← अध्यायः ५ परमेश्वरसंहिता
अध्यायः ६
[[लेखकः :|]]
अध्यायः ७ →
परमेश्वरसंहितायाः अध्यायाः

।। श्रीः ।।
षष्ठोऽध्यायः
पुराऽनेन विधानेन कृत्वा यागं तु मानसम्।
कर्मणा भक्तियुक्तेन बहिर्वृत्तौ यजेत्ततः ।। 1 ।।
सनकः --
भगवंस्त्वत्प्रसादेन ज्ञातो ह्यज्ञाननाशनः।
ज्ञानविज्ञानसहितो हृद्यागः सर्वसिद्धिदः ।। 2 ।।
किमर्थं बाह्यतः पूजा कार्या वै प्रतिमादिषु।
एतदाचक्ष्व भगवन्नत्र मे संशयो महान् ।। 3 ।।
शाण्डिल्यः ---
बाह्योत्था वासना विप्र! बहुजन्मार्जिता दृढा।
लोलीकृतोऽनया ह्यात्मा शुद्धोऽशुद्धस्वरूपया ।। 4 ।।
या मन्त्रविषया शुद्धा क्रियाशान्तस्वरूपदा।
समुत्थानविनाशार्थं तस्याः संपरिकीर्तिता ।। 5 ।।
स बाह्याभ्यन्तराभ्यां च क्रियाभ्यां तन्मयो भवेत्।
दृढोत्थवासनानां च तानवं स्याच्छनैः शनैः ।। 6 ।।
यन्मयः साधको विप्र! देहस्थः सांप्रतं भवेत्।
तन्मयो देहपातात् स्यादित्येतत् कथितं मया ।। 7 ।।
अथ बाह्योत्थयागस्य विधानमवधारय।
देवं हृत्कमलाकाशे तेजोरूपतया स्थितम् ।। 8 ।।
तस्मात् स्थानात् समानीय तं कुर्यान्नेत्रमद्यगम्।
वासुदेवाभिधानं तु प्रागुक्तं च समाश्रयेत् ।। 9 ।।
ततो लोचनयुग्मेन स्तब्धेन द्विजसत्तम!।
जपन् लोचनमन्त्रं तु अवलोक्याखिलं तु तम् ।। 10 ।।
स्थापितो य उपार्जित्य संभारो ह्युदकादिकः।
ध्यायेद्दक्षिणपाणौ तु अस्त्रमादित्यसन्निभम् ।। 11 ।।
द्रव्यदोषगणं तेन दग्ध्वा तन्मन्त्रमुच्चरन्।
संचिन्त्य भस्मभूतं तु तं सर्वं द्विजसत्तम! ।। 12 ।।
दग्धदोषमथाप्याय्य वामहस्त (तलेन) गतेन तु।
हृदा पूर्णेन्दुतुल्येन अमृतासारवर्षिणा ।। 13 ।।
तन्मन्त्रमुच्चरन् पश्चात् कान्तिमन्तं विचिन्तयेत्।
दग्धमाप्यायितं सर्वमथ चैवं समाचरेत् ।। 14 ।।
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत् पुरा।
संचिन्त्य भस्मभूतं तं ततः पूर्णेन्दुरश्मिभिः ।। 15 ।।
आप्याय्यामृतकल्लोलधारापातेन सत्तम!।
कान्तिमच्चिन्तयेद्भूयो यद्दग्धं भानुना ततः ।। 16 ।।
बध्द्वा कामदुघां मुद्रां स्रवन्तीं मन्त्रसंयुताम्।
गोरूपां हिमशैलाभां निराधारपदे स्थिताम् ।। 17 ।।
तया तदमृतीकुर्याद्भोगजालं यथास्थितम्।
निर्मलो द्रव्यसङ्‌घश्च यागयोग्यो भवेत्तदा ।। 18 ।।
गालितेनाम्बुना पूर्णं स्वाहृतेनाम्बुना सह।
स्वोत्तरे वर्मणा स्थाप्य कुम्भं सर्वोपयोगि यत् ।। 19 ।।
उपार्जितं पुरा यद्वै यागोपकरणं महत्।
तत् सर्वं दक्षिणे कृत्वा मध्ये भद्रासनं न्यसेत् ।। 20 ।।
प्रतिमालक्षणाध्याये वक्ष्यते तस्य लक्षणम्।
यत्किञ्चित् पत्रपुष्पाद्यं परिदृश्येत पीठगम् ।। 21 ।।
पाणिना तत् समाहृत्य शुचिस्थाने निधाय वै।
गव्यैर्वा चामरैर्वालैः शिखिपक्षैः कुशैरथ (पि) ।। 22 ।।
संमार्ज्य भद्रपीठं तु वाससा सुसितेन वा।
बहुना वस्त्रपूतेन वारिणा तदनन्तरम् ।। 23 ।।
प्रक्षाल्य द्वादशार्णेन प्रणवाद्यन्तगेन तु।
एवमाराधनाधारं क्षालयित्वा च वारिणा ।। 24 ।।
तत्तावदस्त्रपुष्पेण कुर्याद्विघ्नगणोज्झितम्।
आराध्योऽयमथारोप्य तत्र मन्त्रमयीं शुभाम् ।। 25 ।।
सर्वोपकरणोपेतां सर्वलक्षणसंयुताम्।
प्रतिमां धातुपाषाणनिर्मितामात्मसिद्धये ।। 26 ।।
अष्टाङ्गेन नमस्कृत्य दद्यादर्घ्यं तु मूर्धनि।
अनुलेपनसंयुक्तं ततः पुष्पाञ्जलिं शुभम् ।। 27 ।।
साङ्गं सावरणं भक्त्या पूजयेत् पुरुषोत्तमम्।
यद्वार्घ्यपाद्याचमनैर्देवमभ्यर्च्य वै ततः ।। 28 ।।
भुक्तमर्घ्यादिकं तस्मादपनीयाभिवाद्य च।
समर्प्य विष्वक्सेनस्य, संशोध्य मृदुना द्विज! ।। 29 ।।
उशीरवंशकूर्चेन क्षालयेद्गन्धवारिणा।
उच्चरन् मूलमन्त्रं वा कुर्यान्मार्गत्रयं विभो! ।। 30 ।।
सुधौते देवदेवस्य वाससी परिधापयेत्।
चित्रस्थाद्भगवद्बिम्बाद्भुक्तपुष्पादिकं हि यत् ।। 31 ।।
अपनीय तु तत् कुर्याद्वाससा रेणुमार्जनम्।
यद्वा प्राग्यागभवनप्रवेशानन्तरं द्विज! ।। 32 ।।
न्यस्य भद्रासनाद्यं तदन्यदन्यत् समाचरेत्।
यद्वा तदातने काले न्यस्य भद्रासनादिकम् ।। 33 ।।
आद्यं मार्गत्रयं कृत्वा यथोक्तविधिना ततः।
योगपीठार्चनारम्भे बिम्बोक्तं सर्वमाचरे (रभे)त् ।। 34 ।।
अथार्घ्यादीनि पात्राणि प्रक्षाल्यास्त्रेण वारिणा।
समापूर्य सुगन्धेन जलेन हृदयेन तु ।। 35 ।।
द्रव्याणि निक्षिपेत्तेषु यथोक्तक्रमयोगतः।
भद्रासनस्य कोणेषु पुरतो वाससास्तृते ।। 36 ।।
भूतले वाऽथ पात्राणि आधारोपरि विन्यसेत्।
स्वपूर्वनियमेनैव उदक्‌पश्चिमकोणगम् ।। 37 ।।
अर्घ्याम्बुकलशं न्यस्य ततः प्रागुत्तरान्तरे।
न्यसेदाचमनीयाख्यमाग्नेये स्नानसंज्ञितम् ।। 38 ।।
विन्यस्य पाद्यसंज्ञं तु पदे दक्षिणपश्चिमे।
अग्रतो वापि तन्मद्ये न्यसेदर्घ्यं द्वितीयकम् ।। 39 ।।
अग्निकोणे त्वर्घ्यपात्रं पाद्यमैशानकोणके।
आचामं नैऋते भागे स्नानार्थं वायवे तथा ।। 40 ।।
ईश्वरप्राग्वशादर्घ्यमाग्नेयादिषु कोणके।
मुख्यामुख्यार्घ्यपाद्यादिक्रमाद्‌द्रव्याणि निक्षिपेत् ।। 41 ।।
चन्दनं शशिबाह्‌लीकदूर्वासिद्धार्थकानि च।
साक्षतानि कुशाग्रणि तण्डुलानि तिलानि च ।। 42 ।।
काञ्चनं रजतं ताम्रं रत्नानि च फलानि च।
कदलीफलपूर्वाणि प्रधानेऽर्घ्ये विनिक्षिपेत् ।। 43 ।।
द्वितीये दधिमध्वाज्यक्षीरबिन्दुचतुष्‍टयम्।
कुशाग्रेण सबाह्‌लीकं सपुष्पं तिल(सित)तण्डुलम् ।। 44 ।।
दूर्वां च विष्णुकान्तां च श्यामाकं शङ्खपुष्पकम्।
पद्मकं कुन्दरेणुं च पाद्यपात्रे विनिक्षिपेत् ।। 45 ।।
एलालवङ्गतक्कोलैः सहजातिफलानि च।
चन्दनं च सकर्पूरं क्षिपेदाचमनीयके ।। 46 ।।
कुष्टं मांसीं हरिद्रे द्वे मुरा शैलेयचम्पकान्।
वचाकच्चोरमुस्ताश्च स्नानीये तु विनिक्षिपेत् ।। 47 ।।
पात्रन्यासक्रमेणैव तानि पात्राणि कल्पयेत्।
तत्तत्कल्पनमन्त्रैस्तु यद्वा प्रागेव तानि तु ।। 48 ।।
तोयैः संपूर्य निक्षिप्य द्रव्याण्यपि यथाक्रमम्।
तत्तत्कल्पनमन्त्रैस्तु स्वाधारेषु निवेशयेत् ।। 49 ।।
यथास्थानं ततः कुर्याद्दहनाप्यायनादिकम्।
पात्राणां तु तदानीं वा भोगानामपि तत् त्रयम् ।। 50 ।।
दक्षिणेन तु हस्तेन पुष्पमादाय तत्र वै।
ध्यात्वा निष्कलरूपं तु मूलमन्त्रमनन्यधीः ।। 51 ।।
तत्प्रोक्षणार्घ्ये निक्षिप्य चतुरावर्त्य तं तथा।
