← अध्यायः ६ परमेश्वरसंहिता
अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →
परमेश्वरसंहितायाः अध्यायाः

।। श्रीः ।।
सप्तमोऽध्यायः
न्यस्त्वास्त्रमासने यायादनलालयमर्घ्यभृत्।
पूर्ववद्‌द्वारयागं तु कृत्वा संप्रविशेत्ततः ।। 1 ।।
तत्र पूर्वोक्तविधिना उपविश्य समाहितः।
नाकुण्डहवनं यस्मात् सिद्धिकृन्मन्त्रयाजिनाम् ।। 2 ।।
तस्मात् कुण्डं सदा कार्यं सौत्रं वा जङ्गमं स्थिरम्।
भगवद्वह्निशक्तेर्वै ज्वालाद्या प्रकृतिः परा ।। 3 ।।
अपरा प्रकृतिर्धिष्ण्या नानाकारा यथानलाः।
अत एताग्निरूपा वै कुण्डा हवनकर्मणि ।। 4 ।।
चतुरश्रादिभेदोत्थाः काम्यानां कर्मणां द्विज!।
सद्रत्नमालाश्रीवत्समकुटाङ्गदलक्षणाः ।। 5 ।।
शङ्खचक्रगदापद्मशार्ङ्गनानाशरोपमाः।
परश्वथं तथा सीरसदृशाः सर्वसिद्धिदाः ।। 6 ।।
वज्राद्यस्त्रचयाकारा भृङ्गारकरकोपमाः।
सर्वे सपीठा विहिताश्चतुस्त्रिद्व्येकमेखलाः ।। 7 ।।
चक्रपद्मगदाशङ्खसमस्तव्यस्तलाञ्छिताः।
ततोष्ठयोनिनिर्वाहैः स्वैरङ्गै रुचिरैर्युताः ।। 8 ।।
आद्वादशाङ्गुलात् कुण्डाः करान्ता ये त्रयोदश।
सर्वाकृतिधराश्चैव जङ्गमा मेखलोज्झिताः ।। 9 ।।
अनुकल्पे तु विहिता भक्तानां मन्त्रतर्पणे।
एक(स्य)द्विहस्तपर्यन्ता यथालक्षणलक्षिताः ।। 10 ।।
भूमावुल्लिख्य संपूर्य धान्यैर्बीजैर्मृदा तु वा।
सामग्रीविरहाच्चापि शश्वत्कर्मसमाप्तये ।। 11 ।।
अनुकल्पानुकल्पे तु नित्यमेवाविरोधकृत्।
प्राजापत्ये दैशिकीये शैष्येऽर्धकरसम्मिते ।। 12 ।।
क्षेत्रे क्रमान्नयेद्वृद्धिं तावदेकैकमङ्गुलम्।
यावदष्टकरं क्षेत्रं धिष्ण्यार्थमुपजायते ।। 13 ।।
एवं स्यान्मानभेदेन एकाशीत्यधिकं शतम्।
एवं कृते शुभे कुण्डे अग्निकार्यं समाचरेत् ।। 14 ।।
चुल्ल्यां वा मल्लके वापि होमं कुर्याद्यथाविधि।
शतार्धसंख्या होमे च कुण्डं स्याद्द्वादशाङ्गुलम् ।। 15 ।।
होमे साष्टशते चैव मुष्ट्यरत्निसमं भवेत्।
होमे सार्धशते चैव सारत्निः सकनिष्ठिका ।। 16 ।।
हस्तं सहस्रहोमे तु अयुताख्ये द्विहस्तकम्।
लक्षहोमे चतुर्हस्तं कोटिहोमेऽष्टहस्तकम् ।। 17 ।।
एवं सुलक्षणं कुण्‍डं विभवानुगुणं शुभम्।
सुधाद्यैर्वर्णकैः शुद्धैर्भूषयित्वोपलिप्य च ।। 18 ।।
सुगन्धैश्चन्दनाद्यैश्च पञ्चगव्यपुरस्सरैः।
कुण्डस्यारम्भकाले तु संस्कारा न कृता यदि ।। 19 ।।
निष्पन्नस्य च ते सर्वे विधेयाश्च क्रमेण तु।
ताडयेदस्त्रमन्त्रेण पुष्पैर्दक्षिणपाणिना ।। 20 ।।
खननं तीक्ष्णशस्त्रेण देशिकश्चास्त्रविद्यया।
गृहीत्वा चैकदेशात्तु कुण्डमध्यात्तु मृत्कणम् ।। 21 ।।
अङ्गुष्ठानामिकाम्यां तु हृदयेन समुद्धरेत्।
अस्त्रेणैव समीकृत्य न स्यान्निम्नोन्नतं यथा ।। 22 ।।
सेचयेत् कवचेनैव कुट्टयेत्तदनन्तरम्।
लेपयेद्गन्धतोयेन अस्त्रेण परिशोधयेत् ।। 23 ।।
अस्त्रजप्तैः कुशाकाण्डैस्तीक्ष्णलाङ्गलवर्जितैः।
अस्त्राभिमन्त्रितेनैव दर्भकाण्डद्वयेन तु ।। 24 ।।
तन्मध्ये च कुशाग्रेण प्राग्भागमवलम्ब्य च।
आरभ्य दक्षिणाशाया लिखेद्रेखामुदग्गताम् ।। 25 ।।
विलिख्यार्गलरेखां प्राक् काष्ठा वैषुवती च सा।
तस्यामुपरि संलिख्य रेखाणां त्रितयं स्फुटम्।। 26 ।।
प्रागग्रं दक्षिणाशादि ह्युदीच्यन्तं च सान्तरम्।
उत्तराशावधिर्यावद्दद्याद्रेखात्रयं तु वा।। 27 ।।
प्रत्यग्भागात् समारभ्य नयेत् पूर्वमुखं तु तत्।
तन्मध्ये त्रितयं चाऽन्य(वाथ)द्रेखाणामुत्तरामुखम् ।। 28 ।।
प्रत्यग्भागात् समारभ्य मद्यैका पिङ्गलाभिधा।
दक्षिणोत्तरयोर्द्वे तु सुषुम्नोडाधिदैवते ।। 29 ।।
नीत्वा शुद्धिमथास्त्रेण, क्षालयेच्छिरसाम्बुना।
संशोष्य कवचेनैव नेत्रेणाथावलोक्य च ।। 30 ।।
विलिप्योद्धृष्य चास्त्रेण प्रपूज्य हृदयेन तु।
दर्भकाण्डद्वयेनाथ मद्ये मद्येऽन्तरीकृते ।। 31 ।।
वर्मणा क्षालनाद्येन चतुप्पथधिया पुनः।
नीत्वा व्यक्तिं यथावच्च हृन्मन्त्रेण महामते! ।। 32 ।।
मृदुदर्भसमूहं च नीरसं चाश्मकुट्टितम्।
शुष्कगोमयचूर्णेन युक्तं गन्धाश्मना सह ।। 33 ।।
कुण्डे द्रोणांशमात्रं तु समारोप्य प्रसार्य च।
अच्छिन्नाग्रैस्ततो दर्भैरस्त्रमन्त्राभिमन्त्रितैः ।। 34 ।।
कुण्डभित्तिगणं सर्वं प्रोत्थितैः परिभूषयेत्।
वर्मणा चाक्षवाटं तु संकल्प्य तदनन्तरम् ।। 35 ।।
समब्यर्च्यार्घ्यपुष्पाद्यैः मध्यतः प्रणवेन तु।
तेनैव विधिना नाभिं पूजयेच्चन्द्रसन्निभाम् ।। 36 ।।
ततः पवित्रकं दार्भं शिखामन्त्राभिमन्त्रितम्।
प्राक् समालभनोपेतं चतुष्पथपदे न्यसेत् ।। 37 ।।
हृन्मन्त्रेण च विन्यस्य तत्रोपर्यथ पूजयेत्।
आधारशक्तिपूर्वं तु आसनं वैष्णवं च यत् ।। 38 ।।
अथवा पूजयेच्छक्तिं केवलाधारसंज्ञिताम्।
तत्र नारायणाख्यां वै शक्तिं विद्योतलक्षणाम् ।। 39 ।।
लक्ष्म्याकृतिपदं प्राप्ताममृतामृतरूपिणीम्।
सर्वातिशायिरूपां च सर्वशक्तिसमन्विताम् ।। 40 ।।
सौकुमार्येण रूपेण सर्ववस्त्वन्तरस्थिताम्।
शाश्वतीं सृष्टिमार्गेण अवतार्य हृदम्बुजे ।। 41 ।।
पुनर्ध्यानक्रमेणैव हृन्मन्त्रेण हृदम्बुजात्।
स्वनामपदयुक्तेन सनमःप्रणवादिना ।। 42 ।।
रेचकेन विनिक्षिप्य कुण्डे हृत्पझमध्यतः।
संपूज्य गन्धपुष्पाद्यैः पझमुद्रां प्रदर्श्य च ।। 43 ।।
ताम्रपात्रेऽथवान्यस्मिन् समादाय हुताशनम्।
आरण्यं लौकिकं वाऽथ मणिजं दर्पणोद्भवम् ।। 44 ।।
निधाय कुण्डस्यैशान्यां संस्कारार्थं च साम्प्रतम्।
सन्ताड्च चास्त्रमन्त्रेण प्रोक्षयेच्छिखया च तम् ।। 45 ।।
हृदाभ्यर्च्यामृतध्यानं दत्त्वाच्छाद्याथ वर्मणा।
मूलं स्मृत्वा समानीय पूरकेण हृदन्तरे ।। 46 ।।
मन्त्रानिलकराकृष्टं कृत्वा तस्माद्विनिर्गतम्।
व्यस्तो गुणगणात् षष्ठस्तेजोनाम गुणो हि यः ।। 47 ।।
परस्य ब्रह्नणः सोऽयं सामान्यं सर्वतेजसाम्।
विरेच्य विन्यसेत्तस्मिन् वन्हिपात्रे पुरार्चिते ।। 48 ।।
ततोऽग्निपात्रमादाय निर्धूममतिदीप्तिमत्।
दक्षिणेन करेणैव पाणिभ्यामथवा द्विज! ।। 49 ।।
भ्रामयित्वा चतुर्धा वै ततः कुण्डान्तरे क्षिपेत्।
ध्यायेदेकत्वमापन्नं ततो मन्त्रार्चिषा सह ।। 50 ।।
याज्ञीयैरिन्धनैः शुष्कैः प्रज्वाल्यास्त्राभिमन्त्रितैः।
हृदा दक्षिणहस्तेन कुर्यात् परिसमूहनम् ।। 51 ।।
प्रदक्षिणक्रमेणैव ह्यार्द्रपाणितलेन तु।
तिर्यक् चाधोमुखस्थेन नखपृष्ठमदर्शयन् ।। 52 ।।
अस्त्राभिमन्त्रितेनैव प्रोक्षयेदर्घ्यवारिणा।
ततस्त्वभग्नमूलाग्रैः समैर्दद्यात् कुशैंस्तरम् ।। 53 ।।
दिशि दिश्युत्तराशान्तं, याम्याशादौ तु सान्तरम्।
चतुर्गुणैश्चतुर्धा वाप्यग्रच्छन्नैः परस्परम् ।। 54 ।।
प्राक्‌प्रान्तैः पूर्वभागाच्च यावदुत्तरगोचरम्।
चतुर्भिरस्त्रजप्तैर्वा चतुर्दिक्षु त्रिधा त्रिधा ।। 55 ।।
चतुर्भिश्च चतुर्भिर्वा प्राक्‌प्रतीच्योरुदङ्‌मुखैः।
दक्षिणोत्तरयोश्चैव तत्संख्यैः प्राङ्‌मुखैर्द्विज! ।। 56 ।।
अवतार्य तदूर्ध्वे तु दक्षिणस्यां तथात्मनः।
द्वन्द्वद्वयप्रयोगेण द्रव्यस्थापनमाचरेत् ।। 57 ।।
परिधींश्चोध्मनिचयं मुक्तदर्भैस्तरण्डिकाम्।
स्रुक्‌स्रुवौ च चतुष्कं यदेकत्र विनिवेश्य च ।। 58 ।।
स्रक्धूपमधुपर्कं च बीजान्येकत्र वै ततः।
कौशेयं धूतकेशं च विष्टरं च घृतं चरुम् ।। 59 ।।
आज्यस्थालीचतुष्कं च निधाय तदनन्तरम्।
प्रणीतं पात्रयुगलं करकं चार्घ्यभाजनम् ।। 60 ।।
चतुष्कमेतदपरं अग्रतो विनिवेश्य च।
प्रादेशमात्राः समिधः प्रभूतं शुष्कमिन्धनम् ।। 61 ।।
पक्ष्मकं स्वेदहृद्वस्त्रं वामभागे निधाय च।
अर्घ्योदकेन सास्त्रेण कृत्स्नं पावनतां नयेत् ।। 62 ।।
सुसमं कुण्डबाह्ये तु प्राग्भागे मेखलाश्रितम्।
पवित्रकाष्टकं कृत्वा तेषु चाष्टविधान् न्यसेत् ।। 63 ।।
क्ष्मादिकां प्रकृतिं देवीमहङ्कारावसानिकाम्।
प्रभवाप्ययभेदेन विभुना चतुरात्मना ।। 64 ।।
अधिष्ठितां महाबुद्धे! तामभ्यर्च्य महात्मना।
स्वनामपदयुक्तेन नतिना प्रणवेन च ।। 65 ।।
ऊर्ध्वाधोमेखलानां तु चतुर्णां दिक्‌चतुष्टये।
