काशिकावृत्तिः/द्वितीयोध्यायः
← प्रथमोध्याय: | काशिकावृत्तिः द्वितीयोध्यायः [[लेखकः :|]] |
तृतीयोध्याय: → |
द्वित्तियोऽध्ययः प्रथमः पादः
____________________________________________________________________
[#९९]
- <समर्थः पदविधिः># । । पाणिनीयसूत्र २,१.१ । ।
_____काशिका २,१.१ः
परिभाषेयं ।
यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स समर्थो विदितव्यः ।
विधीयते इति विधिः ।
पदानां विधिः पदविधिः ।
स पुनः समासादिः ।
समर्थः शक्तः ।
विग्रहवाक्यार्थभिधाने यः शक्तः स समर्थो विधितव्यः ।
अथ वा समर्थपदाश्रयत्वात्समर्थः ।
समर्थनां पदानां सम्बद्धार्थानां संसृष्टार्थानां विधिर्वेदितव्यः ।
वक्ष्यति, द्वितीया श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्नैः (*२,१.२४) - कष्टं श्रितः कष्टश्रितः ।
समर्थ-ग्रहणं किं ? पश्य देवदत्त कष्टं, श्रितो विष्णुमित्रो गुरुकुलं ।
तृतीया तत्कृत-अर्थेन गुणवचनेन (*२,१.३०) - शङ्कुलया खण्डः शङ्कुलाखण्डः ।
समर्थ-ग्रहणं किं ? किं त्वं करिष्यसि शङ्कुलया, खण्डो देवदत्त उपलेन ।
चतुर्थी तदर्थ-अर्थ-वलि-हित-सुख-रक्षितैः (*२,१.३६) - यूपाय दारु यूपदारु ।
समर्थ-ग्रहणं किं ? गच्छ त्वं यूपाय, दारु देवदत्तस्य ग्रेहे ।
पञ्चमी भयेन (*२,१.३७) - वृकेभ्यो भयं वृकभयं ।
समर्थ-ग्रहणं किं ? गच्छ त्वं मा वृकेभ्यो, भयं देवदत्तस्य यज्ञदत्ताथ् ।
षष्ठी (*२,२.८) - राज्ञः पुरुषः राजपुरुषः ।
समर्थ-ग्रहणं किं ? भार्या राज्ञः, पुरुषो देवदत्तस्य ।
सप्तमी शौण्डैः (*२,१.४०) - अक्षेषु शौण्डः अक्षशौण्डः ।
समर्थ-ग्रहणं किं ? शक्तस्त्वं अक्षेषु, शौण्डः पिबति पानागारे ।
पद-ग्रहणं किं ? वर्णविधौ समर्थपरिभाशा मा भूथ् ।
तिष्ठतु दध्यशान त्वं शाकेन ।
तिष्ठतु कुमारी च्छत्रं हरदेवदत्ताथ् ।
यणादेशो, नित्यश्च तुग्भवति । ।
____________________________________________________________________
- <सुबामन्त्रिते पर-अङ्गवत्स्वरे># । । पाणिनीयसूत्र २,१.२ । ।
_____काशिका २,१.२ः
सुबन्तं आमन्त्रिते परतः परस्य अङ्गवद्भवति, स्वरे स्वर-लक्षणे कर्तव्ये ।
तादात्म्यातिदेशोऽयं ।
सुबन्तं आमन्त्रितं अनुप्र्विशाति ।
वक्ष्यति - आमन्त्रितस्य च (*६,१.१९८) ।
आमन्त्रितस्यादिरुदात्तो भवति ।
ससुप्कस्य अपि यथा स्याथ् ।
कुण्डेनाटन् ।
परशुना वृश्चन् ।
मद्राणां राजन् ।
कश्मीराणां राजन् ।
सुपिति किं ? पीड्ये पीद्यमान ।
आमन्त्रिते इति किं ? गेहे गार्ग्यः ।
पर-ग्रहणं किं ? पूर्वस्य मा भूथ् ।
देवदत्त, कुण्डेनाटन् ।
अङ्ग-ग्रहणं किं ? यथा मृत्पिण्डीभूतः स्वरं लभेत ।
उभयोराद्यौत्तत्वं मा भूथ् ।
वत्करणं किं ? स्वाश्रयं अपि यथा स्याथ् ।
[#१००]
आं कुण्डेनाटन् ।
आम एक-अन्तरं आमन्त्रितं अनन्तिके (*८,१.५५) इत्येकान्तरता भवति ।
स्वरे इति किं ? कूपे सिञ्चन् ।
चर्म नमन् ।
षत्वणत्वे प्रति पराङ्ग्वद्न भवति ।
सुब्-अन्तस्य पर-अङ्गवद्भावे समानाधिकरणस्य+उपसङ्ख्यानं अनन्तरत्वथ् ।
तीक्ष्णया सुच्या सीव्यन् ।
तीक्ष्णेन प्रशुना वृश्चन् ।
अव्ययानां प्रतिषेधो वक्तव्यः ।
उच्चैरधीयानः ।
नीचैरधीयानः । ।
____________________________________________________________________
- <प्राक्कडारात्समासः># । । पाणिनीयसूत्र २,१.३ । ।
_____काशिका २,१.३ः
कडार-संशब्दनात्प्राग्यानित उर्ध्वं अनुक्रमिष्यामः, ते समाससञ्ज्ञा वेदितव्याः ।
वक्ष्यति - यथाऽसादृश्ये (*२,१.७) ।
यथा वृद्धं ब्राह्मणानामन्त्रयस्व ।
प्राग्-वचनं सञ्ज्ञा-समावेश-अर्थं ।
समास-प्रदेशाः - तृतीयासमासे (*१,१.३०) इत्येवं आदयः । ।
____________________________________________________________________
- <सह सुपा># । । पाणिनीयसूत्र २,१.४ । ।
_____काशिका २,१.४ः
सुपिति वर्तते ।
सुपिति सह इति सुपा इति च त्रयं अपि अधिकृतं वेदितव्यं ।
यदित ऊर्ध्वं अनुक्रमिष्यामः, तत्र+इदं उपस्थितं द्रष्टव्यं ।
वक्ष्यति - द्वितीया श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्नैः (*२,१.२४) इति ।
द्वितीय-अन्तं श्रितादिभिः सह समस्यते, कष्टं श्रितः कष्टश्रितः ।
सह-ग्रहणं योगविभाग-अर्थम्, तिङापि सह यथा स्याथ् ।
अनुव्यचलथ् ।
अनुप्रावर्षत् । ।
____________________________________________________________________
- <अव्ययीभवः># । । पाणिनीयसूत्र २,१.५ । ।
_____काशिका २,१.५ः
अव्ययीभावः इत्यधिकारो वेदितव्यः ।
यानित ऊर्ध्वं अनुक्रमिष्यामः, अव्ययीभाव-सञ्ज्ञा अस्ते वेदितव्याः ।
वक्ष्यति - यथाऽसादृश्ये (*२,१.७) ।
यथा-वृद्धं ब्राह्मणानामन्त्रयस्व ।
अन्वर्थ-सञ्ज्ञा चेयं महती पूर्वपदार्थ-प्राधान्यं अव्ययीभावस्य दर्शयति ।
अव्ययीभाव-प्रदेशाः - अव्ययीभावश्च (*२,४.१८) इत्येवं आदयः । ।
____________________________________________________________________
[#१०१]
- <अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्ध्य्-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तव्चनेषु># । । पाणिनीयसूत्र २,१.६ । ।
_____काशिका २,१.६ः
सुप्सुपा इति च वर्तते ।
विभक्त्यादिश्वर्थेषु यदव्ययं वर्तते तत्समर्थेन सुब्-अन्तेन सह समस्यते, अव्ययीभावश्च समासो भवति ।
वचन-ग्रहणं प्रत्येकं सम्बध्यते ।
विभक्तिवचने तावत्-- स्त्रीष्वधिकृत्य कथा प्रवर्तते अधिस्त्रि ।
अधिकुमारि ।
सप्तम्य्-अर्थे यदव्ययं तद्बिभक्तिवचनं ।
समीपवचने -- कुम्भस्य समीपं उपकुम्भं ।
उपमणिकं ।
समृद्धिरृद्धेराधिक्यं -- समृद्धिर्मद्राणां सुमद्रं ।
सुमगधं वर्तते ।
व्यृद्धिरृद्धेरभावः -- गवदिकानां ऋद्धेरभावः दुर्गवदिकं ।
दुर्यबनं वर्तते ।
अर्थ-अभावः वस्तुनोऽभावः -- अभावो मक्षिकाणां निर्मक्षिकं ।
निर्मशकं वर्तते ।
अत्ययः अभूतत्वम्, अतिक्रमः -- अतीतानि हिमानि अतिहिमं ।
निर्हिमं ।
निःशीतं वर्तते ।
असम्प्रति उपभोगस्य वर्तमानकाल-प्रतिषेधः -- अतितसृकं ।
तैसृकमाच्छादनम्, तस्य अयं उपभोगकालो न भवति इत्यर्थः ।
शब्दप्रादुर्भावः प्रकाशता शब्दस्य - इति पाणिनि ।
तत्-पाणिनि ।
पाणिनि-शब्दो लोके प्रकाशते इत्यर्थः ।
पश्चात्-- अनुरथं पादातं ।
रथानां पश्चातित्यर्थः ।
यथा ।
यथा-अर्थे यदव्ययं वर्तते तत्समस्यते ।
योग्यता विप्सा पदार्थानतिवृत्तिः सादृश्यं च इति यथार्थाः ।
योग्यतायां -- अनुरूपं ।
रूपयोग्यं भवति इत्यर्थः ।
वीप्सायां -- अर्थमर्थं प्रति प्रत्यर्थं ।
[#१०२]
पदार्थनतिवृत्तौ -- यथाशक्ति ।
आनुपूर्व्यमनुक्रमः -- अनुज्येष्ठं प्रविशन्तु भवन्तिअः ।
ज्येष्ठानुपूर्व्या भवन्तः प्रविशन्तु इत्यर्थः ।
यौगपद्यं एककालता -- सचक्रं धेहि ।
युगपच्चक्रं धेहि इत्यर्थः ।
सादृश्यं तुल्यता ।
किम्-अर्थं इदं उच्यते, यथार्थ इत्येव सिद्धं ? गुणभूतेऽपि सादृश्ये यथा स्यात्, सदृशः किख्या राकिखि ।
सम्पत्तिः अनुरूप आत्मभावः समृद्धेरन्यः -- सब्रह्म बाभ्रवाणां ।
सक्षत्रं शालङ्कायनानां ।
साक्ल्यं अशेषता -- सतृणं अभ्यावहरति ।
सबुसं ।
न किंचिदभ्यावहार्यं परित्यजति इत्ययमर्थोऽधिकार्थवचनेन प्रतिपाद्यते ।
अन्तवचने -- अन्तः इति परिग्रह-अपेक्षया समाप्तिरुच्यते ।
साग्नि अधीते ।
सेष्टि सपशुबन्धं ।
सपशुबन्धान्तमधीते इत्यर्थः ।
इयं समाप्तिरसकलेऽप्यध्ययने भवति इति साकल्यात्पृथगुच्यते । ।
____________________________________________________________________
- <यथाऽसादृश्ये># । । पाणिनीयसूत्र २,१.७ । ।
_____काशिका २,१.७ः
यथा इत्येतदव्ययं असादृश्ये वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति ।
यथावृद्धं ब्राह्मणानामन्त्रयस्व ।
ये ये वृद्धाः यथावृद्धं ।
यथाध्यापकं ।
असादृश्ये इति किं ? यथा देवदत्तः तथा यज्ञदत्तः ।
यथार्थे यदव्ययं इति पूर्वेण+एव सिद्धे समासे वचनं इदं सादृश्य-प्रतिषेध-अर्थं । ।
____________________________________________________________________
- <यावदवधारणे># । । पाणिनीयसूत्र २,१.८ । ।
_____काशिका २,१.८ः
यावतित्येतदव्ययं अवधारणे वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति ।
अवधारणं इयत्तापरिद्धेदः ।
यावदमत्रं ब्राह्मणानामन्त्रयस्व ।
यावन्त्यमत्राणि सम्भवन्ति पञ्च षट्वा तावत आमन्त्रयस्व ।
अवधारणे इति किं ? यावदृत्तं तावद्भुक्तं ।
न अवधारयामि कियन्मया भुक्तं इति । ।
____________________________________________________________________
- <सुप्प्रैत्ना मात्रा-अर्थे># । । पाणिनीयसूत्र २,१.९ । ।
_____काशिका २,१.९ः
मात्रा बिन्दुः, स्तोकम्, अल्पं इति पर्यायाः ।
मात्रा-अर्थे वर्तमानेन प्रतिना सह सुबन्तं समस्यते, अव्ययीभावश्च समासो भवति ।
अस्त्यत्र किञ्चित्शाकं शाकप्रति ।
सूपप्रति ।
मात्रा-अर्थे इति किं ? वृक्षं प्रति विधोतते विद्युथ् ।
सुपिति वर्तमाने पुनः सुब्-ग्रहणं अव्ययनिवृत्त्य्-अर्थं । ।
____________________________________________________________________
[#१०३]
- <अक्ष-शलाका-सङ्ख्याः परिणा># । । पाणिनीयसूत्र २,१.१० । ।
_____काशिका २,१.१०ः
अक्ष-शब्दः, शलाका-शब्दः, सङ्ख्या-शब्दश्च परिणा सह समस्यन्ते, अव्ययीभावश्च समासो भवति ।
कितवव्यवहारे समासोऽयं इष्यते ।
पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति ।
तत्र यदा सर्वे उत्तानाः पतन्ति अवाञ्चो वा, तदा पात्यिता ज्यति, तस्य+एव अस्य विपातोऽन्यथा पाते सति जायते ।
अक्षेण+इदं न तथा वृत्तं यथा पूर्वं जये अक्षपरि ।
शलाकापरि ।
एकपरि ।
द्विपरि ।
त्रिपरि ।
परमेण चतुष्परि ।
पञ्चसुत्वेकरूपासु जय एव भविष्यति ।
अक्षादयस्तृतीयान्ताः पूर्वोक्तस्य यथा न तथ् ।
कितवव्यवहारे च एकत्वेऽक्षशलाकयोः । ।
____________________________________________________________________
- <विभाषा># । । पाणिनीयसूत्र २,१.११ । ।
_____काशिका २,१.११ः
विभाषा इत्ययं अधिकारो वेदितव्यः ।
यदित ऊर्ध्वं अनुक्रमिष्यामः, तद्विभाषा भवति ।
____________________________________________________________________
वक्ष्यति -
- <अप-परि-बहिरञ्चवः पञ्चम्या># । । पाणिनीयसूत्र २,१.१२ । ।
_____काशिका २,१.१२ः
अपत्रिगर्तं वृष्तो देवः, अप त्रिगर्तेभ्यः । ।
अप-परि-बहिरञ्चवः पञ्चम्या (*२,१.१२) ।
अप परि बहिसञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति ।
अपत्रिगर्तं वृष्टो देवः, अप त्रिगर्तेभ्यः ।
परित्रिगर्तम्, परि त्रिगर्तेभ्यः ।
बहिर्ग्रामम्, वहिर्ग्रामाथ् ।
प्राग्ग्रामम्, प्राग्ग्रामाथ् ।
बहिः शब्दयोगे पञ्चमीभावस्य+एतदेव ज्ञापकं । ।
____________________________________________________________________
- <आङ्मर्यादा-अभिविध्योः># । । पाणिनीयसूत्र २,१.१३ । ।
_____काशिका २,१.१३ः
आङित्येतन्मर्यादायां अभिविधौ च वर्तमानं पज्चम्यन्तेन सह विभाषा संस्यते, अव्ययीभावश्च समासो भवति ।
आपाटलिपुत्रं वृष्टो देवः, आ पाटलिपुत्राथ् ।
अभिविधौ - आकुमारं यशः पाणिनेः, आ कुमारेभ्यः । ।
____________________________________________________________________
- <लक्षणेन अभिप्रती आभिमुख्ये># । । पाणिनीयसूत्र २,१.१४ । ।
_____काशिका २,१.१४ः
लक्षणं चिह्नं, तद्-वाचिना सुबन्तेन सह अभिप्रती शब्द-अवाभिमुख्ये वर्तमानौ विभाषा समस्येते, अव्ययीभावश्च समासो भवति ।
अभ्यग्नि शलभाः पतन्ति, अग्निमभि ।
प्रत्यग्नि, अग्निं प्रति ।
अग्निं लक्ष्यीकृत्य अभिमुखं पतन्ति इत्यर्थः ।
लक्षणेन इति किं ? स्रुग्घ्नं प्रतिगतः ।
प्रतिनिवृत्त्य स्रुग्घ्नं एव अभिमुखं गतः ।
अभिप्रती इति किं ? येन अग्निस्तेन गतः ।
आभिमुख्ये इति किं ? अभ्यङ्का गावः ।
प्रत्यङ्क्का गावः ।
नवाङ्का इत्यर्थः । ।
____________________________________________________________________
[#१०४]
- <अनुर्यत्-समया># । । पाणिनीयसूत्र २,१.१५ । ।
_____काशिका २,१.१५ः
समया समीपं ।
अनुर्यस्य समीप-वाची तेन लक्षण-भूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति ।
अनुवनमशनिर्गतः ।
अनुः इति किं ? वनं समया ।
यत्समया इति किं ? वृक्षमनु विद्योतते विद्युथ् ।
अव्ययं विभक्ति-समीप (*२,१.६) इत्येव सिद्धे पुनर्वचनं विभाष-अर्थं । ।
____________________________________________________________________
- <यस्य च आयामः># । । पाणिनीयसूत्र २,१.१६ । ।
_____काशिका २,१.१६ः
लक्षनेन इति वर्तते ।
आयामो दैर्घ्यं ।
अनुर्यस्यायामवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति ।
अनुगङ्गं वाराणसी ।
अनुयमौनं मथुरा ।
यमुनायामेन मथुरायामो लक्ष्यते ।
आयामः इति किं ? वृक्षमनु विध्योतते विद्युत् । ।
____________________________________________________________________
- <तिष्ठद्गु-प्रभृतीनि च># । । पाणिनीयसूत्र २,१.१७ । ।
_____काशिका २,१.१७ः
तिष्ठद्ग्व्-आदयः समुदाया एव निपात्यन्ते ।
तिष्ठद्गु-प्रभृतीनि शब्दरूपाणि अव्ययीभावस्-अञ्ज्ञानि भवन्ति ।
तिष्ठद्गु कालविशेषः ।
तिष्ठन्ति गावो यस्मिन्काले दोहनाय स तिष्ठद्गु कालः ।
खलेयवादीनि प्रथमानतानि विभक्त्यनतरेन्ण न+एव सम्बध्यन्तेऽन्यपदार्थे च काले वर्तन्ते ।
चकारोऽवधारण-अर्थः ।
अपरः समासो न भवति, परमतिष्ठद्गु इति ।
तिष्ठद्गु ।
वहद्गु ।
आयतीगवं ।
खलेबुसं ।
खलेयवं ।
लूनयवं ।
लूयमानयवं ।
पूतयवं ।
पूयमानयवं ।
संहृतयवं ।
संह्रियमाणायवं ।
संहृतबुसं ।
संह्रियमाणाबुसं ।
एते कालशब्दाः ।
समभूमि ।
समपदाति ।
सुषमं ।
विषमं ।
निष्षमं ।
दुष्षमं ।
अपरसमं ।
आयतीसमं ः
प्राह्णं ।
प्ररथं ।
प्रमऋगं ।
प्रदक्षिणं ।
अपरदक्षिणं ।
संप्रति ।
असंप्रति ।
पापसमं ।
पुण्यसमं ।
इच्कर्मव्यतिहारे (*५,४.१२७) -- दण्डादण्डि ।
मुसलामुसलि । ।
____________________________________________________________________
- <पारे मध्ये षष्ठ्या वा># । । पाणिनीयसूत्र २,१.१८ । ।
_____काशिका २,१.१८ः
षष्थीसमासे प्राप्ते तद्-अपवादोऽव्ययीभव आरभ्यते ।
वा-वचनात्षष्ठीसमासोऽपि पक्षेऽभ्यनुज्ञायते ।
पार-ंध्य-शब्दौ षष्ठ्यन्तेन सह विभाषा समस्येते, अव्ययीभावश्च समासो भवति ।
तत्-सन्नियोगेन च अनयोरेकारान्तत्वं निपात्यते ।
पारं गङ्गायाः पारेगङ्हं ।
मध्यं गङ्गायाः मध्येगङ्गं ।
षष्ठीसमास-पक्षे - गङ्गापारं ।
गङ्गामध्यं ।
महाविभाषया वाक्यविकल्पः क्रियते । ।
____________________________________________________________________
[#१०५]
- <सङ्ख्या वंश्येन># । । पाणिनीयसूत्र २,१.१९ । ।
_____काशिका २,१.१९ः
विद्यया जन्मना वा प्राणिनां एकलक्षणसन्तानो वंशः इत्यभिधीयते ।
तत्र भवो वंश्यः ।
तद्-वाचिना सुबन्तेन सह सङ्ख्या समस्यते, अव्ययीभावश्च समासो भवति ।
द्वौ मुनी व्याकरणस्य वंश्यौ द्विमुनि व्याकरनस्य ।
त्रिमुनि व्याकरणस्य ।
यदा तु विद्यय तद्वतां अभेदविवक्षा तदा सामानाधिकरण्यं भवति ।
द्विमुनि व्यकरणं ।
त्रिमुनि व्याकरणं इति ।
जन्मना - एकविंशतिभारद्वाजं । ।
____________________________________________________________________
- <नदीभिश्च># । । पाणिनीयसूत्र २,१.२० । ।
_____काशिका २,१.२०ः
सङ्ख्या इत्यनुवर्तते ।
नदीवचनैः शब्दैः सह सङ्ख्या समस्यते, अव्ययीभावश्च समासो भवति ।
समाहारे च अयं इष्यते ।
सप्तगङ्गं ।
द्वियमुनं ।
पञ्चनदं ।
सप्तगोदावरं । ।
____________________________________________________________________
- <अन्यपदर्थे च सञ्ज्ञायाम्># । । पाणिनीयसूत्र २,१.२१ । ।
_____काशिका २,१.२१ः
सङ्ख्या इति निवृत्तं ।
नदीग्रहनं अनुवर्तते ।
नदीभिः सह सुबन्तं अन्यपदार्थे वर्तमानं सञ्ज्ञायां विष्ये समस्यते, अव्ययीभावश्च समासो भवति ।
विभाषाऽधिकारेऽपि नित्यसमास एव अयं ।
न हि वाक्येन सञ्ज्ञा गम्यते ।
उन्मत्तगङ्गं नाम देशः ।
लोहितगङ्गं ।
शनैर्गङ्गं ।
कृष्णगङ्गं ।
अन्यपदार्थे इति किं ? कृष्णवेण्णा ।
सञ्ज्ञायां इति किं ? शीघ्रगङ्गो देशः । ।
____________________________________________________________________
- <तत्पुरुषः># । । पाणिनीयसूत्र २,१.२२ । ।
_____काशिका २,१.२२ः
तत्पुरुषः इति सञ्ज्ञाऽधिक्रियते प्राग्बहुव्रीहेः ।
यानित ऊर्ध्वं अनुक्रमिष्यामः, तत्पुरुष-सञ्ज्ञास्ते वेदितव्याः ।
वक्ष्यति, द्वितीय श्रित-अतीत-पतित (*२,१.२४) ।
इति ।
कष्टश्रितः ।
पूर्वाचार्यसञ्ज्ञा चेयं महती, तदङ्गीकरणौपाधेरपि तदीयस्य परिग्रह-अर्थम्, उत्तरपदार्थ-प्रधानस्तत्पुरुषः इति ।
तत्पुरुषप्रदेशाः - तत्पुरुषे कृति बहुलं (*३,३.१४) ।
इत्येवं आदयः । ।
____________________________________________________________________
- <द्विगुश्च># । । पाणिनीयसूत्र २,१.२३ । ।
_____काशिका २,१.२३ः
द्विगुश्च समासः तत्पुरुशसज्ज्ञो भवति ।
द्विगोस्तत्पुरुशत्वे समासान्ताः प्रयोजनं ।
पञ्चराजं ।
दशराजं ।
द्व्यहः ।
त्र्यहः ।
पङ्चगवं ।
दशगवं । ।
____________________________________________________________________
[#१०६]
- <द्विदीया श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपनैः># । । पाणिनीयसूत्र २,१.२४ । ।
_____काशिका २,१.२४ः
सुप्स्पा इति वर्तते ।
तस्य विशेषणं एतद्द्वितीया ।
द्वितीयान्तं सुबन्तं श्रित-अदिभिः सह समस्यते, तत्पुरुषश्च समासो भवति ।
कष्टं श्रितः कष्टश्रितः ।
नरकश्रितः ।
अतीत -- कान्तारं अतीतः कान्तारातितः ।
पतित -- नरकं पतितः नरकपतितः ।
गत -- ग्रामं गतः ग्रामगतः ।
अत्यस्त -- तरङ्गनत्यस्तः तरङ्गात्यस्तः ।
तुहिनात्यस्तः ।
प्राप्त -- सुखं प्राप्तः सुखप्राप्तः ।
आपन्न -- सुखं आपन्नः सुखापन्नः ।
दुःखापन्नः ।
श्रित्त-अदिषु गमिगाम्यादिनां उपसङ्ख्यनं ।
ग्रामं गमी ग्रामगमी ।
ग्रामं गामी ग्रामागामी ।
ओद्नं बुभुक्षुः ओदनबुभुक्षुः । ।
____________________________________________________________________
- <स्वयं क्तेन># । । पाणिनीयसूत्र २,१.२५ । ।
_____काशिका २,१.२५ः
स्वयं एतदव्ययं आत्मना इत्यस्यार्थे वर्तते, तस्य द्वितीयया सम्बन्धोऽनुपपन्नः इति द्वितीया-ग्रहणं उत्तरार्थं अनुवर्तते ।
स्वयं इत्येतत्सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भाति ।
स्वयंधौतौ पादौ ।
स्वयंविलीनं आज्यं ।
ऐकपद्यमैकस्वर्यं च समासत्वाद्भवति । ।
____________________________________________________________________
- <खट्वा क्षेपे># । । पाणिनीयसूत्र २,१.२६ । ।
_____काशिका २,१.२६ः
खट्वा-शब्दो द्वितीयान्तः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति ।
क्षेपो निन्दा, स च समास-अर्थ एव, तेन विभाषाऽधिकारेऽपि नित्यसमास एव अयं ।
न हि वक्येन क्षेपो गम्यते ।
खट्वारोहणं च+इह विमार्गप्रस्थानस्य+उपलक्षनं ।
सर्व एव अविनीतः खट्वारूढः इत्युच्यते ।
खट्वारुढो जाल्मः ।
खट्वाप्लुतः ।
अपथप्रस्थितः इत्यर्थः ।
क्षेपे इति किं ? खट्वामारूढः । ।
____________________________________________________________________
- <सामि># । । पाणिनीयसूत्र २,१.२७ । ।
_____काशिका २,१.२७ः
सामि इत्येतदव्ययं अर्धशब्द-पर्यायः, तस्य असत्त्ववाचित्वाद्द्वितीयया न अस्ति सम्बन्धः ।
तत्सुबन्तं क्तन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति ।
सामिकृतं ।
सामिपीतं ।
समिभुक्तं ।
ऐकपद्यमैकस्वर्यं च समासत्वद्भवति । ।
____________________________________________________________________
[#१०७]
- <कालाः># । । पाणिनीयसूत्र २,१.२८ । ।
_____काशिका २,१.२८ः
द्वितीया क्तेन इति वर्तते ।
कालवाचिनः शब्दाः द्वितीयान्ताः क्तान्तेन सह समस्यन्ते विभाष, तत्पुरुषश्च समासो भवति ।
अन्त्यन्तसम्योग-अर्थं वचनं ।
कालाः इति न स्वरूप-विधिः ।
षण्मुहूर्ताश्चराचराः, ते कदाचितहर्गच्छन्ति कदाचित्रात्रिं ।
अहरतिसृता मुहूर्ताः अहःसङ्क्रान्ताः ।
रात्र्यतिसृता मुहूर्ताः रात्रिसङ्क्रान्ताः ।
मासप्रमितश्चन्द्रमाः ।
मासं प्रमातुमारब्धः प्रतिपच्चन्द्रमाः इत्यर्थः । ।
____________________________________________________________________
- <अत्यन्तसंयोगे च># । । पाणिनीयसूत्र २,१.२९ । ।
_____काशिका २,१.२९ः
कालाः इति वर्तते ।
क्तेन इति निवृत्तं ।
अत्यन्तसंयोगः कृत्स्न-संयोगः, कालस्य स्वेन सम्बन्धिना व्याप्तिः ।
कालवाचिनः शब्दा द्वितीयान्ता अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति ।
मुहूर्तं सुखं मुहूर्तसुखं ।
सर्वरात्रकल्पाणी ।
सर्वरात्रशोभना । ।
____________________________________________________________________
- <तृतीया तत्कृत-अर्थेन गुणवचनेन># । । पाणिनीयसूत्र २,१.३० । ।
_____काशिका २,१.३०ः
सुप्सुपा इति वर्तते ।
तस्य विशेषणं एतथ् ।
तृतीयान्तं गुणवचनेन अर्थशब्देन च सह संस्यते, तत्पुरुषश्च समासो भवति ।
कीदृशेन गुणवचनेन ? तत्कृतेन तदर्थ-कृतेन, तृतीयान्त-अर्थ-कृतेन इति यावथ् ।
शङ्कुलया खण्डः सङ्कुलाखण्डः ।
किरिणा काणः किरिकाणः ।
अर्थ-शब्देन -- धान्येन अर्थः धान्यार्थः ।
तत्कृतेन इति इं ? अक्ष्णा काणः ।
गुणवचनेन इति किं ? गोभिर्वपावान् । ।
____________________________________________________________________
- <पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः># । । पाणिनीयसूत्र २,१.३१ । ।
_____काशिका २,१.३१ः
पूर्व सदृश सम ऊनार्थ कलह निपुण मिश्र श्लक्ष्ण इत्येतैः सह तृतीयान्तं समस्यते, तत्पुरुषश्च समसो भवति ।
अस्मादेव वचनात्पूर्वादिभिर्योगे तृतीया भवति, हेतौ वा द्रष्टव्या ।
पूर्व -- मासेन पूर्वः मासपूर्वः ।
संवत्सरपूर्वः ।
सदृश -- मातृसदृशः ।
पितृसदृशः ।
सम -- मातृसमः ।
ऊनार्थ - माशोनं ।
कार्षापणोनं ।
माषविकलं ।
कार्षापनविकलं ।
कलह -- असिकलहः ।
वाक्कलहः ।
निपुण - वाङ्निपुणः ।
आचारनिपुणः ।
मिश्र - गुडमिश्रः ।
तिलमिश्रः ।
श्लक्ष्ण -- आचारश्लक्ष्णः ।
पूर्वादिष्ववरस्योपसङ्ख्यानं ।
मासेनावरः मासावरः ।
संवत्सरावरः । ।
____________________________________________________________________
[#१०८]
- <कर्तृकर्णे दृता बहुलम्># । । पाणिनीयसूत्र २,१.३२ । ।
_____काशिका २,१.३२ः
तृतीया इति वर्तते ।
कर्तरि करणे च या तृतीया तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति ।
सर्वोपाधिव्यभिचारार्थं बहुल-ग्रहनं ।
कर्तरि -- अहिना हतः अहिहतः ।
करणे -- नखैर्निर्भिन्नः नखनिर्भिन्नः ।
परशुना छिन्नः ।
कर्तृकरणे इति किं ? भिक्षाभिरुषितः ।