जपन्‌ पुनस्तदुद्‌धृत्य तस्मात् स्थानाद्बहिः क्षिपेत् ।। 52 ।।
ततस्तदम्भसास्त्रेण वेदिं भोगानुपार्जितान्।
आत्मानं चापि संप्रोक्ष्य ह्यर्घ्यादीनभिमन्त्रयेत् ।। 53 ।।
सास्त्रेण मूलमन्त्रेण तानभ्यर्च्य प्रसूनकैः।
साङ्गेन मूलमन्त्रेण ततोऽभ्यर्च्य यथाविधि ।। 54 ।।
धूपपात्रं च घण्टां च तानि धूपेन पूजयेत्।
धूपपात्रस्य घण्टायाः पूजनं चावधारय ।। 55 ।।
धूपपात्रस्य मूले तु क्ष्मातत्वं कमले जलम्।
चक्रेऽग्निं किङ्किणीजाले वायुं खं कर्णिकोपरि ।। 56 ।।
एवं ध्यात्वार्च्य तन्मन्त्रैस्तन्मन्त्रेणार्चयेत्तु वा।
यच्चक्रं तच्च हृदयं पद्मं हृत्कोटरं विदुः ।। 57 ।।
चक्रे याश्च अराख्यास्ता नाड्यो वै द्वादश स्मृताः।
किङ्किण्यो याः स्थिता विप्र! ज्ञेयास्ताः सूक्ष्मनाडयः ।। 58 ।।
यासां वै मध्यमा शक्तिर्भुजङ्गकुटिलोपमा।
धूमधूसरवर्णाभा अण्डं भित्वा विनिर्गता ।। 59 ।।
कालाग्निहृदयोत्था सा सत्यान्ते तु लयं गता।
तया संबोधितो ह्यात्मा मन्त्रमूर्तिधरः प्रभुः ।। 60 ।।
सन्निधौ भवति क्षिप्रमव्युच्छिन्नं दहेत्तथा।
अथ स्वरूपं घण्टाया यथावदवधारय ।। 61 ।।
व्यक्तं तत्राश्रिता नित्यं मातृकावर्णविग्रहा।
तत्र चाक्रमराबृन्दं स्वरद्वादशकं स्मृतम् ।। 62 ।।
तदेव षोडशारे च वर्णैः सह नपुंसकैः।
वर्णानां त्रिविधं रूपं सर्वेषां द्विजसत्तम! ।। 63 ।।
संस्थितं वैखरीनिष्ठं पस्यन्ती पूर्वकं क्रमात्।
अराश्रितं द्विषट्‌कारे वाक्‌स्वरूपं परं हि यत् ।। 64 ।।
तदेव षोडशारे च तत्र वैकर्तने(री)षु च।
मध्यमाख्यस्वरूपेण नित्यमेव हि वर्तते ।। 65 ।।
अत ऊर्ध्वं चतुर्विंशत्संख्यं वर्णगणं हि यत्।
दलजालं हि तत् पद्मं परिज्ञेयं महामते! ।। 66 ।।
मकारसंज्ञं यद्वर्णं विद्धि तत् पद्मकर्णिकाम्।
शङ्खं यकारवर्णं च समुष्टीके सदा गृहे ।। 67 ।।
रादयः सप्त ये वर्णा हान्ताः पर्वगदात्मकाः।
क्षार्णं पतत्रिराजाद्यमेवं ध्यात्वा ततो द्विज! ।। 68 ।।
शब्दब्रह्मस्वरूपा च घण्टाविग्रहलक्षणा।
विज्ञेया भगवच्छक्तिः षाड्‌गुण्यान्तर्गता हि सा ।। 69 ।।
तेजोगुणसमोपेता तैजसद्रव्यरूपधृक्।
घण्टाख्यमेतद्वै विद्धि आध्यक्षीयं गुणद्वयम् ।। 70 ।।
अस्यामाश्रित्य ये वर्णा ज्ञातव्यास्ते सदैव हि।
नित्यमर्चनकाले तु साधकैः सिद्धिलालसैः ।। 71 ।।
कालवैश्वानरोपेतमनन्तं शब्दचोदके।
मुक्ताहाराश्रितं शङ्खं घण्टाया वदने स्थितम् ।। 72 ।।
संस्थितं च महाबुद्धे! तदूर्ध्वे गगनाश्रितम्।
चक्रं यस्मिन्नरोद्देशे द्वादशात्मा स्थितो रविः ।। 73 ।।
मासात्मना पुनः सो वैकर्तनेष्ववतिष्ठते।
षोडशारेऽमृतात्मा वै कलादेहस्तु चन्द्रमाः ।। 74 ।।
सर्वेषु वृत्तक्षेत्रेषु नभस्वान् स्वयमेव हि।
तत्वसङ्घं हि चाव्यक्तं पद्मपत्राश्रितं तु वै ।। 75 ।।
जीवः कमलकिञ्जल्के कर्णिकाश्रित ईश्वरः।
शङ्खाश्रितश्च प्रणवो विद्यां विद्धि गदाश्रिताम् ।। 76 ।।
प्राणाधिदैवं गरुडमित्येवं देवतागणम्।
ध्यात्वार्चयेत् पुरार्घ्याद्यैर्धूपान्तैरथवा द्विज! ।। 77 ।।
अधोमुखं तु ब्रह्माण्डं ध्यायेज्जनरवाकुलम्।
सनालं च तदुर्ध्वे तु पद्ममष्टदलं स्मरेत् ।। 78 ।।
प्रकीर्णपत्रं सुसितं केसरालिसुकर्णिकम्।
तन्मध्ये चिन्तयेद्देवीं वर्गाष्टकभुजान्विताम् ।। 79 ।।
मुख्ये हस्तचतुष्के तु लाञ्छनं कमलादिकम्।
स्फाटिकं चाक्षसूत्रं च तथा विज्ञानपुस्तकम् ।। 80 ।।
अभयं वरदं चैव हस्तद्विद्वितये परे।
पद्मासने चोपविष्टां पद्मपत्रायतेक्षणाम् ।। 81 ।।
पद्मगर्भप्रतीकाशां पद्ममालाविभूषिताम्।
सिताभरणसञ्छन्नां पीतवस्त्रविवेष्टिताम् ।। 82 ।।
मन्त्रौघमुद्गिरन्तीं च मन्त्रज्वालाप्रभान्विताम्।
देवैः संस्तूयमानां च ब्रह्माद्यैर्ब्रह्मवादिभिः ।। 83 ।।
ऋषिभिर्मुनिभिः सिद्धैर्लोकानुग्रहकारिभिः।
नम्यमानां स्मरेत् सम्यक् पूजाकाले सदैव हि ।। 84 ।।
योऽनया पूजयेन्मन्त्रं तस्य सिद्धिर्नदूरतः।
एवं ध्यात्वार्चयेत् सम्यगर्घ्याद्यैस्तु ततः स्मरेत् ।। 85 ।।
शब्दब्रह्ममहो यद्यद्धृदब्जाकाशमध्यगम्।
नित्योदितमनौपम्यमनभ्यासादगोचरम् ।। 86 ।।
उपदेष्टुमतोऽन्येषामभक्तानां न युज्यते।
परस्वरूपमन्त्राणामेतल्लक्षणमब्जज! ।। 87 ।।
दशप्रकारे यच्छब्दे विसर्गान्तेऽक्षरादिके।
नानामन्त्रस्वरूपेण वर्तते वर्णविग्रहे ।। 88 ।।
भोगमोक्षप्रदो मन्त्रो य आप्तः सद्गुरोर्मुखात्।
पञ्चस्थानगतो ज्ञेयो भक्तैर्दिव्यक्रियापरैः ।। 89 ।।
बहिःस्थप्रतिमादौ तु जिह्वाग्रे हृत्कुशेशये।
धूपधूमशिखायां च घण्टाशब्दे सुलक्षणे ।। 90 ।।
स्वरूपज्योतिरेवान्तर्भावयेत् संस्थितं हृदि।
मध्यमेन स्वरूपेण अव्युच्छिन्नं महामते! ।। 91 ।।
धूपधूमाश्रितं विद्धि वैखरीविग्रहं पुनः।
घण्टायां चाल्यमानायामच्छिन्नमनुभूयते ।। 92 ।।
एवं स्मृत्वा ततस्तां तु सुमन्त्रन्यस्तविग्रहाम्।
अर्चितां ध्यानसंयुक्तामर्घ्याद्यैर्धूपसंयुतैः ।। 93 ।।
सञ्चालयेत्ततः सम्यक् सुशब्दां मन्त्रबोधिनीम्।
त्रैलोक्यद्राविणीं घण्टां सर्वदुष्टनिबर्हिणीम् ।। 94 ।।
एषा द्रुतिर्हि मन्त्राणां सुप्तानां च प्रबोधिनी।
वारणी सर्वविघ्नानां सर्वमन्त्रप्रसादिनी ।। 95 ।।
प्रणवान्ते ध्वनिर्ह्येषा शब्दशक्तौ लयं गता।
वर्णदेहाः स्मृता मन्त्रा मन्त्रदेहाश्च देवताः ।। 96 ।।
घण्टास्तनितमूलास्ते प्रबुद्धाः कर्मसिद्धिदाः।
परशब्दोत्थिता शक्तिर्घण्टास्तनितरूपिणी ।। 97 ।।
वर्णत्वं समनुप्राप्ता तैर्वर्णैर्मुनिसत्तम!।
मन्त्राणां कल्पिता देहा नानाकाराः सहस्रशः ।। 98 ।।
स्वेच्छया त्वनया शक्त्या सामर्थ्यात् स्वात्मनः स्वयम्।
अनुग्रहार्थं भविनां भक्तानां भावितात्मनाम् ।। 99 ।।
मननान्मुनिशार्दूल! त्राणं कुर्वन्ति वै यतः।
ददते पदमात्मीयं तस्मान्मन्त्राः प्रकीर्तिताः ।। 100 ।।
अनभिव्यक्तशब्दास्ते निराकारास्तथैव च।
घण्टायां चाल्यमानायां निर्यान्ति च सहस्रशः ।। 101 ।।
अत एव मुनिश्रेष्ठ! मन्त्रमाता प्रकीर्तिता।
एषा घण्टाभिधा शक्तिर्वागीशा च सरस्वती ।। 102 ।।
वाचि मन्त्राः स्थिताः सर्वे वाच्यं मन्त्रे प्रतिष्ठितम्।
मन्त्ररूपात्मकं विश्वं सबाह्याभ्यन्तरं ततः ।। 103 ।।
घण्टाशब्दगतं सर्वं तस्मात्तां चालयेत् पुरा।
