ब्राह्मणगीता ०१
२१
[ब्राह्मण]
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
निबोध दश होतॄणां विधानमिह यादृशम्॥१॥
सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते।
रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत्॥२॥
शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते।
ततश्चाहवनीयस्तु तस्मिन्सङ्क्षिप्यते हविः॥३॥
ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते।
रूपं भवति वै व्यक्तं तदनुद्रवते मनः॥४॥
[ब्राह्मनी]
कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत्।
मनसा चिन्तितं वाक्यं यदा समभिपद्यते॥५॥
केन विज्ञानयोगेन मतिश्चित्तं समास्थिता।
समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति॥६॥
[ब्राह्मण]
तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम्।
तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते॥७॥
प्रश्नं तु वान्मनसोर्मां यस्मात्त्वमनुपृच्छसि।
तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम्॥८॥
उभे वान्मनसी गत्वा भूतात्मानमपृच्छताम्।
आवयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो॥९॥
मन इत्येव भगवांस्तदा प्राह सरस्वतीम्।
अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ॥१०॥
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम।
स्थावरं मत्सकाशे वै जङ्गमं विषये तव॥११॥
यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा।
तन्मनो जङ्गमं नाम तस्मादसि गरीयसी॥१२॥
यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने।
तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति॥१३॥
प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति।
प्रेर्यमाणा महाभागे विना प्राणमपानती।
प्रजापतिमुपाधावत्प्रसीद भगवन्निति॥१४॥
ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः।
तमादुच्छ्वासमासाद्य न वाग्वदति कर्हि चित्॥१५॥
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते।
तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी॥१६॥
गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी।
सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी॥१७॥
दिव्यादिव्य प्रभावेन भारती गौः शुचिस्मिते।
एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः॥१८॥
अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया।
किं नु पूर्वं ततो देवी व्याजहार सरस्वती॥१९॥
प्राणेन या सम्भवते शरीरे प्राणादपानम्प्रतिपद्यते च।
उदान भूता च विसृज्य देहं व्यानेन सर्वं दिवमावृणोति॥२०॥
ततः समाने प्रतितिष्ठतीह इत्येव पूर्वं प्रजजल्प चापि।
तस्मान्मनः स्थावरत्वाद्विशिष्टं तथा देवी जङ्गमत्वाद्विशिष्टा॥२१॥