बहुल-ग्रहनं किं ? दात्रेण लूनवान्, परशुना छिन्नवान्, इह समासो न भवति ।
पादहारकः, गले चोपकः इति च भवति । ।
____________________________________________________________________
- <कृत्यैरधिक-आर्थ-वचने># । । पाणिनीयसूत्र २,१.३३ । ।
_____काशिका २,१.३३ः
स्तुतिनिन्दाप्रयुक्तं अध्यारोपितार्थवचनं अधिकार्थवचनं ।
कर्तृकरणयो या तृतीया तदन्तं सुबन्तं कृतैः सह समस्यतेऽधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति ।
कर्ता - काकपेया नदी ।
श्वलेह्यः कूपः ।
करणं - बाष्पच्छेद्यानि तृणानि ।
क्ण्टकसञ्चेय ओदनः ।
पूर्वस्या+एव अयं प्रपञ्चः ।
कृत्य-ग्रहणे यण्ण्यतोर्ग्रहनं कर्तव्यं ।
इह मा भूत्, काकैः पातव्या इति । ।
____________________________________________________________________
- <अन्नेन व्यञ्जनम्># । । पाणिनीयसूत्र २,१.३४ । ।
_____काशिका २,१.३४ः
तृतीया इति वर्तते ।
व्यञ्ज्ञवाचि तृतीयान्तं अनवाचिना सुबन्तेन सहा समस्यते, विभाशा तत्पुरुषश्च समासो भवति ।
संस्कार्यं अन्नं, संस्कारकं व्यञ्जनं ।
दध्ना उपसिक्त ओदनः दध्योदनः ।
क्षीरौदनः ।
वृत्तौ क्रियाया अन्तर्भावादन्नव्यञ्जनयोः सामर्थ्यं । ।
____________________________________________________________________
- <भक्ष्येण मिश्रीकरनम्># । । पाणिनीयसूत्र २,१.३५ । ।
_____काशिका २,१.३५ः
मिश्रीकरन-वाचि तृतीयान्तं भक्ष्य-वाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति ।
खरविशदमभ्यवहार्यं भक्ष्यं, तस्य संस्कारकं मिश्रीकरणं ।
हुडेन मिश्राः धानाः गुडधानाः ।
गुडपृथुकाः ।
वृत्तौ क्रियाया अन्तर्भावात्पूर्वोत्तरपदयोः सामर्थ्यं । ।
____________________________________________________________________
[#१०९]
- <चतुर्थी तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः># । । पाणिनीयसूत्र २,१.३६ । ।
_____काशिका २,१.३६ः
सुप्सुपा इति वर्तते ।
तस्य विशेषणं एतथ् ।
ततिति सर्वनाम्ना चतुर्थ्यन्तस्य अर्थः परामृश्यते ।
तस्मै इदं तदर्थं ।
तदर्थ अर्थ बलि हित सुख रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति ।
तदर्थेन प्रकृतिविकारभावे समासोऽयं इष्यते ।
यूपाय दारु यूपदारु ।
कुण्ड्लाय हिरण्यं कुण्डलहिरण्यं ।
इह न भवति, रन्धनाय स्थली, अवहननाय उलूखलं इति ।
तादर्थ्ये चतुर्थी च अस्मादेव ज्ञापकाद्भवति ।
अर्थेन नित्यसमासवचनं सर्वलिङ्गता च वक्तव्या ।
ब्राह्मणार्थं पयः ।
ब्राह्मणार्था यवागूः ।
बलि - कुबेराय बलिः कुबेरबलिः ।
महाराजबलिः ।
हित - गोहितं ।
अश्वहितं ।
सुख - गोसुखं ।
अश्वसुखं ।
रक्षित - गोरक्षितं ।
अश्वरक्षितं । ।
____________________________________________________________________
- <पञ्चमी भयेन># । । पाणिनीयसूत्र २,१.३७ । ।
_____काशिका २,१.३७ः
सुप्सुपा इति वर्तते ।
तस्य विशेषणं एतथ् ।
पञ्चम्यन्तं सुबनतं भय-शब्देन ।
सुबन्तेन सह समस्यते विभाषा, तत्पुरुषश्च समासो भवति ।
वृकेब्यो भयं वृकभयं ।
चौरभयं ।
दस्युभयं ।
भय-भीत-भीति-भीभिरिति वक्तव्यं ।
वृकेभ्यो भीतः वृकभीतः ।
वृकभीतिः ।
वृकभीः ।
पूर्वस्य+एव अयं बहुलग्रहणस्य प्रप्ञ्चः ।
तथा च ग्रामनिर्गतः, अधर्मजुगुप्सुः इत्येवं आदि सिद्धं भवति । ।
____________________________________________________________________
- <अपेत-अपोढ-मुक्त-पतित-अपत्रस्तैरल्पशः># । । पाणिनीयसूत्र २,१.३८ । ।
_____काशिका २,१.३८ः
अपेत अपोढ मुक्त पतित अपत्रस्त इत्येतैः सह पज्चम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति ।
अपेत - सुखापेतः ।
अपोढ - कल्पनापोढः ।
मुक्त - चक्रमुक्तः ।
पतित - स्वर्गपतितः ।
अपत्रस्त - तरङ्गापत्रस्तः ।
अल्पशः इति समासस्य अल्पविषयतामाचष्टे ।
अल्पा पञ्चमी संस्यते, न सर्वा ।
प्रासादात्पतितः, भोजनादपत्रस्तः इत्येवं अदौ न भवति ।
कर्तृकरने कृता बहुलं (*२,१.३२) इत्यस्य+एव अयं प्रपञ्चः । ।
____________________________________________________________________
[#११०]
- <स्तोक-अन्तिक-दूर-अर्थ-कृच्छ्राणि क्तेन># । । पाणिनीयसूत्र २,१.३९ । ।
_____काशिका २,१.३९ः
स्तोक अन्तिक दूर इत्येवं अर्थाः शब्दाः कृच्छ्र-शब्दश्च पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति ।
स्तोकान्मुक्तः ।
अन्तिकादागतः ।
अभ्याशादागतः ।
दूरादागतः ।
विप्रकृष्टादागतः ।
कृच्छ्रान्मुक्तः ।
कृच्छ्राल्लब्धः ।
पञ्चम्याः स्तोक-आदिभ्यः (*६,३.२) इत्यलुक् ।
शतसहत्रौ परेणेति वक्तव्यं ।
शतात्परे परश्शताः ।
सहस्रात्परे परस्सहस्राः ।
राजदन्तादित्वात्परनिपातः ।
निपातनात्सुडागमः । ।
____________________________________________________________________
- <सप्तमी शौण्डैः># । । पाणिनीयसूत्र २,१.४० । ।
_____काशिका २,१.४०ः
सप्तम्यन्तं शौण्ड-आदिभिः सह समस्यते, तत्पुरुषाश्च समासो भवति ।
अक्षेषु शौण्डः अक्षशौण्डः ।
अक्षधूर्तः ।
अक्षकितवः ।
शौण्ड ।
धूर्त ।
कितव ।
व्याड ।
प्रवीण ।
संवीत ।
अन्तर् ।
अन्तःशब्दस्त्वराधिकरनप्रधान एव पठ्यते ।
अधि ।
पटु ।
पण्डित ।
चपल ।
निपुण ।
वृत्तौ प्रसक्तिक्रियाया अन्तर्भावदक्षादिषु अधिकरणे सप्तमी । ।
____________________________________________________________________
- <सिद्ध-शुष्क-पक्व-बन्धैश्च># । । पाणिनीयसूत्र २,१.४१ । ।
_____काशिका २,१.४१ः
सप्तमी इति वर्तते ।
सिद्ध शुष्क पक्व बन्ध इत्येतैः सह सप्तम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति ।
साङ्काश्यसिद्धः ।
काम्पिल्यसिद्धः ।
शुष्क - आतपशुष्कः ।
छायाशुष्कः ।
पक्व - स्थालीपक्वः ।
कुम्भीपक्वः ।
बन्ध - चक्रबन्धः ।
बहुल-ग्रहणस्य+एव अयं उदाहरण-प्रपञ्चः । ।
____________________________________________________________________
- <ध्वाङ्क्षेन क्षेपे># । । पाणिनीयसूत्र २,१.४२ । ।
_____काशिका २,१.४२ः
ध्वाग्क्षेण इत्यर्थग्रहनं ।
धवाग्क्षवाचिना सुबन्तेन सह सप्तम्यन्तं सुबन्तं सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने ।
तीर्थे ध्वाङ्क्ष इव तीर्थध्वाड्क्षः ।
अनवस्थितः इत्यर्थः ।
तीर्थकाकः ।
तीर्थवायसः ।
क्षेपे इति किं ? तीर्थे ध्वाङ्क्षस्तिष्थति । ।
____________________________________________________________________
[#१११]
- <क्र्त्यैरृणे># । । पाणिनीयसूत्र २,१.४३ । ।
_____काशिका २,१.४३ः
सुप्तमी इति वर्तते ।
कृत्य-प्रत्ययान्तैः सह सप्तम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने ।
यत्प्रत्ययेन+एव+इष्यते ।
मासे देयमृणं मासदेयं ।
संवत्सरदेयं ।
व्यहदेयं ।
ऋणग्रहणं नियोगोपलक्षण-अर्थं, तेन+इह अपि समासो भवति, पूर्वाह्णे गेयं साम पूर्वाह्णगेयं ।
प्रातरध्येयोऽनुवाकः ।
ऋणे इति किं ? मासे देया भिक्षा । ।
____________________________________________________________________
- <सञ्ज्ञायाम्># । । पाणिनीयसूत्र २,१.४४ । ।
_____काशिका २,१.४४ः
सञ्ज्ञायां विषये सप्तयन्तं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति ।
सञ्ज्ञा समुदायोपाधिः ।
तेन नित्यसमास एव अयम्, न हि वाक्येन सञ्ज्ञा गम्यते ।
अरण्येतिलकाः ।
अरण्येमाषाः ।
वनेकिंशुकाः ।
वने - बिल्वकाः ।
कूपेपिशाचकाः ।
हलदन्तात्सप्तम्याः सञ्ज्ञायां (*६,३.९) इत्यलुक् । ।
____________________________________________________________________
- <क्तेन अहो-रात्र-अवयवाः># । । पाणिनीयसूत्र २,१.४५ । ।
_____काशिका २,१.४५ः
अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति ।
पूर्वाह्णकृतं ।
अपराह्णकृतं ।
पूर्वरात्रकृतं ।
अपररात्रकृतं ।
अवयव-ग्रहनं किं ? एतत्तु ते दिवा वृत्तं रात्रौ वृत्तं च द्रक्ष्यसि ।
अहनि भुक्तं ।
रात्रौ वृत्तं ।
बहुल-ग्रहणाथ् ।
रात्रिवृत्तम्, सन्ध्यगर्जितं इत्यादयः । ।
____________________________________________________________________
- <तत्र># । । पाणिनीयसूत्र २,१.४६ । ।
_____काशिका २,१.४६ः
तत्र इत्येतत्सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति ।
तत्रभुक्तं ।
तत्रकृतं ।
तत्रपीतं ।
ऐकपद्यमैकस्वर्यं च समासत्वात्भवति । ।
____________________________________________________________________
- <क्षेपे># । । पाणिनीयसूत्र २,१.४७ । ।
_____काशिका २,१.४७ः
क्षेपो निन्दा ।
क्षेपे गम्यमाने सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति ।
अवतप्ते - नकुलस्थितं त एतथ् ।
चापलं एतत्, अनवस्थितत्वं तवैततित्यर्थः ।
उदकेविशीर्णं ।
प्रवाहेमूत्रितं ।
भस्मनिहुतं ।
निष्फलं यत्क्रियते तदेवं उछ्यते ।
तत्पुरुषे कृति बहुलं (*६,३.१४) इत्यलुक् । ।
____________________________________________________________________
[#११२]
- <पात्रेसमित-आदयश्च># । । पाणिनीयसूत्र २,१.४८ । ।
_____काशिका २,१.४८ः
समुदाया एव निपात्यन्ते ।
पात्रेसमित-आदयः शब्दस्तत्पुरुष-सञ्ज्ञा भवन्ति क्षेपे गम्यमाने ।
ये च अत्र क्तान्तेन सह समासाः, तेषां पूर्वेन+एव सिद्धे पुनः पाठो युक्तारोह्यादि-परिग्रह-अर्थः, पूर्वपदाद्य्-उदात्तत्वं यथा सयातिति ।
युक्तरोह्यादिषु हि पात्रेसमितादयश्च इति पठ्यते ।
पात्रेसमिताः ।
पात्रेबहुलाः ।
अवधारणेन क्षेपो गम्यते, पात्रे एव समिता न पुनः क्वचित्कार्ये इति ।
उदुम्बरमशकादषु उपमया क्षेपः ।
मातरिपुरुषः इति प्रतिषिद्धसेवनेन ।
पिण्डीषूरादिषु निरीहतया ।
अव्यक्तत्त्वाच्चाकृतिगणोऽयं ।
पात्रेसमिताः ।
पात्रेबहुलाः ।
उदुम्बरमशकाः ।
उदरकृमिः ।
कूपकच्छपः ।
कूपचूर्णकः ।
अवटकच्छपः ।
कूपमण्डूकः ।
कुम्भमण्डूकः ।
उदपानमःडूकः ।
नगरकाकः ।
नगरवायसः ।
मातरिषुरुषः ।
पिण्डीषूरः ।
पितरिषूरः ।
गेहेशूरः ।
गेहेनर्दी ।
गेहेक्ष्वेडी ।
गेहेविजिती ।
गेहेव्याडः ।
गेहेमेही ।
गेहेदाही ।
हेहेदृप्तः ।
गेहेधृष्टः ।
गर्भेतृप्तः ।
आखनिकबकः ।
गोष्ठेशूरः ।
गोष्ठे विजिती ।
गोष्ठेक्ष्वेडी ।
गोष्ठेपटुः ।
गोष्ठेपण्डितः ।
गोष्ठेप्रगल्भः ।
कर्णेटिट्टिभः ।
कर्णेटिरिटिरा ।
कर्णेचुरचुरा ।
चकारोऽवधारण-अर्थः, तेन समासान्तरं न भवति, परमपात्रेसमिताः इति । ।
____________________________________________________________________
- <पूर्वकाल-एक-सर्व-जरत्-पुराणा-नव-केवलाः समानाधिकरणेन># । । पाणिनीयसूत्र २,१.४९ । ।
_____काशिका २,१.४९ः
सुप्सुपा इति वर्तते ।
तस्य विशेषणं एतथ् ।
पूर्वकाल एक सर्व जरत्पुराण नव केवल इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति ।
भिन्न-प्रवृत्ति-निमित्तस्य शब्दस्य+एकस्मिन्नर्थे वृत्तिः साअमानाधिकरण्यं ।
पूर्वकालः इत्यर्थ-निर्देशः, परिशिष्टानां स्वरूप-ग्रहणं ।
पूर्वकालोऽपरकालेन समस्यते ।
स्नातानुलिप्तः ।
कृष्टसमीकृतं ।
दग्धप्ररूढं ।
एकशाटी ।
एकभिक्षा ।
सर्वदेवाः ।
सर्वमनुष्याः ।
जरद्धस्ती ।
जरद्गृष्टिः ।
जरद्वृत्तिः ।
पुराणान्नं ।
पुराणावसथं ।
नवान्नं ।
नवावसथं ।
केवलान्नं ।
समानाधिकरणेन इति किं ? एकस्याः शाटी । ।
____________________________________________________________________
[#११३]
- <दिक्-सङ्ख्ये सञ्ज्ञायाम्># । । पाणिनीयसूत्र २,१.५० । ।
_____काशिका २,१.५०ः
समानाधिकरणेन इत्यापादसमाप्तेरनुवर्तते ।
दिग्वाचिनः शब्दाः सङ्ख्या च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति सञ्ज्ञयां वषये ।
पूर्वेषुकामशमी ।
अपरेषुकामशमी ।
पञ्चाम्राः ।
सप्तर्षयः ।
सञ्ज्ञायां इति किं ? उत्तरा वृक्षाः ।
पञ्च ब्राह्माणाः । ।
____________________________________________________________________
- <तद्धितर्थ-उत्तरपद-समाहारे च># । । पाणिनीयसूत्र २,१.५१ । ।
_____काशिका २,१.५१ः
दिक्-सङ्ख्ये इत्यनुवर्तते ।
तद्धित-अर्थे विषये उत्तरपदे च परतः समाहारे च अभिधेये दिक्-सङ्ख्ये समानाधिकरणेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति ।
तद्धित-अर्थे तावत्- पूर्वस्यां शालायां भवः, दिक्पूर्वपदादसञ्ज्ञायां ञः (*४,२.१०७), पौर्वशालः ।
आपरशालः ।
उत्तरपदे - पूर्वशालाप्रियः ।
अपरशालाप्रियः ।
समाहारे दिक्-शब्दो न सम्भवति ।
सङ्ख्या तद्धित-अर्थे - पाञ्चनापितिः ।
पञ्चकपालः ।
उत्तरपदे - पञ्चगवधनः ।
दशगवधनः ।
समाहारे - पञ्चपूली ।
दशपूली ।
पञ्चकुमारि ।
दशकुमारि ।
स नपुंसकं (*२,४.१७) इति नपुंसकत्वं ।
ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२.४७) इति ह्रस्वत्वं । ।
____________________________________________________________________
- <सङ्ख्या-पूर्वो द्विगुः># । । पाणिनीयसूत्र २,१.५२ । ।
_____काशिका २,१.५२ः
तद्धित-अर्थ-उत्तरपद-समाहारे च (*२,१.५१) इत्यत्र यः सङ्ख्या-पूर्वः समासः स द्विगु-सञ्ज्ञो भवति ।
तद्धित-अर्थे तावत्- पञ्चसु कपालेशु संस्कृतः पञ्चकपालः ।
दशकपालः ।
संस्कृतं भक्षाः (*४,२.१६) इति इह अण्, तस्य द्विगोर्लुग्-अनपत्ये (*४,१.८८) इति लुक् ।
उत्तरपदे - पञ्चनावप्रियः ।
नावो द्विगोः (*५,४.९९) इति समासान्तो भवति ।
समाहारे - पञ्चपूली ।
द्विगोः (*४,१.२१) इति ङीब्भवति ।
द्विगुप्रदेशाः - द्विगोः (*४,१.२१) इत्येवं आदयः । ।
____________________________________________________________________
- <कुत्सितानि कुत्सनैः># । । पाणिनीयसूत्र २,१.५३ । ।
_____काशिका २,१.५३ः
कुत्सित-वाचीनि सुबन्तानि कुत्सन-वचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति ।
शब्द-प्रवृत्ति-निमित्त-कुत्सायां अयं समास इष्यते ।
विशेषणं विशेष्येण बहुलं (*२,१.५७) इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपात-अर्थ आरम्भः ।
वैयाकरणखसूचिः ।
निष्प्रतिभः इत्यर्थः ।
याज्ञिककितवः ।
अयाज्ययाजनतृष्णापरः ।
मीमांसकदुर्दुरूढः ।
नास्तिकः ।
कुत्सितानि इति किं ? वैयाकरणश्चौरः ।
न ह्यत्र वैयाकरणत्वं कुत्स्यते ।
कुत्सनैः इति किं ? कुत्सितो ब्राह्मणः । ।
____________________________________________________________________
[#११४]
- <पापाणके कुत्सितैः># । । पाणिनीयसूत्र २,१.५४ । ।
_____काशिका २,१.५४ः
पापाणक-शब्दौ कुत्सनाभिधायिनौ, तयोः पूर्वेण समासे परनिपातः प्राप्तः, पूर्वनिपत-अर्थं इदं आरभ्यते ।
पाप अणक इत्येते सुबन्ते कुत्सित-वचनैः सह समस्येते, तत्पुरुषश्च समासो भवति ।
पापनापितः ।
पापकुलालः ।
अणकनापितः ।
अणककुलालः । ।
____________________________________________________________________
- <उपमानानि सामान्य-वचनैः># । । पाणिनीयसूत्र २,१.५५ । ।
_____काशिका २,१.५५ः
उपमीयतेऽनेन इत्युपमानं ।
उपमान-वाचीनि सुबन्तानि सामान्य-वचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति ।
उपमान-उपमेययोः साधारणे धर्मः सामान्यं, तद्विशिष्ट-उपमेय-वचनैरयं समासः ।
शस्त्रीव श्यामा शस्त्रीश्यामा देवदत्ता ।
कुमुदश्येनी ।
हंसगद्गदा ।
न्यग्रोधपरिमण्डला ।
उपमानानि इति किं ? देवदत्ता शयामा ।
सामान्य-वचनैः इति किं ? फाला इव तण्डुलाः ।
पर्वता इव बलाहकाः । ।
____________________________________________________________________
- <उपमितं व्याघ्र-आदिभिः सामान्य-अप्रयोगे># । । पाणिनीयसूत्र २,१.५६ । ।
_____काशिका २,१.५६ः
उपमेयं उपमितं , तद्वाचि सुबन्तं व्याघ्र-आदिभिः सामर्थ्यादुपमान-वचनैः सह सामस्यते, तत्पुरुषश्च समासो भवति, न चेत्सामान्यवाची शब्दः प्रयुज्यते ।
विशेषणं विशेष्येण बहुलं (*२,१.५७) इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपात-अर्थ आरम्भः ।
पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः ।
पुरुषसिंहः ।
सामान्य-अप्रयोगे इति इं ? पुरुषोऽयं व्याघ्र इव शूरः ।
व्याघ्र ।
सिंह ।
ऋक्ष ।
ऋषभ ।
चन्दन ।
वृक्ष ।
वराह ।
वृष ।
हस्तिन् ।
कुञ्जर ।
रुरु ।
पृषत ।
पुण्डरीक ।
बलाहक ।
अकृतिगनश्च अयम्, तेन+इदं अपि भवति - मुखपद्मम्, मुखकमलम्, करकिसलयम्, पार्थिवचन्द्रः इत्येवं आदि । ।
____________________________________________________________________
- <विशेसनं विशेष्येण बहुलम्># । । पाणिनीयसूत्र २,१.५७ । ।
_____काशिका २,१.५७ः
भेदकं विशेषणं, भेद्यं विशेष्यं ।
विशेषण-वाचि सुबन्तं विशेष्य-वाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति ।
नीलोत्पलं ।
रक्तोत्पलं ।
बहुलवचनं व्यवस्थार्थं ।
क्वचिन्नित्यसमास एव, कृष्णसर्पः, लोहितशालिः ।
क्वचिन्न भवत्येव, रामो जामदग्न्यः, अर्जुनः कार्तवीर्यः ।
क्वचिद्विकल्पः, नीलं उत्पलम्, नीलोत्पलं ।
विशेषणं इति किं ? तक्षकः सर्पः ।
विशेष्येण इति किं ? लोहितस्तक्षकः । ।
____________________________________________________________________
[#११५]
- <पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम-वीराश्च># । । पाणिनीयसूत्र २,१.५८ । ।
_____काशिका २,१.५८ः
पूर्व अपर प्रथम चरम जघन्य समान मध्य मध्यम वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति ।
पूर्वपुरुषः ।
अपरपुरुषः ।
प्रथमपुरुषः ।
चरमपुरुषः ।
जघन्यपुरुषः ।
समानपुरुषः ।
मध्यपुरुषः ।
मध्यमपुरुषः ।
वीरपुरुषः ।
पूर्वस्य+एव अयं प्रपञ्चः । ।
____________________________________________________________________
- <श्रेण्य्-आदयः कृत-आदिभिः># । । पाणिनीयसूत्र २,१.५९ । ।
_____काशिका २,१.५९ः
श्रेण्य-आदयः सुबन्ताः कृत-आदिभिः समानधिकरणैः सहः समस्यन्ते, तत्पुरुषश्च समासो भवति ।
श्रेण्य्-आदिषु च्व्य्-अर्थ-वचनं ।
अश्रेणयः श्रेनयः कृताः श्रेणिकृताः ।
एककृताः ।
पूगकृताः ।
श्रेण्यादयः पठ्यन्ते ।
कृतादिराकृतिगनः ।
च्व्यन्तानां तु कु-गति-प्र-आदयः (*२,२.१८) इत्यनेन नित्यसमासः ।
श्रेणीकृताः ।
श्रेणि ।
एक ।
पूग ।
कुण्ड ।
राशि ।
विशिख ।
निचय ।
निधान ।
इन्द्र ।
देव ।
मुण्ड ।
भूत ।
श्रवन ।
वदान्य ।
अध्यापक ।
अभिरूपक ।
ब्राह्मण ।
क्षत्रिय ।
पटु ।
पण्डित ।
कुशल ।
चपल ।
निपुण ।
कृपण ।
इति श्रेण्य्-आदिः ।
कृत ।
मित ।
मत ।
भूत ।
उक्त ।
समाज्ञात ।
समाम्नात ।
समाख्यात ।
सम्भावित ।
अवधारित ।
निराकृत ।
अवकल्पित ।
उपकृत ।
उपाकृत ।
इति कृत-आदिः । ।
____________________________________________________________________
- <क्तेन नञ्-विशिष्टेन अनञ्># । । पाणिनीयसूत्र २,१.६० । ।
_____काशिका २,१.६०ः
नञैव विशेषो यस्य, सर्वमन्यत्प्रकृत्यादिकं तुल्यं, तन्नञ्-विशिष्टम्, तेन नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सह अनञ्क्तान्तं समस्यते, तत्पुरुषश्च समासो भवति ।
कृतं च तदकृतं च कृताकृतं ।
भुक्ताभुक्तं ।
पीतापीतं ।
उदतानुदितं ।
नुडिटौ तद्भक्तत्वान्नैव भेदकौ ।
अशितानशितेन जीवति ।
क्लिष्टाक्लिशितेन वर्तते ।
कृतापकृतादीनां उपसङ्ह्यानं ।
कृतापकृतं ।
भुक्तविभुक्तं ।
पीतविपीतं ।
गतप्रत्यागतं ।
यातानुयातं ।
क्रयाक्रयिका ।
पुटापुटिका ।
फलाफलिका ।
मानोन्मानिका ।
समानाधिकरणाधिकारे शाकपार्थिवादीनां उपसङ्ख्यानं उत्तरपदलोपश्च ।
शाकप्रधानः पार्थिवः शाकपार्थिवः ।
कुतपसौश्रुतः ।
अजातौल्वलिः । ।
____________________________________________________________________
[#११६]
- <सन्-महत्-परम-उत्तम-उत्कृष्टाः पूज्यमानैः># । । पाणिनीयसूत्र २,१.६१ । ।
_____काशिका २,१.६१ः
सत्महत्परम उत्तम उत्कृष्ट इत्येते पूज्यमानैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति ।
पूज्यमानैः इति वचनात्पूजावचनाः सदादयो विज्ञायन्ते ।
सत्पुरुषः ।
महापुरुषः ।
परमपुरुषः ।
उत्तमपुरुषः ।
उत्कृष्टपुरुषः ।
पूज्यमानैः इति किं ? उत्कृष्टो गौः कदर्मात् । ।
____________________________________________________________________
- <वृन्दरक-नाग-कुञ्जरैः पूज्यमानम्># । । पाणिनीयसूत्र २,१.६२ । ।
_____काशिका २,१.६२ः
वृन्दारक नाग कुञ्जर इत्येतैः सह पूज्यमान-वाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति ।
पूज्यमानं इति वचनात्पूजावचना वृन्दारक-आदयो गृह्यन्ते ।
गोवृन्दारकः ।
अश्ववृन्दारकः ।
गोनागः ।
अश्वनागः ।
गोकुञ्जरः ।
अश्वकुञ्जरः ।
पूज्यमानं इति किं ? सुषीमो नागः । ।
____________________________________________________________________
- <कतर-कतमौ जातिपरिप्रश्ने># । । पाणिनीयसूत्र २,१.६३ । ।
_____काशिका २,१.६३ः
कतर-कतमौ जातिपरिप्रश्ने वृतमानौ समर्थेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति ।
कतरकठः ।
कतरकालापः ।
कतमकठः ।
कतमकालापः ।
ननु कतम-शब्दस्तावज्जातिपरिप्रश्न एव व्युत्पादितः, कतर-शब्दोऽपि साहचर्यात्तदर्थ-वृत्तिरेव ग्रहीष्यते, किं जातिपरिप्रश्न-ग्रहणेन ? एवं तर्ह्येतज्ज्ञापयति कतम-शब्दोऽन्यत्र अपि वर्तते इति ।
तथा च प्रत्युदाहरनं - कतरो भवतोर्देवदत्तः, कतमो भवतां देवदत्तः । ।
____________________________________________________________________
- <किं क्षेपे># । । पाणिनीयसूत्र २,१.६४ । ।
_____काशिका २,१.६४ः
किं इत्येतत्क्षेपे गम्यमाने सुपा सह समस्यते ततुरुषश्च समासो भवति ।
किंराजा, यो न रक्षति ।
किंसखा, योऽभिद्रुह्यति ।
किंगौः, यो न वहति ।
किमः क्षेपे (*५,४.७०) इति समासान्तो न भवति ।
क्षेपे इति किं ? को राजा पाटलिपुत्रे । ।
____________________________________________________________________
- <पोटा-युवति-स्तोक-कतिपय-गृष्टि-धेनु-वशा-वेहद्-बष्कयणी-प्रवक्तृ-श्रोत्रिय-अध्यापक-धूर्तैर्जातिः># । । पाणिनीयसूत्र २,१.६५ । ।
_____काशिका २,१.६५ः
उभय-व्यञ्जना पोटा इत्यभिधीयते ।
गृष्टिरेकवारप्रसूता ।
धेनुः प्रत्यग्रप्रसूता ।
वशा वन्ध्या ।
देहद्गर्भपातिनी ।
बष्कयणी तरुणवत्सा ।
पोटादिभिः सह जातिवाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति ।
इभपोटा ।
इभयुवतिः ।
अग्निस्तोकः ।
उदश्वित्कतिपयं ।
गोगृष्टिः ।
गोधेनुः ।
गोवशा ।
गोवेहथ् ।
गोबष्कयणी ।
कठप्रवक्ता ।
कठश्रोत्रियः ।
कठाध्यापकः ।
कठधूर्तः ।
जातिः इति किं ? देवदत्त्तः प्रवक्ता ।
धूर्त-ग्रहणं अकुत्स-अर्थं । ।
____________________________________________________________________
[#११७]
- <प्रशंसा-वचनैश्च># । । पाणिनीयसूत्र २,१.६६ । ।
_____काशिका २,१.६६ः
जातिः इति वर्तते ।
जातिवाचि सुबन्तं प्रशंसा-वचनैः सह समस्यते, तत्पुरुषश्च समासो भवति ।
रूढि-शब्दाः प्रशंसा-वचना गृह्यन्ते मतल्लिकादयः ।
