अंतर्-दुष्टः क्षमा-युक्तः सर्वानर्थ-करः किल। शकुनिः शकटारश् च दृष्टांताव् अत्र भूपते॥हित्_२.१०१॥
सदामत्यो न साध्यः स्यात् समृढः सर्व एव हि। सिढानाम् अयम् आदेशः ऋढिश् चित्त-विकारिणी॥हित्_२.१०२॥
प्राप्तार्थ-ग्रहणं द्रव्य-परीवर्तो नुरोधनम्। उपेक्षा बुढि-हीनत्वं भोगो मात्यस्य दूषणम्॥हित्_२.१०३॥
नियोग्य् अर्थ-ग्रहोपायो राज्ञा नित्य-परीक्षणम्। प्रतिपत्ति-प्रदानं च तथा कर्म-विपर्ययः॥हित्_२.१०४॥
निपीडिता वमंत्य् उच्चैर् अंतः-सारं महीपतेः। दुष्ट-व्रणा इव प्रायो भवंति हि नियोगिनः॥हित्_२.१०५॥
मुहुर् नियोगिनी बाध्या वसुधारा महीपते। सकृत् किं पीडितं स्नान-वस्त्रं मुञ्चेद् धृतं पयः॥हित्_२.१०६॥
एतत् सर्वं यथावसरं ज्ञात्वा व्यवहर्तव्यम्।
सिंहो ब्रूते-अस्ति तावद् एवम्। किंत्व् एतौ सर्वथा न मम वचन-कारिणौ।
स्तब्धकर्णो ब्रूते-एतत् सर्वम् अनुचितं सर्वथा। यतः-
आज्ञा-भंग-करान् राजा न क्षमेत सुतान् अपि। विशेषः को नु राज्ञश् च राज्ञश् चित्र-गतस्य च॥हित्_२.१०७॥
स्तब्धस्य नश्यति यशो विषम् अस्य मैत्री नष्टेंद्रियस्य कुलम् अर्थ-परस्य धर्मः। विद्या-फलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्त-सचिवस्य नराधिपस्य॥हित्_२.१०८॥
अपरं च- तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृप-वल्लभात्। नृपतिर् निज-लोभाच् च प्रजा रक्षेत् पितेव हि॥हित्_२.१०९॥
भ्रातः ! सर्वथास्मद्-वचनं क्रियताम्। व्यवहारो प्य् अस्माभिः कृत एव। अयं संजीवकः सस्य-भक्षको र्थाधिकारे नियुज्यताम्।
एतद्-वचनात् तथानुष्ठिते सति तद् आरभ्य पिंगलक-संजीवकयोः सर्व-बंधु-परित्यागेन महता स्नेहेन कालो तिवर्तते। ततो नुजीविनाम् अप्याहार-दाने शैथिल्य-दर्शनाद् दमनक-करटकाव् अंयोंयं चिंतयतः। तद् आह दमनकः करटकम्-मित्र ! किं कर्तव्यम् ? आत्म-कृतो यं दोषः। स्वयं कृतेपि दोषे परिदेवनम् अप्य् अनुचितम्। तथा चोक्तम्-
स्वर्ण-रेखाम् अहं स्पृष्ट्वा बढ्वात्मानं च दूतिका। आदित्सुश् च मणिं साधुः स्व-दोषाद् दुःखिता इमे॥हित्_२.११०॥
करटको ब्रूते--कथम् एतत् ?
दमनकः कथयति-

अस्ति काञ्चनपुर-नाम्नि नगरे वीरविक्रमो राजा। तस्य धर्माधिकारिणा कश्चिन् नापितो वध्य-भूमिं नीयमानः कंदर्पकेतु-नाम्ना परिव्राजकेन साधु-द्वितीयकेन नायं हंतव्यः इत्य् उक्त्वा वस्त्राञ्चलेन धृतः। राज-पुरुषा ऊचुः-किम् इति नायं वध्यः।
स आह-श्रूयताम्। स्वर्ण-रेखाम् अहं स्पृष्ट्वा इत्य् आदि पठति।
त आहुः--कथम् एतत् ?