कौशेयविष्टरस्थांश्च वासुदेवादिकान् यजेत् ।। 66 ।।
विदिक्ष्वप्यययोगेन ऊर्ध्वान्तमधरात्तु वै।
तद्वदेवार्घ्यपुष्पाद्यैः पूजनीयाः क्रमेण तु ।। 67 ।।
ततस्तन्मूलदेशस्था ब्रह्नवृक्षादिकोत्थिताः।
सपर्णाः सत्वचः स्पष्टा अधोनेमेस्तु चाधिकाः ।। 68 ।।
प्राक्‌प्रत्यगुत्तराग्रौ च प्रागग्रौ दक्षिणोत्तरौ।
चतस्रो वै परिधयः शिखामन्त्रेण पूजयेत् ।। 69 ।।
विष्टराणि ततो दद्यात्तेषु पृष्ठे हृदा मुने!।
तत्पृष्ठे पूजयेन्नित्यं लोकपालान् स्वदिक्‌स्थितान् ।। 70 ।।
दर्भान् प्रसव्यमावेष्ट्य मूलात् प्रादेशसंमितान्।
परतो द्व्यङ्गुलं पाशं कृत्वावेष्ट्य त्रिरग्रतः ।। 71 ।।
पाशे निवेश्य द्वि त्रि(?) गुणं गुणेष्वायम्य मूलतः।
समीकृत्यातिरिक्ताग्राण्यनखं विनिकृन्तयेत् ।। 72 ।।
कृत्वा वेदोपयामं तं वामाङ्‌गुष्ठान्तरार्पयेत्।
स्रुक्‌स्रुवाभ्यां च संस्कारमुपयामाग्रगैः कुशैः ।। 73 ।।
स्रुचं द्वादशधा शोध्य सास्त्रेणोष्णेन वारिणा।
तथैव द्विजशार्दूल! स्रुवं शोध्य द्विधैव तु ।। 74 ।।
तथैव स्रुक्‌स्रुवौ ह्येव शिखामन्त्रेण वै ततः।
प्रताप्यास्त्रेण सन्ताड्य सार्घ्यपुष्पासनान्वितैः ।। 75 ।।
तदा प्रमेयं तु स्रुचो ज्ञातव्यं कर्मसिद्धये।
शतपत्रात्मनानन्तो मुष्टिस्थोऽनन्तवक्त्रधृक् ।। 76 ।।
अन्तर्बीजात्मभावेन स्थित्वा चोर्ध्वमुखं पनः।
सप्तस्कन्धं यदध्यात्मभूतप्राणमरुन्महत् ।। 77 ।।
प्रेरितं ब्रह्नरन्ध्रेण तत्तदिच्छावशात् पुनः।
सप्तपातालनागं च अगमत् क्ष्माम्बुजात्मना ।। 78 ।।
यदाश्रित्य स्ववाहे तु अमृतात्मा जलस्थितः।
सचक्ररचनाजाले स्थितस्तेजस्त्रिमूर्तिधृक् ।। 79 ।।
शङ्खविग्रहधृग्वायुराज्यकोशं च खं ततः।
निर्बींजमजमक्षोभ्यमाद्यं स्यादधिदैवतम् ।। 80 ।।
अपरस्मिन् स्रुवे ज्ञेयं यथा ज्ञायेत तच्छृणु।
साक्षादमृतमूर्तिर्वै वरुणः कलशात्मना ।। 81 ।।
नालात्मना तदस्त्रं च संस्थितं विघ्नधीतिकृत्।
जगदाप्यायकृच्चन्द्रः पझत्वेनाग्रदेशतः ।। 82 ।।
आनन्दारव्यं हि सामर्थ्यं ज्ञेयं तत् पारमेश्वरम्।
सत्यभूतममेयं च प्रमेयमिदमाच्युतम् ।। 83 ।।
संस्कारकाले त्वारोप्य नित्यं सन्मन्त्रतर्पणे।
स्वसंज्ञा प्रणवोपेता नमस्कारपदान्विता ।। 84 ।।
सर्वेषामर्चने विप्र! आराध्य हृदयेन वा।
पूजयित्वार्घ्यगन्धाद्यैर्न्यस्तमन्त्रगणं ततः ।। 85 ।।
अम्बुपूतेऽथ पात्रे द्वे हेमादिद्रव्यनिर्मिते।
पूरयित्वाम्भसा ताभ्यां विष्टरद्वितयं न्यसेत् ।। 86 ।।
एकस्मिन् मूलमन्त्रं तु सासनं संप्रपूज्य च।
तदस्त्रमपरस्मिन् वै तेन प्रागादितस्तरम् ।। 87 ।।
प्रदक्षिणक्रमेणैव स्रुचा सिच्य निधाय च।
पूरयित्वाऽम्भसा भूयो द्वितीयेन सहोत्तरे ।। 88 ।।
विनिधाय च दिग्भागे अर्चयित्वा प्रणम्य च।
आज्यौघं च तदस्त्रेण प्रोक्षयेत्ताडयेद्‌द्विज! ।। 89 ।।
भाण्डस्थस्य यदाज्यस्य दर्भैः प्रज्वलितैः पुरा।
स्पर्शनं विद्धि संस्कारमधिश्रयणसंज्ञकम् ।। 90 ।।
उपाधिश्रयणं नाम यत्तद्‌द्रावणमुच्यते।
परिवर्तनमन्यस्मिन् भाण्‍डे दोषापनुत्तये ।। 91 ।।
प्रसादीकरणं ह्येतदुच्चस्थेन करेण तु।
पुनरादाय कृत्वाग्रे आधारोपरि यत्नतः ।। 92 ।।
परावर्त्य स्रुवेणादौ चतुस्त्रिद्व्येकसंख्यया।
दर्भकाण्डचतुष्कं तु द्वादशाङ्‌गुलसंमितम् ।। 93 ।।
तिर्यगुत्तानपाणिभ्यामवष्टभ्य च सान्तरम्।
अनामाङ्‌गुष्ठयुग्मेन यथा मध्यं नतं भवेत् ।। 94 ।।
तैराज्यं चतुरो वारानानयेच्चतुरो नयेत्।
अन्तरान्तरयोगेन ह्यात्मनोऽग्नेस्तु संमुखम् ।। 95 ।।
प्रणवेनोक्तसंख्येन कुण्डमध्ये विनिक्षिपेत्।
यद्वा हृदा द्विदर्भेण निनयेदानयेत् त्रिधा ।। 96 ।।
संप्लवोत्प्लवने कृत्वा ततो दार्भं पवित्रकम्।
विनिक्षिपेच्च तन्मध्ये पवित्रीकरणं च तत् ।। 97 ।।
नीराजीकृत्य नेत्रेण कुशाग्रैरर्चिषान्वितैः।
हृदा संयोजनं कुर्यादुपयामस्य तत्र च ।। 98 ।।
तेजसा हृदयस्थेन दृग्गतेनावलोकनम्।
निरीक्षणमिदं विप्र! नेत्रेण हृदयेन वा ।। 99 ।।
निरीक्ष्यैवं तु तत्पश्चात् कवचोदरगं स्मरेत्।
अवगुण्ठनमेतद्धि स्थितं तत्रोपरि स्मरेत् ।। 100 ।।
चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम्।
मन्त्रं वै सौरभीयं च स्फुरदिन्दुशतप्रभम् ।। 101 ।।
तदन्तरस्थं मन्त्रेशं हिमाचलनिभं स्मरेत्।
तत्स्रुतैरमृतौघैश्च शशिजैर्धेनुजैरपि ।। 102 ।।
कवचेनामृतीकृत्य निदध्यादुत्तरे घृतम्।
अमृतीकरणं नाम इदं ते संप्रकाशितम् ।। 103 ।।
सामान्याज्यस्य संस्कारान् कृत्वा पञ्चदश द्विज!।
अथाज्यप्रोक्षणं कुर्याद्योग्यं तदखिलं तु वै ।। 104 ।।
समित्कुसुमपूर्वं तु विष्टरेण स्रुवेण वा।
हृदाज्यसिक्तैः कुसुमैः सर्पिषा वा धिया द्विज! ।। 105 ।।
गर्भाधानादिसंस्कारान् कुर्याद्दारावसानकान्।
श्रीकुक्षिकुहरे यद्वै बहिष्ठस्य प्रवेशनम् ।। 106 ।।
गर्भाधानं तु तद्विद्धि संस्कारं प्रथमं मुने!।
प्राणयोगाच्च या शक्तिर्वाह्नी श्रीजठरे स्थिता ।। 107 ।।
जडरूपाक्षया सूक्ष्मा तस्याश्चित्प्रसरो हि यः।
भगवच्छक्तिचैतन्यसामर्थ्याच्च शनैः शनैः ।। 108 ।।
स्मृत्वैवं जुहुयादाज्यं हृन्मन्त्रेणोदितेन च।
भवेत् पुंसवनं चाग्नोश्चिच्छक्तिनयनात्तु वै ।। 109 ।।
सीमन्ताख्यं तु संस्कारमग्नेः कुर्यादनन्तरम्।
अव्यक्ताश्च तदन्तस्थाः शिरः पाण्यादयोऽखिलाः ।। 110 ।।
स्वां स्वां वै कर्मसीमानं प्रबुद्धाः संश्रयन्ति ये।
विभागकल्पनं तेषां सीमन्तं तदुदाहृतम् ।। 111 ।।
अग्नेर्वै जातकर्मार्थं पूर्ववद्धोमयेत् सकृत्।
निस्सृतस्य च वै गर्भात् स्नातस्य प्राशनं द्विज! ।। 112 ।।
हिरण्यमधुसर्पिर्ब्यां जातकर्म भवेत्तु तत्।
होमयेन्नामकर्मार्थं घृतपूर्णस्वुवेण च ।। 113 ।।
जातस्याग्नेः प्रयत्नेन वासुदेवादिना द्विज!।
अङ्कयेत् सुप्रसिद्धेन नामकर्म भवेदिदम् ।। 114 ।।
अन्नप्राशनकर्मार्थं पूर्ववद्धोममाचरेत्।
एवं संस्कारशुद्धस्य वैष्णवाग्नेः प्रयत्नतः ।। 115 ।।
मन्त्रान्नदानपूर्वं यत्तदन्नप्राशन भवेत्।
शिखाबन्धं यदग्नेस्तु तच्चौलमिति चोच्यते ।। 116 ।।
यदग्नेर्होमयोग्यत्वं तच्चोपनयनं स्मृतम्।
वेदव्रतं च गोदानं समावर्तविवाहकौ ।। 117 ।।
कृत्वानलस्य जिह्वानां भावयेत् सप्तकं पुनः।
नवखण्डे समिद्धाग्नौ कुण्डेऽग्नावर्चिषोद्धते ।। 118 ।।
ईशप्रागनलाख्यानां पदानां भावयेत् त्रयम्।
यातुधाने तु वारुण्ये वायन्ये तु पदत्रये ।। 119 ।।
जिह्वात्रयं तु बोद्धव्यं मध्यतो दक्षिणोत्तरे।
एका चैव परिज्ञेया ताः कमेण निबोध तु ।। 120 ।।
हव्या कव्या च धूम्रा वै तिस्रः प्राच्यां दिशि स्थताः।
काली मनोजवा चेति कराली चेति पश्चिमे ।। 121 ।।
एकां वै लेलिहाख्यां च विद्धि शेषपदत्रये।
रक्तं श्वेतं तथा नीलं कृष्णं पीतं तथारुणम् ।। 122 ।
सौदामिनीनिभं ध्यायेज्जिह्वानां सप्तकं क्रमात्।
स्वस्वबीजैः, स्वसंज्ञैर्वा, सबीजैर्वा स्वनामभिः ।। 123 ।।
एतैर्मन्त्रैर्द्विजश्रेष्ठ! भावयेच्च यथाक्रमम्।
प्रभादीप्तिः प्रकाशा च मरीचिस्तापनी तथा ।। 124 ।।
कराला लेलिहा चैव कुण्डं व्याप्य व्यवस्थिताः।
ईशपूर्वाग्निदिग्भागे प्रभाद्यं त्रितयं स्मृतम् ।। 125 ।।
रक्षोवारुणवायव्ये मरीच्याद्यं त्रयं तु तत्।
उदग्दिङ्भध्यतो याम्ये स्थितैका, लेलिहाभिधा ।। 126 ।।
विभागमेवं ज्ञात्वा वै जिह्वानामग्निकर्मणि।
आधेयोल्लिङ्किताकारं ध्यात्वा कुण्डगतानलम् ।। 127 ।।
तज्जनित्रीं ततः कुण्डाज्ज्वालामार्गेण चोद्गताम्।
परानन्दप्रकाशाभां नासिक्या द्वादशावधि ।। 128 ।।
ततोऽवतारयोगेन प्रविष्टां भावयेद्धदि।
हृन्मन्त्रेणआर्चयित्वाग्निं सार्घ्यपुष्पैश्च निर्मलैः ।। 129 ।।
धूपैर्दीपेन दध्नाच तिलैरक्षतमिश्रितैः।
अन्नैर्भक्ष्यफलोपेतैराज्येन क्रमशो द्विज! ।। 130 ।।
संपूज्यैवं विधाने स्वमन्त्रेणाथवा ततः ।।
तर्पयेत यथाशक्ति तिलाज्याद्यैरनुक्रमात् ।। 131 ।।
आज्येन वा केवलेन सहस्रशतसंख्यया।