स्वेषु चोक्तेषु कालेषु--तांस्तु मे गदतः श्रृणु ।। 104 ।।
गणेशपीठद्वारस्थदेवानामर्चने ततः।
आहूतिकाले मन्त्राणां धूपदाने विशेषतः ।। 105 ।।
दीपदानेऽर्घ्यदाने च तथा नैवेद्यजोषणे।
जपस्तुत्यवसानाभ्यां प्रवृत्ते चाग्नितर्पणे ।। 106 ।।
पूर्णाहुतिप्रदाने च मन्त्राणां तु विसर्जने।
विष्वक्सेनार्चने चैव तत्पूजाप्रतिपादने ।। 107 ।।
बलिप्रदानकाले तु देवतानां विशेषतः।
नातोऽन्यदा स्याद्विहितं चालनं सिद्धिमिच्छिताम् ।। 108 ।।
धूपं दत्वाऽथ पात्राणां घण्टाशब्दसमन्वितम्।
धूपं दद्याद्यथाकालं यद्वार्घ्यादौ सकृत् सकृत् ।। 109 ।।
अनुकल्पे तु हृन्मन्त्रं कुर्यादावर्तनं बुधः।
आवाहने सन्निधाने सन्निरोधे तथाऽर्चने ।। 110 ।।
विसर्जनेऽर्घ्यदानं तु प्राक्पात्रान्नित्यमाचरेत्।
तदम्भसा चार्हणं तु तथैव परिषेचनम् ।। 111 ।।
कुर्यात् प्रणयनादानं प्रीणनं प्रीतिकर्मणि।
प्रोक्षणं सर्ववस्तूनामन्यस्मादुदकेन तु ।। 112 ।।
आरम्भे सर्वकार्याणां तत्समाप्तौ सदैवहि।
न्यूनाधिकानां शान्त्यै तु ज्ञानव्यत्ययशान्तये ।। 113 ।।
कार्यं तदर्घ्यदानं च नित्यं मन्त्रात्मनो विभोः।
कुम्भोपकुम्भकुण्डानां मन्त्रास्त्रकलशार्चने ।। 114 ।।
संपूजने च भोगानां गुर्वादीनां महामते!।
दक्षशिष्यात्मपूजार्थं द्वार्स्थानामर्चनं प्रति ।। 115 ।।
प्रासादासनदेवानां गुरूणां सन्ततेस्तथा।
लाञ्छनाङ्गपरीवारशक्तिभूषणरूपिणाम् ।। 116 ।।
मण्डलावरणस्थानां देवानां चार्चनं तथा।
मुद्राबन्धे कराभ्युक्षां तदर्चाक्षालनं तथा ।। 117 ।।
जपकालेऽक्षसूत्रस्य कुर्यात्तत्पूजनं तथा।
पाद्यदानं तृतीयात्तु नित्यं पात्रात् समाचरेत् ।। 118 ।।
चतुर्थात्तु यथाकालं दद्यादाचमनं पुनः।
हस्तप्रक्षालनं चैव गण्डूषं मुखधावनम् ।। 119 ।।
स्नानीयाच्चाचरेत् स्नानं प्रयोजकविधिस्त्वयम्।
अर्ध्यपात्रात् द्वितीयात्तु किञ्चिदुद्धृत्य वै जलम् ।। 120 ।।
तेन स्वदेहविन्यस्तान् मन्त्रानिष्ट्वा यथाक्रमम्।
अनुलेपनपुष्पेण धूपेन च ततो मुने! ।। 121 ।।
मत्पूजार्थं प्रक्लृप्तानि गन्धपुष्पाणि यानि च।
तानि सर्वाण्यथाचार्यो धारयेन्न कदाचन ।। 122 ।।
धारयेद्यदि संमोहाल्लोभाद्वा तानि देशिकः।
गन्धादीन्यर्चनार्थानि सा पूजा निष्फला भवेत् ।। 123 ।।
तस्मात् सर्वप्रयत्नेन पृथक्कुर्याद्यथाविधि।
अर्घ्यादिकं समादाय द्वार्स्थदेवान् समर्चयेत् ।। 124 ।।
निर्गत्य द्वारबाह्ये तु स्थितो वासीन एव वा।
वास्तुक्षेत्रेशगरुडद्वार्श्रीचण्डप्रचण्डकान् ।। 125 ।।
अभ्यर्च्यार्द्यादिभिर्देवान् प्रासादस्थांश्च पूजयेत्।
प्रासादेऽथ चतुर्द्वारे मण्डपे चेतरेषु च ।। 126 ।।
द्वारत्रयेऽथ धातारं विधातारं जयं तथा।
विजयं चापि भद्रं च सुभद्रं च गणेश्वरम् ।। 127 ।।
यदङ्गभावमभ्येति द्वार्स्थाद्यं देवतागणम्।
विष्वक्सेनावसानं च नराणामल्पमेधसाम् ।। 128 ।।
जन्तोरेकान्तिनस्तद्वै चित्तखेदकृदर्चनम्।
विघ्नकृत् प्रकृतस्यापि शिष्याणां तदनर्चनम् ।। 129 ।।
अतस्तदनुकम्पार्थं देवभृत्यधियाऽर्चनम्।
भक्तिथद्धोज्झितं चैव विहितं त्वेवमेव हि ।। 130 ।।
ते तत्प्राणिच्युतं प्रह्वा दत्तमप्यवहेलया।
गृह्णन्ति मनसा श्रेयः परं ध्यात्वा धिया हृदि ।। 131 ।।
यतः सर्वेऽच्युतमयास्तच्चित्तार्पितमानसाः।
एतावदर्चनात्तेषां गुरोरेकान्तिनस्तु वै ।। 132 ।।
स्याद्विरोधनिरासस्तु यतो भृत्यास्तु ते हरेः।
कृत्वैवं द्वारयागं तु ततः पुष्पं च संमुखम् ।। 133 ।।
गृहीत्वाङ्गुष्ठपूर्वेण स्वाङ्गुलित्रितयेन तु।
अभिमन्त्र्य तदस्त्रेण चक्रं तदुपरि स्मरेत् ।। 134 ।।
निशितारं ज्वलद्रूपं वर्षन्तमनलाशनिम्।
क्षयकृद्विघ्नजालानां क्षिपेद्यागगृहान्तरे ।। 135 ।।
ततस्तत्तेजसा विघ्नजालं निष्कासयेन्महत्।
बहिर्भवनमध्यात्तु ततस्तदनुकम्पया ।। 136 ।।
स्वदेहादामृतं(हवामगं) भागममृतांशुसमं स्मरेत्।
प्राङ्मन्त्रमात्रविन्यासात् स तेषामनलप्रभः ।। 137 ।।
प्रतिभाति यतस्तेन मन्त्रपुष्पसमाश्रयात्।
निर्गच्छन्ति तमाश्रित्य वामभागमतस्तु ते ।। 138 ।।
दक्षिणां तर्जनीं विप्र! कुर्यादूर्ध्वमुखीं ततः।
शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम् ।। 139 ।।
स्मृत्वा स्वां विघ्नशान्त्यर्थं भ्रामयन्नन्तराविशेत्।
स्वासनं च ततः प्रोक्ष्य अर्घ्यपात्रोदकेन च ।। 140 ।।
सास्त्रेण ताड्य पुष्पेण तत्पृष्ठे क्रमशो द्विज!।
आधारशक्तिपूर्वं तु मन्त्रसङ्घं प्रपूजयेत् ।। 141 ।।
उपविश्यासने यागमारभेत समाहितः।
समये वात्र कुर्वीत सर्वभोगनिरीक्षणम् ।। 142 ।।
न्यस्य भद्रासनं मूलात् प्रोक्षणार्घ्यप्लुतेन तु।
पाणिनाऽप्यथ कूर्चेन तज्जलेन तु मार्जयेत् ।। 143 ।।
तत्तावदस्त्रपुष्पेण कुर्याद्विघ्नगणोज्झितम्।
सर्वलोकमयं तत्र सर्वदेवसमाश्रयम् ।। 144 ।।
सर्वाधारमयं ध्यायेदन्तर्लीनं तु चक्रराट्।
प्रणवेन स्वनाम्नाऽथ नमोऽन्तेनार्चयेच्च तम् ।। 145 ।।
ततस्तु सर्वमन्त्राणां विन्यासं तत्र चेतसा।
समाचरेद्यथायोगं पुष्पदानपुरस्सरम् ।। 146 ।।
अर्घ्यालभनधूपैस्तु माल्यैर्नानास्रगुद्भवैः।
योगपीठार्चनं कुर्याद्यथावदवधारय ।। 147 ।।
बिम्बेन सहितं पीठं योगपीठमुदाहृतम्।
अनुसन्धानयागे तु योगपीठं प्रकल्पयेत् ।। 148 ।।
तन्मन्त्रासनमित्युक्तं, मन्त्रन्यासं तु सर्वतः।
कुर्यात्तत्स्थस्य देवस्य पीठस्याधो निवेशयेत् ।। 149 ।।
आधारशक्तिं तस्योर्ध्वे कूर्मं कालाग्निसंज्ञिकम्।
तन्मूर्ध्नि शेषसंज्ञं तु योगपीठपदोपरि ।। 150 ।।
भुवं न्यस्य तदूर्ध्वे तु जङ्घायां क्षीरसागरम्।
आधारपद्मं कुमुदे तदूर्ध्वे कण्ठमूलतः ।। 151 ।।
आग्नेय्यादौ तु धर्माद्यमैशान्तं तच्चतुष्टयम्।
प्रागाशादौ त्वधर्माद्यमुत्तरान्तं न्यसेत् परम् ।। 152 ।।
ऋग्वेदं कल्पयेदेवं प्रागीशानदिगन्तरे।
यजुःप्राग्वह्निदिङ्मध्ये सामान्तर्यातुवारुणे ।। 153 ।।
वारुणानिलदिङ्मध्येऽथर्ववेदं ततःपरम्।
ईशानसोमदिङ्मध्ये कृतं याम्यानलान्तरे ।। 154 ।।
त्रेतायुगं यातुयाम्यदिङ्मध्ये द्वापारं युगम्।
सोमवाय्वन्तरोद्देशे कलिसंज्ञं युगं क्रमात् ।। 155 ।।
आधारशक्तेरारभ्य अनुसन्धानपूर्वकम्।
युगावसानं प्राग्दत्वा स्थूलं मन्त्रासनासनम् ।। 156 ।।
