← अध्यायः १७ परमेश्वरसंहिता
अध्यायः १८
[[लेखकः :|]]
अध्यायः १९ →
परमेश्वरसंहितायाः अध्यायाः

।। श्रीः ।।
अष्टादशोऽध्यायः
सनकः ---
नित्यनैमित्तिकाद्येषु यागेषु वदतां वर!।
मानं तु प्रापणादीनां श्रोतुमिच्छामि तद्वद ।। 1 ।।
शाण्डिल्यः ---
नित्ये नैमित्तिके काम्ये प्रायश्चित्ते तथैव च।
मानं नवविधं विप्र! श्रृणु मुख्यानुकल्पयोः ।। 2 ।।
क्रमात् प्रापणपूर्वाणां द्रव्याणामुत्तमादिकम्।
अत्रैकमूर्तेरेकस्मिन् काले भारद्वयेन तु ।। 3 ।।
कल्पयेत् प्रापणं चैतदुत्तमोत्तमसंज्ञितम्।
एकैकं द्रोणमानेन कृमाद्‌ध्रासं समाचरेत् ।। 4 ।।
अधमाधमसंज्ञं स्याद्यता द्रोणचतुष्टयम्।
मुख्यकल्पमिमं विद्धि अनुकल्पं श्रणुष्व मे ।। 5 ।।
मुख्यमूर्तेस्त्वथैकस्मिन् यागे भारेण कल्पितम्।
उत्तमोत्तमसंज्ञं तु प्रापणं द्विजसत्तम! ।। 6 ।।
आढकद्वयहीनं तद्भवेदुत्तममध्यमम्।
अधमाधमकं यावदेवं ह्वासं समाचरेत् ।। 7 ।।
यथा द्रोणद्वयं विप्र! अधमाधमसंज्ञितम्।
यद्वाढकद्वयं प्रोक्तमधमाधमसंज्ञितम् ।। 8 ।।
क्रमेण तस्मादारभ्य द्रोणार्धं वर्धयेद्‌द्विज!।
अथोत्तमोत्तमं विप्र! सार्धद्रोणचतुष्टयम् ।। 9 ।।
कुर्यादाढकमात्रं तु प्रापणं संकटे सति।
पुरुषाशनमात्रं वा भवेद् द्रव्यानुरूपतः ।। 10 ।।
आढकद्वयमानेन तदर्धेनाथवा द्विज!।
पृथक्पात्रेषु निर्दिष्टं यावद्भारद्वयावधि ।। 11 ।।
नित्ये नैमित्तिके काम्यप्रायश्चित्ताख्ययोरपि।
विधिरेष समानः स्यादत ऊर्ध्वं महाहविः ।। 12 ।।
दशैकभारमात्रं तु उतमोत्तमसंज्ञितम्।
महोदनोऽनुकल्पे तु भारै (एकै) क ह्रासमाचरेत् ।। 13 ।।
अधमाधमपर्यन्तमस्मिन् भारद्वयं यथा।
यद्वा विंशतिभारं तु उत्तमोत्तमसंज्ञितम् ।। 14 ।।
भारद्वयद्वयह्रासं यथा स्यादधमाधमे।
चतुर्भारप्रमाणं तु मुख्यकल्पे विधिं श्रृणु ।। 15 ।।
एकभारविहीनैस्तु त्रिंशद्भारैः प्रकल्पितम्।
उत्तमोत्तमसंज्ञं तु भाराणां तु त्रयं त्रयम् ।। 16 ।।
ह्रासयेत्क्रमयोगेन यथा स्यादधमाधमे।
पञ्चभारप्रमाणं तु एवं वा परिकल्पयेत् ।। 17 ।।
पञ्चाशद्भारमात्रं स्यात् उत्तमोत्तमसंज्ञितम्।
पञ्चपञ्चपरित्यागादेवं नवविधं भवेत् ।। 18 ।।
दशभारप्रमाणं तु यथा स्यादधमाधमे।
अस्मादूर्ध्वं तु गृह्नीयान्महोदनविधौ द्विज! ।। 19 ।।
सहस्रभारपर्यन्तं विभवेच्छानुरूपतः।
मात्रार्थं तण्डुलं श्रेष्ठमाढकत्रयकल्पितम् ।। 20 ।।
अधमाधमपर्यन्तं प्रस्थं प्रस्थं तु ह्रासयेत्।
मुख्यकल्पे भवेच्छ्रेष्ठं सार्धद्रोणविनिर्मितम् ।। 21 ।।
प्रस्थद्वयद्वयह्रासमाचरेत्तु यथाक्रमम्।
अधमाधममानं स्याद्यथा द्रोणार्धकल्पितम् ।। 22 ।।
अधमाढकमानस्य हविषो मुख्यकल्पने।
मात्रार्थं तण्डुलं प्रस्थं तदर्धमनुकल्पके ।। 23 ।।
हविर्नृद्धिकमेणैव मात्रावृद्धिं समाचरेत्।
अधमस्यैककल्पे तु द्रोणार्धं परिकल्पयेत् ।। 24 ।।
मात्रार्थमनुकल्पे तु आढकं परिकल्पयेत्।
तण्डुलाद्‌द्विगुणः शालिर्मात्रा स्यादुत्तमोत्तमा ।। 25 ।।
समाना मध्यमा प्रोक्ता तदर्धा कीर्तिताधमा।
शालिवत्कल्पितव्या स्याद्वीजमात्रा त्रिधा स्थिता ।। 26 ।।
वीजानामप्यभावे तु मुद्गमेकं प्रशस्यते।
वीजेष्वेकतमं वापि तत्तत्कालानुरूपतः ।। 27 ।।
तण्डुलेन समा मुख्या तिलमात्रा प्रकीर्तिता।
तदर्धा मद्यमा प्रोक्ता पादमाना कनीयसी ।। 28 ।।
यथा विभवमानः स्याद्रिक्तवित्ताढ्यमानयोः।
शालिमात्रा न कर्तव्या यागे स्नपनवर्जिते ।। 29 ।।
अन्या मात्राः प्रकल्प्याः स्युः सर्वस्मिन्नर्चनाविधौ।
मुख्यमूर्त्युचितान्मानादधिकेन न कल्पयेत् ।। 30 ।।
प्रमाणेनाङ्गबिम्बानां सर्वं तु हविरादिकम्।
तद्याप्यधिककालं तु हविराद्यं न कल्पयेत् ।। 31 ।।
अन्नादाढकमानात्स्यात् पुरुषाशनमात्रकात्।
प्रासादयजने ह्रासं न कदाचित् समाचरेत् ।। 32 ।।
मात्रा तण्डुलमानं च शालिमानं तथैव च।
न ह्रासयेन्मुनिश्रेष्ठ! मानादाढकनिर्मितात् ।। 33 ।।
स्वगृहे यजने कुर्याद्विभवेच्छानेरूपतः।
आज्यादीनामथो मानं वक्ष्ये तदवधारय ।। 34 ।।
अन्नस्याढकमानस्य घृतं तु कुडुबत्रयम्।
उत्तमोत्तमसंज्ञं तु मुख्यकल्पक्रमेण तु ।। 35 ।।
एकैकमुष्टिहान्या तु नवधैतत् प्रकीर्तितम्।
अनुकल्पे घृतं विप्र! सार्धं तु कुडुबं भवेत् ।। 36 ।।
अर्धार्धमुष्टिहान्या तु तच्चापि नवधा स्मृतम्।
द्विगुणं घृतमानं स्यात् मुद्गान्नपरिकल्पने ।। 37 ।।
अन्नवृद्धिक्रमेणैव घृतवृद्धिं समाचरेत्।
कर्मव्यान्युपदंशार्थं मूलानि च फलानि च ।। 38 ।।
विंशत्पलानि प्रोक्तानि उत्तमोत्तमसंज्ञया।
अन्नस्याढकमानस्य मुख्यकल्पक्रमेण तु ।। 39 ।।
एकैकपलहान्या तु तदेतन्नवधा भवेत्।
उत्तमं द्वादशपलमनुकल्पे क्रमेण तु ।। 40 ।।
एकैकपलहानिः स्यादधमाधमपश्चिमम्।
मुद्गभेदोपदंशस्तु आढके घृतमानवत् ।। 41 ।।
मुद्गान्ने मुद्गमानस्तु तण्डुलेन समो भवेत्।
मुख्यः पादविहीनस्तु मध्यमः परिकीर्तितः ।। 42 ।।
अर्धमानोऽधमः प्रोक्तस्तस्मान्न ह्रासमाचरेत्।
नालिकेरफलं चैकमाढकस्य प्रकीर्तितम् ।। 43 ।।
तदर्धं मध्यमं प्रोक्तं तदर्धमधमं भवेत्।
लवणं च मरीचादि यथायोगं समाचरेत् ।। 44 ।।
तण्डुलादष्टगुणितं पयः स्यात् पायसोदने।
मध्यमं पादहीनं स्यादधमं स्यात्तदर्धकम् ।। 45 ।।
क्षीराभावे नालिकेरपयसा परिकल्पयेत्।
उभयोः पयसोर्वापि मिश्रणं सममानयोः ।। 46 ।।
गुडाब्रस्याढकस्याथ गुलानां त्रिंशतं पलम्।
उत्तमं विंशतिश्चैव मध्यमे दशमं भवेत् ।। 47 ।।
तण्डुलादर्धमानो वा मुद्गभेदस्तदर्धकः।
अथवा सममानो वा पायसान्नगुळान्नयोः ।। 48 ।।
एकं चापूपमानं स्यात् कुडुबद्वयकल्पितम्।
मुख्यं तदर्धं मध्यं स्यात्तदर्धमधमं भवेत् ।। 49 ।।
मुद्गभेदस्तण्डुलार्धस्तत्पादो वा यथारुचि।
एकस्यापूपमानस्य षट्‌पलं तु गुळं भवेत् ।। 50 ।।
अथवैकपलं वापि संकटे परिकल्पयेत्।
नाळिकेरपलं चैकं तदर्धं पादमेव वा ।। 51 ।।
एकस्यापूपमानस्य यथापाकं घृतं भवेत्।
लवनं च मरीचाद्यं यथायोगं तु पूर्ववत् ।। 52 ।।
शतत्रयं षष्ट्यधिकमपूपानां तदुत्तमम्।
चत्वारिंशत्क्रमाद्‌ध्रासे चत्वारिंशत्तथान्तिमे ।। 53 ।।
पूगीफलानि ताम्बूलीदलाश्चाशीतिसङ्ख्यया।
एवं प्रकल्पितं ब्रह्नन्नेकं ताम्बूलमुच्यते ।। 54 ।।
तस्मान्न्यूनं न कर्तव्यं प्रासादेषु कदाचन।
मुख्यकल्पे द्विसाहस्रं क्रमुकीफलमुच्यते ।। 55 ।।
तस्माद्‌द्विगुणमानं तु ताम्बूलीदलमीरितम्।
उत्तमोत्तममेतत्तु अशीतिर्द्विचतुःक्रमात् ।। 56 ।।
