२२

[ब्र्]
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
सुभगे सप्त होतॄणां विधानमिह यादृशम्॥१॥

घ्राणं चक्षुश्च जिह्वा च त्वक्ष्रोत्रं चैव पञ्चमम्।
मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः॥२॥

सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम्।
एतान्वै सप्त होतॄंस्त्वं स्वभावाद्विद्धि शोभने॥३॥

[ब्राह्मनी]
सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्य दर्शिनः।
कथं स्वभावा भगवन्नेतदाचक्ष्व मे विभो॥४॥

[ब्र्]
गुणाज्ञानमविज्ञानं गुणि ज्ञानमभिज्ञता।
परस्परगुणानेते न विजानन्ति कर्हि चित्॥५॥

जिह्वा चक्षुस्तथा श्रोत्रं त्वन्मनो बुद्धिरेव च।
न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति॥६॥

घ्राणं चक्षुस्तथा श्रोत्रं त्वन्मनो बुद्धिरेव च।
न रसानधिगच्छन्ति जिह्वा तानदिघच्छति॥७॥

घ्राणं जिह्वा तथा श्रोत्रं त्वन्मनो बुद्धिरेव च।
न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति॥८॥

घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा।
न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति॥९॥

घ्राणं जिह्वा च चक्षुश् च त्वन्मनो बुद्धिरेव च।
न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति॥१०॥

घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं बुद्धिरेव च।
संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति॥११॥

घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं मन एव च।
न निष्ठामधिगच्छन्ति बुद्धिस्ताम् अधिगच्छति॥१२॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
इन्द्रियाणां च संवादं मनसश्चैव भामिनि॥१३॥

[मनस्]
न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते।
रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते॥१४॥

न श्रोत्रं बुध्यते शब्दं मया हीनं कथं चन।
प्रवरं सर्वभूतानामहमस्मि सनातनम्॥१५॥

अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः।
इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः॥१६॥

काष्ठानीवार्द्र शुष्काणि यतमानैरपीन्द्रियैः।
गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः॥१७॥

[इन्द्रियानि]
एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान्।
ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि॥१८॥

यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम्।
भोगान्भुङ्क्ते रसान्भुङ्क्ते यथैतन्मन्यते तथा॥१९॥

अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च।
यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत्॥२०॥

अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा।
घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा॥२१॥

श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया।
त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च॥२२॥

बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम्।
भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि॥२३॥

यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति।
ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति॥२४॥

विषयानेवमस्माभिर्दर्शितानभिमन्यसे।
अनागतानतीतांश्च स्वप्ने जागरणे तथा॥२५॥

वैमनस्यं गतानां च जन्तूनामल्पचेतसाम्।
अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम्॥२६॥

बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च।
बुभुक्षया पीड्यमानो विषयानेव धावसि॥२७॥

अगारमद्वारमिव प्रविश्य सङ्कल्पभोगो विषयानविन्दन्।
प्राणक्षये शान्तिमुपैति नित्यं दारु क्षयेऽग्निर्ज्वलितो यथैव॥२८॥

कामं तु नः स्वेषु गुणेषु सङ्गः कामच नान्योन्य गुणोपलब्धिः।
अस्मानृते नास्ति तवोपलब्धिस् त्वामप्यृतेऽस्मान्न भजेत हर्षः॥२९॥

संबंधित कड़ियाँ सम्पाद्यताम्

  1. ब्राह्मणगीता
    1. ब्राह्मणगीता ०१
    2. ब्राह्मणगीता ०२
    3. ब्राह्मणगीता ०३
    4. ब्राह्मणगीता ०४
    5. ब्राह्मणगीता ०५
    6. ब्राह्मणगीता ०६
    7. ब्राह्मणगीता ०७
    8. ब्राह्मणगीता ०८
    9. ब्राह्मणगीता ०९
    10. ब्राह्मणगीता १०
    11. ब्राह्मणगीता ११
    12. ब्राह्मणगीता १२
    13. ब्राह्मणगीता १३
    14. ब्राह्मणगीता १४
  2. गीता

बाहरी कडियाँ सम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=ब्राह्मणगीता_०२&oldid=17514" इत्यस्माद् प्रतिप्राप्तम्