तच्च षोडशकं न्यस्य भूयो भूयो दिगष्टके।
सूक्ष्मरूपधरं विप्र! प्राक्पदादीशगोचरम् ।। 157 ।।
तत्रोर्ध्वे मध्यदेशे वै प्रागुक्तविधिना न्यसेत्।
द्विरष्टकं तु धर्माद्यं कान्तिमत् पररूपधृत् ।। 158 ।।
तन्मूर्ध्नि कालचक्रं तु व्योमवत्पट्टिकागतम्।
तन्मध्येऽव्यक्तपद्मं तु गुणत्रयसमन्वितम् ।। 159 ।।
तद्दले सूर्यपरिधिं केसरे सोममण्डलम्।
कर्णिकायामग्निचक्रं तद्बीजे चित्प्रभाकरम् ।। 160 ।।
स्मरेच्च विमलां शक्तिं तत्समीपे दिगष्टके।
ज्ञानशक्तिं विभोः शक्तिं सत्यशक्तिमनश्वरीम् ।। 161 ।।
प्रकाशशक्तिं चानन्तामीशानुग्रहशक्तिके।
यथोक्तरूपान् ध्यात्वैतान् विभवं च यथाक्रमम् ।। 162 ।।
स्वस्वतत्वानि विन्यस्य कुर्यादर्घ्यादिनार्चनम्।
प्रदर्शयेच्च तन्मुद्रां पीठे वै सुस्थिरे सदा ।। 163 ।।
आधारशक्तेरारभ्य मन्त्रग्रामस्य पौष्कर!।
सुस्थिरे सन्निरोधश्च सर्वेषां विहितः सदा ।। 164 ।।
यत्र यत्रानुरूपं यत्तत्र तन्न्यासमाचरेत्।
ईशानुग्रहशक्त्यन्तमाक्षितेः कमलोद्भव! ।। 165 ।।
मन्त्राणां सान्निधिः कार्या चलपीठे तु केवले।
तात्कालिकस्तु विहितो निरोधस्तत्र सार्चनः ।। 166 ।।
आहूतोपविशेद्यत्र मन्त्रनाथोऽभिसंमुखः।
तत्प्रागपेक्षया कुर्याद्धर्मादीनां निवेशनम् ।। 167 ।।
सांमुख्यं भजते यस्मात् साधकं परमेश्वरः।
तदासनं हि चिद्रूपं सिद्धमेतस्य वाहनात् ।। 168 ।।
चलबिम्बेन सह वै एकीभावगतस्य च।
पीठस्य मन्त्रविन्यासो विहितश्चलपीठवत् ।। 169 ।।
सुस्थिरस्यैकयोनेर्वै वियोनौ सुस्थिरस्य च।
मन्त्राणां विहितो न्यासः स्थिरपीठोदितस्तु वै ।। 170 ।।
पीठोपपीठयुक्तानां साङ्गानां केवलात्मनाम्।
एकादिगात्रपादानां सबिम्बानां यथाक्रमम् ।। 171 ।।
मण्डलोक्तविधानेन समभ्यूह्य समाचरेत्।
एवं चास्याचले पीठे शयानस्य विभोस्त्वथ ।। 172 ।।
सशक्तिकाच्चितो भानोरूर्ध्वेऽनन्तं समर्चयेत्।
यानारूढे त्वनन्तस्य स्थाने तार्क्ष्यं समर्चयेत् ।। 173 ।।
लक्ष्म्यादीनां तु देवीनां पीठस्याधः फणीश्वरम्।
तत्कोणेषु च धर्मादींस्तदूर्ध्वेऽव्यक्तपङ्कजम् ।। 174 ।।
धामत्रयं ततस्तस्मिन् विन्यसेत् पूर्ववर्त्मना।
व्योमबाह्ये त्वपीठानामग्निकोणादितो न्यसेत् ।। 175 ।।
ज्ञान(युग)स्वभावमूर्तं च धर्माद्यं यच्चतुष्टयम्।
तन्निविष्टं तथाभूतं तद्व्यत्ययगणं हि यत् ।। 176 ।।
सह ऋक्पूर्वसामान्तकालभेदेन चान्वितम्।
तत्पीठवसुधोद्देशे मण्‍डलादिषु वृत्तिषु ।। 177 ।।
आत्मनः प्राग्वशाद्वायुकोणादारभ्य पूजनम्।
कार्यं विघ्नेशपूर्वाणां, तत्पदाद्वाग्रभूः पदम् ।। 178 ।।
स्वोत्तरात् पश्चिमद्वारदेशाद्वायुपदावधि।
वीथौ सवीथिकानां तु यागानामेतदाचरेत् ।। 179 ।।
बहिर्वारणरेखाणां तन्मुक्तानां महामते!।
युक्तानां न बहिर्दोषस्तिर्यक्त्वेनार्चने सति ।। 180 ।।
विन्यस्य विष्टरान् दार्भान् कुसुमस्तबकानि च।
बिन्दून् वा सर्वरोगोत्थान् क्रमात्तदुपरि न्यसेत् ।। 181 ।।
गणनाथं च वागीशां गुरुं च तदनन्तरम्।
पूजयेच्च ततो भक्त्या गुरुं परमसंज्ञितम् ।। 182 ।।
आदिसिद्धसमूहं तु भगवद्ध्यानतत्परम्।
नित्याधिकारिणश्चाप्तान् भगवत्तत्ववेदिनः ।। 183 ।।
चत्वारो मनवश्चान्ये ऋषयः सप्तपूर्वकाः।
एतेषां क्रमशो ध्यानं समाकर्णय सांप्रतम् ।। 184 ।।
ध्यायेच्चम्पकवर्णाभं बद्धपद्मासनं द्विज!।
स्थूलाङ्गमेकदंष्ट्रं च लम्बक्रोडं गजाननम् ।। 185 ।।
वरदाभयहस्तं च दक्षिणेऽस्याक्षसूत्रकम्।
विश्रान्तं चिन्तयेद्वामं चतुर्थं परशूपरि ।। 186 ।।
वरदाभयहस्ताभ्यामस्य मुद्राद्वयं स्मरेत्।
तर्जन्यङ्गुष्ठसंघट्टाज्जायते यदयत्नतः ।। 187 ।।
सितकुन्देन्दुधवलां शङ्खपद्मकरोद्यताम्।
वरदाभयहस्तां वा विलिखन्तीं च पुस्तकम् ।। 188 ।।
द्विनेत्रामेकवक्त्रां च हेमकुण्डलभूषिताम्।
ध्यात्वा भगवती ह्येषा शक्तिः शब्दात्मनो विभोः ।। 189 ।।
समभ्यस्ता ददात्याशु साधकानामभीप्सितम्।
गणनाथं विना चान्ये सुस्थिताः शान्तविग्रहाः ।। 190 ।।
गणित्राभयहस्ताश्च सर्वानुग्रहकारकाः।
सर्वे पद्मासना वाथ जटामण्डलभूषिताः ।। 191 ।।
एवं ध्यात्वा समभ्यर्च्य मुद्राः संदृश्य तत्क्रमात्।
अनुज्ञां प्रार्थयेत्तेभ्यो यथानुक्रममेव च ।। 192 ।।
गृहीत्वा शिरसा तां च तत आवाहयेत्‌ प्रभुम्।
अभ्यन्तरे विमानस्य गर्भभूमौ तु मध्यतः ।। 193 ।।
(आत्मप्रमाणरचिते मृदुस्पर्शे मनोरमे।
शुद्धस्फटिकसंकाशे दीप्यमानेऽतिभासुरे ।। 194 ।।
फणामण्डलमध्यस्थैर्मणिभिर्दीपिते तथा।
अनन्तभोगशयने शयानं पीतवाससम् ।। 195 ।।)
सन्ध्याजलदसन्दोहसन्देहकरणक्षमम्।
सरसीरुहमास्थाय सहस्रदलसंकुलम् ।। 196 ।।
शयानं स्थितमासीनं यानारूढमथापि वा।
निष्केवलेन सत्त्वेन संपन्नं रुचिरप्रभम् ।। 197 ।।
वपुषा सुन्दरेणैव दिव्येनाविकृतेन च।
मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम् ।। 198 ।।
प्रयत्नेन विनाऽज्ञाननाशकृद्ध्यायिनां महत्।
स्रग्वस्त्राभरणैर्दिव्यैः स्वानुरूपैरनूपमैः ।। 199 ।।
चिन्मयैः स्वप्रकाशैश्च अन्योन्यरुचिरञ्जितैः।
दन्तज्योत्स्नावितानैस्तु प्रकटीकृतदिङ्मुखम् ।। 200 ।।
रेखोत्थितैस्तु कल्हारैः पादपद्मतलेऽङ्कितम्।
निमग्नजनसन्तापशमनव्यापृताननम् ।। 201 ।।
करुणापूर्णहृदयं जगदुद्धरणोद्यतम्।
स्वदेहतेजःसंभूतज्वालामण्डलमध्यगम् ।। 202 ।।
घनकुञ्चितनीलालिगलिताञ्जनसन्निभैः।
कर्पूरधूसरैर्दिव्यैः पुष्पसंवलितान्तरैः ।। 203 ।।
किरीटमकुटाक्रान्तैः शोभितं सुशिरोरुहैः।
ईषदारक्तगोक्षीरशुद्धनीलाब्जलोचनम् ।। 204 ।।
शीतलैर्दृष्टिपातैस्तु जगदाप्यायकारिणम्।
सुभ्रूललाटं सुनसं सुस्मिताधरविद्रुमम् ।। 205 ।।
सौन्दर्यचन्द्रसंकाशविलसद्गण्डमण्डलम्।
पूर्वकर्मानलार्तानां ध्यायिनां खेदशान्तये ।। 206 ।।
स्वदन्तेन्दुचयोत्थेन ह्लादयन् गोगणेन तु।
मुखसौन्दर्यनिष्यन्दचिबुकस्थलशोभितम् ।। 207 ।।
सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम्।
कम्बुग्रीवं महाबाहुं श्रीवत्साङ्कितवक्षसम् ।। 208 ।।
सिंहस्क्तन्धं विशालाक्षं दीर्घबाहुं महोरसम्।
शङ्खचक्राङ्कितारक्तकरद्वयविभूषितम् ।। 209 ।।
दक्षिणं भोगिभोगाभमुपधाय महाभुजम्।
प्रसारितोत्तरकरं कटिदेशस्य पार्श्वतः ।। 210 ।।
