← अध्यायः १९ परमेश्वरसंहिता
अध्यायः २०
[[लेखकः :|]]
अध्यायः २१ →
परमेश्वरसंहितायाः अध्यायाः

।। श्रीः ।।
विंशोऽध्यायः
सनकः ---
तुलापुरुषदानादि मम संसूचितं पुरा।
भूभुजां तद्विधानं मे विस्तरेण मुने! वद ।। 1 ।।
शाण्डिल्यः ---
श्रृणु सम्यक् प्रवष्यामि द्विज! सर्वाघनाशनम्।
तुलापुरुषदानाद्यं सर्वकामफलप्रदम् ।। 2 ।।
प्रजापालनशीलस्य सत्वनिष्ठस्य भूभुजः।
कदाचित् कर्मलोपेन देवकोपोऽभिजायते ।। 3 ।।
तथैव राष्ट्रसंक्षोभः प्रजापीडा च वर्धते।
तथा वर्णाश्रमाचारैर्देशः स्यात् कलुषीकृतः ।। 4 ।।
वेदवैदिकधर्माश्च च्यवन्ते कालविप्लवैः।
बाध्यते प्रतिभूपालैरुपर्युपरि भूपतिः ।। 5 ।।
शून्यो जनपदो भूयात् प्रजा नस्यन्ति तत्क्षणात्।
स्वदोषजनितं कष्टमिति बुद्ध्या महीपतिः ।। 6 ।।
सपुरोधाः सहामात्यः सप्रजापदमादरात्।
पञ्चरात्रविधानज्ञं सर्वभूतहिते रतम् ।। 7 ।।
अलोलुपं चाप्यक्रोधं ऋजुं भागवतं द्विजम्।
कर्मद्वयविधानज्ञं देशिकेन्द्रं समाश्रयेत् ।। 8 ।।
पुरावृत्तं तु सकलं स्वापराधनिमित्तजम्।
सर्वं निवेद्य गुरवे यथावृत्तं महीपतिः ।। 9 ।।
रक्ष रक्षेति चरणौ प्रणम्य समुदीरयन्।
सोऽपि तद्वचनं श्रुत्वा सर्वानुग्रहकारकः ।। 10 ।।
वित्तमाहृत्य नृपतेर्न्यायधर्मसमाहृतम्।
प्रवर्ततेऽथ तत् कर्म ऋत्विग्भिः पञ्चरात्रिकैः ।। 11 ।।
त्रैविद्यैरपि तत्कर्मकुशलैर्भगवत्परैः।
चैत्रादिषु च मासेषु विषुवे चायनद्वये ।। 12 ।।
व्यतीपाते च जन्मर्क्षे चन्द्रसूर्योपरागयोः।
श्रवणे वासवेऽश्विन्यां कृत्तिकास्वथवा मुने! ।। 13 ।।
रोहिण्यां सौम्यनक्षत्रे पुनर्वस्वोर्विशेषतः।
पुष्ये वा हस्तनक्षत्रे उत्तरासु तथैव च ।। 14 ।।
चित्रायां च तथा स्वातौ मैत्रे मूले तथैव च।
दुःस्वप्ने गृहपीडायां महोत्पातेषु सत्स्वपि ।। 15 ।।
व्याधिते च तथाराष्ट्रे कुर्यात् कर्तुश्च सम्मते।
एतन्निमित्तमुद्दिश्य कर्तव्यं चेत्तदैव तु ।। 16 ।।
प्रारभेत्तद्यथा दोषविप्लवो नाभिजायते।
स्वयंव्यक्तादिके स्थाने विष्णोः सर्वगुणान्विते ।। 17 ।।
यथाभिमतदिग्वक्त्रे पुरस्ताद्भगवद्‌गृहे।
त्रिवर्गं मण्टपं कुर्याच्चतुरश्रं समन्ततः ।। 18 ।।
सप्तविंशत्करं क्षेत्रं सप्तधा संविभज्य च।
हस्तोच्छ्रायां महावेदिं सर्वालङ्कारमण्डिताम् ।। 19 ।।
दिक्षु चारोहणैर्युक्तां त्रिभिर्मध्य प्रकल्पयेत्।