दद्यात् पूर्णाहुतिं पश्चात् पूजितां कुसुमादिकैः ।। 132 ।।
स्रुक्‌स्रुवेणोपयामेन ह्यूर्ध्वाधः संस्थितेन च।
स्रुवा संपुटयोगेन वह्नेर्वदनमद्यगम् ।। 133 ।।
प्रादक्षिण्येन चामध्याद्धारापातं समाचरेत्।
नयेन्मद्यपदे निष्ठामाज्यधारां तथा पुनः ।। 134 ।।
प्रदर्श्य हार्दयीं मुद्रामग्निमुद्रा तु वा द्विज!।
नारायणात्मकं वह्नि प्राग्वदभ्यर्चयेत्ततः ।। 135 ।।
पूर्ववच्च स्मरेद्वह्निं साकारं निष्कलप्रभम्।
स्वयोगबलवीर्येण व्यापकं सर्वदिग्गतम् ।। 136 ।।
कदम्बकुसुमाकारं स्वप्रभाभिर्विराजितम्।
कुण्डमापूरयन् सर्वं सर्वाकृत्या तु सर्वतः ।। 137 ।।
एवं हि विततो व्यापी निराकारः सुदीप्तिमान्।
अथ ज्वालाजटाधारे वह्नौ वै कुण्डमध्यतः ।। 138 ।।
अनुसन्धीयते बुद्ध्या विष्टरं तु यथोदितम्।
तदर्चनमथो कुर्यात् पुष्पैर्धूपैः सचन्दनैः ।। 139 ।।
मुद्राबन्धं ततः कुर्यात् पीठामरगणस्य च।
ततोऽवतार्य तन्मद्ये हृदयात् परमेश्वरम् ।। 140 ।।
नीरौदकात् स्वमन्त्रेण दद्यात् पुष्पाञ्जलिं विभोः।
साङ्गं सलाञ्छनं ध्यायेत् सकलं परमेश्वरम् ।। 141 ।।
सांमुख्यं सन्निधानं च सन्निरोधनमाचरेत्।
अर्घ्यप्रदानपूर्वं तु सर्वं कुर्यात्तु पूर्ववत् ।। 142 ।।
मूलबिम्बे यथा ध्यानमग्निमध्ये तथा भवेत्।
यानगे यानगं ध्यायेदग्नौ स्थाने यथास्थितम् ।। 143 ।।
आसीने त्वथ चासीनं शयाने च तथाविधम्।
पझरागारुणरुचिं स्मर्तव्यमनलास्पदे ।। 144 ।।
मूलादिसर्वमन्त्राणां तत्तन्मुद्रां प्रदर्श्य च।
अर्ध्यगन्धादिना पस्चात् पूजयेत् सकलं प्रभुम् ।। 145 ।।
लयभोगात्मना सम्यकू पूर्वोक्तविधिनाऽथवा।
समिद्गणं तु पात्रस्थं कृत्वाभ्यर्च्य हृदा मुने! ।। 146 ।।
शिरसावनतेनैव विनिवेद्य ततः प्रभोः।
इध्मानामष्टकं चापि चतुष्कं द्वयमेव वा ।। 147 ।।
आज्येन सर्वतः सिक्तं ब्रह्नक्षीरद्रुमोद्भवम्।
समादाय द्विधा कृत्वा मूलेन द्विजसत्तम! ।। 148 ।।
निधाय दक्षिणस्यां च मध्ये आग्नेयदिग्गतम्।
विश्रान्तं नैर्ऋतपदे उत्तरस्यां तथापरम् ।। 149 ।।
वाय्वीशपदसंरुद्धमाघाराज्यं ततः क्षिपेत्।
इध्ममूलादथाग्रान्तमिध्मेध्मोपरि संस्थितम् ।। 150 ।।
स्रुवमाज्येन संपूर्य सूर्यबीजेन चिन्तयेत्।
सहस्रांशुं च तन्मध्ये दद्यात् कुण्डस्य दक्षिणे ।। 151 ।।
अपरस्मिन् स्रुचि ध्यात्वा सोमाख्येनाक्षरेण तु।
पूर्णं शशाङ्कबिम्बं च प्रदद्यात्तु तदुत्तरे ।। 152 ।।
संख्यानुगुणमिध्मानां घृतं च जुहुयात्तु वै।
सूर्यसोमात्मकं चाग्नेर्विद्धि तल्लोचनद्वयम् ।। 153 ।।
एतयोरन्तरं यद्वै तदग्नैर्वदनं स्मृतम्।
तत्रैव जुहुयात् पूर्वं समिधां सप्तकं क्रमात् ।। 154 ।।
घृतसिक्तां चतुस्संख्यामेकैकां हि सुपुष्कलाम्।
प्राक्कुह्कुमादिना लिप्तां काष्ठसंज्ञां तु होमयेत् ।। 155 ।।
स्रग्धूपमधुपर्कं च बीजान्नाज्यं यथाक्रमम्।
तत्रान्नसमिदाधाने विशेषोऽयं विधीयते ।। 156 ।।
साधितं संस्कृतेऽग्नौ प्राक्‌ तन्निधायाग्रतश्चरुम्।
समुद्धाट्यावलोक्यादौ संप्रोक्ष्यार्घ्याम्बुना ततः ।। 157 ।।
दर्भकाण्डचतुष्केन सानग्निना तदनु स्पृशेत्।
तन्मध्ये स्रुक्‌चतुष्कं तु मन्त्रेणाज्यस्य निक्षिपेत् ।। 158 ।।
अथादाय स्रुचं तत्र तद्वद्दद्याच्चतुष्टयम्।
चतुरङ्‌गुलमानेन अन्नग्रासमथाहरेत् ।। 159 ।।
तन्निधाय स्रुवा गर्भे तद्‌र्ध्वे पूर्ववद्‌धृतम्।
दद्यादग्नौ चतुष्कं तु क्षिपेदन्नाहुतिं ततः ।। 160 ।।
भूयोऽग्नौ स्रुक्‌चतुष्कं तु ह्याज्यस्यापाद्य यत्नतः।
ततोऽन्यमाज्यसंसिक्तं प्राग्वत् कृत्वाहुतं पुनः ।। 161 ।।
दद्यात् पूर्वप्रयोगेण त्वेवमेव चतुष्टयम्।
हुत्वाप्यन्नाहुतीनां तु ह्याज्याख्यां जुहुयात्ततः ।। 162 ।।
यादृङ्‌निवेद्यते बिम्बे होतव्यश्चापि तादृशः।
स्रुवमध्येन स्रुग्गर्भे एकैकं वा घृतस्य तु ।। 163 ।।
प्रत्येकमन्नसमिधः क्षिपेदाद्यन्तयोस्तथा।
तिलैर्घृतसमायुक्तरैरष्टोत्तरसहस्रकम् ।। 164 ।।
शतं शतार्धं पादं वा यथाशक्ति समाचरेत्।
आज्याक्तैरक्षतैस्तद्वत्तिलैश्च जुहुयात्ततः ।। 165 ।।
अर्धमर्धांशसंयुक्तमधिकं चाग्रवर्तिनाम्।
जपकाले तथा होमे कर्तव्यं सिद्धिमिच्छता ।। 166 ।।
स्विष्टकृद्धवनं कुर्यादन्नग्रासेन वै सकृत्।
काम्यैरवश्यफलदैर्देशकालसमुद्भवैः ।। 167 ।।
तिलैर्घुतेन पयसा दध्ना वा पायसेन तु।
सिद्धान्नैः साधितैर्भक्ष्यैर्बीजैर्लाजैश्च तण्डुलैः ।। 168 ।।
मूलैः फलैः पल्लवैश्च सुप्रशस्तैश्च कोमलैः।
सुगन्धैः स्थलपझाद्यैः पुष्पैर्द्विज! सितादिकैः ।। 169 ।।
गुग्गुलेनाज्यमिश्रेण सज्जश्रीवेष्टकेन वा।
धात्रीफलैश्च सरसैरुत्पलैश्च शुभैस्तथा ।। 170 ।।
सुसितैः सितरक्तैश्च पझैर्बिल्वैः सुशोभनैः।
दूर्वाकाण्डैरभग्नार्ग्रैदन्तिसद्दन्तनिर्मलैः ।। 171 ।।
एधोभिर्ब्रह्नवृक्षोत्थैः क्षीरद्रममयेस्तथा।
अमृताक्षीरसंयुक्ता औदुम्बर्यो मधुप्लुताः ।। 172 ।।
अच्छिन्नाग्रा ह्यभग्नास्च कण्टकैः परिवर्जिताः।
सर्वास्त्रिमधुयुक्ताश्च घृतयुक्तास्तु वा पुनः ।। 173 ।।
योक्तव्यान्यग्निमध्ये तु समिद्भिः सह सर्वदा।
सर्वाण्यन्नविशेषाणि चन्दनादीनि यान्यपि ।। 174 ।।
सदन्तकाष्ठताम्बूलमुत्कटक्षारवर्जितम्।
दाप्यानि लक्षहोमे तु आसनादीनि यानि च ।। 175 ।।
मधुलवणपानाम्बुकटुतैलोज्झितानि च।
आज्ययुक्तैस्तिलैः शान्तिः सिद्धयः सकलास्तथा ।। 176 ।।
धृतेन पयसा दध्ना होमस्तृप्तिं प्रयच्छति।
पायसेन तु सिद्धान्नैर्भक्ष्यैः पुष्टिः सदा भवेत् ।। 177 ।।
बीजैर्धान्यैस्तण्डुलैश्च तर्पितो मन्त्रराड्‌द्विज!।
प्रयच्छति सदा श्रेयः प्रसन्नः परमेश्वरः ।। 178 ।।
पल्लवैः फलमूलैश्च होमस्तुष्टिं प्रयच्छति।
जहाति चापमृत्युं च रोगांश्चोपशमं नयेत् ।। 179 ।।
तर्पितः स्थलपझाद्यैः पुष्पैश्चान्यैः सितादिकैः।
सौभाग्यमतुलं विप्र! अचिरात् संप्रयच्छति ।। 180 ।।
गुग्गुल्वाज्यैर्द्विजारोग्यं शुभैर्धात्रीफलैस्तथा।
शर्करैर्बिल्वफलकैः पञ्चगव्यसमुक्षितैः ।। 181 ।।
आज्याक्तैः पझबीजैश्च लक्ष्मीं शीघ्रं प्रयच्छति।
उत्पलैर्वश्यकामस्तु भोगकामश्च होमयेत् ।। 182 ।।
दूर्वाङ्‌कुरैस्च होमेन आयुषो वृद्धिमाप्नुयात्।
एधोभिश्च शुभैर्होमो माषैः शान्तिप्रदः प्रभुः ।। 183 ।।
तिलानां शस्यते होमो हरिणाननमुद्रया।
घृतस्य कार्षिको होमः क्षीरस्य च विशेषतः ।। 184 ।।
शुक्तिमात्राहुतिर्दध्नः प्रसृतिः पायसस्य च।
ग्रासार्धमानमन्नानां भक्ष्याणां स्वप्रमाणतः ।। 185 ।।
तृतीयं मूलकन्दानां पुष्पाणां स्वप्रमाणतः।
सर्वेषामेव बीजानां मुष्टिना होममाचरेत् ।। 186 ।।
अग्राङ्गलिस्तु लाजानां शालीनां पञ्चकं हुनेत्(!)।
फलानां स्वप्रमाणं च पल्लवानां तथैव च ।। 187 ।।
कर्कन्धुमात्रा गुलिका होतव्या गुग्गुलोः सदा।
धात्रीफलप्रमाणं वा संभवे सति होमयेत् ।। 188 ।।
दूर्वाकाण्डानि विप्रेन्द! चतुरष्टाङ्गुलानि वा।
समित्प्रादेशमानेन समच्छेदास्त्वगन्विताः ।। 189 ।।
अग्नेर्वर्णाश्च गन्धाश्च शब्दाश्चाकृतयस्तथा।
विकारा विशिखाश्चैव संवेद्याः कर्मसिद्धये ।। 190 ।।
पद्मरागद्युतिश्रेष्ठो लाक्षालक्तकसन्निभः।
बार्लाकवर्णो हुतभुग्जयार्थं शस्यते द्विज! ।। 191 ।।
इन्द्रगोपकसंकाशः शोणाभो वाथ पावकः।
शक्रचापनिभः श्रेष्ठः कुङ्‌कुमाभस्तथैव च ।। 192 ।।
रक्तानां पुष्पजातीनां वर्णेनाग्निरिहेष्यते।
सुगन्धद्रव्यगन्धोऽग्निर्घृतगन्धश्च शोभनः ।। 193 ।।
आयुर्दः पद्मगन्ध स्याद्बिल्वगन्धश्च सुव्रत!।
उग्रगन्धोऽभिचारे तु विहितः सर्वदानलः ।। 194 ।।
जीमूतवल्लकीशङ्खमृदङ्गध्वनितुल्यकः।
शब्दोऽग्नेः सिद्धये हेतुरतोऽन्यः स्यादसिद्धिदः ।। 195 ।।
छत्राकारो भवेच्छ्रेष्ठो ध्वजचामररूपकः।
विमानादिवितानानां प्रासादानां वृषस्य च ।। 196 ।।
आकारेणाथ हंसानां मयूराणां च सिद्धिदः।
रक्ताभस्तु यदा वह्निः क्षीणार्चिः परिदृश्यते ।। 197 ।।
भग्नराजोपलाभश्च स्फटिकाभस्तथा शुभः।