कौस्तुभेनाङ्कितोरस्कं लक्ष्मीश्रीवत्सभूषितम्।
आब्रह्मस्तम्बपर्यन्तजगद्वासतनूदरम् ।। 211 ।।
ईषत्कुञ्चितवामाङ्घ्रिपङ्कजं पङ्कजेक्षणम्।
प्रसार्य दक्षिणं पादमीषदुत्तानशायिनम् ।। 212 ।।
अनेकरत्नरचितकिरीटमकुटोज्ज्वलम्।
उद्यदादित्यसंकाशैर्विचित्रैर्मणिसंचयैः ।। 213 ।।
विराजमानया सम्यक्स्फुरच्चूलिकयोज्ज्वलम्।
रत्नावतंसप्रभया दीप्तश्रवणशेखरम् ।। 214 ।।
ललाटान्तसमालम्बिबालालङ्कारभूषितम्।
ललाटतिलकेनैव सुन्दरेण विराजितम् ।। 215 ।।
अनेकरविसङ्काशलसन्मकरकुण्डलम्।
प्रभूतमणिमुक्ताढ्यग्रैवेयकविराजितम् ।। 216 ।।
वज्रवैढूर्यमाणिक्यपद्मरागादिशोभितैः।
हारैरनेकैर्विविधैरुपशोभितवक्षसम् ।। 217 ।।
उदयादित्यसंकाशकौस्तुभेन विराजितम्।
भ्राजयन्त्या जगत् सर्वं स्वतेजोभिर्निरन्तरम् ।। 218 ।।
मालया वैजयन्त्या च भ्राजमानमहोरसम्।
नानादामविचित्रेण मुक्तादामविलम्बिना ।। 219 ।।
स्फुरता ब्रह्मसूत्रेण काञ्चनेन सुशोभितम्।
द्युतिमद्भिर्महारत्नै राजितेन सुवर्चसा ।। 220 ।।
काञ्चनेनाथ सूत्रेण उदरे कृतबन्धनम्।
नाभिदेशं तथा पद्मं जगछृङ्खलया स्वया ।। 221 ।।
नानामाणिक्यविलसत्कटिसूत्रेण भूषितम्।
अनेकरत्नसन्दर्भरशनादाममण्डितम् ।। 222 ।।
अनेककोटिमार्ताण्डविलसत्पीतवाससम्।
अनेकरत्नसंभिन्ननूपुरादिविभूषितम् ।। 223 ।।
एवमन्यैश्च विविधैः केयूरकटकादिकैः।
यथार्हभूषणै रम्यैर्ज्वलद्भिः परिभूषितम् ।। 224 ।।
प्रावृड्‌जलदसङ्काशं भिन्नाञ्जनगिरिप्रभम्।
अभिन्नपूर्णषाड्‌गुण्यविभवेनोपबृंहितम् ।। 225 ।।
योगिध्येयमजं नित्यं जगज्जन्मादिकारणम्।
अनादिनिधनं देवं साक्षाल्लक्ष्मीपतिं विभुम् ।। 226 ।।
अप्राकृततनुं शान्तं वासुदेवं परात्परम्।
चतुर्भुजमनुध्यायेच्छुद्धस्फटिकनिर्मलम् ।। 227 ।।
शङ्खचक्रगदापद्मैश्चतुर्भिः कृतलक्षणम्।
तस्मिन्नावाहनं कुर्यात् कृत्वा हस्तौ सुगन्धिनौ ।। 228 ।।
गन्धार्घ्यपुष्पैः संपूर्य मूलमन्त्रं समुच्चरन्।
पीठोपरि हरेरग्रे मूर्ध्नि पुष्पाञ्जलिं क्षिपेत् ।। 229 ।।
स्वं प्रत्यभिमुखं शान्तं सुप्रबुद्धं स्मरेच्च तम्।
करन्यासं विना तत्र सृष्टिन्यासादिकं त्रयम् ।। 230 ।।
मूलमन्त्रादितार्क्ष्यान्तमन्त्राणां न्यासमेव च।
दीपयेद्बिम्बतोऽन्यत्र तस्मिन् पुष्पाञ्जलौ हरिम् ।। 231 ।।
आगच्छपदयुक्तेन मूलमन्त्रेण हृत्कजात्।
एवं तेजोमयं देवं नाडीदक्षिणमार्गतः ।। 232 ।।
तन्नासाग्रेण चावाह्य पीठकुम्भादिषु क्षिपेत्।
तत्कदम्बप्रसूनाभे तस्मिन् मन्त्रात्मगोलके ।। 233 ।।
स्थानभेदं विनाङ्गानि न्यस्याभ्यर्च्येह देहतः।
सकलीकृत्य देवेशं तं ध्यायेद्व्यक्ततां गतम् ।। 234 ।।
प्राग्वदङ्गादिकांस्तत्र तत्तन्मन्त्रैस्तु निक्षिपेत्।
एवमाहूय देवेशं दत्वार्घ्यं सन्निधित्सया ।। 235 ।।
भूयोऽप्यर्घ्यं प्रदायास्मै हृदा मुद्रापुरस्सरम्।
सन्निधाप्यार्घ्यदानेन मुद्रापूर्वं च वर्मणा ।। 236 ।।
सन्निरोध्य तु मूलेन तन्मुद्रासहितेन तु।
संमुखीकृत्य मूलादीन् मन्त्रांस्तत्र समुच्चरन् ।। 237 ।।
प्रदर्शयंस्तथा मुद्रास्त्वष्टाङ्गेनाभिवादयेत्।
अनेकमूर्तियागे तु प्रधानावाहनादिकान्(म्) ।। 238 ।।
आहूतदेवश्रान्त्यर्थं गन्धादीनेवमेव च।
व्यूहानां विभवानां प्राङ्मूलादङ्गगणार्चनम् ।। 239 ।।
पश्चादन्येषु कुर्वीत क्रमेणावाहनादिकान्।
स्थितमायतने वाथ साकारं परमेश्वरम् ।। 240 ।।
शङ्खचक्रधरं विष्णुं सुरसिद्धावतारितम्।
ऋषिभिर्मनुजैर्वाथ भक्तियुक्तैः प्रतिष्ठितम् ।। 241 ।।
तन्मूर्तौ च स्वमन्त्रेण यजेदावाहनं विना।
प्रत्यहं कर्मबिम्बानां मूलबिम्बहृदब्जकात् ।। 242 ।।
कुर्यादावाहनं किञ्चित्तीर्थक्षेत्रादिगामिभिः।
नरैरा(स्स्वा)राध्यबिम्बेषु प्रत्यहं स्वहृदब्जतः ।। 243 ।।
प्राग्वदावाहनं कुर्यादथ तद्विग्रहस्थितान्।
मन्त्रन्यासादिनाभ्यर्च्य तांस्तद्देहस्फुलिङ्गवत् ।। 244 ।।
ध्यात्वावतार्य स्थानेषु स्वेषु भोगावनौ क्रमात्।
सकलीकृत्य चार्घ्याद्यैरर्चयेदत्र तु क्रमः ।। 245 ।।
द्विषट्‌स्वब्जदलेष्वत्र मन्त्रेशस्य पुरो दलात्।
तदाराद्दलपर्यन्तं हृदाद्यङ्गानि निक्षिपेत् ।। 246 ।।
पीठोपरि दलाद्बाह्ये देवस्याग्नेयकोणके।
पद्ममैशे गदां कोणे नैर्ऋते चक्रमुज्ज्वलम् ।। 247 ।।
वायव्ये पाञ्चजन्यं च गदायाश्च समीपतः।
किरीटं दक्षिणे पार्श्वे वामे श्रीवत्समेव च ।। 248 ।।
कौस्तुभं पद्मसामीप्ये वनमालां च दक्षिणे।
देवस्य कर्णिकायां तु श्रियं पुष्टिं ततोऽपरे ।। 249 ।।
अग्रतः पीठतो बाह्ये न्यसेच्चारात् पतत्रिपम्।
अङ्गोपाङ्गादिकानां तु सर्वेषां ध्यानमुच्यते ।। 250 ।।
आहूतो मन्त्रनाथस्तु यथा ध्यातः सविग्रहः।
तद्वदेव हि हृन्मन्त्रं ध्यायेत् कुमुदपाण्डरम् ।। 251 ।।
पद्मरागाचलाकारमारक्तं च शिरः स्मरेत्।
अञ्जनाद्रिप्रतीकाशं शिखामन्त्रं तथाकृतिम् ।। 252 ।।
परितः सूर्यसन्तप्तं यथा कनकपर्वतम्।
तथा कवचमन्त्रं च ध्यानकाले विचिन्तयेत् ।। 253 ।।
वृतं ज्वालासहस्रैस्तु अयस्कान्तसमद्युति।
सर्वास्त्रशक्तिसंपूर्णमस्त्रमन्त्रं प्रकीर्तितम् ।। 254 ।।
निर्धूमाङ्गारसदृशं भावयेन्नेत्रमन्त्रराट्।
ध्येयाः स्वरुचिसंयुक्ताः द्विभुजाः पुरुषोपमाः ।। 255 ।।
एवमेव ह्युपाङ्गानां स्मरेद्ध्यानं सुलक्षणम्।
वीक्षमाणान् विभोर्वक्त्रं ध्यायेन्मुनिवरोत्तम! ।। 256 ।।
स्थितानामादिमूर्तीनां स्थितान् ध्यायेत् सदैव हि।
आसीनानामथासीनान् वाहनस्थे सवाहनान् ।। 257 ।।
शयितानामथासीनानुत्थितान् वा स्मरेद्धिया।
लाञ्छनाभरणादीनां श्रृणु ध्यानं यथाक्रमम् ।। 258 ।।
कुन्दावदातं कमलं सौम्यमीषत्स्मिताननम्।
रवं रवन्तं मधुरं श्रोत्रेन्द्रियसुखावहम् ।। 259 ।।
गदां हेमाद्रिसंकाशां तन्वीं कुवलयेक्षणाम्।
द्विरष्टवर्षवत्कान्तां कुमारीं नवयौवनाम् ।। 260 ।।
स्वोत्थेन रश्मिजालेन भासयन्तीं नभःस्थलम्।
स्वरश्मिमण्डलान्तरःस्थं वल्गन्तं हेतिराट्‌ स्मरेत् ।। 261 ।।
विभोराज्ञां प्रतीक्षन्तं ह्रस्वाङ्गं रक्तलोचनम्।
तुहिनाचलसंकाशं शङ्खं कमललोचनम् ।। 262 ।।
सदागमादिसामान्तमुद्गिरन्तं स्वकैर्मुखैः।
किरीटः सौम्यवदनः काञ्चनाभो महातनुः ।। 263 ।।
भाभिराकृतियुक्ताभिर्नानारूपाभिरावृतः।
