← अध्यायः ११ परमेश्वरसंहिता
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →
परमेश्वरसंहितायाः अध्यायाः

।। श्रीः ।।
द्वादशोऽध्यायः
सनकः ---
जाते ह्याकस्मिके लोपे सद्व्यापारस्य नित्यशः।
स्नानादियोगनिष्ठस्य तथा नैमित्तिकस्य च ।। 1 ।।
वत्सरोत्सवनिष्ठस्य विविधस्य महामते!।
कृच्छ्रचान्द्रायणादीनां सद्वृत्तानां तथैव च ।। 2 ।।
चतुर्णामाश्रमस्थानां वर्णानां च स्त्रियस्तथा।
श्रेष्ठमध्यमवित्तानां न्यू(ज)नानामपि तत्वतः ।। 3 ।।
भक्तानां पुण्डरीकाक्षे श्रद्धासंयमसेविनाम्।
यावज्जीवावधिं कालं तत्पूजाकृतचेतसाम् ।। 4 ।।
साक्षात्तन्मन्त्रनिष्ठानां यथावन्मुनिपुङ्गव!।
पातत्राणमुपायं तु श्रोतुमिच्छामि साम्प्रतम् ।। 5 ।।
कृतेन येन भक्तानां जायते कृतकृत्यता।
शाण्डिल्यः ---
वक्ष्ये सम्यङ्‌महाबुद्धे! सारमुद्‌धृत्य सर्वतः ।। 6 ।।
सर्वलोकहितार्थाय सावधानेन चेतसा।
लोप(भ)बुद्धिं विना यस्य भोगानामप्यसंभवः ।। 7 ।।
सामर्थ्येन विना यस्य कृच्छ्रादीनां वरिच्युतिः।
ज्वरादिव्याधिदोषेण जातं यस्याह्निकक्षयम् ।। 8 ।।
चातुर्मास्तस्य चाप्राप्तिः यस्य स्वातन्त्र्यतो विना।
तस्य तस्य महाबुद्धे! श्रृणु यद्विहितं हितम् ।। 9 ।।
सांस्पर्शिकानां भोगानां मात्रावित्तं हि पूरणम्।
हृदयङ्गमसंज्ञानामन्नं च हविषा प्लुतम् ।। 10 ।।
औपचारिकभोगानां बीजानि विविधानि च।
कृच्छ्रचान्द्रायणादीनां व्रतानां परिपूरकः ।। 11 ।।
विशेषार्चनसंयुक्तश्चातुर्मास्यस्य संयमः।
सौत्रं प्रतिसरं चित्रं मुक्ताहारोपमं शुभम् ।। 12 ।।
शमं नयति भक्तानां सर्वदा लोपमाह्निकम्।
यथाश्वमेधं विप्राणां सर्वेच्छापरिपूरकम् ।। 13 ।।
राजसूयं नृपाणां च भक्तानां भूषणं तथा।
भूषणानां यथा मध्ये कौस्तुभं वरभूषणम् ।। 14 ।।
ज्ञेयं पवित्रकं तद्वद्भोगजालस्य चान्तरे।
यत्‌ पूरयति भक्तानां व्यापारं पारमेश्वरम् ।। 15 ।।
भोगमोक्षाप्तये शश्वद्भोदस्तस्मात्तु कोऽधिकः।
भक्तानां सततं भक्त्या सालोक्यं विदधाति वै ।। 16 ।।
सामीप्यं साधकानां च नानासिद्धिसमन्वितम्।
सायुज्यं साधकेन्द्राणां स्वमन्त्रात्मनि यच्छति ।। 17 ।।
तदुत्तरायणेऽतीते चातुर्मास्यस्य मध्यतः।
कुर्याच्छुभे दिने विप्र! सर्वदोषविवर्जिते ।। 18 ।।
कालोऽपि त्रिविधः प्रोक्तश्चातुर्मास्योपलक्षितः।
आषाढपञ्चदश्यास्तु यावद्वै कार्तिकस्य च ।। 19 ।।
संपूर्णचन्द्रदिवसं तं कालं चान्द्रमन्तिमम्।
आकर्कटकसंक्रान्तेस्तुलाभोगक्षयावधि ।। 20 ।।
कालं तमष्टपक्षं च सौरं मध्यमसंज्ञितम्।
एकादश्यादि (मा) वाऽन्तो यश्चातुर्मास्योपलक्षितः ।। 21 ।।
कालं तं वैष्णवं विद्धि तूत्तमं सर्वसिद्धिदम्।
अप्राप्तेरस्य कालस्य त्वन्तरायेण केनचित् ।। 22 ।।
निर्वाहणीयो ह्यपरः कालश्चान्द्रायणादिना।
सम्पाद्यं चैव तन्मध्ये विधिवद्यागपूरकम् ।। 23 ।।
प्रावृट्‌काले प्रवृत्ते तु त्रैलोक्योदरवर्तिनाम्।
मनुष्यामरसिद्धानां कर्तव्यं चाग्रवर्तिनाम् ।। 24 ।।
प्रवर्तन्ते हि वै येन श्रद्धया वत्सरं प्रति।
महत्यस्मिन् महाबुद्धे! व्यापारे पारमेश्वरे ।। 25 ।।
विभोः शयनसंस्थस्य काले पुष्पफलाकुले।
गगने लम्बमाने तु सबलाकैर्वलाहकैः ।। 26 ।।
कुमुदोत्पलकल्हारैर्भूषिते वसुधातले।
वनोपवन उद्यानैर्हरिते शाद्वलादिकैः ।। 27 ।।
शालिसस्यादिकैर्युक्ते पल्वलोदकशोभिते।
पवित्रकं कृतं विष्णोरनन्तस्यातितुष्टिदम् ।। 28 ।।
तस्माद्यत्नेन तत् कुर्याच्चातुर्मास्यस्य मध्यतः।
श्रावण्यां शुक्लपक्षे तु द्वादश्यां द्विजसत्तम! ।। 29 ।।
आदावन्ते तथा कुर्यादद्वादशीष्वखिलासु च।
सङ्‌क्रान्तिषु च सर्वासु पौर्णमासीषु वा द्विज! ।। 30 ।।
अमावास्यास्वशेषासु तृतीयासु तथैव च।
नभस्येषु च रोहिण्यामष्टम्यां च महामते! ।। 31 ।।
प्रथमा च द्वितीया च पञ्चमी च त्रयोदशी।
दशम्येकादशीत्येवमेतास्वपि यथारुचि ।। 32 ।।
कृष्णपक्षेऽप्रशस्ताःस्युः शुक्लपक्षे विशेषतः।
चन्द्रो गुरुस्सितश्चान्द्रो ज्ञेयास्त्वेते शुभप्रदाः ।। 33 ।।
पवित्रारोहणादौ तु नक्षत्राणि श्रृणुष्व मे।
त्र्युत्तरासु च रेवत्यामश्बिन्यां भरणीषु च ।। 34 ।।
पुनर्वसौ तथा हस्ते रोहिण्यां श्रवणेऽपि च।
वैष्णवेष्वथ ऋक्षेषु तत्क्षणेष्वखिलेषु च ।। 35 ।।
चातुर्मास्यस्य कालस्य तूत्थानद्वादशी तु या।
षडशीतिमुखा दिव्या तस्यामारोपयेत्तु यः ।। 36 ।।
पवित्रकं जगद्योनेः स पवित्रीकरोति च।
अतीतां वर्तमानां च एष्यां स्वकुलसन्ततिम् ।। 37 ।।
तत्र सन्निहितः साक्षान्नानानिर्माणविग्रहैः।
भक्तानां पुण्डरीकाक्षः परमात्माच्युतो हरिः ।। 38 ।।
यद्यप्येवं महाबुद्धे! भक्तानां नित्यमेव हि।
नारायणस्तु मन्त्रात्मा स्थितः सन्निहितः स्वयम् ।। 39 ।।
तथापि बलवत्ता वै तत्तिथेस्तत्र कर्मणि।
सन्निधिं भजते येन मन्त्रिणां मन्त्रराट्‌ प्रभुः ।। 40 ।।
ग्रीष्मकालं समासाद्य यथार्कस्तीक्ष्णतां ब्रजेत्।
स्वरूपमजहन्नेव सन्निधानतरं विभोः ।। 41 ।।
सत्पात्रदेशकालानामासृष्टेः स्थितये तु वै।
अतः पवित्रकं तस्यामन्यस्यां तदसम्भवात् ।। 42 ।।
कार्यं क्रियापरैर्भक्त्या साखण्डा येन जायते।
पवित्रारोहणं विष्णोर्वर्जयेदितरेषु च ।। 43 ।।
प्रासादस्याग्रतः कुर्यात्तदर्थं मण्टपं द्विज!।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा ।। 44 ।।
तृतीयावरणे वाथ चतुर्थे पञ्चमेऽपि वा।
अग्रालाभे तदन्यत्र यथावाञ्छितदिग्गतम् ।। 45 ।।
चतुरश्रं समं वापि प्राक्‌पश्चिमदिगायतम्।
सौम्ययाम्यायतं वापि कर्तुरिच्छानुरूपतः ।। 46 ।।
तथा प्रागाननं यद्वा यथाभिमतदिङ्‌मुखम्।
द्वाविंशतिधनुर्मानं मण्टपं चोत्तमं भवेत् ।। 47 ।।
अष्टादशधनुर्मानं मण्‍टपं मध्यमं भवेत्।
अधमं द्वादशधनुर्मानं स्यादथवा द्विज! ।। 48 ।।
पञ्चहस्तात् समारभ्य द्विद्विहस्तविवर्धनात्।
त्रिसप्तकरपर्यन्तं मानैर्नवविधं भवेत् ।। 49 ।।
यद्वोत्तमं दशकरं मध्यमं चाष्टहस्तकम्।
ष़ड्द्दस्तमधमं विद्यात् क्षुद्रं हस्तत्रयायतम् ।। 50 ।।
त्रिंशत्करावसानं वा षट्‌करात् पञ्जविंशतिः।
एकं संगृह्यमानेषु ह्येषु वित्तानुरूपतः ।। 51 ।।
सोपपीठमधिष्ठानं केवलं वा मसूरकम्।
अधिष्ठानोपरिस्तम्भं प्रस्तरं च त्रिवर्गकम् ।। 52 ।।
कपोतवृतिसंयुक्तं यद्वोक्ताकृतिवर्जितम्।
एकत्रिपञ्चसप्तादिभित्तिभेदैः समावृतम् ।। 53 ।।
प्रत्यङ्गोक्तैरलङ्कारैर्युक्तं वा तद्विवर्जितम।
शिलयेष्टकया वापि प्कया वाप्यव्कया ।। 54 ।।
एकद्वारं चतुर्द्वारं यद्वा द्वारद्वयान्वितम्।
बित्तियुक्तमयुक्तं वा कोणभित्तियुतं तु वा ।। 55 ।।
केवलं वा प्रपामात्रमुक्तलक्षणवर्जितम्।
क्षिप्रकर्मप्रसिद्ध्यर्थं शरकाष्ठमयं शुभम् ।। 56 ।।
गवाक्षकान्वितं चैव द्वारैस्तु परिभूषितम्।
छन्नं वितानकेनोर्ध्वे प्राकारं परिकल्पयेत् ।। 57 ।।
क्षेत्रसङ्कोचविस्तारौ कर्तुरिच्छानुरूपतः।
शिल्पशास्त्रानुसारेण कृत्वैवं मण्डपं द्विज! ।। 58 ।।
यागार्थं सुशुभं विप्र! तन्मद्येऽथ प्रकल्पयेत्।
दृढां समां तदाकारामीषत् प्रागुत्तरप्लवाम् ।। 59 ।।
प्रोछ्रितां च विशेषेण स्थलां दर्पणसन्निभाम्।
सामान्या न भवेद्येन मेदिनीमण्टपस्य तु ।। 60 ।।
द्विद्विकेनाङ्‌गुलीनां तु प्रोन्नतेर्यावदष्टकम्।
एकवृद्ध्याल्पमानानां यागानां तु स्थलांगणम् ।। 61 ।।
नवाङ्‌गुलोन्नतेस्तावद्‌यावत्पञ्चदशाह्‌गुलम्।
प्रोन्नतत्वं स्थलानां च मध्यमानमितात्मनाम् ।। 62 ।।
चतुर्विंशत्यङ्‌गुलान्तमुछ्रायं षोडशाङ्‌गुलात्।
प्रागुक्तवृद्ध्या कर्तव्यं ज्येष्ठमानमितात्मनाम् ।। 63 ।।
एतदुच्छ्रायमानं च कथितं ते स्थलासु च।
पादमर्धं तु हस्तं वा बिस्तारात् सर्वदिक्षु वै ।। 64 ।।
स्थलानामिष्टकाद्यैश्च चिन्वीयात् प्रथमं ततः।
मृदा सम्पूर्य तन्मध्यमीषद्वालुकयान्वितम् ।। 65 ।।
परिक्ष्य केशकीटादीनाकोट्य तदनन्तरम्।
यावद्भवति पूर्वोक्तलक्षणं वा विशेषतः ।। 66 ।।
स्थलां मध्योन्नतां रम्यां सप्ताहं संपरीक्ष्य सा।
न ददाति यथाभेदं यागयोग्या भवेत्तदा ।। 67 ।।
तदूर्ध्वे वेदिकां कुर्यात् अनेकचरणान्विताम्।
तोरणैश्च समायुक्तां विभवेच्छानुरूपतः ।। 68 ।।
पावनैर्यज्ञकाष्ठेश्च सुदृढैः सरलैः समैः।
यथालक्षणयुक्तानि तोरणानि चतुर्दिशि ।। 69 ।।
द्वाराणां बाह्यतो विप्र! तदन्तर्वा नियोजयेत्।
त्रीणि त्रीण्यथवा सम्यगेकैकस्यां न्यसेद्दिशि ।। 70 ।।
बुद्‌ध्वा मण्टपविस्तारं पञ्चकं सप्तकं तु वा।
एतानि हेमरत्नाद्यैश्चित्रयेद्विभवे सति ।। 71 ।।
श्रीवृक्षोदुम्बरवटप्लक्षोत्थैरथवा द्विज!।
पूर्वाद्युत्तरपर्यन्त तोरणानां चतुष्टयम् ।। 72 ।।
चतुष्टयं चतुर्दिक्षु ह्येषामेकैकमेव वा।
तोरणानां समुच्छ्रायस्तम्भायामसमः स्मतः ।। 73 ।।
स्तम्भद्वयान्तरस्थेन मानेन स्यात्तु विस्तृतिः।
स्तम्भमस्तकमानेन साधिकेन सदैव हि ।। 74 ।।
तद्दण्डौ विन्यसेदभूमौ स्तम्भाभ्यन्तरगा स्थितिः।
सदैव दृक्‌स्वरूपाणां कार्या वेदविदांवर! ।। 75 ।।
द्वाराणां बाह्यतो विप्र! तोरणानां यथा(दा) स्थितिः।
तलाच्छिखरपर्यन्तं मानमुछ्रायतस्तदा ।। 76 ।।
सार्धं समं वा द्विगुणं तद्दण्डेषु च भूगतम्।
