य अङि परतः उमागमो भवति ।
अवोचत्, अवोचताम्, अवोचन् ॥
शीङः सार्वधातुके गुणः ॥ ७,४.२१ ॥
_____ काशिकावृत्तिः७,४.२१:
शीङः अङ्गस्य सार्वधातुके परतः गुणो भवति ।
शेते, शयाते, शेरते ।
सार्वधातुके इति किम् ? शिश्ये ॥
अयङ्यि क्ङिति ॥ ७,४.२२ ॥
_____ काशिकावृत्तिः७,४.२२:
यकारादौ क्ङिति प्रत्यये परतः शीङः अङ्गस्य अयङित्ययमादेशो भवति ।
श्य्यते ।
शाशय्यते ।
प्रशय्य ।
उपशय्य ।
यि इति किम् ? शिश्ये ।
क्ङिति इति किम् ? शेयम् ॥
उपसर्गाद्ध्रस्व ऊहतेः ॥ ७,४.२३ ॥
_____ काशिकावृत्तिः७,४.२३:
उपसर्गादुत्तरस्य उहतेरङ्गस्य ह्रस्वो भवति यकारादौ क्ङिति प्रत्यये परतः ।
समुह्यते ।
समुह्य गतः ।
अभ्युह्यते ।
अभ्युह्य गतः ।
उपसर्गातिति किम् ? ऊह्यते ।
ऊहतेः इति किम् ? समीह्यते ।
यि इत्येव, समूहितम् ।
क्ङिति इत्येव, समूह्योऽयमर्थः ।
अणः इत्येव, आ ऊह्यते ओह्यते ।
समोह्यते ॥
एतेर्लिगि ॥ ७,४.२४ ॥
_____ काशिकावृत्तिः७,४.२४:
एतेरङ्गस्य उपसर्गादुत्तरस्य लिङि यकारादौ क्ङिति परतो ह्रस्वो भवति ।
उदियात् ।
समियात् ।
अन्वियात् ।
आशिषि लिङि अकृत्सार्वधातुकयोः इति दीर्घत्वे कृते ह्रस्वोऽनेन भवति ।
उपसर्गातित्येव, ईयात् ।
अणः इत्येव, आ ईयातेयत् ।
समेयात् ॥
अकृत्सार्वधातुकयोर्दीर्घः ॥ ७,४.२५ ॥
_____ काशिकावृत्तिः७,४.२५:
अकृद्यकारे असार्वधातुकयकारे च क्ङिति परतोऽजन्तस्य अङ्गस्य दीर्घो भवति ।
भृशायते ।
सुखायते ।
दुःखायते ।
चीयते ।
चेचीयते ।
स्तूयते ।
तोष्टूयते ।
चीयात् ।
स्तूयात् ।
अकृतिति किम् ? प्रकृत्य ।
प्रहृत्य ।
परत्वात्दीर्घत्वेन तुको बाधः स्यात् ।
असार्वधातुके इति किम् ? चिनुयात् ।
सुनुयात् ।
क्ङिति इत्येव, उरुया ।
धृष्णुया ॥
च्वौ च ॥ ७,४.२६ ॥
_____ काशिकावृत्तिः७,४.२६:
च्विप्रत्यये परतोऽजन्तस्य अङ्गस्य दीर्घो भवति ।
शुचीकरोति ।
शुचीभवति ।
शुचीस्यात् ।
पटूकरोति ।
पटूभवति ।
पटूस्यात् ॥
[॰८६५]
रीङृतः ॥ ७,४.२७ ॥
_____ काशिकावृत्तिः७,४.२७:
ऋकारान्तस्य अङ्गस्य अकृद्यकारे असार्वधातुके यकारे च्वौ च परतो रीङित्ययमादेशो भवति ।
मात्रीयति ।
मात्रीयते ।
पित्रीयति ।
पित्रीयते ।
चेक्रीयते ।
मात्रीभूतः ।
क्ङिति इत्येतन्निवृत्तम्, तेन+इह अपि भवति, पितुरागतं पित्र्यम् ।
ऋत इति तपरकरणं किम् ? चेकीर्यते ।
निजेगिल्यते ॥
रिङ्शयग्लिङ्क्षु ॥ ७,४.२८ ॥
_____ काशिकावृत्तिः७,४.२८:
ऋकारान्तस्य अङ्गस्य शयकित्येतयोः लिङि च यकारादौ असार्वधातुके परतो रङित्ययमादेशो भवति ।
श आद्रियते ।
आध्रियते ।
यक् क्रियते ।
ह्रियते ।
लिङ् क्रियात् ।
ह्रियात् ।
रिङ्वचनं दीर्घनिवृत्त्यर्थम् ।
असार्वधातुके इत्येव, बिभृयात् ।
यि इत्येव, कृषीष्ट ।
हृषीष्ट ॥
गुणोऽर्तिसंयोगाद्योः ॥ ७,४.२९ ॥
_____ काशिकावृत्तिः७,४.२९:
ऋतः यकि लिगि इति वर्तते ।
श इत्यसम्भवात्निवृत्तम् ।
गुणो भवति अर्तेः संयोगादीनामृकारान्तानां यकि परतो लिगि च यकारादौ असार्वधातुके ।
अर्यते ।
अर्यात् ।
स्मर्यते ।
स्मर्यात् ।
इह संस्क्रियते, संस्क्रियातिति सुटो बहिरङ्गलक्षणस्य असिद्धत्वातभक्तत्वात्वा संयोगादित्वमङ्गस्य न अस्ति इति गुणो न प्रवर्तते ।
यि इत्येव, स्वृषीष्ट ।
ध्वृषीष्ट ।
असार्वधातुके इत्येव, इयृयात् ॥
यङि च ॥ ७,४.३० ॥
_____ काशिकावृत्तिः७,४.३०:
यगि च परतः अर्तेः संयोगादेश्च ऋतः गुणो भवति ।
अरार्यते ।
सास्वर्यते ।
दाध्वर्यते ।
सास्मर्यते ।
अर्तेः अट्यर्त्यशूर्णोतीनामुपसंख्यानमिति यङ् ।
न न्द्राः संयोगादयः (*६,१.३) इति द्विर्वचनप्रतिषेध्ः यकारस्य नेष्यते ।
हन्तेर्हिसायां यङि घ्नीभावो वक्तव्यः ।
जेघ्नीयते ।
हिंसायामिति किम् ? जङ्घन्यते ॥
ई घ्राध्मोः ॥ ७,४.३१ ॥
_____ काशिकावृत्तिः७,४.३१:
घ्रा ध्मा इत्येतयोः यङि परतः ईकारादेशो भवति ।
जेघ्रीयते ।
देध्मीयते ॥
[॰८६६]
अस्य च्वौ ॥ ७,४.३२ ॥
_____ काशिकावृत्तिः७,४.३२:
ई इति वर्तते ।
अचर्णान्तस्य अङ्गस्य च्वौ परतः ईकारादेशो भवति ।
शुक्लीभवति ।
शुक्लीस्यात् ।
खट्वीकरोति ।
खट्वीस्यात् ॥
क्यचि च ॥ ७,४.३३ ॥
_____ काशिकावृत्तिः७,४.३३:
अस्य इति वर्तते ।
क्यचि परतः अवर्णान्तस्य अङ्गस्य ईकारादेशो भवति ।
पुत्रीयति ।
घटीयति ।
खट्वीयति ।