ते च आविष्टलिङ्गत्वादन्यलिङ्गेऽपि जाति-शब्दे स्वलिङ्गोपादाना एव समानाहिकरना भवन्ति ।
गोप्रकाण्डं ।
अश्वप्रकाण्डं ।
गोमत्ल्लिका ।
अश्वमतल्लिका ।
गोमचर्चिका ।
अश्वमचर्चिका ।
जातिः इति किं ? कुमारी मतल्लिका । ।
____________________________________________________________________
- <युवा खलति-पालित-वलिन-जरतीभिः># । । पाणिनीयसूत्र २,१.६७ । ।
_____काशिका २,१.६७ः
खलत्य्-आदिभिः ।
समानाधिकरणैः सह युव-शब्दः समस्यते, तत्पुरुषश्च समासो भवति ।
जरतीभिः इति स्त्रीलिङ्गेन निर्देशः, प्रातिपादिक-ग्रहणे लिङ्गविशिष्टस्य अपि ग्रहनं इति ज्ञापक-अर्थः ।
युवा खलतिः युवखलतिः ।
युवतिः खलती युवखलती ।
युवा पलितः युवपलितः ।
युवतिः पलिता युवपलिता ।
युवा वलिनः युववलिनः ।
युवतिर्वलिना युववलिना ।
युवा जरन्युवजरन् ।
युवतिर्जरती युवजरती । ।
____________________________________________________________________
- <कृत्य-तुल्य-आख्या अजात्या># । । पाणिनीयसूत्र २,१.६८ । ।
_____काशिका २,१.६८ः
कृत्यप्रत्यय-अन्तास्तुल्यपर्यायाश्च सुबन्ता अजाति-वचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति ।
भोज्योष्णं ।
भोज्यलवणं ।
पानीयशीतं ।
तुल्याख्याः - तुल्यश्वेतः ।
तुल्यमहान् ।
सदृशश्वेतः ।
सदृशमहान् ।
अजात्या ति किं ? भोज्य ओदनः । ।
____________________________________________________________________
- <वर्णो वर्णेन># । । पाणिनीयसूत्र २,१.६९ । ।
_____काशिका २,१.६९ः
वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्य्ते, तत्पुरुषश्च समासो भवति ।
कृष्णसारङ्गः ।
लोहितसारङ्गः ।
कृष्णशबलः ।
लोहितशबलः ।
अवयवद्वारेन कृष्णशब्दः समुदाये वर्तमानः समानाधिकरणो भवति । ।
____________________________________________________________________
- <कुमारः श्रमणा-आदिभिः># । । पाणिनीयसूत्र २,१.७० । ।
_____काशिका २,१.७०ः
कुमार-शब्दः श्रमणा-आदिभिः सह समस्यते, तत्पुरुषश्च समासो भवति ।
येऽत्र स्त्रीलिङ्गाः पठ्यन्ते, श्रमणा, प्रव्रजिता, कुलटा इत्येवं आदयः, तैः सह स्त्रीलिङ्गः एव कुमार-शब्दः समस्यते ।
ये तु पुंलिङ्गाः, अध्यापकः, अभिरूपकः, पण्डितः इति, तैरुभयथा, प्रातिपदिक-ग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणं इति ।
कुमारी श्रमणा कुमारश्रमणा ।
श्रमना ।
प्रव्रजिता ।
कुलटा ।
गर्भिणी ।
तापसी ।
दासी ।
बन्धकी ।
अध्यापक ।
अभिरूपक ।
पण्डित ।
पटु ।
मृदु ।
कुशल ।
चपल ।
निपुण । ।
____________________________________________________________________
[#११८]
- <चतुष्पादो गर्भिण्या># । । पाणिनीयसूत्र २,१.७१ । ।
_____काशिका २,१.७१ः
चतुष्पाद्-वाचिनः सुबन्ता गर्भिणी-शब्देन समस्यन्ते, तत्पुरुषश्च समासो भवति ।
गोगर्भिणी ।
अजागर्भिणी ।
चतुष्पाज्जातिरिति वक्तव्यं ।
इह मा भूत्- कालाक्षी गर्भणी, स्वस्तिमती गर्भिणी ।
चतुष्पादः इति किं ? ब्राह्मणी गर्भिणी । ।
____________________________________________________________________
- <मयूर-व्यंसक-आदयश्च># । । पाणिनीयसूत्र २,१.७२ । ।
_____काशिका २,१.७२ः
समुदाया एव निपात्यन्ते ।
मयूर-व्यंसक-आदयः शब्दाः तत्पुरुषसञ्ज्ञा भवति ।
चकारोऽवधारण-अर्थः , परममयूरव्यंसकः इति समासान्तरं न भवति ।
मयूरव्यंसकः ।
छात्रव्यंसकः ।
काम्बोजमुण्डः ।
यवनमुण्डः ।
छन्दसि - हस्तेगृह्य ।
पादेगृह्य ।
लाङ्गलेगृह्य ।
पुनर्दाय ।
एहीडादयोऽन्यपदार्थे - एहीडं ।
एहियवं वर्तते ।
एहिवाणिजाक्रिया ।
अपेहिवाणिजा ।
प्रेहिवाणिजा ।
एहिस्वागता ।
अपोहिस्वागता ।
प्रेहिस्वागता ।
एहिद्वितीया ।
अपेहिद्वितीया ।
इहवितर्का ।
प्रोहकटा ।
अपोहकटा ।
प्रोहकर्दमा ।
अपोहकर्दमा ।
उद्धरचूडा ।
आहरचेला ।
आहरवसना ।
आहरवनिता ।
कृन्तविचक्षणा ।
उद्धरोत्सृजा ।
उद्धमविधमा ।
उत्पचिविपचा ।
उत्पतनिपता ।
उच्चावचं ।
उच्चनीचं ।
अचितोपचितं ।
अवचितपराचितं ।
निश्चप्रचं ।
अकिञ्चनं ।
स्नात्वाकालकः ।
पीत्वास्थिरकः ।
भुक्त्वासुहितः ।
प्रोष्यपापीयान् ।
उत्पत्यपाकला ।
निपत्यरोहिणी ।
निषण्णाश्यामा ।
अपेहिप्रसवा ।
इहपञ्चमी ।
इहद्वितीया ।
जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति - जहिजोडः ।
उज्जहिजोडः ।
जहिस्तम्बः ।
उज्जहिस्तम्बः ।
आख्यातमाख्यातेन क्रियासातत्ये - अश्नीतपिबता ।
पचतभृज्जता ।
खादतमोदता ।
खादतवमता ।
खादताचमता ।
आहरनिवपा ।
आवपनिष्किरा ।
उत्पचच्विपचा ।
भिन्धिलवना ।
छिन्धिविचक्षना ।
पचलवना ।
पचप्रकूटा ।
अविहितलक्षनस्तत्पुरुषो मयूर-व्यंसक-आदिषु द्रष्टव्यः । ।
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य प्रथमः पादः । ।
द्वित्तियोऽध्ययः द्वितीयः पादः
____________________________________________________________________
[#११९]
- <पूर्व-अपर-अधर-उत्तरं एकदेशिना-एकाधिकरणे># । । पाणिनीयसूत्र २,२.१ । ।
_____काशिका २,२.१ः
एकदेशोऽस्य अस्ति इत्येकदेशी, अवयवी, तद्वाचिना सुबन्तेन सह पूर्व अपर अधर उत्तर इत्येते शब्दाः सामर्थ्यादेकदेशबचनाः समस्यन्ते, तत्पुरुषश्च समासो भवति ।
एकाधिकरण-ग्रहनं एकदेशिनो विशेषणं ।
एकं चेदधिकरणं एकद्रव्यं एकदेशि भवति ।
षष्ठीसमास-अपवदोऽयं योगः ।
पूर्वं कायस्य पूर्वकायः ।
अपरकायः ।
अधरकायः ।
उत्तरकायः ।
एकदेशिना इति किं ? पूर्वं न अभेः कायस्य ।
एकाधिकरणे इति किं ? पूर्वं छात्राणां आमन्त्रय ।
कथं मध्याह्नः, सायाह्नः इति ? सङ्ख्या-वि-साय्-अपूर्वस्य अह्नस्य अहन्नन्यतरस्यां ङौ (*६,३.११०) इति ज्ञापकात्सर्वणैकदेश-शब्देन अह्नः समासो भवति । ।
____________________________________________________________________
- <अर्धं नपुंसकम्># । । पाणिनीयसूत्र २,२.२ । ।
_____काशिका २,२.२ः
एकदेशिना एकाधिकरणे इति वर्तते ।
समप्रविभागेऽर्धशब्दो नपुंसकं आविष्टलिङ्गः, तस्य+इदं ग्रहनं ।
अर्धं इत्येतद्नपुंसकं एकदेशिना-एकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति ।
षष्ठीसमास-अपवादोऽयं योगः ।
अर्धं पिप्पल्याः अर्धपिप्पली ।
अर्धकोशातकी ।
नपुंसकं इति किं ? ग्रामार्धः ।
नगरार्धः ।
एकदेशिना इत्येव, अर्धं पसोर्देवदत्तस्य ।
देवदत्तेन सह समसो न भवति ।
एकाधिकरणे इत्येव, अर्धं पिप्पलीनां । ।
____________________________________________________________________
- <द्वितिय-तृतीय-चतुर्थ-तुर्याण्यन्य्तरस्याम्># । । पाणिनीयसूत्र २,२.३ । ।
_____काशिका २,२.३ः
एकदेशिना एकाधिकरने इति वर्तते ।
षस्ठीसमास-अपवादोऽयं योगः ।
अन्यतरस्यां ग्रहणात्सोऽपि षष्ठीसमासो भवति ।
पूरण-गुण (*२,२.११) इति प्रतिषेधश्च अत एव अन्यतरस्यां ग्रहण-सामर्थ्यान्न प्रवर्तते ।
द्वितीयं भिक्षायाः चतुर्थभिक्षा, भिक्षाचतुर्थं वा ।
तुर्यं भिक्षायाः तुर्यभिक्षा, भिक्षातुर्यं वा ।
तुरीय-शब्दस्य अपीष्यते ।
तुरीयं भिक्षायाः तुरीयभिक्षा, भिक्षातुरीयं वा ।
एकदेशिना इत्येव, द्वितीयं भिक्षाया भिक्षुकस्य ।
एकाधिकरणे इत्येव, द्वितीयां भिक्षाणां । ।
____________________________________________________________________
[#१२०]
- <प्राप्तापन्ने च द्वितीयया># । । पाणिनीयसूत्र २,२.४ । ।
_____काशिका २,२.४ः
एकदेशिना-एकाधिकरणे इति निवृत्तं ।
द्वितीयासमासे प्राप्ते वचनं इदं ।
समासविधानात्सोऽपि भवति ।
प्राप्त आपन्न इत्येतौ द्वितीयान्तेन सह समस्येते, तत्पुरुषश्च समासो भवति ।
प्राप्तो जीविकां प्राप्तजीविकः, जीविकाप्राप्तः इति वा ।
आपन्नो जीविकं आपन्नजीविकः, जीविकापन्नः इति वा । ।
____________________________________________________________________
- <कालाः परिमाणिना># । । पाणिनीयसूत्र २,२.५ । ।
_____काशिका २,२.५ः
परिमाणमस्य अस्ति इति परिमाणी, तद्बाचिना सुबन्तेन सह सामर्थ्यात्परिमाणवचनाः काल-शब्दाः समस्यन्ते, तत्पुरुषश्च समासो भवति ।
षष्ठीसमास-विषये योगारम्भः ।
मासो जातस्य मासजातः ।
संवत्सरजातः ।
द्व्यहजातः ।
त्र्यहजातः । ।
____________________________________________________________________
- <नञ्># । । पाणिनीयसूत्र २,२.६ । ।
_____काशिका २,२.६ः
नञ्समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति ।
न ब्राह्मणः अब्राह्मणः ।
अवृषलः । ।
____________________________________________________________________
- <ईषदकृता># । । पाणिनीयसूत्र २,२.७ । ।
_____काशिका २,२.७ः
ईषतित्ययं शब्दोऽकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति ।
ईषद्गुणवचनेन+इति वक्तव्यं ।
ईषत्कडारः ।
ईषत्पिङ्गलः ।
ईषद्विकटः ।
ईषदुन्नतः ।
ईषत्पीतं ।
ईषद्रक्तं ।
गुणवचनेन इति किं ? इह न भवति, ईषद्गार्ग्यः । ।
____________________________________________________________________
- <षष्ठी># । । पाणिनीयसूत्र २,२.८ । ।
_____काशिका २,२.८ः
षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति ।
राज्ञः पुरुषः राजपुरुषः ।
ब्राह्मणकम्बलः ।
कृद्योगा च षष्ठी समस्यत इति वक्तव्यं ।
इध्मप्रब्रश्चनः ।
पलाशशातनः ।
किं अर्थं इदं उच्यते ? प्रतिपदविधाना च षष्ठी न समस्यते इति वक्ष्यति, तस्यायं पुरस्तादपकर्षः । ।
____________________________________________________________________
[#१२१]
- <याजक-आदिभिश्च># । । पाणिनीयसूत्र २,२.९ । ।
_____काशिका २,२.९ः
पूर्वेण समासः सिद्ध एव, तस्य कर्तरि च (*२,२.१६) इति प्रतिषेधे प्राप्ते वचनं इदं आरभ्यते प्रतिप्रसवार्थं ।
याजकादिभिः सह षष्ठी समस्यते, तत्पुरुषश्च समासो भवति ।
ब्राह्मणयाजकः ।
क्षत्रिययाजकः ।
याजक ।
पूजक ।
परिचारक ।
परिषेचक ।
स्नातक ।
अध्यापक ।
उत्सादक ।
उद्वर्तक ।
होतृ ।
पोतृ ।
भर्तृ ।
रथगनक ।
पत्तिगणक ।
तत्स्थैश्च गुणैः षष्ठी समस्यते इति वक्तव्यं ।
चन्दनगन्धः ।
कपित्थरसः ।
गुणात्तरेण तरलोपश्चेअ+इइ वक्तव्यं ।
सर्वेषां श्वेततरः सर्वश्वेतः ।
सर्वेषां सहत्तरः सर्वमहान् ।
न निर्धारणे (*२,२.१०) इति प्रतिषेधे प्राप्ते वचनं इदं ।
सर्वशुक्ला गौः । ।
____________________________________________________________________
- <न निर्धारणे># । । पाणिनीयसूत्र २,२.१० । ।
_____काशिका २,२.१०ः
पूर्वेण समासे प्राप्ते प्रतिषेध आरभ्यते ।
निर्धारने या षष्ठी सा न समस्यते ।
जाति-गुण-क्रियाभिः समुदायादेकदेशस्य पृथक्-करणं निर्धारनं ।
क्षत्रियो मनुष्याणां शूरतमः ।
कृष्णा गवां सम्पन्नक्षीरतमा ।
धवन्नध्वगानां शीघ्रतमः ।
प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यं ।
सर्पिषो ज्ञानं ।
मधुनो ज्ञानं । ।
____________________________________________________________________
- <पूरण-गुण-सुहितार्थ-सद्-अव्यय-तव्य-समानाधिकरनेन># । । पाणिनीयसूत्र २,२.११ । ।
_____काशिका २,२.११ः
पूरण गुन सुहितार्थ सतव्यय तव्य समानाधिकरण इत्येतैः सह षष्ठी न समस्यते ।
अर्थ-शब्दः प्रत्येकं अभिसम्बध्यते, तेन स्वरूप-विधिर्न भवति ।
पूरणार्थे - धात्राणां पञ्चमः ।
छात्राणां दशमः ।
गुण - बलाकायाः शौक्ल्यं ।
काकस्य कार्ष्न्यं ।
सुहित-अर्थास्तृप्त्यर्थाः - फलानां सुहितः ।
फलानां तृप्तः ।
सत्- ब्राह्मणस्य कुर्वन् ।
ब्राह्मणस्य कुर्वाणः ।
अव्यय - ब्राह्मणस्य कृत्वा ।
ब्राह्मणस्य हृत्वा ।
तव्य - ब्राहमणस्य कर्तव्यं ।
तव्यता सानुबन्धकेन समासो भवत्येव, ब्राह्मण-कर्तव्यं ।
समानाधिकरण - शुकस्य माराविदस्य ।
राज्ञः पाटलिपुत्रकस्य ।
पाणिनेः सूत्रकारस्य ।
किं च स्यात्? पूर्वनिपातस्य अनियमः स्याथ् ।
अनन्तरायां तु प्राप्तौ प्रतिषिद्धायां विशेषणं विशेष्येण बहुलं (*२,१.५७) इति भवत्येव समासः ।
पुर्वनिपातश्च तदा दियोगतो विशेषणस्य+एव । ।
____________________________________________________________________
[#१२२]
- <क्तेन च पूजायाम्># । । पाणिनीयसूत्र २,२.१२ । ।
_____काशिका २,२.१२ः
मति-बुद्धि-पूजा-अर्थेभ्यश्च (*३,२.१८८) इति वक्ष्यति, तस्य+इदं ग्रहणं ।
पूजा-ग्रहणं उपलक्षण-अर्थं ।
क्तो यः पूजायां विहितस्तेन षष्ठी न समस्यते ।
राज्ञां मतः ।
राज्ञां बुद्धः ।
राज्ञां पूजितः ।
पूजायां इति किं ? छात्रस्य हसितं छात्रहसितं । ।
____________________________________________________________________
- <अधिकरण-वाचिना च># । । पाणिनीयसूत्र २,२.१३ । ।
_____काशिका २,२.१३ः
क्तोऽधिकरणे च ध्रौव्य-गति-प्रत्यवसान-अर्थेभ्यः (*३,४.७६) इति वक्ष्यति, तस्य+इदं ग्रहणं ।
अधिकरण-वाचिना क्तेन षष्ठी न समस्यते ।
इदं एषां यातं ।
इदं एषां भुक्तं । ।
____________________________________________________________________
- <कर्मणि च># । । पाणिनीयसूत्र २,२.१४ । ।
_____काशिका २,२.१४ः
क्तेन इति निवृत्तं ।
कर्म-ग्रहणं षष्ठी-विशेषणं ।
कर्मणि च या षष्ठी सा न समस्यते ।
उभय-प्राप्तौ कर्मणि (*२,३.६६) इति षष्ठ्या इदं ग्रहनं ।
आश्चर्यो गवां दोहोऽगोपालकेन ।
रोचते ओदनस्य भोजनं देवदत्तेन ।
साधु खलु पयसः पानं देवदत्तेन ।
विचित्रा सूत्रस्य कृतिः पाणिनिना । ।
____________________________________________________________________
- <तृज्-अकाभ्यां कर्तरि># । । पाणिनीयसूत्र २,२.१५ । ।
_____काशिका २,२.१५ः
कर्तृ-ग्रहणं षष्ठी-विशेषणं ।
कर्तरि या षष्ठी सा तृचा अकेन च सह न समस्यते ।
भवतः शायिका ।
भवत आसिका ।
भवतोऽग्रगामिका ।
तृच्चर्तर्येव विधीयते, तत्प्रयोगे कर्तरि षष्ठी न अस्ति ।
तस्मात्तृज्-ग्रहनं उत्तर-अर्थं ।
कर्तरि इति किं ? इक्षुभक्षिकां मे धारयसि । ।
____________________________________________________________________
- <कर्तरि च># । । पाणिनीयसूत्र २,२.१६ । ।
_____काशिका २,२.१६ः
कर्तरि च यौ तृज्-अकौ ताभ्यां सह षष्ठी न समस्यते ।
सामर्थ्यादकस्य विशेषण-अर्थं कर्तृ-ग्रहणम्, इतरत्र व्यभिचाराभावाथ् ।
अपां स्रष्टा ।
पुरां भेत्ता ।
वज्रस्य भर्ता ।
ननु च भर्तृ-शब्दो ह्ययं याजकादिषु पठ्यते ? सम्बन्धि-शब्दस्य पतिपर्यायस्य तत्र ग्रहनं ।
अकः खल्वपि - ओदनस्य भोजकः ।
सक्तूनां पायकः । ।
____________________________________________________________________
[#१२३]
- <नित्यं क्रीडा-जीविकयोः># । । पाणिनीयसूत्र २,२.१७ । ।
_____काशिका २,२.१७ः
न इति निवृत्तम्, न तृजकौ ।
नित्यं समासो विधीयते ।
क्रिडायां जीविकायां च नित्यं षष्ठी समस्यते, तत्पुरुषश्च समासो भवति ।
तृच्क्रिडा-जीविकयोर्न अस्ति इत्यक एव+उदाह्रियते ।
उद्दालकपुष्पभञ्जिका ।
वारनपुष्पप्रचायिका ।
जीविकायां - दन्तलेखकः ।
नखलेखकः ।
क्रिडाजीविक्योः इति किं ? ओदनस्य भोजकः । ।
____________________________________________________________________
- <कु-गति-प्र-आदयः># । । पाणिनीयसूत्र २,२.१८ । ।
_____काशिका २,२.१८ः
नित्यं इति वर्तते ।
कु-शब्दोऽव्ययं गृह्यते गत्यादि-साहचर्यात्, न द्रव्यवचनः ।
कु-गति-प्रादयः समर्थेन शब्दान्तरेण सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति ।
कुः पापार्थे - कुपुरुषः ।
गति - उररीकृतं ।
यदूरीकरोति ।
प्रादयः - दुर्निन्दायां - दुष्पुरुषः ।
स्वती पूजायां - सुपुरुषः ।
अतिपुरुषः ।
आङीषादर्थे - आपिङ्गलः ।
प्रायिकं च+एतदुपाधिवचनं ।
अन्यत्र अपि हि समासो दृश्यते ।
कोष्णं ।
कदुष्णं ।
कवोष्णं ।
दुष्कृतं ।
अतिस्तुतं ।
आबद्धं इति ।
प्रदयो गताद्यर्थे प्रथमया ।
प्रगत आचार्यः प्राचार्यः ।
प्रान्तेवासी ।
अत्यादयः क्रान्ताद्यर्थे द्वितीयया ।
अतिक्रान्तः खट्वां अतिखट्वः ।
अतिमालः ।
अवादयः क्रुष्टाद्यर्थे तृतीयया ।
अवक्रुष्टः कोकिलया अवकोकिलः ।
पर्यादयो ग्लानाद्यर्थे चतुर्थ्या ।
परिग्लानोऽध्ययनाय पर्यध्ययनः ।
अलं कुमार्यै अलंकुमारिः ।
निरादयः क्रान्ताद्यर्थे पञ्चम्या ।
निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः ।
निर्वाराणसिः ।
इवेन सह समासो विभक्त्य-लोपः पूर्वपद-प्रकृतिस्वरत्वं च वक्तव्यं ।
वाससी इव ।
वस्त्रे इव ।
प्रादि-प्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः ।
वृक्षं प्रति विद्युथ् ।
साधुर्देवचत्तो मातरं प्रति । ।
____________________________________________________________________
[#१२४]
- <उपपदं अतिङ्># । । पाणिनीयसूत्र २,२.१९ । ।
_____काशिका २,२.१९ः
नित्यं इति वर्तते ।
उपपदं अतिङन्तं समर्थेन शब्दान्तरेण सह समस्यते नित्यम्, तत्पुरुषश्च समासो भवति ।
कुम्भकारः ।
नगरकारः ।
अतिङिति किं ? एधानाहारको व्रजति ।
ननु च सुप्सुपा इति वर्तते, तत्र कुतस्तिङन्तेन समास-प्रसङ्गः ? एवं तर्हि ज्ञापयति एतयोर्योगयोः सुप्सुपेति न सम्बध्यते इति ।
तेन गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इत्येतदुपपन्नं भवति ।
अश्वक्रीती ।
अश्वक्रीती ।
धनक्रीती । ।
____________________________________________________________________
- <अमा-एव अव्ययेन># । । पाणिनीयसूत्र २,२.२० । ।
_____काशिका २,२.२०ः
पूर्वन समासे सिद्धे नियम-अर्थं वचनं ।
अव्ययेन-उपपदस्य यः समासः सोऽमा+एव भवति, न अन्येन ।
स्वादुङ्कारं भुङ्क्ते ।
सम्पन्नङ्कारं भुग्क्ते ।
लवनङ्कारं भुङ्क्ते ।
अमा+एव इति किं ? काल-समय-वेलासु तुमुन्(*३,३.१६७) - काले भोक्तुं ।
एवकारकरणं उपपद-विशेषन-अर्थं ।
अमा+एव यत्तुल्य-विधानं उपपदं तस्य समासो यथा स्यात्, अमा च अन्येन च यत्तुल्य-विह्धानं तस्य मा भूथ् ।
अग्रे भुक्त्वा, अग्रे भोजं । ।
____________________________________________________________________
- <तृतीया-प्रभृतीन्यतरस्यम्># । । पाणिनीयसूत्र २,२.२१ । ।
_____काशिका २,२.२१ः
अमा+एव इत्यनुवर्तते ।
उपदंशस्तृतीयायां (*३,४.४७) इत्यतः प्रभृति यान्युपपदानि तानि अमा+एव अव्ययेन सह-अन्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति ।
उभयत्र-विभाशेयं ।
यदमा+एव तुल्यविधानं उपपदं तस्य प्राप्ते, यथा उपदंशस्तृतीयायां (*३,४.४७) इति ।
यत्पुनरमा च अन्येन च तुल्यविधानं तस्य प्राप्ते, यथा अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ (*३,४..५९) इति ।
मूलकोपदंशं भुङ्क्ते, मूलकेन+उपदंशं भुङ्क्ते ।
उच्चैःकारं आचष्टे, उच्चैः कारं ।
अमा+एव इत्येव, पर्यप्तिवचनेष्वलमर्थेषु (*३,४.६६), पर्याप्तो भोक्तुं ।
प्रभुर्भोक्तुं । ।
____________________________________________________________________
- <क्त्वा च># । । पाणिनीयसूत्र २,२.२२ । ।
_____काशिका २,२.२२ः
अमा+एव इति पूर्वयोगेऽनुवृत्तं ।
तेन अन्यत्र न प्राप्नोति इति वचनं आरभ्यते ।
क्त्वाप्रत्ययेन सह तृतीया-प्रभृतीनि उपपदान्यन्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति ।
उच्चैः कृत्य ।
उच्चैः कृत्वा ।
अव्ययेऽयथाभिप्रेत-आख्याने (*३,४.५९) इति क्त्वाप्रत्ययः ।
समासपक्षे ल्यबेव ।
तृतीया-प्रभृतीनीत्येव, अलं कृत्वा ।
खलु कृत्वा । ।
____________________________________________________________________
[#१२५]
- <शेषो बहुव्रीहिः># । । पाणिनीयसूत्र २,२.२३ । ।
_____काशिका २,२.२३ः
उपयुकतादन्यः शेषः ।
षेशः समासो बहुव्रीहि-सञ्ज्ञो भवति ।
कश्च शेषः समासो न+उक्तः ।
वक्ष्यति अनेकं अन्यपदार्थे (*२,२.२४) - चित्रगुः ।
शबलगुः ।
कृष्णोत्तरासङ्गः ।
शेषः इति किं ? उन्मत्तगङ्गं ।
लोहितगङ्गं ।
बहुव्रीहि-प्रदेशाः - न बहुव्रीहौ (*१,१.२९) इत्येवं आदयः । ।
____________________________________________________________________
- <अनेकं अन्यपदार्थे># । । पाणिनीयसूत्र २,२.२४ । ।
_____काशिका २,२.२४ः
अनेकं सुबन्तमन्यप्दार्थे वर्तमानं सुपा सह समस्यते, बहुव्रीहिश्च समासो भवति ।
प्रथमार्थं एकं वर्जयित्वा सर्वेषु विभक्त्य्-अर्थेषु बहुव्रीहिर्भवति ।
प्राप्तं उदकं यं ग्रामं प्राप्तोदको ग्रामः ।
ऊढरथोऽनड्वान् ।
उपगृतपशू रुद्रः ।
उद्घृतौदना स्थाली ।
चित्रगुर्देवदत्तः ।
वीरपुरुषको ग्रामः ।
प्रथम-अर्थे तु न भवति ।
वृष्टे देवे गतः ।
अनेक-ग्रहनं किं ? बहूनां अपि यथा स्यात्, सुसूक्ष्मजटकेशेन सुगजाजिनवाससा ।
समन्तशितिरन्ध्रेण द्वयोर्वृत्तौ न सिध्यति । ।
बहुव्रीहिः समानाधिकरणानं इति वक्तव्यं ।
व्यधिकरणानां मा भूत्, पञ्चभिर्भुक्तमस्य ।
अव्ययानां च बहुव्रीहिर्वक्तव्यः ।
उच्चैर्मुखः ।
नीचैर्मुखः ।
सप्तम्य्-उपमान-पूर्वपदस्य+उत्तरपद-लोप श्च वक्तव्यः ।
कण्ठे स्थितः कालोऽस्य कण्ठेकलः ।
उरसिलोमा ।
उष्ट्रस्य मुखं इव मुखं यस्य स उष्ट्रमुखः ।
खरमुखः ।
समुदाय-विकारषष्ठ्याश्च बहुव्रीहिरुत्तरपद-लोपश्च+इति वक्तव्यं ।
केशानां सङ्घातः केशसङ्घातः, केशसङ्घातः चूडाऽस्य केशचूडः ।
सुवर्णस्य विकारोऽलङ्कारोऽस्य सुबर्णालङ्कारः ।
[#१२६]
प्रादिभ्यो धतुजस्य+उत्तरपदस्य लोपश्च वा बहुव्रीहिर्वक्तव्यः ।
प्रपतितं पर्णमस्य प्रपर्णः, प्रपतितपर्णः ।
प्रतितं पलाशमस्य प्रपलाशः, प्रपतितपलाशः ।
नञोऽस्त्यर्थानां बहुव्रीहिर्वाचोत्तरपदलोपश्च वक्तव्यः ।
आविद्यमानः पुत्रो यस्य अपुत्रः, अविद्यमानपुत्रः ।
अभार्यः, अविद्यमानभार्यः ।
सुबधिकारेऽस्तिक्षीरादीनां बहुव्रीहिर्वक्तव्यः ।
अस्तिक्षीरा ब्राह्मणी ।
अस्त्यादयो निपाताः । ।
____________________________________________________________________
- <सङ्ख्ययाऽव्यय-आसन्न-अदूर-अधिक-सङ्ख्याः सङ्ख्येये># । । पाणिनीयसूत्र २,२.२५ । ।
_____काशिका २,२.२५ः
सङ्ख्येये या सङ्ख्या वर्तते तया सह अव्यय-आसन्न-अदूर-अधिक-सङ्ख्याः समस्यन्ते बहुव्रीहिश्च समासो भवति ।
अव्यय - उपदशाः ।
उपविंशाः ।
आसन्नदशाः ।
आसन्नविंशाः ।
अदूरदशाः ।
अदूरविंशाः ।
अधिकदशाः ।
अधिकविंशाः ।
सङ्ख्या - द्वित्राः ।
त्रिचतुराः ।
द्विदशाः ।
सङ्ख्यया इति किं ? पञ्च ब्राह्मणाः ।
अव्यय-आसन्न-अदूर-अधिक-सङ्ख्याः इति किं ? ब्राह्मणाः पञ्च ।
सङ्ख्येये इति किं ? अधिका विंशतिर्गवां । ।
____________________________________________________________________
- <दिङ्नामान्यन्तराले># । । पाणिनीयसूत्र २,२.२६ । ।
_____काशिका २,२.२६ः
दिशां नामानि दिग्नामानि ।
दिङ्नामानि सुबन्तानि अन्तराले वाच्ये समस्यन्ते, बहुव्रीहिश्च समासो भवति ।
दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यद्-अन्तरालं दक्षिण-पूर्वा दिक् ।
पूर्वोत्तरा ।
उत्तरपश्चिमा ।
पश्चिमदक्षिणा ।
सर्वनम्नो वृत्तिमात्रे पुंवद्भावः ।
नामग्रहणं रूढ्यर्थं ।