चक्रद्वितयमध्यस्थं पक्षमण्डलमण्डितम् ।। 77 ।।
तोरणे तोरणे कुर्याद्गरुडं चोर्ध्वसंस्थितम्।
मत्स्यादीनवतारांश्च प्रादुर्भावाननेकशः ।। 78 ।।
चित्रोदितेन विधिना चतुर्दिक्षु समालिखेत्।
मुनिसिद्धामरव्रातैरनेकाद्‌भुतदर्शिभिः ।। 79 ।।
द्वीपाचलवनोद्यानैर्बहुभिर्मृगयूथपैः।
सरःसारसकल्हारैर्जलक्रीडापरान्वितैः ।। 80 ।।
खेचरैरङ्गनायुक्तैर्नृपैर्विद्याधरादिकैः।
प्रशान्तमानसैर्विप्रैरात्मध्यानपरायणैः ।। 81 ।।
एवमाद्यैरनन्तैश्च व्यापारैश्चित्रसंभवैः।
तद्यागवेश्म सकलं रञ्जनीयं प्रयत्नतः ।। 82 ।।
कुर्यात् सुधाविलिप्तं वा भूषयेत्तदनन्तरम्।
दर्पणैश्चामरैर्वस्त्रैर्दुकूलैर्विविधोज्ज्वलैः ।। 83 ।।
घण्टाभिरर्धचन्द्राद्यैरातपत्रैर्मनोहरैः।
प्रोच्छ्रितैः कदलीपूगैर्द्रुमाङ्गैः पावनैर्दृढैः ।। 84 ।।
मध्वाज्यदधिसत्क्षीरसंपूर्णैः कांस्यभाजनैः।
शालितण्डुलपात्रैश्च सहिरण्यैः फलैः शुभैः ।। 85 ।।
लाजसिद्धार्थकैर्बीजभाजनैः षड्रसान्वितैः।
सत्सुगन्धैस्त्वगेलाद्यैः पर्णैः पूगफलैस्तथा ।। 86 ।।
मधूकबदरद्राक्षा इक्षुभिस्त्रिफलैः फलैः।
यथर्तुप्रभवैः पुष्पैर्वहुभिः प्रकरीयकैः ।। 87 ।।
इत्येवमाद्यैर्विविधैर्भोगपूगैस्तु पावनैः।
पवित्रेण वितानेन सुसितेनोज्ज्वलेन वा ।। 88 ।।
चक्राम्बुरुहचिह्नेन भूषयेच्च तदूर्ध्वतः।
स्तम्भान् संवेष्टयेत् पश्चाद्‌दुकूलैर्विविधैः पृथक् ।। 89 ।।
प्रागुत्तरादिदिग्भागाद्यावत्कोणं च मारुतम्।
सितादिवर्णभेदोत्थाः पताकास्तत्र योजयेत् ।। 90 ।।
एवं रागविभागेन प्रत्यग्भागाच्च वै पुनः।
दक्षिणाशावधिर्यावद्‌द्वितीयं च चतुष्टयम् ।। 91 ।।
एकैव सर्ववर्णा च नाभौ कार्या वितानके।
बाह्यतो वेदिकायास्तु मण्डपस्य दिगष्टके ।। 92 ।।
वह्निकोणात् समारभ्य यावत्कोणं तु शाङ्करम्।
सितारुणं च पीतं च कृष्णं कुर्याच्चतुष्टयम् ।। 93 ।।
भूयश्चोत्तरदिग्भागाद्यावद्दिक्‌पश्चिमा द्विज!।
तथाविधं चतुष्कं तु ध्वजानां परिखीर्तितम् ।। 94 ।।
राजपाषाणवर्णाभं चक्रपक्षीश्वरोपगम्।
वैजयन्तीत्रयं कुर्यात्तोरणे पूर्वदिक्‌स्थिते ।। 95 ।।
दक्षिणे स्फटिकाभं तु आप्ये सिन्दूरवर्चसम्।
हेमाभं चोत्तरे कुर्यात्तोरणे ध्वजकत्रयम् ।। 96 ।।
चतुष्केण पताकानां युक्तं श्वेतादिकेन च।
एकैकं तोरणं वात्र त्रितयं पञ्चकं तु वा ।। 97 ।।
अर्धेन तोरणायामात् पताकानां च दीर्घता।
एवं त्वभिनवं कृत्वा यागार्थं मण्डपं द्विज! ।। 98 ।।
स्नपनाद्युत्सवान्तस्य वैशेषिकगणस्य च।
पुरा प्रकल्पितं वाथ मण्डपं भूषयेत्तदा ।। 99 ।।
एवं कृते ततः पश्चाद्वेदिकां तोरणैः सह।
विलिप्य चन्दनाद्यैस्तु गन्धवर्णोज्ज्वलैः क्रमात् ।। 100 ।।
चन्दनेन समालभ्य वेदिकां केवलेन च।
बाह्‌लीकभावितेनैव तेनैवाद्यं च तोरणम् ।। 101 ।।
लिप्तं मृगमदेनैव कुर्याद्दक्षिणदिग्गतम्।
तुषारधूलीधवलं पश्चिमं कारयेत्ततः ।। 102 ।।
कुङ्‌कुमेन समालभ्य केवलेनोत्तरे स्थितम्।
क्षीरेण चन्दनेनैव कुङ्कुमेन कृतां स्थलाम् ।। 103 ।।
रजनीचूर्णयुक्तेन हरीबेरेणाम्बुना सह।
पुण्यगन्धौषधीभिस्तु द्वाराणां मण्डपावनिम् ।। 104 ।।
ततस्तु विविधैर्धूपैर्बहुभिर्धूपयेद्‌द्विज!।
ततस्तिरस्करिण्या तद्वेष्टयेत् सर्वतो बहिः ।। 105 ।।
मण्डपस्योत्तरे भागे कुर्यात् कुण्ड पुरैव तु।
यद्वा द्विज! ततोऽन्यत्र यागाग्रस्था च वर्ज्यदिक् ।। 106 ।।
दिक्‌त्रयेऽभिमता या दिक्‌ कुर्यादनलमण्डपम्।
धूमनिर्गमनोपेतं नानाकुण्डबिभूषितम् ।। 107 ।।
सार्द्रै(न्द्रै)श्च सुपलाशैश्च सुयुक्तं तोराणादिकैः।
यद्वा पचनगेहे तु कुण्डं कुर्यात् सलक्षणम् ।। 108 ।।
अन्यन्नैमित्तिकार्थं तु पुरा क्लृप्तं तु वा भवेत्।
एवं कृते ततः कुर्यात् सम्भारग्रहणं द्विज! ।। 109 ।।
सप्तमे पञ्चमे वापि वासरे कर्मवासरात्।
पूर्वं कृत्वाङ्‌कुरारो(वा)पं ततः कर्म समारभेत् ।। 110 ।।
ततः प्रवेशयेत्तस्मिन् सम्भारान् यागमण्डपे।
दशम्यां द्विजशार्दूल! यत्किञ्चिच्चोपयुज्यते ।। 111 ।।
भूषणादि ततः कुर्याद्यथा तदवधारय।
तेषां तु द्विविधं रूपं सूक्ष्मस्थूलविभेदतः ।। 112 ।।
सर्वभावेन भक्तानां यत् पालयति सर्वदा।
मनोवाक्‌चित्तजं कृत्स्नं व्यापारं शुभलक्षणम् ।। 113 ।।
परिज्ञेयमतस्तस्मात् स्वरूपं तस्य यादृशम्।
फलमेति च वै येन भक्तानां तत्समापनात् ।। 114 ।।
यदच्छिन्नं जगद्योनेरनन्तप्रसरं सितम्।
विच्छेदमकृतज्ञानामेति नानात्मना स्वयम् ।। 115 ।।
जगत्सूत्रं तु तद्विद्धि हेमसूत्रादिना तु वै।
षाड्‌गुण्यमहिमानं यद्धत्ते प्रतिसरात्मना ।। 116 ।।
ज्ञानरागोपरक्तं तु युक्तं कार्यैस्तु वीर्यजैः।
तैजसैरावृतं मन्त्रैर्बलेनावसितं परि ।। 117 ।।
ऐश्वर्यमुपचारे तु सम्पत्तौ शक्तितोऽव्ययम्।
एवं पवित्रकं तावत् परिज्ञातं जगत्‌प्रभोः ।। 118 ।।
ब्रह्नण्यधिपतौ विण्णौ तथाकारे प्रतिष्ठिते।
भक्त्या च विधिवद्दत्तं ददाति भगवत्पदम् ।। 119 ।।
स्थूलस्य व्यतिरिक्तस्य व्यवहारपदस्थितैः।
पदार्थैः कल्पनीया च यथा तदवधारय ।। 120 ।।
सूक्ष्मं दृढं सितं श्र्लक्षणं सूत्रं ब्रह्नप्रसूतया।
विनिर्मितं कुमार्या वा वृद्धया वा विनीतया ।। 121 ।।
शुद्धया वा विधवया सम्पादितमथापि वा।
क्षौमं वा पट्टजं वापि केशरोमादिवर्जितम् ।। 122 ।।
यथालब्धं समादाय सम्यक् प्रक्षाल्य वारिणा।
तस्य शुद्धिं पुरा कृत्वा दहनाप्यनेन च ।। 123 ।।
अवलोक्य स्मरन्मूलं विनिष्पाद्य चतुर्गुणम्।
चातुरात्म्यव्यपेक्षायामथवाष्टगुणं द्विज! ।। 124 ।।
प्रभवाप्ययबुद्ध्या तु भेदभिन्नोपलक्षितम्।
केशवादिष्वधिष्ठातृभावेन त्रिचतुर्गुणम् ।। 125 ।।
तन्तुभिर्विषमैर्विष्णोः समस्य परिवर्जयेत्।
पावित्रिकी क्रिया यस्माद्विषमा सा न कस्यचित् ।। 126 ।।
पवित्रकाणि कार्याणि तन्तुभिस्तैः सुतानितैः।
मूलमन्त्रादिमन्त्राणां सर्वेषां मुनिसत्तम! ।। 127 ।।
कुम्भस्थमन्त्रमूर्तेः प्राक् कल्पयेद्‌भूषणं द्विज!।
अध्यर्धशमजैर्व्यासाद्धाराकारैश्च तन्तुभिः ।। 128 ।।
शतेनाष्टोत्तरेणाद्यं द्विगुणेन द्वितीयकम्।
त्रिगुणेन तृतीयं तु व्यासमेवं तु तन्नयेत् ।। 129 ।।
षट्‌त्रिंशद्‌ग्रन्थिकं चाद्यं द्वितीयं द्विगुणं स्मृतम्।
तृतीयं त्रिगुणं कुर्यादेवमेव महामते! ।। 130 ।।
मण्डलस्थस्य च विभोस्तथा वह्निगतस्य च।
बिम्बस्थस्य पवित्राणां विशेषमवधारय ।। 131 ।।
मालाकृतिं च शिरसि यथेच्छग्रन्थिपूर्वकम्।
द्वितीयमंसयोर्यावल्लम्बितं जानुमण्डले ।। 132 ।।
मूर्ध्नः पादावधिर्यावत्‌तृतीयमिति विस्तृतम्।
आमूर्ध्नः पीठपर्यन्तं वनमालापवित्रकम् ।। 133 ।।
पृथक्‌पीठस्य वै कुर्यात् स्वप्रमाणेन शोभनम्।
बिम्बप्रतिसराणां च व्पासश्चानियतः स्मृतः ।। 134 ।।
सूत्रमानं च पूर्वोक्तं द्विगुणं सति संभवे।
त्रिगुणं वा मुनिश्रेष्ठ! वनमालाख्यभूषणम् ।। 135 ।।
अष्टोत्तेरण सूत्राणां सहस्रेण समन्वितम्।
यद्वा तदर्धं, पादं वा कुर्याद्वित्तानुरूपतः ।। 136 ।।
लेपभित्तिपटस्थे तु मूलबिम्बे यदा द्विज!।
कुर्यादुत्सवबिम्बस्य भूषणानां तु षञ्चकम् ।। 137 ।।
तदापि मूलबिम्बस्य भूषणान्यपि पूर्ववत्।
क्लपयेदाद्यपूर्वाणि बिम्बप्रतिसरेषु तु ।। 138 ।।
विभवे देवदेवेशं हारपञ्चसमन्वितम्।
नानाकाराणि तन्तूनि मुक्ताहारसमन्वितम् ।। 139 ।।
त्र्यङ्‌गुलान्तरिता देयाः सर्वेषां ग्रन्थयः समाः।
सङ्‌ख्यानेन विना सम्यङ्‌मातुलुङ्गोपमाः शुभाः ।। 140 ।।
अष्टोत्तरशतग्रन्थिसंयुक्ता वनमालिका।
चतुः स्थानावतीर्णस्य विभोरामन्त्रणाय च ।। 141 ।।
पवित्रमाद्यसदृशमेकैकं वा द्वयं द्वयम्।
सर्वेषां कर्मबिम्बानां तथा वै गोपुरादिषु ।। 142 ।।
स्थितानां मन्त्रबिम्बानां भजतां सन्निधिं सदा।
उत्तमादीनि सर्वाणि कुर्याद्वै मुख्यकल्पने ।। 143 ।।
प्रकल्पयेत् तत्सदृशं मध्यमेनोत्तमेन वा।
द्वितयं द्वितयं वापि ह्येकैकं वानुकल्पने ।। 144 ।।
अङ्गानामप्युपाङ्गानां लाञ्छनानामपि द्विज!।
भूषणानां च शक्तीनां तथैव विहगेशितुः ।। 145 ।।
प्राग्वत्त्रीण्यथवा द्वे द्वे ह्येकैकं वाथवा द्विज!।
यथेच्छमानसंख्योत्थैः सूत्रैस्तु परिकल्पयेत् ।। 146 ।।
सूत्रभ्रमसमोपेतैर्गभैर्भूषणसञ्चयम्।
अन्येषां मण्डलाङ्गानां देवानां विभवे सति ।। 147 ।।
पवित्रकगणं कुर्याद्यथेच्चग्रन्थितन्तुभिः।
तथैव विष्वक्‌सेनादेः परिवारगणस्य च ।। 148 ।।
मन्त्रास्त्रकुम्भयोर्द्वे वै ह्येकं वै मण्डलस्य च।
द्वयं च कुण्डानलयोः शास्त्रपीठस्य च द्वयम् ।। 149 ।।
लिपेर्वाक्‌तत्वभूतस्य शब्दतत्वस्य च प्रभोः।
घण्टाक्षसूत्रपूर्वाणां क्रियाङ्गानां महात्मनाम् ।। 150 ।।
बलिपीठादिदेवानां देशान्तरनिवासिनाम्।
गुर्वादीनां चतुर्णां तु हरिवीप्साप्रलापिनाम् ।। 151 ।।
द्विजोत्तमादिवर्णानां नित्यमच्युतभाविनाम्।
गृहस्थब्रह्नचारीणां यतीनां वनवासिनाम् ।। 152 ।।
वृद्धानां जनकादीनां भगवत्तत्ववेदिनाम्।
बन्धूनां भ्रातृपूर्वाणां नारायणरतात्मनाम् ।। 153 ।।
जायाया भक्तिनम्राया रताया अर्चने हरेः।
सम्बन्धिनां च मित्राणां भगवद्धामसेविनाम् ।। 154 ।।
तदुत्तरसहायानां चातुरात्म्याभिलाषिणाम्।
भृत्यानां स्वानुकूलानां पुरुषोत्तमयाजिनाम् ।। 155 ।।