मालीयति ।
अकृत्सार्वधातुकयोर्दीर्घः (*७,४.२४) इत्यस्य अपवादः ।
पृथग्योगकरणमुत्तरार्थम् ॥
अशनायोदन्यधानाया बुभुक्षापिपासागर्धेषु ॥ ७,४.३४ ॥
_____ काशिकावृत्तिः७,४.३४:
अशनाय उदन्य धनाय इत्येतानि निपात्यन्ते बुभुक्षा पिपासा गर्ध इत्येतेषु अर्थेषु ।
अशनाय इत्यशनशब्दस्य आत्वं क्यचि निपात्यते ।
अशनायति इति भवति बुभुक्षा चेत् ।
अशनीयति इत्येव अन्यत्र ।
उदन्य इति वदकशब्दस्य उदन्नादेशो निपात्यते ।
उदन्यति इति भवति पिपासा चेत् ।
उदकीयति इत्येव अन्यत्र ।
धनाय इति धनशब्दस्य आत्वं निपात्यते ।
धनायति इति भवति गर्धः चेत् ।
धनीयति इत्येव अन्यत्र ॥
न च्छन्दस्यपुत्रस्य ॥ ७,४.३५ ॥
_____ काशिकावृत्तिः७,४.३५:
छन्दसि विषये पुत्रवर्जितस्य अवर्णान्तस्य अङ्गस्य क्यचि यदुक्तं तन्न भवति ।
किं चोक्तम् ? दीर्घत्वमीत्वं च ।
मित्रयुः ।
संस्वेदयुः ।
देवाञ्जिगाति सुम्नयुः ।
अपुत्रस्य इति किम् ? पुत्रीयन्तः सुदानवः ।
अपुत्रादीनामिति वक्तव्यम् ।
जनीयन्तोऽन्वग्रवः ॥
दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति ॥ ७,४.३६ ॥
_____ काशिकावृत्तिः७,४.३६:
दुरस्युः द्रविणस्युः वृषण्यति रिषण्यति इत्येतानि छन्दसि निपात्यन्ते ।
दुष्टशब्दस्य क्यचि दुरस्भावो निपात्यते ।
अवियोना दुरस्युः ।
दुष्टीयति इति प्राप्ते ।
द्रविणशब्दस्य द्रविणस्भावो निपात्यते ।
द्रविणस्युर्विपन्यया ।
द्रविणीयति इति प्राप्ते ।
वृषशब्दस्य वृषण्भावो निपात्यते ।
वृषण्यति ।
वृषीयति इति प्राप्ते ।
रिष्टशब्दस्य रिषण्भावो निपात्यते ।
रिषण्यति ।
रिष्टीयति इति प्राप्ते ॥
[॰८६७]
अश्वाघस्य आत् ॥ ७,४.३७ ॥
_____ काशिकावृत्तिः७,४.३७:
अश्व अघ इत्येतयोः क्यचि परतः छन्दसि विषये आकारादेशो भवति ।
अश्वायन्तो मघवन् ।
मा त्वा वृका अघायवो विदन् ।
एतदेव आत्ववचनं ज्ञापकं न च्छन्दस्यपुत्रस्य (*७,४.३५) इति दीर्घरतिषेधो भवति इति ॥
देवसुम्नयोर्यजुषि काठके ॥ ७,४.३८ ॥
_____ काशिकावृत्तिः७,४.३८:
देव सुम्न इत्येतयोः क्यचि परतः आकारादेशो भवति काठके यजुषि ।
देवायते यजमानाय ।
सुम्नायनतो हवामहे ।
यजुषि इति किम् ? देवाञ्जिगाति सुम्नयुः ।
काठके इति किम् ? सुम्नयुरिदमसीदमसि ॥
कव्यधवरपृतनस्यर्चि लोपः ॥ ७,४.३९ ॥
_____ काशिकावृत्तिः७,४.३९:
कवि अध्वर पृतना इत्येतेषामङ्गानां क्यचि परतो लोपो भवति ऋचि विषये ।
कव्यन्तः सुमनसः ।
अध्वर अध्वर्यन्तः ।
पृतना पृतन्यन्तः तिष्ठन्ति ॥
द्यतिस्यतिमास्थामित्ति किति ॥ ७,४.४० ॥
_____ काशिकावृत्तिः७,४.४०:
द्यति स्याति मा स्था इत्येतेषामङ्गानामिकारादेशो भवति तकारादौ किति प्रत्यये परतः ।
द्यति तिर्दितः ।
निर्दितवान् ।
स्यति अवसितः ।
अवसितवान् ।
मा मितः ।
मितवान् ।
स्था स्थितः ।
स्थितवान् ।
ति इति किम् ? अवदाय ।
किति इति किम् ? अवदाता ॥
शाछोरन्यतरस्याम् ॥ ७,४.४१ ॥
_____ काशिकावृत्तिः७,४.४१:
शा छा इत्येतयोः अन्यतरस्यामिकारादेशो भवति तकारादौ किति ।
शा निशितम्, निशातम् ।
निशितवान्, निशातवान् ।
छा अवच्छितम्, अवच्छातम् ।
अवच्छितवान्, अवच्छातवान् ।
श्यतेरित्त्वं व्रते नित्यमिति वक्तव्यम् ।
शंशितो ब्रह्मणः ।
संशितव्रतः इत्यर्थः ।
व्यवस्थितविभाषविज्ञानात्सिद्धम् ।
देवत्रातो गलो ग्राह इति योगे च सद्विधिः ।
मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः ॥
[॰८६८]
दधातेर्हिः ॥ ७,४.४२ ॥
_____ काशिकावृत्तिः७,४.४२:
दधातेरङ्गस्य हि इत्ययमादेशो भवति तकारादौ किति प्रत्यये परतः ।
हितः ।
हितवान् ।
हित्वा ॥
जहातेश्च क्त्वि ॥ ७,४.४३ ॥
_____ काशिकावृत्तिः७,४.४३:
जहातेरङ्गस्य हि इत्ययमादेशो भवति क्त्वाप्रत्यये परतः ।
हित्वा राज्यं वनं गतः ।
हित्वा गच्छति ।
जहातेर्निदेशात्जिहीतेर्न भवति ।
हात्वा ॥
विभाषा छन्दसि ॥ ७,४.४४ ॥
_____ काशिकावृत्तिः७,४.४४:
जहातेरङ्गस्य विभाषा हि इत्ययमादेशो भवति छन्दसि विषये क्त्वाप्रत्यये परतः ।
हित्वा शरीरं यातव्यम् ।
हात्वा ॥
सुधितवसुधितनेमधितधिष्वधिषीय च ॥ ७,४.४५ ॥
_____ काशिकावृत्तिः७,४.४५:
सुधित वसुधित नेमधित धिष्व धिषीय इत्येतानि छन्दसि विषये निपात्यन्ते ।
