३४

[ब्र्]
नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना।
बहु चाल्पं च सङ्क्षिप्तं विप्लुतं च मतं मम॥१॥

उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः।
तन्मन्ये कारणतमं यत एषा प्रवर्तते॥२॥

[ब्र्]
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः।
तपः श्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः॥३॥

[ब्राह्मनी]
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति सञ्ज्ञितम्।
ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु॥४॥

[ब्र्]
अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते।
उपायमेव वक्ष्यामि येन गृह्येत वा न वा॥५॥

सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते।
कर्म बुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम्॥६॥

इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते।
पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते॥७॥

यावन्त इह शक्येरंस्तावतोऽंशान्प्रकल्पयेत्।
व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः॥८॥

सर्वान्नानात्व युक्तांश्च सर्वान्प्रत्यक्षहेतुकान्।
यतः परं न विद्येत ततोऽभ्यासे भविष्यति॥९॥

[वा]
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसङ्क्षये।
क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते॥१०॥

[अर्जुन]
क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः।
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत॥११॥

[वा]
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम्।
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय॥१२॥

॥इति ब्राह्मणगीता समाप्ता॥

संबंधित कड़ियाँ सम्पाद्यताम्

  1. ब्राह्मणगीता
    1. ब्राह्मणगीता ०१
    2. ब्राह्मणगीता ०२
    3. ब्राह्मणगीता ०३
    4. ब्राह्मणगीता ०४
    5. ब्राह्मणगीता ०५
    6. ब्राह्मणगीता ०६
    7. ब्राह्मणगीता ०७
    8. ब्राह्मणगीता ०८
    9. ब्राह्मणगीता ०९
    10. ब्राह्मणगीता १०
    11. ब्राह्मणगीता ११
    12. ब्राह्मणगीता १२
    13. ब्राह्मणगीता १३
    14. ब्राह्मणगीता १४
  2. गीता

बाहरी कडियाँ सम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=ब्राह्मणगीता_१४&oldid=17526" इत्यस्माद् प्रतिप्राप्तम्