अपरं च- आसीद् वीर-वरो नाम शूद्रकस्य महीभृतः। सेवकः स्वल्प-कालेन स ददौ सुतम् आत्मनः॥हित्_३.१०१॥
चक्रवाकः पृच्छति--कथम् एतत् ?
राजा कथयति-

अहं पुरा शूद्रकस्य राज्ञः क्रीडा-सरसि कर्पूरकेलि-नाम्नो राजहंसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवान् अभवम्। वीरवरो नाम राजपुत्रः कुतश्चिद् देशाद् आगत्य राज-द्वारम् उपगम्य प्रतीहारम् उवाच-अहं तावद् वर्तनार्थी राजपुत्रः। मां रज-दर्शनं कारय। ततस् तेनासौ राज-दर्शनं कारितो ब्रूते-देव ! यदि मया सेवकेन प्रयोजनम् अस्ति, तदास्मद्-वर्तनं क्रियताम्।
शूद्रक उवाच-किं ते वर्तनम् ?
वीरवरो ब्रूते-प्रत्यहं सुवर्ण-पञ्च-शतानि देहि।
राजाह-का ते सामग्री ?
वीरवरो ब्रूते-द्वौ बाहू। तृतीयश् च खड्गः।
राजाह-नैतच् छक्यम्।
तच् छ्रुत्वा वीरवरः प्रणम्य चलितः। अथ मंत्रिभिर् उक्तम्-देव ! दिन-चतुष्टयस्य वर्तनं दत्त्वा ज्ञायताम् अस्य स्वरूपम्। किम् उपयुक्तो यम् एतावद् वर्तनं गृह्णाति अनुपयुक्तो वेति।
ततो मंत्रि-वचनाद् आहुहूय वीरवराय तांबूलं दत्त्वा पञ्च-शतानि सुवर्णानि दत्तानि। वर्तन-विनियोगश् च राज्ञा सुनिभृतं निरूपितः। तद्-अर्धं वीरवरेण देवेभ्यो ब्राह्मणेभ्यो दत्तम्। स्थितस्यार्धं दुःखितेभ्यः। तद् अवशिष्टं भोज्य-विलास-व्ययेन। एतत् सर्वं नित्य-कृत्यं कृत्वा, राज-द्वारम् अहर्निशं खड्ग-पाणिः सेवते। यदा च राजा स्वयं समादिशति तदा स्व-गृहम् अपि याति।
अथैकदा कृष्ण-चतुर्दश्यां रात्रौ स राजा स-करुण-क्रंदन-ध्वनिं शुश्राव। तत् श्रुत्वा राजा ब्रूते-कः को त्र द्वारि तिष्ठति ?
तदा तेनोक्तं-देव ! अहं वीरवरः।
राजोवाच-क्रंदनानुसरणं क्रियताम्।
वीरवरो पि-यथाज्ञापयति देवः, इत्य् उक्त्वा चलितः।
राज्ञा च चिंतितम्-अयम् एकाकी राजपुत्रो मया सूचीभेद्ये तमसि प्रहितः। नैतद् उचितम्। तद् अहम् अपि गत्वा किम् एतद् इति निरूपयामि।
ततो राजापि खड्गम् आदाय तद्-अनुसरण-क्रमेण नगराद् बहिर् निर्जगाम। गत्वा च वीरवरेण रुदती रुप-यौवन-संपन्ना सर्वालंकार-भूषिता काचित् स्त्री दृष्टा, पृष्टा च-का त्वम् ? किम् अर्थं रोदिषि ? इति।
स्त्रियोक्तम्-अहम् एतस्य शूद्रकस्य राज-लक्ष्मीः। चिराद् एतस्य भुज-च्छायायां महता सुखेन विश्रांता। इदानीम् अंयत्र गमिष्यामि।
वीरवरो ब्रूते-यतापायः संभवति, तत्रोपायो प्य् अस्ति। तत् कथं स्यात् पुनर् इहावासो भवत्याः ?