तदूर्ध्वे मध्यतो दिक्षु पार्थिवं पीठपञ्चकम् ।। 20 ।।
तालोन्नतं त्रिहस्तं च त्रिस्थानयजनाय च।
भूपतेरधिवासार्थं स्वर्णादेरपि वस्तुनः ।। 21 ।।
तुलायाः खड्गमुख्यस्य भूषणानां च वाससाम्।
मण्डलं मध्येमे पीठे, प्राक्स्थं चक्राब्जसन्निभ् ।। 22 ।।
कुण्डं दक्षिणदिक्पीठं नृपजागरणास्पदम्।
प्रत्यक्स्थे कुंभयागं तु, सौम्यस्थै स्वर्णसञ्चयः ।। 23 ।।
तुलादीनां च संस्कारः कार्यस्तेषां च बाह्यतः।
हस्तमात्रं परित्यज्य दिक्कुण्डानि प्रकल्पयेत् ।। 24 ।।
 चतुरश्रं च चक्राभं शङ्खाभं चाम्बुजाकृति।
विदिक्षु वह्न्यादीशान्तं श्रृगु कुण्डगणं क्रमात् ।। 25 ।।
योन्याकारं त्रिकोणं च वस्वश्रार्द्धेन्दुलक्षणे।
पीठोर्ध्वे कल्पनीयानि चक्राद्यैरङ्कितानि च ।। 26 ।।
परितोऽपि त्रियंशेन चतुर्द्वारसमन्वितम्।
कोणेषु च सुभित्याढ्यं मुखभद्रविराजितम् ।। 27 ।।
विविधारोहणैर्युक्तं सर्वालङ्कारमण्डितम्।
पुरोभागे प्रपा कार्या मानाद्यागालयोपमा ।। 28 ।।
मध्यतो रङ्गसंयुक्ता पश्चिमाशां विसृज्य च।
प्राक् दक्षिणोत्तराशासु द्विभक्त्या प्रावृता दृढा ।। 29 ।।
महोत्सवे प्रतिष्ठायां पवित्रारोहणादिषु।
पुरा यथोक्तं बहुधा तेष्वेकस्मिन् प्रकल्पिते ।। 30 ।।
मण्टपे वा प्रकुर्वीत तुलारोहादिकं द्वयम्।
पुरस्तादेवमापाद्य मण्टपं पूर्वतोमुखम् ।। 31 ।।
पश्चादारोहणतुला विधेया विधिचोदिता।
एकाङ्गुलघने तुल्ये खुवृत्ते हस्तनिर्मिते ।। 32 ।।
धटे हेमादिना कार्ये प्रोद्यदर्कसमप्रभे।
परिधावङ्‌गुलं त्यक्त्वा वलयैर्दिक्षु कीलिते ।। 33 ।।
तुलादण्डसमायामे श्रृङ्खलापाशयोजिते।
काळायसमयं दण्डं कार्यं हस्तत्रयायतम् ।। 34 ।।
त्रितालनाहं मध्ये तु द्वितालं पार्श्वयोर्द्वयोः।
तालमात्रं परित्यज्य कालायसमयं चलम् ।। 35 ।।
बालचन्द्रसमाकारवक्त्रादंष्ट्राद्वयं द्वयोः।
श्रृङ्खलापाशयोगार्थं कृत्वा, मध्ये तदूर्ध्वतः ।। 36 ।।
तीक्ष्णाग्रां स्थापयेज्जिह्वामचलां षोडशाङ्‌गुलमाम्।
शंसन्तीं साम्पवैषम्ये, तदूर्ध्वे तोरणं चलम् ।। 37 ।।
अष्टादशाङ्‌गुलायामं विश्रान्तं पार्स्वयोर्द्वयोः।
बलाकावदनं, वक्त्रं योजयेत्तोरणोपरि ।। 38 ।।
तुलामेवं समापाद्य लक्षणेनोपलक्षिताम्।
प्रसिद्धयज्ञदारूत्थौ सारवन्तौ ऋजू दृढौ ।। 39 ।।
द्विहस्तपरिणाहौ च हस्तैः षड्‌भिः समुच्छ्रितौ।
मूलतश्चतुरश्राभौ मध्यतोष्टाश्र लक्षितौ ।। 40 ।।