इह म भूत्, ऐन्द्र्याश्च कौबेर्याश्च चिशोर्यद्-अन्तरालं इति । ।
____________________________________________________________________
- <तत्र तेन+इदं इति सरूपे># । । पाणिनीयसूत्र २,२.२७ । ।
_____काशिका २,२.२७ः
तत्र इति सप्तम्यन्तं गृह्यते ।
तेन इति तृतीयान्तं ।
सरूप-ग्रहनं प्रत्येकं अभिसम्बध्यते ।
तत्र इति सप्तम्यन्ते सरूपे पदे तेनेति च तृतीयान्ते इदं इत्येतस्मिन्नर्थे संस्येते, बहुव्रीहिश्च समासो भवति ।
इतिकरनश्च+इह विवक्षार्थो लौकिकं अर्थं अनुसारयति ।
ततो ग्रहणं, प्रहरनं कर्मव्यतीहारो, युद्धं च समास-अर्थः इति सर्वं इतिकरनाल्लभ्यते ।
[#१२७]
यत्तत्र इति निर्दिष्टं ग्रहणं चेत्तद्भवति, यत्तेन इति निर्दिष्टं प्रहरनं चेत्तद्भवति, यतिदं इति निर्दिष्टं युद्धं चेत्तद्भवति ।
केशेषु केशेषु च गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि ।
कचाकचि ।
दण्डैश्च दण्डैश्च प्रगृत्य इदं युद्धं प्रवृत्तं दण्डादण्डि ।
मुसलामुसलि ।
इच्कर्मव्यतीहारे (*५,४.१२७) इति इच्समासान्तः, स च अव्ययं ।
अन्येषां अपि दृश्यते (*६,३.१३७) इति पूर्वपदस्य दीर्घत्वं ।
सरूप-ग्रहणं किं ? हलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तं । ।
____________________________________________________________________
- <तेन सह+इति तुल्ययोगे># । । पाणिनीयसूत्र २,२.२८ । ।
_____काशिका २,२.२८ः
सह इत्येतच्छाब्दरूपं तुल्ययोगे वर्तमानं तेन इति तृतीयान्तेन सह समस्यते, बहुव्रीहिश्च समासो भवति ।
सह पुत्रेणागतः सपुत्रः ।
सच्छात्रः ।
सकर्मकरः ।
तुल्ययोगे इति किं ? सहैव दशभिः पुत्रैर्भारं बहति गर्दभी ।
विद्यमातैरेव दशभिः पुत्रैर्भारं वहति इत्यर्थः ।
कथं सकर्मकः, सलोमकः, सपक्षकः इति ? न ह्यत्र तुल्ययोगो गम्यते ।
किं तर्हि ? विद्यमानता ।
प्रायिकं तुल्ययोगे इति विशेषनं ।
अन्यत्र अपि समासो दृश्यते । ।
____________________________________________________________________
- <च-अर्थे द्वन्द्वः># । । पाणिनीयसूत्र २,२.२९ । ।
_____काशिका २,२.२९ः
अनेकं इति वर्तते ।
अनेकं सुबन्तं च-अर्थे वर्तमानं समस्यते, द्वन्द्व-सञ्ज्ञश्च समासो भवति ।
समुच्चयान्वाचयेतरेतरयोगसमाहाराश्च अर्थाः ।
तत्र समुच्चयान्वाचययोरसामर्थ्यात्न अस्ति समासः ।
इतरेतरयोगे समाहारे च समासो विधीयते ।
प्लक्षश्च न्यग्रोधश्च प्लक्ष-न्यग्रोधौ ।
धवश्च खदिरश्च पलाशश्च धव-खदिर-पलाशाः ।
वाक्च त्वक्च वाक्-त्वचं ।
वाग्-दृषदं ।
द्वन्द्व-प्रदेशाः - द्वन्द्वे च (*१,१.३१) इत्येवं आदयः । ।
____________________________________________________________________
- <उपसर्जनं पूर्वम्># । । पाणिनीयसूत्र २,२.३० । ।
_____काशिका २,२.३०ः
समासे इति वर्तते ।
उपसर्जन-सञ्ज्ञकं समासे पूर्वं प्रयोक्तव्यं ।
पूर्ववचनं परप्रयोगनिवृत्त्य्-अर्थं ।
अनियमो हि स्याथ् ।
द्वितीया - कष्टश्रितः ।
तृतीया - शङ्कुलाखण्डः ।
चतुर्थी - यूपदारु ।
पञ्चमी - वृकभयं ।
षष्ठी - राजपुरुषः ।
सप्तमी - अक्षशौण्डः । ।
____________________________________________________________________
[#१२८]
- <राजदन्त-आदिषु परम्># । । पाणिनीयसूत्र २,२.३१ । ।
_____काशिका २,२.३१ः
पूर्व-निपाते प्राप्ते परप्रयोग-अर्थं वचनं ।
राजदन्त-आदिषु उपसर्जनं परं प्रयोक्तव्यं ।
न केवलं उपसर्जनस्य, अन्यस्य अपि यथा लक्षणं विहितस्य पूर्वनिपातस्य अयं अपवादः परनिपातो विधीयते ।
दन्तानां राजा राजदन्तः ।
वनस्य अग्रे अग्रेवणं ।
निपातनादलुक् ।
राजदन्तः ।
अग्रेवनं ।
लिप्तवासितं ।
नग्नमुषितं ।
सिक्तसंमृष्टं ।
मृष्टलुञ्चितं ।
अवक्लिन्नपक्वं ।
अर्पितोप्तं ।
उप्तगाढं ।
पूर्वकालक्षय्परनिपातः ।
उलूखलमुसलं ।
तण्डुलकिण्वं ।
दृषदुपलं ।
आरग्वायनबन्धकी ।
चित्ररथबह्लीकं ।
आवन्त्यश्मकं ।
शूद्रार्यं ।
स्नातकराजानौ ।
विष्वक्षेनार्जुनौ ।
अक्षिभ्रुवं ।
दारगवं ।
शब्द-अर्थौ ।
धर्म-अर्थौ ।
काम-अर्थौ ।
अनियमश्च अत्र+इष्यते ।
अर्थ-शब्दौ ।
अर्थ-धर्मौ ।
अर्थ-कामौ ।
तत्कथं ? वक्तव्यं इदं ।
धर्म-आदिषु उभयं इति ।
वैकारमतं ।
गजवाजं ।
गोपालधानीपूलासं ।
पूलासककरण्डं ।
स्थूलपूलासं ।
उशीरबीजं ।
सिञ्जास्थं ।
चित्रास्वाती ।
भार्यापती ।
जायापती ।
जम्पती ।
दम्पती ।
जायाशब्दस्य जम्भावो दम्भावश्च निपात्यते ।
पुत्रपती ।
पुत्रपशू ।
केशश्मश्रू ।
श्मश्रुकेशौ ।
शिरोबीजं ।
सर्पिर्मधुनी ।
मधुसर्पिषी ।
आद्यन्तौ ।
अन्तादी ।
गुणवृद्धी ।
वृद्धिगुणौ । ।
____________________________________________________________________
- <द्वन्द्वे घि># । । पाणिनीयसूत्र २,२.३२ । ।
_____काशिका २,२.३२ः
पूर्वं इति वर्तते ।
द्वन्द्वे समासे घ्यन्तं पूर्वं प्रयोक्तव्यं ।
पटुगुप्तौ ।
मृदुगुप्तौ ।
अनेकप्राप्तावेकस्य नियमः, शेषे त्वनियमः ।
पटुमृदुशुक्लाः ।
पटुशुक्लमृदवः ।
द्वन्द्वे इति किं ? विस्पष्टपटुः । ।
____________________________________________________________________
- <अज्-आद्य्-अद्-अन्तम्># । । पाणिनीयसूत्र २,२.३३ । ।
_____काशिका २,२.३३ः
द्वन्द्वे इति वर्तते ।
अज्-आद्य्-अद्-अन्तं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यं ।
उष्ट्रखरं ।
उष्त्रशशकं ।
बहुष्वनियमः ।
अश्वरथेन्द्राः ।
इन्द्ररथाश्वाः ।
द्वन्द्वे घ्यजाद्यदन्तं विप्रतिषेधेन ।
इन्द्राग्नी ।
इन्द्रवायू ।
तपरकरणं किं ? अश्वावृषौ, वृषाश्वे इति वा । ।
____________________________________________________________________
[#१२९]
- <अल्प-अच्-तरम्># । । पाणिनीयसूत्र २,२.३४ । ।
_____काशिका २,२.३४ः
द्वन्द्वे इति वर्तते ।
अल्पाच्तरं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यं ।
प्लक्षश्च न्यग्रोध्श्च प्लक्ष-न्यग्रोधौ ।
धवखदिरपलाशाः ।
बहुष्वनियमः - शङ्खदुन्दुभिवीणाः, वीणाशङ्खदुन्दुभयः ।
ऋतुनक्ष्त्राणामानुपूर्व्येण समानक्षरानां पूर्वनिपातो वक्तव्यः ।
हेमन्तशिशिरवसन्ताः ।
चित्रास्वाती ।
कृत्तिकारोहिण्यौ ।
समानाक्षराणां इति किं ? ग्रीष्मवसन्तौ ।
लघ्व्-अक्षरं पूर्वं निपतति इति वक्तव्यं ।
कुशकाशं ।
शरशादं ।
अभ्यर्हितं च पूर्वं निपतति इति वक्तव्यं ।
मातापितरौ ।
श्रद्धमेधे ।
दीक्षातपसी ।
वर्णानामानुपूर्व्येण पूर्वनिपातः ।
ब्राह्मणक्षत्रियविट्शूद्राः ।
समानाक्षराणां इत्यत्र न अस्ति ।
भ्रातुश्च ज्यायसः पूर्वनिपातो वक्तव्यः ।
युधष्ठिरार्जुनौ ।
सङ्ख्याया अल्पीयस्याः पूर्वनिपातो वक्तव्यः ।
द्वित्राः ।
त्रिचतुराः ।
नवतिशतं । ।
____________________________________________________________________
- <सप्तमी-विशेषने बहुव्रीहौ># । । पाणिनीयसूत्र २,२.३५ । ।
_____काशिका २,२.३५ः
सर्वोपसर्जनत्वाद्बहुव्रीहेरनियमे प्राप्ते नियम-अर्थं वचनं ।
सप्तम्यन्तं विशेषणं च बहुव्रीहि-समासे पूर्वं प्रयोक्तव्यं ।
क्ण्ठेकालः ।
उरसिलोमा ।
विशेषनं - चित्रगुः ।
शबलगुः ।
सर्वनाम-सङ्ख्ययोरुपसङ्ख्यानं ।
सर्वश्वेतः ।
सर्वकृष्णः ।
द्विशुक्लः ।
द्विकृष्णः ।
अनयोरेव मिथः संप्रधारणायां प्रत्वात्सङ्ख्यायाः पूर्वनिपातः ।
द्व्यन्यः ।
त्र्यन्यः ।
[#१३०]
वा प्रियस्य पूवनिपातः ।
गुडप्रियः, प्रियगुडः ।
सप्तम्याः पूर्वनिपाते प्रप्ते गड्वादिभ्यः सप्तम्यन्तं परं ।
गडुकण्ठः ।
गडुशिराः ।
कथं वहेगडुः ? प्राप्तस्य चाबाधा व्याख्येया । ।
____________________________________________________________________
- <निष्ठा># । । पाणिनीयसूत्र २,२.३६ । ।
_____काशिका २,२.३६ः
निष्ठन्तं च भुव्रीहि-समासे पूर्वं प्रयोक्तव्यं ।
कृतकटः ।
भिक्षितभिक्षिः ।
अवमुक्तोपानत्कः ।
आहूतसुब्रह्मण्यः ।
ननु च विशेषणं एव अत्र निष्ठा ? न+एष नियमः, विशेषण-विशेष्य-भवस्य विवक्षा निबन्धनत्वाथ् ।
कथे कृतं अनेन इति वा विग्रहीतव्यं ।
निष्थायाः पूर्वनिपाते जातिकालसुखादिभ्यः प्रवचनं ।
शार्ङ्गजग्धी ।
पलाण्डुभक्षिती ।
मासजातः ।
सम्बत्सरजातः ।
सुखजातः ।
दुःखजातः ।
कथं कृतकटः, भुक्तौदनः ? प्राप्तस्य चाबाधा व्याख्येया ।
प्रहरणार्थेभ्यश्च परे निष्ठासप्तम्यौ भवत इति वक्तव्यं ।
अस्युद्यतः ।
दण्डपाणिः ।
कथं उद्यतगदः, उद्यतासिः ? प्राप्तस्य चाबाधा व्याख्येया । ।
____________________________________________________________________
- <वा+आहित-अग्न्य्-आदिषु># । । पाणिनीयसूत्र २,२.३७ । ।
_____काशिका २,२.३७ः
निष्ठा इति पूर्वनिपाते प्राप्ते विकल्प उच्यते ।
आहिताग्न्य्-आदिषु निष्ठान्तं पूर्वं वा प्रयोक्तव्यं ।
अग्न्याहितः ।
आहिताग्निः ।
जातपूत्रः, पुत्रजतः ।
जातदन्तः ।
जातशमश्रुः ।
तैलपीतः ।
घृतपीतः ।
ऊढभार्यः ।
गतार्थः ।
आकृतिगनश्च अयम्, तेन गडुकण्ठप्रभृतय इह+एव द्रष्टव्याः । ।
____________________________________________________________________
- <कडाराः कर्मधारये># । । पाणिनीयसूत्र २,२.३८ । ।
_____काशिका २,२.३८ः
गुन-शब्दानां विशेषनत्वात्पूर्वनिपाते प्राप्ते विकल्प उच्यते ।
कडारादयः कर्मधारये समासे वा पूर्वं ।
प्रयोक्तव्याः ।
कडारजैमिनिः, जैमिनिकडारः ।
[#१३१]
कडार ।
गुडुल ।
काण ।
खञ्ज ।
कुण्ठ ।
खञ्जर ।
खलति ।
गौर ।
वृद्ध ।
भिक्षुक ।
पिङ्गल ।
तनु ।
वटर ।
कर्मधरये इति किं ? कडारपुरुषो ग्रामः । ।
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य द्वितीय पादः । ।
द्वितीयाध्यायस्य तृतीयः पादः
____________________________________________________________________
[#१३२]
- <अनभिहिते># । । पाणिनीयसूत्र २,३.१ । ।
_____काशिका २,३.१ः
अनभिहिते इत्यधिकारोऽयं वेदितव्यः ।
यदित ऊर्ध्वं अनुक्रमिष्यामः, अनभिहिते इत्येवं तद्वेदितव्यं ।
अनभिहिते अनुक्ते, अनिर्दिष्टे कर्मादौ विभक्तिर्भवति ।
केन अनभिहिते ? तिङ्-कृत्-तद्धित-समासैः परिसङ्ख्यानं ।
वक्ष्यति, कर्मणि द्वितीया (*२,३.२) - कटं कर्तोति ।
ग्रामं गच्छति ।
अनभिहिते इति किं ? तिङ्- क्रियते कटः ।
कृत्- कृतः कटः ।
तद्धितः - शत्यः ।
शतिकः ।
समासः - प्राप्तं उदकं यं ग्रामं प्राप्तोदको ग्रामः ।
परिसङ्ख्यानं किं ? कटं करोति भीष्ममुदारं दर्शनीयं ।
वहुषु बहुवचनं इत्येवं आदिना सङ्ख्या वच्यत्वेन विभक्तीनां उपदिष्टाः, तत्र विशेषण-अर्थं इदं आरभ्यते - अनभिहितकर्माद्याश्रयेष्वेकत्वादिषु द्वितीयादयो वेदितव्याः इति । ।
____________________________________________________________________
- <कर्मणि द्वितीया># । । पाणिनीयसूत्र २,३.२ । ।
_____काशिका २,३.२ः
द्वितीयादयः शब्दाः पूर्वाचार्यैः सुपां त्रिकेषु समर्यन्ते, तैरेव अत्र व्यवहारः ।
कर्मणि कारके या सङ्ख्या तत्र द्वितीया विभक्तिर्भवति ।
कटं करोति ।
ग्रामं गच्छति ।
उभसर्वतसोः कार्या धिगुपर्यादिषु क्रिषु ।
द्वितीया+आम्रेडितान्तेषु ततोऽन्यत्र अपि दृश्यते । ।
उभयतो ग्रामं ।
सर्वतो ग्रामं ।
धिग्देवदत्तं ।
उपर्युपरि ग्रामं ।
अध्यधि ग्रामं ।
अधोऽधो ग्रामं ।
अभितःपरितःसमयानिकषाहाप्रतियोगेषु च दृश्यते ।
अभितो ग्रामं ।
परितो ग्रामं ।
समया ग्रामं ।
निकाषा ग्रामं ।
हा देवदत्तं ।
बुभुक्षितं न प्रति भाति किञ्चित् । ।
____________________________________________________________________
- <तृतीया च होश्छन्दसि># । । पाणिनीयसूत्र २,३.३ । ।
_____काशिका २,३.३ः
कर्मणि इति वर्तते ।
द्वितीयायां प्राप्तायां तृतीया विधीयते ।
च-शब्दात्सा च भवति ।
छन्दसि विषये जुहोतेः कर्मणि कारके तृतीया विभक्तिर्भवति, द्वितीया च ।
यवाग्वाऽग्निहोत्रं जुहोति ।
यवागूं अग्निहोत्रं जुहोति ।
छन्दसि इति किं ? यवागूं अग्निहोत्रं जुहोति । ।
____________________________________________________________________
[#१३३]
- <अन्तराऽन्तरेण युक्ते># । । पाणिनीयसूत्र २,३.४ । ।
_____काशिका २,३.४ः
द्वितीया स्वर्यते, न तृतीया ।
अन्तरान्तरेण शब्दौ निपातौ साहचर्याद्गृह्येते ।
आभ्यां योगे द्वितीया विभक्तिर्भवति ।
षष्ठ्य्-अपवादोऽयं योगः ।
तत्र अन्तराशब्दो मध्यमाधेय-प्रधानं आचष्टे ।
अन्तरेण शब्दस्तु तच्च विनार्थं च ।
अन्तरा त्वां च मां च कमण्डलुः ।
अन्तरेण त्वां च मां च कमण्डलुः ।
अन्तरेण पुरुषकारं न किंचिल्लभ्यते ।
युक्त-ग्रहणं किं ? अन्तरा तक्षशिलां च पाटलिपुत्रं स्रुघ्नस्य प्राकारः । ।
____________________________________________________________________
- <काल-अध्वनोरत्यन्त-संयोगे># । । पाणिनीयसूत्र २,३.५ । ।
_____काशिका २,३.५ः
काल-शब्देभ्योऽध्व-शब्देभ्यश्च द्वितीया विभक्तिर्भवति अत्यन्तसंयोगे गम्यमाने ।
क्रिया-गुण-द्रव्यैः साकल्येन कालाध्वनोः सम्बन्धः अत्यन्तसंयोगः ।
मासं अधीते ।
संवत्सरं अधीते ।
मासं कल्याणी ।
संवत्सरं कल्याणी ।
मासं गुडधीनाः ।
संवत्सरं गुडधानाः ।
अध्वनः खल्वपि - क्रोशं अधीते ।
योजनं अधीते ।
क्रोशं कुटिला नदी ।
योजनं कुटिला नदी ।
क्रोशं पर्वतः ।
योजनं पर्वतः ।
अत्यन्तसंयोगे इति किं ? मासस्य द्विरधीते ।
क्रोशस्य+एकदेशे पर्वतः । ।
____________________________________________________________________
- <अपवर्गे तृतीया># । । पाणिनीयसूत्र २,३.६ । ।
_____काशिका २,३.६ः
काल-अध्वनोरत्यन्तसंयोगे इति वर्तते ।
अपवर्गः फल-प्राप्तौ सत्यां क्रियापरिसमाप्तिः ।
अपवर्गे गम्यमाने काल-अध्वनोरत्यन्तसंयोगे तृतीया विभक्तिर्भवति ।
मसेन अनुवाकोऽधीतः ।
संवत्सरेण अनुवाकोऽधीतः ।
अध्वनः - क्रोशेन अनुवाकोऽधीतः ।
योजनेन अनुवाकोऽधीतः ।
अपवर्गे इति किं ? क्रोशं अधीतोऽनुवाकः ।
मासं अधीतः ।
कर्तव्यादृत्तौ फल-सिद्धेरभावात्तृतीया न भवति ।
मासं अधीतोऽनुवाकः, न च अनेन गृहीतः । ।
____________________________________________________________________
- <सप्तमी-पञ्चम्यौ कारक-मध्ये># । । पाणिनीयसूत्र २,३.७ । ।
_____काशिका २,३.७ः
काल-अध्वनोः इति वर्तते ।
कारकयोर्मध्ये यौ काल-अध्वानौ ताभ्यां सप्तमी-पञ्चम्यौ विभक्ती भवतः ।
अद्य भुक्तवा देवदत्तो द्व्यहे भोक्ता द्व्यहाद्वा भोक्ता ।
त्र्यहे त्र्यहाद्वा भोक्ता ।
कर्तृ-शक्त्योर्मध्ये कलः ।
इह स्थोऽयं इष्वासः क्रोशे लक्ष्यं विध्यति ।
क्रोशाल्लक्ष्यं विधियति ।
कर्तृ-कर्मणोः कारकयोः कर्म-अपादानयोः कर्म-अधिकरणयोर्वा मध्ये क्रोशः ।
सङ्ख्यात-अनुदेशो न भवति, अस्वरितत्वात् । ।
____________________________________________________________________
- <कर्मप्रवचनीय-युक्ते द्वितीया># । । पाणिनीयसूत्र २,३.८ । ।
_____काशिका २,३.८ः
कर्मप्रवचनीयैर्युक्ते द्वितीया विभ्क्तिर्भवति ।
अनुर्लक्षणे (*१,४.८४) - शाकल्यसय संहितां अनुप्रावर्षथ् ।
आगस्त्यं अन्वसिञ्चत्प्रजाः । ।
____________________________________________________________________
[#१३४]
- <यस्मादधिकं यस्य च+ईश्वर-वचनं तत्र सप्तमी># । । पाणिनीयसूत्र २,३.९ । ।
_____काशिका २,३.९ः
कर्मप्रवचनीय-युक्त इति वर्तते ।
यसमा दधिकं यस्य च+ईश्वरवचनं कर्मप्रवचनीयैर्युक्ते तत्र सप्तमी विभक्तिर्भवति ।
उप खार्यं द्रोणः ।
उप निष्के कार्षापणं ।
यस्य च+ईश्वरवचनं इति स्वस्वामिनोर्द्वयोरपि पर्यायेण सप्तमी विभक्तिर्भवति ।
अधि ब्रह्मदत्ते पञ्चालाः, अधि पञ्चालेषु ब्रह्मदत्तः इति ।
द्वितीय-अपवादो योगः । ।
____________________________________________________________________
- <पञ्चम्य्-अप-आङ्-परिभिः># । । पाणिनीयसूत्र २,३.१० । ।
_____काशिका २,३.१०ः
अप आङ्परि इत्येतैः कर्मप्रवचनीयैर्योगे पज्चमी विभक्तिर्भवति ।
अप त्रिगर्तेभ्यो वृष्टो देवः ।
आ पाटलिपुत्राद्वृष्टो देवः ।
परि त्रिगर्तेभ्यो वृष्तो देवः ।
अपेन साहचर्यात्परेर्वर्जन-अर्थस्य ग्रहणम्, तेन+इह न भवति, वृक्षं परि विद्योतते विद्युत् । ।
____________________________________________________________________
- <प्रतिनिधि-प्रतिदाने च यस्मात्># । । पाणिनीयसूत्र २,३.११ । ।
_____काशिका २,३.११ः
मुख्य-सदृशः प्रतिनिधिः ।
दत्तस्य प्रतिनिर्यातनं प्रतिदानं ।
यस्मात्प्रतिनिधिर्यतश्च प्रतिदानं तत्र कर्मप्रवचनीय-युक्ते पञ्चमी विभक्तिर्भवति ।
अभिमन्युरर्जुनतः प्रति ।
प्रद्युम्नो वासुदेवतः प्रति ।
माषानस्मै तिलेभ्यः प्रति यच्छति ।
ननु च प्रतिनिधि-प्रतिदाने कर्मप्रवचनीय-युक्ते, न तु यतः प्रतिनिधि-प्रतिदाने ? न+एष दोषः, सम्बन्ध-सम्बन्धात्तस्य अपि योगोऽस्त्येव । ।
____________________________________________________________________
- <गत्यर्थ-कर्मणि द्वितीया-चतुर्थ्यौ चेष्टायां अनध्वनि># । । पाणिनीयसूत्र २,३.१२ । ।
_____काशिका २,३.१२ः
गत्यर्थानां धातूनां चेष्ताक्रियाणां परिस्पन्दक्रियाणां कर्मणि कारकेऽध्ववर्जिते द्वितीया-चतुर्थ्यौ भवतः ।
ग्रामं गच्छति, ग्रामाय गच्छति ।
ग्रामं व्रजति, ग्रामाय व्रजति ।
गत्यर्थ-ग्रहणं किं ? ओदनं पचति ।
कर्मणि इति किं ? अश्वेन व्रजति ।
देष्टायं इति किं ? मनसा पाटलिपुत्रं गच्छति ।
अनध्वनि इति किं ? अध्वानं गच्छति ।
अध्वनीत्यर्थ-ग्रहनं ।
पन्थानं गच्छति ।
मार्गं गच्छति ।
आस्थित-प्रतिषेधश्चायं विज्ञेयः ।
आस्थितः सम्प्राप्तः, आक्रान्त उच्यते ।
यत्र तु उत्पथेन पन्थानं गच्छति, तत्र भवितव्यं एव चतुर्थ्या, पथे गच्छति इति ।
द्वितीया-ग्रहनं किं ? न चत्र्थ्येव विक्ल्प्येत, अपवाद-विषयेऽपि यथा स्याथ् ।
ग्रामं गन्ता ग्रामाय गन्ता ।
कृद्-योग-लक्षणा षष्ठी न भवति । ।
____________________________________________________________________
[#१३५]
- <चतुर्थी सम्प्रदाने># । । पाणिनीयसूत्र २,३.१३ । ।
_____काशिका २,३.१३ः
सम्प्रदाने कारके चतुर्थी विभक्तिर्भवति ।
उपध्यायाय गां ददाति ।
मानवकाय भिक्षां ददाति ।
देवदत्ताय रोचते ।
पुष्पेभ्यः स्पृहयति इत्यादि ।
चतुर्थीविधाने तादर्थ्य उपसङ्ख्यानं ।
यूपाय दारु ।
कुण्डलाय हिरण्यं ।
रन्धनाय स्थाय स्थाली ।
अवहननायोलूखलं ।
कृपि सम्पद्यमाने चतुर्थी वक्तव्या ।
मूत्राय कल्पते यवागूः ।
उच्चाराय कल्पते यवागूः ।
कृपि इत्यर्थ-निर्देशः ।
मूत्राय सम्पद्यते यवागूः ।
मूत्राय जायते यवगूः ।
उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या ।
वाताय कपिला विद्युदातपायातिलोहिनी ।
पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् । ।
हितयोगे चतुर्थी वक्तव्या ।
गोभ्यो हितं ।
अरोचकिने हितं । ।
____________________________________________________________________
- <क्रिय-अर्थ-उपपदस्य च कर्मणि स्थानिनः># । । पाणिनीयसूत्र २,३.१४ । ।
_____काशिका २,३.१४ः
क्रियार्था क्रिया उपपदं यस्य सोऽयं क्रियार्थोपपाः ।
तुमुन्-ण्वुलौ क्रियायां क्रियार्थायां (*३,३.१०) इत्येष विषयो लक्ष्यते ।
क्रियार्थोपपदस्य च स्थानिनोऽप्रयुज्यमानस्य धातोः कर्मणि कारके चतुर्थी विभक्तिर्भवति ।
द्वितीय-अपवादो योगः ।
एधेभ्यो व्रजति ।
पुष्पेभ्यो व्रजति क्रियार्थोपपदस्य इति किं ? प्रविश पिण्डीं ।
प्रविश तर्पनं ।
भक्षिरत्र स्थानी, न तु क्रियार्थोपपदः ।
कर्मणि इति किं ? एधेभ्यो व्रजति शकटेन ।
स्थानिनः इति किं ? एधानाहर्तुं व्रजति । ।
____________________________________________________________________
- <तुमर्थाच्च भाव-वचनात्># । । पाणिनीयसूत्र २,३.१५ । ।
_____काशिका २,३.१५ः
तुमुना समानार्थस्तुमर्थः ।
तुमर्थ-भाववचन-प्रत्ययान्तात्प्रातिपदिकाच्चतुर्थी विभक्तिर्भवति ।
भाववचनाश्च (*३,३.११) इति वक्ष्यति, तस्य+इदं ग्रहनं ।
पाकाय व्रजति ।
त्यागाय व्रजति ।
भूतये व्रजति ।
संपत्तये व्रजति ।
तुमर्थातिति किं ? पाकः ।
त्यागः ।
रागः ।
भाववचनातिति किं ? कारको व्रजति । ।
____________________________________________________________________
[#१३६]
- <नमः-स्वस्ति-स्वाहा-स्वधाऽलं-वषड्-योगाच्च># । । पाणिनीयसूत्र २,३.१६ । ।
_____काशिका २,३.१६ः
नमः स्वस्ति स्वाहा स्वधा अलं वषटित्येतैर्योगे चतुर्थी विभक्तिर्भ्वति ।
नमो देवेभ्यः ।
स्वस्ति प्रजाभ्यः ।
स्वाहा अग्नये ।
स्वधा पितृभ्यः ।
अलं मल्लो मल्लाय ।
अलं इति पर्याप्त्यर्थ-ग्रहणं ।
प्रभुर्मल्लो मल्लाय ।
शक्तो मल्लो मल्लाय् ।
वशडग्नये ।
वषडिन्द्राय ।
चकारः पुनरस्य+एव समुचय-अर्थः ।
तेन आशीर्विवक्षायां अपि षष्ठीं वाधित्वा चतुर्थ्येव भवति ।
स्वस्ति गोभ्यो भूयाथ् ।
स्वस्ति ब्राह्मणेभ्यः । ।
____________________________________________________________________
- <मन्य-कर्मण्य्-अनादरे विभाषाऽप्राणिषु># । । पाणिनीयसूत्र २,३.१७ । ।
_____काशिका २,३.१७ः
मन्यतेः कर्मणि मन्यकर्मणि ।
मन्यकर्मणि प्राणिवर्जिते विभाषा चतुर्थी विभक्तिर्भवति अनादरे गम्यमाने ।
अनादरस्तिरस्कारः ।
न त्वा तृणं मन्ये, न त्वा तृणाय मन्ये ।
न त्वा बुसं मन्ये, न त्वा बुसाय मन्ये ।
मन्यति-ग्रहणं किं ? न त्वा तृणं चिन्तयामि ।
विकरण-निर्देशः किं अर्थः ? न त्वा तृणं मन्वे ।
अनादरे इति किं ? अश्मानं दृषदं मन्ये मन्ये कष्ठमुलूखलं ।
अन्धायास्तं सुतं मन्ये यस्य माता न पश्यति । ।
अप्रानिषु इति किं ? न त्वा शृगालं मन्ये ।
यदेतदप्राणिष्विति तदनावादिष्विति वक्तव्यं ।
व्यवस्थित-विभाषा च ज्ञेया ।
न त्वा नावं मन्ये यावदुत्तीर्णं न नाव्यं ।
न त्वाऽन्नं मन्ये यावन्न भुक्तं श्राद्धं ।
प्राणिषु तूभयं ।
न त्वा काकं मन्ये ।
न त्वा शृगालं मन्ये ।
इह चतुर्थी द्वितीया च भवतः - न त्वा श्वानं मन्ये, न त्वा शुने मन्ये ।
युष्मदः कस्मान्न भवति चतुर्थी, एतदपि हि मन्यतेः कर्म ? व्यवस्थित-विभाषा-विज्ञानादेव न भवति । ।
____________________________________________________________________
[#१३७]
- <कर्तृ-करणयोस्तृतीया># । । पाणिनीयसूत्र २,३.१८ । ।
_____काशिका २,३.१८ः
कर्तरि करणे च कारके तृतीया विभक्तिर्भवति ।
देवदत्तेन कृतं ।
यज्ञदत्तेन भुक्तं ।
करणे - दात्रेण लुनाति ।
परशुना छिनत्ति ।
तृतीया-विधाने प्रकृत्यादीनां उपसङ्ख्यानं ।
प्रकृत्याऽभिरूपः ।
प्रकृत्या दर्शनीयः ।
प्रायेण याज्ञिकः ।
प्रायेण वैयाकरणः ।
गार्ग्योऽस्मि गोत्रेण ।
समेन धावति ।
विषमेण धावति ।
द्विद्रोणेन धान्यं क्रीणाति ।
पञ्चकेन पशून्क्रीणाति ।
साहस्रेण अश्वान्क्रीणाति । ।
____________________________________________________________________
- <सहयुक्तेऽप्रधाने># । । पाणिनीयसूत्र २,३.१९ । ।