परिव्राजकः कथयति-अहं सिंहल-द्वीपस्य भूपतेर् जीमूतकेतः पुत्रः दंदर्पकेतुर् नाम। मध्ये चतुर्दश्याम् आविर्भूत-कल्पतरु-तले रत्नावली-किरण-कबूतर-पर्यंक-स्थिता सर्वालंकार-भूषिता लक्ष्मीर् इव वीनां वादयंती कंया काचिद् दृश्यते इति। ततो हं पोत-व्णिजम् आदाय पोतम् आरुह्य तत्र गतः। अनंतरं तत्र गत्वा पर्यंकेधमग्रा तथैव सावलोकिता। ततस् तल्-लावण्य-गुणाकृष्टेन मयापि तत्-पश्चाज् झंपो दत्तः। तद्-अनंतरं कनकपत्तनं प्राप्य सुवर्ण-प्रासादे तथैव पर्यंके स्थिता विद्याधरीभिर् उपास्यमाना मयालोकिता। तथाप्य् अहं दूराद् एव दृष्ट्वा सखीं प्रस्थाप्य सादरं संभाषितः। तत्-सख्या च मया पृष्टया समाख्यातम्-एषा कंदर्पकेलि-नाम्नो विद्याधर-चक्रवर्तिनः पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते। यः कनकवर्तनं स्व-चक्षुषागत्य पश्यति, स एव पितुर् अगोचरो पि मां परिणेष्यतीति मनसः संकल्पः। तद् एनां गांधर्व-विवाहेन परिणयतु भवान्। अथ तत्र वृत्ते गंधर्व-विवाहे तथा सह रममाणस् तत्राहं तिष्ठामि। तत एकदा रहसि तयोक्तम्-स्वामिन् ! स्वेच्छया सर्वम् इदम् उपभोक्तव्यम्। एषा चित्र-गता स्वर्ण-रेखा नाम विद्याधरी न कदाचित् स्प्रष्टव्या। पश्चाद् उपजात-कौतुकेन मया स्वर्णरेखा स्व-हस्तेन स्पृष्टा। तथा चित्रतयाप्य् अहं चरण-पद्मेन ताडित आगत्य स्व-राष्ट्रे पतितः।
अथ दुःखितो हं परिव्रजितः पृथिवीं परिभ्राम्यंन् इमां न्गरीम् अनुप्राप्तः। अत्र चातिकांते दिवसे गोप-गृहे सुप्तः संन् अपश्यम्। प्रदोष-समये पशूनां पालनं कृत्वा स्व-गेहम् आगतो गोपः स्व-वधूं दूत्या सह किम् अपि मंत्रयंतीम् अपश्यत्। ततस् तां गोपीं ताडयित्वा स्तंभे बढ्वा सुप्तः। ततो र्ध-रात्रे एतस्य नापितस्य वधूर् दूती पुनस् तां गोपीम् उपेत्यावदत्-तव विरहानल-दग्धो सौ स्मर-शर-जर्जरितो मुमूर्षुर् इव वर्तते। तथा चोक्तम्-
रजनी-चर-नाथेन खंडिते तिमिरे निशि। यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः॥हित्_२.१११॥
तस्य तादृशीम् अवस्थाम् अवलोक्य परिक्लिष्ट-मनास् त्वाम् अनुवर्तितुम् आगता। तद् अहम् अत्रात्मानं बढ्वा तिष्ठामि। त्वं तत्र गत्वा तं संतोष्य सत्वरम् आगमिष्यसि। तथानुष्ठिते सति स गोपः प्रबुढो वदत्-इदानीं त्वां पापिष्ठां जारांतिकं नयामि। ततो यदासौ न किंचिद् अपि ब्रूते तदा क्रुढो गोपः-दर्पान् मम वचसि प्रत्युत्तरम् अपि न ददासि इत्य् उक्त्वा कोपेन तेन कर्तरिकामादायास्या नासिका छिन्ना। तथा कृत्वा पुनः सुप्तो गोपो निद्राम् उपगतः। अथागत्य गोपी दूतीम् अपृच्छत्-का वार्ता ?
दूत्योक्तम्-पश्य माम्। मुखम् एव वार्तां कथयति।
अनंतरं सा गोपी तथा कृत्वात्मानं बढ्वा स्थिता। इयं च दूती तां छिन्न-नासिकां गृहीत्वा स्व-गृहं प्रविश्य स्थिता। ततः प्रातर् एवानेन नापितेन स्व-वधूः क्षुर-भांडं याचिता सती क्षुरम् एकं प्रादात्। ततो समग्र-भांडे प्राप्ते समुपजात-कोपो यं नापितस् तं क्षुरं दूराद् एव गृहे क्षिप्तवान्। अथ कृतार्तरायेयं मे नासिकानेन छिंनेत्य् उक्त्वा धर्माधिकारि-समीपम् एतम् आनीतवती। सा च गोपी तेन गोपेन पुनः पृष्टोवाच-अरे पाप ! को मां महासती विरूपयितुं समर्थः। मम व्यवहारम् अकल्मषम् अष्टौ लोकपाला एव जानंति, यतः-
आदित्य-चंद्रावनिलानलश् च द्यौर् भूमिर् आपो हृदयं यमश् च। अहश् च रात्रिश् च उभे च संध्ये धर्मश् च जानाति नरस्य वृत्तम्॥हित्_२.११२॥
अतथ्यांय् अपि तथ्यानि दर्शयंति हि पेशलाः। समे निम्नोन्नतानीव चित्र-कर्म-विदो जनाः॥हित्_२.११३॥
उत्पंनेषु च कार्येषु मतिर् यस्य न हीयते। स निस्तरति दुर्गाणि गोपी जार-द्वयं यथा॥हित्_२.११४॥
करटकः पृच्छति-कथम् एतत् ?