वृद्धये योग्यतायैव पवित्रीकरणाय च।
यथाभिमतमानैस्तु तन्तुभिर्ग्रन्थिभिस्तथा ।। 156 ।।
कुर्यात् पवित्रनिचयमथवा मुनिसत्तम!।
गुर्वादीनां चतुर्णां तु यतीनां च कुटुम्बिनाम् ।। 157 ।।
क्रमाच्चतुर्विंशतिभिः सूत्रैः षोडशभिस्तथा।
ततो द्वादशभिश्चैव अष्टाभिःषट्‌त्रिभिस्तथा ।। 158 ।।
पवित्रकाणि कार्याणि ग्रन्थयः सूत्रसंख्यया।
आराधकस्य च गुरोः कुर्याद्वे भूषणद्वयम् ।। 159 ।।
स्थूलकल्पमिदं प्रोक्तं सूक्ष्मकल्पमतः श्रृणु।
शिरःप्रमाणेनार्चाया भूषणं प्रथमं स्मृतम् ।। 160 ।।
चतुःशतेन सूत्राणां द्वात्रिंशद्भिस्तथाधिकैः।
सूत्रावर्तैश्च सुसमैः परिकल्प्य सुशोभनम् ।। 161 ।।
सप्तविंशत्प्रमाणेन दत्वास्मिन् ग्रन्थिसञ्चयम्।
कर्मादूर्ध्वगतं नाभिप्रमाणेन पवित्रकम् ।। 162 ।।
परिकल्प्य द्वितीयं च सूत्राणां मुनिसत्तम!।
शतत्रयेण च तथा चतुर्विंशद्भिरेव च ।। 163 ।।
द्विगुणैर्ग्रन्थिनिचयैरनुगर्भं तु तत् स्मृतम्।
स्कन्धदेशात् समारभ्य यावत्पादद्वयावधि ।। 164 ।।
नेत्रसूत्रैस्त्रिभागोनैः सूत्रग्रामैश्च कल्पयेत्।
त्रिगुणैर्ग्रन्थिनिचयैस्ततो।़न्यद्‌द्विजसत्तम! ।। 165 ।।
अष्टोत्तरेण सूत्राणां शतेन ग्रन्थिभिस्तथा।
शिरः पूर्वावतारादौ यावत्पीठं तु वैष्णवम् ।। 166 ।।
सूत्रैर्ग्रन्थिगणैश्चैव गर्भैस्तु विविधैस्ततः।
मण्डलस्य प्रमाणेन कुर्याच्चान्यच्चतुष्टयम् ।। 167 ।।
प्रथमं पझमानेन नाभिमानं द्वितीयकम्।
अरतुल्यं तृतीयं स्याच्चतुर्थं नेमिभिः समम् ।। 168 ।।
एकाशीतिभिरावर्तैः सूत्राणां द्विजसत्तम!।
अग्नेः कुण्डप्रमाणेन ग्रन्थिभिस्तावदेव हि ।। 169 ।।
भूषणत्रितयं कुर्याद्यथायोगं महामते!।
अष्टोत्तरशतादर्धैः सूत्रैस्तद्‌ग्रन्थिभिस्तथा ।। 170 ।।
भूषणं सुसमं चैव सुशुभं परिकल्पयेत्।
द्विजेन्द्र! द्विजमुख्यानां ब्राह्नणानां तदर्धतः ।। 171 ।।
मुख्यमेतत् स्मृतं कल्पमनुकल्पमिदं श्रुणु।
अष्टाधिकेन सूत्रेण शतेन प्रथमं त्विदम् ।। 172 ।।
चतुर्भागोनमपरं तदर्धेन तृतीयकम्।
आद्याच्चतुर्थभागेन चतुर्थं कलपयेत् ततः ।। 173 ।।
त्रिभागोनं चतुर्थात्तु अग्नेः कुर्यात्तु भूषणम्।
द्विजेन्द्राणां प्रकुर्वीत सप्तविंशतितन्तुजम् ।। 174 ।।
ब्राह्मणानां प्रकुर्वीत तन्तुभिर्नवभिर्द्विज!।
स्तनादूर्ध्वमधोनाभेर्न कर्तव्यं कदाचन ।। 175 ।।
सूत्रत्रयेण चान्येषां भक्तानां तु जगद्‌गुरोः।
सूक्ष्मकल्पमिदं विद्धि परकल्पमिदं श्रृणु ।। 176 ।।
चतुःस्थानावतीर्णस्य मुख्यमन्त्रस्य वै विभोः।
शतेनाष्टोत्तरेणैव ह्यर्धेनांशेन वा मुने! ।। 177 ।।
तन्तूनां भूषणं कुर्यादेकैकं वा त्रयं त्रयम्।
जपहोमादिका संख्या पूर्णआरिक्ता महात्मनाम् ।। 178 ।।
समीकरोति भक्तानां मन्त्रिणामत एव हि।
कुर्यात्तदग्रन्थिनिचयं सूत्रसंख्योपलक्षितम् ।। 179 ।।
यदृच्छया ततोऽन्येषां याज्यानां परिकल्प्य च।
सूत्रभ्रमसमोपेतैर्गर्भैर्भूषणसञ्चयम् ।। 180 ।।
ततस्तु देवदेवस्य चतुः स्थानस्थितस्य यत्।
पवित्रकगणं विप्र! प्रोक्तमाद्यपुरस्सरम् ।। 181 ।।
कुर्यात्तु गर्भरचनां तस्य सर्वस्य सत्तम!।
हेमसद्रत्नकर्पूरमालयक्षोदकुङ्‌कुमैः ।। 182 ।।
सर्वौषधिसमोपेतैस्त्वगेलादिविमिश्रितैः।
पावनैर्विविधैर्द्रव्यैर्नीव्या च पिचुना सह ।। 183 ।।
बीजपूरसमाकारमार्द्रामलकशङ्खवत्।
तदन्तरालानि पुनस्त्वच्छिन्नेन तु तन्तुना ।। 184 ।।
विभागप्रतिपत्यर्थं ग्रथनीयान्यदूरतः।
अन्येषां सर्वबिम्बानां यथावित्तानुरूपतः ।। 185 ।।
कल्पयेद्गर्भरचनां पूर्वोक्तद्रव्यसञ्चयैः।
आराधकस्य च गुरोः सगर्भं भूषणद्वयम् ।। 186 ।।
विहितं भगवन्मन्त्रन्यासात्तादात्म्यभावनात्।
अतोऽन्येषामगर्भं च रचनीयं यथाक्रमम् ।। 187 ।।
अन्तरालगणं गार्भं कुर्याद्बाह्‌लीकरञ्जितम्।
अलङ्‌कृत्य च सौवर्णैरुपरिष्टाच्च रूप्यकैः ।। 188 ।।
पवित्रच्छेदसम्मूलं जातरूपमयैस्तु वा।
शङ्खपजगदाचकमालाश्रीवत्सपूर्वकैः ।। 189 ।।
एकस्थैव बहूनां वा यथावित्तानुसारतः।
एवं कृत्वा पवित्राणि क्रमेण द्विजसत्तम! ।। 190 ।।
धातुजे वितते भाण्डे वस्त्रच्छन्ने निधाय च।
अथवा पैत्तले भाण्डे मृण्मये वा सुशोभने ।। 191 ।।
पालाशे वापि चैकस्मिन् मान्त्रं भूषणसञ्चयम्।
अन्यस्मिन् लौकिकं स्थाप्य समस्तं द्विजसत्तम! ।। 192 ।।
आच्छाद्य वाससा पश्चात् सुसितेनाहतेन तु।
बन्धयित्वा तु सृत्रेण दृढेन सुसितेन च ।। 193 ।।
मध्ये तु यागद्रव्याणां ते भाण्डे विनिवेश्य ।
देशिकः पूर्वविधिना कृतस्नानः कृताह्निकः ।। 194 ।।
देशिकेन्द्रेण सहितौ गत्वा मन्त्रेशसन्निधिम्।
प्रपूज्य देवदेवेशमर्ध्यगन्धादिभिः क्रमात् ।। 195 ।।
विज्ञाप्य देवदेवाय "मा मे विघ्नं भव" त्विति।
तस्मादनुज्ञां संगृह्य शिरसावनतेन तु ।। 196 ।।
निशामुखे प्रवृत्ते तु कर्तार्घ्यकुसुमोद्यतः।
सहसद्ब्रह्नघोषेण स्तुतिमङ्गलपाठकैः ।। 197 ।।
शङ्खतूर्यनिनादैश्च पुष्पैरर्घ्यसमन्वितैः।
कृत्वा द्वार्स्थार्चनं विप्र! प्रविशेद्यागमण्टपम् ।। 198 ।।
इदमुच्चारयेन्मन्त्रं स्वरेणोच्चतरेण तु।
" (ओं) नमो ब्रह्नण्यदेवायाच्युतायाव्ययाय च ।। 199 ।।
ऋग्यजुस्सामरूपाय शब्ददेहाय विष्णवे।"
प्रविश्य कल्शस्थानं समीपे तु वरासने ।। 200 ।।
प्राङ्‌मुखः संस्मरेन्मन्त्रं पूर्ववद्व्याप्तिभाविते।
उपविश्य यथान्यायमन्तर्यागान्तमाचरेत् ।। 201 ।।
करादिशुद्धिपूर्वं तु, पश्चादर्घ्यादिकल्पनम्।
प्राग्वत् कृत्वा ततोऽभ्यर्च्य मन्त्रसङ्‌घं तु देहजम् ।। 202 ।।
द्वौ द्वौ तु पूर्णकलशौ सौवर्णौ राजतौ तु वा।
ताम्रजौ मृण्मयौ वाथ सापिधानौ सपल्लवौ ।। 203 ।।
फलै रत्नादिकैर्युक्तौ सूत्रेण परिवेष्टितौ।
शालिपीठोपरि स्थाय्य प्रतिद्वारं तु पार्श्वयोः ।। 204 ।।
पालिकानां शरावाणां विन्यसेत्तु त्रयं त्रयम्।
प्रितकोणं तु संस्थाप्य घटिकानां त्रयं त्रयम् ।। 205 ।।
द्वारयागं ततः कुर्यात् पूर्वाद्युत्तरपश्चिमम्।
अर्घ्यालभनमाल्यैश्च धूपैर्गुग्गुलुमिश्रितैः ।। 206 ।।
वास्त्वीशः क्षेत्रनाथश्च द्वारलक्ष्मीस्तथा द्विज!।
चण्डप्रचण्डौ गरुडः पूर्वद्वारे तु संस्थिताः ।। 207 ।।
दक्षे धातृविधातारौ पश्चिमे तु जयेतरौ।
भद्राख्यश्च सुभद्राख्यो ह्युत्तरे दक्षिणादितः ।। 208 ।।
मूलबिम्बे यदा कुर्यात् पवित्रारोहणं तदा।
मण्डलस्थस्य देवस्य प्रागाद्युत्तरपश्चिमम् ।। 209 ।।
संस्थानं द्वार्स्थदेवानां यात्राबिम्बे यदा भवेत्।
तत्प्रागपेक्षया तेषां संस्थानमुदितं तदा ।। 210 ।।
मुख्येनार्घ्याम्भसा प्रोक्ष्य पृथग्भाण्डे स्थितं पुरा।
पञ्चगव्यं ततो विप्र! कल्पयित्वा हृदादिकैः ।। 211 ।।
कुशोदकं तदस्त्रेण दत्वाद्येनाभिमन्त्रयेत्।
कल्पयेत् पञ्चगव्यं तु पञ्चोपनिषदैस्तु वा ।। 212 ।।
अथ पाणिद्वयेनैव अग्नीषोमात्मकेन तु।
योग्यतापदवीं नीत्वा शोधयेद्वसुधां ततः ।। 213 ।।
मूलेन साम्भसानेन प्रोक्षयेद्यत् पुराहृतम्।
कौशेयेन पवित्रेण ध्यायमानस्तमेव हि ।। 214 ।।
सर्वबीजानि धान्यानि सिद्धार्थकयुतान्यथ।
कृत्वास्त्रपरिजप्तानि ध्यात्वा ह्यस्त्रसमानि च ।। 215 ।।
विघ्नोपशान्तये वेगाद्दशदिक्षु विनिक्षिपेत्।
संहृत्य बहुकूर्चेन प्राच्यां दिशि निधाय वै ।। 216 ।।
ईशानदिशि वा न्यस्त्वा यागस्येच्छानुरूपतः।
तद्गर्भीकृत्य संलिख्य हेतिराट्‌ चन्दनादिना ।। 217 ।।
चक्रं ध्यात्वा मण्डपोर्ध्वे पङ्कजं वसुधातले।
र्निगमे च गदां देवीं शङ्खं च ककुभाष्टके ।। 218 ।।
प्राकाराकारदेहां च नानाज्वालासमाकुलाम्।
शक्तिरूपां गदां वाथ केवलां मन्त्रतो न्यसेत् ।। 219 ।।
एवं कृते तदा सम्यग्भवेद्विघ्नविनाशनम्।
अथादाय दृढं शुद्धमेकरूपं च निर्व्रणम् ।। 220 ।।
कुम्भं च मृण्मयं रम्यं सौवर्णं वाथ राजतम्।
रत्नहाटकस्रग्गन्धफलसर्वौषधीयुतम् ।। 221 ।।
शुभपादपशाखाढ्यं पट्टस्रग्गन्धभूषितम्।
गालितोदकसंपूर्णवारिधारान्वितं नवम् ।। 222 ।।
चन्दनाद्युपलिप्तं च परितश्चाक्षतान्वितम्।
वेष्टितं परितः सूत्रैः विकीर्योपरि तन्न्यसेत् ।। 223 ।।
तद्देवताशरीरं तु वश्यदं बलवर्चसम्।
सास्त्रेण चक्रमन्त्रेण मन्त्रयेदथ वर्धनीम् ।। 224 ।।
पूर्वोक्तद्रव्यसंयुक्तां परितः सूत्रवेष्टिताम्।
आवाह्य मन्त्रनाथस्य दक्षिणे कलशोत्तरे ।। 225 ।।
विन्यस्य परितस्तत्र स्थापयेत् कलशाष्टकम्।
सपल्लवं सापिधानं सूत्रेण परिवेष्टितम् ।। 226 ।।
कुम्भमध्ये विभोःप्राग्वदासनं परिकल्प्य च।
तन्मद्ये पुण्डरीकाक्षं समावाह्य विधानतः ।। 227 ।।
सन्निधिं सन्निरोधादिभोगयागावसानकम्।
पूर्ववत् सकलं कृत्वा तस्य दक्षिणदिग्गतम् ।। 228 ।।
अस्त्रविग्रहरूपं च ध्यात्वाऽभ्यर्च्य यथाविधि।
ध्वंसयन्तं च विघ्नानां जालं कर्मावसानिकम् ।। 229 ।।
इदमभ्यर्थयेद्देवं सास्त्रं बद्धाञ्जलिः स्थितः।
"यागालयं हि विश्वेश! गृहाण रचितं मया ।। 230 ।।
आसमाप्तं भज विभो क्रियाङ्गानां च सन्निधिम्।"
ततोऽस्त्रोदकधारां चाप्यच्छिन्नां भित्तिगां नयेत् ।। 231 ।।
प्रदक्षिणेन प्राग्भागात्तत्पदान्तं च तत् स्मरेत्।
अथवेशानदिग्भागात् तत्पदान्तं द्विजोत्तम! ।। 232 ।।
पृष्ठतः कलशौ भ्राम्य तुल्यकालं तु वा पृथक्।