तत्र सुधित वसुधित नेमधित इति सुवसुनेमपूर्वस्य दधातेः क्तप्रत्यय इत्त्वमिडागमो वा प्रत्ययस्य निपात्यते ।
गर्भं माता सुधितम् ।
सुहितमिति प्राप्ते ।
वसुधितमग्नौ जुहोति ।
वसुहितमिति प्राप्ते ।
नेमधिता बाधन्ते ।
नेमहिता इति प्राप्ते ।
धिष्व इति लोण्मध्यमैकवचने दधातेः इत्त्वमिडागमो वा प्रत्ययस्य द्विर्वचनाभावश्च निपात्यते ।
धिष्व स्तोमम् ।
धत्स्व इति प्राप्ते ।
धिषिय इति आशीर्लिङि आत्मनेपदोत्तमैकवचने दधातेः इत्त्वम्, इडागमो वा प्रत्ययस्य निपात्यते ।
धिषीय ।
धासीय इति प्राप्ते ॥
दो दद्घोः ॥ ७,४.४६ ॥
_____ काशिकावृत्तिः७,४.४६:
दा इत्येतस्य घुसञ्ज्ञकस्य ददित्ययमादेशो भवति तकारादौ किति प्रत्यय परतः ।
दत्तः ।
दत्तवान् ।
दत्तिः ।
दः इति किम् ? धीतः ।
धीतवान् ।
धेटः एतद्रूपम् ।
घोः इति किम् ? दाप्लवने दातं बर्हिः ।
दैप्शोधने अवदातं मुखम् ।
अयमादेशः थान्तः इष्यते ।
एवं ह्युक्तम् तान्ते दोषो दीर्घत्वं स्याद्दान्ते दोषो निष्ठानत्वम् ।
धान्ते दोषो धत्वप्राप्तिस्थान्तेऽदोषस्तस्मात्थान्तम् ॥
यदि तु दस्ति इति तकारादौ दीर्घत्वं तदा तान्तेऽपि अदोषः ।
दान्तधान्तयोरपि सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति नत्वधत्वे न भविष्यतः इति न दोषः ।
[॰८६९]
अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि ।
सुदत्तमनुदत्तं च निदत्तमिति चेष्यते ॥
अच उपसर्गात्तः (*७,४.४७) इति प्राप्ते निपात्यन्ते ।
अनुपसर्गा वा एते अवादयः क्रियान्तरविषया वेदितव्याः ॥
अच उपसर्गात्तः ॥ ७,४.४७ ॥
_____ काशिकावृत्तिः७,४.४७:
अजन्तादुपसर्गादुत्तरस्य दा इत्येतस्य घुसंज्ञकस्य त इत्ययमादेशो भवति तकारादौ किति ।
प्रत्तम् ।
अवत्तम् ।
नीत्तम् ।
परीत्तम् ।
अचः इति किम् ? निर्दत्तम् ।
दुर्दत्तम् ।
उपसर्गातिति किम् ? दधि दत्तम् ।
मधु दत्तम् ।
घोः इत्येव, अवदातं मुखम् ।
उपसर्गातिति पच्चमीनिर्देशादादेरलः प्राप्नोति ? तत्र समाधिमाहुः ।
अचः इत्येतद्द्विरावर्तयितव्यम्, तत्र एकं पच्चम्यन्तमुपसर्गविशेषणार्थम्, अपरमपि षष्ठ्यन्तं स्थानिनिर्देशर्थमित्याकारस्य स्थाने तकारो भवति ।
द्वितकारो वा संयोगोऽयमादिश्यते, सोऽनेकाल्त्वात्सर्वस्य भविष्यति ।
अपो भि (*७,४.४८) इत्यत्र पञ्चम्यन्तमचः इत्यनुवर्तते ।
तेन पकारमात्रस्य भविस्यति ।
द्यतेरित्त्वादचस्त इत्येतद्भवति विप्रतिषेधेन ।
अवत्तम् ।
प्रत्तं जुहोति ॥
अपो भि ॥ ७,४.४८ ॥
_____ काशिकावृत्तिः७,४.४८:
अपित्येतस्य अङ्गस्य भकारादौ प्रत्यये परतः त इत्ययमादेशो भवति ।
अद्भिः ।
अद्भ्यः ।
भि इति किम् ? अप्सु ।
स्ववःस्वतवसोर्मास उषसश्च तकारादेश इष्यते छन्दसि भकारादौ ।
स्ववद्भिः ।
स्वतवद्भिः ।
माद्भिरिष्ट्वा इन्द्रो वृत्रहा ।
समुषद्भिरजायथाः ॥
सः स्यार्धधातुके ॥ ७,४.४९ ॥
_____ काशिकावृत्तिः७,४.४९:
सकारान्तस्य अङ्गस्य सकारादौ आर्धधातुके परतः तकारादेशो भवति ।
वत्स्यति ।
अवत्स्यत् ।
विवत्सति ।
जिघत्सति ।
सः इति किम् ? वक्ष्यति ।
सि इति किम् ? घासः ।
वासः ।
आर्धधातुके इति किम् ? आस्से ।
वस्से ॥
[॰८७०]
तासस्त्योर्लोपः ॥ ७,४.५० ॥
_____ काशिकावृत्तिः७,४.५०:
तासेः अस्तेश्च सकारस्य सकारादौ प्रत्यये परतः लोपो भवति ।
तासेः कर्तासि ।
कर्तासे ।
अस्तेः त्वमसि ।
व्यतिसे ।
अस्तेः अकारासकारयोः लुप्तयोः से इति प्रत्ययमात्रमेतत्पदम्, तेन सात्पदाद्योः (*८,३.१११) इति षत्वं न भवति ॥
रि च ॥ ७,४.५१ ॥
_____ काशिकावृत्तिः७,४.५१:
रेफादौ च प्रत्यये परतः तासस्त्योः सकारास्य लोपो भवति ।
कर्तारौ ।
कर्तारः ।
अध्येतारौ ।
अध्येतारः ॥
ह एति ॥ ७,४.५२ ॥
_____ काशिकावृत्तिः७,४.५२:
तासस्त्योः सकारस्य हकारादशो भवति एति परतः ।
कर्ताहे ।
अस्तेः व्यतिहे ॥
यीवर्नयोर्दीधीवेव्योः ॥ ७,४.५३ ॥
_____ काशिकावृत्तिः७,४.५३:
यकारादौ इवर्णादौ च परतो दीधीवेव्योः लोपो भवति ।
यकारादौ आदीध्य गतः ।
आवेव्य गतः आदीध्यते ।
आवेव्यते ।
इवर्णादौ आदीधिता ।
आवेविता ।
लिङि आदीधीत ।
आवेवीत ।
यीवर्णयोः इति किम् ? आदीध्यनम् ।
आवेव्यनम् ॥
सनि मीमाघुरभलभशकपतपदामच इस् ॥ ७,४.५४ ॥
_____ काशिकावृत्तिः७,४.५४:
सनि प्रत्यये सकारादौ परतः मी मा घु रभ लभ शक पत पद इत्येतेषामङ्गानामचः स्थाने इसित्ययमादेशो भवति ।
