ब्राह्मणगीता ०३
२३
[ब्राह्मण]
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
सुभगे पञ्च होतॄणां विधानमिह यादृशम्॥१॥
प्राणापानावुदानश्च समानो व्यान एव च।
पञ्च होतॄनथैतान्वै परं भावं विदुर्बुधाः॥२॥
[ब्राह्मनी]
स्वभावात्सप्त होतार इति ते पूर्विका मतिः।
यथा वै पञ्च होतारः परो भावस्तथोच्यताम्॥३॥
[ब्राह्मण]
प्राणेन सम्भृतो वायुरपानो जायते ततः।
अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते॥४॥
व्यानेन सम्भृतो वायुस्तदोदानः प्रवर्तते।
उदाने सम्भृतो वायुः समानः सम्प्रवर्तते॥५॥
तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम्।
यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति॥६॥
[ब्रह्मा]
यस्मिन्प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे।
यस्मिन्प्रचीर्णे च पुनश् चरन्ति स वै श्रेष्ठो गच्छत यत्र कामः॥७॥
[प्रान]
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रचीर्णे च पुनश् चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥८॥
[ब्राह्मन]
प्राणः प्रलीयत ततः पुनश्च प्रचचार ह।
समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे॥९॥
न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम्।
न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव।
प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत॥१०॥
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रचीर्णे च पुनश् चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥११॥
व्यानश्च तमुदानश्च भाषमाणमथोचतुः।
अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव॥१२॥
अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत्।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना॥१३॥
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रचीर्णे च पुनश् चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥१४॥
प्रालीयत ततो व्यानः पुनश्च प्रचचार ह।
प्राणापानावुदानश्च समानश् च तमब्रुवन्।
न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव॥१५॥
प्रचचार पुनर्व्यानः समानः पुनरब्रवीत्।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना॥१६॥
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रचीर्णे च पुनश् चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥१७॥
ततः समानः प्रालिल्ये पुनश्च प्रचचार ह।
प्राणापानावुदानश्च व्यानश् चैव तमब्रुवन्।
समानन त्वं श्रेष्ठोऽसि व्यान एव वशे तव॥१८॥
समानः प्रचचाराथ उदानस्तमुवाच ह।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना॥१९॥
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रचीर्णे च पुनश् चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥२०॥
ततः प्रालीयतोदानः पुनश्च प्रचचार ह।
प्राणापानौ समानश्च व्यानश् चैव तमब्रुवन्।
उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव॥२१॥
ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः।
सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्य धर्मिणः।
सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्य रक्षिणः॥२२॥
एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः।
एक एव ममैवात्मा बहुधाप्युपचीयते॥२३॥
परस्परस्य सुहृदो भावयन्तः परस्परम्।
स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम्॥२४॥