दमनकः कथयति-अस्ति द्वारवत्यां पुर्यां कस्यचिद् गोपस्य वधूर् बंधकी। सा ग्रामस्य दंड-नायकेन तत्-पुत्रेण च समं रमते। तथा चोक्तम्-
नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः। नांतकः सर्व-भूतानां न पुंसां वाम-लोचना॥हित्_२.११५॥न दानेन न मानेन नार्जवेन न सेवया। न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः॥हित्_२.११६॥
यतः- गुणाश्रयं कीर्ति-युतं च कांतं पतिं रतिज्ञं सधनं युवानम्। विहाय शीघ्रं वनिता व्रजंति नरांतरं शील-गुणादि-हीनम्॥हित्_२.११७॥
अपरं च- न तादृशीं प्रीतिम् उपैति नारी विचित्र-शय्या शयितापि कामम्। यथा हि दूर्वादि-विकीर्ण-भूमौ प्रयाति सौख्यं पर-कांति-संगात्॥हित्_२.११८॥
अथ कदाचित् सा दंड-नायक-पुत्रेण सह रममाणा तिष्ठति। अथ दंड-नायको पि रंतुं तत्रागतः। तम् आयांतं दृष्ट्वा तत्-पुत्रं कुसूले निक्षिप्य दंडनायकेन सह तथैव क्रीडति। अनंतरं तस्य भर्ता गोपो गोष्ठात् समागतः। तम् अवलोक्य गोप्योक्तम्-दंडनायक ! त्वं लगुडं गृहीत्वा कोपं दर्शयन् सत्वरं गच्छ। तथा तेनानुष्ठिते गोपेन गृहम् आगत्य पृष्ठा-केन कार्येण दंडनायकः समागत्यात्र स्थितः ?
सा ब्रूते-अंयं केनापि कार्येण पुत्रस्योपरि क्रुढः। स च मार्यमाणो प्य् अत्रागत्य प्रविष्टो मया कुसूले निक्षिप्य रक्षितः। तत्-पित्रा चांविष्यात्र न दृष्टः। अत एवायं दंडनायकः क्रुढ एव गच्छति।
ततः सा तत्-पुत्रं कुषुलाद् बहिष्कृत्य दर्शितवती। तथा चोक्तम्-
आहारो द्विगुणः स्त्रीणां बुढिस् तासां चतुर्-गुणा। षड्-गुणो व्यवसायश् च कामाश् चाष्टगुणः स्मृतः॥हित्_२.११९॥
अतो हं ब्रवीमि-उतपंनेष्व् अपि कार्येषु इत्य् आदि। करटको ब्रूते-अस्त्व् एवम्। किंत्व् अनयोर् महानंयोग्ंय-निसर्गोपजात-स्नेह कथं भेदयितुं शक्यः ?
दमनको ब्रूते-उपायः क्रियताम्। तथा चोक्तम्-
उपायेन जयो यादृग् रिपोस् तादृङ् न हेतिभिः। उपाय-ज्ञो ल्प-कायो पि न शूरैः परिभूयते॥हित्_२.१२०॥
करटकः पृच्छति-कथम् एतत् ?
दमनकः कथयति-

कस्मिंश्चित् तरौ वायस-दंपती निवसतः। तयोश् चापृत्यानि तत्-कोटरावस्थितेन कृष्ण-सर्पेण खादितानि। ततः पुनर् गर्भवती वायसी वायस्म् आह-नाथ ! त्यज्यताम् अयं वृक्षः। अत्रावस्थित-कृष्ण-सर्पेणावयोः संततिः सततं भक्ष्यते। यतः- दुष्टा भार्या शठं मित्रं भृत्यश् चोत्तर-दायकः। स-सर्पे च गृहे वासो मृत्युर् एव न संशयः॥हित्_२.१२१॥
वायसो ब्रूते-प्रिये ! न भेतव्यम्। वारं वारं मवैतस्य सोढः। इदानीं पुनर् न क्षंतव्यः।
वायस्य् आह-कथम् एतेन बलवता सार्धे भवान् विग्रहीतुं समर्थः।
वायसो ब्रूते-अलम् अनया शंकया। यतः-
बुढिर् यस्य बलं तस्य निर्बुढेस् तु कुतो बलम्। पश्य सिंहो मदोन्मत्तः शशकेन निपातितः॥हित्_२.१२२॥वायसी विहस्याह--कथम् एतत् ?