ह्रासयेदुभयं विप्र! यथा स्यादधमाधमे।
शतानि सप्त, विंशच्च फलानि स्युर्दलानि च ।। 57 ।।
चतुर्ददशशतानि स्युश्चत्वारिंशच्च सत्तम!।
एकस्य ताम्बूलकस्य अह्गानां मानमुच्यते ।। 58 ।।
एलालवङ्गलक्कोलजातीनां निष्कपादकम्।
मानं स्याच्चन्दनस्यापि चूर्णस्यापि तथैव च ।। 59 ।।
कर्पूरमष्टमानं तु नाळिकेरफलार्धकम्।
मातुळङ्गफलार्धं च तैलमुष्ट्यष्टमांशकम् ।। 60 ।।
एवमेव क्रमेणैव ह्यङ्गानां वृद्धिमाचरेत्।
उत्तमोत्तमपूजायां चन्दनं द्विपलं भवेत् ।। 61 ।।
सपादं, मुख्यकल्पे तु, द्विद्विनिष्कविहीनकम्।
अधमाधमकं याव, दनुकल्पे श्रृणुष्व मे ।। 62 ।।
पलमेकं सनिष्कं स्यान्निष्कैकं ह्रासयेत् क्रमात्।
चन्दनं निष्कमानं तु यथा स्यादधमाधमे ।। 63 ।।
स्नपने चन्दनं मानं मुख्यकल्पेऽवधारय।
अष्टादशपलं मानमुत्तमोत्तमसंज्ञितम् ।। 64 ।।
पलद्वयद्वयह्रासो यावत् स्यादधमाधमम्।
अनुकल्पे नव पलं स्नपने चन्दनं भवेत् ।। 65 ।।
होमे चन्दनमानं तु पूजोक्तादर्धकं भवेत्।
तदर्धं वा यथायोगं बाह्‌लिके मानमुच्यते ।। 66 ।।
पूजाचन्दनवन्मानं मुख्यकल्पानुकल्पयोः।
तथा कर्पूरमानं तु तदर्धं वा द्विजोत्तम! ।। 67 ।।
आढकं हैममुदकं कुडुबद्वयसंयुतम्।
कुडुबद्वयद्वयह्रासमाचरेदन्तिमावधि ।। 68 ।।
मुख्यकल्पमिमं विद्धि, ह्यनुकल्पे तदर्धकम्।
कृष्णाङ्गरागं मुख्ये तु सार्धनिष्कचतुष्टयम् ।। 69 ।।
निष्कार्धक्रमह्रासेन नवधा परिकीर्तितितम्।
अनुकल्पे तदर्धेन नवधा मानमीरितम् ।। 70 ।।
कृष्णाङ्गरागवन्मानं भवेन्मृगमदस्य च।
कस्तूरिकायास्च तथा मानं नवविधं भवेत् ।। 71 ।।
द्रव्याणां स्नपनोक्तानां निष्काष्टादशकं तु वा।
नवकं वोत्तमोत्कृष्टं यथा स्यादधमाधमम् ।। 72 ।।
निष्कद्वयं तथैकं वा भवेत्तत्कल्पयेत्तथा।
एवं विज्ञाय मानाद्यं संस्कृत्य हविरादिकम् ।। 73 ।।
आराधयेद्देशिकेन्द्रो यथा शास्त्रोदितक्रमात्।
आचार्यः साधको वाऽन्नं पाचयेत्पाचकैः सदा ।। 74 ।।
स्वयं वा।पि यथायोगं मन्त्रज्ञानामसन्निधौ।
तेषामाचार्यपूर्वाणां सङ्ख्यानियम उच्यते ।। 75 ।।
श्रीरङ्गाख्यविमानादौ स्वयं व्यक्ते महामते!।
प्रासादे च तथा सिद्धैः विबुधैश्च प्रतिष्ठिते ।। 76 ।।
आचार्यान् शास्त्रविहितांश्चतुरः परिकल्पयेत्।
अष्टौ द्वादश षड्वाथ कल्प्याः स्युः पञ्च वा मुने! ।। 77 ।।
प्रधानगुरुणा सार्धं कल्प्या ह्येकोत्तरास्तु वा।
यथा विहितसङ्ख्या वा सह तेन महामुने! ।। 78 ।।
एवमेव भवेत् सङ्ख्या ऋषिभिः परिकल्पिते।
मनुष्यनिर्मिते स्थानेऽप्येवभेव समाचरेत् ।। 79 ।।
आचार्याणां यथोक्तानां योग्यानामप्यसन्निधौ।
आचार्यास्तु त्रयः कल्प्याः द्वावेको वा महामते! ।। 80 ।।
मूलबिम्बादि पूजार्थमाचार्या मुख्यकल्पके।
कल्प्याः साधकमिश्रा वा मध्यकल्पेऽनुकल्पके ।। 81 ।।
केवलाः साधकाः कल्प्या यथा विहितसङ्ख्यया।
चत्वारः साधकाः कल्प्याः षडष्टौ द्वादशाथवा ।। 82 ।।
षोडशाथापि विभवे नान्यथा परिकल्पयेत्।
स्वयंव्यक्तादिकेष्वेवं कल्प्याः पञ्चविधेष्वपि ।। 83 ।।
स्थानेषु मानुषेष्वद्य विशेषः परिकीर्त्यते।
व्यामिश्रयाजिभिर्वर्णैः स्थाने तु परिकल्प्यते ।। 84 ।।
एवं विहितसङ्‌क्याः स्युराचार्याः साधकास्तथा।
मुख्यकल्पेऽनुकल्पे तु केवलाराधकान् दश ।। 85 ।।
यथोक्तसङ्‌ख्यैराचार्यैः सहितान् परिकल्पयेत्।
मूलबिम्बस्य पूजार्थं तदेवंसङ्ख्यकास्तुते ।। 86 ।।
कल्पने पञ्चसङ्‌ख्यायास्तथा पञ्चदश स्मृताः।
तेषां तु देशिकेन्द्राणामेकद्वित्रित्वकल्पने ।। 87 ।।
एकादश द्वादश च त्रयोदश च ते क्रमात्।
तस्मादाराधकानां तु दशसङ्‌ख्यां तु केवलाम् ।। 88 ।।
न कल्पयेत्तु सर्वत्र तस्माच्छास्त्रोक्तमाचरेत्।
मानुष्याद्व्यतिरिक्तेषु स्वयं व्यक्तादिषु द्विज! ।। 89 ।।
यथा विहितसङ्‌ख्याः स्युराचार्यास्साधकास्तथा।
नित्ये नैमित्तिके काम्ये प्रायश्चित्तेऽपि सर्वदा ।। 90 ।।
दशसङ्‌ख्या न कल्प्या स्यात् उक्तन्यायेन कल्पयेत्।
मूलबिम्बादिपूजार्थं तथा बाह्यस्थमूर्तिषु ।। 91 ।।
कृते सति महान् दोषस्तदा स्याद्राजराष्ट्रयोः।
महद्भयं स्यात् स्थानस्य कर्तुः कारयितुस्तथा ।। 92 ।।
तस्मादुक्तेन मार्गेण तत्तत्सङ्‌ख्याः प्रकल्पयेत्।
परिवारेषु यागः स्याच्चतुर्भिर्वा षडष्टभिः ।। 93 ।।
द्वादशभिः षोडशभिः साधकैः परिकल्पितैः।
गोपुरे मण्डपे साले प्राङ्कणे मालिकादिके ।। 94 ।।
स्थापितं वैभवं मूर्तं प्रादुर्भावं तु वा द्विज!।
प्रादुर्भावान्तरं मुक्यं यद्यन्मूर्तं प्रतिष्ठितम् ।। 95 ।।
तत्तद्यागेऽथ चत्वारः षडष्टौ द्वादशाथ वा।
सङ्कल्प्याः साधका विप्र! कल्प्याः षोडश वा द्विज! ।। 96 ।।
त एव परिवारार्थं कल्पनीयास्तु वा द्विज!।
गोपुरादौ स्थापितेषु बिम्बेष्वपि सदार्चने ।। 97 ।।
देशिका एव संकल्प्याः तद्योग्यानामसन्निधौ।
परिवारपदे योग्या अनन्या ब्राह्नणा द्विज ।। 98 ।।
दीक्षिता ब्राह्नणा वापि कर्मज्ञाः कर्मकौशलाः।
श्रीरङ्गादौ स्वयं व्यक्ते स्थाने तु परिचारकाः ।। 99 ।।
अशीतिसङ्‌ख्यासङ्‌ख्याताः पाचकाश्च त एव हि।
सिद्धप्रतिष्टिते स्थाने सप्तत्येव तु ते स्मृताः ।। 100 ।।
देवप्रतिष्ठिते षष्टिर्द्वाविंशदृषिकल्पिते।
मनुष्यनिर्मिते स्याने त्रिंशद्विंशत्तथापि वा ।। 101 ।।
अथबा भारमात्रान्नपचनादिषु कर्मसु।
एकायना दीक्षिता वा चत्वारो वा त्रयोऽपि वा ।। 102 ।।
एवं भारानुसारेण क्रमेण परिवर्धयेत्।
यथा स्यादृतुभारेषु (द्वि) द्वादशाष्टादश द्विज! ।। 103 ।।
एकस्तु कल्पनीयः स्यात्ताम्वूलापूपसाधने।
एकस्तु कल्पनीयोऽन्तः परिचारककर्मणि ।। 104 ।।
चत्वारिंशत्समाख्याताः तदेवं परिचारकाः।
पक्षभारोदनानां तु साधने तु चतुर्गुणाः ।। 105 ।।
अपूपसाधने द्वौ तु द्वौ तु ताम्बूल साधने।
चत्वारस्तु तथात्वन्तः परिचारककर्मणि ।। 106 ।।
एवं त्वशीतिसङ्ख्याः स्युः पक्षभारान्नसाधने।
वर्धयेदत ऊर्ध्वं च तत्तद्भारानुसारतः ।। 107 ।।
ह्रासस्तदनुसारेण कर्तव्योऽभ्यूह्य सर्वदा।
एवं स्याद्भारमात्रे तु त्रयाणां परिकल्पने ।। 108 ।।
चतुर्णां कल्पने वाऽपि तत्क्रमेण विवर्धयेत्।
साधकाः पाचकाश्चैव ह्याचार्यवशवर्तिनः ।। 109 ।।
आचार्यसाधकानां च आज्ञासन्धारणोद्यताः।
सर्वदा पाचकाः सर्वे भवेयुः परिचारकाः ।। 110 ।।
पाचका एव शास्त्रेषु कीर्त्यन्ते परिचारकाः।
अन्तरङ्गा बहिरङ्गा द्विविधाः परिचारकाः ।। 111 ।।