कल्शं वर्धनीयुक्तं विन्यस्य विकिरोर्ध्वगम् ।। 233 ।।
अर्घ्यदानं तयोः कृत्वा पुष्पाद्यैः पूजयेत् पुनः।
अस्त्रेण वस्त्रयुग्मं तु अहतं चाभिमन्त्र्य वै ।। 234 ।।
धूपादिवासितं कृत्वा तावुभौ परिवेष्ट्य च।
अथवा भद्रपीठं तु विन्यसेद्विकिरोर्ध्वगम् ।। 235 ।।
सास्त्रं हि मन्त्रकलशं तत्राधारगतं न्यसेत्।
चतुस्त्रिद्व्येकभारैर्वा शालिभिर्विष्टरे कृते ।। 236 ।।
तावन्मानांस्तदर्धान् वा तदूर्ध्वे तण्डुलान् न्यसेत्।
तत्पादांस्तत्समान् वापि तदूर्ध्वे विन्यसेत्तिलान् ।। 237 ।।
तदूर्ध्वे चाहतं वस्त्रयुग्ममास्तीर्य वै शुभम्।
कलशं वर्घनीयुक्तं तदूर्ध्वे वापि विन्यसेत् ।। 238 ।।
प्राग्वत् सास्त्रं तु देवेशमासनादिक्रमाद्यजेत्।
व्यापारमाचरेद्दिव्यं कुम्भके च स्मरन् विभुम् ।। 239 ।।
नानिसं युज्यते यस्मात् तस्मादेषा प्रतिक्रिया।
विभाव्या मन्त्रिणा कौम्भी आस्त्रीरक्षार्थमेव हि ।। 240 ।।
ततोऽवतार्यो भगवान् स्थण्डिलेऽभ्यर्च्य सासनम्।
प्रदक्षिणप्रणामान्तं कुर्यात् सर्वं तु पूर्ववत् ।। 241 ।।
मण्डले कुम्भयागे च प्रोक्षणस्नानमाचरेत्।
ततस्तु ब्रह्नघोषेण यायाद्देवनिकेतनम् ।। 242 ।।
अथ देवगृहं गत्वा पुण्डरीकाक्षमच्युतम्।
अष्टाङ्गेन नमस्कृत्य पूजयेत् पुरुषोत्तमम् ।। 243 ।।
अर्घ्यालभनमाल्यैश्च धूपैरङ्गादिसंयुतम्।
तत् सर्वं योग्यमाहर्तुं पूजान्तरनिवेदितम् ।। 244 ।।
पुष्पपूर्वं समादाय शिरसा चाभिनन्द्य तत्।
समर्प्य विष्वक्सेनस्य ह्यस्त्रमन्त्राबिमन्त्रितैः ।। 245 ।।
सपीठं भगवद्बिम्बं निर्मलीकृत्य वारिभिः।
प्रासादं शोधयित्वा तु देवदेवं समर्चयेत् ।। 246 ।।
स्नानैस्तु क्षीरपूर्वैर्वा धात्रीफलपुरस्सरैः।
यथाक्रमोपदिष्टैस्तु चान्यैर्भोगैरकृत्रिमैः ।। 247 ।।
प्रदक्षिणप्रणामान्तं विशेषात् सर्वमाचरेत्।
लेपभित्तिपटस्थं तु मूलबिम्बं यदा द्विज! ।। 248 ।।
तदा नैमित्तिके बिम्बे सर्वं कुर्याद्विशेषतः।
एतस्य सन्निधौ विप्र! कृत्वा स्नपनमात्रकम् ।। 249 ।।
स्नपनाधिकृते बिम्बे नित्यनैमित्तिकेऽपि वा।
सर्वमन्यत् पवित्रान्तं मूलबिम्बे स्माचरेत् ।। 250 ।।
नित्योत्सवार्थबिम्बे तु तदा कुर्यात् तदुत्सवम्।
तेषामसन्निधौ विप्र! दर्पणे तत्समीपगे ।। 251 ।।
कुर्यात् स्नपनमात्रं तु तदा कुर्यात् तदुत्सवम्।
दर्भमञ्जरिजे कूर्चे चक्रे वा कुम्भकेऽपि वा ।। 252 ।।
प्राग्वदन्यत् समस्तं तु मूलबिम्बे समाचरेत्।
ततो होमगृहं गत्वा कुण्डं संस्कृत्य पूर्ववत् ।। 253 ।।
तत्रानर्ल च संस्कृत्य कुर्याद्वै मन्त्रतर्पणम्।
पूर्वोक्तविधिना पश्चात् संस्कृतेनाथ वह्निना ।। 254 ।।
चरुं संश्रापयेच्चुल्यां हृदा क्षीराज्यतण्डुलैः।
समुद्धृत्याज्यपूतं तं विनिवेद्य यथाक्रमम् ।। 255 ।।
कलशस्थलबिम्बानामेकांशं जुहुयात्ततः।
यद्वा यागसमारम्भात् पूर्वं संसाध्य वै चरुम् ।। 256 ।।
कलशस्थलबिम्बानां क्रमात् कृत्वा तु पूजनम्।
सर्वं द्विजप्रदानान्तं वह्नौ सन्तर्पयेत्ततः ।। 257 ।।
दत्वा पूर्णाहुतिं पश्चात् प्रयायाद्बिम्बसन्निधिम्।
पुरा यस्मिन् दिने विप्र! अतीते वत्सरे कृतः ।। 258 ।।
पवित्रकोपसंहारस्तद्दिनादादितः स्मरन्।
अर्घ्यपुष्पादिबलिभिः पूजयेत् सर्वमध्वरम् ।। 259 ।।
तद्वदाज्यं सपूर्णान्तं क्रमेण जुहुयात्ततः।
मण्डलाग्रमथासाद्य मुद्राबन्धादिकं तु वै ।। 260 ।।
कृत्वा प्रणामपर्यन्तं ततस्त्वेकं पवित्रकम्।
वासितं धूपगन्धाभ्यां चतुःस्थानस्थितस्य च ।। 261 ।।
विनिवेद्य क्रमेणैव धूपं दत्वार्घ्यपूर्वकम्।
"निजानन्दमयैर्भोगैर्नित्यतृप्तस्त्वमव्ययः ।। 262 ।।
तथापि भक्त्याऽतृप्तोऽहं त्वां यजाम्यात्मसिद्धये।"
इति विज्ञाप्य देवस्य ततोऽस्त्रेणार्घ्यवारिणा ।। 263 ।।
सर्वं भूषणपूर्वं तु संप्रोक्ष्य द्रव्यसञ्चयम्।
शालिभिस्तडुण्लैर्वापि तिलैर्वा त्रितयेन वा ।। 264 ।।
चतुस्त्रिद्व्येकभारैर्वा कृते पीठेऽथवा स्थले।
निवेश्य वायुदिग्भागे स्थलस्थप्रागपेक्षया ।। 265 ।।
यद्वा पश्चिमदिग्भागे देशिकेच्छानुरूपतः।
सितवस्त्रान्वितेनैव त्वक्षतेनैव वर्मणा ।। 266 ।।
अर्जयित्वास्त्रमन्त्रेण स्थगयेत् कवचेन तु।
एवं सर्वत्र वा कुर्याद्‌द्रव्याणामधिवासनम् ।। 267 ।।
बर्हिपक्षसमोपेतं साङ्गमिष्वष्टकं ततः।
दिग्विदिक्ष्वस्त्रजप्तं तद्दद्याद्यागनिकेतनम् ।। 268 ।।
पञ्चरङ्गेण सूत्रेण दृढेन सुसितेन वा।
चतुर्गुणेन संवेष्ट्याभ्यन्तराद्यागमण्डपम् ।। 269 ।।
प्रदक्षिणचतुष्कं तु वर्ममन्त्रं तु संस्मरन्।
प्रासादं बाह्यतस्तद्वद्वेष्टयोदग्निमन्दिरम् ।। 270 ।।
वेष्टयेदन्तरा प्राग्वत्ततो देशिकसत्तमः।
स्वयं समूहमभ्यर्थ्य पञ्चकालपरायणम् ।। 271 ।।
षट्‌कर्मनिरतं चापि यतिबृन्दं तु वैष्णवम्।
समक्षं भवतां भक्त्या श्वः प्रभुं पूजयाम्यहम् ।। 272 ।।
सन्निधानमतः कार्यं मदनुग्रहकाम्यया।
एवमब्यर्थितेब्यस्तु ह्यनुज्ञां प्रतिगृह्य च ।। 273 ।।
प्राङ्‌मुखस्त्वासनारूढो गुरुपाणिपरिच्युतम्।
ब्रह्नकूर्चं पिबेत् पश्चाच्चरुशेषं तु भक्षयेत् ।। 274 ।।
पिबेद्धृदयसंजप्तं हेमरत्नकुशोदकम्।
भगवत्पादतोयं च सर्वपापहरं शुभम् ।। 275 ।।
अद्यात्तदनु ताम्बूलं दन्तकाष्ठसमन्तिम्।
आचम्य न्यासपूर्वं तु सकलीकृत्य विग्रहम् ।। 276 ।।
स्थलस्थं मन्त्रमुद्धृत्य कुम्भेऽग्नौ न्यस्य वात्मनि।
कुतपे कम्बलोपेते स्थित्वा च सकुशास्तरे ।। 277 ।।
जपेन्मन्त्रवरं साङ्गं पठंस्तोत्रवरान् शुभान्।
कथां सार्वेश्वरीं पुण्यां कुम्भं निष्पाद्य मण्डलम् ।। 278 ।।
एकाब्जं बहुपझं वा चक्राब्जाद्यमथापि वा।
स्वयं भगवता प्रोक्तमेतेषां लक्षणादिकम् ।। 279 ।।
पौष्करे देवदेवेन सम्यक् पुष्करजन्मनः।
अथवा मण्डलं कुम्भमपरे वासरे द्विज! ।। 280 ।।
भूषणानां ततो गत्वा सन्निधिं द्विजसत्तम!।
दाहाप्यायनयोगेन कुर्याच्चैवाधिवासनम् ।। 281 ।।
ध्यात्वा दक्षिणहस्ते तु द्वादशारं ज्वलत्प्रभम्।
कलाद्वादशसंयुक्तं तदन्तःस्थं दिवाकरम् ।। 282 ।।
दग्धं तद्रश्मिसङ्‌घेन भस्मकूटगतं स्मरेत्।
मान्त्रं पवित्रसङ्‌घं तु निश्शेषं जनयेत्ततः ।। 283 ।।
सितं षोडशपत्राढ्यं वामहस्तेऽम्बुजं स्मरेत्।
क्षपाकरं तु तन्मध्ये ध्यायेत् पूर्णकलान्वितम् ।। 284 ।।
पीयूषवृष्टिसंपातं मुञ्चमानं विचिन्तयेत्।
तेनामृतेन तद्भस्म भावयेत् सञ्चितं द्विज! ।। 285 ।।
समुत्थितं भस्ममध्यात् तत् सर्वं चिन्तयेत् पुनः।
पञ्चभूतात्मकं ध्यात्वा व्यापकत्वेन तत् पुनः ।। 286 ।।
मूलमन्त्रेण सम्प्रोक्ष्य संस्पृश्याथ निरीक्ष्य च।
कुम्भयोग्यानि चैकस्मिन् माण्डलीयानि चापरे ।। 287 ।।
बिम्बयोग्यानि चैकस्मिन्नाग्नेयान्यपरे द्विज!।
अन्यानि मन्त्रयोग्यानि ह्येकस्मिन् द्विजसत्तम! ।। 288 ।।
पात्रे पात्रे पृथक् स्थाप्य पात्रलाभानुरूपतः।
आच्छाद्य वाससा पश्चात् सुसितेनाहतेन तु ।। 289 ।।
तानि भूषणपात्राणि क्रमेण च पृथक् पृथक्।
बन्धनीयानि सूत्रेण दृढेन सुसितेन च ।। 290 ।।
आच्छाद्य पूर्ववत् तानि जागरेण नयेन्निशाम्।
एकादशयां प्रभातेऽथ स्नात्वा पूज्य जनार्दनम् ।। 291 ।।
आनिमन्त्र्य गृहं गत्वा यन्त्रितः प्रणिपत्य च।
ब्राह्नणान् गुरुपूर्वांश्च विष्णुभक्तान् दृढव्रतान् ।। 292 ।।
स्वधर्मनिरतांश्चैव देवदेवक्रियापरान्।
आपत्कालेऽपि संप्राप्ते येऽर्चयन्त्यच्युतं प्रभुम् ।। 293 ।।
अथान्यान् वैष्णवान् कांश्चित् सुहृत्सम्बन्धिबान्धवान्।
ततः पुण्याहघोषेण प्रवृत्ते तु निशामुखे ।। 294 ।।
शङ्खशब्दैः सुमङ्गल्यैर्ब्राह्नणैर्ध्वनिभिः सह।
पठद्भिःशाकुनं सूक्तं प्रविशेद्देवमन्दिरम् ।। 295 ।।
ततो नैमित्तिकं बिम्बं वस्त्रैर्माल्यैश्च भूषणैः।
विलेपनैरलङ्‌कृत्य मूर्तिपैः सह देशिकः ।। 296 ।।
यानमारोप्य निष्क्रम्य शङ्खकाहलतूर्यकैः।
तालवृन्तैस्तथा च्छत्रैश्चामरैर्विविधैः सितैः ।। 297 ।।
नरनाथो यथादेवं मण्डपे सन्निवेशयेत्।
अथ भद्रासने देवं चतुष्पादसमन्विते ।। 298 ।।
समारोप्यार्चयेद्देवं सविशेषं विधानतः।
महाहविर्निवेद्याथ तर्पयेद्वन्हिमध्यतः ।। 299 ।।
ततोऽपराङ्णवेलायां प्रवृत्ते वा निशामुखे।
पुण्याहोद्धोषणाद्यैश्च सहोक्तैः सर्वमङ्गलैः ।। 300 ।।
प्रवेशयेज्जगन्नाथं देवेशं यागमण्डपे।
यागस्य पश्चिमे देशे सौवर्णे भद्रविष्टरे ।। 301 ।।
उपरीष्टाद्वितानेन मौक्तिकेनैव शोभयेत्।
देवमारोप्य यागस्थविभोरभिमुखं द्विज! ।। 302 ।।
यद्वा दशम्यां बिम्बस्थं यागागारे विभुं न्यसेत्।
प्राग्दिक्‌प्रत्यङ्‌मुखा योज्या ऋङ्‌मयाः स्वासनेषु च ।। 303 ।।
दक्षिणे च उदग्वक्त्रान् यजुर्वेदांश्च योजयेत्।
प्राङ्‌मुखान् पश्चिमे भागे सामज्ञान् विनिवेश्य च ।। 304 ।।
सह चैकायनैर्विप्रैर्मूर्तिसंज्ञोपलक्षितैः।
दिश्युत्तरस्यां च ततो नित्यकर्मपरायणान् ।। 305 ।।
निवेश्याथर्ववेदज्ञान् सर्वान् द्विद्विकसंख्यया।
श्रृणु विध्यन्तरं भूयो विस्तराद्‌द्विजसत्तम! ।। 306 ।।
पूर्वे प्रत्य्‌ङ्‌मुखं कृत्वा आसनस्थं द्विजोत्तमम्।
पुष्पवस्त्रैस्तथोष्णीषैर्भूषितं चाङ्‌गुलीयकैः ।। 307 ।।
ऋङ्भन्त्रान् पाठयेत् पुण्यान् मन्त्रविद्भगवन्मयान्।
अथ दक्षिणदिक्संस्थं वीक्षमाणमुदग्दिशम् ।। 308 ।।