वायसः कथयति-

अस्ति मंदर-नाम्नि पर्वते दुर्दांतो नाम सिंहः। स च सर्वदा पशूनां वधं कुर्वंन् आस्ते। ततः सर्वैः पशुभिर् मिलित्वा स सिंहो विज्ञप्तः-मृगेंद्र ! किम् अर्थम् एकदा बहु-पशु-घातः क्रियते। यदि प्रसादो भवति तदा वयम् एव भवद्-आहाराय प्रत्यहम् एकैकं पशुम् उपढौकयामः।
ततः सिंहेनोक्तम्-यद्य् एतद् अभिमतं भवतां तर्हि भवतु तत्।
ततः-प्रभृत्य् एकैकं पशुम् उपकल्पितं भक्षयंन् आस्ते। अथ कदाचिद् वृढ-शशकस्य वारः समायातः। सो चिंतयत्-
त्रास-हेतोर् विनीतिस् तु क्रियते जीविताशया। पञ्चत्वं चेद् गमिष्यामि किं सिंहानुनयेन मे॥हित्_२.१२३॥
तन् मंदं मंदं गच्छामि। ततः सिंहो पि क्षुधा-पीडितः कोपात् तम् उवाच-कुतस् त्वं विलंब्य समागतो सि।
शशको ब्रवीत्-देव ! नाहम् अपराधी। आगच्छन् पथि सिंहांतरेण बलाद् धृतः। तस्याग्रे पुनर् आगमनाय शपथं कृत्वा स्वामिनं निवेदयितुम् अत्रागतो सिम्।
सिंहः सकोपम् आह-सत्वरं गत्वा दुरात्मानं दर्शय। क्व स दुरात्मा तिष्ठति।
ततः शशकस् तं गृहीत्वा गभीर-कूपं दर्शयितुं गतः। तत्रागत्य स्वयम् एव पश्यतु स्वामीत्य् उक्त्वा तस्मिन् कूप-जले तस्य सिंहस्यैव प्रतिबिंबं दर्शितवान्। ततो सौ क्रोधाध्मातो दर्पात् तस्योपर्य् आत्मानं निक्षिप्य पञ्चत्वं गतः। अतो हं ब्रवीमि बुढिर् यस्य इत्य् आदि।
वायस्य् आह-श्रुतं मया सर्वम्। संप्रति यथा कर्तव्यं ब्रूहि।
वायसो वदत्-अत्रासंने सरसि राज-पुत्रः प्रत्यहम् आगत्य स्नाति। स्नान-समये मद्-अंगाद् अवतारितं तीर्थ-शिला-निहितं कनक-सूत्रं चञ्च्वा विधृत्यानीयास्मिन् कोटरे धारयिष्यसि।
अथ कदाचित् स्नातुं जलं प्रविष्टे राज-पुत्रे वायस्या तद्-अनुष्ठितम्। अथ कनक-सूत्रानुसरण-प्रवृत्तै राज-पुरुषैस् तत्र तरु-कोटरे कृष्ण-सर्पो दृष्टो व्यापादितश् च। अतो हं ब्रवीमि-उपायेन हि यच् छक्यम् इतेन हि यच् छक्यम् इत्य् आदि।
करटको ब्रूते-यद्य् एवं तर्हि गच्छ। शिवास् ते संतु पंथानः।
ततो दमनकः पिंगलक-समीपं गत्वा प्रणम्योवाच-देव ! आत्यंतिकं किम् अपि महा-भय-कारि कार्यं मंयमानः समागतो स्मि। यतः-
आपद्य् उन्मार्ग-गमने कार्य-कालात्ययेषु च। कल्याण-वचनं ब्रूयाद् अपृष्टो पि हितो नरः॥हित्_२.१२४॥
अंयच् च- भोगस्य भाजनं राजा न राजा कार्य-भाजनम्। राज-कार्य-परिध्वंसी मंत्री दोषेण लिप्यते॥हित्_२.१२५॥
तथा हि पश्य। अमात्यानाम् एष क्रमः।
वरं प्राण-परित्यागः शिरसा वापि कर्तनम्। न तु स्वामि-पदावाप्ति-पातकेच्छोर् उपेक्षणम्॥हित्_२.१२६॥
पिंगलकः सादरम् आह-अथ भवान् किं वक्तुम् इच्छति।
दमनको ब्रूते-देव ! संजीवकस् तवोपय-सदृश-व्यवहारीव लक्ष्यते। तथा चास्मत् संनिधाने श्रीमद्-देव-पादानां शक्ति-त्रय-निंदां कृत्वा राज्यम् एवाभिलषति।
एतच् छ्रुत्वा, पिंगलकः सभयं साश्चर्यं मत्वा तूष्णीं स्थितः। दमनकः पुनर् आह-देव ! सर्वामात्य-परित्यागं कृत्वैक एवायं यत् त्वां सर्वाधिकारी कृतः। स एव दोषः। यतः-
अत्युच्छ्रिते मंत्रिणि पार्थिवे च विष्टभ्य पादाव् उपतिष्ठते श्रीः। सा स्त्री-स्वभावाद् असहा भरस्य तयोर् द्वयोर् एकतरं जहाति॥हित्_२.१२७॥