स्थितो वैद्याधरीयेण स्थानकेनान्तरिक्षगः ।। 264 ।।
स्फाटिकाद्रिप्रतीकाशं श्रीवत्समथ भावयेत्।
बद्धपद्मासनासीनं न्यस्तहस्तं स्वपार्श्वयोः ।। 265 ।।
वहन्तं कूर्ममुद्रां च मुख्यहस्तद्वयेन च।
पद्मरागाचलाकारं कौस्तुभं रत्रनायकम् ।। 266 ।।
दिशो दश द्योतयन्तं संलग्नाङ्घ्रिस्थितं स्मरेत्।
वहन्तं चोरसो मध्ये स्वहस्तकृतसंपुटम् ।। 267 ।।
सन्धारयन्तमपरं तथा वै शिरसि स्फुटम्।
ध्येया भगवती माला चित्रवर्णा मनोरमा ।। 268 ।।
सर्वगन्धान्विता सौम्या ईषद्विह(क)सितानना।
ध्येयाः स्वरुचिसंयुक्ता द्विभुजाः पुरुषोपमाः ।। 269 ।।
सास्त्राः किरीटपूर्वा ये गदामालाङ्गनाकृती।
एतेऽस्त्रनायकाः सर्वे विभोराज्ञाप्रतीक्षकाः ।। 270 ।।
प्रोत्थिता विचलन्तश्च सुसमैः स्थानकैः स्थिताः।
श्रोणीतटार्पितकराश्चामरव्यजनोद्यताः ।। 271 ।।
सपद्मं तु किरीटाद्यं वर्जयित्वा चतुष्टयम्।
तर्जयन्तं च दुष्टौघमन्येषां दक्षिणं करम् ।। 272 ।।
स्मरेद्वै ध्यानकाले च सर्वेषामथ मस्तके।
ध्येयं स्वकं स्वकं चिह्नं सुप्रसिद्धं निराकृति ।। 273 ।।
रक्तपङ्कजवर्णाभा लक्ष्मीर्नीलाम्बुजेक्षणा।
दुग्धौघधवला पुष्टिरानन्दाकुलितानना(तेक्षणा) ।। 274 ।।
भोक्तृशक्तिः स्मृता लक्ष्मीः पुष्टिर्वै कर्तृसंज्ञिता।
भोगार्थमवतीर्णस्य तस्य लोकानुकम्पया ।। 275 ।।
उदितं सह तेनैव शक्तिद्वितयमव्ययम्।
रक्ततुण्डं महाप्राणं भीमभ्रुकुटिलोचनम् ।। 276 ।।
द्रवच्चामीकराकारं पक्षमण्डलमण्डितम्।
संस्मरेद्गरुडं विप्र! गृध्रवक्त्रं पृथूदरम् ।। 277 ।।
यथोक्तमूर्तियुक्तांश्च ततो ध्यायेद्यथाक्रमम्।
अपांपतिर्वै कमलं गदादेवी सरस्वती ।। 279 ।।
स्वयं शशाङ्कः श्रीवत्सो मालाषण्माधवादयः।
प्राणं पतत्रिपं विद्यादेवं तत्त्वेषु संस्थितान् ।। 280 ।।
अधिष्टातृ(तॄन्)क्रमाच्चैतानर्चयेदर्घ्यपुष्पकैः।
अष्टपत्राम्बुजे पूर्वदले हृन्मन्त्रपं शिरः ।। 281 ।।
शिखामाग्नेयपत्रे तु कवचं चास्त्रमन्त्रपम्।
दक्षिणे पत्रमध्ये तु नैर्ऋते पत्रमध्यतः ।। 282 ।।
नेत्रं पश्चिमपत्रे तु उदरं पृष्ठमन्त्रपम्।
वायन्ये बाहुमन्त्रं तु ऊरू जानू तथोत्तरे ।। 283 ।।
ईशानपत्रमध्ये तु पादमन्त्रं तु विन्यसेत्।
दलोपदलसंयुक्तेऽप्येवमेवाम्बुजे क्रमः ।। 284 ।।
अथवा दिग्दलेष्वत्र हृदाद्यं यच्चतुष्टयम्।
अस्त्रं विदिग्दलेषु स्यान्नेत्रं केसरगं पुनः ।। 285 ।।
उपाङ्गं स्यादुपदले तद्विधानमतः श्रृणु।
पूर्वपत्रसमीपस्थतलयोरुदरं न्यसेत् ।। 286 ।।
पृष्ठमन्त्रं न्यसेत्तद्वद्दलयोः पश्चिमस्थयोः।
बाहूरू मन्त्रपौ न्यस्यौ दलयोर्दक्षिणस्थयोः ।। 287 ।।
जानू पादौ तथा न्यस्यौ दलयोरुत्तरस्थयोः।
मन्त्ररूपे षडङ्गे तु पद्मस्याष्टदलस्य तु ।। 288 ।।
पूर्वस्मिन् हृदयं वामे कवचं दक्षिणे शिरः।
पश्चिमे तु शिखां न्यस्येत् परे दलचतुष्टये ।। 289 ।।
अग्रतोऽस्त्रं कर्णिकायां केसरे च पुरोदले।
नेत्रं न्यस्यार्चयेत् प्राग्वत् पद्मादिन्यासमाचरेत् ।। 290 ।।
त्रिदलादिषु पद्मेषु दलमूले यथोदितम्।
बुद्ध्या स्थानं विभज्यात्र पञ्च षड्‌द्वादशाथवा ।। 291 ।।
न्यसेदङ्गान्यथादृष्टपृष्ठभागस्य वै विभोः।
परिवारसमेतस्य त्वङ्गं न्यस्येत्तु दक्षिणे ।। 292 ।।
भागं कृत्वा प्रकृत्याग्रात् क्रमात् प्रागादि कल्पयेत्।
आश्रित्य वामभागं तु प्रोक्तमारभ्य चैश्वरीम् ।। 293 ।।
चान्द्रं वात्यं वारुणं च दिग्विभागं प्रकल्पयेत्।
तयोः षट्‌कक्रमात् कुर्याद्‌द्वादशस्थानकल्पनम् ।। 294 ।।
धर्मादिदेवता न्यस्य ह्येवं दिग्विदिगाश्रयाः।
श्रीपुष्ट्योस्तु य(स)दा यागे पृथक् पद्मोपरि स्थितम् ।। 295 ।।
तदाधिकारयागेऽपि पृथगेवासनादिकम्।
वाहानां लाञ्छनादीनां विहीने वाथ पार्श्वतः ।। 296 ।।
कल्पयेदथ तं भोगैर्यजेत सुसमस्तकैः।
विनिवेद्यासनवरं समाहूतस्य वै विभोः ।। 297 ।।
पादपीठं तु सामान्यं मृद्वास्तरणभूषितम्।
घण्टाशब्दसमोपेतं दत्वार्घ्यं मन्त्रमूर्धनि ।। 298 ।।
पाद्यप्रतिग्रहं हैमं विभोर्दद्यात् सरत्नकम्।
पाद्यं पादोदकाकर्षशाटकेनानुलेपनम् ।। 299 ।।
सप्रतिग्रहमाचामं सानुलेपं च मालिकाम्।
घृतादिकैर्महादीपैरच्छिन्नैरर्चयेद्धरिम् ।। 300 ।।
सुगन्धैर्मधुरैर्धूपैः प्रभूतैरर्चयेद्विभुम्।
अर्हणं मधुपर्कं च दर्पणं तदनन्तरम् ।। 301 ।।
(निष्पुंसनं सपात्रं च आचामं गन्धमेव च।
अथ चूर्णितकर्पूरघृष्टश्रीखण्डभावितम् ।।
सपूगफलमुत्कृष्टं ताम्बूलं विनिवेद्य च।
सपुत्रदारमात्मानं अष्टाङ्गपतनेन च ।।
चेतसा भक्तियुक्तेन निवेद्य तदनन्तरम्।)
ततः स्नानासनादीनां भोगानां सन्निधापनम्।
कृत्वाभ्यर्च्यापि देवस्य पाणिना दक्षिणं पदम् ।। 302 ।।
दक्षिणेनाथ वामेन वामं संगृह्य मन्त्रतः।
विज्ञाप्य मज्जनार्थं तु कृत्वा मार्गत्रयं ततः ।। 303 ।।
स्नानासनं निवेद्याथ देवस्य द्वितयं तु वै
स्नानार्थमवतीर्णस्य पादपीठमनन्तरम् ।। 304 ।।
भक्तिनम्रेण शिरसा दद्यादर्घ्यं तु मूर्धनि।
विनिवेद्य ततो हैमं सरत्नं च प्रतिग्रहम् ।। 305 ।।
दद्याद्वै पाद्यकलशात् पाद्यं पादाम्बुजद्वये।
शुभे च पादुके चाथ तदन्ते स्नानशाटकम् ।। 306 ।।
सुगन्धशालिसंपूर्णं मात्रार्थं पात्रमुत्तमम्।
दर्पणं पूर्णचन्द्राभं गन्धतोयमनन्तरम् ।। 307 ।।
पाणि(भ्यां)(पाद)प्रक्षालनार्थं तु पादपीठं ततः शुभम्।
(शिरस्पृष्टेन तैलेन किंचिन्नाङ्गमुपस्पृशेत्।।)
दन्तकाष्ठं च तदनु कर्मण्यक्षीरवृक्षजम् ।। 308 ।।
मुखधावनपात्रं च जिह्वानिर्लेहनं तथा।
गण्डूषाचामसलिले ताम्बूलं गन्धभावितम् ।। 309 ।।
स्नानारम्भानुवृत्तांश्च(म्भं तु विज्ञाप्य) तैलादीन्‌ संनिधाप्य च।
तत्पात्राभ्यर्चनं कृत्वा ततस्तैलं समर्चयेत् ।। 310 ।।
स्कन्धो संछाद्य वस्त्रेण सुकेशान् विकिरेत् प्रभोः।
मध्ये शिरसि देवस्य सेचयेत्तैलमुत्तमम् ।। 311 ।।
आवृत्यावृत्य निष्पीड्य तथा कण्डूयनं नखैः।
बहूपचारसंयुक्तं संमार्ज्यं तैलजं लवम् ।। 312 ।।
केतकोत्पलमालाश्च दत्वा केशांश्च बन्धयेत्।
हस्तौ प्रक्षाल्य तोयेन स्कन्धवस्त्रं विमुच्य च ।। 313 ।।
स्पृष्ट्वा तैलं तथाङ्गानि उपाङ्गानि च मर्दयेत्।
ततो बहुसुगन्धं तु चूर्णं गोधूमशालिजम् ।। 314 ।।