यजुर्बृन्दं वैष्णवं तत् पाठयेद्देशिकस्तु तत्।
गायेच्छुद्धानि सामानि सामज्ञः पश्चिमे स्थितः ।। 309 ।।
भक्तश्चोदक्‌स्थितो व्रूयाद्‌द्दक्षिणास्योऽप्यथर्ववित्।
स्वशाखोक्तांस्ततो मन्त्रान् ज्ञानलिङ्गानशेषतः ।। 310 ।।
एकैकं शिष्यवर्गेण वृतो योग्यः क्रमेण तु।
भगवद्भाविनो ये च यतयः पाञ्चरात्रिकाः ।। 311 ।।
चतुर्भिराप्तैर्विप्राद्यैर्युक्तस्त्वीशदिशि न्यसेत्।
एकान्तिनस्त्वनाप्तैश्च युक्तांश्चाग्नेयदिग्गतान् ।। 312 ।।
निवेश्य विप्रानैर्ऋत्यां भक्तान् वैखानसांस्तथा।
चतुर्भिरञ्जलीकैस्तु ततो वायव्यगोचरे ।। 313 ।।
सारम्भिणः सात्वतांश्च तत्काले भगवन्मयान्।
चत्वारोऽथ चतुर्दिक्षु योज्याश्च शिशिनो मुने! ।। 314 ।।
तेषां चैवानुयायीरंश्चत्वारस्तु प्रवर्त्तिनः।
ब्राह्नणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तम! ।। 315 ।।
एकायनीयशाखोत्थान् मन्त्रान् परमपावनान्।
पाठयेच्च यतीनाप्तपूर्वान् वै पाञ्चरात्रिकान् ।। 316 ।।
स्वानुष्ठाने स्वकान् मन्त्रान् जपन्तः संवदन्ति च।
प्रागादौ चोत्तरान्तं च चत्वारो गुरुपूर्वकाः ।। 317 ।।
बहवः समयज्ञानाः सात्वतज्ञाः स्वशक्तितः।
कृतन्यासास्तथा ध्यानमुद्रालङ्‌कृतपाणयः ।। 318 ।।
स्ववाससा स्वकां मुद्रां च्छन्नां कुर्युः परस्परम्।
गीतनृत्तपराश्चान्ये अग्रतः स्तोत्रपाठकाः ।। 319 ।।
वन्दिबृन्दयुता बाह्ये तथा दुन्दुभिवादिनः।
अन्ये तु वैष्णवाः सर्वे पृष्ठतः पार्श्वतोऽपि च ।। 320 ।।
एवं निवेशनं कृत्वा सर्वेषां तु यथाक्रमम्।
ततस्तु देवदेवस्य चतुःस्थानस्थितस्य च ।। 321 ।।
क्रमेण पूजनं कुर्यात् पूर्ववद्‌द्विजसत्तम!।
आसाद्य कलशोद्देशं विनिवेदनमाचरेत् ।। 322 ।।
नानाविशेषभोगानां विभारामन्त्रणाय च।
दन्तकाष्ठं सताम्बूलं मुखवासं सदर्पणम् ।। 323 ।।
चन्दनादीनि गन्धानि जातिपूगफलानि च।
विनिवेद्य निधायाग्रे दक्षिणेऽथ जगत्‌प्रभोः ।। 324 ।।
गुग्गुलुं मृष्टधूपं च प्राकाशं ताम्रपात्रगम्।
दृक्‌प्रभामण्डनं रम्यं हेमसूत्रं सकङ्कणम् ।। 325 ।।
मध्वाज्यपूरिते पात्रे तैजसे रोचनाञ्जनम्।
न्यसेत् षट्‌कं महन्मूर्तेर्नेत्रवस्त्रे सितारुणे ।। 326 ।।
पश्चिभे च विभोर्दद्यात् पुण्यनद्युदकं तथा।
तीर्थतोयं नगोत्थं च नगमृच्छ्रीफलादि यत् ।। 327 ।।
शाद्वलं नीलदर्भांश्च ताम्रपात्रेऽथवायसे।
उत्तरेऽथ विभोर्दद्याद्देवदेवस्य सत्तम! ।। 328 ।।
माल्यान्योषधयः सप्त बीजानि च फलानि च।
तिलतण्डुलपात्राणि क्षीरं दधि घृतं सिता ।। 329 ।।
गन्धबृन्दं त्वगेलाद्यं धातवो गैरिकादयः।
सफलं नारिकेलं च विकारास्त्वैक्षवाखिलाः ।। 330 ।।
सराजते कांस्यपात्रे संभवानुगुणं द्विज!।
यज्ञपर्णपुटे वा तु विनिवेद्यमसंभवे ।। 331 ।।
सकुशोदं स्थलस्थस्य ताम्बूलं दन्तधावनम्।
सितानि सोत्तरीयाणि उपवीतानि चन्दनम् ।। 332 ।।
चतुर्दिग्विनिवेद्याथ बिम्बेऽग्नावेवमेव हि।
तानि भूषणपात्राणि विनिवेद्य पृथक् पृथक् ।। 333 ।।
सन्निवेश्यानि पुरतश्चतुःस्थानस्थितस्य च।
मूलबिम्बे यदा कुर्यात्तदा सर्वं तदग्रतः ।। 334 ।।
स्थाप्य भूषणपर्यन्तं विनिवेद्य यथाक्रमम्।
कुङ्कुमागरुकर्पूरश्रीखण्डैरधिवासितम् ।। 335 ।।
चतुः स्थानावतीर्णस्य दद्याद्गन्धपवित्रकम्।
ततोऽर्घ्य पुष्पधूपं च मुद्राबन्धं समाचरेत् ।। 336 ।।
आदिमध्यावसाने तु सम्यक् च्छिद्रस्य शान्तये।
जपेन्मन्त्रवरं साङ्गं पश्चाद्बद्धाञ्जलिः पठेत् ।। 337 ।।
प्रणवद्विद्वयाद्यं तु स्तोत्रमन्त्रं निमन्त्रयेत्।
"सर्वमन्त्रमयाऽनन्त! नित्यसन्निहिताव्यय! ।। 338 ।।
गुणप्रधानयोगेश! भावनाभोगविग्रह!।
नारायण! परं ब्रह्न! प्राणेश! चतुराकृते! ।। 339 ।।
सर्वगाच्युत! सन्मूर्ते! सर्वज्ञ! पुरुषोत्तम!।
अस्मात् काललवाद्यावद्विसर्जनदिनावधि ।। 340 ।।
नानामन्त्रगणोपेतः सन्निधिं भज मे प्रभो!।
देवबिम्बे तु सन्मूर्तौ कलशे मण्डलक्षितौ ।। 341 ।।
संख्यासूत्रेऽक्षसूत्रे च पावके गुरुविग्रहे।
घण्टायां सास्त्रपीठे च यागोपकरणेषु च ।। 342 ।।
स्रुक् स्रुवाद्येष्वशेषेषु एकान्तिद्विजमूर्तिषु।
विष्णुपार्षदभेदेषु जन्मकर्मरतेषु च ।। 343 ।।
श्रद्धापूतेषु दक्षेषु त्वदेकशरणेषु च।
अतीतवात्सरीयाणां स्नानादीनां हि कर्मणाम् ।। 344 ।।
नैमित्तिकानां नित्यानामपूर्णानां हि शान्तये।
त्वत्प्रीतये यथाशास्त्रमद्य निर्वर्तयाम्यहम् ।। 345 ।।
पावित्रकविधानं च सर्वकर्मप्रपूरणम्।
अतोऽद्य मुखवासाद्यमुपचारं हि चार्चनम् ।। 346 ।।
होमान्तमधिवासीयं कुरु सर्वं हि चात्मसात्।
त्वामर्चयाम्यहं भक्त्या शक्त्यातीतेऽथ जागरे ।। 347 ।।
यथावद्ब्रह्नसूत्रान्तैर्भोगैर्भोगापवर्गदैः।
विज्ञप्तोऽसीति भगवन्! वेत्सि सर्वं हृदि स्थितम् ।। 348 ।।
भक्तस्य मम वात्सल्यात् प्रातः कार्यस्त्वनुग्रहः।"
एवं निमन्त्रयित्वाजमष्टाङ्गेन नमेत् क्षितौ ।। 349 ।।
चतुः प्रदक्षिणीकृत्य हृदि मन्त्रमनुस्मरन्।
गीतनृत्तादिकैः स्तोत्रेर्वेदपाठसमन्वितैः ।। 350 ।।
जयशब्दसमेतैस्तु जागरेण नयेन्निशाम्।
स्नात्वा ब्राह्ने मुहूर्तेऽथ कृतकोतुकमङ्गलः ।। 351 ।।
महता विभवेन प्राग्‌द्वारयागं समाचरेत्।
नित्यं कर्म पुरा कृत्वा ह्येकस्मिन्नधिकारिणि ।। 352 ।।
कुम्भस्थं तु यजेत् प्राग्वन्मण्डलस्थं ततः क्रमात्।
बिम्बस्थं देवदेवेशं सविशेषं समर्चयेत् ।। 353 ।।
क्षीरादिपञ्चविंशद्भिर्यथावदधिवासितैः।
स्नानैरन्यैश्च विविधैर्भोगैर्भक्ष्यादिनिर्मितैः ।। 354 ।।
सांस्पर्शिकैरासनाद्यैर्विविधैरुपचारकैः।
हृदयङ्गमसंज्ञैस्तु बहुभेदविनिर्मितैः ।। 355 ।।
जपमुद्रावसानान्तमेवं कृत्वा क्रमेण तु।
अग्निस्थं तर्पयेत् पश्चाद्यथावदनुपूर्वशः ।। 356 ।।
अथ भूषणपात्रस्य गत्वा वै स्न्निधिं द्विज!।
पूजयित्वा समुद्धाट्य पात्रं प्रातिसरीयकम् ।। 357 ।।
अवलोक्य समादाय गत्वा कलशसन्निधिम्।
आराधनाङ्गनिचयमव्यक्तं तात्विकं भवेत् ।। 358 ।।
तृतीयमुभयात्मं तु आध्यात्म्यादित्रयं तथा।
अनुसन्धाय वै तस्मिन् संस्मरनं हृदयं धिया ।। 359 ।।
तत्राष्टाष्टकसंख्यं तु अव्यक्तं भोगसङ्‌गरहम्।
मन्त्रमुद्रासमूहं तु तात्विकं परिकीर्तितम् ।। 360 ।।
स्वाध्यायगीतवाद्यादिव्रतानि नियमानि च।
दानान्युत्सवपूर्वाणि नानानैमित्तिकानि च ।। 361 ।।
एतान्युभयरूपाणि पुरुषार्थप्रदानि च।
प्रीतिदानि जगद्योनौ मन्त्रमूर्तौ जनार्दने ।। 362 ।।
भास्वरं चिन्मयं शुद्धं यदेषां रूपमक्षयम्।
तद्गर्भेष्वनुसन्धेयं सूक्ष्मं तदनु भास्वरम् ।। 363 ।।
सूर्येन्दुवह्निसंकाशमियत्तापरिकल्पितम्।
तद्‌ग्रन्थिगणदेशेषु भावनीयं महामते! ।। 364 ।।
सुस्थूलं व्यावहार्यं च तृतीयं सार्वलौकिकम्।
तत् तन्तुनिचयोद्देशे भावनीयं सदैव हि ।। 365 ।।
एवमाध्यात्मिकीं व्याप्तिं लक्षयित्वा तु तत्परम्।
चिन्तयेदधिदेवाख्यां व्याप्ति मान्त्रीमनश्वरीम् ।। 366 ।।
चतुर्णामविनाभावि यद्रूपममृतोपमम्।
नानाभासगणाकीर्णं मूर्तामूर्तमनश्वरम् ।। 367 ।।
किरीटमालाश्रीवत्सकौस्तुभानां महामते!।
सन्निधिं भावयेन्नित्यमधिदैवात्मनां त्रयम् ।। 368 ।।
पृथ्व्यंप्‌तेजोऽनिलाकाशपञ्चानां समुदायि यत्।
रमणीयं शुभं रूपं भक्तानां परितोषकृत् ।। 369 ।।
तदस्य चाधिभूतत्वं मन्तव्यं योजनावधौ।
ध्यात्वैनं मूलमन्त्रं तु समुदीर्य ततः परम् ।। 370 ।।
प्रणवालङ्‌कृतं मन्त्रं तमुद्यतकरः पठेत्।
"(ओं) त्वत्प्रप्तिसाधनं देव तानं यदमलं परम् ।। 371 ।।
भक्तिश्रद्धासमोपेता सत्क्रिया त्वत्प्रकाशिता।
अखण्डसिंद्धये तस्या ह्युपायः कथितस्त्वया ।। 372 ।।
ज्ञानकर्मप्रसक्तानां भक्तानां भावितात्मनाम्।
पवित्राख्यं यथाशक्त्या त्वत्प्रसादान्मया कृतम् ।। 373 ।।
यथोचितमिदानीं तद्‌ध्यायस्व परमेश्वरम्।
तस्माच्छुभतरं कर्म विज्ञानममलं हि यत् ।। 374 ।।
विध्यन्तरं मन्त्रगणं द्रव्यसङ्‌घस्त्वमेव हि।
प्राप्तिः पूरयिता पूर्णमपूर्णानां हि कर्मणाम् ।। 375 ।।
तथ्येनानेन भगवन्! भवभङ्गार्दितस्य च।
अशठस्य क्रियाकांडमखण्डं सर्वमस्तु ते ।। 376 ।।
विज्ञप्तोऽसीति भगवन्! आर्थिता मे परा त्वयि।
विना त्वत्परितोषेण सम्यज्ज्ञानप्रदेन च ।। 377 ।।
आपंत्कालेऽपि संप्राप्ते बुद्धिपूर्वं मयाच्पुत!।
न सन्त्याज्यं क्रियाज्ञानं त्वं सर्वं वेत्सि तत्वतः ।। 378 ।।
यथाकालं यथावच्च भोगैर्देव! यथोचितैः।
नार्चितोऽसि यथा सम्यक् खेदश्चेतसि तेन मे ।। 379 ।।
पूजनं भोगसंभोगैराज्यहोमैस्तु तर्पणैः।
त्वयेतत् कृतकृत्यत्वान्न किञ्चिदुपयुज्यते ।। 380 ।।
सुक्षेत्रं वापितं ह्येतदखिलार्थस्य मेऽखिलम्।
फलिष्यत्यमृतत्वेन ज्ञात्वैवं हि मया पुरा ।। 381 ।।
अङ्गीकृतं गुरुमुखात् किन्तु सर्वेश्वर! प्रभो!।
परिस्फुरति मे बुद्धौ न निर्व्यूढं यथास्थितम् ।। 382 ।।
मनोवाक्कायकर्मैस्तु आप्रभातान्निशावधि।
अस्वातन्त्र्यादसामर्थ्यान्मनसश्चानवस्थितेः ।। 383 ।।
शीतोष्णवातवर्षार्द्येरन्तरायैर्ज्वरादिभिः।
असम्पत्तेः क्रियाङ्गानां देव! त्वदनुरूपिणाम् ।। 384 ।।
आप्रवृत्तेः परानन्दप्राप्तिनिष्ठं यदाह्निकम्।
यथोक्तममराणां तु यस्मान्न घटते ततः ।। 385 ।।