अपरं च- एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहात् श्रयते मदः स च मदालस्येन निर्विद्यते। निर्विंणस्य पदं करोति हृदये तस्य स्वतंत्र-स्पृहा- स्वातंत्र्य-स्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति॥हित्_२.१२८॥
अंयच् च- विष-दग्धस्य भक्तस्य दंतस्य चलितस्य च। अमात्यस्य च दुष्टस्य मूलाद् उढरणं सुखम्॥हित्_२.१२९॥
किं च- यः कुर्यात् सचिवायत्तां श्रियं तद्-व्यसने सति। सो ंधवज् जगती-पालः सीदेत् सञ्चारकैर् विना॥हित्_२.१३०॥
सर्व-कार्येषु स्वेच्छातः प्रवर्तते। तद् अत्र प्रमाणं स्वामी। एतं च जानाति।
न सो स्ति पुरुषो लोके यो न कामयते श्रियम्। परस्य युवतिं रम्यां सादरं नेक्षतेत्र कः॥हित्_२.१३१॥
सिंहो विमृश्याह-भद्र ! यद्यप्य् एवं तथापि संजीवकेन सह मम महान् स्नेहः। पश्य-
कुर्वंन् अपि व्यलीकानि यः प्रियः प्रिय एव सः। अशेष-दोष-दुष्टो पि कायः कस्य न वल्लभः॥हित्_२.१३२॥
अंयच् च- अप्रियाण्य् अपि कुर्वाणो यः प्रियः प्रिय एव सः। दग्ध-मंदिर-सारेपि कस्य वह्नाव् अनादरः॥हित्_२.१३३॥
दमनकः पुनरे एवाह-देव ! स एवातिदोषः, यतः-
यस्मिंन् एवाधिकं चक्षुर् आरोहयति पार्थिवः। सुतेमात्येप्य् उदासीने स लक्ष्म्याश्रीयते जनः॥हित्_२.१३४॥
शृणु देव ! अप्रियस्यापि पथ्यस्य परिणामः सुखावहः। वक्ता श्रोता च यत्रास्ति रमंते तत्र संपदः॥हित्_२.१३५॥
त्वया च मूल-भृत्यानपास्यायम् आगंतुकः पुरस्कृतः। एतच् चानुचितं कृतम्। यतः- मूल-भृत्यान् परित्यज्य नागंतून् प्रतिमानयेत्। नातः परतरो दोषो राज्य-भेद-करो यतः॥हित्_२.१३६॥
सिंहो ब्रूते-किम् आश्चर्यम्। मया यद् अभय-वाचं दत्त्वानीतः संवर्धितश् च तत् कथं मह्यं द्रुह्यति।
दमनको ब्रूते-देव !
दुर्जनो नार्जवं याति सेव्यमानो पि नित्यशः। स्वेद-नाभ्यञ्जनोपायैः श्वपुच्छम् इव नामितम्॥हित्_२.१३७॥
अपरं च- स्वेदितो मर्दितश् चैव रञ्जुभिः परिवेष्टितः। मुक्तो द्वादशभिर् वर्षैः श्व-पुच्छः प्रकृतिं गतः॥हित्_२.१३८॥
अंयच् च- वर्धनं वा संमानं खलानां प्रीतये कुतः। फलंत्य् अमृत-सेकेपि न पथ्यानि विष-द्रुमाः॥हित्_२.१३९॥
अतो हं ब्रवीमि- अपृष्टस् तस्य न ब्रूयाद् यश् च नेच्छेत् पराभवम्। एष एव सतां धर्मो विपरीतो सतां मतः॥हित्_२.१४०॥
तथा चोक्तम्- स्निग्धो कुशलान् निवारयति यस् तत् कर्म यन् निर्मलं सा स्त्री यातु-विधायिनी स मतिमान् यः सद्भिर् अभ्यर्च्यते। सा श्रीर् या न मदं करोति स सुखी यस् तृष्णया मुच्यते तन् मित्रं यत् कृत्रिमं स पुरुषो यः खिद्यते नेंद्रियैः॥हित्_२.१४१॥
यदि सञ्जीवक-व्यसनादितो विज्ञापितो पि स्वामी न निवर्तते, तद् ईदृशे भृत्ये न दोषः। तथा च-
नृपः कामासक्तो गणयति न कार्ये न च हितं यथेष्टं स्वच्छंदः प्रविचरति मत्तो गज इव। ततो मान-ध्मातः स पतति यदा शोक-गहने तदा भृत्ये दोषान् क्षिपति न निजं वेत्त्य् अविनयम्॥हित्_२.१४२॥
पिंगलकः स्वगतम्-
न परस्यापराधेन परेषां दंडम् आचरेत्। आत्मनावगतं कृत्वा बध्नीयात् पूजयेच् च वा॥हित्_२.१४३॥
तथा चोक्तम्- गुण-दोषाव् अनिश्चित्य विधिनं ग्रह-निग्रहे। स्व-नाशाय यथा ंयस्तो दर्पात् सर्प-मुखे करः॥हित्_२.१४४॥
प्रकाशं ब्रूते-तदा संजीवकः किं प्रत्यादिश्यताम्।
दमनकः स-संभ्रमम् आह-देव ! मा मैवम्। एतावता मंत्र-भेदो जायते। तथा ह्य् उक्तम्-