अन्तरङ्गास्तु संप्रोक्ताः पाचकाः परिचारकाः।
बहिरङ्गास्तु संप्रोक्ताः पुष्पाद्याहरणोद्यताः ।। 112 ।।
अन्येऽपि ये निबद्धाः स्युस्तत्तत्कर्मानुरूपतः।
तेऽपि सर्वे यथायोगमाचार्यवशवर्तिनः ।। 113 ।।
वाहका गायकाश्चैव पाचकोक्तक्रमेण तु।
वर्धनीया यथायोगमन्ये स्युः कर्मकारिणः ।। 114 ।।
आचार्याश्चैव चत्वारः तथा षोडश साधकाः।
अशीतिसङ्ख्यासङ्ख्याताः पाचकाः परिचारकाः ।। 115 ।।
एवमेकायनानां तु चतुः सङ्ख्याप्रकल्पनम्।
मुख्यकल्पमिमं विद्धि तदभावे महामते! ।। 116 ।।
तेषां दीक्षितमिश्राणां कल्पनं मध्यकल्पनम्।
अधमं कल्पनं विद्धि सह्ख्यास्वन्यास्वपि द्विज! ।। 117 ।।
मुख्यादिप्रविबागत्वमेवमभ्यूह्य कल्पयेत्।
पुत्रदीक्षाभिषेकेण संस्कृतांस्तत्र कल्पयेत् ।। 118 ।।
समये दीक्षाभिषेके संस्कृतान् वा न चान्यथा।
आचार्यैः साधकाश्चैव केवलास्त्वथवा द्विज! ।। 119 ।।
बहिरङ्गेषु सर्वेषु कल्प्याः समयदीक्षिताः।
यया कया च विधया दीक्षिताऽहीक्षितास्तु वा ।। 120 ।।
भूयः कश्चिद्विशेषोऽयं कथ्यते तमिमं श्रृणु।
सनकः ---
मुनीम्द्र प्रापणादीनां सङ्ख्यामानमुदाहृतम् ।। 121 ।।
इदानीं सविशेषेण चैतेषां मानलक्षणम्।
शालिमुद्गादिभेदं च साधनं मन्त्रपूर्वकम् ।। 122 ।।
निवेदनप्रकारं च कारिणां संप्रदानकम्।
यथावत् सर्वमेवैतत् पृच्छतो मे प्रकाशय ।। 123 ।।
शाण्डिल्यः ---
श्रृणु सम्यक् प्रवक्ष्यामि यथा पृष्टं त्वया मुने!।
येन संसाधितेनैव संपूर्णं पूजनं भवेत् ।। 124 ।।
नित्यं नैमित्तिकं काम्यं त्रिविधं हविरुच्यते।
प्रथमं नित्ययागे तु हविषो लक्षणं श्रृणु ।। 125 ।।
स्वहस्तेनाष्टतालोच्चो यः स मध्यमपूरुषः।
तस्य देशिकमुख्यस्य मध्यमाङ्गुलिसंभवः ।। 126 ।।
द्विपर्वस्राविणी बिन्दुः द्वात्रिंशद्बिन्दुभिस्त्रुटिः।
त्रुटिद्वयं तथा शुक्तिस्तद्‌द्वयं प्रसृतं भवेत् ।। 127 ।।
प्रसृताभ्यां प्रकुंजं तु तद्‌द्वयं कुडुबं भवेत्।
मानिका कुडुबाब्यां तु प्रस्थं तन्मानिकाद्वयम् ।। 128 ।।
्परस्थद्वयं शमं प्रोक्तं तद्‌द्वयं चाढकं भवेत्।
शिवमाढकयुग्मं तु द्रोणं तद्‌द्विगुणं भेवत् ।। 129 ।।
द्रोणद्वयं तु रवारी स्यात् तत्‌त्रयं भारमुच्यते।
शालितण्डुलमुद्गादि दधिक्षीरादिकान्यपि ।। 130 ।।
प्रोक्तेनानेन मीयन्ते हविष्पाकादिकर्मसु।
चत्वारो व्रीहयः कुंजः तेऽष्टौ माञ्जिष्ठमुच्यते ।। 131 ।।
तत्छतं षष्टिरधिकं निष्कं निष्काष्टकं पलम्।
चन्दनादीनि गन्धानि गुळखण्डयुतानि च ।। 132 ।।
कदळीपनसाम्राणि कूष्माण्डप्रमुखानि च।
तुलया तुलितानि स्युः यथोक्तपलमानतः ।। 133 ।।
ज्ञात्वैवं नियतं मानं हविषां साधनाय च।
शालिमुद्गयवा माषा गोधूमाश्च प्रिङ्गयवः ।। 134 ।।
तिलाः सप्त इमे ग्राह्ना ग्राम्या वै चरुकर्मणि।
वेणुश्यामाकनीवारा जर्त्तिलाश्च गवीधुकाः ।। 135 ।।
मर्कटाः कनकाः सप्त विज्ञेयास्तु वनोद्भवाः।
शालयस्तेषु मुख्याः स्युस्तदन्यास्तदभावतः ।। 136 ।।
रक्तशाल्यो महाशाल्यः कळमा गन्धशालयः।
श्वेतशाल्यः सशूकाश्च हेमाभा गर्भशालयः ।। 137 ।।
सुकुमाराश्च सूक्ष्माश्च दशैताः शालयः स्मृताः।
अन्तर्भेदाश्च बहवः सप्तमुद्गा उदाहृताः ।। 138 ।।
मुद्नाः कृष्णाश्च हेमाश्च श्वेताः पीता महत्तराः।
अञ्जनाभाश्च सप्तैते अन्तर्भेदा उदाहृताः ।। 139 ।।
श्वेताः कृष्णाश्च पीताश्च वन्याश्चैव महातिलाः।
तिलानां पञ्चभेदास्तु ग्राह्याः स्युः परिकीर्तिताः ।। 140 ।।
उपाहृतानि केदाराद् दैवीयाच्च कृषीवलैः।
शालिमुद्गादिभेदानि कर्मण्यान्यर्चने विभोः ।। 141 ।।
अवपन्नादिभिर्दोषैरष्टभिर्वर्जितानि च।
आनयेदवघातार्थं अवघातगृहे पुरा ।। 142 ।।
गोमयेन समालिप्ते सुधाद्यैः परिमण्डिते।
शोधिते शतधारेण पवित्रेण कुशाम्बुभिः ।। 143 ।।
स्थले प्रणवमुच्चार्य प्राङ्‌मुखैर्वाऽप्षुदङ्‌मुखैः।
दीक्षितैर्नियतैर्विप्रैर्धृतचक्रादिलक्षणैः ।। 144 ।।
सुस्नातैर्लोहदार्वश्ममृण्मयानि समन्ततः।
स्थापयित्वोलूखलानि क्षाळितैः खादिरैर्दृढैः ।। 145 ।।
मुसलैरवहन्युस्ते द्वादशाक्षरविद्यया।
निस्तुषान्निष्कणान् कृत्वा तण्डुलान् सूर्पकोटरैः ।। 146 ।।
तैस्तावदवहन्तव्या यावन्मुक्ताफलप्रभाः।
अखण्डिताश्चानणवः कृष्णबिन्दुविवर्जिताः ।। 147 ।।
मुद्गभेदास्तथा कार्याः सारवन्तश्च निस्तुषाः।
साध्वीभिब्राह्नणीभिर्वा दीक्षितानामभावतः ।। 148 ।।
शूद्रैर्वा दीक्षितैर्देवदासीभिर्देवसझनि।
हविःपाकादिकर्मार्थं कार्याऽवहननक्रिया ।। 149 ।।
वैष्णवानां गृहे शुद्धे दीक्षितानां गृहेऽपि वा।
तण्डुलांस्तु प्रगृह्णीयाद्विधिक्षुण्णांस्तु देशिकः ।। 150 ।।
अकणानतुषानेव क्रिमिहीनानपि क्रमात्।
केशपाषाणहीनांस्तु प्राण्यङ्गरहितांस्तथा ।। 151 ।।
भस्माङ्गारविहीनांस्तु अभग्नानलघूनपि।
कणैस्तु भवति व्याधिस्तुषैर्दारिद्य्रकं भवेत् ।। 152 ।।
कृमिभिः पुत्रनाशः स्यात् केशैर्दारविनाशनम्।
पाषाणैर्मरणं विद्धि अशन्या वह्निना जलैः ।। 153 ।।
प्राण्यङ्गैर्व्याधयः प्रोक्ता भस्मना कलहो ध्रुवः।
अङ्गारैर्वह्निना बाथो भग्ने भङ्गस्तु विग्रहे ।। 154 ।।
प्रवासो लघुबिश्चैव तस्स्मात्तान् परिवर्जयेत्।
संभारानखिलानेव प्राक्‌संकल्पितसंमतान् ।। 155 ।।
संभृत्य देशिकास्सार्धं साधकैःपाचकैरपि।
अवघातगृहं प्राप्य तत्रस्थं तण्डुलादिकम् ।। 156 ।।
ब्रह्नशुक्रमिवेत्युक्त्वा नेत्रेणेवावलोकयेत्।
प्राग्वत् संशोधयेत्तानि दहनाप्यायनादिभिः ।। 157 ।।
पैद(त्त)लादिषु शुद्धेषु पात्रेषु विततेष्वपि।
पचनार्थं सुमुद्धृत्यं तत् सर्वं तण्डुलादिकम् ।। 158 ।।
तत्तत्पात्रसमुद्धारे निपुणैः परिचारकैः।
सुस्नातैश्च सुवेषैश्च वस्त्रेणाच्छादिताननैः ।। 159 ।।
आनयेत् पचनागारं शङ्खतूर्यादिमङ्गळैः।
द्वारस्योत्तरपार्श्वे तु गोमयेनोपलेपिते ।। 160 ।।
प्रदेशे निक्षिपेत्तानि भाजनानि यथाक्रमम्।
गुळोपदंशपूर्वाणि लवणादिरसानि च ।। 161 ।।
विन्यसेद्वायुदिग्भागे दधिक्षीरघृतानि च।
र्निदद्यान्नैर्ऋते भागे होमोपकरणान्यपि ।। 162 ।।
चतुर्भिर्व्यापकैर्मन्त्रैः वस्त्रपूतेन वारिणा।
क्षाळयित्वा चतुर्धा च यथा स्यात्तण्डुलादिषु ।। 163 ।।
शिलाशकलनिर्मुक्तं निस्तुषं निष्कणं यथा।
अपक्वव्रीह्यवहततण्डुलेनैव साधितम् ।। 164 ।।
गव्यदुग्धाज्यसंपृक्तं गुळखण्डपलान्वितम्।
अक्षारलवणोपेतं देवानां हविरुच्यते ।। 165 ।।
तदेव परमान्नं स्यात् क्षीराज्यगुडपाचितम्।