तस्य सम्पूरणार्थं तु प्रधानतरमर्चनम्।
पवित्रकाख्त्यमादिष्टं वत्सरं प्रति यत् त्वया ।। 386 ।।
तन्मया कृतमध्यक्षमर्चितं यदनिर्मलम्।
क्रियायोगादसंपूर्णं तन्मे निर्मलतां नय ।। 387 ।।
ज्ञानतोऽझानतो वापि यथोक्तं न कृतं मया।
तत् सर्वं पूर्णमेवास्तु सुतृप्तो भव सर्वदा ।। 388 ।।
ओमच्युत! जगन्नाथ! मन्त्रमूर्ते! जनार्दन!।
रक्ष मां पुण्डरीकाक्ष! क्षमस्वाज! प्रसीद ओम् ।।" 389 ।।
उक्त्वेवं मूलमन्त्रं तु हृदाद्यैर्लाञ्छनैः सह।
समुदीर्य ततो दद्यान्मूर्ध्नि मन्त्रात्मनो विभोः ।। 390 ।।
सर्वज्ञानक्रियाभोगशुभसंकल्पविग्रहम्।
मण्डलान्तर्गतस्यैवं प्रासादान्तःस्थितस्य च ।। 391 ।।
एवमग्नेः पवित्रे द्वे प्रदद्याद्‌द्विजसत्तम!।
यद्वा किरीटमाद्ये तु मध्ये श्रीवत्सकौस्तुभे ।। 392 ।।
तृतीये वनमालां च मन्त्रैरेभिस्तु विन्यसेत्।
"पझराजे किरीटाय पझरागवृतः स्वयम् ।। 393 ।।
पवित्रकेऽस्मिन्नागच्छ क्षिप्रं सन्निहितो भव।
श्रीवत्साय नमस्तुम्यं कौस्तुभागच्छ ओं नमः ।। 394 ।।
पवित्रकेऽस्मिन् सन्तिष्ठ सच्छ्रीवत्सामलप्रभ!।
आगच्छ वनमाले! त्वं अस्मिन् सन्निहिता भव ।। 395 ।।
पवित्रके जगद्योनेर्यन्मया परिकल्पितम्।"
श्रृणु विध्यन्तरं भूयो ध्यायेदाद्ये द्विजाखिलम् ।। 396 ।।
सांवत्सरं तु यत् कर्म आप्रभातान्निशान्तिमम्।
ध्यानोत्थं निष्कलं सम्यगपवर्गप्रदं तु यत् ।। 397 ।।
संस्मृत्य निष्कलं मन्त्रं शुद्धोच्चारक्रमेण तु।
मन्त्रे सन्धाय तत्सूत्रं सूत्रे मन्त्रं तथैव च ।। 398 ।।
एकीकृत्यात्मना सार्धं दद्याद्वै मन्त्रमूर्धनि।
समादायापरं सूत्रं तस्मिन् सकलनिष्कलम् ।। 399 ।।
ध्यानकर्मस्वरूपं तु कर्म ध्यायेच्च वात्सरम्।
स्मृत्वा चोभयरूपं तु मन्त्रं कलशपूजितम् ।। 400 ।।
पूर्ववच्चानुसन्धानं कृत्वा दद्यात् पवित्रकम्।
ततः प्रतिसरं विप्र! तृतीयं च समाहरेत् ।। 401 ।।
बाह्यसांवत्सरं कर्म सकलं चाखिलं स्मरेत्।
पूजयन्तं स्वमात्मानमाधाराच्च परावधिम् ।। 402 ।।
लयभोगाधिकाराख्यक्रमेण सकलात्मना।
सकलं मन्त्रनाथं तु लयभोगाधिविग्रहम् ।। 403 ।।
स्मृत्वा कृत्वा च सन्धानं दद्यात् प्रतिसरं ततः।
अर्घ्यपुष्पैस्तथा गन्धैर्माल्यैर्धूपैस्तथा द्विज! ।। 404 ।।
पूजया सम्पुटीकुर्याद्‌भूषणानि पृथक् पृथक्।
अन्तरान्तरयोगेन घण्टाशब्दसमन्वितम् ।। 405 ।।
समस्तरत्नसद्धातुपुष्पाक्षतफलान्विता।
सत्सुगन्धार्घ्यदर्भाढ्यलाजसिद्धार्थकैर्युता ।। 406 ।।
प्रक्षेप्तव्या तु बहुशो वृष्टि करघनैर्मुदा।
केवला पुष्पवृष्टिर्वा शङ्खादीन्यपि नादयेत् ।। 407 ।।
मन्त्रास्त्रकुम्भयोर्दद्याद्‌भूषणे ध्यानवर्जिते।
दत्वैवं कलशस्थस्य पुरा विप्र! पवित्रकम् ।। 408 ।।
अनेन विधिना दद्यान्मण्डलस्थस्य वै पुरा।
पवित्रकत्रयं शुभ्रं भोगस्थाने च नारद! ।। 409 ।।
दद्यात् समस्तमन्त्राणां त्रीम्येकं वा यथेच्छया।
बिम्बस्थं तु समब्यर्च्य प्रदद्याद्‌भूषणानि तु ।। 410 ।।
कलशोक्तक्रमेणैव वनमालाख्यभूषणे।
अव्यक्ताद्यनुसन्धानं यद्वा विध्यन्तरोदितम् ।। 411 ।।
परादिस्थूलपर्यन्तं सर्वं कृत्वा निवेदयेत्।
पुषङ्‌न्यासो यथा प्रोक्तः किरीटाद्यस्य सत्तम! ।। 412 ।।
तत्रायं हि विशेषः स्यात् किरीटाद्यं चतुष्टयम्।
क्रमेणावाहयेद्विप्र! भूषणानां चतुष्टये ।। 413 ।।
"किरीटाख्यसुरेशस्य भानुतुल्यप्रभान्वित!।
परिवारयुतस्तिष्ठ त्वमस्मिन् शीर्षभूषणे ।। 414 ।।
वक्षः स्थले जगद्योनेर्भूषणं कल्पितं मया।
श्रीवत्सागच्छ पूर्णेन्दुसमान! भगवत्प्रिय! ।। 415 ।।
वक्षःस्भले जगद्योनेर्भूषणं कल्पितं मया।
कौस्तुमागच्छ रत्नानामीश! त्वं भगवत्प्रिय! ।। 416 ।।
धातुपुष्पसमाकीर्णे! प्रवालमणिभूषिते!।
वनमाले! समागच्छ देवदेवप्रिये! शुभे!" ।। 417 ।।
चतुर्भिरेतैर्मन्त्रैस्तु क्रमेणावाहयेद्‌द्विज!।
अङ्गानामप्युपाङ्गानां लाञ्छनानां तथैव च ।। 418 ।।
भूषणानां च शक्तीनां गरुडस्य च वै क्रमात्।
पीठस्य तु पवित्राणि प्रदद्यात् क्रमशस्ततः ।। 419 ।।
एवमेव विभोर्दद्यान्मूलबिम्बगतस्य च।
सर्वेषां कर्मबिम्बानां लक्ष्म्यादीनां तथैव च ।। 420 ।।
अन्येषामङ्गबिम्बानां परिवारगणस्य च।
क्रमेण भूषणं दत्वा यायादग्निनिकेतनम् ।। 421 ।।
अग्निस्थस्य विभोर्दद्याद्‌भूषणानि तु पूर्ववत्।
यदा पवित्रकारोपो मूलबिमेबे तदा भवेत् ।। 422 ।।
नित्ये कुण्डेऽन्यथा स स्यान्नित्येनैमित्तिकेऽपि च।
अग्नौ निवेदयेद् विप्र! भूषणं न तु होमयेत् ।। 423 ।।
यस्मात् सन्यासमूर्ध्वे तु विहितं भूषणस्य च।
नाहर्तुं युज्यते दग्धं दोषमाहरणं विना ।। 424 ।।
देशिकस्य हृदारोप्य पूजितस्य च देववत्।
स्वं स्वं चारोप्य चान्येषां देशिकानां तथैव च ।। 425 ।।
साधकानां ततो दत्वा यागाङ्गानामपि द्विज!।
शास्त्रात्मनस्ततो दत्वा ह्यन्येषां क्रमशस्तथा ।। 426 ।।
पश्चात् पझासनं बद्‌ध्वा देवस्याभिमुखं स्थितः।
सकृज्जपेन्महामन्त्रं सर्वकर्मप्रवर्धनम् ।। 427 ।।
नाशनं समयानां च दोषाणां स्मरणादपि।
ततः संश्रावयेद्देवं त्रिस्थानस्थं क्रमेण तु ।। 428 ।।
"कामतोऽकामतो वापि न कृतं नियमार्चयम्।
केनचिद्विघ्नदोषेण मया यत्परमेश्वर! ।। 429 ।।
तेन मे मनसोऽतीव सन्तापो दहनात्मकः।
यतः समयदोषेण बाधितोऽस्मि जनार्दन! ।। 430 ।।
त्वयोद्दिष्टं पुरा नाथ! भक्तानां हितकाम्यया।
दोषविध्वंसकृच्चुभ्रं पवित्रं तत् कृतं मया ।। 431 ।।
प्रसीद मे कुरु त्राणं जहि कोपं हि लोपजम्।
निमज्जतो भवाम्भोधौ समयप्रच्युतस्य च ।। 432 ।।
नमो नमस्ते मन्त्रात्मन्! प्रसीद परमेश्वर!।
पाहि पाहि त्रिलोकेश! केशवाऽऽर्तिविनाशन! ।। 433 ।।
त्वत्प्रसादाच्च मे मास्तु दोषः समयसंज्ञितः।
अद्यास्तु कर्मसम्पत्तिर्नित्यनैमित्तिके प्रभो!" ।। 434 ।।
श्रुत्वैवमादरात्तस्य संसारार्तस्य मन्त्रराट्।
पूर्णभावं नयेच्छीघ्रं हन्ति दोषांश्च सामयान् ।। 435 ।।
ततः प्रावरणैर्दानैर्यथासम्पत्तिसंभृतैः।
सोपवीतोत्तरियैश्च च्छत्रोपानहसंयुतैः ।। 436 ।।
विविधैर्भोजनैर्विप्र! धूपार्घ्यालभनादिकैः।
पूजयेदाप्तपूर्वांश्च यतिपूर्वांस्तथैव च ।। 437 ।।
पञ्च वैखानसान्तांश्च विप्रादींश्चतुरस्तथा।
पञ्च योगरताद्यांस्तु तथान्यान् वैष्णवान् द्विज! ।। 438 ।।
एकायनीयशाखोत्थमन्त्राणां प्रथमं ततः।
त्रयीमयानां मन्त्राणां स्तोत्राणां च तथैव च ।। 439 ।।
उद्‌घोषणं च कर्तव्यं ब्राह्नणैरग्रतो विभोः।
शङ्खभेरीनिनादैश्च काहलीगीतकैस्तथा ।। 440 ।।
नृत्तैश्च निनदैरन्यैर्मङ्गलैस्तोषयेत् प्रभुम्।
पश्चादुत्सवबिम्बं तु यानमारोप्य देशिकः ।। 441 ।।
महोत्सवविधिप्रोक्तं सर्वमह्गलसंयुतम्।
प्रदक्षिणक्रमेणैव प्रासादं तु प्रमेशयेत् ।। 442 ।।
प्रार्थनां च ततः कुर्याद्यतीनां भावितात्मनाम्।
"युष्मत्प्रसादसामर्थ्यान्मनसः परिपूर्णता ।। 443 ।।
क्रियाङ्गानां तु सर्वेषां मा मेऽस्तु समयच्युतिः।"
"एवमस्त्विति" वक्तव्यं सर्वैस्तालसमन्वितम् ।। 444 ।।
तांश्चानुपृच्छ्य नैवेद्यपूर्वं कुर्यात् सुभोजनम्।
बन्धुभृत्यसमोपेतः स विशेषं द्विजोत्तम! ।। 445 ।।
एकरात्रं त्रिरात्रं वा सप्तरात्रं तु वा द्विज!।
पवित्रकं स्थापयित्वा ततः सन्यासमाचरेत् ।। 446 ।।
अथवार्चागतं विप्र! तावत् संस्थाप्य भूषणम्।
यावदेकादशी शुक्ला संवृत्ता कार्तिकस्य तु ।। 447 ।।
अपनीय च माल्यादीन् प्रदद्याद्वा दिने दिने।
नो यान्ति म्लानतां यावत् संप्राप्ते कालवासरे ।। 448 ।।
महदर्चनपूर्वं तु कृत्वा पूर्णावसानकम्।
क्रमशश्चोपसहृत्य स्वयं गुर्वात्मना तु वा ।। 449 ।।
आदाय पूजिते पात्रे अर्चयित्वा यथाविधि।
जानुनी भूगते कृत्वा प्रणिपत्य च देशिकम् ।। 450 ।।
मानयित्वार्घ्यपुष्पाद्यैः प्रणिपत्य स्वयं पुरा।
विनिवेद्य च तत् पात्रं "प्रसादः क्रियतां प्रभो" ।। 451 ।।
स्वाशिषं भगवत्प्रीतिर्वाच्याचार्येण तस्य तु।
"यथागमं यथाशास्त्रं प्रसादाच्चतुरात्मनः ।। 452 ।।
त्वयि सांवत्सरं कृत्यं सुसंपूर्णं सुतास्तु ओम्।"
समुत्कीर्य ततस्तस्य आसनस्थस्य मूर्धनि ।। 453 ।।
कलशद्वितयं मान्त्रं कृत्वा सौभाग्यमोक्षदम्।
विसर्जनं विभोः कुर्यात् पूजापूर्वं यथाक्रमम् ।। 454 ।।
विष्वक्‌सेनं यजेत् साङ्गं तर्पयेत् तदनन्तरम्।
समाहृत्याखिलं पश्चात् कृते चैतद्विसर्जने ।। 455 ।।
यद्यन्निवेदितं तस्य ह्यगाधेऽम्भसि निक्षिपेत्।
यथासंवत्सरकृतो दोषः समयपूर्वकः ।। 456 ।।
नाशमायाति वै क्षिप्रं पवित्रारोपणान्मुने!।
पाति यस्मात् सदोषं हि पतनात् परिरक्षति ।। 457 ।।
विशेषेण द्विजं त्राति पूर्णं कर्म करोति च।
साधके च क्रियाहीने तस्मादुक्तो महान् मया ।। 458 ।।
याग एष पवित्राख्य उक्तलक्षणलक्षितः।
पतितं च क्रियालोपाद्विधिवत् त्रायते यदा ।। 459 ।।
तदा वपित्रकं विप्र! भूषणं सूत्रजं स्मरेत्।
अज्ञानादथवा मोहाद्यद्वा कर्मण्यनादरात् ।। 460 ।।
नास्तिक्याद्वाप्यहङ्कारात् कर्तॄणामुपरोधतः।
वैशेषिकान्तरप्राप्तेर्यद्वा निद्रादिदोषतः ।। 461 ।।
कालातिक्रान्तिभीत्या वा त्वेवमन्येन केनचित्।
विकलं यजनं कृत्वा यदा दद्यात् पवित्रकम् ।। 462 ।।
मन्त्रेशस्य तदानीं तु भवेत् तत् कर्म तामसम्।