यद्रपं कथितं पूर्वं यदि तस्य प्रदक्षिणम् ।। 198 ।।
अन्योन्यत्वं प्रपद्येत तथा सिद्धिकरोऽनलः।
गर्हितेन तु वर्णेन यदि कापोतकादिना ।। 199 ।।
परिवर्तं करोत्यग्निस्तदा विप्रविपर्ययः।
होमान्ते तन्निमित्तं वै होमं कुर्याच्छताधिकम् ।। 200 ।।
विषमाश्च शिखावन्हेस्त्र्यादयश्च शुभावहाः।
ह्रस्वा ह्रस्वोन्नता दीर्घा ज्वाला सिद्धिप्रदा स्मृता ।। 201 ।।
स्निग्धः प्रदक्षिणावर्तः श्रुतिप्रच्छादितध्वनिः।
स नित्यमेव शुभकृद्यदन्यैर्वर्जितो गुणैः ।। 202 ।।
प्रदीप्तेलोलिहानेऽग्नौ निर्धूमे सगुणे तथा।
हृद्ये तुष्टिप्रदे चैव होतव्यं श्रुतिमिच्छता ।। 203 ।।
अल्पतेजोऽल्परूपश्च विस्फुलिङ्गसमन्वितः।
ज्वालाभ्रमविहीनश्च कृशानुर्नैव सिद्धिदः ।। 204 ।।
अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने।
कर्महानिर्भवेत्तस्य त्वाभिचारार्थमश्रुते ।। 205 ।।
दुर्गन्धः पीतवर्णश्च अवलीढश्च योऽशुभः।
प्रभामूर्तिगतो मन्त्रस्तर्पितो यदि सत्तम! ।। 206 ।।
विद्यां प्रयच्छत्यचिराद्दीप्तिस्थो भूप्रदः प्रभुः।
तापयत्याशु शत्रूणां प्रकाशोपर्यवस्थया ।। 207 ।।
शत्रुक्षयं ददात्याशु मरीच्यामूर्ध्वगो विभुः।
तापिन्यामूर्ध्वगो मन्त्रः सर्वतापोपशान्तिदः ।। 208 ।।
विपक्षोच्चाटनं कुर्यात् करालासंस्थितो हुतः।
लेलिहावस्थितो मन्त्रो यदि सन्तर्प्यते मुने! ।। 209 ।।
ददात्यभीप्सितं चैव देहान्ते परमं पदम्।
स्वाहाकारं सदा होमे पूर्णायां वौषडेव च ।। 210 ।।
तमेव शान्तिके कुर्याद्वषडाप्यायने तथा।
स्वधां पितृक्रियायां च फट्‌कारं क्षयकर्मणि ।। 211 ।।
विद्वेषे हुं, वशे ह्रीं च नमो मोक्षप्रसिद्धये।
कर्महोमावसाने च घृतेनापूर्य च स्रुचम् ।। 212 ।।
अभावाच्च प्रभूतेन होमद्रव्येण पूरयेत्।
तत्रोपरि घृतं दद्यात्ततोऽर्घ्यकुसुमादिभिः ।। 213 ।।
मूलदेशात् समारभ्य स्रुक्‌ संपूज्या स्रुवान्विता।
घृतयुक्तं तु तद्‌द्रव्यं स्रुचः पुष्करकुक्षिगम् ।। 214 ।।
द्रवच्चन्द्रोपमं ध्यायेत्ततः पूर्णां समुद्धरेत्।
स्रुग्दण्डे देहनाभौ तु मूले संरुध्य संस्मरेत् ।। 215 ।।
निष्कलं मन्त्रनाथं तु पूर्णशीतांशुविग्रहम्।
आमूलाच्च मरुच्छक्त्या प्रोद्धरेच्च स्वविग्रहात् ।। 216 ।।
विधाय चेश्वराधारे तस्माद्धारामृतं महत्।
नासिकासन्धिमार्गेण स्रुक्‌पझे पतितं स्मरेत् ।। 217 ।।
सामृतामाज्यधारां च वसुधारामिव क्षिपेत्।
मुखमध्ये तु मन्त्रत्य तद्व्रह्नविवरेऽथवा ।। 218 ।।
हृत्पझान्तर्गतां सम्यक् प्रविष्टामनुभावयेत्।
तया वै बृह्नितं मन्त्रं भावयेद्ब्रह्नधारया ।। 219 ।।
तृप्तं हृष्टं च पुष्टं च तुष्टं वै साधकोपरि।
मन्त्रोच्चारसमेता वै शरीरकरणान्विता ।। 220 ।।
ध्यानोपेता द्विजश्रेष्ठ! पूर्णेयं परिपातिता।
सर्वसिद्धिकरी शश्वन्मोक्षलक्ष्मीविवर्धनी ।। 221 ।।
बहु शुष्केन्धनेऽग्नौ च होतव्या कर्मसिद्धये।
एका अनेकप्रयोगाणां न तु कर्मणि कर्मणि ।। 222 ।।
ततोऽर्घ्यगन्धपुष्पाद्यैर्मन्त्रनाथं समचयेत्।
मुद्रं प्रदर्शयेत् सर्वा मूलमन्त्रादितः क्रमात् ।। 223 ।।
चतुर्थांशेन चाह्गानां कुर्यान्मूलस्य र्तपणम्।
लाञ्छनाभरणानां च लक्ष्म्यादीनां तदर्थतः ।। 224 ।।
अथवा हृदयादीनामतोऽर्धेनाखिलासु च।
परमेश्वरकान्तासु तदर्धेन द्विजोत्तम! ।। 225 ।।
लाञ्छनाभरणादिनि सर्वाणि जुहुयात् क्रमात्।
हृदादिसर्वमन्त्राणाभेकैकं जुहुयात्तु वा ।। 226 ।।
विसर्जनं ततः कुर्याद्दत्त्वार्घ्यं धूपसंयुतम्।
भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम् ।। 227 ।।
मुख्यमन्त्रशरीरं च संप्रविष्टांश्च संस्मरेत्।
ज्वालाज्वालान्तरे यद्वत् समुद्रस्येव निम्नगाः ।। 228 ।।
तन्मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज!।
प्रविष्टं भावयेत् सूक्ष्मे अध्यक्षे हृदयात्मके ।। 229 ।।
परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम्।
तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ।। 230 ।।
सन्धिमार्गेण हृत्पझे संप्रविष्टं तु भावयेत्।
मन्त्रमुद्रासमेतेन पूरकेण तु सत्तम! ।। 231 ।।
बासितं भावयेद्देहं तेनापादाच्छिरोवधि।
प्रविष्टेन तु मन्त्रेण प्रयत्नेन विना द्विज! ।। 232 ।।
विग्रहः कम्पते यस्य मन्त्रस्तस्य प्रसीदति।
एवं विसृज्य मन्त्रेशं मुद्राबन्धेन वै सह ।। 233 ।।
साधारासनमन्त्राणां गणेशस्य गिरः सदा।
गुर्वादीनां तु विहितमर्धं लाञ्छनतर्पणात् ।। 234 ।।
एतेषां च लयं विप्र! कुर्यात् सृष्टिकमेण तु।
द्वार्स्थत्रिलोकपालानां वप्रस्थहरिसेविनाम् ।। 235 ।।
गुरुपूर्वक्रमादित्थमर्धमर्धं यथाक्रमम्।
सकृत् सकृत् स्वशक्त्या वा पूर्णां सर्वेर्ष्वधः क्षिपेत् ।। 236 ।।
विष्वक्‌सेनस्ततो भक्त्या तर्पणीयस्तिलाक्षतैः।
वौषडन्तेन मन्त्रेण दद्यात् पूर्णाहुतिं द्विज! ।। 237 ।।
पूजयित्वा यथान्यायं कुर्यात्तस्य विसर्जनम्।
अनलं पूजयित्वा तु शक्तितस्तर्पयेत्ततः ।। 239 ।।
कुण्डे पुष्पाञ्जलिं क्षिप्त्वा वह्निमन्त्रमनुस्मरन्।
जलनिर्मथितेनैव हयूर्ध्वपुण्‍ड्रचतुष्टयम् ।। 240 ।।
शिरस्तनुत्रहृन्मन्त्रैर्ललाटे चांसयोर्हृदि।
कुण्डस्थभस्मना चैव कुर्याद्दीपशिखाकृतिम् ।। 241 ।।
ज्वालया हृदयं स्पृश्य नेत्रे चास्त्रेण वै पुरा।
क्षान्त्वा चैव नमस्कृत्य यथाविधि विसृज्य तत् ।। 242 ।।
समाघ्राय न्यसेत् कोष्ठे ह्यवतारक्रमेण तु।
प्रतिष्ठिताग्नेः संस्कारं पर्यग्निकरणादितः ।। 243 ।।
विसर्जनं तु कुर्याद्वै धूमच्छेदे न तत्र च।
संमार्ज्य स्रुकूस्रुवेऽग्नौ तु स्रुचं निक्षिप्य चाम्भसा ।। 244 ।।
अर्ध्यपात्रात्तु चापूर्य कुण्डबाह्ये प्रदक्षिणम्।
कुर्यादीशानकोणाद्वै अच्छिद्रोदकधारया ।। 245 ।।
पवित्रकेणाथ ऊर्ध्वे विनिक्षिप्य करेण तु।
दद्याच्छिरसि वै शेषं स्रुगधोवदनां न्यसेत् ।। 246 ।।
आत्मनो वामभागे तु विष्टरस्रुवसंयुतात्।
अपवास्य जलं तस्माद्‌द्वितयस्मात्तदर्चितम् ।। 247 ।।
उपसंहृत्य वै यायादर्चनालयमर्घ्यभृत्।
नमस्कुर्याज्जगन्नाथमष्टाङ्गपतनेन तु ।। 248 ।।
आपूर्य पाणियुगलं पुष्पैस्तत्रोपरि स्थितम्।
संस्मरेन्निष्कलं मन्द्रममृतेनोपबृह्नितम् ।। 249 ।।
प्रभूतदीप्तच्छुरितं निक्षिपेन्मन्त्रमूर्धनि।
"तर्पितोऽसि विभो! भक्त्या होमेनानलमध्यगः ।। 250 ।।
होमद्रव्येषु यद्वीर्यं तदिदं चात्मसात्कुरु"।
विनिवेद्य विभोर्होमं पूजां कृत्वा यथाविधि ।। 251 ।।
गृहीतं भावयेत्तेन प्रसन्नेनान्तरात्मना।
इदमुक्तं समासेन मन्त्रसन्तर्पणं द्विज! ।। 252 ।।
वाच्यं नादीक्षितानां च नाभक्तानां कदाचन।
नानय्दर्शनसंक्थानां नापहासरतात्मनाम् ।। 253 ।।
सद्भावज्ञे तु वक्तव्यं समयज्ञे सपुत्रके।
साधके तु गुरौ वापि भक्ते स्निग्धे विमत्सरे ।। 254 ।।
सत्यधर्मव्रतपरे साचारे शासनस्थिते।
एवं समाप्य होम तमर्घ्यगन्धादिभिर्विभुम् ।। 255 ।।
समभ्यर्च्य पितॄणां च संविभागमथाचरेत्।
पौष्कराख्ये विशेषेण देवदेवेन विस्तृतम् ।। 256 ।।
विधानमेतद् विप्रेन्द्र! प्रोक्तं पुष्करजन्मने।
सात्त्वतोक्तविधानेन तद्विधानं वदामि ते ।। 257 ।।
आराध्यस्याग्रतो विप्र! प्रत्यहं क्रियते तु यत्।
विज्ञेयं संविभागं तदुत्तमं सर्वकर्मणाम् ।। 258 ।।
संविभागात् पितॄणां च भवत्यनृणवान्नरः।
प्रयान्ति तृप्तिमतुलां तेन कर्मवशादपि ।। 259 ।।
निमन्त्रितं वा संप्राप्तं नित्यमङ्गीकृतं तथा।
द्विजेन्द्रं पञ्चकालज्ञं षट्‌कर्मनिरतं तु वा ।। 260 ।।
स्नानादीनि पुरा कृत्वा प्रयतः संविशेत् पुनः।
स्वयमर्ध्याम्बुना विप्र! पवित्रीकृत्य पाणिना ।। 261 ।।
सन्ताड्य कुसुमास्त्रेण मन्त्रास्त्राधिष्ठितेन च।
समुच्चरन्नेत्रमन्त्रमवलोक्याखिलं ततः ।। 262 ।।
निवेश्य भगवत्यग्रे प्रणवाधिष्ठितासने।
पूजिते वितते पूते संमुखं वोत्तराननम् ।। 263 ।।
उदग्दिग्वीक्षणाणं च विनिवेश्य तथा च तम्।