ऊर्ध्वतो वर्तुलाकारौ शिल्पिश्रेष्ठेन निर्मितौ।
चतुरश्रस्य कुण्डस्य प्राच्यां द्वारस्य चान्तरे ।। 41 ।।
दक्षिणोत्तरयोः स्थाप्यौ द्विहस्तेनान्तरीकृतौ।
हस्तैः पञ्चभिरुच्छ्राये निखातौ हस्तमानतः ।। 42 ।।
समानजातिवृक्षोत्थं योजयेदुत्तरं तयोः।
स्तंभाग्रतुल्यविस्तारं तावन्मानोन्नतं दृढम् ।। 43 ।।
मङ्गळैरष्टबिर्जुष्टं पार्श्वयोश्च श्रियान्वितम्।
मध्यतस्तदधस्ताच्च कीलयेद्वलयं दृढम् ।। 44 ।।
तुलावलम्बनार्थं च ताम्रजं वाऽयसं तु वा।
कार्याथ ताडनीयष्टिरायामात् षोडशाङ्‌गुला ।। 45 ।।
प्रकोष्ठपरिणाहा च लौही वा सारदारुजा।
यागोपकरणान्यत्र होमोपकरणान्यपि ।। 46 ।।
स्रुक्स्रुवादीनि सर्वाणि कुंभाश्च करकादयः।
तथाष्टमङ्गळादीनि शक्त्या हेमादिजानि वा ।। 47 ।।
अङ्कुरानर्पयित्वाऽथ प्रागुक्तेऽन्यतमे दिने।
पालिकादिषु पात्रेषु मङ्गळार्थं प्रयोगवित् ।। 48 ।।
संभाराणि च सर्वाणि सम्भर्तव्यानि सादरम्।
मण्टपालंक्रियार्थं च त्रिस्थानयजनाय च ।। 49 ।।
चन्दनादीनि गन्धानि पत्रपुष्पफलानि च।
सितादिवर्णयुक्तानि वासांसि विविधानि च ।। 50 ।।
सर्वकुण्डेषु होमार्थं समिधां सप्तकं बहु।
दिक्कुण्डेषु च होतव्याः सिद्धार्थीः काम्यकर्मणाम् ।। 51 ।।
पलाशखदिराश्वत्थोदुम्बरप्रभवा अपि।
विदिक्षु पिप्पलप्लक्षवटकाश्मर्यजातयः ।। 52 ।।
समिधः सर्वकुण्डेषु पालाश्यस्तदलाभतः।
हेमराजतताम्रोत्थाः कलशा मृण्मयास्तु वा ।। 53 ।।
शालिपूर्वाणि धान्यानि बीजानि च विशेषतः।
दधिक्षीराज्यकुंभानि षड्विधानि रसान्यपि ।। 54 ।।
तण्डुलानि विशुद्धानि पाकयोग्यान्यनुक्षणम्।
कर्मण्यान्युपदंशानि पाकपात्राण्यनेकशः ।। 55 ।।
निवेशनार्थस्थालीकाः पात्राण्यर्घ्यादिकस्य च।
प्रदीपधूपपात्राणि सुगुणान्यद्भुतानि च ।। 56 ।।
पाद्यप्रतिग्रहादीनि यागोपकरणानि च।
गुग्गुल्वगरुपूर्वाणि धूपद्रव्याणि यान्यपि ।। 57 ।।
स्नानकुंभोपयोग्यानि यानि सर्वौषधानि च।
दानर्थं ब्राह्नाणादीनां धनधान्याम्बराणि च ।। 58 ।।
भूषणानि महार्हाणि देशिकेन्द्रस्य ऋत्विजाम्।
हेमादि दक्षिणआर्थं च संभर्तव्या यथाबलम् ।। 59 ।।
यागालयमलंकुर्यात् पवित्रारोहणे यथा।
वितानैर्ध्वजिकाभिश्च तुह्गैर्यवनिकापटैः ।। 60 ।।
क्षौमैर्नानाविधैर्वस्त्रैर्घण्टाचामरदर्पणैः।
व्यालम्बिदर्भमालाभिः कदळीपनसादिभिः ।। 61 ।।