देशाधिपो देशिकश्च प्राप्नुयात् तामसं फलम् ।। 463 ।।
ज्वरादिव्याधिपीडा स्यात् तदा तद्देशवासिनाम्।
त्वराविष्टोऽथवा विप्र! रजसा कलुषीकृतः ।। 464 ।।
यागं कृत्वा तु देवस्य यदा दद्यात् पवित्रकम्।
तदा स्याद्राजसं कर्म फलं स्यादेव तादृशम् ।। 465 ।।
अज्ञानपूर्वकैर्दोषैः प्रागुक्तैस्तु विवर्जितः।
यागं कृत्वा सुपूर्णं तु भूषणेन यदा यजेत् ।। 466 ।।
तदा कर्ता गुरुश्चापि पवित्रोक्तं फलं लभेत्।
तदा सांवत्सरं कर्म परिपूर्णतरं भवेत् ।। 467 ।।
पतितस्य क्रियालोपात् परित्राणं भवेत् तदा।
तस्मात्तु यजनं सम्यग्विभोः कृत्वा सुविस्तरम् ।। 468 ।।
तदन्ते शोभने प्राप्ते मुहूर्ते देशिको विभुम्।
भूषणैर्भूषयेत् सम्यगत्वरः शान्तमानसः ।। 469 ।।
न लभ्यते मुहूर्तं तु यागान्ते यदि शोभनम्।
तदन्यस्मिन् समारोप्य पवित्राणि यथाविधि ।। 470 ।।
तदतिक्रान्तिदोषस्य शान्तयेऽथ जपेद्‌गुरुः।
अष्टोत्तरसहस्रं तु मूलमन्त्रं तथास्त्रपम् ।। 471 ।।
जपेत् समयदोषघ्नमष्टधा मन्त्रनायकम्।
एवं सर्वेषु यागेषु मुहूर्तातिक्रमे भवेत् ।। 472 ।।
तिथिनक्षत्रवारेषु पवित्रारोहणे विधिः।
कथितो मुनिशार्दूल! यदा पुण्येक्षणादिके ।। 473 ।।
केवले वैष्णवे वापि तत् कुर्यात् तत्र मे श्रृणु।
पुण्यक्षणादिकं यस्मिन् दिने भवति तद्दिनात् ।। 474 ।।
प्राक्‌सप्तमे दिने कृत्वा प्राग्वदङ्‌कुररोपणम्।
प्राग्वत् कृत्वाधिवासं तु पुरस्ताद्वासरद्वये ।। 475 ।।
ततः कर्मदिने ब्राह्ने मुहूर्ते स्नानकर्म च।
कृत्वा प्राग्वत् समभ्यर्च्य चतुःस्थानस्थितं विभुम् ।। 476 ।।
केवलं बिम्बगं वापि यथाकालानुरूपतः।
क्षणे तु वैष्णवे प्राप्ते पवित्रैस्तु यजेद्विभुम् ।। 477 ।।
यदा तु केवले बिम्बे पवित्रारोपणं भवेत्।
तदा स्याद्बिम्बगस्यैव अधिवासोक्तपूजनम् ।। 478 ।।
तथा वह्निगतस्यापि वर्जयेत् कुम्भमण्डले।
अतीतेऽस्मिन् मुहूर्ते तु भगवद्यागविस्तरात् ।। 479 ।।
क्षणान्तरे तु तत् कृत्वा सास्त्रमूलायुतं जपेत्।
समस्तदोषशमनमष्टाविंशतिकं जपेत् ।। 480 ।।
तिलैराज्यैरक्षतैर्वा सहस्रं जुहुयादगुरुः।
विरोधात् समतिक्रान्ते क्षणे तस्मिन् महामते! ।। 481 ।।
तदन्यस्मिन् समारोप्य पवित्राणि यथाविधि।
ततस्तु पूर्वनवके प्रथमस्नपनं चरेत् ।। 482 ।।
द्वितीयं वा तृतीयं वा गुरोरिच्छावशेन तु।
यद्वा मूलायुतं सास्त्रं जप्त्वा पश्चात्तिलादिकैः ।। 483 ।।
आहुतीनां सहस्रं तु प्रत्येकं जुहुयात् त्रिभिः।
जपेन्मन्त्रवरं पश्चात् पञ्चाशच्चतुरुत्तरम् ।। 484 ।।
विधानमेवं कथितं स्थाने मर्त्यप्रतिष्ठिते।
स्वयंव्यक्तादिके स्थाने पवित्रारोहणादिषु ।। 485 ।।
नैमित्तिकेषु सर्वेषु नित्येष्वपि विशेषतः।
मुहूर्तातिक्रमे तत्तत्कालातिक्रमणेऽपि च ।। 486 ।।
न दोषो द्विज! पूर्वोक्तस्तत्रापि च विशेषतः।
भगवद्यागविस्तारादृतेऽन्येन च केनचित् ।। 487 ।।
विध्नानामुद्यमे तेन अतिक्रान्ते क्षणादिके।
तत्तत्कर्माखिलं कृत्वा कालेऽन्यस्मिन् यथाविधि ।। 488 ।।
तद्दोषशान्तये कुर्यान्महामन्त्रजपं सुधीः।
सकृद्‌द्विधा चतुर्धा वा अष्टधा वा द्विपञ्चधा ।। 489 ।।
द्विषट्‌षोडशधा वापि अष्टाविंशतिधा तु वा।
तत्तत्कर्मविशेषाणां गुरुत्वाद्यानुगुण्यतः ।। 490 ।।
यद्वाधिकं जपं कुर्याद्यथा चित्तं प्रसीदति।
प्रायश्चित्तविशेषं तु हयूर्ध्वं वक्ष्यामि विस्तरात् ।। 491 ।।
दोषसंभावना प्रोक्ता तत्र कालावधिस्तथा।
कीर्तितो विस्तरेणैव तस्मान्नात्र प्रतन्यते ।। 492 ।।
इत्येष कथितः सम्यक् पवित्रारोहणे विधिः।
कृते पवित्रके विप्र! भक्तैर्मन्त्रक्रियापरैः ।। 493 ।।
कश्चिद्विशेषनियमः पालनीयः प्रयत्नतः।
यावदेकादशी शुक्ला कार्तिकस्यातिपुण्यदा ।। 494 ।।
वक्ष्यते सूक्ष्मरूपोऽन्यः प्रकारो मुनिपुङ्गव!।
केवले बिम्बके वापि यागमन्दिरसंस्थिते ।। 495 ।।
प्रासादसंस्थिते वापि दशम्यामधिवासिते।
कल्पयेद्भूषणारोपं विना कलशमण्डले ।। 496 ।।
अग्निस्थेऽपि तदा कुर्यात् तत् प्राग्वदधिवासिते।
एकं द्वे त्रीणि वा दद्यात् पवित्राणि तदा विभोः ।। 497 ।।
समानीयोत्तमाद्येन भेदेन तु कृतानि वा।
द्रव्याभावो द्विजश्रेष्ठ! अशक्तिर्यदि वा भवेत् ।। 498 ।।
सद्योऽधिवासं द्वादश्यां कृत्वा शक्त्या तु कारयेत्।
सोपवासं द्विजश्रेष्ठ! अर्चायां भूषणं विभोः ।। 499 ।।
यथेच्छाकल्पितैः सूत्रैर्ग्रन्थिभिस्तु यथेच्छया।
निशारोचनया वापि पवित्राणां च धातुना ।। 500 ।।
केनचिद्‌ग्रन्थयो(?)विप्र! विधिवत् परिरञ्जयेत्।
पुष्पपूर्णानि गर्भाणि कृत्वा वा केवलान्यतः ।। 501 ।।
प्रपूज्य पूर्ववद्‌द्विप्र! बिम्बसन्निहितं विभुम्।
निवेद्य भूषणं दद्याद्वाणीमुच्चारयेदिमाम् ।। 502 ।।
"यन्मया ब्रह्नसूत्रं च कल्पितं ग्राहयस्व च।
कर्मणां पूरणार्थाय, यथा दोषो न मे भवेत्" ।। 503 ।।
इत्युक्त्वा च ततो दद्यात् पूज्योपरि पवित्रकम्।
स्तुत्वा च देवदेवेशं द्वितीयेऽह्नि प्रयत्नतः ।। 504 ।।
पूजयित्वाथ देवेशं कुर्यात् तदुपसंहृतिम्।
गृहे पवित्रयागे तु विशेषमधुनोच्यते ।। 505 ।।
बिम्बस्थे मण्डलस्थे वा चतुस्स्थानस्थितेऽपि वा।
पवित्राणां त्रयं दद्यादेकैकं वा यथेच्छया ।। 506 ।।
इत्युक्तं योगिनां श्रेष्ठ! पवित्रारोहणं परम्।
ऊनातिरिक्ताद्यत् पाति भुवि भक्तजनं सदा ।। 507 ।।
तस्य निर्वर्तनाद्भक्त्या ब्राह्नणो वेदविद्भवेत्।
श्रीमानत्युग्रशक्तिर्वै क्षत्रियोऽन्छिन्नसन्ततिः ।। 508 ।।
धनधान्ययुतो वैश्यः शूद्रस्तु सुखभाग्भवेत्।
गोभूहिरण्यदानानामनन्तानां हि यत् फलम् ।। 509 ।।
यावज्जीवं प्रदत्तानां प्रत्यहं तत् समाः शतम्।
परमायुश्च संपूर्णं तत् फलं प्राप्नुयान्नरः ।। 510 ।।
प्राप्तकालं स्वबुद्ध्या तु आसाद्यायतनं हरेः।
स्मरन् सर्वेश्वरं सम्यक् समुत्सृजति विग्रहम् ।। 511 ।।
यानैश्चन्द्रप्रकाशैश्च दिव्यस्त्रीजनसङ्‌घकैः।
वीज्यमानो दिवं याति पूज्यमानस्तथाऽमरैः ।। 512 ।।
भुञ्जीत सकलान् भोगान् सर्वलोकान्तरोद्भवान्।
यः कुर्याद्‌भूषणारोपं निष्कामः प्रीतये विभोः ।। 513 ।।
संप्राप्य विष्णुलोकं स आस्ते कल्पशतान् बहून्।
कालेन महतासाद्य मानुष्यं पुनरेव हि ।। 514 ।।
शुभे काले शुभे देशे जायते सुशुभे कुले।
निवृत्ते बालभावे तु व्यक्ते करणसङ्‌ग्रहे ।। 515 ।।
बुद्धितत्वे प्रबुद्धे तु ऋगभ्यासवशात्तु वै।
कर्मणा मनसा वाचा नारायणपरो भवेत् ।। 516 ।।
नित्यं क्रियापरो धीमान् ब्रह्नण्यः सत्यविक्रमः।
अनन्ययाजी शुद्धात्मा दुष्टसङ्गविवर्जितः ।। 517 ।।
व्याधिशोकविनिर्मुक्तः पुत्रदारादिकैर्युतः।
अपमृत्युविनिर्मुक्तो ज्ञानमासाद्य निर्मलम् ।। 518 ।।
श्वेतद्वीपं समासाद्य सुराणां यत् सुदुर्लभम्।
ज्ञानिनामपि चान्येषां तत्र दृष्ट्वा जगत्पतिम् ।। 519 ।।
परब्रह्नत्वमायाति तत्कर्मपरमः पुमान्।
पश्यन्त्यारोप्यमाणं ये ब्रह्नसूत्रं जगत्प्रभोः ।। 520 ।।
तथानुमोदन्त्यन्योन्यं यान्ति ते परमां गतिम्।
श्रृण्वन्ति ये विधानं तु पवित्रं पापनाशनम् ।। 521 ।।
प्राप्नुवन्ति च ते पुण्यमिष्टापूर्तोदितं हि यत्।
नारी ह्यनन्यशरणा पतिना परिचोदिता ।। 522 ।।
तद्भक्ता सद्‌गुणा साध्वी कर्मणा मनसा गिरा।
नित्यं भर्तरि चाद्रोहा प्रयाता सह तेन वै ।। 523 ।।
पवित्रकं जगद्योनेरारोपयति वा द्विज!।
सातुलं चैव सौभाग्यं प्राप्नुयादचिरेण तु ।। 524 ।।
देहान्ते देवनारीणां देवानां याति पूज्यताम्।
सा त्वरुन्धतिपूर्वाणामर्वाक् समभिवीक्ष्यते ।। 525 ।।
ज्ञानमासादयत्यन्ते येन यात्यच्युतं पदम्।
प्रोत्तारयति बन्धूनां दुष्कृतेभ्योऽब्जसंभव! ।। 526 ।।
पितॄणां जनकादीनां नाम्ना स्नेहपरस्तु यः।
ददाति भूषणं विप्र! मन्त्री मन्त्रात्मनो विभोः ।। 527 ।।
दुर्गतेः सुगतिं यान्ति द्युसिन्धोरस्थिना यथा।
यथा सुराणाममृतं नृणं गाङ्गं यथा जलम् ।। 528 ।।
स्वधा यथा पितॄणां च कर्मिणां तद्वदेव हि।
पवित्रकं क्रियाढ्यानां पावनं भूतिवर्धनम् ।। 529 ।।
सर्वदोषभयघ्नं च सर्वोपद्रवनाशनम्।
सर्वसौख्यप्रदं चैव सर्वगुह्यप्रकाशनम् ।। 530 ।।
तपोदानव्रतानां च विहितस्याह्निकस्य च।
निश्शेषयागभोगानां कृत्वा संपूरणक्रियाम् ।। 531 ।।
अपरेऽहनि वै कुर्याच्चतुर्थे सप्तमेऽपि वा।
स्नपनं पूज्यमन्त्रस्य तीर्थोद्देशेऽथ सङ्गमे ।। 532 ।।
नद्यां समुद्रगामिन्यां देवखाते ह्रदे तु वा।
प्रीतये परमेशस्य त्वात्मनो दुःखहानये ।। 533 ।।
आह्‌लादायामराणां च पितॄणां तृप्तये तु वै।
आप्यायनार्थं भूतानां भुवनानां च भूतये ।। 534 ।।
देशदोषप्रशान्त्यर्थं गोब्राह्नणहिताय वै।
यथावत् स्रपनं कुर्यात्रीर्थबिम्बे विशेषतः ।। 535 ।।
नित्यस्नपनबिम्बे वा कुर्यात्तत्तदसन्निधौ।
नित्योत्सवपरे बिम्बे ह्याचरेत्तदसन्निधौ ।। 536 ।।
तदभावे पवित्रे तु दर्भमञ्जरिजे शुभे।
विधानमत्र मे सम्यक् श्रृणु विप्र! समाहितः ।। 537 ।।
बहुशाखमभग्नाग्रं समूलं यदपुष्पितम्।
प्राङ्‌मुखो दर्भमादाय प्रणवेन पुरा क्षितेः ।। 538 ।।
ततस्तेनैव तन्मूलं प्राग्वत् कुर्यादधिष्ठितम्।
तस्य मद्यमनालं यन्न्यग्भूतमवतिष्ठते ।। 539 ।।
आराध्य मन्त्रनाथेन स्मरेद्व्याप्तं महात्मना।