रजनीचूर्णसंमिश्रमीषत्पद्मकभावितम्।
देयमुद्वर्तनार्थं तु माषीं च(चमषीं)तदनन्तरम् ।। 315 ।।
स्नानार्थं खलिसंयुक्तं तोयमुष्णमनन्तरम्।
चन्दनं मुखलेपार्थं घृष्टं कर्पूरभावितम् ।। 316 ।।
तत आमलकस्नानं लोध्रं कालेयकं तथा।
वर्णकं केयूरकं च तगरूणि प्रियङ्गवः ।। 317 ।।
सुगन्धं चैव सिद्धार्थं सर्वौषधिसरत्नकम्।
सहस्रधारया विष्णोर्दद्याच्छुद्धोदकं तथा ।। 318 ।।
कालेयकं च तदनु लोध्रस्नानं तु वर्णकम्।
शरीरार्थानि चान्यानि शिरोर्थानि तु सत्तम! ।। 319 ।।
यद्वा क्षीरादिसंपूर्णकुम्भैः संस्नानपयेद्विभुम्।
गव्यं प्रभूतं स्नानार्थं क्षीरं दधि घृतं मधु ।। 320 ।।
ऐक्षवं तु रसं हृद्यमभावाच्छर्करोदकम्।
धात्रीफलोदकं चैव लोध्रतोयमनन्तरम् ।। 321 ।।
रक्तचन्दनतोयं च रजनीनीरमुत्तमम्।
ग्रन्थिपल्लववार्येव ततस्तु तगरोदकम् ।। 322 ।।
प्रियङ्गुवारि तदनु मांसीजलमतः परम्।
सिद्धार्थकोदकं चाथ सर्वौषधिजलं ततः ।। 323 ।।
पत्रपुष्पोदके चैव फलबीजोदके त्वथ।
गन्धोदकं च तदनु हेमरत्नजले ततः ।। 324 ।।
पुण्यतीर्थसरित्तोये केवलं तदनन्तरम्।
स्नानार्थं कल्पितेनैव तूदकेन विमिश्रितम् ।। 325 ।।
योक्तव्यं क्रमशो ह्येतदर्घ्यपुष्पसमन्वितम्।
अन्तरान्तरयोगेन स्नानानां च महामते! ।। 326 ।।
क्षालनं चार्घ्यकलशादर्घ्यदानसमन्वितम्।
ततः स्नानीयशेषेण हेमादिद्रव्यनिर्मितम् ।। 327 ।।
संपूर्णमम्भसा कुम्भं हरिद्राशालितण्डुलैः।
सुपिष्टैरुपरिष्टाच्च लिप्तं युक्तं स्रगादिना ।। 328 ।।
पाणौ कृत्वा तमेकस्मिन्नपरस्मिंस्तु मल्लकम्।
धूमायमानं सिद्धार्थैर्भ्राम्य मूर्ध्नि बहिः क्षिपेत् ।। 329 ।।
सुधौतमहतं चाथ शाटकं विनिवेद्य च।
कचोदकापकर्षार्थमपरं देहवारिहृत् ।। 330 ।।
अधरोत्तरवस्त्रे द्वे गन्धधूपाधिवासिते।
स्कन्धप्लोतं निवेद्याथ सुसूक्ष्ममहतं सितम् ।। 331 ।।
शिरःश्यानं ततः कुर्याच्छशिधूपसमन्वितम्।
कर्पूरचूर्णसंमिश्रं कुर्याद्देवस्य मूर्धजम् ।। 332 ।।
विभाव्यालङ्कृतं भक्त्या भोगैः स्रक्चन्दनादिभिः।
एवं हि चित्रपूर्वाणामन्येषां कमलासन! ।। 333 ।।
सद्रत्नब्रह्मपाषाणवर्जितानां समाचरेत्।
स्नानाद्यं कर्मबिम्बे तु तत्समीपेऽथ दर्पणे ।। 334 ।।
स्नानविज्ञापनं कृत्वा कर्मार्चां तस्य सन्निधौ।
स्नानासने समारोप्य तस्यां सर्वं समाचरेत् ।। 335 ।।
तदभावे दर्पणे तु स्नानभोगानि चार्पयेत्।
चित्रस्थ एव दद्याच्च भोगानन्यान् यथाक्रमम् ।। 336 ।।
तदभावे च तान् सर्वान् पाणिनादाय चेतसा।
निवेदयेन्मण्डलादिष्वेवं भोगनिवेदनम् ।। 337 ।।
प्रोक्षणं यदि वा कुर्यादर्घ्याद्यैरवशिष्टकैः।
प्रणालभागादपरं स्थानं भद्रासनात्तु(नं तु) वै ।। 338 ।।
भूरिनीरघटैः शुद्धं कृत्वा तत्रावतार्य च।
सपीठं भगवद्बिम्बं तद्विना वार्चितं यदि ।। 339 ।।
खप्लुतं भावयेद्देवं निश्शेषं क्षालयेत्ततः।
भूयो गन्धोदकेनैव पूर्यं कुम्भचतुष्टयम् ।। 340 ।।
स्नानकुम्भं विनान्येषां प्राग्वत् कार्या च कल्पना।
हृन्मन्त्रेण चतुर्णां तु कुर्याद्वै द्रव्ययोजनम् ।। 341 ।।
सास्त्रेण मूलमन्त्रेण सर्वं तच्चाभिमन्त्र्य तु।
मार्गत्रयं क्रमात् कृत्वा विनिवेद्यासनं ततः ।। 342 ।।
तृतीयं रत्नखचितं तत्रस्थं परमेश्वरम्।
समभ्यर्च्यार्घ्यपाद्येन पादुकाभ्यामनन्तरम् ।। 343 ।।
देयमाचमनं भूयः पादपीठं तथैव च।
समालभ्य सुगन्धेन भक्तितश्चन्दनादिना ।। 344 ।।
संवीज्य व्यजनेनैव मायूरेण तथेन च??।
ततोऽप्यचटनं हैमं राजतं दारुजं तु वा ।। 345 ।।
केशप्रसादकृत्कूर्चं पुष्पताम्बूलकर्तरीम्।
निवेद्यदेवदेवाय दुकूलवसने सिते ।। 346 ।।
घृष्टकुङ्कुमकस्तूरीमृगस्नेहानुलेपनम्।
उपवीतं सोत्तरीयं मकुटाद्यमननन्तरम् ।। 347 ।।
पादनूपुरपर्यन्तमलङ्करणमुत्तमम्।
विचित्रं हि शिरोमाल्यं वेष्टनेन समन्वितम् ।। 348 ।।
स्रग्दामसूत्रसंबद्धमाकर्णा(ण्ठा)च्चरणावधि।
मुक्तपुष्पं ततो दद्याद्यथाकालसमुद्भवम् ।। 349 ।।
रुचिरं कङ्कणं चाद्य दद्यात् प्रतिसरं ततः।
धातुभिः कुङ्कुमाद्यैर्वा विचित्रं सितसूत्रजम् ।। 350 ।।
पूरितं मृदुतूलेन ग्रथितं चान्तरान्तरा।
अञ्जनं सशलाकं च ताम्बूलं गन्धभावितम् ।। 351 ।।
ललाटतिलकं हैमं मुखवासं सरोचनम्।
कर्णावतंसके पुष्पे मण्डनं दर्पणं महत् ।। 352 ।।
प्रकिरन् चित्रकुसुमैर्दी(मदी)प्तरत्नप्रभोज्ज्वलैः।
प्रदीप्तैस्तु महाज्वालै(दीपै)स्तिलतैलाज्यपूरितैः ।। 353 ।।
अभुक्ताहतसुश्वेतरञ्जि(चि)तैर्वस्त्र(र्ति)वेष्टितैः।
गर्भीकृतत्वगेलाद्यैः पूजयेत्तदनन्तरम् ।। 354 ।।
कर्पूरचूर्णसंमिश्रं सुगन्धिमधुरं बहु।
मृष्टधूपसमायुक्तं गुग्गुलुं धूपयेच्छूभम् ।। 355 ।।
सहघण्टारवै रम्यैश्चाल्यमानेन बाहुना।
उपानहौ सितच्छत्रं शिबिकां च रथादि यत् ।। 356 ।।
वाहनं गजपर्यन्तं सपताकं खगध्वजम्।
सितासितौ तु चमरौ मात्रावित्तमनन्तरम् ।। 357 ।।
जानुनी भूगते कृत्वा शिरसावनतेन तु।
आदायोत्तानपाणिभ्यां विनिवेद्य जगत्प्रभोः ।। 358 ।।
संपूरणार्थं भोगानां सर्वेषां द्विजसत्तम!।
भेरीमृदङ्गशब्दार्द्यैजयशब्दसमन्वितैः ।। 359 ।।
गीतकैर्विविधैर्नृत्तैस्तन्त्रीवाद्यसमन्वितैः।
वंशैः श्रृङ्गैस्तथा वाद्यैरन्यैः श्राव्यैश्च पूजयेत् ।। 360 ।।
स्तोत्रमन्त्रजपं कुर्याज्जितन्ताद्यं महामते!।
व्यस्तं चैव समस्तं च वाक्ययुक्तं विशेषतः ।। 361 ।।
ततः प्रदक्षिणं कुर्याच्चत्वारि द्विजसत्तम!।
कुसुमक्षेपसंयुक्तं चतुर्दिक्षु समं तु वै ।। 362 ।।
सहान्तःकरणेनैव भक्तियुक्तेन चेतसा।
नतपृष्ठशिरोजानुललाटतटहृत्करः ।। 363 ।।
गृहस्थ आचरेन्नित्यं प्रणामं सप्रदक्षिणम्।
सन्यासी दण्डवत् कुर्यात् प्रणिपातं च सर्वदिक् ।। 364 ।।
विहितं स्नातकादीनामन्येषामेवमेव हि।
स्मरन् सर्वेश्वरं बुद्ध्या सकृत् प्रवितते क्षितौ ।। 365 ।।
संकटे सति भूभागे भगवत्यग्रतः स्थितः।
धिया तु भक्तितः कुर्याद्बध्वा तु करसंपुटम् ।। 366 ।।
हृद्देशे मूर्ध्नि कम्पैस्तु स्मरन् सर्वेश्वरं हरिम्।
अन्तर्गर्भगृहे विष्णोर्गर्भद्वारार्धमण्टपे ।। 367 ।।
प्रणिपातगणं कुर्यात् प्रदक्षिणगणं विना।
चक्रवद्भ्रामयेन्नाङ्गं पृष्ठभागं न दर्शयेत् ।। 368 ।।
पश्चाद्भागेन निर्गच्छेद्देवाग्निगुरुसन्निधौ।