मंत्र-बीजम् इदं गुप्तं रक्षणीयं यथा तथा। मनाग् अपि न भिद्येत तद् भिन्नं न प्ररोहति॥हित्_२.१४५॥
किं च- आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः। क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्-रसम्॥हित्_२.१४६॥
तद् अवश्यं समारब्धं महता प्रयत्नेन संपादनीयम्। किं च-
मंत्रो योधः इवाधीरः सर्वांगैः संवृतैर् अपि। चिरं न सहते स्थातुं परेभ्यो भेद-शंकया॥हित्_२.१४७॥
यद्य् असौ दृष्ट-दोषो पि दोषान् निवत्यं संधातव्यस् तद् अतीवानुचितम्। यतः-
सकृद् दुष्टं तु यो मित्रं पुनः संधातुम् इच्छति। स मृत्युर् एव गृह्णाति गर्भम् अश्वतरी यथा॥हित्_२.१४८॥
अंगांगि-भावम् अज्ञात्वा कथं सामर्थ्य-निर्णयः। पश्य टिट्टिभ-मात्रेण समुद्रो व्याकुलीकृतः॥हित्_२.१४९॥
सिंहः पृच्छति--कथम् एतत् ?
दमनकः कथयति-

दक्षिण-समुद्र-तीरे टिट्टिभ-दंपती निवसतः। तत्र चासन्न-प्रसदा टिट्टिभी भर्तारम् आह-नाथ ! प्रसव-योग्य-स्थानं निभृतम् अनुसंधीयताम्।
टिट्टिभो वदत्-भार्ये, नंव् इदम् एव स्थानं प्रसूति-योग्यम्।
सा ब्रूते-समुद्र-वेलया व्याप्यते स्थानम् एतम्।
टिट्टिभो वदत्-किम् अहं त्वया निर्बलः समुद्रेण निग्रहीतव्यः।
टिट्टिभी विहस्याह-स्वामिन् ! त्वया समुद्रेण च महद् अंतरम्। अथवा-
पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः। अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति॥हित्_२.१५०॥
अपि च- अनुचित-कार्यारंभः स्वजन-विरोधो बलीयसा स्पर्धा। प्रमदा-जन-विश्वासो मृत्योर् द्वाराणि चत्वारि॥हित्_२.१५१॥
ततः कृच्छ्रेण स्वामि-वचनात्मा तत्रैव प्रसूता। एतत् सर्वं श्रुत्वा समुद्रेणापि यच् छक्ति-ज्ञानार्थं तद्-अंडांय् अवहृतानि। ततष् टिट्टिभी शोकार्ता भर्तारम् आह-नाथ ! कष्टम् आपतितम्। तांय् अंडानि मे नष्टानि।
टिट्टिभो वदत्-प्रिये ! मा भैषीः इत्य् उक्त्वा पक्षिणां मेलकं कृत्वा पक्षि-स्वामिनो गरुडस्य समीपं गतः। तत्र गत्वा सकल-वृत्तांतं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्-देव, समुद्रेणाहं स्व-गृहावस्थितो विनापराधनेनैव निगृहीतः।
ततस् तद्-वचनम् आकर्ण्य गरुत्मना प्रभुर् भगवान् नारायणः सृष्टि-स्थिति-प्रलय-हेतुर् विज्ञप्तः। स समुद्रम् अंड-दानायादिदेश। ततो भगवद्-आज्ञां मौलौ निधाय समुद्रेण तांय् अंडानि टिट्टिभाय समर्पितानि। अतो हं ब्रवीमि-अंगांगि-भावम् अज्ञात्वा इत्य् आदि।
राजाह-कथम् असौ ज्ञातव्यो द्रोह-बुढिर् इति।
दमनको ब्रूते-यदासौ स-दर्पः शृंगाग्र-प्रहरणाभिमुखश् चकितम् इवागच्छति तदा ज्ञास्यति स्वामी। एवम् उक्त्वा संजीवक-समीपं गतः। तत्र गतश् च मंदं मंदम् उपसर्पन् विस्मितम् इवात्मानम् अदर्शयत्। संजीवकेन सादरम् उक्तम्-भद्र ! कुशलं ते।
दमनको ब्रूते-अनुजीविनां कुतः कुशलम्। यतः-
संपत्तयः पराधीनाः सदा चित्तम् अनिर्वृत्तम्। स्व-जीइवितेप्य् अविश्वासस् तेषां ये राज-सेवकाः॥हित्_२.१५२॥
अंयच् च- को र्थान् प्राप्य न गर्वितो विषयिणः कस्यापदो स्तं गताः स्त्रीभिः कस्य न खंडितं भुवि मनः को वास्ति राज्ञां प्रिया। कः कालस्य भुजांतरं न च गतः को र्थी गतो गौरवं को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान्॥हित्_२.१५३॥
संजीवकेनोक्तम्-सखे ! ब्रूहि किम् एतत् ?