सुगन्धपुष्पमालाभिः सौवर्णैर्मञ्जरीगणैः।
सफलैः कदळीपूगनाळिकेरादिभूरुहैः ।। 62 ।।
प्रदीपैः प्रकरैः पुष्पैः सिताद्यैर्वर्णकैरपि।
तोरणैर्द्वारकुंभैश्च सवत्सैः सुरभीगणैः ।। 63 ।।
मण्डितैः खलु श्रृह्गादौ क्षौमस्रग्भूषणादिभिः।
एवमाद्यैरलंकृत्य यथाशोभं तु मण्टपम् ।। 64 ।।
तृतीये वासरे पूर्वे कर्माहाद्दिवसक्षये।
ऋत्विग्भिर्देशिकेन्द्रस्तु कृतसन्ध्याविधिक्रमः ।। 65 ।।
प्रविश्य मण्टपं प्राग्वत् पुण्याहोक्तिपुरस्सरम्।
अर्चनं वासुदेवस्य सहोमं प्राक् समाप्य च ।। 66 ।।
यागालयं तु सर्वत्र गव्यैरभ्युक्ष्य पञ्चभिः।
द्रव्याणि यागयोग्यानि तत्तत्स्थाने नियोजयेत् ।। 67 ।।
प्रभातायां तु शर्वरयां पूर्वाह्ने देहशुद्धये।
उप्तरोमनखश्मश्रुर्भूपतिर्नियतः शुचिः ।। 68 ।।
धौतदन्तश्च सुस्नातः परिशुद्धाम्बरावृतः।
सितालेपनपुष्पाद्यैरञ्चितः संस्मरन् हरिम् ।। 69 ।।
उपोषितो घृतं प्राश्य ब्राह्नणैर्वेदपारगैः।
पारायणमृचां श्रृण्वन्नासीत सपुरोहितः ।। 70 ।।
निशामुखे प्रवृत्ते तु ऋत्विग्बिर्देशिकोत्तमः।
प्रविशेद्यागसदनं कृत्वा द्वार्स्थार्चनं सुधीः ।। 71 ।।
त्रिस्थानस्थं जगन्नाथं यजेद्दीक्षाविधेः समम्।
पुण्याहं पूर्वमुच्चार्य ऋत्विग्भिः कुंभमुद्वहन् ।। 72 ।।
कुंभमण्डलयोः पूजां विस्तरेण समाप्य च।
स्वकुण्डे हवनं कुर्यात् समिद्भिः सप्तभिः पुरा ।। 73 ।।
शान्तिहोमं ततः पश्चान्मधुक्षीरादिभिः क्रमात्।
प्रत्येकं शतसङ्ख्यं च पूर्णान्तं मूलमुच्चरन् ।। 74 ।।
स्वमार्गेण तु संस्कृत्य गुरुः कुण्डगणं ततः।
तेषु प्रभवयोगेन होमार्थं दिक्षु योजयेत् ।। 75 ।।
चतुरो वासुदेवादिनाम्ना एकायनान् द्विजान्।
तैः स्वशाखोदितैर्मन्त्रैः होतव्यं तु क्रमेण तु ।। 76 ।।
ऋगाद्यांश्चतुरो वेदान् विदिक्कुण्डेषु विन्यसेत्।
मन्त्रैरर्चितलिङ्गैस्तु स्वशाखोत्थैस्च पावनैः ।। 77 ।।
होमं कुर्याद्यथायोगं पुंसूक्तेनैव वा द्विज!।
भूः स्वाहेति भुवः स्वाहा, स्वः स्वाहेति तथैव च ।। 78 ।।
भूर्भुवस्सुवःस्वाहेति मन्त्रैर्वा वह्निद्क्क्रमात्।
भूः पुरुषाय स्वाहा, भुवः पुरुषाय स्वाहा ।। 79 ।।
स्वः पुरुषाय स्वाहा, भूर्भुवस्स्वः पुरुषाय स्वाहा।
एतैश्चतुर्भिर्मन्त्रैर्वा जुहुयाद्दिक्क्रमेण तु ।। 80 ।।
सास्त्राणां लोकपालानां कुमुदादिगणस्य च।