_____काशिका २,३.१९ः
सह-अर्थेन युक्ते अप्रधाने तृतीया विभक्तिर्भवति ।
पुत्रेण सहागतः पिता ।
पुत्रेण सह गोमान् ।
पितुरत्र क्रियादि-सम्बन्धः शब्देन+उच्यते, पुत्रस्य तु प्रतीयमान इति तस्याप्राधान्यं ।
सहार्थेन च योगे तृतीया-विधानात्पर्याय-प्रयोगेऽपि भवति, पुत्रेण सार्धं इति ।
विनाऽपि सह-शब्देन भवति, वृद्धो यूना (*१,२.६५) इति निदर्शनाथ् ।
अप्रधाने इति किं ? शिष्येण सहोपाद्यायस्य गौः । ।
____________________________________________________________________
- <येन अङ्ग-विकारः># । । पाणिनीयसूत्र २,३.२० । ।
_____काशिका २,३.२०ः
अङ्ग-शब्दोऽत्र अङ्ग-समुदाये शरीरे वर्तते, येन इति च तदवयवो हेतुत्वेन निर्दिश्यते ।
येन अङ्गेन विकृतेन अङ्गिनो विकारो लक्ष्यते, ततस्तृतीया विभक्तिर्भवति ।
अक्ष्णा काणः ।
पादेन खञ्जः ।
पाणिना कुन्ठः ।
अवयवधर्मेण समुदयो व्यपदिश्यते ।
अङ्गविकारः इति किं ? अक्षि काणमस्य । ।
____________________________________________________________________
- <इत्थम्-भूत-लक्षणे># । । पाणिनीयसूत्र २,३.२१ । ।
_____काशिका २,३.२१ः
कञ्चित्प्रकारं प्राप्तः इत्थम्भूतः ।
तस्य लक्षणं इत्थम्भूतलक्षणं ।
ततस्तृतीया विभक्तिर्भवति ।
अपि भवान्कमण्डलुना छात्रमद्राक्षीत्? छात्रेणोपाध्यायं ।
शिखया परिव्राजकं ।
इह न भवति, कमण्ड्लुपानिश्छात्रः इति, लक्षणस्य समासेऽन्तर्भूतत्वाथ् ।
इत्थम्भूतः इति किं ? वृक्षं प्रति विद्योतनं । ।
____________________________________________________________________
[#१३८]
- <सञ्ज्ञोऽन्यतरस्यां कर्मणि># । । पाणिनीयसूत्र २,३.२२ । ।
_____काशिका २,३.२२ः
सम्पूर्वस्य जानातेः कर्मणि करके द्वितीयायां प्राप्तायां अन्यतरस्यां तृतीयाविभक्तिर्भवति ।
पित्रा सञ्जानीते, पितरं सञ्जानीते ।
मात्रा सञ्जानीते, मातरं सञ्जानीते । ।
____________________________________________________________________
- <हेतौ># । । पाणिनीयसूत्र २,३.२३ । ।
_____काशिका २,३.२३ः
फलसाधनयोग्यः पदार्थो लोके हेतुरुच्यते ।
तद्वाचिनस्तृतीया विभक्तिर्भवति ।
धनेन कुलं ।
कन्यया शोकः ।
विद्यया यशः । ।
____________________________________________________________________
- <अकर्तर्य्-ऋणे पञ्चमी># । । पाणिनीयसूत्र २,३.२४ । ।
_____काशिका २,३.२४ः
हेतौ इति वर्तते ।
कर्तृ-वर्जितं यदृणं हेतुः, ततः पञ्चमी विभक्तिर्भवति तृतीया+अपवादो योगः ।
शताद्बद्धः ।
सहस्राद्बद्धः ।
अकर्तरि इति किं ? शतेन बन्धितः ।
शतमृणं च भवति, प्रयोजकत्वाच्च कर्तृसञ्ज्ञकं । ।
____________________________________________________________________
- <विभाषा गुणेऽस्त्रीयाम्># । । पाणिनीयसूत्र २,३.२५ । ।
_____काशिका २,३.२५ः
हेतौ इति वर्तते ।
गुणे हेतावस्त्रीलिङ्गे विभाषा पञ्चमी विभक्तिर्भवति ।
जाड्याद्बद्धः, जाड्येन बद्धः ।
पाण्डित्यान्मुक्तः, पाण्डित्येन मुक्तः ।
गुण-ग्रहनं किं ? धनेन कुलं ।
अस्त्रियां इति किं ? बुद्ध्या मुक्तः ।
प्रज्ञया मुक्तः । ।
____________________________________________________________________
- <षष्ठी हेतु-प्रयोगे># । । पाणिनीयसूत्र २,३.२६ । ।
_____काशिका २,३.२६ः
हेतोः प्रयोगः हेतुप्रयोगः ।
हेतु-शब्दस्य प्रयोगे हेतौ द्योत्ये षष्ठी विभक्तिर्भवति ।
अन्नस्य हेतोर्वसति । ।
____________________________________________________________________
- <सर्वनाम्नस्तृतीया च># । । पाणिनीयसूत्र २,३.२७ । ।
_____काशिका २,३.२७ः
सर्वनाम्नो हेतु-शब्द-प्रयोगे हेतौ द्योत्ये तृतीया विभक्तिर्भवति, षष्ठी च ।
पूर्वेण षष्ठ्यां एव प्राप्तायां इदं उच्यते ।
केन हेतुना वसति, कस्य हेतोर्वसति ।
येन हेतुना वसति, यस्य हेतोर्वसति ।
निमित्तकारण-हेतुषु सर्वासां प्रायदर्शनं ।
[#१३९]
किंनिमित्तं वसति, केन निमित्तेन वसति, कस्मै निमित्ताय वसति, कस्मान्निमित्ताद्वसति, कस्य निमित्तस्य वसति, कस्मिन्निमित्ते वसति ।
एवं कारणहेत्वोरप्युदहार्यं ।
अर्थ-ग्रहनं च+एतथ् ।
पर्यायोपादानं तु स्वरूप-विधिर्मा विज्ञायि इति ।
तेन+इह अपि भवति - किं प्र्पयोजनं वसति, केन प्रयोजनेन वसति, कस्मै प्रयोजनाय वसति, कस्मात्प्रयोजनाद्वसति, कस्य प्रयोजनस्य वसति, कस्मिन्प्रयोजने वसति । ।
____________________________________________________________________
- <अपादाने पञ्चमी># । । पाणिनीयसूत्र २,३.२८ । ।
_____काशिका २,३.२८ः
अपादाने कारके पञ्चमी विभक्तिर्भवति ।
ग्रामादागच्छति ।
पर्वतादवरोहति ।
वृकेभ्यो बिभेति ।
अध्ययनात्पराजयते ।
पञ्चमी-विधाने ल्यब्-लोपे कर्मण्युपसङ्ख्यानं ।
प्रासादं आरुह्य प्रेक्षते, प्रासादात्प्रेक्षते ।
अधिकरणे च+उपसङ्ख्यानं ।
आसने उपविष्य प्रेक्षते, आसनात्प्रेक्षते ।
शयनात्प्रेक्षते ।
प्रष्नाख्यानयोष्च पञ्चमी वक्तव्या ।
कुतो भवान्? पाटलिपुत्राथ् ।
यतष्चाध्वकालनिर्माणं तत्र पञ्चमी वक्तव्या ।
गवीधुमतः साङ्काश्यं चत्वारि योजनाअनि ।
कार्तिक्या आग्रहायणी मासे ।
तद्युक्तात्काले सप्तमी वक्तव्या ।
कार्तिक्या आग्रहायणी मासे ।
अध्वनः प्रथमा सप्तमी च वक्तव्या ।
गवीधुमतः साङ्काश्यं चत्वारि योजनानि, चतुर्षु योजनेषु वा । ।
____________________________________________________________________
- <अन्य-आराद्-इतर-र्ते-दिक्-शब्द-अञ्चु-उत्तरपद-अज्-आहि-युक्ते># । । पाणिनीयसूत्र २,३.२९ । ।
_____काशिका २,३.२९ः
अन्य आरातितर ऋते दिक्-शब्द अञ्चु-उत्तरपद आचाहि इत्येतैर्योगे पञ्चमी विभक्तिर्भवति ।
अन्य इत्यर्थ-ग्रहनं ।
तेन पर्याय-प्रयोगेऽपि भवति ।
अन्योदेवदत्ताथ् ।
भिन्नो देवदत्ताथ् ।
अर्थ-अन्तरं देवदत्ताथ् ।
[#१४०]
विलक्षणे देवदत्ताथ् ।
आराच्-छब्दो दूरान्तिक-अर्थे वर्तते ।
तत्र दूरान्तिकार्थैः षष्थ्य्-अन्यतरस्यां (*२,३.३४) ।
इति प्राप्ते पञ्चमी विधीयते ।
आराद्देवदत्ताथ् ।
आराद्यज्ञदत्ताथ् ।
इतर इति निर्दिश्यमान-प्रतियोगी पदार्थ उच्यते ।
इतरो देवदत्ताथ् ।
ऋते इति अव्ययं वर्जन-अर्थे ।
ऋते देवदत्ताथ् ।
ऋते यज्ञदत्ताथ् ।
दिक्-शब्दः -- पूर्वो ग्रामात्पर्वतः ।
उत्तरो ग्रामाथ् ।
पूर्वो ग्रीष्मात्वसन्तः ।
उत्तरो ग्रीष्मो वसन्ताथ् ।
द्विक्-शब्द इत्यत्र शब्द-ग्रहनं देशकालवृत्तिनाऽपि दिक्-शब्देन योगे यथा स्यात्, इतरथा हि दिग्-वृत्तिनैव स्यात्, इत्यमस्याः पूर्वा इति ।
इह तु न स्यात्, अयं अस्मात्पूर्वः कालः इति ।
अञ्चु-उत्तरपद -- प्राग्ग्रामाथ् ।
प्रत्यग्ग्रामाथ् ।
ननु चायं अपि दिक्-शब्द एव ।
षष्ठ्य्-अतसर्थ-प्रययेन (*२,३.३०) इति वक्ष्यति, तस्य अयं पुरस्तादपकर्षः ।
आच्-- दक्षिणा ग्रामाथ् ।
उत्तरा ग्रामाथ् ।
आहि - दक्षिणाहि ग्रामाथ् ।
उत्तराहि ग्रामात् । ।
____________________________________________________________________
- <षष्ठ्य्-अतसर्थ-प्रत्ययेन># । । पाणिनीयसूत्र २,३.३० । ।
_____काशिका २,३.३०ः
दक्षिण-उत्तराभ्यां अतसुच्(*५,३.२८) इति वक्ष्यति, तस्य+इदं ग्रहनं ।
अतस्-अर्थेन प्रत्ययेन युक्ते षष्ठी विभक्तिर्भवति ।
दक्षिणतो ग्रामस्य ।
उत्तरतो ग्रामस्य ।
पुरस्ताद्ग्रामस्य ।
उपरि ग्रामस्य ।
उपरिष्टाद्ग्रामस्य । ।
____________________________________________________________________
- <एनपा द्वितीया># । । पाणिनीयसूत्र २,३.३१ । ।
_____काशिका २,३.३१ः
एनब्-अन्यतरस्यां अदूरेऽपञ्चम्याः (*५,३.३५) इति वक्ष्यति ।
तेन युक्ते द्वितीया विभक्तिर्भवति ।
पूर्वेण षष्ठ्यां प्राप्तायां इदं वचनं ।
दक्षिणेन ग्रामं ।
उत्तरेण ग्रामं ।
षष्ठ्यापीष्यते ।
दक्षिणेन ग्रामस्य ।
उत्तरेण ग्रामस्य ।
तदर्थं योगविभागः कर्तव्यः । ।
____________________________________________________________________
- <पृथग्-विना-नानाभिस्तृतीयाऽन्यतरस्याम्># । । पाणिनीयसूत्र २,३.३२ । ।
_____काशिका २,३.३२ः
पञ्चमी-ग्रहणं अनुवर्तते ।
पृथक्विना नाना इत्येतैर्योगे तृतीया विभक्तिर्भवति, अन्यतरस्यां पञ्चमी च ।
पृथग्देवदत्तेन, पृथग्देवदत्ताथ् ।
विना देवदत्तेन, विना देवदत्ताथ् ।
नाना देवदत्तेन, नाना देवदत्ताथ् ।
पृथग्-विना-नानाभिः इति योग-विभागो द्वितीया-अर्थः ।
विना वातं विना वर्षं विद्युत्-प्रपतनं विना ।
विना हस्तिकृतान्दोषान्केनेमौ पातितौ द्रुमौ । ।
____________________________________________________________________
[#१४१]
- <करेण च स्तोक-अल्प-कृच्छ्र-कतिपयस्य असत्त्व-वचनस्य># । । पाणिनीयसूत्र २,३.३३ । ।
_____काशिका २,३.३३ः
स्तोक अल्प कृच्छ्र कतिपय इत्येतेभ्योऽसत्त्व-वचनेभ्यः करणे कारकेऽन्यतरस्यां तृतीया भवति ।
पञ्चम्यत्र पक्षे विधीयते, तृतीया तु करणे इत्येव सिद्धा ।
यदा तु धर्म-मात्रं करणाया विवक्ष्यते न द्रव्यम्, तदा स्तोक-आदीनां असत्त्व-वचनता ।
स्तोकान्मुक्तः, स्तोकेन मुक्तः ।
अल्पान्मुक्तः, अल्पेन मुक्तः ।
कृछ्रान्मुक्तः, कृच्छ्रेण मुक्तः ।
कतिपयान्मुक्तः, कतिपयेन मुक्तः ।
असत्त्व-वचनस्य इति किं ? स्तोकेन विषेण हतः ।
अल्पेन मधुना मत्तः ।
करणे इति किं ? क्रियाविशेषणे कर्मणि मा भूत्, स्तोकं मुञ्चति । ।
____________________________________________________________________
- <दूर-अन्तिक-अर्थैः षष्ठ्य्-अन्यतरस्याम्># । । पाणिनीयसूत्र २,३.३४ । ।
_____काशिका २,३.३४ः
पञ्चमी अनुवर्तते ।
दूर-अन्तिक-अर्थैः शब्दैर्योगे षष्थी विभक्तिर्भवति, अन्यतरस्यां पञ्चमी च ।
दूरं ग्रामस्य, दूरं ग्रामाथ् ।
विप्रकृष्टं ग्रामस्य, विप्रकृष्टं ग्रामाथ् ।
अन्तिकं ग्रामस्य, अन्तिकं ग्रामाथ् ।
अभ्याशं ग्रामस्य, अभ्याशं ग्रामाथ् ।
अन्यतरस्यां ग्रहणं पञ्चम्य्-अर्थं ।
इतरथा हि तृतीया पक्षे स्यात् । ।
____________________________________________________________________
- <दूर-अन्तिक-अर्थेभ्यो द्वितीया च># । । पाणिनीयसूत्र २,३.३५ । ।
_____काशिका २,३.३५ः
पञ्चमी अनुवर्तते ।
दूर-अन्तिक-अर्थेभ्यः शब्देभ्यो द्वितीया विभक्तिर्भवति, चकारात्पञ्चमी तृतीयाऽपि समुच्छीयते ।
दूरं ग्रामस्य, दूराद्ग्रामस्य, दूरेण्ग्रामस्य ।
अन्तिकं ग्रामस्य, अन्तिकाद्ग्रामस्य, अन्तिकेन ग्रामस्य ।
प्रातिपदिकार्थे विधानं ।
असत्त्ववचन-ग्रहणं च अनुवर्तते ।
सत्त्व-शब्देभ्यो यथायथं विभक्तयो भवन्ति ।
दूरः पन्थाः, दूराय पथे देहि, दूरस्य पथः स्वं । ।
____________________________________________________________________
- <सप्तम्य्-अधिकरने च># । । पाणिनीयसूत्र २,३.३६ । ।
_____काशिका २,३.३६ः
सप्तमी विभक्तिर्भवत्यधिकरणे कारके, चकाराद्दूर-अन्तिक-अर्थेभ्यश्च ।
कटे आस्ते ।
शकटे आस्ते ।
स्थाल्यां पचति ।
दूर-अन्तिक-अर्थेभ्यः खल्वपि - दूरे ग्रामस्य ।
अन्तिके ग्रामस्य ।
अभ्याशे ग्रामस्य ।
दूरन्ति - कार्थेभ्यश्चतस्रो विभक्तयो भवन्ति, द्वितीया-तृतीया-पञ्चमी-सप्तम्यः ।
सप्तमी-विधाने क्तस्येन्विषयस्य कर्मण्य्-उपसङ्ख्यानं ।
अधीती व्याकरणे ।
परिगणिती याज्ञिके ।
आम्नाती छन्दसि ।
[#१४२]
साध्वसाधुप्रयोगे च सप्तमी वक्तव्या ।
साधुर्देवदत्तो मातरि ।
असाधुः पितरि ।
कारकार्हाणां च कारकत्वे सप्तमी वक्तव्या ।
ऋद्धेषु भुञ्जानेषु दरिद्रा आसते ।
ब्राह्मणेषु तरत्सु वृषला आसते ।
अकारकार्हाणां चाकरकत्वे सप्तमी वक्तव्या ।
दरिद्रेष्वासीनेषु ऋद्धा भुञ्जते ।
वृषलेष्वासीनेषु ब्राह्मणास्तरन्ति ।
तद्धिपर्यासे च सप्तमी वक्तव्या ।
ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते ।
ब्राह्मणेष्वासीनेषु वृषलास्तरान्ति ।
निमित्तात्कर्मसंयोगे सप्तमी वक्तव्या ।
चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरं ।
केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः । ।
____________________________________________________________________
- <यस्य च भावेन भाव-लक्षणम्># । । पाणिनीयसूत्र २,३.३७ । ।
_____काशिका २,३.३७ः
सप्तमी इति वर्तते ।
भावः क्रिया ।
यस्य च भावेन यस्य च क्रियया क्रियान्तरं लक्ष्यते, ततो भाववतः सप्तमी विभक्तिर्भवति ।
प्रसिद्धा च किया क्रियान्तरं लक्षयति ।
गोषु दुह्यमानासु गतः, दुग्धास्वागतः ।
अग्निषु हूयमानेषु गतः, हुतेष्वागतः ।
भावेन इति किं ? यो जटाभिः स भुङ्क्ते ।
पुनर्भाव-ग्रहणं किं ? यो भुङ्क्ते स देवदत्तः । ।
____________________________________________________________________
- <षष्ठी च अनादरे># । । पाणिनीयसूत्र २,३.३८ । ।
_____काशिका २,३.३८ः
पूर्वेण सप्तम्यां प्राप्तायां षष्ठी विधीयते, चकारात्साऽपि भवति ।
अनादर-अधिके भाव-लक्षने भाववतः षष्ठी-सप्तम्यौ विभक्ती भवतः ।
रुदतः प्राव्राजीत्, रुदति प्राव्राजीत्क्रोशतः प्राव्राजीत्, क्रोशति प्राव्राजीथ् ।
क्रोशन्तमनादृत्य प्रव्रजितः इत्यर्थः । ।
____________________________________________________________________
[#१४३]
- <स्वामि-ईश्वर्-आधिपति-दायाद-साक्षि-प्रतिभू-प्रसुतैश्च># । । पाणिनीयसूत्र २,३.३९ । ।
_____काशिका २,३.३९ः
षष्ठी-सप्तम्यौ वर्तते ।
स्वामिनीश्वर अधिपति दायाद साक्षिन्प्रतिभू प्रसूत इत्येतैर्योगे षष्ठी-सप्तम्यौ विभक्ती भवतः ।
गवां स्वामी, गोषु स्वामी ।
गवामीश्वरः, गोष्वीश्वरः ।
गवामधिपतिः, गोष्वधिपतिः ।
गवां दायादः, गोषु दायादः ।
गवां साक्षी, गोषू साक्षी ।
गवां प्रतिभूः, गोषु प्रतिभूतः ।
गवां प्रसूतः, गोषु प्रसूतः ।
षष्ठ्यां एव प्राप्तयां पक्षे सप्तमीविधान-अर्थं वचनं । ।
____________________________________________________________________
- <आयुक्त-कुशलाभ्यां च आसेवायाम्># । । पाणिनीयसूत्र २,३.४० । ।
_____काशिका २,३.४०ः
षष्ठी-सप्तम्यौ वर्तते ।
आयुकतः व्यापारितः, कुशलः निपुणः, ताभ्यां योगे आसेवायां गम्यमानायां षष्ठी-सप्तम्यौ विभक्ती भवतः ।
आसेवा तत्पर्यं ।
आयुक्तः कटकरणस्य, आयुक्तः कटकरणे कुशलः कटकरनस्य, कुश्लः कटकरणे ।
आसेवायां इति किं ? आयुक्तो गौः शकटे ।
तत्र सप्तम्येव अधिकरणे भवति । ।
____________________________________________________________________
- <यतश्च निर्धारनम्># । । पाणिनीयसूत्र २,३.४१ । ।
_____काशिका २,३.४१ः
षष्ठी-सप्तम्यौ वर्तते ।
जाति-गुण-क्रियाभिः समुदायादेकदेशस्य पृथक्करनं निर्धारनं ।
यतो निर्धारनं ततः षष्ठी सप्तम्यौ विभक्ती भवतः ।
मनुष्याणां क्षत्रियः शूरतमः, मनुष्येषु क्षत्रियः शूरतमः ।
गवं कृष्णा सम्पन्न-क्षीरतमा, गोषु कृष्णा सम्पन्न-क्षीरतमा अध्वगानां धवन्तः शीघ्रतमा, अध्वगेषु धावन्तः शीघ्रतमाः । ।
____________________________________________________________________
- <पञ्चमी विभक्ते># । । पाणिनीयसूत्र २,३.४२ । ।
_____काशिका २,३.४२ः
यतश्च निर्धरनं इति वर्तते ।
षष्ठी-सप्तम्य्-अपवादो योगः ।
विभागः विभक्तं ।
यस्मिन्निर्धारण-आश्रये विभक्तं अस्य अस्ति ततः पज्चमी विभक्तिर्भवति ।
माथुराः पाटलिपुत्रकेभ्यः सुकुमारतराः, आढ्यतराः । ।
____________________________________________________________________
- <साधु-निपुणाभ्यां अर्चायां सप्तम्यप्रतेः># । । पाणिनीयसूत्र २,३.४३ । ।
_____काशिका २,३.४३ः
साधु निपुण इत्येताभ्यां योगेऽर्चायां गम्यमानायां सप्तमी विभक्तिर्भवति, न चेत्प्रतिः प्रयुज्यते ।
मातरि साधुः ।
पितरि साधुः ।
मातरि निपुणः ।
पितरि निपुणः ।
अर्चायां इति किं ? साधुर्भृत्यो राज्ञः ।
तत्त्वक्-अथने न भवति ।
अप्रतेः इति किं ? साधुर्देवदत्तो मातरं प्रति ।
अप्रत्यादिभिरिति वक्तव्यं ।
[#१४४]
साधुर्देवदत्तो मातरं परि ।
मातरमनु । ।
____________________________________________________________________
- <प्रसित-उत्सुकाभ्यां तृतीया च># । । पाणिनीयसूत्र २,३.४४ । ।
_____काशिका २,३.४४ः
प्रसित उत्सुक इत्येताभ्यां योगे तृतीया विभक्तिर्भवति, चकारात्सप्तमी च ।
प्रसितः प्रसक्तः, यस्तत्र नित्यं एव अवबद्धः स प्रसित-शब्देन+उच्यते ।
केशैः प्रसितः केशेषु प्रसितः ।
केशैरुत्सुकः, केशेषु उत्सुकः । ।
____________________________________________________________________
- <नक्षत्रे च लुपि># । । पाणिनीयसूत्र २,३.४५ । ।
_____काशिका २,३.४५ः
तृतीया-सप्तम्यावनुवर्तते ।
लुब्-अन्तात्नक्षत्र-शब्दात्तृतीया-सप्तम्यौ विभक्ती भ्वतः ।
पुष्येण पायसमश्नीयात्, पुष्ये पायसमश्नीयाथ् ।
मघाभिः पललौदनम्, मघसु पललौदनं ।
नक्षत्र इति किं ? पञ्चालेषु वसति ।
लुपि इति किं ? मघासु ग्रहः ।
इह कस्मान्न भवति, अद्य पुस्यः, अद्य कृत्तिका ? अधिकरणे इति वर्तते ।
वचनं तु पक्षे तृतीयाविधान-अर्थं । ।
____________________________________________________________________
- <प्रातिपदिकार्थ-लिङ्ग-परिमाणवचन-मात्रे प्रथमा># । । पाणिनीयसूत्र २,३.४६ । ।
_____काशिका २,३.४६ः
प्रातिपदिकार्थः सत्ता ।
लिङ्गं स्त्रीलिङ्ग-पुंलिङ्ग-नपुंसकानि ।
परिमणं द्रोणः, खारी, आढकं ।
वचनं एकत्व-द्वित्व-बहुत्वानि ।
मात्र-शब्दः प्रत्येकं अभिसम्बध्यते ।
प्रातिपदिकार्थ-मात्रे, लिङ्ग-मात्रे, प्रिमाण-मात्रे, वचन-मात्रे प्रथमा विभक्तिर्भवति ।
प्रातिपदिकार्थ-मात्रे -- उच्चैः ।
नीचैः ।
लिङ्ग-ग्रहणं किं ? कुमारी, वृक्षः, कुण्डं इत्यत्र अपि यथा स्यथ् ।
परिमाण-ग्रहणं किं ? द्रोणः, खारी, आढकं इत्यत्र अपि यथा स्याथ् ।
वचन-ग्रहनं किं ? एकत्व-आदिषु उक्तेष्वपि यथा स्याथ् ।
एकः, द्वौ, बहवः ।
प्रातिपदिक-ग्रहनं किं ? निपातस्य अनर्थकस्य प्रातिपदिकत्वं उक्तं, ततोऽपि यथा स्याथ् ।
प्रलम्बते ।
अध्यागच्छति । ।
____________________________________________________________________
- <सम्बोधने च># । । पाणिनीयसूत्र २,३.४७ । ।
_____काशिका २,३.४७ः
आभिमुख्य-करणं, तद्-अधिके प्रातिपदिक-अर्थे प्रथमा न प्राप्नोति इति वचनं आरभ्यते ।
सम्बोधने च प्रथमा विभक्तिर्भवति ।
हे देवदत्त ।
हे देवदत्तौ ।
हे देवदत्ताः । ।
____________________________________________________________________
- <सा+आमन्त्रितम्># । । पाणिनीयसूत्र २,३.४८ । ।
_____काशिका २,३.४८ः
सम्बोधने या प्रथमा तद्-अन्तं शब्द-रूपं आमन्त्रितसञ्ज्ञं भवति ।
तथा च+एव+उदाहृतं ।
आमन्त्रित-प्रदेशाः -- आमन्त्रितं पूर्वं अविद्यमानवत्(*८,१.७२) इत्येवं आदयः । ।
____________________________________________________________________
[#१४५]
- <एकवचनं सम्बुद्धिः># । । पाणिनीयसूत्र २,३.४९ । ।
_____काशिका २,३.४९ः
आमन्त्रित-प्रथमाया यदेकवानं, तत्सम्बुद्धि-सञ्ज्ञं भवति ।
हे पटो ।
हे देवदत्त ।
सम्बुद्धि-प्रदेशाः - एङ्-ह्रस्वात्सम्बुद्धेः (*६,१.६९) इत्येवं आदयः । ।
____________________________________________________________________
- <षष्ठी शेषे># । । पाणिनीयसूत्र २,३.५० । ।
_____काशिका २,३.५०ः
कर्म-आदिभ्योऽन्यः प्रातिपदिकार्थ-व्यतिरेकः स्वस्वामि-सम्भन्ध-आदिः शेषः, तत्र षष्ठी विभक्तिर्भवति ।
रज्ञः पुरुषः ।
पशोः पादः ।
पितुः पुत्रः । ।
____________________________________________________________________
- <ज्ञोऽविद्-अर्थस्य करणे># । । पाणिनीयसूत्र २,३.५१ । ।
_____काशिका २,३.५१ः
जानातेरविदर्थस्य अज्ञान-अर्थस्य करणे कारके षष्ठी विभक्तिर्भवति ।
सर्षिषो जानीते ।
मधुनो जानीते ।
सर्पिषा करणेन प्रवर्तते इत्यर्थः ।
प्रवृत्ति-वचनो जानतिरविदः-अर्थः ।
अथ व मिथ्याज्ञान-वचनः ।
सर्पिषि रक्तः प्रतिहतो वा ।
चित्तभ्रान्त्या तदात्मना सर्वं एव ग्राह्यं प्रतिपद्यते ।
मिथ्याज्ञानं अज्ञानं एव ।
अविद्-अर्थस्य इति किं ? स्वरेण पुत्रं जानाति । ।
____________________________________________________________________
- <अधि-इग्-अर्थ-दय-ईशां कर्मणि># । । पाणिनीयसूत्र २,३.५२ । ।
_____काशिका २,३.५२ः
शेषे इति वर्तते ।
अधि-इग्-अर्थाः स्मरन-अर्थाः, दय दानगतिरक्षनेषु, ईश एश्वर्ये, एतेषं कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति ।
मातुरध्येति ।
मातुः समरति ।
सर्पिषो द्यते ।
सर्पिष ईष्टे ।
मधुन ईष्टे ।
कर्मणि इत्येव, मातुर्गुणैः स्मरति ।
शेषे किं ? मातरं स्मरति । ।
____________________________________________________________________
- <कृञः प्रतियत्ने># । । पाणिनीयसूत्र २,३.५३ । ।
_____काशिका २,३.५३ः
सतो गुणान्तराधानं प्रतियत्नः ।
करोतेः कर्मणि कारके शेषत्वेन विवक्षिते प्रतियत्ने गम्यमाने षष्ठी विभक्तिर्भवति ।
एधोदकस्योपस्कुरुते ।
शस्त्रपत्रस्योपस्कुरुते प्रतियत्ने इति किं ? कटं करोति ।
कर्मणि इति किं ? एधोदकस्योपस्कुरुते प्रज्ञया ।
शेषे इत्येव, एधोदकमुपस्कुरुते । ।
____________________________________________________________________
[#१४६]
- <रुजा-अर्थानां भाव-वचनानां अज्वरेः># । । पाणिनीयसूत्र २,३.५४ । ।
_____काशिका २,३.५४ः
रुजार्थानां धातूनां भाव-वचनानां भाव-कर्तृकाणां ज्वरि-वर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति ।
चौरस्य रुजति रोगः ।
चौरस्यामयत्यामयः ।
रुजार्थानां इति किं ? एति जीवन्तमानन्दो नरं वर्षशतादपि ।
जीव पुत्रक मा मैवं तपः साहसमाचर । ।
भाववचनानां इति किं ? नदी कूलानि रुजति ।
अज्वरेः इति किं ? चौरं ज्वरयति ज्वरः ।
अज्वरिसन्ताप्योरिति वक्तव्यं ।
चौरं सन्तापयति तापः ।
शेषे इत्येव, चौरं रुजति रोगः । ।
____________________________________________________________________
- <आशिषि नाथः># । । पाणिनीयसूत्र २,३.५५ । ।
_____काशिका २,३.५५ः
नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषु पथ्यते, तस्याशीःक्रियस्य कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति ।
सर्पिषो नाथते ।
मधुनो नाथते ।
आशिषि इति किं ? मानवकं उपनाथति अङ्ग पुत्रकाधीष्व । ।
____________________________________________________________________
- <जासि-निप्रहण-नाट-क्राथ-पिषां हिंसायाम्># । । पाणिनीयसूत्र २,३.५६ । ।
_____काशिका २,३.५६ः
जासि निप्रहण नाट क्राथ पिषित्येतेषां धातूनां हिंसा-क्रियाणां कर्मणि कारके षष्ठी विभक्तिर्भवति ।
जसु हिंसायाम्, जसु ताडने इति च चुरादौ पठ्यते, तस्य+इदं ग्रहणं, न दैवादिकस्य जसु मोक्षणे इत्यस्य ।
चौरस्य+उज्जासयति ।
वृषलस्य+उज्जासयति ।
निप्रहण इति सग्घातविगृहीतविपर्यस्तस्य ग्रहणं ।
चौरस्य निप्रहति ।