घृतसिक्तं तु शुद्धान्नमभावे हविरुच्यते ।। 166 ।।
अक्षारलवणं सिद्धं गुळक्षीरफलान्वितम्।
शान्तिके व्रतयज्ञे च संसाध्यं हविरुत्तमम् ।। 167 ।।
पायसान्नं, गुळान्नं च मुद्गान्नं, केवलोदनम्।
दध्यन्नं, च तिलान्नं च, निशान्नं, सर्वमिश्रितम् ।। 168 ।।
इत्यष्टधा समुद्दिष्टं हविर्देवस्य संमतम्।
सर्वमाज्येन संसिच्य सोपदंशं निवेदयेत् ।। 169 ।।
तेषां संसाधनार्थं तु लोहजा वाऽथ मृण्मयाः।
स्थालयः सशरावाश्च कल्पनीयाः पुरैव तु ।। 170 ।।
देशिकेन्द्रकराह्गुष्ठजठरोत्थाङ्गुलेन तु।
षोडशाङ्‌गुलकोन्मानाः स्थाल्यः स्युः पाककर्मणि ।। 171 ।।
उच्छ्रायादुदरं तत्र द्वादशाह्गलसंमितम्।
जठरे, मूलविस्तारः कलया तुलितो भवेत् ।। 172 ।।
अङ्‌गुलान्तरितं कार्यं कण्ठे सूत्रचतुष्टयम्।
एवं लक्षणयुक्तायाः विस्तारोच्छ्रायमानयोः ।। 173 ।।
अर्धाधिकं वा द्विगुणं मध्यमोत्तमवाञ्छया।
एवमाकृतिरुद्दिष्टा स्थालीनां पाककर्मणि ।। 174 ।।
शरावाणामथान्येषां लक्षणं श्रृणु सत्तम!।
अष्टाङ्‌गुलायतं सूत्रं भूमौ प्राप्य परिब्रमेत् ।। 175 ।।
मध्यतो जठरं तस्य षोडशाङ्गलविस्तृतम्।
अष्टाङ्‌गुलान्तमुच्छ्रायमर्धचन्द्रसमाकृति ।। 176 ।।
कण्ठोच्चं त्र्यङ्गलं चोर्ध्वं वलयं द्व्यङ्गलं भवेत्।
दशाङ्‌गुलं चास्यतारं वलयेन समन्वितम् ।। 177 ।।
कण्ठोच्चादुदरोच्चान्तं ऋजुसूत्रद्वयेन तु।
गुळसिद्धं च कुर्वीत प्राग्वत् सूत्रचतुष्टयम् ।। 178 ।।
हविः सङ्‌ख्यानुगुण्येन बह्वयः स्थाल्यस्तथेतराः।
तथोपदंशपात्राणां सर्वेषामास्यविस्तृतेः ।। 179 ।।
अधिकान्यपिधानानि तत्तद्‌द्रव्यमयानि च।
सुवृत्तानि पिधेयानि पादचन्द्राकृतीनि च ।। 180 ।।
तथा पाकोपयोग्यानि पात्राण्यन्यानि सत्तम!।
प्राग्वन्मद्याद्यपेक्षायां समभ्यूह्य प्रकल्पयेत् ।। 181 ।।
घृततप्तोपदंशार्थमम्बरीषमथायसम्।
जलद्रोण्यः कटाहाश्च बहवः क्षीरपाचने ।। 182 ।।
घृतपाके तथापूपसाधने पात्रसञ्चयम्।
अन्यानि च समुत्पाद्य द्रर्व्यादीनि विधानतः ।। 183 ।।
प्रारभेत हविःपाकं वक्ष्यमाणेन वर्त्मना।
आहृत्योदनपाकाग्निं कुण्डादौपासनानलात् ।। 184 ।।
चुल्यां निधाय "तारेण" "सप्तते"ग्न इतीरयन्।
इन्धनानि विनिक्षिप्य यज्ञदारुमयानि च ।। 185 ।।
क्रिमिकीटादिहीनानि "ज्योतिरात्री" तिमन्त्रतः।
प्रज्वाल्य व्यजनेनैव ततः स्थालीश्च ताम्रजाः ।। 186 ।।
प्रक्षाल्य तिन्त्रिणीतोयैः केवलैर्मृण्मयांस्ततः।
प्रक्षाल्य द्वादशार्णेन वीर्यमन्त्रेण मन्त्रवित् ।। 187 ।।
घृतेनालेपयेत्तासामन्तरं व्यूहविद्यया।
तण्डुलान् प्रक्षिपेत्तासु गायत्र्या विष्णुपूर्वया ।। 188 ।।
अंभस्यपार इति चमन्त्रेण स हृदा पुनः।
जलेनापूरयेदूर्ध्वे तण्डुलान् प्रतिपात्रगान् ।। 189 ।।
तण्डुलाढकमानस्य षटप्रस्थमुदकं भवेत्।
कर्मारंभेण ताःस्थालीश्चुल्यामारोपयेत्ततः ।। 190 ।।
चक्रमन्त्रेणापिधानीस्ताः संछाद्य यथाक्रमम्।
पाककाले समुद्धाट्य वीर्यमन्त्रेण तुद्ध्वनिम् ।। 191 ।।
निरीक्ष्य नेत्तमन्त्रेण दर्व्या `मूलं' समुद्धरन्।
चतुर्धा वर्तयेच्चैव चक्रेणाच्छादयेत् पुनः ।। 192 ।।
पव्के जलमविस्राव्य द्वादशार्णं समुच्चरन्।
विद्रावितेन गव्येन हविषा चाभिघार्य च ।। 193 ।।
शुचीन् सत्क्रियतेत्यादि मन्त्रेणाधारपृष्ठतः।
शोधिते भूतले वाथ व्रीहिभिर्वा प्रसारिते ।। 194 ।।
एवं हवींषि सिद्धानि पाणिभ्यामवरोप्य च।
अस्त्राभिमन्त्रितेनैव बहिः प्रक्षाल्य वारिणा ।। 195 ।।
तन्मन्त्रेतेन शुद्धेन वस्त्रेणोद्वर्तयेत्ततः।
भस्मना मथितेनाद्भिर्वासुदेवादिवाचकैः ।। 196 ।।
तर्जन्याद्यङ्‌गुलीभिश्च कुर्याद्दिक्षूर्ध्वपुण्ट्रकम्।
समाच्छाद्य पिधानैश्च वसनैः क्षाळितैस्ततः ।। 197 ।।
इत्युक्तं साधनं सम्यक् शुद्धान्नस्य विशेषतः।
अन्येषां साधनं वक्ष्ये परमान्नपुरस्सरम् ।। 198 ।।
तण्डुलस्य तु तुर्यांशं पायसे मुद्गसारकम्।
तन्मानं घृतमुद्दिष्टं प्रागेव कथितं पयः ।। 199 ।।
चतुर्गुणं तण्डुलाच्च खण्डचूर्णसमन्वितम्।
साधयेदुक्तमार्गेण समन्त्रं केवलोदने ।। 200 ।।
"हंसः सुछिष" दित्यत्र गोक्षीरस्य नियोजनम्।
तदभावे नियोक्तव्यं नाळिकेरोद्भवं पयः ।। 201 ।।
"अब्जागोजे" ति तत्क्षेपः स्याद्गव्यप्रतियोजने।
गुडान्नपाचने क्षीरमपहायैक्षवं रसम् ।। 202 ।।
कथितं गुडखण्डं वा क्षीरमानानुसारतः।
क्षीरप्रक्षेपमन्त्रेण गुडादीनि नियोजयेत् ।। 203 ।।
मुद्गान्ने तण्डुलं सम्यक् मुद्गसारं नियोजयेत्।
शुद्धान्ने तु पुरा प्रोक्तं विशेषेण घृताप्लुतम् ।। 204 ।।
दध्योदने दधिक्षेपः क्षीरार्धपरिसंमितः।
कदळीपनसाम्रादिगुडखण्डसमन्वितम् ।। 205 ।।
खण्डचूर्णसमोपेतं कृसरान्ने तु मुद्गकम्।
आढकस्य हरिद्रान्ने निशापिष्टं पलं भवेत् ।। 206 ।।
मुद्गसारसमोपेतं गुडखण्डादिसंयुतम्।
मिश्रान्ने योजयेत् किंचित् क्षीराज्यघृतसंप्लुतम् ।। 207 ।।
शान्त्यर्थं पयसा मिश्रं पुष्ठ्यर्थे गुडमिश्रितम्।
वश्यार्थे मुद्गसारोत्थमाकृष्टौ दधिमिश्रितम् ।। 208 ।।
कृसरान्नं तु पित्र्यर्थे मारणोच्चाटनेऽपि च।
स्तंभने च हरिद्रान्नं मिश्रान्नं मोहने भवेत् ।। 209 ।।
साधारणं तु शुद्धान्नं यात्रासु मृगयादिके।
विशेषेण तु दध्यन्नं हेमराजतपात्रगम् ।। 210 ।।
मरीचिशुण्ठीलिकुचतिन्त्रिणीरसमिश्रितम्।
चूर्णेन जीरकोत्थेन संस्कुर्याद्रसवस्तुभिः ।। 211 ।।
रसभेदसमुत्थानि पनसद्वितयोद्भवम्।
चूतभेदसमुत्थानि नातिपव्कानि कालतः ।। 212 ।।
बृहत्युर्वारुवार्ताककूष्माण्डप्रभवानि च।
कारवल्लीलतोत्थानि कार्कोटप्रभवानि च ।। 213 ।।
पटोलद्वितयोत्थानि कोशातक्युद्भवे तथा।
अलाबुकर्करीनिम्बभेदोत्थं तिन्त्रिणीफलम् ।। 214 ।।
क्षुद्रकन्दसमेतं च वल्लीकन्दद्वयं तथा।
सूरणद्वयकन्दं च तथा पिण्डारकद्वयम् ।। 215 ।।
पझोत्पलसमुत्थं च हविर्योग्यं विशेषतः।
उच्छिष्टं कृमिदष्टं च शिवाद्यैर्दंशितं तथा ।। 216 ।।
घ्रातं लालाजलस्पृष्टममेध्यस्थलसंभवम्।
पादस्पृष्टमकालोत्थमाहृतं चाशुचिस्थले ।। 217 ।।
भुक्तशेषं तथाऽस्पृश्यस्पृष्टं दत्तावशेषकम्।
परीक्ष्य बहुधा मन्त्री वर्जयेत् पाककर्मणि ।। 218 ।।
जीवन्तीं वास्तुकं शाकं कारवल्लीदलं तथा।
तुम्बीदलं च पिण्डीं च चमू (पुच्छ) मुद्गदलानि च ।। 219 ।।
शाकिनीं शतपर्वाण तथैव श्वासमर्दितम्।
आगस्त्यं पाचयेच्छाकं विहितं ब्राह्नणस्य च ।। 220 ।।
एकमूलानि चान्यानि गृह्णीयादनिषेधने।