अष्टानां मह्गळानां च प्राग्वत् स्यात् स्थापनादिकम् ।। 81 ।।
पालाशादिसमिद्भेदाश्चरुभेदाश्च पूर्ववत्।
प्रतिकुण्डं च कुंभानां स्थापनाद्यं तु पूर्ववत् ।। 82 ।।
चतुर्णां ऋङ्नयादीनां तथा चैकान्तिनामपि।
निवेशनादिकं कार्यं पुरोदितविधानतः ।। 83 ।।
एवं क्रमेण संपाद्य तदन्ते भूपतिं गुरुः।
प्राशयेत् पञ्चगव्यं तु कुशोदकसमन्वितम् ।। 84 ।।
भगवत्पादतोयं च सर्वपापहरं शुभम्।
भक्षयेच्चरुशेषं तु कोष्ठसंशोधनाय च ।। 85 ।।
कृत्वा दक्षिणपीठे तु शालिभारैस्तु विष्टरम्।
नवसङ्ख्यैस्तदूर्ध्वे तु मार्गं चर्म तु विन्यसेत् ।। 86 ।।
व्याघ्रजं वा तदूर्ध्वे तु दर्भानास्तीर्य साक्षतान्।
प्रागग्रानुदगग्रान् वा तस्मिन्नारोप्य भूपतिम् ।। 87 ।।
पूर्णोदकुंभांश्चतुरः प्राग्वद्वस्त्रादिभूषितान्।
चतुर्दिक्ष्वपि संस्थाप्य तेष्वर्च्या मूर्तयः क्रमात् ।। 88 ।।
चतुर्विधानि चान्नानि तासां दद्यात् क्रमेण तु।
ततो होमश्च कर्तव्यः कुण्डेषु प्राक्क्रमेण तु ।। 89 ।।
ततो बूपस्य पुरतः उपविश्यासने गुरुः।
तद्देहस्थिततत्वानां शुद्धिं कुर्याद्विधानतः ।। 90 ।।
प्राक् तेषां विलयं कृत्वा ततः सृष्टिं समाचरेत्।
कुर्यात् कौतुकबन्धं च प्राग्वत्तस्यापि चात्मनः ।। 91 ।।
स्वर्णसञ्चयमाहृत्य तिन्त्रिणीमिश्रवारिणा।
निर्मलीकृत्य संप्रोक्ष्य वीर्यमन्त्रेण तत्पुनः ।। 92 ।।
उदक् दिक् संस्थिते पीठे शालिभारैस्त्रिभिः कृते।
पीठे निवेश्याधिवास्य वासोलङ्कारपूर्वकम् ।। 93 ।।
अन्यच्च सर्वं संस्थाप्य वर्मणा चावकुण्ठयेत्।
ततश्चक्राब्जमालिख्य त्वन्यद्वा मण्डलं शुभम् ।। 94 ।।
रत्नजैर्धातुजैर्वापि वर्णकैः परिपूरयेत्।
गीतनृत्तादिकैः स्तोत्रैः शङ्खवाद्यादिनिस्वनैः ।। 95 ।।
मङ्गळैर्विविधैश्चान्यैर्जागरेण नयेन्निशाम्।
दिव्याद्यायतने कार्यं विशेषयजनं विभोः ।। 96 ।।
ततः कर्मदिने ब्राह्ने मुहूर्ते देशिकः स्वयम्।
कृत्वा स्नानादिकं सर्वं नित्यकर्मविधानतः ।। 97 ।।
ततो यजेद्विशेषेण कुंभस्थं जगतीपतिम्।
मण्डलस्थं क्रमेणैव विविधैर्भोगसञ्चयैः ।। 98 ।।
औपचारिकसांस्पर्शहृदयङ्गमसंज्ञितैः।
परमान्नादिकैस्तत्र प्रबूतैरन्नसञ्चयैः ।। 99 ।।
एवमिष्ट्वा ततोऽग्निस्थं विभुं सन्तर्पयेत् क्रमात्।
समित्सप्तकपूर्वैस्तु मूलेन सघृतैस्तिलैः ।। 100 ।।
सहस्रमाहुतीनां तु शतं वाऽपि समाचरेत्।
सर्वविघ्नविनाशार्थमस्त्रेणापि तथाचरेत् ।। 101 ।।