यथा मन्त्रेशदृग्रश्मिप्रसरेणाभिविध्यते ।। 264 ।।
मन्त्रेणाराध्य तं ध्यात्वा भ्रूयात् "संयतवाग्भव"।
तैश्चापि मौननिष्ठैश्च भवितव्यं सुयन्त्रितैः ।। 265 ।।
समाधाय जगन्नाथं हृत्पझगगनेऽर्कवत्।
सत्पात्रस्याथ पात्राभ्यां पात्राणामब्जसंभव! ।। 266 ।।
एवं कृत्वा प्रतिष्ठानं प्राग्यत्नेनात्र कर्मणि।
समुद्दिश्य पितॄन् दद्याद्दानमन्तरवेदिकम् ।। 267 ।।
निवेशितद्विजेन्द्रं यद्व्यक्किस्थमपि मन्त्रराट्।
अन्तर्वेदी तु सा ज्ञेया त्वाब्यामभ्यन्तरं तु यत् ।। 268 ।।
संप्रदानं पितॄणां यत् कुर्यात् सत्पात्रपिव्डकम्।
तद्दिव्यममलं यस्माच्चैतन्यमवलम्ब्य वै ।। 269 ।।
तत्कालसंविभज्याश्च तिष्ठन्ति कमलोद्भव!।
प्रदातृसंकल्पवशादतः पुष्करसंभव! ।। 270 ।।
एकस्य वा बहूनां वा प्रदद्यादासनोपरि।
पुनरेवासनं दार्भमग्रन्थि बहुभिः कुशैः ।। 271 ।।
विभोर्यज्ञाङ्गदेहस्य लोमानि तु कुशाः स्मृताः।
ता एव नाडयः सर्वास्तस्य भूतशरीरगाः ।। 272 ।।
रश्मयो भूतदेहे तु चिन्मूर्तेः शक्तयोऽखिलाः।
अत एव हि विप्रेन्द्र! पितॄणां तु कुशासनम् ।। 273 ।।
श्राद्धकाले तु विहितमाहूतानां तदूर्ध्वतः।
यत्किञ्चिद्दीयते भक्त्या ब्रह्मभूतं तु तद्भवेत् ।। 274 ।।
पुरा वै हेतुमानेन नृणामविदितात्मनाम्।
कर्मण्यत्र कुशाजालं विहितं कमलोद्भव! ।। 275 ।।
येषां सर्वगतं ब्रह्म मन्त्ररूपीश्वरोऽच्युतः।
भावस्थस्तत्वतस्ताभिस्तेषां नैव प्रयोजनम् ।। 276 ।।
न्यसेत्तस्मादभग्नाग्रानुदङ्‌मूलान् कुशान् द्विजः!।
यस्माद्दिव्यमुदग्भागं पित्र्यं दक्षिणसंज्ञकम् ।। 277 ।।
स्वकेनामृतवीर्येण नित्यं संवर्धयन्ति च।
दर्भमार्गच्छलेनैव पितॄणां तेऽमरा द्विज! ।। 278 ।।
वसत्यतः पितृगणो भागमाश्रित्य दक्षिणम्।
चित्कलांशस्वरूपेण नृणामेवं हि चोत्तरे ।। 279 ।।
कृतास्पदा अमला नित्या त्वमृताख्याक्षया कला।
अत एव हि यत्‌ किञ्चिदाब्रह्मविदितैर्द्विज! ।। 280 ।।
प्रदीयते पितॄणां च तत् सव्येन तु पाणिना।
चेऽधिकृत्य जगद्योनिं मन्त्रात्मानमजं हरिम् ।। 281 ।।
प्रयछन्ति पितॄणां च तोयतर्पणपूर्वकम्।
तेषां तदाश्रयत्वाच्च यदुक्तं तन्न कारणम् ।। 282 ।।
कर्तव्यस्य च पारम्यं प्रकृतस्य महामते!।
स्फुरत्यन्तर्गतं येषां मन्त्राराधनपूर्वकम् ।। 283 ।।
तत् स्वोत्तरवशात्तेषां मन्त्रसामुख्यदिग्वशात्।
चेतसा निर्विकल्पेन कृतं भवति चाक्षयम् ।। 284 ।।
किंतु पुष्करसंभूत! दुर्लभा भुवि ते नराः।
इति चेतसि वै येषां निश्चयीकृत्य वर्तते ।। 285 ।।
कुण्‍डस्य योनिदिग्भागे भद्रपीठोर्ध्वतोऽथवा।
समीपे पुरतस्तस्य भूभागे चार्घ्यवारिणा ।। 286 ।।
प्रोक्षिते चास्त्रमन्त्रेण दक्षिणाग्रान् कुशांस्तरेत्।
तदूर्ध्वे पितृतीर्थेन सतिलानक्षतोदकान् ।। 287 ।।
विकिरेदस्त्रजप्तांश्च दर्भाग्रैः प्रणवेन तु।
कौशस्तराग्रपर्यन्तं यस्मादेतद्‌द्वयं द्विज! ।। 288 ।।
सर्वस्य भोगजालस्य जनकं भुवनत्रये।
विशेषात् पितृदेयस्य श्रद्धापूतस्य वस्तुनः ।। 289 ।।
अग्नीषोमस्वरूपेण क्रोडात्मा भगवान् स्वयम्।
व्यक्तः कर्मात्मतत्वानां मूर्तत्वेनात्मसिद्धये ।। 290 ।।
तत्तेजस्तिलभावेन ह्‌लादो वर्तत्यबात्मना।
अत एवाप्रबुद्धानां प्रबुद्धानामपि द्विज! ।। 291 ।।
तिलोदकेऽङ्गभांव तु गछतः श्राद्धकर्मणि।
श्राद्धस्य च परा रक्षा ते द्वे नित्यप्रमन्त्रिणाम् ।। 292 ।।
तत्स्वरूपविदां चेव विशेषान्मन्त्रवेदिनाम्।
एवं तिलोदके बुद्‌ध्वा प्रकाशाह्‌लादलक्षणे ।। 293 ।।
स्तरोर्ध्वे स्वस्वसंज्ञाभिरग्रान्तं तु यथाक्रमम्।
भावयेत् पुरुषादीनां सारूप्यं समुपागतान् ।। 294 ।।
पितॄन्‌ पितामहांश्चैव तथैव प्रपितामहान्।
तप्तितॄंश्चाथ शंसन्तः सन्तानं स्वविभागतः ।। 295 ।।
देवान्नोच्छेषसंयुकं पाकाग्रं पात्रसंभृतम्।
मधुयुक्तेन हविषा दर्भकाण्डैस्तिलैः सह ।। 296 ।।
भावितं वह्निना कृत्वा हृदा दर्भाग्रगेण तु।
निर्दोषं ज्ञस्वभावं च धामत्रयसमप्रभम् ।। 297 ।।
ध्यायेद्‌द्रव्यगतं दोषं निर्दहन्तं समन्ततः।
देवतानां पितॄणां यत् तृप्तयेऽन्नं महामते! ।। 298 ।।
तत् साधनं च विहितं संस्कृतेन पुराग्निना।
तमालकदलीपूर्वदलेषु क्षालितेषु च ।। 299 ।।
संविभज्य चतुर्धान्नं निधाय प्रणवेन तु।
प्रोक्षितान्यन्नपात्राणि चत्वारि कबलानि वा ।। 300 ।।
तृप्तये त्वथ सर्वेषां देवाय विनिवेद्य च।
पितॄणां तर्पयेत्तेन पिण्डाद्यन्नेन सादरम् ।। 301 ।।
क्रमेण प्रागदृष्टानां हृदा संज्ञापदेन तु।
एवं दृष्टस्वरूपाणां ज्ञात्वा तेषां स्थितिं पुरा ।। 302 ।।
प्राग्वत् स्वधावसानाद्यैर्मन्त्रैरोह्कारपूर्वकैः।
हृन्मन्त्रालिङ्गितैर्विप्र! तथा संज्ञापदान्वितैः ।। 303 ।।
"पिण्‍डं प्रकल्पयामी" ति ततः पूर्ववदाचरेत्।
प्रणवैर्दक्षिणाग्राणि सेचितानि तिलाम्बुना ।। 304 ।।
नाडीरूपाणि दर्भाणि पिण्डानामूर्ध्वतो न्यसेत्।
प्रविष्टान् भावयेत्तेषु नाडीमार्गैरनुक्रमात् ।। 305 ।।
"पितॄनावाहयामी" ति स्तरोर्ध्वे प्राक्‌स्थितांस्ततः।
क्रमेण चातुरात्मीयैर्मन्त्रैरप्यययोगतः ।। 306 ।।
समर्चयेद्यथान्यायमर्ध्यगन्धादिभिश्च तान्।
ततस्तु नाम्ना गोत्रेण मन्त्रपूर्वं तिलोदकम् ।। 307 ।।
सर्वेषामर्घ्यकलशात् प्रदद्याच्च यथाक्रमम्।
शिरसावनतेनाथ जानुयुग्मे क्षितौ कृते ।। 308 ।।
पाणियुग्मे ललाटस्थे एकचित्तः पठेदिदम्।
"ओं नमो वः पितरः! नमो वः पुरुषोत्तमाः! ।। 309 ।।
नमो विष्णुपदस्थेभ्यः स्वधा वः पितरो! नमः।
हरये पितृनाथाय ह्यग्नीषोमात्मने नमः ।। 310 ।।
सत्सोमपात्मने विष्णो! नमो बर्हिषदात्मने।
आसंसारं हि जनका अग्निष्वात्ता अथाच्युत! ।। 311 ।।
पितामहाः सोमपास्त्वं त्वमन्ये प्रपितामहाः।
तुभ्यं नमो भगवते पितृमूर्ते! ऽच्युताय च ।। 312 ।।
नारायणाय हंसाय विष्णो! त्रिपुरुषात्मने।
मुक्त्वा त्वामेव भगवन्! न नमाम्यर्चयामि च ।। 313 ।।
न तर्पयामि सर्वेश! नान्यमावाहयाम्यहम्।"
स्तुत्वैवं हि पितृव्यूहं भक्त्या परमया युतम् ।। 314 ।।
संभवे सति संमानं पिण्डमूर्तेः समाचरेत्।
तदग्रतोपविष्टस्य क्रमाद्‌द्विजगणस्य च ।। 315 ।।
अनुसन्धाय वै द्वाभ्यामेकस्मिन् वा द्विजोत्तम!।
देवभावस्थितं ध्यात्वा पित्र्यं प्रागगणं क्रमात् ।। 316 ।।
प्रणवेन खरूपं तु समुत्थाय ततः स्वयम्।
मध्ये तिर्यक्‌स्थितौ स्थित्वा ह्यदूरेऽन्योन्यदृक्‌स्थिते ।। 317 ।।
उत्तराभिमुखश्चैव दक्षिणास्योऽथवा द्विज!।
तदुत्तराननवशाद्धृन्मन्त्रं हृदयान्न्यसेत् ।। 318 ।।
नमोऽन्तं प्रणवाद्यं तु मरुदम्बरविग्रहम्।
पिण्डाग्रे ह्युपविष्टस्य प्राणशक्तिं द्विजस्य वा ।। 319 ।।
बहूनां वा प्रयत्नेन स्वातन्त्र्यान्निर्गतां बहिः।
ध्यात्वा तया सह क्षिप्रमेकीभूतत्वमागतम् ।। 320 ।।
आत्मशक्तौ लयं नीत्वा याति ह्यूष्माख्यलक्षणम्।
कृत्वैवं प्राणसञ्चारं पितॄणां विप्रविग्रहे ।। 321 ।।
प्राग्वदानन्दसंरुद्धे भोजयेत् पितृरूपिणः।
तादर्थ्येनाथ चतुरो विनिवेश्यासनेषु च ।। 322 ।।
लब्धलक्ष्यान् परे तत्त्वे ब्राह्यणान् पाञ्चरात्रिकान्।
प्राङ्‌मुखं द्वितयं चैव द्वितयं चाप्युदङ्‌मुखम् ।। 323 ।।
संपत्यभावे ह्येकं वा विनिवेश्योत्तराननम्।
पादयोरपि पाद्यार्थं कं क्षिपेद्दक्षिणादितः ।। 324 ।।
अथ तेषां क्रमात् कुर्यादर्चनं चातुरात्म्यवत्।
अर्ध्यानुलेपनाद्यैस्तु भोगैर्मात्रावसानिकैः ।। 325 ।।
तत्तत्कालोचितैः सर्वैरनुपादेयवर्जितैः।
तैश्चापि मौननिष्ठैस्तु भवितव्यं सुयन्त्रितैः ।। 326 ।।
अथास्त्रपरिजप्तेन भूतिना वाथ शङ्‌कुना।
मसृणेनाश्मचूर्णेन परिघां स्वधयाथवा ।। 327 ।।
बहिस्तदासने कुर्यात्‌त्वग्रे दैर्घ्याच्छमाधिकाम्।
वैपुल्याच्छममानं तु प्राग्वत् पावनतां नयेत् ।। 328 ।।
न्यसेत् तत्राप्यभग्नाग्रानुदङ्‌मूलान् कुशान् द्विज!।
तत्रापि च विशेषेण तिलतोये समुत्किरेत् ।। 329 ।।
न्यस्तास्त्राण्यस्त्रजप्तानि तत्र पात्राणि विन्यसेत्।