झेदयित्वा लवित्रेण वीर्यमन्त्रं समुच्चरन् ।। 221 ।।
निरीक्ष्य कृमिकीटादीन् शाकांश्च बहुधा तथा।
प्रक्षाल्य तेषु पात्रेषु निधाय बहुधा जलैः ।। 222 ।।
प्राग्वत् स्थालीषु निक्षिप्य प्रत्येकं वाऽथ मिश्रितम्।
सैन्धवैः समरीचैश्च सर्षपैर्जीरकैरपि ।। 223 ।।
श्रीपर्णीदलसंमिश्रैः पयोभिर्नालिकेरजैः।
तत्फलैरपि संघऋष्टैर्मृदुभिर्घृतमिश्रितैः ।। 224 ।।
मसूरमाषनिम्बादिमुद्गभेदसमन्वितम्।
सयूषान् मुद्गभेदादीनयूषान् लवणादिभिः ।। 225 ।।
रसभेदैः समेतांश्च साधयेत्तदनन्तरम्।
त्वचो व्यपोह्य मुद्गोत्थैः सारैः क्षीरेण पाचितैः ।। 226 ।।
मरीचजीरलवणैर्घृतयुक्तैश्च मर्दितैः।
दर्व्यादिभिस्च संस्कुर्यात् गुल्माषं सरसं यथा ।। 227 ।।
स्थालीशरावपूर्णेषु पाचितानि पुरैव तु।
कदळीपनसादीनि नाळिकेरफलानि च ।। 228 ।।
कूश्माण्डबृहतीपूगकारवल्लीफलानि च।
क्षुद्रकन्दसमेतानि वल्लीपिण्डारकानि च ।। 229 ।।
अम्बरीषादिपात्रेषु विततेषु समन्ततः।
घृतलिप्तेषु तप्तेषु समारोप्य प्रसार्य च ।। 230 ।।
चूर्णीभूतैर्मरीचैश्च जीरकेन घृतेन च।
प्रतापितानि स्निग्धानि दर्व्यालोड्य पुनः पुनः ।। 231 ।।
स्थापनीयानि भाण्डेषु छादितान्यम्बरादिभिः।
आब्रादीनि च शुष्काणि अशुष्काणि फलानि च ।। 232 ।।
तिन्त्रिणीगुडमिश्राणि मरीचैर्जीरकैरपि।
नाळिकेरोत्थपयसा सर्षपैः पेषितैरपि ।। 233 ।।
स्थापयेदाम्रसारोत्थं लवणेन समन्वितम्।
श्रऋह्गिबेरं तथार्द्रं च दळितं रहितं च वा ।। 234 ।।
वासितं लवणोपेतं लिकुचोत्थरसेन तु।
कदळीपनसाम्राणां केवलानि फलानि च ।। 235 ।।
गोधूमशालिजैः पिष्टैर्गुडपाकेन लोलितैः।
पाचितैर्मुद्गसारैश्च शकलैर्नाळिकेरजैः ।। 236 ।।
जीरकैः समरीचैश्च घृतेऽपूपानि पाचयेत्।
सुवृत्तान्याम्रतुल्यानि धात्रीफलसमानि च ।। 237 ।।
न्यग्रोधफलतुल्यानि लिकुचाद्याकृतीनि च।
अन्तर्निक्षिप्तमुद्गानि रसवन्ति समन्ततः ।। 238 ।।
गुडपिष्टेन बद्धानि नाळिकेराकृतीनि च।
नानाभेदसमुत्थानि घृतेऽपूपानि साधयेत् ।। 239 ।।
शालिव्रीहिसमुत्थाश्च शालिषु स्फुटितानि च।
लघूनि वह्णितप्तानि गुडपाकान्वितानि च ।। 240 ।।
चूर्णितैश्च मरीचैश्च जीरकैः खण्डितैरपि।
नाळिकेरफलैः शुष्कैः पृथुकानि च साधयेत् ।। 241 ।।
भर्जितैः शालिपिष्टैश्च मिश्रितैर्जीरकादिना।
लोळितैर्गुडपाकेन पिण्डीभूतैः पृथक् पृथक् ।। 242 ।।
सक्तु स्यात् साधितं तद्वत्तिलैः पिण्डः सुभर्जितैः।
तिलपिण्ड इति ख्यातःसदा देवस्य संमतः ।। 243 ।।
सुश्रृतं च घनीभूतं खण्डचूर्णसमन्वितम्।
क्षीरं च मधुसर्पिर्भ्यां संपृत्क्तं सुघनं दधि ।। 244 ।।
तरुणैः शकलीभूतैरुर्वारुसहकारयोः।
रूक्षसर्षपसंमिश्रं समरीचं तथा दधि ।। 245 ।।
पृथक्पात्रगतं शुद्धं गाळितं माक्षिकं मधु।
द्राक्षापनसरंभाम्रसमुत्थैर्मर्दितै रसैः ।। 246 ।।
लोळितं गुळखण्डेन जीरकादिसमन्वितम्।
रसालमेतद्विज्ञेयं दधिमिश्रं तु पानकम् ।। 247 ।।
केवलं दधिसंमिश्रं वारिणा तत्समेन तु।
केवलं दधिसंमिश्रं वारिणा तत्समेन तु।
मथितं समरीचं च लवणैश्चाधिवासितम् ।। 248 ।।
कण्डचूर्णसमोपेतं पानकं श्रमशान्तिकृत्।
अन्नानामपि संस्कारे पुरा मन्त्राः प्रकीर्तिताः ।। 249 ।।
तदन्येषां तु संस्कारो द्वादशार्णेन वा हृदा।
साङ्गेन मूलमन्त्रेण सर्वं संसाधयीत वा ।। 250 ।।
विष्णुगायत्रिया वाऽथ पञ्चोपनिषदाथवा।
संसाध्य परमान्नाद्यमुपदंशान्वितं क्रमात् ।। 251 ।।
फलकादिषु संस्थाप्य चोर्ध्वपुण्ड्राद्यलंकृतम्।
महानसद्वारभूमेरालयद्वारपश्चिमम् ।। 252 ।।
गोमयेनानुलिप्तेन सुधाचूर्णेन शोभिना।
पथास्त्रमन्त्रसंजप्तवारिधारापुरस्सरम् ।। 253 ।।
शह्खतूर्यादिघोषेण तथा मङ्गळगीतिभिः।
प्रदीपच्छत्रयुक्तैश्च हविःपालनतत्परैः ।। 254 ।।
वेत्रपाणिभिरन्यैश्च नास्तिकोत्सारणोद्यतैः।
स्नाताः शुक्लाम्बरा दक्षाः कृतपादावनेजनाः ।। 255 ।।
स्वाचान्ताः कुशहस्ताश्च मृदा वा चन्दनादिना।
धृतोर्ध्वपुण्ट्रा नियताः मनोवाक्कायकर्मभिः ।। 256 ।।
सितकञ्चुकधर्तारः स्थगितानननासिकाः।
वलमन्त्रेण भाण्डानि वहेयुः परिचारकाः ।। 257 ।।
मूलालयाग्रदेशस्थमण्टपे विततेऽथवा।
प्रथमावरणे धाम्नो दक्षिणे माळिकावनौ ।। 258 ।।
सुगुप्ते सुवितानाढ्ये दीपमालाद्यलंकृते।
प्रदेशे वस्त्रसञ्छन्ने स्थाप्यानि फलकादिके ।। 259 ।।
हविः प्रमाणतुल्याश्च हेमराजतकाम्रजाः।
स्थालिकाश्च यथालिप्ताः प्रक्षाल्यास्त्रेण वारिणा ।। 260 ।।
पाणिना दक्षिणेनैव परामृश्य च तेन च।
तारेण तासु निक्षेप्या धाराऽज्यस्य समन्ततः ।। 261 ।।
स्थालीभ्यः समुपाहृत्य दर्व्या हेमादिक्लृप्तया।
तदूर्ध्वे निक्षिपेन्मौनी पायसादीन्यनुक्रमात् ।। 262 ।।
घृतेनाप्लाव्य मधुरव्यञ्जनानि समन्ततः।
दधिक्षीरादिपूर्णानि चषकाण्यूर्ध्वतो न्यसेत् ।। 263 ।।
सिद्धान्यपूपभेदानि पृथुकादीनि यान्यपि।
पानकानि विचित्राणि पृथक्पात्रगतानि च ।। 264 ।।
कर्पूरचन्दनक्षोदप्रसूनैस्चाधिवासितम्।
शीतलं वस्त्रसञ्छन्नं पानीयं करकादिषु ।। 265 ।।
एकालवङ्गतक्कोलजातीपूगफलान्वितम्।
कर्पूरतैलसंमिश्रं खण्डितं च क्षुरादिभिः ।। 266 ।।
नागवल्लीदलोपेतं सचूर्णं चेन्दुसंयुतम्।
ताम्बूलं च प्रतिष्ठाप्य पात्रेष्वब्जाकृतीषु च ।। 267 ।।
चन्दनादीनि गन्धानि तथा नानाविधाः स्रजः।
स्थापयित्वा यथास्थानमाराधकमुखेन तु ।। 268 ।।
विज्ञापयेयुर्देवस्य तत्तत्कर्माधिकारिणः।
भोज्यासनाधिरूढस्य देवस्याराधकः स्वयम् ।। 269 ।।
अर्घ्याद्यैः प्राग्वदभ्यर्च्य साध्यबीजावसानिकैः।
द्वारस्याभ्यन्तरगते देवस्य पुरतः स्थले ।। 270 ।।
शोधिते चार्घ्यतोयेन चन्दनाद्यैश्च मण्डिते।
मण्डले तु परिस्तीर्य तण्डुलानि यथारुचि ।। 271 ।।
क्षालितं वस्त्रतुण्डं तु तदूर्ध्वे संप्रसार्य च।
अन्नाधारं प्रतिष्ठाप्य तदूर्ध्वे लोहनिर्मितम् ।। 272 ।।
ऊर्ध्वतो वसनावद्धं तदूर्ध्वे स्रोतसंप्लुते।
न्त्‌यसेवि परमान्नादि पात्राण्येकैकशः क्रमात् ।। 273 ।।
तर्पणं तु प्रतिष्ठाप्य हस्तप्रक्षाळनाम्भसा।
कुर्याद्दक्षकरे दैवे प्रागुपस्तरणार्हणम् ।। 274 ।।
ततो देवादिमूर्तीनां हवींषि विनिवेदयेत्।
प्रथमं पायसं, पश्चात् गुडान्नं मुद्गभेदितम् ।। 275 ।।
शुद्धान्नं तिलसंमिश्रं निशान्नं, दधिमिश्रितम्।
मिश्रान्नं च क्रमाद्दद्यादपूपानि तदन्तिमे ।। 276 ।।
पृथुकानि च सक्तूनि तिलपिण्डान्वितानि च।
कदळीपनसादीनि फलानि विविधानि च ।। 277 ।।