चौरस्य निहन्ति ।
चौरस्य प्रहन्ति ।
चौरस्य प्रणिहन्ति ।
चौरस्य+उन्नाटयति ।
वृषलस्य+उन्नाटयति ।
चौरस्य+उत्क्राथायति ।
वृषलस्य क्राथयति ।
निपातनाद्वृद्धिः ।
अयं हि घटादौ पठ्यते, श्रथ क्नथ क्रथ क्लथ हिंस-अर्थाः इति ।
तत्र घटादयो मितः इति मित्सञ्ज्ञायां मितां ह्रस्वः (*६,४.९२) इति ह्रस्वत्वं स्याथ् ।
चौरस्य पितष्टि ।
वृषलस्य पिनष्टि ।
हिंसायां इति किं ? धानाः पिनष्टि ।
शेषे इत्येव, चौरं उज्जासयति ।
एशां इति किं ? चौरं हिनस्ति ।
निप्रहण इति किं ? चौरं विहन्ति । ।
____________________________________________________________________
[#१४७]
- <व्यवहृ-पणोः समर्थयोः># । । पाणिनीयसूत्र २,३.५७ । ।
_____काशिका २,३.५७ः
व्यवहृ पण इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके षष्ठी विभक्तिर्भवति ।
द्यूते क्रयविक्रयव्यवहारे च समानार्थत्वमनयोः ।
शतस्य व्यवहरति ।
सहस्रस्य व्यवहरति ।
शतस्य पणते ।
सहस्रस्य पणते ।
आय-प्रत्ययः कस्मान्न भवति ? स्तुत्य्-अर्थस्य पनतेराय-प्रत्यय इष्यते ।
समर्थयोः इति किं ? शलाकां व्यवहरति ।
विक्षिपति इत्यर्थः व्राहमणान्पणायते ।
स्तौति इत्यर्थः ।
शेषे इत्येव, शतं पणते । ।
____________________________________________________________________
- <दिवस्तद्-अर्थस्य># । । पाणिनीयसूत्र २,३.५८ । ।
_____काशिका २,३.५८ः
व्यवहृपणिसमान-अर्थस्य दीव्यतेः कर्मणि षष्ठी विभक्तिर्भवति ।
शतस्य दीव्यति ।
सहस्रस्य दीव्यति ।
तदर्थस्य इति किं ? ब्राह्मनं दीव्यति ।
योग-विभाग उत्तर-अर्थः । ।
____________________________________________________________________
- <विभाष-उपसर्गे># । । पाणिनीयसूत्र २,३.५९ । ।
_____काशिका २,३.५९ः
दिवस्तदर्थस्य (*२,३.५८) इति नित्यं षष्ठ्यां प्राप्तायां सोपसर्गस्य विकल्प उच्यते ।
उपसर्गे सति दिवस्तदर्थस्य कर्मणि कारके विभाषा षष्ठी विभक्तिर्भवति ।
शतस्य प्रतिदीव्यति ।
सहस्रस्य प्रतिदीव्यति ।
शतं प्रतिदीव्यति ।
सहस्रं प्रतिदीव्यति ।
उपसर्गे इति किं ? शतस्य दीव्यति ।
तदर्थस्य इत्येव शलाकां प्रतिदीव्यति । ।
____________________________________________________________________
- <द्वितीया ब्राह्मणे># । । पाणिनीयसूत्र २,३.६० । ।
_____काशिका २,३.६०ः
ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि कारके द्वितीया विभक्तिर्भवति ।
गामस्य तदहः सभायां, दीव्येयुः ।
अनुपसर्गस्य षष्ठ्यां प्राप्तायां इदं वचनं ।
सोपसर्गस्य तु छन्दसि व्यवस्थित-विभाशायाऽपि सिध्यति । ।
____________________________________________________________________
- <प्रेष्य-ब्रुवोर्हविषो देवता-सम्प्रदाने># । । पाणिनीयसूत्र २,३.६१ । ।
_____काशिका २,३.६१ः
प्रेष्य इति इष्यतेर्दैवादिकस्य लोण्-मध्यमपुरुषस्य+एकवचनम्, तत्साहचर्याद्ब्रुविरपि तद्विषय एव गृह्यते ।
प्रेष्यब्रुवोर्हविषः कर्मणः षष्थी विभक्तिर्भवति देवतासम्प्रदाने सति ।
अग्नये छागस्य हविषो वपाया मेदसः प्रे३ष्य ।
अग्नये छागस्य हविषो वपायै मेदसोऽनुब्रूहि३ ।
प्रेष्यब्रुवोः इति किं ? अग्नये छागं हविर्वपां मेदो जुहुधि ।
हविषः इति किं ? अग्नये गोमयानि प्रेष्य ।
देवतासम्प्रदाने इति किं ? माणवकाय पुरोडाशं प्रेष्य ।
हविषः प्रस्थितस्य प्रतिषेधो वक्तव्यः ।
इन्द्राग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रेष्य३ । ।
____________________________________________________________________
[#१४८]
- <चतुर्थ्य्-अर्थे बहुलं छन्दसि># । । पाणिनीयसूत्र २,३.६२ । ।
_____काशिका २,३.६२ः
छन्दसि विषये चतुर्थ्य्-अर्थे षष्थी विभक्तिर्भवति बहुलं ।
पुरुषमृगश्चन्द्रमसः ।
पुरुषमृगश्चन्द्रमसे ।
गोधा कालका दार्वाघाटस्ते वनस्पतीनां ।
ते वनस्पतिभ्यः ।
बहुल-ग्रहणं किं ? कृष्णो रात्र्यै ।
हिमवते हस्ती ।
षष्ठ्यर्थे चतुर्थी वक्तव्या ।
या खर्वेण पिवति तस्यै खर्वो जायते ।
या दतो धावते तस्यै श्यावदन् ।
या नखानि निकृन्तते तस्यै कुनखी ।
याऽङ्क्ते तस्यै काणः ।
याऽभ्यङ्क्ते तस्यै दुश्चर्मा ।
या केशान्प्रलिखते तस्यै खलतिः ।
अहल्यायै जारः । ।
____________________________________________________________________
- <यजेश्च करणे># । । पाणिनीयसूत्र २,३.६३ । ।
_____काशिका २,३.६३ः
यजेर्धातोः करणे कारके छन्दसि बहुलं षष्थी विभक्तिर्भवति ।
घृतस्य यजते, घृतेन यजते ।
स्ॐयस्य यजते, सोमेन यजते । ।
____________________________________________________________________
- <कृत्वोऽर्थप्रयोगे कालेऽधिकरणे># । । पाणिनीयसूत्र २,३.६४ । ।
_____काशिका २,३.६४ः
छन्दसि बहुलं इति निवृत्तं ।
कृत्वोऽर्थानां प्रयोगे कालेऽधिकरणे षष्ठी विभक्तिर्भवति ।
पञ्च-कृत्वोऽह्नो भुङ्क्ते ।
द्विरह्नोऽधीते ।
कृत्वोऽर्थ-ग्रहणं किं ? आह्नि शेते ।
रात्रौ शेते ।
प्रयोग-ग्रहणं किं ? अहनि भुक्तं ।
गम्यते हि द्विस्त्रश्चतुर्वेति, न त्वप्रयुज्यमाने भवति ।
काल-ग्रहणं किं ? द्विः कांस्यपात्र्यां भुङ्क्ते ।
अधिकरणे इति किं ? द्विरह्नो भुङ्क्ते ।
शेषे इत्येव, द्विरहन्यधीते । ।
____________________________________________________________________
- <कर्तृ-कर्मणोः कृति># । । पाणिनीयसूत्र २,३.६५ । ।
_____काशिका २,३.६५ः
कृत्-प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिर्भवति ।
भवतः शायिका ।
भवत आसिका ।
कर्मणिअपां स्रष्टा ।
पुरां भेत्ता ।
वज्रस्य भर्ता ।
कर्तृ-कर्मणोः इति किं ? शस्त्रेण भेत्ता ।
कृति इति किं ? तद्धित-प्रयोगे मा भूत्, कृतपूर्वी कटं ।
भुक्तपूर्व्योदनं ।
शेषे इति निवृत्तम्, पुनः कर्म-ग्रहणाथ् ।
इतरथा हि कर्तरि च कृति इत्येवं ब्रूयात् । ।
____________________________________________________________________
[#१४९]
- <उभय-प्राप्तौ कर्मणि># । । पाणिनीयसूत्र २,३.६६ । ।
_____काशिका २,३.६६ः
पूर्वण षष्ठी प्राप्ता नियम्यते ।
उभयप्राप्तौ इति बहुव्रीहिः ।
उभयोः प्राप्तिर्यस्मिन्कृति, सोऽयं उभयप्राप्तिः ।
तत्र कर्मण्येव षष्थी विभक्तिर्भवति, न कर्तरि ।
आश्चर्यो गवां दोहोऽगोपालकेन ।
रोचते मे ओदनस्य भोजनं देवदत्तेन ।
साधु खलु पयसः पानं यज्ञदत्तेन ।
बहुव्रीहिविज्ञानादिह नियमो न भवति, आश्चर्यं इदं ओदनस्य नाम पाको ब्राह्मणानं च प्रादुर्भावः इति ।
अकाकारयोः स्त्री-प्रत्यययोः प्रयोगे न+इति वक्तव्यं ।
भेदिका देवदत्तस्य काष्ठानां ।
चिकिर्षा देवदत्तस्य कटस्य ।
शेषे विभाषा ।
अकाकारयोः स्त्रीप्रत्यययोर्ग्रहनात्तदपेक्षया शेषः स्त्रीप्रत्यय एव गृह्यते ।
शोभना हि सूत्रस्य कृतिः पाणिनेः पाणिनिना वा ।
केचिदविशेषेणैव विभाषां इच्छन्ति, शब्दानां अनुशासनं आचार्यण आचार्यस्य इति वा । ।
____________________________________________________________________
- <क्तस्य च वर्तमाने># । । पाणिनीयसूत्र २,३.६७ । ।
_____काशिका २,३.६७ः
न ल-उ-उक-अव्यय. निष्ठाखलर्थ-तृनां (*२,३.६९) इति प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते ।
क्तस्य वर्तमान-काल-विहितस्य प्रयोगे षष्ठी विभक्तिर्भवति ।
रज्ञां मतः ।
राज्ञां बुद्धः ।
राज्ञां पूजितः ।
क्तस्य इति किं ? ओदनं पचमानः ।
वर्तमाने इति किं ? ग्रामं गतः ।
नपुंसके भाव उपसङ्ख्यानं ।
छात्रस्य हसितं ।
मयूरस्य नृत्तं ।
कोकिलस्य व्याहृतं ।
शेषविज्ञानात्सिद्धं ।
तथा च कर्तृविवक्षायां तृतीयाऽपि भवति, छाअत्रेण हसितं इति । ।
____________________________________________________________________
[#१५०]
- <अधिकरण-वाचिनश्च># । । पाणिनीयसूत्र २,३.६८ । ।
_____काशिका २,३.६८ः
क्तोऽधिकरणे च ध्रौव्य-गति-प्रत्यवसान-अर्थेभ्यः (*३,४.७६) इति वक्ष्यति ।
तस्य प्रयोगे षष्ठी विभक्तिर्भवति ।
अयं अपि प्रतिषेध-अपवादो योगः ।
इदं एषां आसितं ।
इदं एषां शयितं ।
इदं हेः सृप्तं ।
इदं वनकपेर्यातं ।
इदं एषां भुक्तं ।
इदं एषां अशितं ।
द्विकर्मकाणां प्रयोगे कर्तरि कृति द्वयोरपि षष्ठी द्वितीयावथ् ।
नेताऽश्वस्य ग्रामस्य चैत्रः ।
अन्ये प्रधाने कर्मण्याहुः ।
तदा, नेताऽश्वस्य ग्रामं चैत्रः । ।
____________________________________________________________________
- <न ल-उ-उक-अव्यय-निष्ठा-खलर्थ-तृनाम्># । । पाणिनीयसूत्र २,३.६९ । ।
_____काशिका २,३.६९ः
कर्तृ-कर्मणोः कृति (*२,३.६५) इति प्राप्ता षष्ठी प्रतिषिध्यते ।
ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति ।
ल इति शतृशानचौ, कानच्-क्वसू, किकिनौ च गृह्यन्ते ।
ओदनं पचन् ।
ओदनं पचमानः ।
ओदनं पेचानः ।
ओदनं पेचिवान् ।
पपिः सोमं ददिर्गाः ।
उ - कटं चिकीर्षुः ।
ओदनं बुभुक्षुः ।
कन्यामलङ्करिष्णुः ।
इष्णुचोऽपि प्रयोगे निषेधः ।
उक - आगामुकं वाराणसीं रक्ष अहुः ।
उकप्रतिषेधे कमेर्भाषायां अप्रतिषेधः ।
दास्याः कामुकः ।
अव्यय - कटं कृत्वा ।
ओदनं भुक्त्वा ।
अव्यय-प्रतिषेधे तोसुङ्कसुनोरप्रतिषेधः ।
व्युष्टायां पुरा सूर्यस्योदेतोरधेयः ।
पुरा क्रूरस्य विसृपो विरप्शिन् ।
निष्ठा - ओदनं बुक्तवान् ।
देवदत्तेन कृतं ।
खलर्थ - ईषत्करः कटो भवता ।
ईषत्पानः सोमो भवता ।
तृनिति प्रयाहार-ग्रहणं ।
लटः शतृ-शानचावप्रथमा. समानाधिकरणे (*३,२.१२४) इत्यारभ्य आ तृनो नकाराथ् ।
तेन शानञ्चानश्शतृतृनां अपि प्रतिषेधो भवति ।
सोमं पवमानः ।
नडमाघ्नानः ।
अधीयन्पारायनं ।
कर्ता कटान् ।
वदिता जनापवादान् ।
द्विषः शतुर्वाव्चनं ।
चौरं द्विषन्, चौरस्य द्विषन् । ।
____________________________________________________________________
[#१५१]
- <अक-इनोर्भविष्यद्-आधमर्ण्ययोः># । । पाणिनीयसूत्र २,३.७० । ।
_____काशिका २,३.७०ः
अकस्य भविष्यति काले विहितस्य, इनस्तु भविष्यति चाधमर्ण्ये च विहितस्य प्रयोगे षष्थी विभक्तिर्न भवति ।
कटं कारको व्रजति ।
ओदनं भोजको व्रजति ।
इनः खल्वपि ग्रामं गमी ।
ग्रामं गामी ।
शतं दायी ।
सहस्रं दायी ।
भविष्यद्-आधमर्ण्ययोः इति किं ? यवनां लावकः ।
सक्तूनां पायकः ।
अवश्यंकारी कटस्य ।
इह कस्मान्न भवति, वर्षशतस्य पूरकः, पुत्रपौत्राणां दर्शकः इति ? भविष्यद्-अधिकारे विहितस्य अकस्य+इदं ग्रहणं । ।
____________________________________________________________________
- <कृत्यानां कर्तरि वा># । । पाणिनीयसूत्र २,३.७१ । ।
_____काशिका २,३.७१ः
कर्तृ-कर्मणोः कृति (*२,३.६५) इति नित्यं षष्थी प्राप्ता कर्तरि विकल्प्यते ।
कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि ।
भवता कटः कर्तव्यः, भवतः कटः कर्तव्यः ।
कर्तरि इति किं ? गेयो माणवकः साम्नां ।
उभय-प्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्यः ।
क्रष्टव्या ग्रामं शाखा देवदत्तेन ।
नेतव्या ग्राममजा देवदत्तेन । ।
____________________________________________________________________
- <तुल्य-अर्थैरतुला-उपमाभ्यां तृतीयाऽन्यतरस्याम्># । । पाणिनीयसूत्र २,३.७२ । ।
_____काशिका २,३.७२ः
तुल्यार्थैः शब्दैर्योगे तृतीया विभक्तिर्भवत्यन्यतरस्याम्, पक्षे षष्थी च, तुला-उपमा-शब्दौ वर्जयित्वा ।
शेषे विषये तृतीया-विधानात्तया मुक्ते षष्थ्येव भवति ।
तुल्यो देवदत्तेन, तुल्यो देवदत्तस्य ।
सदृशो दीवदत्तेन, सदृशो देवदत्तस्य ।
अतुलोपमाभ्यां इति किं ? तुला देवदत्तस्य न अस्ति ।
उपमा कृष्णस्य न विद्यते ।
वा इति वर्तमानेऽन्यतरस्यां ग्रहनं उत्तरसूत्रे तस्य चकारेन अनुकर्षण-अर्थं ।
इतरथा हि तृतीयाऽनुकृष्येत । ।
____________________________________________________________________
- <चतुर्थी च आशिष्यायुष्य-मद्र-भद्र-कुशल-सुख-अर्थ-हितैः># । । पाणिनीयसूत्र २,३.७३ । ।
_____काशिका २,३.७३ः
आशिषि गयमानायां आयुष्य मद्र भद्र कुशल सुख अर्थ हित इत्येतैर्योगे चतुर्थी विभक्तिर्भवति ।
चकारो विकल्प-अनुकर्षण-अर्थः ।
शेषे चतुर्थी-विधानात्तया मुक्ते षष्ठी विभक्तिर्भवति ।
अत्र आयुष्य-आदीनां पर्याय-ग्रहणं कर्तव्यं ।
आयुष्यं देवदत्ताय भूयात्, आयुष्यं देवदत्तस्य भूयाथ् ।
चिरं जीवितं देवदत्ताय देवदत्तस्य वा भुयाथ् ।
[#१५२]
मद्रं देवदत्ताय देवदत्तस्य वा भूयाथ् ।
भद्रं देवदत्ताय, भद्रं देवदत्तस्य ।
कुशलं देवदत्ताय, कुशलं देवदत्तस्य ।
निरामयं देवदताय, निरामयं देवदत्तस्य ।
सुखं देवदत्ताय, सुखं देवदत्तस्य ।
शं देवदत्ताय, शं देवदत्तस्य ।
अर्थो देवदत्ताय, अर्थो देवदत्तस्य ।
प्रयोजनं देवदत्ताय, प्रयोजनं देवदत्तस्य ।
हितं देवदताय, हितं देवदत्तस्य ।
पथ्यं देवदत्ताय, पथ्यं देवदत्तस्य ।
आशिषि इति किं ? आयुष्यं देवदत्तस्य तपः । ।
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य तृतीयः पादः । ।
द्वितीयाध्यायस्य चतुर्थः पादः ।
____________________________________________________________________
[#१५३]
- <द्विगुरेकवचनम्># । । पाणिनीयसूत्र २,४.१ । ।
_____काशिका २,४.१ः
द्विगुः समासः एकवचनं भवति ।
एकस्य वचनं एकवचनं ।
एकस्य अर्थस्य वाचको भवति इत्यर्थः ।
तदनेन प्रकारेण द्विग्व्-अर्थस्य+एकवद्भावो विधीयते, द्विग्व्-अर्थ एकवद्भवति इति ।
समाहार-द्विगोश्च+इदं ग्रहणम्, न अन्यस्य ।
पञ्च-पूलाः समाहृताः पञ्चपूली ।
दशपूली ।
द्विग्व्-अर्थस्य्)अ ए)कत्वादनुप्रयोगेऽप्येकवचनं भवति, पञ्च-पूलीयं शोभना इति । ।
____________________________________________________________________
- <द्वन्द्वश्च प्राणि-तूर्य-सेना-अङ्गानाम्># । । पाणिनीयसूत्र २,४.२ । ।
_____काशिका २,४.२ः
एकवचनं इति वर्तते ।
अङ्ग-शब्दस्य प्रत्येकं वाक्य-परिसमाप्त्या त्रीणि वाक्यानि सम्पद्यन्ते ।
प्राण्य्-अङ्गानां द्वन्द्व एकवद्भवति, तथा तूर्य-अङ्गानां सेना-अङ्गानां च ।
प्राण्य्-अङ्गानां तावत्- पाणि-पादं ।
शिरोग्रीवं ।
तूर्य-अङ्गानां - मार्दङ्गिकपाणविकं ।
वीणावदकपरिवादकं ।
सेना-अङ्गानां - रथिक-अश्वारोहं ।
रथिक-पादातं ।
हस्त्य्-अश्व-आदिषु परत्वात्पशुद्-वन्द्वे विभाषया एअक्वद्भवति ।
इतरेतर-योगे समहारे च द्वन्द्वो विहितः ।
तत्र समाहारस्य+एकत्वात्सिद्धं एव+एकवचनं ।
इदं तु प्रकरणं विषय-विभाग-अर्थम्, प्राण्य्-अङ्ग-आदीनां समाहार एव द्वन्द्वः, दधिपय-आदीनां इतरेतर-योग एव, वृक्ष-मृग-आदीनां उभयत्र इति । ।
____________________________________________________________________
- <अनुवादे चरणानाम्># । । पाणिनीयसूत्र २,४.३ । ।
_____काशिका २,४.३ः
चरण-शब्दः शाखा-निमित्तकः पुरुषेषु वर्तते ।
चरणानां द्वन्द्वः एकवद्भवति अनुवादे गम्यमाने ।
प्रमाण-अन्तरावगतस्य अर्थस्य शब्देन सङ्कीर्तनमात्रं अनुवादः ।
उदगाद्कठकालापं ।
प्रत्यष्ठात्कठकौथुमं ।
कठकालाप-आदीनां उदय-प्रतिष्ठे प्रमाण-अन्तरवगते यदा पुनः शब्देन अनूद्येते तदा+एवं उदाहरणं ।
यदा तु प्रथमत एव+उपदेशस्तदा प्रत्युदाहरणं ।
अनुवादे इति किं ? उदगुः कठकालापाः ।
प्रत्यष्ठुः कठकौथुमाः ।
स्थेणोरद्यतन्यां चेति वक्तव्यं ।
स्थेणोः इति किं ? अनन्दिषुः कठकालापाः ।
अद्यतन्यां इति किं ? उद्यन्ति कथकालापाः । ।
____________________________________________________________________
- <अध्वर्यु-क्रतुरनपुंसकम्># । । पाणिनीयसूत्र २,४.४ । ।
_____काशिका २,४.४ः
अध्वर्यु-वेदे यस्य क्रतोर्विधानं सोऽध्वर्यु-क्रतुः ।
अध्वर्युक्रतु-वाचिनां शब्दानां अनपुंसक-लिङ्गानां द्वन्द्वः एकवद्भवति ।
अध्वर्युक्रतुरनपुंसकं द्वन्द्वः इति गौणो निर्देशः ।
अर्काश्वमेधं ।
सायाह्नातिरात्रं ।
अध्वर्युक्रतुः इति किं ? इषुवज्रौ ।
उद्भिद्बलभिदौ ।
अनपुंसकं इति किं ? राजसूय-वाजपेये ।
इह कस्मान्न भवति, दर्शपौर्णमासौ ? क्रतु-शब्दः सोमयागेषु रूढः । ।
____________________________________________________________________
[#१५४]
- <अध्ययनतोऽविप्रकृष्ट-आख्यानाम्># । । पाणिनीयसूत्र २,४.५ । ।
_____काशिका २,४.५ः
अध्ययनेन निमित्तेन येषां अविप्रकृष्टा प्रत्यासन्ना आख्या, तेषां द्वन्द्वः एकवद्भवति ।
पदक-क्रमकं ।
क्रमक-वार्तिकं ।
सम्पाठः पदानां क्रमस्य च प्रत्यासन्नः ।
अध्ययनतः इति किं ? पितापुत्रौ ।
अविप्रकृष्ट-आख्यानां इति किं ? याज्ञैकवैयाकरणौ । ।
____________________________________________________________________
- <जातिरप्राणिनाम्># । । पाणिनीयसूत्र २,४.६ । ।
_____काशिका २,४.६ः
जाति-वाचिनां शब्दानां द्वन्द्व एकवद्भवति प्राणिनो वर्जयित्वा ।
आराशस्त्रि ।
धानाशष्कुलि ।
जातिः इति किं ? नन्दकपाञ्चजन्यौ ।
अप्राणिनां इति किं ? ब्राह्मण-क्षत्रियविट्शूद्राः ।
नञिव-युक्तन्यायेन द्रव्य-जातीनां अयं एकवद्भावः, न गुण-क्रियाजातीनां ।
रूपरसगन्धस्पर्शाः ।
गमनाकुञ्चन-प्रसारणानि ।
जाति परत्वे च जाति-शब्दानां अयं एकवद्भावो विधीयते, न नियत-द्रव्य-विवक्षायां - इह कुण्डे बदरामलकानि तिष्ठन्ति इति । ।
____________________________________________________________________
- <विशिष्ट-लिङ्गो नदी देशोऽग्रामाः># । । पाणिनीयसूत्र २,४.७ । ।
_____काशिका २,४.७ः
विशिष्त-लिङ्गानां भिन्न-लिङ्गानां नदी-वाचिनां शब्दानां देशवचिनां च ग्राम-वर्जितानं द्वन्द्व एकवद्भवति ।
नद्य्-अवयवो द्वन्द्वो नदी इत्युच्यते ।
देश-अवयवश्च देशः ।
नदी देशः इत्यसमास-निर्देश एव अयं ।
उद्ध्यश्च इरावती च उद्ध्येरावति ।
गङ्गाशोणं ।
देशः खल्वपि - कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रं ।
कुरुकुरुजाङ्गलं ।
विशिष्ट-लिङ्गः इति किं ? गङ्गा-यमुने ।
मद्रकेकयाः ।
नदी देशः इति किं ? कुक्कुटमयूर्यौ ।
अग्रामाः इति किं ? जाम्बवश्च शालूकिनी च जाम्बव-शालूकिन्यौ ।
नदी-ग्रहणमदेशत्वाथ् ।
जनपदो हि देशः ।
तथा च पर्वतानां ग्रहणं न भवति, कैलासश्च गन्धमादनं च कैलास-गन्धमादने ।
अग्रामा इत्यत्र नगरानां प्रतिषेधो वक्तव्यः ।
इह मा भूत्, मथुरा च पाटलिपुत्रं च मथुरा-पाटलिपुत्रं ।
उभयतश्च ग्रामाणां प्रतिषेधो वक्तव्यः ।
सौर्यं च नगरं, केतवतं च ग्रामः सौर्य-केतवते । ।
____________________________________________________________________
[#१५५]
- <क्षुद्र-जन्तवः># । । पाणिनीयसूत्र २,४.८ । ।
_____काशिका २,४.८ः
अपचितपरिमाणः क्षुद्रः ।
क्ष्रुद्र जन्तु-वाचिनां द्वन्द्वः एकवद्भवति ।
दंशमशकं ।
यूकालिक्षं ।
क्षुद्र-जन्तवः इति किं ? ब्राह्मण-क्षत्रियौ ।
क्षुद्र-जन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः ।
शतं वा प्रसुऋतौ येषां केचिदा नकुलादपि । ।
आ नकुलादपि इति इयं एव स्मृतिः प्रमाणम्, इतरासां तद्विरोधात् । ।
____________________________________________________________________
- <येषां च विरोधः शाश्वतिकः># । । पाणिनीयसूत्र २,४.९ । ।
_____काशिका २,४.९ः
विरोधो वैरं ।
शाश्वतिको नित्यः ।
येषां शाश्वतिको विरोधः तद्वाचिनां शब्दानां द्वन्द्व एकवद्भवति ।
मार्जारमूषकं ।
अहिनकुलं ।
शाश्वतिकः इति किं ? गौपालिशालङ्कायनाः कलहायन्ते ।
चकारः पुनरस्य+एव समुच्चय-अर्थः ।
तेन पशुशकुनि-द्वन्द्वे विरोधिनां अनेन नित्यं एकवद्भावो भवति - अश्वमहिषं ।
श्वशृगालं ।
काकोलूकं । ।
____________________________________________________________________
- <शूद्राणां अनिरवसितानाम्># । । पाणिनीयसूत्र २,४.१० । ।
_____काशिका २,४.१०ः
निरवसानं बहिष्करणं ।
कुतो बहिष्करणं ? पात्राथ् ।
यैर्भुक्ते पात्रं संस्कारेण अपि न शुध्यति ते निरवसिताः ।
न निरवसिताः अनिरवसिताः ।
अनिरवसित-शूद्र-वाचिनां शब्दानां द्वन्द्व एकवद्भवति ।
तक्षायस्कारं ।
रजकतन्तुबायं ।
अनिरवसितानां इति किं ? चण्डालमृतपाः । ।
____________________________________________________________________
- <गवाश्व-प्रभृतीनि च># । । पाणिनीयसूत्र २,४.११ । ।
_____काशिका २,४.११ः
गवाश्व-प्रभृतीनि च कृत-एकवद्-भावनि द्वन्द्व-रूपाणि साधूनि भव्न्ति ।
गवाश्वं ।
गवाविकं ।
गवैडकं ।
अजाविकं ।
अजैडकं ।
कुब्जवामनं ।
कुब्जकैरातकं ।
पुत्रपौत्रं ।
श्वचण्डालं ।
स्त्रीकुमारं ।
दासीमाणवकं ।
शाटीपिच्छकं ।
उष्ट्रखरं ।
उष्त्रशशं ।
मूत्रशकृथ् ।
मूत्रपुरीषं ।
यकृन्मेदः ।
मांसशोणितं ।
दर्भशरं ।
दर्भपूतीकं ।
अर्जुनशिरीषं ।
तृणोलपं ।
दासीदासं ।
कुटीकुटं ।
भागवतीभागवतं ।
गवाश्व-प्रभृतिषु यथोच्चारितं द्वन्द्व-वृत्तं ।
रूपान्तरे तु न अयं विधिर्भवति ।
गोऽश्वम्, गोऽश्वौ ।
पशुद्वन्द्व-विभाषा+एव भवति । ।
____________________________________________________________________
[#१५६]
- <विभाषा वृक्ष-मृग-तृण-धान्य-व्यञ्जन-पशु-शकुन्य्-अश्ववडव-पूर्वापर-अधरोत्तराणाम्># । । पाणिनीयसूत्र २,४.१२ । ।
_____काशिका २,४.१२ः
वृक्ष मृग तृण धन्य व्यञ्जन पशु शकुनि अश्ववडव पूर्वापर अधरोत्तर इत्येतेषां द्वन्द्वो विभाषा एकवद्भवति ।
प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः ।
रुरुपृषतम्, रुरुपृषताः ।
कुशकाशम्, कुशकाशाः ।
व्रीहियवम्, व्रीहियवाः ।
दधिघृतम्, दधिघृते ।
गोमहिषम्, गोमहिषाः ।
तित्तिरिकपिञ्जलम्, तित्तिरिकपिञ्जलाः ।
अश्ववडवम्, अश्ववडवौ ।
पूर्वापरम्, पूर्वाप्रे ।
अधरोत्तरम्, अधरोत्तरे ।
बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां ।
एषां बहुप्रकृतिरेव द्वन्द्व एकवद्भवति, न द्विप्रकृतिः ।
बदरामलके ।
रथिकाश्वारोहौ ।
प्लक्षन्यग्रोधौ ।
रुरुपृषतौ ।
हंसचक्रवाकौ ।
यूकालिक्षे व्रीहियवौ ।
कुशकाशौ । ।
____________________________________________________________________
- <विप्रतिषिद्धं च अनधिकरण-वाचि># । । पाणिनीयसूत्र २,४.१३ । ।
_____काशिका २,४.१३ः
परस्परविरुद्धं विप्रतिषिद्धं ।
विप्रतिषिद्ध-अर्थानां शब्दानां अनधिकरण-वाचिनां अद्रव्य-वाचिनां द्वन्द्व एकवद्भवति ।
विभाष-अनुकर्षण-अर्थश्चकारः ।
शीतोष्णम्, शीतोष्णे ।
सुख-दुःखम्, सुख-दुःखे ।
जीवितमरणम्, जीवितमरणे ।
विप्रतिषिद्धं इति किं ? काम-क्रोधौ ।
अनधिकरणवाचि इति किं ? शीतोष्णे उदके । ।
____________________________________________________________________
- <न दधिपय-आदीनि># । । पाणिनीयसूत्र २,४.१४ । ।
_____काशिका २,४.१४ः
यथायथं एकवद्भावे प्राप्ते प्रतिषेध आरभ्यते ।
दधिपय-आदिनि शब्द-रूपाणि न+एकवद्भवन्ति ।
दधिपयसी ।
सर्पिर्मधुनी ।
मधुसपिषी ।
ब्रह्मप्रजापती ।
शिववैश्रवणौ ।
स्कन्दविशाखौ ।
