ब्राह्मणगीता ०५
२५
[ब्राह्मन]
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
चातुर्होत्र विधानस्य विधानमिह यादृशम्॥१॥
तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते।
शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम्॥२॥
करणं कर्म कर्ता च मोक्ष इत्येव भामिनि।
चत्वार एते होतारो यैरिदं जगदावृतम्॥३॥
होतॄणां साधनं चैव शृणु सर्वमशेषतः।
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम्।
मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः॥४॥
गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः।
मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः॥५॥
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः।
मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः॥६॥
स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम्।
अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः॥७॥
विदुषां बुध्यमानानां स्वं स्वस्थानं यथाविधि।
गुणास्ते देवता भूताः सततं भुञ्जते हविः॥८॥
अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते।
आत्मार्थं पाचयन्नित्यं ममत्वेनोपहन्यते॥९॥
अभक्ष्य भक्षणं चैव मद्य पानं च हन्ति तम्।
स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः॥१०॥
अत्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः।
स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः॥११॥
मनसा गम्यते यच्च यच्च वाचा निरुध्यते।
श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते॥१२॥
स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत्।
मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः॥१३॥
गुणवत्पावको मह्यं दीप्यते हव्यवाहनः।
योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्म मनोद्भवः।
प्राणस्तोत्रोऽपान शस्त्रः सर्वत्यागसु दक्षिणः॥१४॥
कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः।
कृतप्रशास्ता तच्छास्त्रमपवर्गोऽस्य दक्षिणा॥१५॥
ऋचश्चाप्यत्र शंसन्ति नारायण विदो जनाः।
नारायणाय देवाय यदबध्नन्पशून्पुरा॥१६॥
तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम्।
देवं नारायणं भीरु सर्वात्मानं निबोध मे॥१७॥