मी इति मीनातिमिनोत्योः द्वयोरपि ग्रहणमिष्यते ।
मित्सति ।
प्रमित्सति ।
मा इति गामादाग्रहणेषु अविशेषः ।
मित्सते ।
अपमित्सते ।
घु दित्सति ।
धित्सति ।
रभ आरिप्सते ।
लभ आलिप्सते ।
शक शिक्षति ।
पत् पित्सति ।
पद प्रपित्सते ।
सनि इति किम् ? दास्यति ।
सि इत्येव, पिपतिषति ।
तनिपतिदरिद्राणामुपसङ्ख्यानमिति पतेः इडागमविकल्पः ।
सनि राधो हिंसायामच इस्वक्तव्यः ।
प्रतिरित्सति ।
हिंसायामिति किम् ? आरिरात्सति ॥
[॰८७१]
आप्ज्ञप्यृधामीत् ॥ ७,४.५५ ॥
_____ काशिकावृत्तिः७,४.५५:
आप्ज्ञपि ऋध इत्येतेषामङ्गानामच ईकारादेशो भवति सनि सकारादौ परतः ।
आपीप्सति ।
ज्ञपि ज्ञीप्सति ।
ऋद्ः ईर्त्सति ।
ज्ञपेः द्वावचौ, तत्र णेः पूर्वविप्रतिषेधेन लोपः, इतरस्य तु ईत्वम् ।
सनि इत्येव, प्राप्स्यति ।
सि इत्येव, जिज्ञपयिषति ।
अर्दिधिषति ।
सनीवन्तर्ध इति ज्ञपेः ऋधेश्च इटो विकओपः ॥
दम्भ इच्च ॥ ७,४.५६ ॥
_____ काशिकावृत्तिः७,४.५६:
दम्भेः अच इकारादेशो भवति, चकारातीत्च सनि सकारादौ परतः ।
धिप्सति, धीप्सति ।
सि इत्येव, दिदम्भिषति ॥
मुचोऽकर्मकस्य गुणो वा ॥ ७,४.५७ ॥
_____ काशिकावृत्तिः७,४.५७:
मुचोऽकर्मकस्य गुणो वा भवति सनि सकारादौ परतः ।
हलन्ताच्च (*१,२.१०) इति कित्त्वप्रतिषेधो विकल्प्यते ।
मोक्षते वत्सः स्वयमेव, मुमुक्षते वत्सः स्वयमेव ।
अकर्मकस्य इति किम् ? मुमुक्षति वत्सं देवदत्तः ।
कर्मकर्तरि मुचिरकर्मको भवति, कर्मविशेषस्य अविवक्षिताद्वा ॥
अत्र लोपोऽभ्यासस्य ॥ ७,४.५८ ॥
_____ काशिकावृत्तिः७,४.५८:
यदेतत्प्रक्रान्तं सनि मीमा इत्यादि मुचोऽकर्मकस्य इति यावत्, अत्र अभ्यासलोपो भवति ।
तथैव उदाहृतम् ।
अभ्यासस्य इत्येतच्च अछिकृतं वेदितव्यमा अध्यायपरिसमाप्तेः ।
इत उत्तरं यद्वक्ष्यामः अभ्यासस्य इत्येवं तद्वेदितव्यम् ।
वक्ष्यति, ह्रस्वः (*७,४.५९) डुढौकिषते ।
तुत्रौकिषते ।
सनि मीमाधुरभलभशकपतपदामच इस्, अभ्यासलोपश्च, इत्येवं सिद्धे यदत्रग्रहनमिह अक्रियते, तद्विषयावधारणार्थम्, अत्रैव अभ्यासलोपो भवति, सन्वद्भावविषये न भवति ।
अमीमपत् ।
अदीदपत् ।
सन्वल्लघुनि चङ्परेऽनग्लोपे (*७,४.९३) इति सन्वद्भावात्प्राप्नोति ।
सर्वस्य अभ्यासस्य अयं लोपः इष्यते, तदर्थमेव केचितत्रग्रहणं वर्णयन्ति ।
नानर्थकेऽलोऽन्त्यविधिः इत्यपरे सर्वस्य कुर्वन्ति ॥
ह्रस्वः ॥ ७,४.५९ ॥
_____ काशिकावृत्तिः७,४.५९:
ह्रस्वो भवति अभ्यासस्य ।
दुढौकिषते ।
तुत्रौकिषते ।
डुढौके ।
तुत्रौके ।
अडुढौकत् ।
अतुत्रौकत् ।
अभ्यासस्य अनचि ।
अभ्यासस्य यदुच्यते अनचि तद्भवति इति वक्तव्यम् ।
चराचरः ।
चलाचलः ।
पतापतः ।
वदावदः ।
हलादिः शेषो न भवति ॥
[॰८७२]
हलादिः शेषः ॥ ७,४.६० ॥
_____ काशिकावृत्तिः७,४.६०:
अभ्यासस्य हलादिः शिष्यते, अनादिर्लुप्यते ।
जग्लौ ।
मम्लौ ।
पपाच ।
पपाठ ।
आट, आटतुः, आटुः ।
आदिशेषनिमित्तोऽयमनादेर्लोपो विधीयते, तत्र अभ्यासजातेः आश्रयणात्क्वचिदपि वर्तमानो हलादिः अनदेः सर्वत्र निवृत्तिं करोति ।
अपरे तु ब्रुवते, शेषशब्दोऽयं निवृत्त्या विशिष्टमवस्थानमाह ।
तदवस्थानमुक्तितो यद्यपि प्रधानम्, अविधेयत्वात्तु तदप्रधानम् ।
निवृत्तिरेव तु विधेयत्वात्प्रधानम् ।
तत्र अयमर्थोऽस्य जायते, अभ्यासस्य अनादेर्हलो निवृत्तिः भवति इति ।
सा किमिति आदेरविधेयां सतीमनिवृत्तिमपेक्षिष्यते इति ॥
शर्पूर्वाः खयः ॥ ७,४.६१ ॥
_____ काशिकावृत्तिः७,४.६१:
अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते, अन्ये हलो लुप्यन्ते ।
चुश्च्योतिषति ।
तिष्ठासति ।
पिस्पन्दिषते ।
शर्पूर्वाः इति किम् ? पपाच ।
खयः इति किम् ? सस्नौ ।
खर्पूर्वाः खय इति वक्तव्यम् ।
उचिच्छिषति इत्यत्र उच्छेः अन्तरङ्गत्वात्तुकि कृते द्विर्वचनम्, तत्र हलादिः शेषे सति अभ्यासे तकारः श्रूयेत ॥
कुहोश्चुः ॥ ७,४.६२ ॥
_____ काशिकावृत्तिः७,४.६२:
अभ्यासस्य कवर्गहकारयोः चवर्गादेशो भवति ।
चकार ।
चखान ।
जगाम ।
जघान ।
हकारस्य जहार ।
जिहीर्षति ।
जहौ ॥
न कवतेर्यङि ॥ ७,४.६३ ॥
_____ काशिकावृत्तिः७,४.६३:
कवतेः अभ्यासस्य यङि परतः चुः न भवति ।
कोकूयते उष्ट्रः ।
कोकूयते स्वरः ।
कवतेः इति विकरणनिर्देशः कौतेः कुवतेश्च निवृत्त्यर्थः ।