परिव्राट्कौशिकौ प्रवर्ग्योपसदौ ।
शौक्लकृष्णौ ।
इध्माबर्हिषी ।
निपातनाद्दीर्घः ।
दीक्षातपसी ।
श्रद्धातपसी ।
मेधातपसी ।
अध्ययनतपसी ।
उलूखलमुसले ।
आद्यावसाने ।
श्रद्धामेधे ।
ऋक्षामे ।
वाङ्मनसे । ।
____________________________________________________________________
- <अधिकरन-एतावत्त्वे च># । । पाणिनीयसूत्र २,४.१५ । ।
_____काशिका २,४.१५ः
न इति वर्तते ।
अधिकरणं वर्ति-पदार्थः ।
स हि समासस्य अर्थस्य अधारः ।
तस्य+एतावत्त्वे परिमाणे गम्यमाने द्वन्द्वो न+एकवद्भवति ।
यथायथं एकवद्भावः प्राप्तः प्रतिषिध्यते ।
दश दन्तोष्ठाः ।
दश मार्दङ्गिकपाणविकाः । ।
____________________________________________________________________
[#१५७]
- <विभाषा समीपे># । । पाणिनीयसूत्र २,४.१६ । ।
_____काशिका २,४.१६ः
अधिकरण-एतावत्त्वस्य समीपे विभाषा द्वन्द्वः एकवद्भवति ।
उपदशं दन्तोष्ठम्, उपदशाः दन्तोष्ठाः ।
उपदशं मार्दङ्गिकपाणविकम्, उपदशा मार्दङ्गिकपाणविकाः ।
अव्ययस्य सङ्ख्यया+अव्ययीभावोऽपि विहितः, बहुव्रीहिरपि ।
तत्र+एकवद्भावपक्षेऽव्ययीभावोऽनुप्रयुज्यते, इतरत्र बहुव्रीहिः । ।
____________________________________________________________________
- <स नपुंसकम्># । । पाणिनीयसूत्र २,४.१७ । ।
_____काशिका २,४.१७ः
यस्य अयं एकवद्भावो विहितः स नपुंसक-लिङ्गो भवति द्विगुर्द्वन्द्वश्च ।
पञ्चगवं ।
दशगवं ।
द्वन्द्वः खल्वपि -- पाणिपादं ।
शिरोग्रीवं ।
परलिङ्गतापवादो योगः ।
अकारान्त-उत्तरपदो द्विगुः स्त्रियां भाष्यते ।
पञ्चपूली ।
दशरथी ।
वा+आबन्तः स्त्रियां इष्टः ।
पञ्चखट्वम्, पञ्चखट्वी ।
अनो नलोपश्च वा च द्विगुः स्त्रियां ।
पञ्चतक्षम्, पञ्चतक्षी ।
पात्रादिभ्यः प्रतिषेधो वक्तव्यः ।
पञ्चपात्रं ।
चतुर्युगं ।
त्रिभुवनं । ।
____________________________________________________________________
- <अव्ययीभावश्च># । । पाणिनीयसूत्र २,४.१८ । ।
_____काशिका २,४.१८ः
अव्ययीभावश्च समासो नपुंसक-लिङ्गो भवति ।
अधिस्त्रि ।
उपकुमारि ।
उन्मत्तगङ्गं ।
लोहितगङ्गं ।
पूर्वपदार्थ-प्रधानस्य अलिङ्गता+एव प्राप्ता, अन्यपदार्थ-प्रधानस्य अभिधेयवल्-लिङ्गता, अत इदं उच्यते ।
अनुक्त-समुच्चयार्थश्चकारः ।
[#१५८]
पुण्यसुदिनाभ्यामह्नः क्लीबतेष्यते ।
पुण्याहं ।
सुदिनाहं ।
पथः सङ्ख्याव्यय-आदेः क्लीबतेष्यते ।
त्रिपथं ।
चतुष्पथं ।
विपथं ।
सुपथं ।
क्रिया-विशेषणानां च क्लीबतेष्यते ।
मृदु पचति ।
शोभनं पचति ।
____________________________________________________________________
- <तत्पुरुषोऽनञ्-कर्मधारयः># । । पाणिनीयसूत्र २,४.१९ । ।
_____काशिका २,४.१९ः
अधिकारोऽयं उत्तरसूत्रेषु उपतिष्ठते ।
नञ्-समासं कर्मधारयं च वर्जयित्वाऽन्यस्तत्पुरुषो नपुंसक-लिङ्गो भवति इत्येतदधिकृतं विदितव्यम्, यदित ऊर्ध्वं अनुक्रमिष्यामस्तत्र ।
वक्ष्यति -- विभाषा सेना-सुरा-च्छाया-शाला-निशानां (*२,४.२५) ।
ब्राह्मणसेनम्, ब्राह्मणसेना ।
तत्पुरुषः इति किं ? दृढसेनो राजा अनञिति किं ? असेना ।
अकर्मधार्यः इति किं ? परमसेना । ।
____________________________________________________________________
- <सञ्ज्ञायां कन्ता-उशीनरेषु># । । पाणिनीयसूत्र २,४.२० । ।
_____काशिका २,४.२०ः
सञ्ज्ञायां विषये कन्था-अनतस्तत्पुरुषो नपुंसक-लिङ्गो भवति, सा चेत्कन्था उशीनरेसु भवति ।
सौशमिकन्थं ।
आह्वरकन्थं ।
सञ्ज्ञायां इति किं ? वीरणकन्था ।
उशीनरेषु इति किं ? दाक्षिकन्था ।
परविल्-लिङ्गता पवाद इदं प्रकरनं । ।
____________________________________________________________________
- <उपज्ञा-उपक्रमं तद्-आद्य्-आचिख्यासायाम्># । । पाणिनीयसूत्र २,४.२१ । ।
_____काशिका २,४.२१ः
उप्ज्ञायते इत्युपज्ञा ।
उपक्रम्यते इत्युपक्रमः ।
उपज्जा च उपक्रमश्च उपज्ञोपक्रमं ।
तदन्तस्तत्पुरुषो नपुंसक-लिङ्गो भवति तद्-आद्य्-आचिख्यासायाम्, तयोरुपज्ञोपक्रमयोरादेराचिख्यासायां गम्यमानायां ।
आख्यातुं इच्छा आचिख्यासा ।
यद्युपज्ञेयस्य+उपक्रम्यस्य च अर्थस्य आदिराख्यातुं इष्यते तत एतद्भवति ।
पाणिन्य्-उपज्ञमकालकं व्याकरणं ।
पाणिनेरुपज्ञानेन प्रथं अतः प्रणीतं अकालकं व्याकरणं ।
व्याड्युपज्ञं दशहुष्करणं ।
आद्योपक्रमं प्रासादः ।
नन्दोपक्रमाणि मानानि ।
दर्शनीयोपक्रमं सुकुमारं ।
उपज्ञा-उपक्रमं इति किं ? वाल्मीकिश्लोकाः ।
तद्-आद्य्-आचिख्यासायां इति किं ? देवदत्तोपज्ञो रथः ।
यज्ञदत्तोपक्रमो रथः । ।
____________________________________________________________________
[#१५९]
- <छाया बाहुल्ये># । । पाणिनीयसूत्र २,४.२२ । ।
_____काशिका २,४.२२ः
विभाषा सेना-सुरा-च्छाया. शाला-निशानां (*२,४.२५) ।
इति विभाषां वक्ष्यति ।
नित्य-अर्थं इदं वचनं ।
छाया-अन्तस्तत्पुरुषो नपुंसक-लिङ्गो भवति बाहुल्ये गम्यमाने ।
पूर्वपदार्थ-धर्मः बाहुल्यं ।
शलभादीनां हि बहुत्वं गम्यते ।
शलभच्छायं ।
इक्षुच्छायं ।
बहुल्ये इति किं ? कुङ्यच्छाया । ।
____________________________________________________________________
- <सभा राजाऽमनुस्य-पूर्वा># । । पाणिनीयसूत्र २,४.२३ । ।
_____काशिका २,४.२३ः
सभान्तस्तत्पुरुषो नपुंसक-लिङ्गो भवति, सा चेत्सभा राजपूर्वा, अमनुस्य-पूर्वा च भवति ।
इनसभं ।
ईश्वरसभं ।
इह कस्मान्न भवति, राजसभा ? पर्याय-वचनस्य+एव+इष्यते ।
तदुक्तं - जित्पर्यायस्य+एव राजाध्यर्थं इति ।
अमनुष्य-पूर्वा - रक्षःसभं ।
पिशाचसभं ।
इह कस्मान्न भवति, काष्ठसभा ? अमनुष्य-शब्दो रूढिरूपेण्रक्षःपिशाचादिष्वेव वर्तते ।
राजा+अमनुष्य-पूर्वा इति किं ? देवदत्तसभा । ।
____________________________________________________________________
- <अशाला च># । । पाणिनीयसूत्र २,४.२४ । ।
_____काशिका २,४.२४ः
अशाला च या सभा तदन्तस्तत्पुरुषो नपुंसक-लिङ्गो भवति ।
सङ्घातवचनोऽत्र सभा-शब्दो गृह्यते ।
स्त्रीसभं ।
दासीसभं ।
दासीसङ्घातः इत्यर्थः ।
अशाला इति किं ।
अनाथकुटी इत्यर्थः । ।
____________________________________________________________________
- <विभाषा सेना-सुरा-च्छाया-शाला-निशानाम्># । । पाणिनीयसूत्र २,४.२५ । ।
_____काशिका २,४.२५ः
सेना सुरा छाया शाला निशा इत्येवं अन्तस्तत्पुरुषो नपुंसक-लिङ्गो भवति विभाषा ।
ब्राह्मणसेनम्, ब्राहमणसेना ।
यवसुरम्, यवसुरा ।
कुङ्यच्छायम्, कुड्यच्छाया ।
गोशालम्, गोशाला ।
श्वनिशं ।
श्वनिशा । ।
____________________________________________________________________
- <परवल्-लिङ्गं द्वन्द्व-तत्पुरुषयोः># । । पाणिनीयसूत्र २,४.२६ । ।
_____काशिका २,४.२६ः
समाहार-द्वन्द्वे नपुंसक-लिङ्गस्य विहितत्वादितरेतरयोग-द्वन्द्वस्य+इदं ग्रहणं ।
परस्य यल्लिङ्गं तत्भवति द्वन्द्वस्य तत्पुरुषस्य च ।
उत्तरपद-लिङ्गं द्वन्द्व-तत्पुरुषयोर्विधीयते ।
कुक्कुटमयूर्याविमे ।
मयूरीकुक्कुटाविमौ ।
तत्पुरुषस्य - अर्धं पिप्पल्याः अर्धपिप्पली ।
अर्धकोशातकी ।
अर्धनखरञ्जनी ।
द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः ।
द्विगुः - पञ्चसु कपालेसु संस्कृतः पुरोडाशः पञ्चकपालः ।
[#१६०]
प्राप्तो जीविकां प्राप्तजीविकः ।
आपन्नो जीविकां आपन्नजीविकः ।
अलं जीविकायै अलंजीविकः ।
गतिसमासः - निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः । ।
____________________________________________________________________
- <पूर्ववद्-अश्वव-डवौ># । । पाणिनीयसूत्र २,४.२७ । ।
_____काशिका २,४.२७ः
अश्व-वडवयोर्विभाष-एकवद्-भावः उक्तः ।
तत्र+एकवद्-भावादन्यत्र परविल्लिङ्गतायां प्राप्तायां इदं आरभ्यते ।
अश्व-वडवयोः पूर्ववल्लिङ्गं भवति ।
अश्वश्च वडवा च अश्ववडवौ ।
अर्थ-अतिदेशश्च अयम्, न निपातनं ।
तत्र द्विवचनमतन्त्रं ।
वचन-अन्तरेऽपि पूर्ववल्लिङ्गता भवति, अश्व-वडवान्, अश्व-वडवैः इति । ।
____________________________________________________________________
- <हेमन्त-शिशिरावहो-रात्रे च छन्दसि># । । पाणिनीयसूत्र २,४.२८ । ।
_____काशिका २,४.२८ः
पूर्ववतिति वर्तते ।
हेमन्त-शिशिरौ अहोरात्रे इत्येतयोश्छन्दसि विषये पूर्ववल्लिङ्गं भवति ।
हेमन्तशिशिरावृतूनां प्रीणामि ।
अहोरात्रे इदं व्रूमः ।
परवल्लिङ्गत-अपवादो योगः ।
अर्थ-अतिदेशश्च अयं न निपातनं, तेन द्विवचनमतन्त्रं ।
वचन-अन्तरेऽपि पूर्ववल्लिङ्गता भवति ।
पूर्व-पक्षाश्चितयः ।
अपरपक्षाः पुरीषम्, अहोरात्राणीष्टकाः ।
छन्दसि इति किं ? दुःखे हेमन्तशिशिरे ।
अहोरात्राविमौ पुण्यौ ।
छन्दसि लिङ्गव्यत्यय उक्तः, तस्य+एव अयं प्रपञ्चः । ।
____________________________________________________________________
- <रात्र-अह्न-अहाः पुंसि># । । पाणिनीयसूत्र २,४.२९ । ।
_____काशिका २,४.२९ः
कृतसमासान्तानां निर्देशः ।
रात्र अह्न अह इत्येते पुंसि भाष्यन्ते ।
परवल्लिङ्गतया स्त्री-नपुंसकयोः प्राप्तयोरिदं वचनं ।
द्विरात्रः ।
त्रिरात्रः ।
चतूरात्रः ।
पूर्वाह्णः ।
अपराह्णः ।
मध्याह्नः ।
द्व्यहः ।
त्र्यहः ।
अनुवाकादयः पुंसीति वक्तव्यं ।
अनुवाकः ।
शंयुवाकः ।
सूक्तवाकः । ।
____________________________________________________________________
- <अपथं नपुंसकम्># । । पाणिनीयसूत्र २,४.३० । ।
_____काशिका २,४.३०ः
अपथ-शब्दो नपुंसक-लिङ्गो भवति ।
अपथं इदं ।
अपथानि गाहते मूढः ।
इह कस्मान्न भवति, अपथो देशः, अपथा नगरी ? तत्पुरुषः इति वर्तते । ।
____________________________________________________________________
- <अर्धर्चाः पुंसि च># । । पाणिनीयसूत्र २,४.३१ । ।
_____काशिका २,४.३१ः
अर्धर्चादयः शब्दाः पुंसि नपुंसके च भाष्यन्ते ।
अर्धर्चः ।
अर्धर्चं ।
गोमयः ।
गोमयं ।
[#१६१]
शब्द-रूप-आश्रया च+इयं द्वि-लिङ्गता क्वचिदर्थभेदेन अपि व्यवतिष्ठते, यथा - पड्मशङ्ख-शब्दौ निधि-वचनौ पुंलिङ्गौ, जलजे उभय-लिङ्गौ ।
भूत-शब्दः पिशाचे उभय-लिङ्गः, क्रिया-शब्दस्य अभिधेयवल्लिङ्गं ।
सैन्धव-शब्दो लवणे उभयलिङ्गः, यौगिकस्य अभिधेयवल्लिङ्गं ।
सार-शब्द उत्कर्षे पुंलिङ्गः, न्यायादनपेते नपुंसकम्, नैतत्सारं इति ।
धर्मः इत्यपूर्वे पुंलिङ्गः, तत्साधने नपुंसकं ।
तानि धर्माणि प्रथमान्यासन् ।
अर्धर्च ।
गोमय ।
कषाय ।
कार्षापण ।
कुतप ।
कपाट ।
शङ्ख ।
चक्र ।
गूथ ।
यूथ ।
ध्वज ।
कबन्ध ।
पड्म ।
गृह ।
सरक ।
कंस ।
दिवस ।
यूष ।
अन्धकार ।
दण्ड ।
कमण्डलु ।
मन्ड ।
भूत ।
द्वीप ।
द्यूत ।
चक्र ।
धर्म ।
कर्मन् ।
मोदक ।
शतमान ।
यान ।
नख ।
नखर ।
चरण ।
पुच्छ ।
दाडिम ।
हिम ।
रजत ।
सक्तु ।
पिधान ।
सार ।
पात्र ।
घृत ।
सैन्धव ।
औषध ।
आढक ।
चषक ।
द्रोण ।
खलीन ।
पात्रीव ।
षष्टिक ।
वार ।
बान ।
प्रोथ ।
कपैत्थ ।
शुष्क ।
शील ।
शुल्ब ।
सीधु ।
कवच ।
रेणु ।
कपट ।
सीकर ।
मुसल ।
सुवर्ण ।
यूप ।
चमस ।
वर्ण ।
क्षीर ।
कर्ष ।
आकाश ।
अष्टापद ।
मङ्गल ।
निधन ।
निर्यास ।
जृम्भ ।
वृत्त ।
पुस्त ।
क्ष्वेडित ।
शृङ्ग ।
शृङ्खल ।
मधु ।
मूल ।
मूलक ।
शराव ।
शाल ।
वप्र ।
विमान ।
मुख ।
प्रग्रीव ।
शूल ।
वज्र ।
कर्पट ।
शिखर ।
कल्क ।
नाट ।
मस्तक ।
वलय ।
कुसुम ।
तृण ।
पङ्क ।
कुण्डल ।
किरीट ।
अर्बुद ।
अङ्कुश ।
तिमिर ।
आश्रम ।
भूषण ।
इल्वस ।
मुकुल ।
वसन्त ।
तडाग ।
पिटक ।
विटङ्क ।
माष ।
कोश ।
फलक ।
दिन ।
दैवत ।
पिनाक ।
समर ।
स्थाणु ।
अनीक ।
उपवास ।
शाक ।
कर्पास ।
चशाल ।
खण्ड ।
दर ।
विटप ।
रण ।
बल ।
मल ।
मृणाल ।
हस्त ।
सूत्र ।
ताण्डव ।
गाण्डीव ।
मण्डप ।
पटह ।
सौध ।
पार्श्व ।
शरीर ।
फल ।
छल ।
पूर ।
राष्ट्र ।
विश्व ।
अम्बर ।
कुट्टिम ।
मण्डल ।
ककुद ।
तोमर ।
तोरण ।
मञ्चक ।
पुङ्ख ।
मध्य ।
बाल ।
वल्मीक ।
वर्ष ।
वस्त्र ।
देह ।
उद्यान ।
उद्योग ।
स्नेह ।
स्वर ।
सङ्गम ।
निष्क ।
क्षेम ।
शूक ।
छत्र ।
पवित्र ।
यौवन ।
पानक ।
मूषिक ।
वल्कल ।
कुञ्ज ।
विहार ।
लोहित ।
विषाण ।
भवन ।
अरण्य ।
पुलिन ।
दृढ ।
आसन ।
ऐरावत ।
शूर्प ।
तीर्थ ।
लोमश ।
तमाल ।
लोह ।
दण्डक ।
शपथ ।
प्रतिसर ।
दारु ।
धनुस् ।
मान ।
तङ्क ।
वितङ्क ।
मव ।
सहस्र ।
ओदन ।
प्रवाल ।
शकट ।
अपराह्ण ।
नीड ।
शकल ।
इति अर्धर्चादिः । ।
____________________________________________________________________
- <इदमोऽन्वादेशेऽशनुदात्तस्तृतीया-आदौ># । । पाणिनीयसूत्र २,४.३२ । ।
_____काशिका २,४.३२ः
आदेशः कथनं ।
अनवादेशोऽनुकथनं ।
इदमोऽन्वादेश-विषयस्य अश्-आदेशो भवत्यनुदात्तः, तृतीय-अदौ विभक्तौ परतः ।
आभ्यां छात्राभ्यं रात्रिरधीता, अथो आभ्यामहरप्यधीतं ।
अस्मै छात्राय कम्बलं देहि, अथोऽस्मै शाटकं अपि देहि ।
अस्य छात्रस्य शोभनं शीलम्, अथोऽस्य प्रभूतं स्वं ।
अश्-आदेश-वचनं साकच्क-अर्थं ।
इमकाभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतं ।
नेह पश्चादुच्चारणमात्रं अन्वादेशः ।
किं तर्हि ? एकस्य+एव अभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनं अन्वादेशः ।
तेन+इह न भवति, देवदत्तं भोजय, इमं च यज्ञदत्तं इति । ।
____________________________________________________________________
[#१६२]
- <एतदस्त्र-तसोस्त्र-तसौ च अनुदातौ># । । पाणिनीयसूत्र २,४.३३ । ।
_____काशिका २,४.३३ः
अन्वादेश अनुदात्त इति वर्तते ।
एतदोऽन्वादेश-विषयस्य अशादेशो भवति अनुदात्तः त्र-तसोः परतः ।
तौ च अपि त्र-तसावनुदात्तौ भवतः ।
एतस्मिन्ग्रामे सुखं वसामः, अथो अत्र युक्ता अधीमहे ।
एतस्माच्छात्राच्छन्तोऽधीष्व, अथो अतो व्याकरणं अप्यधीष्व ।
सर्वानुदात्तं पदं भवति ।
एतदोऽशित्यादेशे लभे पुनर्वचनं अनुदात्त-अर्थं । ।
____________________________________________________________________
- <द्वितीया-टा-ओस्स्वेनः># । । पाणिनीयसूत्र २,४.३४ । ।
_____काशिका २,४.३४ः
अन्वादेशेऽनुदात्तः इति वर्तते ।
द्वितीया टा ओसित्येतेषु परत इदं एतदोरन्वादेश-विषययोः एन-शब्द आदेशो आदेशो भवति अनुदात्तः ।
इदमो मण्डूकप्लुतिन्यायेन अनुवृत्तिः ।
इमं छात्रं छन्दोऽध्यापय, अथो एनं व्याकरणमध्यापय ।
अनेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतं ।
अनयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वं ।
एतदः खल्वपि -- एतं छात्रं छन्तोऽध्यापय, अथो एनं व्याकरणमप्यध्यापय ।
एतेन छात्रेन रात्रिरधीता, अथो एनेनाहरप्यधीतं ।
एतयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वं ।
एनदिति नपुंसकैकवचने वक्तव्यं ।
प्रक्षालयैनथ् ।
परिवर्तयैनथ् ।
इह कस्मान्न भवति, अयं दण्डो हरानेन, एतमातं ङितं विद्यातिति ? यत्र किञ्चिद्विधाय वाक्यान्तरेण पुनरन्यदुपदिश्यते सोऽन्वादेशः ।
इह तु वस्तु-निर्देशमात्रं कृत्वा एकं एव विधानं । ।
____________________________________________________________________
- <आर्धधातुके># । । पाणिनीयसूत्र २,४.३५ । ।
_____काशिका २,४.३५ः
आर्धधातुके इत्यधिकारोऽयम्, ण्य-क्षत्रिय-आर्ष-ञितो यूनि लुग्-अण्-इञोः (*२,४.५८) इति यावथ् ।
यदित ऊर्ध्वं अनुक्रमिष्यमस्तदार्धधातुके वेदितव्यं ।
वक्ष्यति हनो वध लिङि (*२,४.४२) -- वध्याथ् ।
आर्धधातुके इति किं ? हन्याथ् ।
विषय-सप्तमी च+इयं, न परसप्तमी ।
तेन आर्धधातुक-विवक्षायां आदेशेषु कृतेषु पश्चाद्यथा-प्राप्तं प्रत्यया भवन्ति ।
भव्यं ।
प्रवेयं ।
आख्येयं । ।
____________________________________________________________________
- <अदो जग्धिर्ल्यप्ति किति># । । पाणिनीयसूत्र २,४.३६ । ।
_____काशिका २,४.३६ः
अदो जग्धिः आदेशो भवति ल्यपि परतः, तकारादौ च किति प्रत्यये ।
प्रजग्ध्य ।
विजग्ध्य ।
जग्धः ।
जग्धवान् ।
इकार उच्चारण-अर्थः, न अनुबन्धः ।
तेन नुं न भवति ।
एवं वच्यादीनां अपि ।
इह कस्मान्न भवति, अन्नं ? अन्नाण्णः (*४,४.८५) इति निपातनाथ् ।
[#१६३]
जग्धौ सिद्धेऽन्तरङ्गत्वात्ति कितीति ल्यबुच्यते ।
ज्ञापयत्य्-अन्तरङ्गाणां ल्यपा भवति बाधनं । ।
ति इति किं ? अद्यते ।
किति इति किं ? अत्तव्यं । ।
____________________________________________________________________
- <लुङ्-सनोर्घसृ># । । पाणिनीयसूत्र २,४.३७ । ।
_____काशिका २,४.३७ः
लुङि सनि च परतोऽदो घसृआदेशो भवति ।
ऋदित्-करणं अङर्थं ।
लुङि --अघसत्, अघसताम्, अघसन् ।
सनि -- जिघत्सति, जिघत्सतः, जिघत्सन्ति ।
घसृभावेऽच्युपसङ्ख्यानं ।
प्रात्ति इति प्रघसः । ।
____________________________________________________________________
- <घञ्-अपोश्च># । । पाणिनीयसूत्र २,४.३८ । ।
_____काशिका २,४.३८ः
घञि अपि च परतः अदो घसृआदेशो भवति ।
घासः ।
प्रघसः ।
उपसर्गेऽदः (*३,३.५९) इत्यप् । ।
____________________________________________________________________
- <बहुलं छन्दसि># । । पाणिनीयसूत्र २,४.३९ । ।
_____काशिका २,४.३९ः
छन्दसि विषये बहुलं अदो घसृआदेशो भवति ।
घस्तां नूनं ।
सग्धिश्च मे ।
न च भवति ।
आत्तामद्य मद्यतो मेद उद्भृतं ।
अन्यतरस्य अंग्रहणं एव कस्मान्न क्रियते तदेव+उत्तर-अर्थं अपि भविष्यति ? कार्यान्तर-अर्थं बहुल-ग्रहणं ।
घस्तां इत्यत्र+उपधा-लोपो न भवति । ।
____________________________________________________________________
- <लिट्यन्तरस्याम्># । । पाणिनीयसूत्र २,४.४० । ।
_____काशिका २,४.४०ः
लिटि परतोऽदोऽन्यतरस्यां घस्ल्-आदेशो भवति ।
जघास, जक्षतुः, जक्षुः ।
आद्, आदतुः, आदुः । ।
____________________________________________________________________
- <वेञो वयिः># । । पाणिनीयसूत्र २,४.४१ । ।
_____काशिका २,४.४१ः
लिट्यन्यतरस्यां इति वर्तते ।
वेञो वयिः आदेशो भवति अन्यत्रस्यां लिटि परतः ।
इकार उच्चारण-अर्थः ।
उवाय, ऊयतुः, ऊयुः ।
पक्षे -- ऊवतुः, ऊवुः ।
लिटि वयो यः (*६,१.३८) इति यकारस्य सम्प्रसारणं प्रतिषिध्यते ।
वश्च अन्यतरस्यां किति (*६,१.३९) इति व-कारो विधीयते -- ववौ, ववतुः, ववुः ।
वेञः (*६,१.४०) इति सम्प्रसारणं न भवति । ।
____________________________________________________________________
[#१६४]
- <हनो वध लिङि># । । पाणिनीयसूत्र २,४.४२ । ।
_____काशिका २,४.४२ः
हन्तेर्धातोः वध इत्ययं आदेशो भवति लिङि परत आर्धधातुके ।
वध्यात्, वध्यास्ताम्, वध्यासुः ।
अकार-अन्तश्च अयं आदेशः ।
तत्र अकारस्य लोपो भवति ।
तस्य स्थानिवद्भावादवधीतिति हलन्त-लक्षना वृद्धिः न भवति । ।
____________________________________________________________________
- <लुङि च># । । पाणिनीयसूत्र २,४.४३ । ।
_____काशिका २,४.४३ः
लुङि च परतः हनो वध इत्ययं आदेशो भवति ।
अवधीत्, अवधीष्टाम्, अवधिषुः ।
योगविभाग उत्तर-अर्थः ।
आत्मनेपदेषु लुङि विकल्पो यथा स्याल्लिङि मा भूत् । ।
____________________________________________________________________
- <आत्मनेपदेष्वन्यतरस्याम्># । । पाणिनीयसूत्र २,४.४४ । ।
_____काशिका २,४.४४ः
पूर्वेण नित्ये प्राप्ते विकल्प उच्यते ।
आत्मनेपदेषु परतो हनो लुङ्यन्यतरस्यां वध इत्ययमादेशो भवति ।
आवधिष्ट, आवधिषाताम्, आवधिषत ।
न च भवति ।
आहत, आहसाताम्, आहसत । ।
____________________________________________________________________
- <इणो गा लुङि># । । पाणिनीयसूत्र २,४.४५ । ।
_____काशिका २,४.४५ः
इणः गा इत्ययं आवेशो भवति लुङि परतः ।
अगात्, अगाताम्, अगुः ।
लुङि इति वर्तमाने पुनर्लुङ्-ग्रहणं आत्मनेपदेष्वन्यतरस्यां (*२,४.४४) इत्येतन्मा भूथ् ।
इह त्वविशेषेण नित्यं च भवति ।
अगाथ् ।
अगायि भवता ।
इण्वदिक इत वक्तव्यं ।
अध्यगात्, अध्यगाताम्, अध्यगुः । ।
____________________________________________________________________
- <णौ गमिरबोधने># । । पाणिनीयसूत्र २,४.४६ । ।
_____काशिका २,४.४६ः
णौ परतः इणोऽबोधन-अर्थस्य गमिर्-आदेशो भवति ।
इकार उच्चारण-अर्थः ।
गमयति, गमयतः, गमयन्ति ।
अबोधने इति किं ? प्रत्याययति ।
इण्वदिक इत्येव, अधिगमयति । ।
____________________________________________________________________
- <सनि च># । । पाणिनीयसूत्र २,४.४७ । ।
_____काशिका २,४.४७ः
सनि परतः इणोऽबोधन-अर्थस्य गमिरादेशो भवति ।
जिगमिषति, जिगमिषतः, जिगमिषन्ति ।
अबोधने इत्येव, अर्थान्प्रतीषिषति ।
इण्वदिक इत्येव, अधिजिगमिषति ।
योग-विभाग उत्तरार्थः ।
इङश्च (*२,४.४८) इति सन्येव यथा स्यात् । ।
____________________________________________________________________
- <इङश्च># । । पाणिनीयसूत्र २,४.४८ । ।
_____काशिका २,४.४८ः
इङश्च सनि परतो गमिरादेशो भवति ।
अधिजिगांसते, अधिजिगांसेते, अधिजिगांसन्ते । ।
____________________________________________________________________
[#१६५]
- <गाङ्लिटि># । । पाणिनीयसूत्र २,४.४९ । ।
_____काशिका २,४.४९ः
गाङदेशो भवति इङो लिटि परतः ।
अधिजगे, अधिजगाते, अधिजगिरे ।
गाङोऽनुबन्ध-ग्रहणं विशेषन-अर्थम्, गाङ्कुटादिभ्योऽञ्णिन्ङित्(*१,२.१) इत्यत्र अस्य ग्रहणं यथा स्याथ् ।
न हि स्थानिवद्भावेन गाङिति रूपं लभ्यते । ।
____________________________________________________________________
- <विभाषा लुङृङोः># । । पाणिनीयसूत्र २,४.५० । ।
_____काशिका २,४.५०ः
लुगि ऋङि च परत इङो विभाषा गाङ्-आदेशो भवति ।
आदेश-पक्षे गाङ्कुटादिभ्योऽञ्णिन्डित्(*१,२.१) इति ङित्त्वम्, घु-मा-स्था-गा-पा-जहाति-सां हलि (*६,४.६६) इति ईत्वं ।
अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत ।
न च भवति ।
अध्यैष्ट, अध्यैषाताम्, अध्यैषत ।
ऋङि खल्वपि - अध्यगीष्यत, अध्यगीष्येताम्, अध्यगीष्यन्त ।
न च भवति ।
अध्यैष्यत, अध्यैष्येताम्, अध्यैष्यन्त । ।
____________________________________________________________________
- <णौ च संश्-चङोः># । । पाणिनीयसूत्र २,४.५१ । ।
_____काशिका २,४.५१ः
इङो गाङ्विभाषा इति वर्तते ।
णौ इति इङ्-अपेक्षया परसप्तमी, संश्-चङोः इति च ण्य्-अपेक्षया ।
णौ सन्परे चङ्परे च परतः इङो विभाषा गाङ्-आदेशो भवति ।
अधिजिगापयिषति ।
न च भवति ।
अध्यापिपयिषति ।
चङि खल्वपि - अध्यजीगपथ् ।
न च भवति ।
अध्यापिपत् । ।
____________________________________________________________________
- <अस्तेर्भूः># । । पाणिनीयसूत्र २,४.५२ । ।
_____काशिका २,४.५२ः
अस्तेर्धातोर्भूः इतयं आदेशो भवति आर्धधातुके ।
भविता ।
भवितुं ।
भवितव्यं ।
इह कस्मान्न भवति, ईहामास, ईहामासतुः, ईहामासुः ? कृञ्च अनुप्रयुज्यते लिटि (*३,१.४०) इति प्रत्याहार-ग्रहणेन अस्तेर्ग्रहण-सामर्थ्याथ् ।