ऋत्विजश्च स्वकुण्डेषु जुहुयुः पूर्ववत् क्रमात्।
पतितासु च पूर्णासु सर्वकुण्डेषु वै क्रमात् ।। 102 ।।
संस्नाप्य मूलमन्त्रेण, पुंसूक्तेन तथैव च।
सुप्रक्षाळितपाण्यंघ्रिं स्वाचान्तं परिभूषितम् ।। 103 ।।
निशाधिवासितैः सर्वैर्वस्त्रमाल्यानुलेपनैः।
सर्वैराभरणैश्चैव महार्घैर्विविधैरपि ।। 104 ।।
खङ्गखेटकहस्तं च समादाय गुरुः स्वयम्।
मुहूर्ते शोभने प्राप्ते पाणिना पृथिवीपतिम् ।। 105 ।।
पुण्याहं वाचयित्वा तु सर्वमङ्गळसंयुतम्।
कलशस्थलदिक्कुंभसर्वकुण्डेषु संस्थितम् ।। 106 ।।
विभुं प्रदक्षिणीकृत्य कारयित्वा नमस्क्रियाम्।
ब्राह्नणाग्र्याननुज्ञाप्य तुलां नीत्वा प्रदक्षिणम् ।। 107 ।।
तस्याः पश्चिमदिक्संस्थे भूयः प्रागाननं धटे।
आरोपयेन्मूलमन्त्रं साङ्गमावर्तयन् गुरुः ।। 108 ।।
दिव्यान् बलादिकान् मन्त्रान् तथा सूक्तं तु पौरुषम्।
प्राक्पात्रे भूपतिसमं निक्षिपेत् स्वर्णसञ्चयम् ।। 109 ।।
निशाधिवासितं त्वेष तुलाभारः समो भवेत्।
एवं वाऽपि तुलाभारे प्राक् धटे विन्यसेन्नृपम् ।। 110 ।।
प्रत्यङ्‌मुखं पश्चिमे तु निक्षिपेत् स्वर्णसञ्चयम्।
शतनिष्काधिकः श्रेष्ठो, मध्यमोऽर्धाधिको भवेत् ।। 111 ।।
शतपादाधिकः स स्यात्तुलाभारः कनिष्ठकः।
तत्काले ऋङ्भयाद्याश्च चत्वारो दिक्षु संस्थिताः ।। 112 ।।
स्वशाखाः समधीयीरन्, विदिशासु च संस्थिताः।
सद्ब्रह्नज्ञा अधीरयन् शाखाः परमपावनाः ।। 113 ।।
शङ्खकाहळभेर्यादिवाद्यानि विविधानि च।
वादयेयुः समन्ताच्च तत्तद्वाद्यविशारदाः ।। 114 ।।
गीतं तु विविधं कुर्युः गीतशास्त्रविशारदाः।
विविधानि च नृत्तानि कुर्युश्च परितो दिशः ।। 115 ।।
अन्यच्च मङ्गळं यद्यत तत्तत् सर्वं तु कारयेत्।
ततस्तु सर्वकुण्डेषु शान्तिहोमं च कारयेत् ।। 116 ।।
तिलैराज्यैश्च बहुभिः शतमष्टोत्तरं क्रमात्।
भूपतिर्मनसा ध्यायेत् भगवन्तं जनार्दनम् ।। 117 ।।
एकनाडीं तदर्धं वा आसीत नृपतिर्धटे।
ततोऽवरुह्य वै तस्मात् प्रणमेद्दण्डवद्धरिम् ।। 118 ।।
ततस्तु भूषणैर्वस्त्रैर्भूषयेद्भूपतिर्गुरुम्।
सुवर्णदक्षिणां दद्याच्छतनिष्कां तु तत्समाम् ।। 119 ।।
ऋत्विग्भ्यस्तु तदर्धं वा ये चान्ये तत्र कर्मणि।
नियोजितास्तु साहाय्ये तेभ्यः कर्मानुरूपतः । 120 ।।
द्रव्याणि दद्यान्नृपतिर्वस्त्राणि विविधानि च।