सर्वाणि चक्रवृत्तानि हेमाद्युत्थानि संभवे ।। 330 ।।
पात्राणि कदलीपझतमालच्छदनान्यथ।
दर्भाण्यस्त्राम्बुयुक्तानि शुभपर्णमयानि वा ।। 331 ।।
निदध्यात्तेषु चान्नानि भोज्यानि मधुराण्यपि।
भक्ष्याणि फलमूलानि दधिक्षीरादिकान्यपि ।। 332 ।।
पानकानि रसालानि सपानीयानि सत्तम!।
कर्मण्यानि तथान्यानि तत्तत्कालोद्भवानि च ।। 333 ।।
पुरोपस्तरणार्थं च पात्राणां दक्षपाणिषु।
निपातव्याऽमृती धारा वारिणाप्युद्धतेन च ।। 334 ।।
वाग्यता लब्धलक्षास्तु ह्यन्नमूर्तौ जनार्दने।
येऽश्र्नन्ति पितरस्तेन तृप्तिमायान्ति शाश्वतीम् ।। 335 ।।
अतः सव्यभिचारं तु मौनं वर्ज्यं क्रियापरैः।
शुभमव्यभिचारं यत् तत् कार्यं सर्ववस्तुषु ।। 336 ।।
यदङ्गसङ्केतमयैरव्यक्तैर्नासिकाक्षरैः।
कृतमोष्ठपुटैर्वद्धैर्मौनं तत् सिद्धिहानिकृत् ।। 337 ।।
स्वयमेव स्वबुद्ध्या यत् सर्ववस्तुषु वर्तते।
शब्दैरनुपदिष्टैस्तु तन्मौनं सर्वसिद्धिदम् ।। 338 ।।
तस्माद्वै श्राद्धभोक्तॄणां दिव्ये वा पितृकर्मणि।
दद्यान्नैवेद्यवत् सर्वं मर्यादाभ्यन्तरेऽग्रतः ।। 339 ।।
येनाचमनपर्यन्तं कालं तिष्ठन्ति वाग्यताः।
सर्वेवामेकमाप्तं तु तृप्तये यदि योजितम् ।। 340 ।।
ओमाद्यमस्मच्छब्दं तु पितृभ्यस्तदनन्तरम्।
इदमर्ध्यमिदं पाद्यं तदन्ते संस्मरेत् स्वधाम् ।। 341 ।।
सर्वस्मिन्नुपचारान्ते ह्येवं वा संस्मरेन्नमः।
नमः स्वधाऽथवा ब्रूयान्नमोन्ता त्वथवा स्वधा ।। 342 ।।
एवमेव हि यः कुर्यात् कर्तव्यत्वेन सत्तम!।
तुल्यानां च स्वकुल्यानां नमस्तत्र च केवलम् ।। 343 ।।
सत्युक्ते व्यत्ययं नित्यं बिहितं च स्वधा द्विज!।
स्वयमेव हि सन्यासी ददाति च फलार्थिनाम् ।। 344 ।।
कार्यस्तेन नमस्कारः स्वधान्तो नित्यमेव हि।
ददाति फलकामस्तु यो नित्यमफलार्थिनाम् ।। 345 ।।
स्वधाकारावसाने तु विहितं तत् सदा नमः।
एवमिच्छावशेनैव संविभज्य पितॄन् द्विज!।। 346 ।।
पृष्ट्वा पात्रमुखेनैव संतृप्तिं च पुनः पुनः।
ततोऽम्भश्चुलकं पाणौ हृन्मन्त्रेणामृतोपमम् ।। 347 ।।
दद्यात् पूर्णेन्दुतुल्यं तद्‌ध्यातव्यं तत्कलाः पठन्।
सानुस्वारमकाराद्यैर्भिन्नं षोडशभिः स्वरेः ।। 348 ।।
सकारं नतिनिष्ठं च तत्र प्राक्‌स्थं सतारकम्।
इत्युक्तं सकलस्येन्दोर्वाचकं मन्त्रमब्जज! ।। 349 ।।
पाणिप्रक्षालनात् पूर्वं पातव्यं तेन पूर्ववत्।
येनामृतपुटान्तस्थमन्नवीर्यमनश्वरम् ।। 350 ।।
भवत्याप्यायकृद्व्रह्यन्! पितृदेवगणस्य च।
माषचूर्णादिना पाणिं प्रक्षाल्यामणिबन्धनात् ।। 351 ।।
समाचम्योपसंहृत्य ह्‌युच्छिष्टं च यथाविधि।
पवित्रीकृत्य वसुधां पाणौ कृत्वा तिलोदकम् ।। 352 ।।
प्रीणनं भगवत्यग्रे समुत्थायाचरेत् ततः।
"ममास्तु भगवान् पूर्वं प्रीतः पितृगणस्तथा ।। 353 ।।
शारीरो देवताव्यूह आपादाद्यो व्यवस्थितः।
नयन्त्वमृततामन्नमिदं विष्णुपुरस्सराः ।। 354 ।।
देवा नद्यस्तथा गावः सूर्यः सोमो बृहस्पतिः।
(ओं) माधवो भगवान् मन्त्रमूर्तिर्मधुमयो महान् ।। 355 ।।
मधुभावेन चान्नेऽस्मिन् स्थित्वा तृप्तिं करोतु वै"।
अनुलिप्यासनं कुर्यात् पितॄणां प्रीणनं द्विज! ।। 356 ।।
तस्मिन्नेव हि भूभागे यस्यां तत्पिण्डचित्‌क्षितौ।
स्थितिः सर्वपितॄणां च साम्प्रतं कमलासन! ।। 357 ।।
यावत् प्राणावियुक्तानां पिण्डातां नोपसंहृतिः।
स्वोद्दिष्टानां कृता सम्यक् तदन्ते संव्रजन्ति ते ।। 358 ।।
स्वस्थानमाशिषं दत्वा श्राद्धकर्तुर्धिया मुमे!।
सामृतं सोदकं सान्नं सतिलं मन्त्रतेजसा ।। 359 ।।
विविक्तं वः कृतं मार्गं पुनरागमनाय च।
नारायणाख्यसन्मन्त्रकर्मब्रह्नजवीकृते ।। 360 ।।
स्वे स्वेन्द्रियरथे कृत्वा तृप्ता याताच्युतास्पदम्।
एवं सुवितते कुर्यात् कर्म त्वाराधनालये ।। 361 ।।
संकटे पुनरन्यत्र यायादभ्यर्थ्य मन्त्रराट्।
स्थानं संस्कारसंशुद्धं कृत्वा प्राक् ताडनादिना ।। 362 ।।
व्याप्तिशक्त्याश्रितं भूयस्तोयाधारगतं स्मरेत्।
मन्त्रमर्चनपूर्वं तु तदग्रे सर्वमाचरेत् ।। 363 ।।
देवान् पितॄन् समुद्दिश्य भोजनं भगवद्‌गृहे।
अविरुद्धं द्विजेन्द्राणामन्यथा तद्विरोधकृत् ।। 364 ।।
विधिनानेन वै नित्यमथ यज्ञे तु वैष्णवे।
संविभागः पितॄणां च कार्यः सद्रविर्णैनैरः ।। 365 ।।
कृत्वा तिलोदकान्तं वा फलमूलैः स्वशक्तितः।
तदर्धं ग्रासमात्रं तु दद्याद्गोष्वथ भैक्षुके ।। 366 ।।
यस्माद्दिव्यैर्महामन्त्रैर्दत्तं यत् पूजितेऽच्युते।
पित्रर्थमल्पं वा भूरि तत्तेषामक्षयं भवेत् ।। 367 ।।
सम्यगर्च्यार्घ्यगन्धाद्यैर्मूलमूर्तिगतं विभुम्।
प्राङ्कणेषु च सर्वेषु प्रासादेष्वाश्रयेषु च ।। 368 ।।
प्रतिष्ठितेषु शोभार्थं विभवव्यूहमूर्तिषु।
तथैव गोपुरद्वारदिङ्‌मूर्तिषु च मण्डपे ।। 369 ।।
सान्निध्यं चैव यातासु शक्त्या नित्यं समर्चनम्।
षोडशैरुपचारैर्वा द्वात्रिंशद्भिस्ततोऽधिकैः ।। 370 ।।
कुर्यात्रन्मूर्तिमन्त्रैश्च तथा नैमित्तिकेष्वपि।
जपान्तं हवनान्तं वा स्नानाद्यं साधकस्ततः ।। 371 ।।
तत्तन्मूर्त्यग्रदेशस्थे कुण्डे होमं समाचरेत्।
न कर्मार्चादिकं तत्र स्नपने चोत्सवादिकम् ।। 372 ।।
बलिदानं च सर्वत्र पवित्रारोहणादिकम्।
नाचर्तव्यं विशेषेण परतन्त्रासु मूर्तिषु ।। 373 ।।
नित्याभिषेकमात्रं तु तासु तत्र समाचरेत्।
सितादिवर्णयुक्तासु प्रोक्षणं वा निवेदनम् ।। 374 ।।
मूलालयार्चया सार्धं परतन्त्रासु देशिकैः।
पवित्रारोहणं कार्यमङ्गत्वेनाधिवासितैः ।। 375 ।।
पूरकेषु च सर्वेषु तथैवाग्रयणादिके।
खगेशविष्वक्‌सेनादिपरिवारगणेष्वपि ।। 376 ।।
प्रतिष्ठितेषु गेहेषु पूज्यमाश्रयमूर्तिवत्।
अमूर्तस्य खगेशस्य विष्वक्‌सेनादिकस्य च ।। 377 ।।
कुमुदादिगणेशानां द्वारावरणवासिनाम्।
अन्येषां परिवाराणां महापीठनिवासिनाम् ।। 378 ।।
अग्रे नित्योत्सवार्चाया दद्यात् कालत्रये बलिम्।
साकारो वा निराकारो विष्वक्‌सेनो गणैः सह ।। 379 ।।
यद्वा समर्चनीयश्च बल्यन्ते शिष्टवस्तुभिः।
नित्योत्सवं ततः कुर्यात् सर्वालंकारसंयुतम् ।। 380 ।।
प्राङ्कणद्वारदेवानां बलिदानपुरस्सरम्।
सनकः ---
त्वया नित्योत्सवार्चायाः पुरस्ताद्भगवन्! मम ।। 381 ।।
द्वारावरणदेवानां बलिदानमुदाहृतम्।
तद्विभागं विशेषेण वद मे सर्वसिद्धिदम् ।। 382 ।।
शाण्डिल्यः ---
विस्तृतं तव वक्ष्यामि श्रृणु नित्योत्सवादिकम्।
कृतेन येन भक्तानामभीष्टं जायते फलम् ।। 383 ।।
नित्योत्सवार्थबिम्बं तु सौवर्णं राजतं तु वा।
ताम्रजं पैत्तलं वाथ नात्युच्चं तच्चतुर्भुजम् ।। 384 ।।
मूलबेरानुरूपं च स्थापितं पूजितं पुरा।
वस्त्राभरणमाल्यैश्च यथाशोभमलङ्‌कृतम् ।। 385 ।।
मूलबिम्बगतां शक्तिं तस्मिन्नारोप्य मन्त्रतः।
समभ्यर्च्यार्घ्यपुष्पाद्यैर्भोगैर्धूपान्तिमैस्तथा ।। 386 ।।
आप्तैराराधिते देवे स्वयंव्यक्तालयादिषु।
साधकं वरयेदन्यं बलिदानादिकर्मणि ।। 387 ।।
पुरा गर्भगृहद्वारि तथा चैवाग्रमण्डपे।
घण्टानादसमेतेन दीपेन ज्वलितेन तु ।। 388 ।।
द्वार्स्थानर्घ्यादिधूपान्तैः समभ्यर्च्यार्घ्यवारिणा।
दत्वार्हणं ततश्चान्नं तर्पणाम्भस्ततः परम् ।। 389 ।।
ताम्बूलं च क्रमाद्दत्वा तत्तन्मन्त्रैरनुक्रमात्।
स्वर्णादिनिर्मितं यानं पुरस्तात् प्रथमाङ्कणे ।। 390 ।।
सुगन्धपुष्पप्रभया क्षौमैर्माल्यैः सितादिभिः।
यथाशोभमलंकृत्य तस्मिन् बल्यर्थकौतुकम् ।। 391 ।।
प्राचीमुखं समारोप्य प्राङ्कणेषु प्रदक्षिणम्।
आतपत्रैः सिताद्यैश्च मायूरैः केतुयष्टिभिः ।। 392 ।।
पताकाभिश्चामरैश्च तालवृन्तैश्च शोभनैः।
गणिकादेवदासीभिर्गायकैर्वाद्यसञ्चयैः ।। 393 ।।
भेरीपटहघोषैश्च श्रुतिघोषसमन्वितैः।
एवमाद्यैरलङ्कारैर्गोमयेनोपलेपिते ।। 394 ।।
मण्डले हस्तमात्रे तु बलिदानपुरस्सरम्।
द्वारावरणदेवानां ध्यातानां वा स्वदिक्षु च ।। 395 ।।
वक्ष्यमाणविधानेन नियतोत्सवामाचरेत्।
पीठोर्ध्वे विष्णुभूतानां सगणानामथार्चनम् ।। 396 ।।