तयोः चुत्वमेव भवति ।
चोकूयते ।
यङि इति किम् ? चुकुवे ॥
कृषेश्छन्दसि ॥ ७,४.६४ ॥
_____ काशिकावृत्तिः७,४.६४:
कृषेः छन्दसि विषये यङि परतः अभ्यासस्य चुः न भवति ।
करिकृष्यते यज्ञकुणपः ।
छन्दसि इति किम् ? चरीकृष्यते कृषीवलः ॥
[॰८७३]
दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदत्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्ति इति च ॥ ७,४.६५ ॥
_____ काशिकावृत्तिः७,४.६५:
दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतिकते अलर्षि आपनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदत्भरिभ्रत्दविध्वतः दविद्युतत्तरित्रतः सरिसृपतं वरीवृजत्मर्मृज्य आगनीगन्ति इत्येतानि अष्टादश छन्दसि विषये निपात्यन्ते ।
दाधर्ति दर्धर्ति दर्धर्षि इति धारयतेः, धृङो वा श्लौ यङ्लुकि वा अभ्यासस्य दीर्घत्वं णिलोपश्च ।
दाधर्ति ।
एवं दर्धर्ति ।
श्लौ रुकभ्यासस्य निपात्यते ।
तथा दर्धर्षि इति ।
अत्र च यल्लक्षणेन अनुपपन्नं तत्सर्वं निपातनात्सिद्धम् ।
बोभूतु इति भवतेः यङ्लुगन्तस्य लोटि गुणाभावो निपात्यते ।
नैतदस्ति प्रयोजनम्, अत्र भूसुवोस्तिङि (*७,३.८८) इति गुणाभावः सिद्धः ? ज्ञापनार्थं तर्हि निपातनमेतत् ।
ज्ञापयति, अन्यत्र यङ्लुगन्तस्य गुणप्रतिषेधो न भवति इति ।
बोभोति, बोभवीति ।
तेतिक्ते तिजेः यङ्लुगन्तस्य आत्मनेपदं निपात्यते ।
यङो ङित्त्वात्प्रत्ययलक्षणेन आत्मनेपदं सिद्धमेव ? ज्ञापनार्थं तु आत्मनेपदनिपातनम्, अन्यत्र यङ्लुगन्तादात्मनेपदं न भवति ।
अलर्षि इति इयर्तेः लटि सिपि अभ्यासस्य हलादिः शेषापवादो रेफस्य लत्वं निपात्यते ।
सिपा निर्देशोऽतन्त्रम्, तिप्यपि दृश्यते अलर्ति दक्षः ।
आपनीफणतिति फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतरि अभ्यासस्य नीक्निपात्यते ।
संसनिष्यदतिति स्यन्देः संपूर्वस्य यङ्लुक्, शतर्येव अभ्यासस्य निक्, धातुसकारस्य षत्वं निपात्यते ।
न चास्य सम्पूर्वता तन्त्रम्, अन्यत्र अपि हि दृश्यते, आसनिष्यदतिति ।
करिक्रतिति करोतेः यङ्लुगन्तस्य शतरि चुत्वभ्यावः, अभ्यासककारस्य रिगागमो निपात्यते ।
कनिक्रदतिति क्रन्देः लुङि च्लेः अङादेशः, द्विर्वचनमभ्यासस्य, चुत्वाभावः, निगागमश्च निपात्यते ।
तथा चास्य हि विवरणं कृतम् ।
अक्रन्दीतिति भाषायाम् ।
भरिभ्रतिति बिभर्तेः यङ्लुगन्तस्य शतरि भृञामित्(*७,४.७६) इति इत्वाभावो जश्त्वाभावोऽभ्यासस्य रिगागमः निपात्यते ।
दविध्वतः इति ध्वरतेः यङ्लुगन्तस्य शतरि जसि रूपमेतत् ।
अत्र अभ्यासस्य विगागमः ऋकारलोपश्च निपात्यते ।
दविध्वतो रश्मयः सूर्यस्य ।
[॰८७४]
दविद्युततिति द्युतेः यङ्लुगन्तस्य शतरि अभ्यासस्य अम्प्रसारणाभावः अत्त्वम्, विगागमश्च निपात्यते ।
तरित्रतः इति तरतेः शतरि श्लौ षष्ठ्येकवचने अभ्यासस्य रिगागमः निपात्यते ।
सरीसृपतमिति सृपेः शतरि श्लौ द्वितीयैकवचने अभ्यासस्य रीगागमः निपात्यते ।
वरीवृजतिति वृजेः शतरि श्लौ रीगागमः निपात्यते अभ्यासस्य ।
मर्मृज्य इति मृजेः लिटि णलि अभ्यासस्य रुगागमः धातोश्च युगागमो निपात्यते ।
ततो मृजेर्वृद्धिः (*७,२.११४) न भवति, अलघूपधत्वात् ।
लघूपधगुणे प्राप्ते वृद्धिरारभ्यते ।
आगनीगन्ति इति आङ्पूर्वस्य गमेर्लति श्लौ अभ्यासस्य चुत्वाभावः नीगागमश्च निपात्यते ।
वक्ष्यन्ती वेदागनीगन्ति कर्णम् ।
इतिकरणमेवं प्रकारणामन्येषामप्युपसङ्ग्रहार्थम् ॥
उरत् ॥ ७,४.६६ ॥
_____ काशिकावृत्तिः७,४.६६:
ऋवर्णान्तस्य अभ्यासस्य अकारादेशो भवति ।
ववृते ।
ववृधे ।
शशृधे ।
नर्नर्ति, नरिनर्ति, नरीनर्ति इत्येवमादौ अभ्यासविकारेषु अपवादो न+उत्सर्गान् विधीन् बाधते इति उः अदत्वे कृते रुगादय आगमाः क्रियन्ते ॥
द्युतिस्वाप्योः सम्प्रसारणम् ॥ ७,४.६७ ॥
_____ काशिकावृत्तिः७,४.६७:
द्युति स्वापि इत्येतयोः अभ्यासस्य सम्प्रसारणं भवति ।
विदिद्युते ।
व्यदिद्युतत् ।
विदिद्योतिषते ।
विदिद्युतिषते ।
विदेद्युत्यते ।
स्वापेः सुष्वापयिषति ।
स्वापिः ण्यन्तो गृह्यते, तस्य अभ्यासनिमित्तेन प्रत्ययेन आनन्तर्ये सति सम्प्रसारनमिष्यते ।
इह न भवति, स्वापयतेर्ण्वुल्स्वापकः, तस्मात्क्यचि स्वापकीयति, स्वापकीयते, सन् सिष्वापकीयिष्ति ॥