सुवर्णसञ्चयांस्तांश्च भूषणानि च भूपतिः ।। 121 ।।
स्वयं व्यक्तादिके स्थाने दद्याद्भगवतो विभोः।
दानात् फलविशेषं तु समाकर्णय सांप्रतम् ।। 122 ।।
स्वयं व्यक्ते विभोः स्थाने यो दद्याद्‌भूपतिर्हरेः।
सर्वपापविनिर्मुक्तः सर्वामयवियोजितः ।। 123 ।।
सर्वसंपत्समृद्धश्च सर्वदेशाधिपो भवेत्।
भुङ्‌क्ते च विविधान् भोगानिह लोके परत्र च ।। 124 ।।
कोटिकोटिगुणं दानं तथैव च फलं भवेत्।
दानं यद्दिव्यायतने तदनन्तगुणं भवेत् ।। 125 ।।
आर्षे च सैद्‌धायतने दानं लक्षगुणं भवेत्।
सद्विप्रकल्पिते दानं सहस्रगुणितं भवेत् ।। 126 ।।
सत्क्षत्रकल्पिते स्थाने दानं शतगुणं भवेत्।
सद्वैश्यकल्पिते स्थाने तदर्धगुणितं भवेत् ।। 127 ।।
सच्छूद्रकल्पिते दत्तं द्विषट्‌कगुणितं भवेत्।
अनन्यशरणैर्वर्णैः स्थाने तु परिकल्पिते ।। 128 ।।
दानं दशगुणं प्रोक्तं वर्णैर्व्यामिश्रयाजिभिः।
निर्मितायतने दत्तं तत् पञ्चगुणितं भवेत् ।। 129 ।।
दाने मुख्यविधिः प्रोक्तस्त्वनुकल्पमतः श्रृणु।
तत्र ये श्रोत्रियाः प्राप्ता वैघ्णवा ब्राह्नणोत्तमाः ।। 130 ।।
सुवर्णसञ्चयाद्यं च तेभ्यो दद्याद्यथाक्रमम्।
यागोपकरणं सर्वमाचार्याय प्रदापयेत् ।। 131 ।।
यः कुर्याद्‌भूपतिः कश्चित् अन्यो वा धनवान् सकृत्।
तुलाभाराह्वयं कर्म सर्वपापैः प्रमुच्यते ।। 132 ।।
रोगैरनबिभूतश्च भविष्यति न संशयः।
यः कुर्यान्नियमेनैव कर्मैतत् प्रतिवत्सरम् ।। 133 ।।
तस्य पुण्यफलावाप्तिं कः शक्नोत्यभिवर्णितुम्।
तत्काले भगवद्यागं चतुःस्थानार्चनान्वितम् ।। 134 ।।
दिव्याद्यायतने सम्यक् कारयेत् पृथिवीपतिः।
तदन्यस्मिन् दिने विप्र! स्नापयेत् पुरुषोत्तमम् ।। 135 ।।
सहस्रकलशैः सम्यक् पुरोदितविधानतः।
यद्वान्यस्नपनेनैव तत्तत्कालोचितेन वै ।। 136 ।।
चतुसःथानार्चनं तत्र विशेषात् कारयेन्नृपः।
महाहविर्निवेद्यं च विशेषेणैव कारयेत् ।। 137 ।।
तत्रापि देशिकादिभ्यो दद्याद्वै दक्षिणां क्रमात्।
दीनान्धकृपणानाथान् बालवृद्धकृशातुरान् ।। 138 ।।
भोजयेच्च विधानेन द्रव्यादीन्यपि दापयेत्।
विविधानि च बीजानि शाल्यादीन्यपि दापयेत् ।। 139 ।।
बन्दीकृतांश्च विसृजेत् कारागृहनिवेशितान्।
एष ते कथितो विप्र! तुलाभारविधिः क्रमात् ।। 140 ।।
हिरण्यगर्भाद्यन्येष्वप्येवमेव समाचरेत्।
एवं कुर्यात्तुलाभारं यः सकृद्बहुशोऽपि वा ।। 141 ।।