कृत्वा समुत्किरेच्छेषं तृप्त्यर्थं सोदकं बलिम्।
पीठं प्रदक्षिणं नीत्वा चतुर्धा वा द्विधा तथा ।। 397 ।।
सन्तोष्य नृत्तगीताद्यैर्देवमन्तः प्रेवशयेत्।
प्राङ्कणेषु विशालेषु बहिष्ठेषु च सादरम् ।। 398 ।।
मण्डितं रथमारोप्य परिभ्रमणमाचरेत्।
यानादेरवरोप्याथ पादुके विनिवेद्य च ।। 399 ।।
अग्रमण्डपभूमिष्ठे भद्रपीठे निवेश्य च।
पाद्यार्घ्याचमनाम्भोभिः चन्दनाद्यनुलेपनैः ।। 400 ।।
माल्यैर्नानाविधैश्चापि धूपैस्ताम्बूलपश्चिमैः।
अभ्यर्च्य श्रमशान्त्यर्थं स्वस्थाने सन्निवेशयेत् ।। 401 ।।
आदौ निवेशितां शक्तिं तस्मिन् मूले नियोज्य च।
तमभ्यर्च्यार्घ्यगन्धाद्यैः प्रणमेत् स्तुतिपूर्वकम् ।। 402 ।।
त्रिकालं यत्र विधिवत् क्रियते नियतोत्सवः।
तत्र सर्वसमृद्धिः स्याद्राज्ञो राष्ट्रस्य चानिशम् ।। 403 ।।
अभावे बलिबिम्बस्य हेतुनाऽसन्निधीकृते।
कूर्चेन वान्नमूर्त्या वा कुर्यान्नित्योत्सवं ततः ।। 404 ।।
निश्शेषस्योपसंहारं कृत्वा चार्घ्यादिकस्य च।
नत्वा स्तुत्वा च देवेशं ततः पाद्यप्रतिग्रहात् ।। 405 ।।
पादोदकं समादाया विग्रहं सेचयेत् स्वक्म्।
भुक्तानि पत्रपुष्पाणि निदद्यान्मूर्धनि स्वके ।। 406 ।।
पुष्पार्घ्यगन्धपूर्वाणां देवयज्ञे कृते सति।
विनयादाहृतानां च भक्तानां मन्त्रसेविनाम् ।। 407 ।।
मूर्ध्नि सन्धारणाच्छश्वद्दौर्भाग्यं क्षयमेति च।
कीर्तिं कान्तिं श्रियारोग्यं सिद्धिं समुपयाति च ।। 408 ।।
पश्चाच्छरीरयात्रार्थमब्यर्थ्य परमेश्वरम्।
लब्धानुज्ञस्तु वै कुर्यादनुयागं यथाविधि ।। 409 ।।
प्रविश्य भोजनस्थानं विविक्तं दोषवर्जितम्।
घृतपूरितपात्रस्थं दीपमारोप्य वै ततः ।। 410 ।।
गोमयेनोपलिप्याथ तुर्यश्रं तत्र मण्डलम्।
प्रणवेन प्रतिष्ठाप्य तन्मध्ये फलकादिकम् ।। 411 ।।
प्रक्षालिताङ्घ्रिः स्वाचान्तस्तन्मद्ये चोपविश्य च।
भोज्यं नैवेद्यपूर्वं तु सर्वमादाय पात्रगम् ।। 412 ।।
विनिवेद्य च देवाय पवित्रीकृत्य चाम्भसा।
सत्यरूपा ह्यलक्ष्या चाप्यन्नदोषक्षयङ्करी ।। 413 ।।
चेतसा चातुरात्मीया भावनीया च भावना।
रसात्माध्यक्षसंज्ञोऽन्ने स्वादुभावे व्यवस्थितः ।। 414 ।।
"प्रद्युम्नो भगवान् रूपे त्वेतद्वीर्ये तु लाङ्गली।
भोक्ताहमात्मा भगवान् वासुदेवः स्वयं त्वजः ।। 415 ।।
इदं तदमृतं ब्रह्न इदमायुरनश्वरम्।
इदं ज्ञानमिदं वीर्यमिदं तेजस्तु वैष्णवम् ।। 416 ।।
इदमिन्दुरखण्डश्च स्थितं चान्नात्मना स्वयम्।
पर्जन्यात्मा स भगवान् व्यञ्जनस्थितिसिद्धये ।। 417 ।।
हार्दानलात्मना भुङ्‌क्ते ह्यद्यक्षः परमेश्वरः।
तच्छक्त्यानुगृहीतत्वात् सोऽहं प्राकृतिकः पुमान्" ।। 418 ।।
एवमन्नदमन्नादं ज्ञेयमन्नं पुरः स्थितम्।
बाह्यतस्चाज्यदानेन संबोधमुपयाति च ।। 419 ।।
यथा तथा म्बुनाभ्येति देहस्थो हुतभुक् प्रभुः।
कारणं रसमन्नस्य षड्‌गुणं षड्रसस्य च ।। 420 ।।
आत्मा ब्रह्नाऽदनात्मा स्यादीषत्तत्करणात्मना।
साम्मुक्यमात्मनो नीत्वा ततोऽन्नं जुहुयाच्छनैः ।। 421 ।।
चतुः प्रणवसञ्जप्तं ततोम्भश्चुलकं पिबेत्।
वक्त्रकुण्डेऽथ तेनैवाप्यन्नाहुतिचतुष्टयम् ।। 422 ।।
प्रान्तपर्वैश्चतुर्धा प्राक् चातुरात्म्यव्यपेक्षया।
त्रियपेक्षावशेनैव जुहुयादाहुतित्रयम् ।। 423 ।।
सहृदा मूलमन्त्रेण भुञ्जीयात् कबलैस्ततः।
प्रयतास्यकरश्चान्ते पिबेन्मन्त्राभिमन्त्रितम् ।। 424 ।।
तोयं तद्‌ध्यानपादाब्जपरिस्रुतमथापि वा।
प्रतिष्ठितस्य वा पूर्वं तदा कृतिधरस्य च ।। 425 ।।
यतस्तत् सर्वपापघ्नं सर्वदोषक्षयङ्करम्।
सर्वोपतापशमनं सर्वसौख्यप्रदं सदा ।। 426 ।।
पावनं सर्वतीर्थेभ्यो मन्त्रेभ्यो मुनिसत्तम!।
अतस्तु भोजनान्ते वै हार्धाग्नेस्तर्पणं पुरा ।। 427 ।।
भावभक्तिपरो नित्यं कं पिबेदाज्यदो भवेत्।
ब्रह्नतीर्थेन च शनैद्बिर्वा त्रिर्वा चतुः क्रमात् ।। 428 ।।
समाचम्य पुनर्यायात् प्रयतो भगवद्‌गृहम्।
मनोबुध्यभिमानेन सह न्यस्य धरातले ।। 429 ।।
कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम्।
प्रदक्षिणसमेतेन त्वेवं रूपेण सर्वदा ।। 430 ।।
अष्टाह्गेन नमस्कुर्याद्‌द्वादशार्णं समुच्चरन्।
यत्र द्वादशकालेज्या कर्तव्या भूतिविस्तरात् ।। 431 ।।
तत्र प्राभातिकीं कुर्यात् पूजामष्टाङ्गसंयुताम्।
अह्गद्वयं तु पास्चात्यं विना वा तां समाष्य च ।। 432 ।।
पितॄणां संविभागं च अनुयागं यथोदितम्।
देशिकः स्वेच्छया कुर्यान्नित्यं मध्यन्दिनार्चने ।। 433 ।।
त्रिकालेष्वेकमष्टाङ्गं षडङ्गं चाचरेद्‌द्वयम्।
योगार्थिनां च स्वाध्यायं योगमध्यात्मसंज्ञितम् ।। 434 ।।
तत्तत्कालेषु कुर्वीत स्वाध्यायमधुनोच्यते।
अष्टाङ्गेन नमस्कृत्य ह्‌युपविश्याग्रतो विभोः ।। 435 ।।
आगमाध्ययनं कुर्यात्तद्वाक्यार्थविचारणम्।
प्राप्तेऽथ सन्ध्यासमये स्नात्वा वा जघनावधि ।। 436 ।।
क्षालयित्वा ततः कुर्याद्वाससां परिवर्तनम्।
सायन्तनार्चनं कुर्यात् षडङ्गं बलिपश्चिमम् ।। 437 ।।
जपं कृत्वा यथाशक्ति स्वासाद्य शयनं ततः।
समाधाय बहिर्देवं निरालम्बपदे स्थितम् ।। 438 ।।
अप्रयत्रेन वै तावदनिरुद्धेन चेतसा।
सह तेनैव ते निद्रा यावदभ्येति साम्प्रतम् ।। 439 ।।
समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रमः।
कमण्डलुस्थिनेनैव समाचम्य तु वारिणा ।। 440 ।।
अथ योगविभूत्यर्थं योगं युञ्जीत वैष्णवम्।
सुगुप्ते विजने देशे निर्द्वन्द्वे शुभलक्षणे ।। 441 ।।
जितदर्पां मतिं कृत्वा सर्वभूतहिते स्थितः।
देवाग्निगुरुभक्तश्च सच्छास्त्राभिरतः सदा ।। 442 ।।
भूतद्रोहपरित्यागी अस्तेयः संयतेन्द्रियः।
आसने चोपविष्टस्तु सुशुभे लक्षणान्विते ।। 443 ।।
शुभदारुसमुत्थे तु चतुर्विशाङ्‌गुलायते।
द्वादशाङ्‌गुलकोत्सेधे सुधौतेनापि वाससा ।। 444 ।।
कुशैश्च मृदुभिश्छन्ने पवित्रेणाथ चर्मणा।
तत्रोपविष्टः सततं योगाङ्गानि समभ्यसेत् ।। 445 ।।
रेचकादिचतुर्भिस्तु मात्राभेदकृतैस्तु यः।
कनीयान् मध्यमो ज्येष्ठः प्राणायामः प्रकीर्तितः ।। 446 ।।
प्रत्याहारं प्रकुर्वीत चित्तसंयमनं तु यत्।
बुद्धिर्मनस्त्वहङ्कारस्त्रिभिश्चित्तं प्रकीर्तितम् ।। 447 ।।
तथापि मनसः कुर्यात् प्रत्याहारं प्रयत्नतः।
मनश्चतुर्विधं प्रोक्तं प्रत्याहारेण निर्जितम् ।। 448 ।।
तिष्ठते लक्ष्यमार्गे तु नान्यथा तु कदाचन।
ध्यानं लक्ष्यस्य निष्पत्तिश्चिन्तनं तत् प्रकीर्तितम् ।। 449 ।।
धारणापि ततो धार्या तदा पापापनुत्तये।
पञ्चधा पूर्ववत् सा तु प्रतिमन्त्रव्यवस्थया ।। 450 ।।
जपं निमीलिताक्षेण कुर्यान्मन्त्रस्य वाचकम्।
वाच्यस्य प्रतिपत्यर्थं बीजपिण्डपदात्मकम् ।। 451 ।।
त्रिविधं वै समुद्दिष्टं प्रागुक्तविधिभावितम्।
योगोऽपि त्रिविधः प्रोक्तस्तं च कार्त्स्न्येन मे श्रृणृ ।। 452 ।।
प्राकृतं पौरुषं चैव ऐश्वरं च तृतीयकम्।
ऊहस्तु कीर्त्यते तर्कः तं च विद्धि विचारकम् ।। 453 ।।
समाधिस्त्वात्मलाभस्तु भानन्दः परिकीर्तितः।
स तु लक्ष्यं परित्यज्य मन्त्रोच्चारणवर्जितः ।। 454 ।।
यदा विभज्यते ब्रह्नकलांशो विधिवर्जिंतः।
समाधौ परिनिष्पन्ने परमाप्नोति पूरुषम् ।। 455 ।।
प्राणायामादितो यावत् समाध्यन्तं प्रकीर्तितम्।
द्गिगुणं त्रिगुणं चैव मात्राभेदेन संस्थितम् ।। 456 ।।
योगासनस्थः कुर्वीत विधिमेवं यथोदितम्।
योगासनानि चत्वारि योगपट्टेन बन्धयेत् ।। 457 ।।
पर्यङ्कं कमलं वापि भद्रं वा स्वस्तिकं दृढम्।
तेषामेकतमे स्थित्वा ऋजुकायोर्ध्वतः क्रमात् ।। 458 ।।
स्रस्ताह्गसन्धिः कुर्वीत विस्तीर्णोरुः सुकन्धरः।
बाहू उपरि समौ कृत्वा किञ्चिदाकुञ्चयेच्छिरः ।। 459 ।।
नाभौ जघनमद्ये तु हस्तौ कच्छपवत् स्थितौ।
सव्यस्य चोपरिस्थं तु वामे सव्यं तथापि वा ।। 460 ।।
उत्तानौ तु करौ कृत्वा कच्छपी तान्नियोजयेत्।
ग्रीवां तु हृदयाद्यन्तां नातिस्तब्धां न कुञ्चिताम् ।। 461 ।।
किञ्चिन्निमीलयेन्नेत्रे नासाग्रमवलोकयन्।