व्यथो लिटि ॥ ७,४.६८ ॥
_____ काशिकावृत्तिः७,४.६८:
व्यर्थेर्लिटि परतोऽभ्यासस्य सम्प्रसारणं भवति ।
विव्यथे, विव्यथाते, विव्यथिरे ।
हलादिः शेषेण यकारस्य निवृत्तौ प्राप्तायां सम्प्रसारणं क्रियते, वकारस्य न संप्रसारने संप्रसारणम् (*६,१.३७) इति प्रतिषिद्यते ।
लिटि इति किम् ? वाव्यथ्यते ॥
[॰८७५]
दीर्घ इणः किति ॥ ७,४.६९ ॥
_____ काशिकावृत्तिः७,४.६९:
इणोऽङ्गस्य योऽभ्यासः तस्य दीर्घो भवति किति लिटि परतः ।
ईयतुः, ईयुः ।
इणो यण्(*६,४.८१) इति यणादेशे कृते स्थानिवद्भावाद्द्विर्वचनम् ।
किति इति किम् ? इयाय ।
इययिथ ॥
अत आदेः ॥ ७,४.७० ॥
_____ काशिकावृत्तिः७,४.७०:
अभ्यासस्य आदेः अकारस्य दीर्घो भवति लिटि परतः ।
अतो गुणे पररूपत्वस्य अपवादः ।
आट, आटतुः, आटुः ।
आदेः इति किम् ? पपाच ।
पपाठ ॥
तस्मान्नुड्द्विहलः ॥ ७,४.७१ ॥
_____ काशिकावृत्तिः७,४.७१:
तस्मादतोऽभ्यासाद्दीर्घीभूतादुत्तरस्य द्विहलोऽङ्गस्य नुडागमो भवति ।
आनङ्ग, आनङ्गतुः, आनङ्गुः ।
अनञ्ज, आनञ्जतुः, आनञ्जुः ।
द्विहलः इति किम् ? आट, आटतुः, आटुः ।
ऋकारैकदेशो रेफो हल्ग्रहणेन गृह्यते, तेन+इह अपि द्विहलोऽङ्गस्य नुडागमो भवति, आनृधतुः, आनृधुः ॥
अश्नोतेश्च ॥ ७,४.७२ ॥
_____ काशिकावृत्तिः७,४.७२:
अश्नोतेश्च दीर्घीभूतादभ्यासादुत्तरस्य नुडागमो भवति ।
व्यानशे, व्यानशाते, व्यानशिरे ।
अश्नोतेः इति विकरणनिर्देशः अश्नातेर्मा भूतिति ।
आश, आशतुः, आशुः ॥
भवतेरः ॥ ७,४.७३ ॥
_____ काशिकावृत्तिः७,४.७३:
भवतेरभ्यासस्य अकारादेशो भवति लिटि परतः ।
बभूव, बभूवतुः, बभूवुः ।
भवतेः इति कृतविकरननिर्देशादिह न भवति, अनुबभूवे कम्बलो देवदत्तेन ।
लिटि इत्येव, बुभूषति ।
बोभूयते ॥
ससूवेति निगमे ॥ ७,४.७४ ॥
_____ काशिकावृत्तिः७,४.७४:
ससूव इति निपात्यते ।
सूतेर्लिटि परस्मैपदं वुगागमः अभ्यासस्य च अत्वं निपात्यते ।
ससूव स्थाविरं विपश्चिताम् ।
सुषुवे इति भाषायाम् ॥
[॰८७६]
णिजां त्रयाणां गुणः श्लौ ॥ ७,४.७५ ॥
_____ काशिकावृत्तिः७,४.७५:
निजादीनां त्रयाणामभ्यासस्य गुणो भवति श्लौ सति ।
णिजिर् नेनेक्ति ।
विजिर् वेवेक्ति ।
विष्लृ वेवेष्टि ।
त्रिग्रहणमुत्तरार्थम्, एषां हि वृत्करणं समाप्त्यर्थं पठ्यते एव इति ।
श्लौ इति किम् ? निनेज ॥
भृञामित् ॥ ७,४.७६ ॥
_____ काशिकावृत्तिः७,४.७६:
भृञादीनां त्रयाणामभ्यासस्य इकारादेशो भवति शलौ सति ।
भृञ् बिभर्ति ।
माङ् मिमीते ।
ओहाङ् जिहीते ।
त्रयाणामित्येव, जहाति ।
श्लौ इत्येव, बभार ॥
अर्तिपिपर्त्योश्च ॥ ७,४.७७ ॥
_____ काशिकावृत्तिः७,४.७७:
अर्ति पिपर्ति इत्येतयोः अभ्यासस्य इकारादेशो भवति श्लौ ।
इयर्ति भूमम् ।
पिपर्ति सोमम् ॥
बहुलं छन्दसि ॥ ७,४.७८ ॥
_____ काशिकावृत्तिः७,४.७८:
छन्दसि विषये अभ्यासस्य श्लौ बहुलमिकारादेशो भवति ।
पुर्णां विवष्टि ।
वशेरेतद्रूपम् ।
तथा वचेः जनिमा विवक्ति ।
सचेः वत्सं न माता सिषक्ति ।
जघर्ति सोमम् ।
न च भवति ।
ददाति इत्येवं ब्रूयात् ।
जजनदिन्द्रम् ।
माता यद्वीरं दधनद्धनिष्ठा ॥
सन्यतः ॥ ७,४.७९ ॥
_____ काशिकावृत्तिः७,४.७९:
सनि परतोऽकारान्ताभ्यासस्य इकारादेशो भवति ।
पिपक्षति ।
यियक्षति ।
तिष्ठासति ।
पिपासति ।
सनि इति किम् ? पपाच ।
अतः इति किम् ? लुलूषति ।
तपरकरणं किम् ? पापचिषते ॥
ओः पुयण्ज्यपरे ॥ ७,४.८० ॥
_____ काशिकावृत्तिः७,४.८०:
सनि इति वर्तते, इतिति च ।
उवर्णान्ताभ्यासस्य पवर्गे यणि जकारे च अवर्णपरे परतः इकारादेशो भवति सनि प्रत्यये परतः ।
पवर्गे अपरे पिपविषते ।
पिपावयिषति ।
बिभावयिषति ।
यण्यपरे यियविषति ।
यियावयिषति ।
रिरावयिषति ।
लिलावयिषति ।
[॰८७७]
ज्यपरे जु इति सौत्रोऽयं धातुः ।
जिजावयिषति ।
एतदेव पुयण्ज्यपरे इति वचनं ज्ञापकम्, अद्विर्वचननिमित्तेऽपि णौ स्थानिवद्भवति इति ।
ओः इति किम् ? पापच्यतेः सन् पापचिषते ।
पुयण्जि इति किम् ? अवतुतावयिषति ।
जुहावयिषति ।
अपरे ।
इति किम् ? बुभूषति ॥
स्त्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ॥ ७,४.८१ ॥
_____ काशिकावृत्तिः७,४.८१:
स्रवति शृणोति द्रवति प्रवति प्लवति च्यवति इत्येतेषामभ्यासस्य ओः अवर्नपरे यणि वा इकारादेशो भवति सनि परतः ।
सिस्रावयिषति, सुस्रावयिषति ।