वह्निस्थस्य विभोर्यस्मात् पाणिपृष्ठस्य दर्शनम् ।। 369 ।।
बहुष्वपि च भोगेषु प्रधानं प्रापणं तथा।
पश्चादुत्सवबिम्बं तत्क्रमेणैव तु पूजयेत् ।। 370 ।।
जानुभ्यां सह पाणिभ्यां पाणिभ्यां वा समाचरेत्।
जानुप्रदक्षिणं मुक्त्वा अन्तः सन्निकटे विभोः ।। 371 ।।
विरुद्धमपरं चैव भक्तानां चरणभ्रमम्।
एवं प्रदक्षिणीकृत्वा क्षिप्त्वा पुष्पाञ्जलिं ततः ।। 372 ।।
सुस्नाना(ता)दित्रयं पृच्छेद्भगवन्तं तदापि च।
सार्घ्याचामे(न) तु वा चार्घ्यगन्धपुष्पप्रधूपकैः ।। 373 ।।
इष्ट्वा नीराजयेद्देवं विभोरर्घ्यं समर्पयेत्।
भोज्यासनं निवेद्याथ मार्गत्रयपुरस्सरम् ।। 374 ।।
छन्नं दुकूलतूलोत्थमसूरकवरेण तु।
अर्घ्यं पाद्याचमे दद्यात् प्रतिग्रहसमन्विते ।। 375 ।।
तर्पणं संप्रतिष्ठाप्य वासितं चार्घ्यवारिणा।
अथार्हणजलं स्वच्छं सुगन्धं पात्रतः कृतम् ।। 376 ।।
मधुपर्कं दधिघृतं मधुयुक्तमनन्तरम्।
समस्तमेवमेकाङ्गं दधि वापि निवेदयेत् ।। 377 ।।
शीतलं तर्पणजलं अथ चूर्णं पुरोदितम्।
देयं निष्पुंसनार्थं च पुनराचमनं विभोः ।। 378 ।।
स्वलङ्कतां सुरूपां च स्रग्युक्तां विनिवेद्य गाम्।
ओषधीः शालिपूर्णाश्च स्रक्फलाढ्यं वनस्पतिम् ।। 379 ।।
मूर्तिं(र्तं)निवेदयेत् पूर्वं ततः संस्थाप्य तर्पणम्।
प्रच्छादनाम्बरं चैव प्रदद्यादर्हणोदकम् ।। 380 ।।
षड्रसप्रभवैर्दिव्यैर्नैवेद्यैः पावनैः फलैः।
गुडखण्डचितैर्भर्क्ष्यैबहुर्भिघृतपाचितैः ।। 381 ।।
गुडमुद्गपयोमिश्रैर्निशाज्यतिलमिश्रितैः।
दधिमिश्रैस्सर्वमिश्रैर्मधुस्वादुयुतैः फलैः ।। 382 ।।
क्रमादन्नैरष्टविधैरपूपान् विनिवेदयेत्।
सरसाभी रसालाभिः पयसा सुश्रृतेन च ।। 383 ।।
पवित्रैः शीतलैः स्वादुरसगन्धैश्च पानकैः।
भक्ष्यैर्भोज्यैस्तथा लेह्यैः पेयैरन्यैरनेकशः ।। 384 ।।
श्रद्धापूतेन मनसा यष्टव्य(जेत्त)मजमव्ययम्।
एकैकस्मिंस्तु वै भोगे प्रोक्षयेदर्घ्यवारिणा ।। 385 ।।
छोटिकां मन्त्रसंयुक्तां कृत्वा पाणिद्वयेन तु।
धारणाद्वितयेनैव अर्कसोममयेन तु ।। 386 ।।
सम्यक् सर्वं तु संस्कुर्याद्यथा तदवधारय।
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत् पुरा ।। 387 ।।
संचिन्त्य भस्मभूताहं(तं तु) ततः पूर्णेन्दुरश्मिभिः।
आप्याय्यामृतकल्लोलधारापातेन नारद! ।। 388 ।।
कान्तिमच्चिन्तयेद्भूयो यद्दग्धं भानुना तु वै।
वध्वा कामदुघां मुद्रां स्रवन्तीं मन्त्रसंयुताम् ।। 389 ।।
गोरूपां हिमशैलाभां निराधारपथे स्थिताम्।
दत्वा पुष्पार्घ्यमुपरि संस्पृशेद्विष्णुपाणिना ।। 390 ।।
सव्येन पाणिना स्पृश्य प्रकोष्ठं दक्षिणस्य तु।
तेन दक्षिणहस्तेन अग्रसंकुचितेन तु ।। 391 ।।
निवेदयेत्ततो विप्र! शिरसाऽवनतेन तत्।
पावनैः पानकैः स्वच्छैः शीतलेर्मधुरादिकैः ।। 392 ।।
त्वगेलाद्यन्वितैर्मृष्टधूपकर्पूरवासितैः।
नालिकेरोदकोपेतैस्तर्पणीयमनन्तरम् ।। 393 ।।
मसूरमाषचूर्णेन रजनीशालिजेन च।
समुद्वर्त्य च संक्षाल्य शीतलैर्बहुवारिभिः ।। 394 ।।
नैवेद्याचमनार्थं तु गन्धोदकमनुत्तमम्।
वाससा निर्मलं कृत्वा चन्दनेन सितेन च ।। 395 ।।
समालभ्य सुघृष्टेन कर्पूरसहितेन च।
तिलान्यथ स रत्नानि सौवर्णे वाथ राजते ।। 396 ।।
पात्रे कृत्वाथ मात्रार्थं देवाय विनिवेदयेत्।
लवङ्गतक्कोलैलात्वक्कर्पूरपरिभावितम् ।। 397 ।।
जातिपूगफलोपेतं ससुगन्धच्छदं बहु।
कर्पूरचूर्णसंमिश्रं मुक्ताचूर्णसमन्वितम् ।। 398 ।।
मातुलुङ्गफलोपेतं नालिकेरफलान्वितम्।
प्रदद्यात् प्रणतश्चान्ते ताम्बूलं जगतःपतेः ।। 399 ।।
प्रक्षाल्य गन्धतोयेन अर्घ्यपात्रोद्धृतेन वै।
पाणियुग्मं यथा वै स्यात् स्वच्छमत्यन्तनिर्मलम् ।। 400 ।।
नैवेद्यधूपपात्राद्यैः पात्रैश्चानिर्मलीकृतम्।
कृत्वा तु गन्धदिग्धौ तौ अर्घ्येणार्च्य परस्परम् ।। 401 ।।
मुद्रामूलादिमन्त्राणां दर्शयित्वा यथाक्रमम्।
भूयोऽर्घ्यगन्धपुष्पेण धूपान्तेन समर्च्य च ।। 402 ।।
जपयज्ञविधानेन देवं सन्तर्पयेत्ततः।
स्फाटिकेनाक्षसूत्रेण स्वकैर्वा करपर्वभिः ।। 403 ।।
पात्रं संस्थापयेत् पश्चादर्घ्यपात्राच्च वारिणा।
विलिप्य चन्दनाद्यैस्तु स्थापयेद्भाजने शुभे ।। 404 ।।
संपूज्य पुष्पधूपाद्यैर्मन्त्रं तत्र च विन्यसेत्।
साधारमासनं चैव शक्तिपूर्वैः समावृतम् ।। 405 ।।
चतुर्भुजं तु विरजो नारायणमिवापरम्।
वरदाभयहस्तं च बद्धाञ्जलिधरं स्मरेत् ।। 406 ।।
ब्रह्मस्थानस्थितं तं च सूत्रं ध्यायेच्छिखोपमम्।
सन्निधौ भव देवेश! संनिरुद्धो भवाच्युत! ।। 407 ।।
सूत्राख्यमणिजालेऽस्मिन् यावच्चन्द्रार्कतारकम्।
एवं मुने! प्रतिष्ठाप्य मन्त्रं सूत्रेऽक्षसंज्ञिके ।। 408 ।।
प्रतिष्ठितस्य वै पश्चान्मुद्रां स्वां च प्रदर्शयेत्।
यथाशक्ति जपं कुर्याच्छतमष्टाधिकं तु वा ।। 409 ।।
तन्निवेद्य विभोः पश्चाद्वाक्कर्ममनसान्वितम्।
"पुण्डरीकाक्ष! विश्वात्मन्! मन्त्रमूर्ते! जनार्दन! ।। 410 ।।
गृहाणेदं जपं नाथ! मम दीनस्य शाश्वत!"।
इत्युक्त्वार्घ्योदकं पश्चात् पुष्पं दक्षिणपाणिगम् ।। 411 ।।
अग्रतो निक्षिंपेद्विष्णोर्मूलमन्त्रेण नारद!।
भावयेच्च ततस्सम्यक्स्फुरन्तीं तारकावलिम् ।। 412 ।।
प्रविष्टां भगवद्वक्त्रे वक्त्रात्तां हृद्गतां पुनः।
हृदयाद्‌द्विजशार्दूल! संहाराख्यक्रमेण तु ।। 413 ।।
पूर्ववद्ब्रह्मरन्ध्रेण परेण सह योजयेत्।
एकैकं हृदयादीनां सर्वेषां विहितं त्वथ ।। 414 ।।
क्रियाङ्गत्वान्न दोषोऽस्ति अन्यथा तज्ज्पं विना।
धूपं दत्वा प्रणम्याथ स्तु(श्रु)त्वा मन्त्रेश्वरं ततः ।। 415 ।।
द्विधा प्रदक्षिणं कुर्यात् प्रणामं च तथाविधम्।
नैकत्रिपञ्चसप्ताख्यगणनाविषमं च यत् ।। 416 ।।
यतः समो हि भगवान् देवः सर्वस्य वै हरिः।
संपूज्य गन्धधूपैश्च ततस्तु भगवन्मयान् ।। 417 ।।
यथाक्रमं समभ्यर्च्य नैवेद्यं प्रतिपाद्य च।
तेषां मात्रावसानं च आसनाद्यं निवेदयेत् ।। 418 ।।
यद्वैभ्यो देव(भोग)यज्ञान्ते तन्मात्रान्तं प्रदाय तु।
अस्मिन्‌ कालेऽर्हणाद्यं तु ताम्बूलान्तं समर्पयेत्।
शय्यासनं ततो दद्यादग्नौ सन्तर्पयेत्ततः ।। 419 ।।
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे बाह्ययागो नाम षष्ठोऽध्यायः ।।
***************