समुद्नवत् पिधायास्यं दन्तैर्दन्तानसंस्पृशन् ।। 462 ।।
सगर्भं योगमातिष्ठेन्निर्गर्भं बा सुयन्त्रितः।
ततः प्रमथयेद्वायुं प्राणाख्यं चित्तसंयुतम् ।। 463 ।।
रेचकादिचतुर्भेदैः प्राणायामः प्रकीर्तितः।
चित्तं जयेत् सदा यत्नाता दुर्जयं देवदानवैः ।। 464 ।।
यद्यप्यभ्यासवैराग्यैः चित्तं संयम्यते बलात्।
तथापि यत्नमातिष्ठेदुपाधीनां तु वर्जने ।। 465 ।।
द्विविधास्ते तु विज्ञेयाः सन्निकृष्टा मनोगताः।
सन्निकृष्ठाः स्थानकृताश्चित्तोत्था वासनाकृताः ।। 466 ।।
न दंशमशकाकीर्णे निश्शब्दे गन्धवर्जिते।
निमीलिताक्षः सन्तिष्ठेत् सर्वेन्द्रियविवर्जितः ।। 467 ।।
एवं परित्यजेत् सर्वानुपाधीन् सन्निकर्षजान्।
वासनोत्थांश्च विविधान् सम्यक् लक्ष्यं समास्थिः ।। 468 ।।
प्रत्याहरेत् सदा चित्तं विक्षिप्तं सर्ववस्तुषु।
तामसं तत्तु बोद्धव्यं चित्तं सर्वगतं तदा ।। 469 ।।
गतं रागादितो ज्ञेयमभ्यासाद्राजसं तु तत्।
तत् साधु कथ्यते चित्तं संश्लिष्टं लक्ष्यगोचरे ।। 470 ।।
सुलीनं च ततो ज्ञेयं गुणातीतं तपोधन!।
ध्यानमेवंविधं कुर्यात् सगर्भं प्राणनिग्रहे ।। 471 ।।
उच्यते च ततो भूयस्त्रिविधा योगिनां गतिः।
सकलं निष्कलं विष्णुं तृतीयं पररूपि च ।। 472 ।।
अन्यत्तत् त्रिविधं ज्ञेयं शब्दं व्योमसविग्रह्णम्।
विग्रहं देवदेवस्य लक्ष्यरूपं विचिन्तयेत् ।। 473 ।।
ध्यानमेवं समुद्दिष्टं यावद्व्योमान्तिकं भवेत्।
तावच्च भावयेल्लक्ष्यं यावल्लक्ष्यं न भावयेत् ।। 474 ।।
भावे ह्यभावमापन्ने सस्वभावः परः स्मृतः।
स्थूलं पूर्वं समब्यस्य ततः सूक्ष्मं ततः परम् ।। 475 ।।
एवं विलीयते चित्तं लक्ष्यं चोपाधिभिः सह।
विग्रंह देवदेवस्य ध्यायेद्धृत्पझगोचरे ।। 476 ।।
ततोऽन्यं चिन्तयेल्लक्ष्यं स्थूलं सूक्ष्मं ततः परम्।
एवमभ्यस्यमानस्य गुणोत्कर्षः प्रजायते ।। 477 ।।
योगोऽयं मुनिशार्ढूल! सामान्यः समुदाहृतः।
परात्पराद्वासुदेवात् प्रकाशानन्दलक्षणात् ।। 478 ।।
अतीन्द्रियादनौपम्यात् सच्चिद्रूपात् सदोदितात्।
द्विभुजादेकमूर्तेश्च वरदाभयपाणिकात् ।। 479 ।।
स्वास्तेः षाड्‌गुण्यसंसिद्धाच्चातुरात्म्यस्वभाविनः।
संशान्तपरमानन्दस्वरूपाद्ब्रह्नणः सतः ।। 480 ।।
अनुग्रहार्थं भक्तानामवतीर्णस्य चेच्छया।
परव्यूहादिरूपस्य दीपाद्दीपवदुज्ज्वलात् ।। 481 ।।
एकाद्यनेकरूपस्य विग्रहोऽयं प्रकाशितः।
तत्र चित्तं समाधाय योगी विज्ञानभावनाम् ।। 482 ।।
तत्तन्मन्त्रपदेनैव योगाभ्यासं समाचरेत्।
एवं यः कुरुते याति स कालेन परात्परम् ।। 483 ।।
प्राप्तुमिच्छति यः शीघ्रं तस्य योगः समुच्यते।
नित्योदितं परं ब्र्हन यत् पुरा ते प्रकाशितम् ।। 484 ।।
वाच्यं तद्‌द्वादशार्णस्य ध्यात्वा युञ्जीत बुद्धिमान्।
नासाग्रे भुवि सद्ब्रह्न ध्यायन् कुर्याज्जपं द्विधा ।। 485 ।।
जिह्वाग्रे तु चतुर्धाप्सु तालुन्यग्नौ तथा च षट्।
जिह्वामध्ये तथा वायावष्टधावर्तयेन्मनुम् ।। 486 ।।
जिह्वामूले तथा व्योम्नि दशधा द्वादशाक्षरम्।
कण्ठकूपे तु मनसि ध्यात्वा षोडशधा जपेत् ।। 487 ।।
उरोदेशे बुद्धितत्वे चतुर्विंशतिधा जपेत्।
उरोन्तेऽहङ्कतौ द्यायञ्जपेच्चाशीतिधा पुनः ।। 488 ।।
शतं कर्मणि कालेऽब्जज! अर्धयुक्तं शतं जपेत्।
ततः पुष्करनाड्यां वै शतद्वयमनाकुलः ।। 489 ।।
अध्यक्षाद्वासुदेवान्तं हृद्याकाशे चतुःशतम्।
हृदि नादावसानोर्ध्वं गगने योजयेत्तु वा ।। 490 ।।
एवं वा प्रणवेनाड्यां प्रणवार्णेन वाचरेत्।
एवं मन्त्रविशेषेण बहुधा योग ईरितः ।। 491 ।।
इति यः कुरुते योगं नित्ययुक्तः समाहितः।
प्राप्नोति परमं स्थानं नित्योदितमनामयम् ।। 492 ।।
समाधायात्मना ऽऽत्मानमेवं जप्त्वा जपक्रियाम्।
ज्ञातृज्ञेयाविभागेन यावत्तन्मयतां व्रजेत् ।। 493 ।।
यथा संवेद्यनिर्मुक्ते समाधौ लभते स्थितिम्।
अब्यासाद्भववद्योगी ब्रह्न सम्पद्यते तदा ।। 494 ।।
ततः श्रमजयं कुर्यात् त्यक्त्वा ध्यानासनक्रमान्।
शय्यासनं निवेद्याथ मूलमूर्तेरनन्तरम् ।। 495 ।।
लक्ष्म्यादिशक्तियुक्तस्य यागमूर्तिगतस्य च।
तस्मिन्नारोपयेद्देवं सर्वाङ्गपरिशोभिते ।। 496 ।।
अर्घ्यं पाद्यं तथाचामं प्रतिग्रहसमन्वितम्।
दत्वा समालभेत् पश्चाच्चन्दनाद्यनुलेपनैः ।। 497 ।।
सुगन्धपुष्पमाल्यादि दीपधूपे निवेद्य च।
भक्ष्याण्यपूपपूर्वाणि सक्षीराणि फलानि च ।। 498 ।।
तर्पणाम्भश्च ताम्बूलं साङ्गं सद्गन्धभावितम्।
निवेद्य देवदेवाय विभवानुगुणं ततः ।। 499 ।।
सर्वं तु विन्यसेत् पश्चात्तस्मिन् कर्मकृतं च यत्।
तुष्टं गृहीतं तत् पूर्णं भावयेद्दक्षिणं करम् ।। 500 ।।
तन्मध्ये निष्कलं मन्त्रं सर्वं यत् किरणाकुलम्।
योगोत्थां फलसम्पत्तिं लक्ष्मीरूपां विचिन्त्य च ।। 501 ।।
मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत्।
भूयश्च निष्कलं मन्त्रं तस्मादुपरि भावयेत् ।। 502 ।।
सशीर्षे जानुनी भूमौ कृत्वा विष्णोर्निवेदयेत्।
प्रसादाभिमुखेनाथ तेन तच्चात्मसात् कतम् ।। 503 ।।
भावनीयं द्विजश्रेष्ठ! परितुष्टेन चादरात्।
सन्यासं सञ्चयं वाथ कृत्वा सम्यक्कृतस्य च ।। 504 ।।
मन्त्ररूपानुकारिण्या मुद्रणीयं च मुद्रया।
फलार्थं प्रसवं येन नैति सन्यासकारिणा ।। 505 ।।
फलपर्यावसाने च कालमागमचोदितम्।
भर्तुर्नो युज्यते येन सिद्धार्थैस्तु फलार्थिनाम् ।। 506 ।।
नित्यं प्रतिष्ठितं बिम्बं विना स्थलजलादिकान्।
विसर्जनं ततः कुर्याद्दत्वार्घ्यं धूपसंयुतम् ।। 507 ।।
भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम्।
मुख्यमन्त्रशरीरं तु संप्रविष्टांश्च संस्मरेत् ।। 508 ।।
ज्वालाज्वालान्तरे यद्वत् समुद्रेष्विव निम्नगाः।
तन्मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज! ।। 509 ।।
प्रविष्टं भावयेत् सूक्ष्मे ह्यध्यक्षे ह्युभयात्मके।
परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् ।। 510 ।।
तस्मात् परं स्फुरद्रूपं निराधारपदाश्रितम्।
दर्पणं दर्शयित्वा तु निर्मलं तस्य चाग्रतः ।। 511 ।।
सन्धिमार्गेण हृत्पझे संप्रविष्टं तु भावयेत्।
स्मृत्वा परात्मना तं च स्वसंविद्गगने हृदि ।। 512 ।।
विश्रान्तं भावयेद्देवं स्वभावेन समन्वितम्।
कर्मार्चादिषु बिम्बेषु षट्‌सु नित्यादिसिद्धये ।। 513 ।।
प्रतिष्ठितेषु विधिवन्नित्यं प्राभातिकेऽर्चने।
तच्छक्त्या योजितां शक्तिं मूलबिम्बाद्यथापुरा ।। 514 ।।
समभ्यर्च्यार्घ्यपुष्पाद्यैस्ताम्बूलान्तैः पुरोदितैः।
पुनरारोपयेन्मूले तत्र तत्र नियोजिताम् ।। 515 ।।
पूजार्थं कर्मबिम्बादौ नित्यनैमित्तिकादिषु।
प्राप्तेषु तत्तत्कर्मादौ मूलादावाह्य मन्त्रवित् ।। 516 ।।
समाप्य तेषु तत्कर्माण्रारब्धानि यथार्थतः।
समर्प्य मूलबिम्बे तु तेभ्यस्तत्र विसर्जयेत् ।। 517 ।।
मन्त्रानर्घ्यादिपात्रस्थान् विसृज्य प्राक् प्रयोगतः।
शेषमर्घ्यादिकं सर्वं भुक्तपूर्वेण वै सह ।। 518 ।।
पाणिना तोयपूतेन विष्वक्‌सेनाय चार्प्य च।
न्यासद्वयं च संहृत्य मनसा च स्वविग्रहात् ।। 519 ।।
निश्शेषस्योपसंहारं कुर्यादर्घ्यादिकस्य च।
यागोद्देशात्तथा कुण्डात्स्तराद्यस्याखिलस्य च ।। 520 ।।
सहोपलेपनेनैव सर्वमंभसि निक्षिपेत्।
धर्तव्यं न चिरं चाग्रे यत् पुरा विनिवेदितम् ।। 521 ।।
नैवेद्यं मन्त्रमूर्तीनां किञ्चित् पुष्पफलादृते।
कवाटबन्धनं कुर्यान्मन्त्रं कवचमुच्चरन् ।। 522 ।।
नियोज्य तत्र रक्षार्थं चक्रं च विहगेश्वरम्।
स्वपेच्छय्यागतो मन्त्री प्रातरुत्थाय पूर्ववत् ।। 523 ।।
यथोक्तं सकलं कुर्यात् प्रबोधयजनादिकम्।
सकृत् त्रयहं च सप्ताहं पक्षं मासमथापि वा ।। 524 ।।
योयजेद्विधिनानेन भक्तिश्रद्धासमन्वितः।
सोऽपि यायात् परं स्थानं किंपुनर्योऽत्र संस्थितः ।। 525 ।।
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे अग्निकार्य पितृसंविभाग नित्योत्सवादि विधानं नाम सप्तमोऽध्यायः ।।
**************