तथा चोच्यते - अनुप्रतोगे तु भुवाऽस्त्यबाधनं स्मरन्ति कर्तुर्वचनान्मनीषिणः ।
इति । ।
____________________________________________________________________
- <ब्रुवो बचिः># । । पाणिनीयसूत्र २,४.५३ । ।
_____काशिका २,४.५३ः
ब्रुवो वचिरादेशो भवति आर्धधातुक-विषये ।
इकार उच्चारण-अर्थः ।
वक्ता ।
वक्तुं ।
वक्तव्यं ।
स्थानिवद्भावेन कर्त्र्-अभिप्राय-क्रिया-फल-विवक्षायां आत्मनेपदं भवति ।
ऊचे ।
वक्ष्यते । ।
____________________________________________________________________
[#१६६]
- <चक्षिङः ख्याञ्># । । पाणिनीयसूत्र २,४.५४ । ।
_____काशिका २,४.५४ः
चक्षिङः ख्याञादेशो भवति आर्धधातुके ।
आख्याता ।
आख्यातुं ।
आख्यातव्यं ।
स्थानिवद्भावेन नित्यं आत्मनेपदं न भवति, ञकार-अनुबन्धक्-अरण-सामर्थ्याथ् ।
आख्यास्यति ।
आख्यास्यते ।
क्शादिरप्ययं आदेश इष्यते ।
आक्शाता ।
आक्शातुं ।
आक्शातव्यं ।
वर्जने प्रतिषेधो वक्तव्यः ।
दुर्जनः संचक्ष्याः ।
वर्जनीयाः इत्यर्थः ।
असनयोश्च प्रतिषेधो वक्तव्यः ।
नृचक्षा रक्षः हिंसार्थोऽत्र भातुः ।
अने खल्वपि - विचक्षणः पण्डितः ।
बहुलं सञ्ज्ञाछन्दसोरिति वक्तव्यं ।
अन्नवधकगात्रविचक्षणाजिराद्यर्थं । ।
____________________________________________________________________
- <वा लिटि># । । पाणिनीयसूत्र २,४.५५ । ।
_____काशिका २,४.५५ः
पूर्वेण नित्ये प्राप्ते विकल्प उच्यते ।
लिटि परतश्चक्षिङः ख्याञादेशः वा भवति ।
आचख्यौ, आचख्यतुः, आचख्युः ।
न च भवति ।
आचचक्षे, आचचक्षाते, आचचक्षिरे । ।
____________________________________________________________________
- <अजेर्व्यघञ्-अपोः># । । पाणिनीयसूत्र २,४.५६ । ।
_____काशिका २,४.५६ः
अजेर्धातोः वी इत्ययं आदेशो भवत्यार्धधातुके परतो घञपौ वर्जयित्वा ।
प्रवयणीयः ।
प्रवायकः ।
अघञपोः इति किं ? समाजः ।
उदाजः ।
अपि तु - समजः ।
उदजः ।
सम्-उदोरजः पशुषु (*३,३.६९) इत्यप् ।
दीर्घोच्चारणं किं ? प्रवीताः ।
भञपोः प्रतिषेधे क्यप उपसङ्ख्यानं कर्तव्यं ।
समज्या ।
वलादावार्धधातुके विकल्प इष्यते ।
प्रवेता, प्राजिता ।
प्रवेतुम्, प्राजितुं । ।
____________________________________________________________________
[#१६७]
- <वा यौ># । । पाणिनीयसूत्र २,४.५७ । ।
_____काशिका २,४.५७ः
पूर्वेण नित्ये प्राप्ते विकल्प उच्यते ।
यु इति ल्युटो ग्रहणं ।
यौ प्रभूते अजे र्वा वी इत्ययं आदेशो भवति ।
प्रवयणो दण्डः, प्राजनो दण्डः ।
प्रवयणमानय, प्राजनमानय । ।
____________________________________________________________________
- <ण्य-क्षत्रिय-आर्ष-ञितो यूनि लुगण्-इञोः># । । पाणिनीयसूत्र २,४.५८ । ।
_____काशिका २,४.५८ः
ण्य-आदयो गोत्र-प्रत्ययाः ।
ण्यान्तात्क्षत्रियगोत्रादार्षाद्ञितश्च प्रयोः अण्डञोर्यूनि लुग्भवति ।
ण्यान्तात्तावत्-- कुर्व्-आदिभ्यो ण्यः (*४,१.१५१) , तस्माद्यूनि इञ्, तस्य लुक् ।
कौरव्यः पिता ।
कौरव्यः पुत्रः ।
ननु च कौरव्य-शब्दः तिकादिषु पठ्यते, ततः फिञा भवितव्यम्, कौरव्यायणिः इति ? क्षत्रियगोत्रस्य तत्र ग्रहणम्, कुरु-न्-आदिभ्यो ण्यः (*४,१.१७२) इत्यनेन विहितस्य, इदं तु ब्राह्मणगोत्रम्, कुर्व्-आदिभ्यो ण्यः (*४,१.१५१) इति ।
क्षत्रिय -- ऋष्य्-अन्धक-वृष्णि-कुरुभ्यश्च (*४,१.११४) इत्यण्, तस्माद्यूनि इञ्, तस्य लुक् ।
श्वाफल्कः पिता ।
श्वाफल्कः पुत्रः ।
आर्ष -- ऋष्यण्(*४,१.११४), तस्माद्यूनि इञ्, तस्य लुक् ।
वासिष्ठः पिता ।
वासिष्ठः पुत्रः ।
ञित्- अनृष्य्-आनन्तर्ये विद-आदिभ्योऽञ्(*४,१.१०४), तस्माद्यूनि इञ्, तस्य लुक् ।
बैदः पिता ।
वैदः पुत्रः ।
अणः खल्वपि -- तिक-आदिभ्यः फिञ्(*४,१.१५४), तस्माद्यूनि प्राग्दीव्यतोऽण्(*४,१.८३), तस्य लुक् ।
तैकायनिः पिता ।
तैकायनिः पुत्रः ।
एतेभ्यः इति किं ? शिव-आदिभ्योऽण्(*४,१.११२), तस्माद्यूनि अत इञ्(*४,१.९५), तस्य लुग्न भवति ।
कौहडः पिता ।
कौहडि पुत्रः ।
यूनि इति किं ? वामरथ्यस्य छात्राः वामरथाः ।
कुर्व्-आदिभ्यो ण्यः (*४,१.१५१) इति ण्यः, तस्मात्कण्व-आदिभ्यो गोत्रे (*४,२.१११) इति शैषिकोऽण् ।
तस्य लुग्न भवति ।
अणिञोः इति किं ? दाक्षेरपत्यं युवा दाक्षायणः ।
अब्राह्मणगोत्रमात्रमात्राद्युवप्रत्ययस्तोपसङ्ह्यानं ।
बौधिः पिता ।
बौधिः पुत्रः ।
जाबालिः पिता ।
जाबालिः पुत्रः ।
औदुम्बरिः पिता ।
औदुम्बरिः पुत्रः ।
भाण्डीजङ्घिः पिता ।
भाण्डीजङ्घिः पुत्रः ।
शाल्व-अवयव-लक्षन इञ्, तस्मात्फक्, तस्य लुक् ।
पैलादि-दर्शनात्सिद्धं । ।
____________________________________________________________________
- <पैल-आदिब्यश्च># । । पाणिनीयसूत्र २,४.५९ । ।
_____काशिका २,४.५९ः
पैल इत्येवं आदिभ्यश्च युव-प्रत्ययस्य लुग्भवति ।
पीलाया वा (*४,१.११८) इत्यण्, तस्मदणो द्व्यचः (*४,१.१५६) इति फिञ्, तस्य लुक् ।
पैलः पिता ।
पैलः पुत्रः ।
अन्ये पैल-आदयः इञन्ताः तेभ्यः इञः प्राचां (*२,४.६०) इति लुकि सिद्धेऽप्राग्-अर्थः पाठः ।
पैल ।
शालङिक ।
सात्यकि ।
सात्यकामि ।
दैवि ।
औदमज्जि ।
औदव्रजि ।
औदमेघि ।
औदबुद्धि ।
दैवस्थानि ।
पैङ्गलायनि ।
राणायनि ।
रौहक्षिति ।
भौलिङ्गि ।
औद्गाहमानि ।
औज्जिहानि ।
तद्राजाच्चाणः ।
आकृतिगणोऽयं । ।
____________________________________________________________________
[#१६८]
- <इञः प्राचाम्># । । पाणिनीयसूत्र २,४.६० । ।
_____काशिका २,४.६०ः
गोत्रे य इञ्तदन्ताद्युव-प्रत्ययस्य लुग्भवति ।
गोत्र-विशेषनं प्राग्-ग्रहनम्, न विकल्प-अर्थं ।
पान्नागारेरपत्यं युवा ।
यञ्-इञोश्च (*४,१.१०१) इति फक्, तस्य लुक् ।
पान्नागारिः पिता ।
पान्न्नगारिः पुत्रः ।
मन्थरैषणिः पिता ।
मान्थरैषणिः पुत्रः ।
प्राचां इति किं ? दाक्षिः पिता ।
दाक्षायणः पुत्रः । ।
____________________________________________________________________
- <न तौल्वलिभ्यः># । । पाणिनीयसूत्र २,४.६१ । ।
_____काशिका २,४.६१ः
अनन्तरेण प्राप्तो लुक्प्रतिषिध्यते ।
तौल्वल्य्-आदिभ्यः परस्य युवप्रत्ययस्य न लुग्भवति ।
तौल्वलिः पिता ।
तौल्वलायनः पुत्रः ।
तौल्वलि ।
धारणि ।
रावणि ।
पारणि ।
दैलीपि ।
दैवलि ।
दैवमति ।
दैवयज्ञि ।
प्रावाहणि ।
मान्धातकि ।
आनुहारति ।
श्वाफल्कि ।
आनुमति ।
आहिंसि ।
आसुरि ।
आयुधि ।
नैमिषि ।
आसिबन्धकि ।
बैकि ।
आन्तरहाति ।
पौष्करसादि ।
वैरकि ।
वैलकि ।
वैहति ।
वैकर्णि ।
कारेणुपालि ।
कामालि । ।
____________________________________________________________________
- <तद्राजस्य बहुषु तेन+एव अस्त्रियाम्># । । पाणिनीयसूत्र २,४.६२ । ।
_____काशिका २,४.६२ः
ते तद्राजाः (*४,१.१७२), ञ्य-आदयस्तद्राजाः (*५,३.११९) इति वक्ष्यति, तस्य तद्राज-सञ्ज्ञस्य प्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुग्भवति, तेन+एव चेत्तद्राजेन कृतं बहुत्वं भवति ।
अङ्गाः ।
वङ्गाः ।
पुण्ड्राः ।
सुह्माः ।
मगधाः ।
लोहध्वजाः ।
व्रीहिमन्तः ।
तद्राजस्य इति किं ? औपगवाः ।
बहुषु इति किं ? आङ्गः ।
तेन+एव ग्रहणं किं ? प्रियो वाङ्गो येषां ते इमे प्रियवाङ्गाः ।
अस्त्रियां इति किं ? आङ्ग्यः स्त्रियः । ।
____________________________________________________________________
- <यस्क-आदिभ्यो गोत्रे># । । पाणिनीयसूत्र २,४.६३ । ।
_____काशिका २,४.६३ः
बहुषु तेन+एव अस्त्रियां इति सर्वं अनुवर्तते ।
यस्क इत्येवं आदिभ्यः परस्य गोत्र-प्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुग्भवति, तेन+एव चेद्गोत्र-प्रत्ययेन कृतं बहुत्वं भवति ।
प्रत्यय-विधेश्च अन्यत्र लौकिकस्य गोत्रस्य ग्रहणं इत्यनन्तरापत्येऽपि लुग्भवत्येव ।
यस्काः ।
लभ्याः ।
बहुषु इत्येव, यास्काः ।
तेन+एव इत्येव, प्रिययास्काः ।
अस्त्रियां इत्येव, यास्क्यः स्त्रियः ।
गोत्रे इति किं ? यास्काश्छात्राः ।
[#१६९]
यस्क ।
लभ्य ।
दुह्य ।
अयःस्थूण ।
तृणकर्ण ।
एते पञ्च शिवादिसु पठ्यन्ते ।
ततः परेभ्यः षड्भ्यः इञ् ।
सदामत्त ।
कम्बलभार ।
बहिर्योग ।
कर्णाटक ।
पिण्डीजङ्घ ।
बकसक्थ ।
ततः परेभ्यश्चतुर्भ्यः गृष्ट्य्-आदिभ्यश्च (*४,१.१३६) इति ढञ् ।
बस्ति ।
कुद्रि ।
अजबस्ति ।
मित्रयु ।
ततः परेभ्यो द्वादशभ्य इञ् ।
रक्षोमुख ।
जङ्घारथ ।
उत्कास ।
कटुकमन्थक ।
पुष्करसथ् ।
विषपुट ।
उपरिमेखल ।
क्रोष्तुमान् ।
क्रोष्टुपाद ।
क्रोष्टुमाय ।
शीर्षमाय ।
पुष्करसच्छब्दाद्बाह्वादिपाठादिञ् ।
खरपशब्दो नडादिषु पथ्यते, ततः फक् ।
पदक ।
वर्मक ।
एताभ्यां अत इञ्(*४,१.९५) ।
भलन्दनशब्दात्शिवादिभ्योऽण्(*४,१.११२) ।
भडिल ।
भण्डिल ।
भदित ।
भण्डित ।
एतेभ्यश्चतुर्भ्यः अश्व-आदिभ्यः फञ्(*४,१.११०) । ।
____________________________________________________________________
- <यञ्-अञोश्च># । । पाणिनीयसूत्र २,४.६४ । ।
_____काशिका २,४.६४ः
बहुषु तेन+एव अस्त्रियाम्, गोत्रे इति च अनुवर्तते ।
यञोऽज्श्च गोत्रप्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुङ्भवति ।
गर्ग-आदिभ्यो जञ्(*४,१.१०५) - गर्गाः ।
वत्साः ।
अञः खल्वपि, अनृष्य्-आनन्तर्ये बिद-आदिभ्योऽञ्(*४,१.१०४) -- बिदाः ।
उर्वाः ।
बहुष्वित्येव, गार्ग्यः ।
बैदः ।
तेनैव इत्येव, प्रियगार्ग्याः ।
प्रियबैदाः ।
अस्त्रियां इत्येव, गार्ग्यः स्त्रियः ।
बैद्यः स्त्रियः ।
गोत्रे इत्येव, द्वीपादनुसमुद्रं यञ्(*४,३.१०) -- द्वैप्याः ।
उत्सादिभ्योऽञ्- औत्साश्छात्राः ।
यञादीनां एकद्वयोर्वा तत्पुरुषे षष्ठ्या उपसङ्ख्यानं ।
गार्ग्यस्य कुलं गार्ग्यकुलं गर्गकुलं वा ।
गार्ग्ययोः कुलं गार्ग्यकुलं गर्गकुलं वा ।
एवं बैदस्य कुलं बैदकुलं बिदकुलं वा ।
बैदयोः कुलं बैदकुलं बिदकुलं वा ।
यञादीनां इति किं ? आङ्गकुलं ।
एकद्वयोः इति किं ? गार्गाणां कुलं गर्गकुलं ।
तत्पुरुषे इति किं ? गार्गस्य समीपं उपगार्ग्यं ।
षष्ठ्या इति किं ? परमगार्ग्यः । ।
____________________________________________________________________
- <अत्रि-भृगु-कुत्स-वसिष्ठ-गोतम-अङ्गिरोभ्यश्च># । । पाणिनीयसूत्र २,४.६५ । ।
_____काशिका २,४.६५ः
अत्र्य्-आदिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग्भवति ।
अत्रि-शब्दातितश्च अनिञः (*४,१.१२२) इति ढक् ।
इतरेभ्यः ऋष्यण् ।
अत्रयः भृगवः ।
कुत्साः ।
वसिष्ठाः ।
गोतमाः ।
अङ्गिरसः ।
बहुषु इत्येव, आत्रेयः ।
भर्गवः ।
तेन+एव इत्येव, प्रियात्रेयाः ।
प्रियभार्गवाः ।
अस्त्रियां इति किं ? आत्रेय्यः स्त्रियः । ।
____________________________________________________________________
[#१७०]
- <बह्वचिञः प्राच्य-भ्रतेषु># । । पाणिनीयसूत्र २,४.६६ । ।
_____काशिका २,४.६६ः
बह्वचः प्रातिपदिकात्य इञ्विहितः प्राच्य-गोत्रे भरतगोत्रे च वर्तते, तस्य बहुषु लुग्भवति ।
पन्नागाराः ।
मन्थरैषणाः ।
भरतेषु खल्वपि - युधिष्ठिराः ।
अर्जुनाः ।
बह्वचः इति किं ? बैकयः ।
पौष्पयः ।
प्राच्यभरतेषु इति किं ? बालाकयः ।
हास्तिदासयः ।
भरताः प्राच्या एव, तेषां पुनर्ग्रहणं ज्ञापन-अर्थं अन्यत्र प्राग्ग्रहणे भरत-ग्रहणं न भवति इति ।
तेन इञः प्राचां (*२,४.६०) इति भरतानां युवप्रत्ययस्य लुग्न भवति ।
अर्जुनिः पिता ।
आर्जुनायनः पुत्रः । ।
____________________________________________________________________
- <न गोपवन-आदिभ्यः># । । पाणिनीयसूत्र २,४.६७ । ।
_____काशिका २,४.६७ः
गोपवन-आदिभ्यः प्रस्य गोत्रप्रत्ययस्य लुग्न भवति ।
बदाद्यनतर्गणोऽयं ।
ततोऽञो गोत्रप्रत्ययस्य यञ्-अञोश्च (*२,४.६४) इति लुक्प्राप्तः प्रतिषिध्यते ।
गौपवनाः ।
शैग्रवाः ।
गोपवन ।
शिग्रु ।
बिन्दु ।
भाजन ।
अश्व ।
अवतान ।
श्यामाक ।
श्वापर्ण ।
एतावन्त एव अष्टौ गोपवन-आदयः ।
परिशिष्टानां हरितादीनं प्रमादपाठः ।
ते हि चतुर्थे बिद-आदिषु पठ्यन्ते ।
तेभ्यश्च बहुषु लुग्भवत्येव, हरितः, किंदासाः इति । ।
____________________________________________________________________
- <तिक-कितव-आदिभ्यो द्वन्द्वे># । । पाणिनीयसूत्र २,४.६८ । ।
_____काशिका २,४.६८ः
तिक-आदिभ्यः कितव-आदिभ्यश्च द्वन्द्वे गोत्रप्रत्ययस्य बहुषु लुग्भवति ।
तैकायनयश्च कैतवायनयश्च, तिक-आदिभ्यः फिञ्(*४,१.१५८), तस्य लुक्, तिक-कितवाः ।
वाङ्खरयश्च भान्डीरथयश्च, अत इञ्(*४,१.९५), तस्य लुक्, वङ्खरभण्डीरथाः ।
औपकायनाश्च लामकायनाश्च, नडादिभ्यः फक्(*४,१.९९), तस्य लुक्, उपकलमकाः ।
पाफकयश्च नारकयश्च, अत इञ्(*४,१.९५), तस्य लुक्, पफकनरकाः ।
बाकनखयश्च श्वागुदपरिणद्धयश्च, अत इञ्(*४,१.९५), तस्य लुक्, बकनखश्वगुदपरिणद्धाः ।
उब्ज-शब्दातत इञ्(*४,१.९५), ककुभ-शब्दात्शिवादिभ्योऽन्(*४,१.११२) तयोर्लुक्, औब्जयश्च काकुभाश्च उब्जककुभाः ।
लाङ्कयश्च शान्तमुखयश्च, अत इञ्(*४,१.९५) तस्य लुक्, लङ्कशान्तमुखाः ।
उरसशब्दस्तिकादिषु पठ्यते, ततः फिञ्, लङ्कटशब्दादिञ्, तयोर्लुक्, औरसायनश्च लाङ्कटयश्च उरसलङ्कटाः ।
भ्राष्टकयश्च कापिष्ठलयश्च, अत इञ्(*४,१.९५), तस्य लुक्, भ्रष्टकक्पिष्ठलाः ।
कार्ष्णाजिनयश्च कार्ष्णसुन्दरयश्च, अत इञ्(*४,१.९५), तस्य लुक्, कृष्णाजिनकृष्णसुनदराः ।
आग्निवेश्यश्च दासेरकयश्च, अग्निवेशशब्दात्गर्गादिभ्यो यञ्(*४,१.१०५), दासेरकशब्दातत इञ्(*४,१.९५), तयोर्लुक्, अग्निवेशदासेरकाः । ।
____________________________________________________________________
[#१७१]
- <उपक-आदिभ्योऽन्यतरस्यां अद्वन्द्वे># । । पाणिनीयसूत्र २,४.६९ । ।
_____काशिका २,४.६९ः
उपक इत्येवं आदिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग्भवति अन्यतरस्यां द्वन्द्वे च अद्वन्द्वे च ।
अद्वन्द्व-ग्रहनं द्वन्द्व-अधिकार-निवृत्त्य्-अर्थं ।
एतेषं च मद्ये त्रयो द्वन्द्वास्तिककितवादिषु पठ्यन्ते - उपकलमकाः, भ्रष्टकक्पिष्ठलः, कृष्णाजिनकृष्णसुन्दराः इति ।
तेषां पूर्वेण+एव नित्यं एव लुग्भवति ।
अद्वन्द्वे त्वनेन विकल्पः - उपकाः, औपकायनाः ।
लमका, लामकायनाः ।
भ्रष्टकाः, भ्राष्टकयः ।
कपिष्ठलाः, कापिष्ठलयः ।
कृष्णाजिनाः, कार्ष्णाजिनयः ।
कृष्णसुन्दराः, कार्ष्णसुन्दरयः इति ।
परिशिष्टानां च द्वन्द्वेऽद्वन्द्वे च विकल्पः इति ।
पण्डारक ।
अण्डारक ।
गडुक ।
सुपर्यक ।
सुपिष्ठ ।
मयूरकर्ण ।
खारीजङ्घ ।
शलावल ।
पतञ्जल ।
कण्ठेरणि ।
कुषीतक ।
काशकृत्स्न ।
निदाघ ।
कलशीकण्ठ ।
दामकण्ठ ।
कृष्णपिङ्गल ।
कर्णक ।
पर्णक ।
जटिलक ।
बधिरक ।
जन्तुक ।
अनुलोम ।
अर्धपिङ्गलक ।
प्रतिलोम ।
प्रतान ।
अनभिहित । ।
____________________________________________________________________
- <आगस्त्य-कौण्डिन्ययोरगस्ति-कुण्डिनच्># । । पाणिनीयसूत्र २,४.७० । ।
_____काशिका २,४.७०ः
आगस्त्य-कौण्डिन्ययोर्गोत्रप्रत्यययोः अणो यञश्च बहुषु लुग्भवति, परिशिष्टस्य च प्रकृति-भागस्य यथा-सङ्ख्यं अगस्ति, कुण्डिनचित्येतावादेशौ भवतः ।
अगस्तयः ।
कुण्डिनाः ।
चकारः स्वरार्थः ।
मद्योदात्तो हि कुण्डिनी-शब्दस्तदादेशोऽपि तथा स्याथ् ।
अगस्त्य-शब्दादृष्यण्, कुण्डिनी-शब्दाद्गर्गादित्वाद्यञ् ।
तयोः गोत्रेऽलुग्-अचि (*४,१.८९) इति लुकि प्रतिषिद्धे आगस्तीयाः छत्राः इति वृद्ध-लक्षणश्छो भवति ।
कौण्डिन्ये त्वणैव भवितव्यम्, कण्वादिभ्यो गोत्रे (*४,२.१११) इति ।
तत्र विशेषो न अस्ति ।
कौण्डिनाश्छात्राः । ।
____________________________________________________________________
- <सुपो धातु-प्रातिपदिकयोः># । । पाणिनीयसूत्र २,४.७१ । ।
_____काशिका २,४.७१ः
सुपो विभक्तेर्धातु-सञ्ज्ञायाः प्रातिपदिक-सञ्ज्ञायाश्च लुग्भवति ।
तदन्तर्गतास्तद्ग्रहणेन गृह्यन्ते ।
धातोस्तावत्- पुत्रीयति ।
घटीयति ।
प्रातिपदिकस्य - कष्टश्रितः ।
राजपुरुषः ।
धातु-प्रातिपदिकयोः इति किं ? वृक्षः ।
प्लक्षः । ।
____________________________________________________________________
- <अदिप्रभृतिभ्यः शपः># । । पाणिनीयसूत्र २,४.७२ । ।
_____काशिका २,४.७२ः
अदिप्रभृतिभ्य उत्तरस्य शपो लुग्भवति ।
अत्ति ।
हन्ति ।
द्वेष्टि । ।
____________________________________________________________________
[#१७२]
- <बहुलं छन्दसि># । । पाणिनीयसूत्र २,४.७३ । ।
_____काशिका २,४.७३ः
छन्दसि विषये शपो भौलं लुग्भवति ।
अदिप्रभृतिभ्य उक्तस्ततो न भवत्यपि - वृत्रं हन्ति ।
अहिः शयते ।
अन्येभ्यश्च भवति - त्राध्वं नो देवाः । ।
____________________________________________________________________
- <यङोऽचि च># । । पाणिनीयसूत्र २,४.७४ । ।
_____काशिका २,४.७४ः
यङो लुग्भवति अचि प्रत्यये परतः ।
चकारेन बहुल-ग्रहनं अनुकृष्यते, न तु छन्दसि इति ।
तेन छन्दसि भाषायां च यङो लुग्भवति ।
लोलुवः ।
पोपुवः ।
सनीस्रंसः ।
दनीध्वंसः ।
बहुल-ग्रहणादञ्च्यपि भवति ।
शाकुनिको लालपीति ।
दुन्दुभिर्ववदीति । ।
____________________________________________________________________
- <जुहोत्य्-आदिभ्यः श्लुः># । । पाणिनीयसूत्र २,४.७५ । ।
_____काशिका २,४.७५ः
शपनुवर्तते, न यङ् ।
जुहोत्य्-आदिभ्यः उत्तरस्य शपः श्लुर्भवति ।
लुकि प्रकृते श्लु-विधानां द्विर्वचन-अर्थं ।
जुहोति ।
विभर्ति ।
नेनेक्ति । ।
____________________________________________________________________
- <बहुलं छन्दसि># । । पाणिनीयसूत्र २,४.७६ । ।
_____काशिका २,४.७६ः
छन्दसि विषये बहुलं शपः श्लुर्भवति ।
यत्रोक्तं तत्रं न भवति, अन्यत्र अपि भवति ।
जुहोत्य्-आदिभ्यस्तावन्न भवति - दाति प्रियाणि ।
धाति देवं ।
अन्येभ्यश्च भवति - पूर्णां विवष्टि ।
जनिमा विवक्ति । ।
____________________________________________________________________
- <गाति-स्था-घु-पा-भूभ्यः सिचः परस्मैपदेषु># । । पाणिनीयसूत्र २,४.७७ । ।
_____काशिका २,४.७७ः
लुकनुवर्तते, न श्लुः ।
गाति स्था घु पा भू इत्येतेभ्यः ।
परस्य सिचो लुग्भवति, परस्मैपदेषु परतः ।
अगाथ् ।
अस्थाथ् ।
अदाथ् ।
अधाथ् ।
अपाथ् ।
अभूथ् ।
गापोर्ग्रहने इण्पिबत्योर्ग्रहणं ।
गायतेः पातेः च न भवति ।
अगासीन्नटः ।
अपासीन्नृपः ।
परस्मैपदेषु इति किं ? अगासातां ग्रामौ देवदत्तेन । ।
____________________________________________________________________
[#१७३]
- <विभाषा घ्रा-धेट्-शाच्-छा-सः># । । पाणिनीयसूत्र २,४.७८ । ।
_____काशिका २,४.७८ः
घ्रा घेट्शा छा सा इत्येतेभ्य उत्तरस्य सिचः प्रस्मैपदेषु विभाषा लुग्भवति ।
धेटः पूर्वेण प्राप्ते विभाष-अर्थं वचनम्, परिशिष्टानां अप्राप्ते ।
अघ्रात्, अघ्रासीथ् ।
अधात्, अधासीथ् ।
अशात्, अशासीथ् ।
अच्छात्, अच्छासीथ् ।
असात्, असासीथ् ।
परस्मैपदेषु इत्येव, अघ्रासातां सुमनसौ देवदत्तेन । ।
____________________________________________________________________
- <तन्-आदिभ्यस्त-थासोः># । । पाणिनीयसूत्र २,४.७९ । ।
_____काशिका २,४.७९ः
तन्-आदिभ्य उत्तरस्य सिचः त-थासोः परतो विभाषा लुग्भवति ।
अतत, अतथाः ।
अतनिष्ट, अतनिष्ठाः ।
असात, असाथाः ।
असनिष्ट, असनिष्ठाः ।
जनसनखनां सञ्ज्ञलोः (*६,४.४२) इत्यात्वं ।
थासा साहचर्यादात्मनेपदस्य त-शब्दस्य ग्रहनं ।
प्रस्मैपदे न भवति, अतनिष्त यूयं । ।
____________________________________________________________________
- <मन्त्रे घस-ह्वर-नश-वृ-दह-आद्-वृच्-कृ-गमि-जनिभ्यो लेः># । । पाणिनीयसूत्र २,४.८० । ।
_____काशिका २,४.८०ः
मन्त्र-विषये घस ह्वर नश वृ दह आत्वृच कृ गमि जनि इत्येतेभ्यः उत्तरस्य लेः लुग्भवति ।
घस -- अक्षन्पितरोऽमीमदन्त पितरः ।
ह्वर इति ह्वृ कौटिल्ये - मा ह्वार्मित्रस्य त्वा ।
णश - धूर्तिः प्रणङ्मर्त्यस्य ।
वृ इति वृङ्वृञोः सामान्येन ग्रहनं -- सुरुचो वेन आवः ।
दह - मा न आ धक् ।
आतिति आकारान्त-ग्रहनं ।
प्रा पूरने - आप्रा द्यावापृठीवी अन्तरिक्षं ।
वृच्-- मा नो अस्मिन्महाधने परा वृग्भारभृद्यथा ।
कृ -- अक्रन्कर्म कर्मकृतः ।
गमि - {सद्यः पुंष्टि निरुन्धानासो} अग्मन् ।
जनि -- अज्ञत वा अस्य दन्ताः ।
ब्राह्मने प्रयोगोऽयं ।
मन्त्र-ग्रहणं तु छन्दस उपलक्षण-अर्थं । ।
____________________________________________________________________
- <आमः># । । पाणिनीयसूत्र २,४.८१ । ।
_____काशिका २,४.८१ः
आमः परस्य लेः लुग्भवति ।
ईहाञ्चक्रे ।
ऊहाञ्चक्रे ।
ईक्षाञ्चक्रे । ।
____________________________________________________________________
- <अव्ययादाप्-सुपः># । । पाणिनीयसूत्र २,४.८२ । ।
_____काशिका २,४.८२ः
अव्ययादुत्तरस्य आपः सुपश्च लुग्भवति ।
तत्र शालायां ।
यत्र शालायां ।
सुपः खल्वपि कृत्वा ।
हृत्वा । ।
____________________________________________________________________
[#१७४]
- <न अव्ययीभावादतोऽं त्वपञ्चम्याः># । । पाणिनीयसूत्र २,४.८३ । ।
_____काशिका २,४.८३ः
पूर्वेण लुक्प्राप्तः प्रतिषिध्यते ।
दन्तादव्ययीभावादुत्तरस्य सुपो न लुग्भवति, अमादेशस्तु तस्य सुपो भवत्यपञ्चम्याः ।
एतस्मिन्प्रतिषिद्धे पञ्चम्याः श्रवनं एव भवति ।
उपकुम्भं तिष्ठति ।
उपकुम्भं पश्य ।
उपमणिकं तिष्ठति ।
उपमणिकं पश्य ।
अतः इति किं ? अधिस्त्रि ।
अधिकुमारि ।
अपञ्चम्याः इति किं ? उपकुम्भादानय । ।
____________________________________________________________________
- <तृतीया-सप्तम्योर्बहुलम्># । । पाणिनीयसूत्र २,४.८४ । ।
_____काशिका २,४.८४ः
पूर्वेण नित्यं अम्भावे प्राप्ते वचनं इदं ।
तृतीया-सप्तम्योः विभक्त्योर्बहुलं अम्भावो भवति अव्ययीभावे ।
उपकुम्भेन कृतम्, उपकुम्भं कृतं ।
उपकुम्भे निधेहि, उपकुम्भं निधेहि ।
सपम्या ऋद्धिनदीसमाससङ्ख्यावयवेभ्यो नित्यं इति वक्तव्यं ।
सुमद्रं सुमगधं ।
उन्मत्तगङ्गं ।
लोहितगङ्गं ।
एकविंशतिभारद्वाजं ।
बहुलवचनात्सिद्धं । ।
____________________________________________________________________
- <लुटः प्रथमस्य डारौरसः># । । पाणिनीयसूत्र २,४.८५ । ।
_____काशिका २,४.८५ः
लुड्-आदेशस्य प्रथमपुरुषस्य प्रस्मैपदस्य आत्मनेपदस्य च यथाक्रमं डा रौ रसित्येते आदेशा भवन्ति ।
कर्ता, कर्तारौ, कर्तारः ।
आत्मनेपदस्य -- अध्येता, अध्येतारौ, अध्येतारः ।
प्रथमस्य इति किं ? श्वः कर्तासि ।
श्वोऽध्येतासे । ।
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य चतुर्थः पादः । ।
______________________________________________________