रसभेदसमेतानि पानकानि च तर्पणम्।
नाळिकेररसं चैव हस्तपक्षाळिनं ततः ।। 278 ।।
उपस्पर्शं च ताम्बूलं दत्वा प्रागुक्तमाचरेत्।
राजभिर्हविषो नित्यं प्राचुर्ये कल्पिते सति ।। 279 ।।
आधारेषु प्रतिष्ठाप्य वितते गर्ममन्दिरे।
निवेद्यानि यथायोगमन्यश्रा संकटे भुवि ।। 280 ।।
तदेकस्मिन् दृढाधारे वस्त्रच्छन्ने यथाक्रमम्।
निधाय विनिवेद्याय तथातमपनीय च ।। 281 ।।
प्रोक्षिते चास्त्रमन्त्रेण निक्षेप्यं हविरन्तरम्।
निवेदयेद्यथापूर्वं बिशेषोऽत्र समीरितः ।। 282 ।।
मन्त्रक्रियाविहीनं च गन्धदुष्टं विवर्णकम्।
अतिपव्कमप्कं च विस्रावितजलं तथा ।। 283 ।।
अदीक्षितैश्च पतितैरीक्षितं प्रतिलोमजैः।
अत्युष्णमतिशीतं च प्रमाणरहितं तथा ।। 284 ।।
समुद्धृतं च निःशेषं मुखवातादिदूषितम्।
व्यञ्जनादिविहीनं चाप्यपात्रस्थमघोपितम् ।। 285 ।।
अन्तस्तण्डुलसंयुक्तं भिन्नभाण्डगतं तथा।
अनाधारं परस्पृष्ठं अर्कतापहतं तथा ।। 286 ।।
अङ्गारतुषसंयुक्तं केशपाषाणसंयुतम्।
कृमिलोष्ठादिभिर्जुष्टं प्राण्यङ्गादिसमन्वितम् ।। 287 ।।
अपूर्णपाकमाधाररहितव्ञ्जनोज्झितम्।
गव्याज्यदधिनिर्मुक्तं काङ्क्षितं चेतरैर्जनैः ।। 288 ।।
अपिधानविनिर्मुक्तं देवतान्तरसंमतम्।
एवं दुष्टं हविर्बुध्वा प्रक्षिपे ज्जलमध्यतः ।। 289 ।।
मोहात् त्यक्तं हविर्विष्णोः यदि दद्यात्तदर्चनम्।
निरर्थकं स्यात् कर्तॄणां विनाशश्च भवेद् ध्रुवम् ।। 290 ।।
तस्मात्तदैव मूलस्य सहस्रं जपमाचरेत्।
ततस्तत्राश्रयाणां च स्थापितानां विधानतः ।। 291 ।।
विभवव्पूहमूर्तीनां मण्टपे गोपुरादिषु।
स्थापितानां च मूर्तींनां प्रादुर्भावात्मनामपि ।। 292 ।।
पूजितानां यथान्यायं सत्यादीना खगात्मनाम्।
कुमुदादिगणेशानां द्वार्स्थानामपि सझनि ।। 293 ।।
प्रतिष्ठितानां भक्तानां प्रागुक्तानां विधानतः।
तत्तन्मन्त्रेण विधिवत्सिद्धान् च पृथक् पृथक् ।। 294 ।।
हवींषि पायसादीनि क्रमेण विनिवेदयेत्।
गारुडेनैव मन्त्रेण बल्यर्थं साधयेद्धविः ।। 295 ।।
अन्येषां प्रणवेनैव सिद्धमन्नं निवेदयेत्।
अग्निकार्यं हविस्साध्यं यथा मूलालयाकृतेः ।। 296 ।।
सर्वाण्यपूपभेदानि नाग्निकार्ये हितानि वै।
अन्यानि पायसादीनि नित्यनैमित्तिकादिषु ।। 297 ।।
होतव्यानि विशेषेण फलानि विविधानि च।
भूतानां बलिदानेषु पायसादीनि नित्यशः ।। 298 ।।
अपूपानि च सक्तूनि पृथुकानि फलानि च।
तिलपिण्डसमेतानि मिश्रितान्यथवा पृथक् ।। 299 ।।
दातव्यानि यथान्यायं तेषां तृप्तिकरं यतः।
तेन कूरादिभिर्ब्रह्नन्! उत्सवादिषु कर्मसु ।। 300 ।।
तत्र तत्रोक्तविधिना बलिद्रव्याण्युपाहरेत्।
अभावे सर्ववस्तूनां सोदकं केवलोदनम् ।। 301 ।।
तण्डुलं वोदकेनैव दातव्यं मन्त्रवित्तमैः।
इति सम्यक् समाख्यातं हषिषां साधनादिकम् ।। 302 ।।
निवेदनप्रकारस्च नित्ये मूलादिमूर्तिषु।
तथाश्रयेषु प्रासारे बाह्यतो वाऽङ्कणादिकैः ।। 303 ।।
प्रासादेषु च क्लृप्तेषु स्थापितेष्वाश्रयादिषु।
प्राकारगोपुरद्वारमम्टपेषु समन्ततः ।। 304 ।।
विभवव्यूहबिम्बेषु तथाङ्गालयमूर्तिषु।
प्रासादाभ्यन्तरस्थानां देवतानां यथार्चने ।। 305 ।।
निवेदनार्थं नादद्यात् द्वारबाह्ये प्रतिष्टितम्।
निषिद्धान्नं निवेद्यं तद् दूषितं राक्षसादिभि ।। 306 ।।
देवेन प्रागनुज्ञातं रक्षसां दितिजन्मनाम्।
अन्येषां भरणीयानां भूतानां पिशिताशिनाम् ।। 307 ।।
तस्यात्तत्स्था अनादेया बलवीर्यादिशक्तयः।
विभूत्या वाऽविभूत्या वा हविषः प्राप्तये पृथक् ।। 308 ।।
पृथक्‌पात्रगतं सिद्धं द्वारस्यान्ते निवेशितम्।
निवेदनीयं क्रमशः परमान्नपुरुस्सरम् ।। 309 ।।
काम्ये नैमित्तिकेप्येव महतो हविषोर्चने।
प्रासादाभ्यन्तरस्थस्य सकर्मार्चादिकस्य च ।। 310 ।।
आढ्यैर्द्विजातिभूपाद्यैः यथाविभवमादरात्।
निवेदनीयं यद्येकं पात्रस्थं मूलकौतुके ।। 311 ।।
अन्नपूरं प्रतिष्टाप्य प्रासादाग्रस्थमण्डपे।
मूलमूर्तिं समभ्यर्च्य कर्मार्चाभिः सशक्तिभिः ।। 312 ।।
स्नापयेत् कर्मबिम्बस्थं कलशैः प्रागुदीरितैः।
मूले प्राग्वत् पृथक्‌पात्रे निवेद्य च हविस्ततः ।। 313 ।।
कर्मबिम्बगतं देवमानीयाग्रस्थमण्डपे।
तस्मिन्निवेदयेन्मन्त्री मूलमूर्त्यवलोकितम् ।। 314 ।।
महद्धविश्च तत्रस्थं परमान्नादिसत्कृतम्।
मखकौतुकपूर्वासु क्रमेणाब्यर्चितासु च ।। 315 ।।
निवेद्य च यथायोगं पात्रस्थानि पृथक् पृथक्।
वत्सरोत्सवपूर्वेषु नानावैशेषिकेष्वपि ।। 316 ।।
यात्रामूर्ति समानीय बाल्यतो यत्रकुत्रचित्।
विस्तरेणार्चयित्वा तु महदन्नं निवेदयेत् ।। 317 ।।
तदर्थं विधिवत् कुर्यात् स्नपनं स्नानकौतुके।
मृगयाद्युत्सवे प्राप्ते बहिरुद्यानभूमिषु ।। 318 ।।
महोदनसपर्यार्थमालयाभ्यन्तरस्थिते।
स्नापयेद्विधिवन्मन्त्री तद्बिम्बं स्नानमण्टपे ।। 319 ।।
द्वादश्यादिषु कालेषु तथा च अवणादिषु।
वत्सरोत्सवनिष्ठेषु नानावैशेषिकेष्वपि ।। 320 ।।
साधनं हविषामेतत् साधारणमुदाहृतम्।
अथोत्सबार्चामानीत्र कुत्रचिन्मण्टपादिके ।। 321 ।।
यथाविधि समाराध्य बहुधा पायसादिना।
यथालब्धेन चान्नेन प्रीणेयेद्भक्तिपूर्वकम् ।। 322 ।।
विशेषमथ वक्ष्यामि महतो हविषोर्चने।
नित्ये महाहविर्यागो न च कार्यो हितैषिभिः ।। 323 ।।
वितते गर्भगेहे वा प्रासादाग्रस्थमण्‍टपे।
बाह्यतः स्नपनाद्यर्थं यागार्थं वा प्रकल्पिते ।। 324 ।।
प्रागुक्तेन प्रमाणेन त्वेकपात्रे समर्पितम्।
यत्तन्महाहविः प्रोक्तं हरेः प्रीतिकरं सदा ।। 325 ।।
प्रासादाभ्यन्तरे कल्प्यमुपपात्रोज्झितं हविः।
तदन्यत्र विशेषेण विस्तृतं परिकल्पयेत् ।। 326 ।।
मूलमूर्तिं पुराऽभ्यर्च्य तदर्थं मन्त्रवित्तमः।
अभ्यर्च्यार्घ्यादिभिर्मन्त्रैः प्राग्वद्‌धूपान्तिमैस्ततः ।। 327 ।।
तस्मात् स्नपनबिम्बस्य हृदयाम्भोरुहोदरे।
चिच्छक्तिमवतीर्याथ तथाचोत्सवकौतुके ।। 328 ।।
समभ्यर्च्य यथा पूर्वमानीय स्नानमण्टपे।
स्नानकौतुकमासाद्य कलशैरभिषिच्य च ।। 329 ।।
निवेद्य च हविः पश्चादानयेद्गर्भमन्दिरम्।
तस्मिन् विनय्स्य तन्मन्त्रं मूलमूर्तौ नियोजयेत् ।। 330 ।।
यानादौ तु समारोप्य उत्सवार्चामलङ्‌कृताम्।
यागार्थमण्टपे वाथ नयेदास्थानमण्टपे ।। 331 ।।
हेमादिनिर्मिते तत्र वितते भद्रविष्टरे।
समारोप्य चदेवेशं महद्भिर्भोगसञ्चयैः ।। 332 ।।
प्रदक्षिणप्रणामान्तैर्मूलमन्त्रेण देशिकः।
समाराध्यार्घ्यपुष्पाद्यैस्तोयदानपुरस्सरम् ।। 333 ।।