दमनक आह-किं ब्रवीमि मंद-भाग्यः। पश्य-
मज्जंन् अपि पयोराशौ लब्ध्वा सर्पावलंबनम्। न मुञ्चति न चादत्ते तथा मुग्धो स्मि संप्रति॥हित्_२.१५४॥
यतः- एकत्र राज-विश्वासो नश्यत्य् अंयत्र बांधवः। किं करोमि क्व गच्छामि पतित् ओ दुःख-सागरे॥हित्_२.१५५॥
इत्य् उक्त्वा दीर्घः निःश्वस्योपविष्टः। संजीवको ब्रूते-मित्र ! तथापि स-विस्तरं मनोगतम् उच्यताम्।
दमनकः सुनिभृतम् आह-यद्यपि राज-विश्वासो न कथनीयस् तथापि भवान् अस्मदीय-प्रत्ययाद् आगतः। मया परलोकार्थिनावश्यं तव हितम् आख्येयम्। शृणु, अयं स्वामी तवोपरि विकृत-बुढी रहस्य् उक्तवान् -संजीवकम् एव हत्वा स्व-परिवारं तर्पयामि।
एतच् छ्रुत्वा संजीवकः परं विषादम् अगमत्। दमनकः पुनर् आह-अलं विषादेन। प्राप्त-कालकायम् अनुष्ठीयताम्। संजीवकः क्षणं विमृश्याह स्व-गतम्-सुष्ठु खल्व् इदम् उच्यते। किं वा दुर्जन-चेष्टितं न वेत्य् एतद् व्यवहारान् निर्णेतुं न शक्यते। यतः- दुर्जन-गम्या नार्यः प्रायेणापात्र-भृद् भवति राजा। कृपणानुसारि च धनं देवो गिरि-जलधि-वर्षी च॥हित्_२.१५६॥
कश्चिद् आश्रय-सौंदर्याद् धत्ते शोभाम् असज्जनः। प्रमदालोचन-ंयस्तं मलीमसम् इवाञ्जनम्॥हित्_२.१५७॥
आराध्यमानो नृपतिः प्रयत्नान् न तोषम् आयाति किम् अत्र चित्रम्। अयं त्व् अपूर्व-प्रतिमा-विशेषो यः सेव्यमानो रिपुताम् उपैति॥हित्_२.१५८॥
तद् अयम् अशक्यर्थः प्रमेयः, यतः-
निमित्तम् उद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति। अकारण-द्वेषि मनस् तु यस्य वै कथं जनस् तं परितोषयिष्यति॥हित्_२.१५९॥
किं मयापकृतं राज्ञः। अथवा निर्निमित्तापकारिणश् च भवंति राजानः।
दमनको ब्रूते-एवम् एतत्। शृणु-
विज्ञैः स्निग्धैर् उपकृतम् अपि द्वेष्यताम् एति कैश्चित् साक्षाद् अंयैर् अपकृतम् अपि प्रीतिम् एवोपयाति। चित्रं चित्रं किम् अथ चरितं नैकभावाश्रयाणां सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः॥हित्_२.१६०॥
अंयच् च- कृत-शतम् असत्सु नष्टं सुभाषित-शतं च नष्टम् अबुधेषु। वचन-शतम् अवचन-करे बुढि-शतम् अचेतने नष्टम्॥हित्_२.१६१॥
किं च- चंदन-तरुषु भुजंगा जलेषु कमलानि तत्र च ग्राहाः। गुण-घातिनश् च भोगे खला न च सुखांय् अविघ्नानि॥हित्_२.१६२॥
मूलं भुजंगैः कुसुमानि भृंगैः शाखाः प्लवंगैः शिखराणि भल्लैः। नास्त्य् एव तच्-चंदन-पादपस्य यन् नाश्रितं दुष्टतरैश् च हिंस्रैः॥हित्_२.१६३॥
अयं तावत् स्वामी वाचि मधुरो विष-हृदयो ज्ञातः। यतः-
दूराद् उच्छ्रित-पाणिर् आद्र-नयनः प्रोत्सारितार्धासनो गाढालिंगन-तत्-परः प्रिय-कथा-प्रश्नेषु दत्तादरः। अंतर्भूत-विषो बहिर् मधुमयश् चातीव माया-पटुः को नामायम् अपूर्व-नाटक-विधिर् यः शिक्षितो दुर्जनैः॥हित्_२.१६४॥
तथा हि- पोतो दुस्तर-वारि-राशितरणे दीपो ंधकारागमे निर्वाते व्यजनं मदांध-करिणां दर्पोपशांत्यै सृणिः। इठं तद् भुवि नास्ति यस्य विधिना नोपाय-चिंता कृता मंये दुर्जन-चित्त-वृत्ति-हरणे धातापि भग्नोद्यमः॥हित्_२.१६५॥
संजीवकः पुनर् निःश्वस्य-कष्टं भोः ! कथम् अहं सस्य-भक्षकः सिंहेन निपातयितव्यः ? यतः-