शृणोति शिश्रावयिषति, शुश्रावयिषति ।
द्रवति दिद्रावयिषति, दुद्रावयिषति ।
प्रवति पिप्रावयिषति, पुप्रावयिषति ।
प्लवति पिप्लावयिषति, पुप्लावयिषति ।
च्यवति चिच्यावयिषति, चुच्यावयिषति ।
वचनसामर्थ्यादेकेन वर्णेन यणो व्यवधानमाश्रीयते ।
पूर्वसूत्रेन तु अनन्तर एव यणि भवितव्यमिति अप्राप्तबिभाषेयम् ।
अपरे इत्येव, सुस्रूषति ।
शुश्रूषते ॥
गुणो यङ्लुकोः ॥ ७,४.८२ ॥
_____ काशिकावृत्तिः७,४.८२:
यङि यङ्लुकि च इगन्तस्य अभ्यासस्य गुणो भवति ।
चेचीयते ।
लोलूयते ।
यङ्लुकि जोहवीति ।
यगो वा इति इड्विकल्पः ।
चोक्रुशीति ॥
दीर्घोऽकितः ॥ ७,४.८३ ॥
_____ काशिकावृत्तिः७,४.८३:
अकितोऽभ्यासस्य दीर्घो भवति यगि यङ्लुकि च ।
पापच्यते ।
पापचीति ।
याय्ज्यते ।
यायजीति ।
अकितः इति किम् ? यंयम्यते ।
यंयमीति ।
रंरम्यते ।
रंरमीति ।
ननु चात्र अपवादत्वान्नुकि कृते अभ्यासस्य अनजन्तत्वादेव दीर्घत्वं न भविष्यति ? एवं तर्हि अकितः इत्यनेन एतज्ज्ञाप्यते, अभ्यासविकारेष्वपवादा न+उत्सर्गान् विधीन् बाधन्ते इति ।
किमेतस्य ज्ञापने प्रयोजनम् ? डोढौक्यते इत्यत्र दीर्घोऽकितः इत्यनेन सन्ध्यक्षरह्रस्वो न बाध्यते, अचीकरतित्यत्र दीर्घो लघोः (*७,४.९४) इत्यनेन सन्वदित्वं न बाध्यते, मान्प्रभृतीनां दीर्घेण सनीत्वं न बाध्यते मीमांसते, ई च गणः (*७,४.९७) इतीत्वेन हलादिशेषो न बाध्यते अजीगणत् ॥
नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ॥ ७,४.८४ ॥
_____ काशिकावृत्तिः७,४.८४:
वञ्चु स्रंसु ध्वंसु भ्रंसु कस पत पद स्कन्द इत्येतेषामभ्यासस्य नीगागमो भवति यङि यङ्लुकि च ।
वञ्चु वनीवच्यते ।
वनीवञ्चीति ।
स्रंसु सनीस्रस्यते ।
सनीस्रंसीति ।
ध्वंसु दनीध्वस्यते ।
दनीध्वंसीति ।
भ्रंसु बनीभ्रस्यते ।
बनीभ्रंसीति ।
कस चनीइकस्यते ।
चनीकसीति ।
पत पनीपत्यते ।
पनीपतीति ।
पद पनीपद्यते ।
पनीपदीति ।
स्कन्द चनीस्कद्यते ।
चनीस्कन्दीति ॥
[॰८७८]
नुगतोऽनुनासिकान्तस्य ॥ ७,४.८५ ॥
_____ काशिकावृत्तिः७,४.८५:
अनुनासिकान्तस्य अङ्गस्य योऽभ्यासः तस्य अकारान्तस्य नुगागमो भवति यङ्यङ्लुकोः परतः ।
तन्तन्यते ।
तन्तनीति ।
जङ्गम्यते ।
जङ्गमीति ।
यंयम्यते ।
यंयमीति ।
रंरम्यते ।
रंरमीति ।
नुकित्येतदनुस्वारोपलक्षणार्थं द्रष्टव्यम् ।
स्थानिना हि आदेशो लक्ष्यते ।
तेन यंयम्यते इत्येवमादौ अझल्परत्वेऽपि अनुस्वारो भवति ।
पदान्तवच्चेति वक्तव्यम् ।
वा पदान्तस्य (*८,४.५९) इति परसवर्नविकल्पो यथा स्यातिति ।
अतः इति किम् ? तेतिम्यते ।
तपरकरणं तु भूतपूर्वस्य अपि दीर्घस्य निवृत्त्यर्थम्, बाभम्यते ।
अनुनासिकान्तस्य इति किम् ? पापच्यते ॥
जपजभदहदशभञ्जपशां च ॥ ७,४.८६ ॥
_____ काशिकावृत्तिः७,४.८६:
जप जभ दह दश भञ्ज पश इत्येतेषामभ्यासस्य नुगागमो भवति यङ्यङ्लुकोः परतः ।
जञ्जप्यते जञ्जपीति ।
जभ जञ्जभ्यते ।
जञ्जभीति ।
दह दन्दह्यते ।
दन्दहीति ।
दश दन्दश्यते ।
दन्दशीति दश इति दंशिः अयं नकारलोपार्थमेव निर्दिष्टः ।
तेन यङ्लुक्यपि नकारलोपो भवति ।
भञ्ज बम्भज्यते ।
बम्भञ्जीति ।
पश इति सौत्रो धातुः पम्पश्यते ।
पम्पशीति ॥
चरफलोश्च ॥ ७,४.८७ ॥
_____ काशिकावृत्तिः७,४.८७:
चर फल इत्येतयोः अभ्यासस्य नुगागमो भवति यङ्यङ्लुकोः परतः ।
पञ्चूर्यते ।
पञ्चूरीति ।
पम्फुल्यते ।
पम्फुलीति ॥
उत्परस्य अतः ॥ ७,४.८८ ॥
_____ काशिकावृत्तिः७,४.८८:
चरफलोः अभ्यासात्परस्य अतः उकारादेशो भवति यङ्यङ्लुकोः परतः ।
चञ्चूर्यते ।
चञ्चूरीति ।
पम्फुल्यते ।
पम्फुलीति ।
परस्य इति किम् ? अभ्यासस्य मा भूत् ।
अतः इति किम् ? अलोऽन्त्यस्य मा भूत् ।
उदिति तपरकरणं चञ्चूर्ति, पम्फुलीति इत्यत्र लघूपधगुणनिवृत्त्यर्थम् ।
दीर्घस्य असिद्धत्वातिह लभुत्वं न निवर्तते ॥
[॰८७९]
ति च ॥ ७,४.८९ ॥
_____ काशिकावृत्तिः७,४.८९:
तकारादौ प्रत्यये परतः चरफलोः अकारस्य उकारादेशो भवति चरणं चूर्तिः ।
ब्रह्मणः चूर्तिः ।
प्रफुल्तिः ।
प्रफुल्ताः सुमनसः ।
यङ्यङ्लुकोः, अभ्यासस्य इति च अनुवर्तमानमपि वचनसामर्थ्यादिह न अभिसम्बध्यते ॥
रीगृदुपधस्य च ॥ ७,४.९० ॥
_____ काशिकावृत्तिः७,४.९०:
ऋदुपधस्य अङ्गस्य योऽभ्यासः तस्य रीगागमो भवति यङ्यङ्लुकोः परतः ।
वरीवृत्यते ।