दद्यात्तदादिनो भोगान् मात्रान्तांश्च निवेदितान्।
निवेदनार्थं हविषां मण्टपं विस्तृतं कृतम् ।। 334 ।।
वितानद्वजपूर्वैश्च यथा यवनिकापटैः।
अलंकृतं मध्यभूमौ हविष्पूरप्रमाणतः ।। 335 ।।
कुर्यात्तालोच्छ्रयां कुर्यात्तालोच्छ्रयां वेदिमुपपीठसमाकृतिम्।
इष्टकाद्यैश्च तुर्यश्रां दृढां समतलां शुभाम् ।। 336 ।।
गोमयेन समालिप्य सुधाद्यैर्वर्णकैरपि।
पिष्टचूर्णैश्च परितः शोभयित्वा च पश्चिमे ।। 337 ।।
दुकूलतूलसञ्छन्नं मसूरकसमन्वितम्।
भोज्यासनं प्रतिष्ठाप्य नात्युच्चं नातिनीचकम् ।। 338 ।।
साधितानि यथापूर्वं हविः पात्राणि पाचकाः।
परमान्नाद्युपेतानि सोपदंशफलानि च ।। 339 ।।
भक्ष्यभोज्यसमेतानि मधुरादिरसानि च।
छत्रदीपसमोपेतभेरीपटहनिःस्वनैः ।। 340 ।।
शङ्खश्रृङ्गादिघोषेण दुर्जनोत्सारणोद्यतैः।
पुरावच्छोधितेनैव यथा वै गोमयादिना ।। 341 ।।
सूत्रितेन सुधाचूर्णैः पार्श्वयोरस्त्रवारिणा।
प्रोक्षितेन पवित्रज्ञैः ततस्तस्मान्महानसात् ।। 342 ।।
अनुधारापदं प्रोक्तं निनयेद्यागमण्टपम्।
यातुवारुणमद्ये वा सोमसामीरणान्तरे ।। 343 ।।
शालिव्रीहिपरिस्तीर्णे स्थले मखतरूद्भवे।
फलके संप्रतिष्ठाप्य वस्त्रच्छन्नेऽस्त्रमन्त्रिते ।। 344 ।।
ततो वेद्यां परिस्तीर्य तण्डुलाञ्छालिसंभवान्।
कंसादि धातवो नेष्टा महोदननिवेदने ।। 345 ।।
अच्छिन्नानि सुपूतानि कदल्यादिदलानि वा।
प्रागग्राण्युदगग्राणि बहुशः क्षाळितानि च ।। 346 ।।
निधाया च यथापूर्वमुपस्तीर्य घृतेन तु।
पात्रेष्वन्येष्वथादाय दर्व्या मूलेन तद्धविः ।। 347 ।।
मध्यगे वितते पात्रे प्रतिष्ठाप्य यथाक्रमम्।
सुवृत्तं चतुरक्षं वा दर्व्या तं (सं) सेचयेत्ततः ।। 348 ।।
संस्कृतैर्घूतपूरैश्च विद्रुतैर्वातशीतळैः।
मूलमन्त्रं समुच्चार्य पुनरप्यभिघार्य च ।। 349 ।।
परितो मुद्गभेदेन गुल्भाषं "हृदयेन" तु।
गुडखण्डानि "शिरसा" खण्डचूर्णान्वितानि च ।। 350 ।।
उपदंशानि "शिखया" पाचितानि यथाविधि।
कदलीपनसाम्राणि फलानि विविधानि च ।। 351 ।।
कालपव्कानि हृद्यानि "कवचं" समुदीरयन्।
घृततप्तोपदंशानि तदूर्ध्वे "नेत्र" मुच्चरन् ।। 352 ।।
पुटीकृते तदूर्ध्वे तु वीर्यमन्त्रेण साधितम्।
चूर्णितैःसमरीचैश्च जीरकैश्च गुळान्वितैः ।। 353 ।।
दधिपूरं तु संपूर्य खण्डचूर्णसमन्वितम्।
एवं प्रतिष्ठिते पूर्वमेकपात्रे महाहविः ।। 354 ।।
पूरितान्युप पात्राणि परितः पायसादिभिः।
प्राग्वद्‌घृतोपदंशाद्यैश्चाधारेषु निवेशयेत् ।। 355 ।।
महान्नस्य तु पाश्चात्यप्रमुखासु दिशास्वपि।
द्वन्द्वयोगेन निक्षेप्यं पायसादिकमष्टकम् ।। 356 ।।
एकैकं ह्रासयेद्वाथ क्षीरान्नादिचतुष्टयम्।
तत्तत्स्थानेषु शुद्धान्नमपूपादीनि विन्यसेत् ।। 357 ।।
पायसान्नं गुडान्नं वा मुद्गान्नं केवलोदनम्।
स्थाप्यं वा, मध्यकल्पे तु पाश्चाप्यादिष्वनुक्रमात् ।। 358 ।।
मुद्गान्नं मधुरं वाथ क्षीरान्नादित्रिकं तु वा।
गुळपायसयोरेकं शुद्धान्नं वाथवार्पयेत् ।। 359 ।।
अनुकल्पेन शुद्धान्नं भक्तिश्रद्धावशेन तु।
यथाकल्पं तु संकल्प्य पायसादिष्वथेच्छया ।। 360 ।।
सुगन्धिशालिसंपन्नमभावाच्छालिसंभवम्।
मध्यतो घृतसंपूर्णसौवर्णचषकान्वितम् ।। 361 ।।
पात्रं पाश्चात्यदिङ्‌मध्ये व्यञ्जनादि परिष्कृतम्।
प्रापणार्थं प्रतिष्ठाप्यमुच्चाधारोपरिस्थितम् ।। 362 ।।
मध्यतः पायसद्रोणीं गुळान्नपरिपूरिताम्।
प्रतिष्ठाप्याथ परितस्त्वन्यान्यूह्य प्रकल्पयेत् ।। 363 ।।
पानीयं गन्धपुष्पाद्यैर्वासितं करकादिषु।
प्रच्छादनाम्बरादिनि मण्‍टपस्य तु दक्षिणे ।। 364 ।।
मधुपर्कं च गोमात्रा साध्यबीजानि पश्चिमे।
ताम्बूलतिलरत्ना(त्नोत्था)र्थमात्रा गन्धस्रगादयः ।। 365 ।।
यागद्रव्याणि चान्यानि त्वक्षसूत्रादिकानि च।
स्थापयित्वोत्तरस्यां च ततस्तत्कर्मकारिभिः ।। 366 ।।
पूजितस्य विशेषेण देवस्य पुरतः स्थितः।
विज्ञापयेद्देशिकेन्द्रः प्रणतः पुरुषोत्तमम् ।। 367 ।।
"भगवन्! पुण्डरीकाक्ष! सच्चिदानन्दलक्षण!।
बलवीर्यमयैर्भोगैर्नित्यतृप्तस्त्वमव्ययः ।। 368 ।।
तथापि चात्मसिध्यर्थं महता हविषाऽधुना।
भवन्तं तर्पयिष्यामि संपूर्णँ तत् प्रकल्पितम् ।। 369 ।।
अनुग्रहार्थं भक्तानां भोक्तुप्रासादय प्रभो!"।
विज्ञाप्यैवं ततः पश्चात्प्राग्बन्नीराजयेद्विभुम् ।। 370 ।।
स्वर्णादिनिर्मिते याने देवमारोप्य मूर्तिपाः।
सर्वालङ्कारसंयुक्तं नयेयुर्भोजनास्पदम् ।। 371 ।।
आरोपयित्वा प्रागास्यं तत्रस्थे भोजनासने।
अर्घ्यं पाद्यं तथाचामं प्रदद्यात् सप्रतिग्रहम् ।। 372 ।।
प्रच्छादनपटं चाथ मधुपर्कं यथाविधि।
गोमात्रां साध्यबीजानि दत्वाऽऽचामजलेन तु ।। 373 ।।
हस्तौ प्रक्षाल्य देवस्य पानीयं चार्घ्यवारिणा।
प्रतिष्ठाप्य समासीनः पीठे देवस्य दक्षिणे ।। 374 ।।
अथार्हणजलं त्वर्घ्यादुद्‌धृतं विनिवेदयेत्।
विलोक्य नेत्रमन्त्रेण पृथक् पात्रगणान्वितम् ।। 375 ।।
सव्यञ्जनं सभक्ष्यं च परमान्नादिकं हविः।
"पवित्रेण" समभ्युक्ष्य "शतधारेण" पूर्ववत् ।। 376 ।।
दहनाप्यायने कृत्वा सर्वं सुरभिमुद्रया।
ध्यात्वा तन्मन्त्रमुच्चार्य त्वमृतीकृत्य तद्गतम् ।। 377 ।।
बलं वीर्यं च तेजश्च त्वर्घ्यपुष्पं समुत्क्षिपेत्।
"कवचेन" च सास्त्रेण नेत्रमन्त्रेण भावयेत् ।। 378 ।।
ततः स्वदक्षिणे हस्ते विज्ञानैश्वर्यशक्तयः।
स्मर्तव्याः स्वस्वमन्त्रेण भोजकाः करणात्मकाः ।। 379 ।।
तेनाथ "विष्णुहस्तेन" परमान्नपुरस्सरम्।
स्पृष्ट्वा स्पृष्ट्वा यथायोगं बद्धया ग्रासमुद्रया ।। 380 ।।
निवेदनीया वै विष्णोरन्नमूर्त्यन्तरस्थिताः।
रसरूपादिभेदोत्थास्तेजोवीर्यबलात्मकाः ।। 381 ।।
षाड्‌गुण्यविग्रहस्यापि देवस्यार्चाभिमानिनः।
प्रीणनं परमं ह्येतद्धविर्मन्त्रैः सुसंस्कृतम् ।। 382 ।।
ज्ञात्वैवं शंखश्रृङ्गादिभेरीपटहनिःस्वनैः।
घण्टारवसमेताभिर्मङ्गलाबिश्च गीतिभिः ।। 383 ।।
श्रुतिस्मृतीतिहासानां भगवद्‌गुणशंसिनाम्।
स्तोत्राणां च पुराणानां वैष्णवानां च निःस्वनैः ।। 384 ।।
प्रदक्षिणक्रमेणैव पायसाद्युपपात्रकम्।
प्रभूतान्नं ततः पश्चात् प्रापणान्नपुरस्सरम् ।। 385 ।।
भक्ष्याण्यपूपपूर्वाणि भोज्यानि च फलानि च।
लेह्यानि मधुपूर्वाणि चोष्याण्याम्रादिकान्यपि ।। 386 ।।
पेयानि क्षीरपूर्वाणि अनुपानान्वितानि च।
विनिवेद्य च देवाय विन्यस्तान्योदनोपरि ।। 387 ।।
बलवीर्यादिसन्मन्त्रान् सवीर्यादिविवर्जितान्।