विवर्तं परमात्मीयमध्यक्षाख्यं च विद्धि तम् ।। 540 ।।
अनेकगर्भमुच्चं यत् काण्डं काण्डेषु चोत्तमम्।
अणिमादिगुणैर्युक्तं पुंस्तत्वं तेन कल्प्यते ।। 541 ।।
वाचकं तस्य योक्तव्यं हंसयुक्तं द्विलक्षणम्।
बहिष्काण्डचतुष्केण चित्तपूर्वं चतुष्टयम् ।। 542 ।।
ग्रथनीयमथो वक्त्रमव्यक्तान्तं स्वकैः पदैः।
प्रणवादिनमोन्तैस्तु व्यापकं सूक्ष्मलक्षणम् ।। 543 ।।
एवं श्रोत्रादिकान् पञ्च स्वनाम्ना ग्रथयेत्तदा।
कर्मेन्द्रियाणि तदनु ततस्तन्मात्रपञ्चकम् ।। 544 ।।
पञ्चकं त्वथ भूतानां बद्‌ध्वा वै क्ष्मावसानिकम्।
अवशिष्टैस्तु तत्काण्डैर्बध्नीयात्तु करण्डवत् ।। 545 ।।
विना शिखासमूहेन समुत्थानावधेरथ।
किञ्चित्तदूर्ध्वदेशाच्च यथा नो याति वै पुनः ।। 546 ।।
बहुधा काण्डसङ्‌घस्तु कल्पितस्तत्त्वसंख्यया।
विभिन्नानां च काण्डानां भङ्गादेकतरस्य च ।। 547 ।।
उत्पद्यतेऽन्यथात्वं च तस्मात्तद्‌ग्रथयेद्‌दृढम्।
दर्भमञ्जरिजं त्वेवं सम्पाद्यादौ पवित्रकम् ।। 548 ।।
अनुसन्धीयते तत्र मान्त्रध्यानं यथास्थितम्।
पूजयित्वार्घ्यपुष्पाद्यैरलङ्कत्य पठेदिदम् ।। 549 ।।
"त्वमेव तीर्थं भगवंस्त्वमेवायतनं परम्।
त्वयैवाधिष्ठितं सर्वमिदं जानामि तत्त्वतः ।। 550 ।।
तत्रापि च त्वया दिष्टं क्रियाकाण्डं शुभप्रदम्।
यत्तन्निर्वाहयाम्यद्य त्वदनुग्रहकाम्यया" ।। 551 ।।
एवं विज्ञाप्य भगवन्! मन्त्रमूर्तिं परात्परम्।
तत्पत्रपात्रगं कृत्वा ब्रह्नयानगतं तु वा ।। 552 ।।
वेदगेयध्वनीशङ्खशब्दमङ्गलपूर्वकम्।
नीत्वा तीर्थान्तिकं तत्र तीरदेशे निधाय च ।। 553 ।।
पूर्वामुखं च तद्यानमादाय च पवित्रकम्।
वामहस्ततले कुर्यात् क्ष्मामण्डलगतं त्विव ।। 554 ।।
विधृयान्मध्यभागाच्च पाणिना दक्षिणेन तु।
अवतीर्याम्भसो मध्यं निमज्जेत् सह तेन वै ।। 555 ।।
सन्निधिं तत्र तत्कालं प्रकुर्वन्त्यचिरात्तु वै।
निश्शेषाणि च तीर्थानि लोकत्रयगतानि च ।। 556 ।।
मन्त्रात्मा यत्र रक्षार्थं क्षणमास्ते जलाशये।
तत्रायतनतीर्थानां सर्वेषां स्यात् समागमः ।। 557 ।।
किं पुनर्यत्र भगवान् मन्त्रमूर्तिरधोक्षजः।
साधकाभ्यर्थितः स्नायात् सर्वानुग्रहया धिया ।। 558 ।।
विद्वान् योऽनेन विधिना तीर्थमासाद्य तत्ववित्।
स्नापयेद्बान्धवादीनां प्राप्नुवन्त्यचिराच्च ते ।। 559 ।।
तैर्थं फलमनायासान्मन्त्रमूर्तेः प्रसादतः।
किं तु तद्यानवादित्रवर्जितस्तु भवेद्विधिः ।। 560 ।।
इमं विद्धि महाबुद्धे! विशेषं चात्र कर्मणि।
सामान्यमविनाशं यच्चिन्मयं रूपवर्जितम् ।। 561 ।।
विशेषज्ञानसंबद्धं जीवहंसं विभाव्य तम्।
पवित्रकं तदाकारं स्मृत्वाऽऽप्लाव्यं ततोऽम्भसा ।। 562 ।।
एवं तेनैव चान्येषां बहूनां बहुभिस्तु वा।
सम्पाद्यं विष्टरे स्नानं दूरस्थानां सदैव हि ।। 563 ।।
सम्पन्ने स्नपने त्वेवं द्वितीयेऽह्नि महामते!।
रथे कृत्वार्चिते तं वै प्रपूज्य च यथाविधि ।। 564 ।।
यात्राख्यमुत्सवं कुर्यादन्नदानपुरस्सरम्।
सनृत्तगेयवादित्रं जागरेण समन्वितम् ।। 565 ।।
एकरात्रं द्विरात्रं वा त्निरात्रं भक्तिपूर्वकम्।
सकृत् संवत्सरस्यान्ते तूत्सवं स्नपनादिकम् ।। 566 ।।
कुर्याद्यो मन्त्रनाथस्य स सिद्धिं लभते पराम्।
प्रस्वापे च प्रबोधे च हयुत्सवे वत्सरीयके ।। 567 ।।
तथा सहस्रकलशैरबिषेकविधावपि।
अङ्‌कुरारोपणे चैव मन्त्राह्गाभरणे द्विज! ।। 568 ।।
विविधासु प्रतिष्ठासु जीर्णोद्धारविधावपि।
प्रायश्चित्तेषु मुख्येषु तुलाभारादिकेऽपि च ।। 569 ।।
एवमादिनिमित्तेषु काम्येष्वपि तथैव च।
द्वादश्यादिषु कालेषु कल्पयेद्यागपूर्वकम् ।। 570 ।।
यागमण्डपविन्यासं चतुस्स्थानार्चनक्रियाम्।
तत्रायं हि विशेषः स्यात् पूर्वेद्युः कर्मवासरात् ।। 571 ।।
रजन्यामधिवासःस्यात् प्रभाते कर्म तद्भवेत्।
उत्सवेषु तदारम्भवासरे ह्यधिवासनम् ।। 572 ।।
तद्रात्रौ कर्म कुर्वीत कुम्भाद्यर्चनपूर्वकम्।
पुष्पयागेषु विप्रेन्द्र! कुर्यात् सद्योऽधिवासनम् ।। 573 ।।
संप्रोक्षणे च पूर्वं तु दहनाप्यायनात्मकम्।
स्याद्वा सर्वत्र तत् सद्यो देशकालानुरूपतः ।। 574 ।।
प्रस्वापे स्वस्तिकं नाम कुर्याद्यागवरं द्विज!।
प्रबोधे तु विवेकाख्यं व्यूहेष्वेकतमं तु वा ।। 575 ।।
उत्सवे ह्येकपझं वा नैकाब्जं चक्रपङ्कजम्।
भूषितं परितो विप्र! केवलः परशूपमैः ।। 576 ।।
कर्तर्यन्तरितैर्वापि यद्वा पझदलोपमैः।
इन्दीवरदलाकारैर्यववल्मीकरूपकैः ।। 577 ।।
यागं वा नवनाभाख्यं यागानामुत्तमोहि सः।
यद्वा कुम्भोदरान्तानां वृत्तादीनां क्रमेण तु ।। 578 ।।
नवानामपि बिम्बानामेकैकं प्रतिवासरम्।
प्रथमाहात् समारभ्य यावन्नवमवासरम् ।। 579 ।।
यागं व्यूहाभिधानं वा नवभिः पङ्कजैर्युतम्।
अथ व्यूहाच्चतुष्पझाद् यावदष्टसरोरुहम् ।। 580 ।।
नवानां व्यूहयागानामेकैकं च क्रमेण तु।
नियमो नवसंख्याख्यस्तत्संख्ये स्यान्महोत्सवे ।। 581 ।।
न्यूनाधिकदिनेऽन्यस्मिन्नुत्सवे नववासरे।
द्वयोरप्येकपझादिविधिः साधारणो भवेत् ।। 582 ।।
सर्वदा पुष्पयागे तु मातुलुङ्गोपमाऽरकैः।
युक्तं चक्राम्बुजं कुर्यादनन्तकलशे द्विज! ।। 583 ।।
चक्राम्बुजं चाभिमतमङकुरारोपणे तथा।
विविधासु प्रतिष्ठासु चक्राब्जे संयजेद्विभुम् ।। 584 ।।
यथाभिमतरूपे तु व्यूहे वाभीप्सिते द्विज!।
भूतावासाह्वये वापि धरुवे वा नित्यसंज्ञके ।। 585 ।।
जीर्णोद्धारादिविधिषु ह्येवमेव महामते!।
क्ष्मापरिग्रहपूर्वेषु सर्वेष्वपि च कर्मसु ।। 586 ।।
प्रायश्चित्तनिमित्ते तु संजाते संकरादिके।
अभीष्टैररकैर्युक्तं कुर्याच्चक्राम्बुजं सदा ।। 587 ।।
तुलाभारादिकेऽप्येवं यद्वा काम्यानुरूपतः।
सङ्‌क्रान्तिद्विचतुष्केषु मेषसंक्रान्तिपूर्वकम् ।। 588 ।।
सदध्वदे तु धर्माख्ये वसुगर्भे क्रमेण तु।
सर्वकाम्ये ह्यमित्रघ्ने ह्यायुष्ये वलभद्रके ।। 589 ।।
आरोग्ये संयजेद्देवं पुण्डरीकाक्षमव्ययम्।
वाग्विभूतिप्रदे चैव मानसाख्येऽयनद्वये ।। 590 ।।
चन्द्रसूर्योपरागे तु जयेऽनन्ते तदेव हि।
द्वादश्योः सुप्रतिष्ठाख्ये बुद्ध्याधारे तु पूर्वयोः ।। 591 ।।
अमोघसंज्ञितेऽन्यासु प्रशस्तासु तिथिष्वपि।
नक्षत्रेषु प्रशस्तेषु यजेद्यागे गुणाकरे ।। 592 ।।
शान्तिकर्मणि वै कुर्याद्यागे शङ्खोदराभिधे।
पूजनं देवदेवस्य यागे वा शान्तिकाह्वये ।। 593 ।।
पौष्टिके च यथायागे ह्यथवा कौस्तुभोदरे।
वनमालोदरे वाथ यष्टव्यो भगवान् विभुः ।। 594 ।।
रक्षाकर्मण्यमित्रघ्ने आरोग्ये वा यजेत् प्रभुम्।
आप्यायनेऽर्धचन्द्राख्ये यद्वा पूर्णएन्दुमण्डले ।। 595 ।।
कजाभिधाने यागे वा यजेत् कुम्भोदरे तु वा।
धर्मार्थी संयजेन्नित्यं देवदेवं जनार्दनम् ।। 596 ।।
सदध्वदेवा धर्माख्ये अघनिर्मोचनेऽथवा।
अर्थार्थी पूजयेन्नित्यं पझे कौमोदकीगदे ।। 597 ।।
वसुगर्भाभिधे यागे सर्वतोभद्रकेऽथवा।
काम्याभिलाषी कुर्वीत सर्वकामप्रदाभिधम् ।। 598 ।।
विजयो राज्यलाभश्च शतारं मिश्रचक्रराट्।
सहस्रारं तु वा मिश्रं मिश्रं वारिजचक्रराट् ।। 599 ।।
इच्छासंख्यारसंपूर्णं सहस्रारावसानकम्।
मोक्षार्थी परमानन्दे यागे वा चक्रपङ्कजे ।। 600 ।।
सहस्रसंख्यासंख्यातैररकैः परिभूषिते।
अथवा मिश्रचक्रे तु तत्संख्यारपरिष्कृते ।। 601 ।।
सर्वेष्वेतेषु यागेषु सर्वेषामपि कर्मणाम्।
पूजयेद्वा जगन्नाथं वासुदेवं सनातनम् ।। 602 ।।
प्रस्वापं च प्रभोधं च उत्सवं वात्सरीयकम्।
पवित्रारोहणं चैव स्थापनं विविधं तथा ।। 603 ।।
जीर्णोद्धारविधानं च तुलाभारादि कर्म च।
प्रायश्चित्तानि मुख्यानि वर्जयित्वा तु कर्मसु ।। 604 ।।
नैमित्तिकाख्येष्वन्येषु सर्वेषु द्विजसत्तम!।
अनुकल्पे यजेद्देवं कुम्भमण्डलके विना ।। 605 ।।
प्रायश्चित्तप्रकारस्तु विभिन्नस्त्रित्रिभेदतः।
उत्तमादिविभागेन कलशे मण्डलक्षितौ ।। 606 ।।
बिम्बेऽग्नौ संयजेद्देवं प्रकारे ह्युत्तमोत्तमे।
कुम्भमण्डलवह्निस्थं यजेत्तन्मध्यमे विभुम् ।। 607 ।।
कुम्भेऽग्नौ च यजेद्देवं विभुं तदधमे द्विज!।
बिम्बेऽग्नौ च यजेद्देवं गुरोरिच्छानुरूपतः ।। 608 ।।
स्नपनैः परभेदोत्थैः स्नापयेन्मध्यमोत्तमे।
अपरोदितभेदैस्तु चतुर्भिः स्नापयेद्विभुम् ।। 609 ।।
क्रमेण मध्यमध्याद्ये न्यूनमद्यावसानिके।
चतुष्टये तदन्यस्मिन्नग्नौ सन्तर्पयेद्विभुम् ।। 610 ।।
प्रायश्चित्तेषु सर्वेषु जपं वापि समाचरेत्।
देशकालस्वसामर्थ्यद्रव्यादेरानुगुण्यतः ।। 611 ।।
प्रायश्चित्तेषु सर्वेषु चतुस्स्थानार्चनादिके।
दशप्रकारे विप्रेन्द्र! दिनसंख्यां निबोध मे ।। 612 ।।
दिनानि चत्वारिंशच्च त्रिंशद्विंशतिरेव च।
तथा पञ्चदशाहश्च क्रमादेकदिनान्तिमम् ।। 613 ।।
एवमष्टादशविधा दिनसंख्या प्रकीर्तिता।
उत्तमोत्तमपूर्वेण भेदेन नवधा तु वा ।। 614 ।।
द्विकद्विकक्रमेणैव तदा द्व्येकदिनान्तिमम्।
प्रायश्चित्तप्रकारस्तु प्रसड्गादत्र कीर्तितः ।। 615 ।।
विस्तरेण प्रवक्ष्यामि ह्युपरिष्टान्महामते!।
इति पावित्रकं सम्यग्विधानं कथितं माय।
इतः परं मुनिश्रेष्ठ! किमन्यच्छ्रोतुमिच्छसि ।। 616 ।।
इति श्रीपाञ्चरात्रे पारमेस्वरसंहितायां क्रियाकाण्डे पवित्रारोपणविधानं नाम द्वादशोऽध्यायः ।।
***************