सर्वपापविमोक्षस्तु तस्य स्यान्नात्र संशयः।
यो वा भगवतोऽर्थे तु मातापित्रोर्गुरोस्तु वा ।। 142 ।।
स्वप्राणांस्त्यजतां भक्त्या विप्रादीनां महामते।
निमित्ती तु भवेत्तस्य तुलाभारादिकेन च ।। 143 ।।
बहुशोऽनुष्ठितेनैव सम्यगेव तु कर्मणा।
अन्यैर्वा विहितैर्विप्र! प्रायश्चित्तैः सुदुष्करैः ।। 144 ।।
ब्रह्नहत्योऽत्थदोषस्य शुद्धिर्भवति वा न वा।
प्राणत्यागः कृतस्तेन विष्वर्ण्थे यन्महात्मना ।। 145 ।।
तस्मान्न निष्कृतिर्विप्र! भवेत्तस्य निमित्तिनः।
ब्राह्नणाः क्षत्रिया वैश्या विष्ण्वर्थे मौद्गलास्तु वा ।। 146 ।।
परित्यजेयुः स्वप्राणान् भगवद्भक्तिसंयुताः।
भृग्वादिभिरुपायैस्तु पञ्चभिर्वा विषादिकैः ।। 147 ।।
अन्यैस्तेषां भवेत् सद्यौ वाजपेयादिजं फलम्।
सकामस्य तु निष्कामः प्राप्नुयात् परमां गतिम् ।। 148 ।।
महात्मनस्तु तान् विद्धि विष्ण्वर्थे त्यक्तजीवितान्।
आत्महत्योत्थदोषैस्ते न लिप्यन्ते कदाचन ।। 149 ।।
आत्महत्योत्थदोषाः स्युरन्येषां सर्वदा द्विज!।
एवं भगवदर्थे तु प्राणत्यागे कृतादरः ।। 150 ।।
यमुद्दिश्य त्यजेत् प्राणान् तं विद्याद्ब्रह्नघातकम्।
मुख्यविप्रे मृते तस्य तद्दोषः स्याच्चतुर्गुणः ।। 151 ।।
क्षत्रिये ब्रह्नहत्योत्थदोषस्तु त्रिगुणो भवेत्।
निमित्तिनः स दोषः स्याद्‌द्विगुणः संस्थिते विशि ।। 152 ।।
निमित्तिने मृते शूद्रे दोष एकगुणो भवेत्।
एवं दोषविवृद्धिस्तु भवेद्विप्रे निमित्तिनि ।। 153 ।।
निमित्तिनि क्षत्रियादावेकैकगुणवर्धनात्।
भवेत् पूर्वोक्तदोषस्तु अतार्थे नास्ति संशयः ।। 154 ।।
एवं मृते विप्रमात्रे दोष उक्तो निमित्तिनः।
मुख्यदोषः पञ्चगुणो ब्रह्नचारिणि संस्थिते ।। 155 ।।
गृहस्थे यज्वनि मृते स दोषः षड्‌गुणो भवेत्।
वानप्रस्थे मृते मुख्यदोषः सप्तगुणो भवेत् ।। 156 ।।
सन्न्यासाश्रमनिष्ठे तु संस्थिते तु निमित्तिनः।
स्यान्मुख्यदोषोऽष्टगुण एवं तु कथितो मुने! ।। 157 ।।
निमित्तिनो दोषवृद्धिः विष्ण्वर्थे मरणे सति।
एवं निमित्तभूतानां द्विजादीनां न निष्कृतिः ।। 158 ।।
तत्र यत् ब्राह्नणैरुक्तं विवेकनिरतैस्सदा।
सर्वशास्त्रार्थतत्वज्ञैः तत् कुर्यादविचारतः ।। 159 ।।
अन्यथा तु महान् दोषो भवेद्देशाधिपस्य तु।
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे प्रायश्चित्ततुलाभारविधिर्नाम विंशोध्यायः।
*************