ओमित्युपाहरेन्मन्त्री ततः संहृतिमुद्रया ।। 388 ।।
पूर्णात्पूर्णमिति प्राज्ञो जप्त्वा मन्त्रं समाहितः।
सुतृप्तं भावयेद्देवं सुतृप्तमिति चोच्चरन् ।। 389 ।।
शीतलं तर्पणजलं शङ्खशुक्त्याकृतिष्वपि।
पात्रेषु पूरितं तर्प्य चूर्णं निष्पुंसनाय च ।। 390 ।।
तदर्थं शाटकं चाथ हस्तप्रक्षालनं ततः।
समाचमनतोयं च घृष्टकर्पूरभावितम् ।। 391 ।।
चन्दनं करशुध्यर्थं मात्रां करसमुद्भवाम्।
सरत्नां विनिवेद्याथ ताम्बूलं शशिभावितम् ।। 392 ।।
दत्वाऽथ मूलमुद्रां तु दर्शयेन्मूलमुच्चरन्।
जपं कृत्वा यथापूर्वमर्घ्याद्यैर्धूपपश्चिमैः ।। 393 ।।
समभ्यर्च्य, समाहूय गुरुपूर्वांश्च साधकान्।
सिद्धान्तनिरतांस्चाथ पञ्चकालपरायणान् ।। 394 ।।
दीक्षितांश्च यथान्यायं त्रैविद्यांस्तदभावतः।
अर्घ्यानुलेपनाभ्यां तु स्रग्वरैर्धूपपश्चिमैः ।। 395 ।।
समभ्यर्च्य ततस्तेषां दद्यादर्घ्योदकं करे।
परितः पायसादीनि पात्रस्थानि पृथक् पृथक् ।। 396 ।।
महोदनं च मध्यस्थं चतुर्धा संविभज्य च।
प्रयच्छेदकमंशं तु कारिभ्यः श्रेयसे ततः ।। 397 ।।
द्वितीयमोदनं दद्यात् सेनेशाय ततः परम्।
तृतीयमन्नं दातव्यं सर्वेषां परिचारिणाम् ।। 398 ।।
चतुर्थं वैष्णवानां च देवायतनवासिनाम्।
आराधकप्राशनार्थं प्रापणान्नं समाचरेत् ।। 399 ।।
गोमात्रां साध्यबीजानि शालिमुद्गादिकानि च।
मात्रां च तिलरत्नोत्थां तथा चाच्छादनाम्बरम् ।। 400 ।।
निष्पुंसनपटं चाथ ताम्बूलं च विशेषतः।
प्रयच्छेद्देशिकेन्द्राय नियुक्तायार्चने क्षणे ।। 401 ।।
महाविभूतिर्देवेशः सर्वसङ्कल्पसिद्धिदः।
यस्मात् प्रागात्मसात्कुर्याद्भोगशक्तिमनश्वरीम् ।। 402 ।।
व्यक्तां गुर्वादिवकत्रेण भुनक्ति तदनन्तरम्।
तस्मान्निवेदितं सर्वं वासुदेवस्य वै विभोः ।। 403 ।।
प्रदद्याद् गुरुपूर्वेभ्यो नियतेभ्यः सदार्चने।
रक्षणीयमभक्तेभ्यस्तद्दानं विष्णुयाजकैः ।। 404 ।।
प्रायश्चित्ती भवेद्दाता अपात्रप्रतिपादनात्।
प्रक्षिपेज्जलमध्ये तु विष्वक्सेननिवेदितम् ।। 405 ।।
जलजानां तीरजानां जन्तूनां तृप्तयेऽथवा।
जले किञ्चिद्विनिक्षिप्य शेषमन्नं तदग्रतः ।। 406 ।।
तद्धक्तानां द्विजातीनां निरतानां स्वकर्मसु।
एवं सन्तर्प्य देवेशं महता हविषा ततः ।। 407 ।।
भोज्यासनगतं पश्चादन्यत्र शयनास्पदे।
सुयितानपताकाढ्ये पुष्पमालाद्यलंकृते ।। 408 ।।
सर्वोपकरणोपेते पर्यङ्कस्योर्ध्वतो नयेत्।
अपनीय च माल्यानि गन्धानि वसनानि च ।। 409 ।।
स्वयं किञ्चित् समादाय विष्वक्सेनस्य वै ततः।
प्रदद्यादवशिष्टं तु पर्यङ्कस्थस्य वै विभोः ।। 410 ।।
अर्घ्यं पाद्याम्बुना शाटीं तथा पादानुलेपनम्।
सप्रतिग्रहमाचामं हस्तसंमार्जनाम्बरम् ।। 411 ।।
दत्वा ततः सुगन्धैस्तु चन्दनाद्यैः समालभेत्।
व्यजनैः श्रमशान्त्यर्थं संवीज्य च समन्ततः ।। 412 ।।
व्कथितं च मृगस्नेहं शशिचूर्णाधिवासितम्।
मर्दयित्वाथ देवस्य केशपाशे प्रसारिते ।। 413 ।।
नानाविधैर्गन्धवद्भिः पुष्पैः संवलितान्तरम्।
स्रग्भिर्नानाविधाभिश्च केशान् संवेष्टयेत्ततः ।। 414 ।।
निवेदयेदपूपानि पृथुकानि फलानि च।
पानकं तर्पणजलं नाळिकेररसान्वितम् ।। 415 ।।
ताम्बूलं शशिंसंयुक्तं साङ्गं विज्ञाप्य वै विभुम्।
छत्रदीपान्वितो यायादर्घ्यभृत् पाचनालयम् ।। 416 ।।
तत्र नैमित्तिके कुण्‍डे नित्ये वा संस्कृते पुरा।
तथैव संस्कृते वह्नौ प्राग्वत् संतर्पिते सति ।। 417 ।।
तस्मिन् ज्वाला जटाधारे हृद्गतं मन्त्रनायकम्।
अवतीर्य समिद्भिश्च सप्तभिस्तर्पयेत्ततः ।। 418 ।।
पायसाद्यैर्विशेषेण पाचितैरखिलैरपि।
शङ्खभेरीनिनादेन घण्टारवसमन्वितम् ।। 419 ।।
पूर्णाहूतिं ततो दद्यादाज्यस्याच्छिन्नधारया।
कर्मशेषं समापाद्य दद्याच्छिष्टं चरुं गुरोः ।। 420 ।।
ततो देवान्तिकं प्राप्य होमकर्म समर्पयेत्।
संविभज्य पितॄन् प्राग्वत् संप्रदानसमन्वितम् ।। 421 ।।
अर्चयित्वार्घ्यगन्धाद्यैः प्राग्वत् कुर्यात् प्रदक्षिणम्।
विज्ञाप्य यानगं कृत्वा देवमन्तः प्रवेशयेत् ।। 422 ।।
स्वस्थानस्थस्य देवस्य दद्यादर्घ्यादिकत्रयम्।
तत्र संरोधितं मन्त्रं प्राग्वन्मूले नियोजयेत् ।। 423 ।।
तत्रापि पूजयेद्भोगैरर्घ्याद्यैर्धूपपश्चिमैः।
ततो विज्ञापयेद्देवं पुष्पाञ्जलिपुरस्सरम् ।। 424 ।।
"पूजितोऽसि जगन्नाथ! महता हविषा विभो!।
त्वदीये मयि वात्सल्यात् तृप्तो भवितुमर्हसि" ।। 425 ।।
इति विज्ञाप्य देवस्य चरणाम्बुरुहद्वये।
मूलमन्त्रं समुच्चार्य प्रक्षिपेत् कुसुमाञ्जलिम् ।। 426 ।।
महोदनसपर्यादौ प्राप्ते नैमित्तिकादिषु।
पूजनादुत्सवार्चायाः पुरस्ताद्वाथ पश्चिमात् ।। 427 ।।
सशक्तिकं मूलबिम्बं साङ्गं बिम्बं च साश्रयम्।
विहगेशावृतिद्वारपालभक्तैः समन्वितम् ।। 428 ।।
विमानेषु बहिष्ठेषु मण्टपे गोपुरादिषु।
विभवव्यूहमूर्तीनां स्थापितानां विधानतः ।। 429 ।।
प्राग्वत् संपूजनं कृत्वा महान्नं विनिवेदयेत्।
मुख्यकल्पमिदं प्रोक्तं मध्यकल्पे यथाबलम् ।। 430 ।।
एकैकस्याढकाद्येन मानेनान्नं प्रकल्येत्।
मूलालयगतं देवं केवलं वा समचयेत् ।। 431 ।।
प्रासादस्थस्य नित्ये तु न संकल्प्यं महाहविः।
तदर्थं बलियानं तु नाचर्तव्यं हितेच्छुना ।। 432 ।।
महोदनं च स्नपने स्नपनं च महोदने।
कर्तव्यमविनाभूतं द्वितयं मुख्यकल्पने ।। 433 ।।
अनुकल्पे तदन्योन्यमेकैकेन विना कृतम्।
प्रभूतोदनयागार्थमन्ययागार्थमेव वा ।। 434 ।।
बिम्बे कस्मिंश्चिदावाह्य पूजिते तु यथाविधि।
समारब्धे समाप्तेऽस्मिन् यागेऽकस्माद् द्विजोत्तम! ।। 435 ।।
अन्ये महाहविर्यागे प्राप्ते नैमित्तिकादिषु।
दातव्यं तत्र मन्त्रज्ञैरन्यत्रोद्वासनादिकम् ।। 436 ।।
तत उद्वासयेदत्र स्नपनेऽप्येवमेव हि।
मूलबिम्बे यथा देयं मन्त्रिभिस्तु महाहविः ।। 437 ।।
तृतीयावरणाद्बाह्ये तथैवाभ्यन्तरेऽपि वा।
महोत्सवविधौ दद्यात् कुत्रचिद्वा महाहविः ।। 438 ।।
महताऽनेन हविषा भक्त्या यः पूजयेद्धरिम्।
स भुक्त्वा विपुलान् भोगानिहं लोके चिरंतनान् ।। 439 ।।
कालान्तरेऽत्यये प्राप्ते प्राप्तं यात्यच्युतं पदम्।
विशेषादभिषिक्तैश्च भूपैर्भूतहिते रतैः ।। 440 ।।
विधिनानेन कर्तव्यं महोदनसमर्चनम्।
प्राप्नुवन्ति च ते शश्वत् प्रतिभूपालमण्डलम् ।। 441 ।।
वारणं च वराश्वं च तदीयं कोशसञ्चयम्।
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे प्रापणादिमान साधननिवेदनादिप्रकारो नाम
अष्टादशोऽध्यायः ।।