ययोर् एव समं वित्तं ययोर् एव समं बलम्। तयोर् विवादो मंतव्यो नोत्तमाधमयोः क्वचित्॥हित्_२.१६६॥

अयुढे हि यदा पश्येन् न काञ्चिद् हितम् आत्मनः। युध्यमानस् तदा प्राज्ञो म्रियते रिपुणा सह॥हित्_२.१७०॥

अपरं च- भूम्य्-एक-देशस्य गुणांवितस्य भृत्यस्य वा बुढिमतः प्रणाशः। भृत्य-प्रणाशो मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः॥हित्_२.१७७॥
दमनको ब्रूते-स्वामिन् ! को यं नूतनो ंयायो यद् अरातिं हत्वा संतापः क्रियते ? तथा चोक्तम्-
पिता वा यदि वा भ्राता पुत्री वा यदि वा सुहृत्। प्राण-च्छेद-करा राज्ञा हंतव्या भूतिम् इच्छता॥हित्_२.१७८॥
अपि च- धर्मार्थ-काम-तत्त्वज्ञो नैकांत-करुणो भवेत्। नहि हस्तस्थम् अप्य् अन्नं क्षमावान् भक्षितुं क्षमः॥हित्_२.१७९॥
किं च- क्षमा शत्रौ च मित्रे च यतीनाम् एव भूषणम्। अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम्॥हित्_२.१८०॥
अपरं च- राज्य-लोभाद् अहंकाराद् इच्छतः स्वामिनः पदम्। प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम्॥हित्_२.१८१॥
अंयच् च- राजा घृणी ब्राह्मणः सर्व-भक्षी स्त्री चावज्ञा दुष्प्रकृतिः सहायः। प्रेष्यः प्रतीपो धिकृतः प्रमादी त्याज्या इमे यश् च कृतं न वेत्ति॥हित्_२.१८२॥
विशेषतश् च- सत्यानृता च परुषा प्रिय-वादिनी च हिंस्रा दयालुर् अपि चार्थ-परा वदांया। नित्य-व्यया प्रचुर-रत्न-धनागमा च वारांगनेव नृप-नीतिर् अनेक-रूपा॥हित्_२.१८३॥
इति दमनकेन संतोषितः पिंगलकः स्वां प्रकृतिम् आपन्नः सिंहासने समुपविष्टः। दमनकः प्रहृष्ट-मनाः विजयतां महाराजः शुभम् अस्तु सर्व-जगताम् इत्य् उक्त्वा यथा-सुखम् अवस्थितः।
विष्णु-शर्मोवाच-सुहृद्-भेदः श्रुतस् तावद् भवद्भिः।
राज-पुत्रा ऊचुः-भवत्-प्रसादाच् छ्रुतः। सुखिनो भूता वयम्।
विष्णुशर्माब्रवीत्-अपरम् अपीदम् अस्तु-
सुहृद्-भेदस् तावद् भवतु भवतां शत्रु-निलये खलः कालाकृष्टः प्रलयम् उपसर्पत्व् अहर्-अहः। जनो नित्यं भूयात् सकल-सुख-संपत्ति-वसतिः कथारंभे रंभ्ये सततम् इह बालो पि रमताम्॥हित्_२.१८४॥
इति हितोपदेशे सुहृद्-भेदो नाम द्वितीयः कथा-संग्रहः समाप्तः

संबंधित कड़ियाँ

सम्पाद्यताम्
  1. हितोपदेशम्
    1. मंगलाचरणम् १-४६
    2. प्रथम: कथा-संग्रहः - मित्र-लाभः १-१००
    3. प्रथम: कथा-संग्रहः - मित्र-लाभः १०१-२०१
    4. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १-१००
    5. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १०१-१८४
    6. तृतीयः कथा-संग्रहः - विग्रहः १-१००
    7. तृतीयः कथा-संग्रहः - विग्रहः १०१-१५१
    8. चतुर्थः कथा-संग्रहः - संधिः १-१००
    9. चतुर्थः कथा-संग्रहः - संधिः १०१-१४३
  2. हितोपदेश (hindi wikipedia)
  3. पञ्चतन्त्रम्
  4. कथासरित्सागर
  5. सिंहासनद्वात्रिंशति

बाहरी कडियाँ

सम्पाद्यताम्
"https://sa.wikisource.org/w/index.php?title=हितोपदेशम्_03क&oldid=17778" इत्यस्माद् प्रतिप्राप्तम्