वरीवृतीति ।
वरीवृध्यते ।
वरीवृधीति ।
नरीनृत्यते ।
नरीनृतीति ।
रीगृत्वत इति वक्तव्यम् ।
इह अपि यथा स्यात्, वरीवृश्च्यते ।
वरीवृश्चीति ।
परीपृच्छ्यते ।
परीपृच्छीति ॥
रुग्रिकौ च लुकि ॥ ७,४.९१ ॥
_____ काशिकावृत्तिः७,४.९१:
यङ्लुकि ऋदुपधस्य अङ्गस्य योऽभ्यासस्तस्य रुग्रिकौ आगमौ भवतः, चकाराद्रीक्च ।
नर्नर्ति, नरिनर्ति, नरीनर्ति ।
वर्वर्ति, वरिवर्ति, वरीवर्ति ।
उकारः उच्चारणार्थः ।
मर्मृज्यमानास इत्युपसङ्ख्यानम् ।
मर्मृज्यते ।
मर्मृज्यमानासः ॥
ऋतश्च ॥ ७,४.९२ ॥
_____ काशिकावृत्तिः७,४.९२:
ऋकारान्तस्य अङ्गस्य योऽभ्यासः तस्य रुग्रिकौ आगमौ भवतः रीक्च यङ्लुकि ।
चर्कर्ति, चरिकर्ति, चरीकर्ति ।
जर्हर्ति ।
जरिहर्ति ।
जरीहर्ति ।
तपरकरनं किम् ? किरतेश्चाकर्ति ।
किरतिं चर्करीतान्तं पचति इत्यत्र यो नयेत् ।
प्राप्तिज्ञं तमहं मन्ये प्रारब्धस्तेन सङ्ग्रहः ॥
तत्रेयं प्राप्तिः तपरकरनसामर्थ्यादङ्गविशेषणमृतः इत्येतत्, तया चाप्राप्तिः किरतेरुगादीनामिति ॥
सन्वल्लघुनि चङ्परेऽनग्लोपे ॥ ७,४.९३ ॥
_____ काशिकावृत्तिः७,४.९३:
लघुनि धात्वक्षरे परतो योऽभ्यासः तस्य चङ्परे णौ परतः सनीव कार्यं भवति अनग्लोपे ।
सन्यतः (*७,४.७९) इत्युक्तम्, चङ्परेऽपि तथा ।
[॰८८०]
अचीकरत् ।
अपीपचत् ।
ओः पुयण्ज्यपरे (*७,४.८०) इत्युक्तम्, चङ्परेऽपि तथा ।
अपीपवत् ।
अलीलवत् ।
अजीजवत् ।
स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा (*७,४.८१) इत्युक्तम्, चङ्परेऽपि तथा ।
असिस्रवत्, असुस्रवत् ।
अशिश्रवत्, अशुश्रवत् ।
अदिद्रवत्, अदुद्रवत् ।
अपिप्रवत्, अपुप्रवत् ।
अपिप्लवत्, अपुप्लवत् ।
अचिच्यवत्, अचुच्यवत् ।
लुघुनि इति किम् ? अततक्षत् ।
अररक्षत् ।
जागरयतेः अजजागरत् ।
अत्र केचिद्गशब्दं लभुमाश्रित्य सन्बद्भावमिच्छन्ति, सर्वत्रैव लघोरानन्तर्यमभ्यासेन न अस्ति इति व्यवधानेऽपि वचनप्रामाण्याद्भवितव्यम्, तदसत् ।
येन न अव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातित्येकेन व्यवधानमाश्रीयते, न पुनरनेकेन ।
यद्येवम्, कथमचिक्षणतिति ? आचार्यप्रवृत्तिर्ज्ञापयति भवत्येवं जातीयकानामित्त्वमिति ।
यदयं तद्बाधनार्थं सम्रत्यादीनामत्वं विदधाति ।
चङ्परे इति किम् ? अहं पपच ।
परग्रहणं किम् ? चङि एव केवले मा भूत्, अचकमत ।
अनग्लोपे इति किम् ? अचकथत् ।
दृषदमाख्यातवानददृषत् ।
वादितवन्तं प्रयोजितवानवीवदतित्यत्र योऽसौ णौ णेर्लोपो नासावग्लोप इत्याश्रीयते ।
किं कारणम् ? चङ्परे इति णिजातेर्निमित्तत्वेन आक्षेपात्, ततोऽन्यस्य अको लोपः परिगृह्यते ।
मीमादीनामत्र ग्रहणात्सन्वद्भावेन अभ्यासलोपो न भवति इत्युक्तम् ।
किं च सन्वतिति सनाश्रयं कार्यमतिदिश्यते, न च लोपः सनमेव अपेक्षते, किं तर्हि, इस्भावाद्यपि ।
तदभावातमीमपतित्यादौ अभ्यासलोपो न भविष्यति ॥
दीर्घो लघोः ॥ ७,४.९४ ॥
_____ काशिकावृत्तिः७,४.९४:
दीर्घा भवति लघोः अभ्यासस्य लघुनि णौ चङ्परे अनग्लोपे ।
अचीकरत् ।
अजीहरत् ।
अलीलवत् ।
अपीपचत् ।
लघोः इति किम् ? अबिभ्रजत् ।
लघुनि इत्येव, अततक्षत् ।
अररक्षत् ।
चङि इत्यव, अहं पपच ।
परे इत्येव, अचकमत ।
अनग्लोपे इत्येव, अचकथत् ॥
अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् ॥ ७,४.९५ ॥
_____ काशिकावृत्तिः७,४.९५:
स्मृ दॄ त्वर प्रथ म्रद स्तॄ स्पश इत्येतेषामभ्यासस्य अतित्ययमादेशो भवति चङ्परे णौ परतः ।
स्मृ असस्मरत् ।
दॄ अददरत् ।
त्वर अतत्वरत् ।
प्रथ अपप्रथत् ।
म्रद अमम्रदत् ।
स्तॄ अतस्तरत् ।
स्पश अपस्पशत् ।
सन्वद्भावातित्वं प्राप्तमनेन बाध्यते ।
तपरकरणसामर्थ्यातति कृते दीर्घो लघोः (*७,४.९४) इत्येतदपि न भवति, अददरत् ॥
विभाषा वेष्टिचेष्ट्योः ॥ ७,४.९६ ॥
_____ काशिकावृत्तिः७,४.९६:
वेष्टि चेष्टि इत्येतयोः अभ्यासस्य विभाषा अतित्ययमादेशो भवति चङ्परे णौ परतः ।
अववेष्टत्, अविवेष्टत् ।
अचचेष्टत्, अचिचेष्टत् ।
अभ्यासह्रस्वत्वे कृते अत्त्वं पक्षे भवति ॥
[॰८८१]
ई च गणः ॥ ७,४.९७ ॥
_____ काशिकावृत्तिः७,४.९७:
गणेः अभ्यासस्य ईकारादेशो भवति चङ्परे णौ परतः, चकारातत्च ।
अजीगणत्, अजगणत् ॥
इति श्रीवामनविरचितायां काशिकायां वृत्तौ सप्तमाध्यायस्य चतुर्थः पादः ।