लक्ष्मीर् उवाच-यदि त्वम् आत्मनः पुत्रं शक्तिधरं द्वात्रिंशल्-लक्षणोपेतं भगवत्याः सर्व-मंगलाया उपहारीकरोषि, तदाहं पुनर् अत्र सुचिरं निवसामि। इत्य् उक्त्वादृश्याभवत्।
ततो वीरवरेण स्व-गृहं गत्वा निद्रायमाणा स्व-वधूः प्रबोधिता पुत्रश् च। तौ निद्रां परित्यज्योठायोपविष्टौ। वीरवरस् तत् सर्वं लक्ष्मी-वचनम् उक्तवान्। तच् छ्रुत्वा सानंदः शक्तिधरो ब्रूते-धंयो हम् एवंभूतः। स्वामि-राज्य-रक्षार्थं यस्योपयोगः। तात ! तत् को धुना विलंबस्य हेतुः ? एवं-विधे कर्मणि देहस्य विनियोगः श्लाघ्यः। यतः-
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्। तन्-निमित्तो वरं त्यागो विनाशे नियते सति॥हित्_३.१०२॥
शक्तिधर-मातोवाच-यद्य् एतन् न कर्तव्यं तत् केनांयेन कर्मणा गृहीतस्य महावर्तनस्य निष्क्रयो भविष्यति। इत्य् आलोच्य सर्वे सर्वमंगलायाः स्थानं गताः। तत्र सर्वमंगलां संपूज्य वीरवरो ब्रूते-देवि ! प्रसीद। विजयतां शूद्रको महाराजः। गृह्यताम् अयम् उपहारः। इत्य् उक्त्वा पुत्रस्य शिरश् चिच्छेद। ततो वीरवरश् चिंतयामास-गृहीत-राज-वर्तनस्य निस्तारः कृतः। अधुना निष्पुत्रस्य मे जीवनेनालम्। इत्य् आलोच्यात्मनः शिरश् चिच्छेद।
ततः स्त्रियापि स्वामि-पुत्र-शोकार्तया तद् अनुष्ठितम्। तत् सर्वं दृष्ट्वा राजा साश्चर्यं चिंतयामास-- जायंते च म्रियंते च मद्-विधाः क्षुद्र-जंतवः। अनेन सदृशो लोके न भूतो न भविष्यति॥हित्_३.१०३॥
तद् एतत्-परित्यक्तेन मम राज्येनापि किं प्रयोजनम्। ततः शूद्रकेणापि स्व-शिरश् छेत्तुं खड्गः समुठापितः। अथ भगवत्या सर्वमंगलया प्रत्यक्ष-भूतया राजा हस्ते धृतः। उक्तं च-पुत्र ! प्रसंनो स्मि ते, एतावता साहसेनालम्। जीवनांतेपि तव राज-भंगो नास्ति। राजा च साष्टांग-पातं प्रणम्योवाच-देवि ! किं मे राज्येन ? जीवितेन वा मम किं प्रयोजनम् ? यद्य् अहम् अनुकंपनीयस् तदा ममायुः-शेषेणाप्य् अयं स-दार-पुत्रो वीरवरो जीवतु। अंयथाहं यथा-प्राप्तां गतिं गच्छामि।
भगवत्य् उवाच-पुत्र ! अनेन ते सत्त्वोत्कर्षेण भृत्य-वात्सल्येन च सर्वथा संतुष्टास्मि। गच्छ विजयी भव। अयम् अपि स-परिवारो राज-पुत्रो जीवतु। इत्य् उक्त्वा देव्य् अदृश्याभवत्। ततो वीरवरः स-पुत्र-दारः प्राप्त-जीवनः स्व-गृहं गतः। राजापि तैर् अलक्षितः सत्वरम् अंतः-पुरं प्रविष्टः।
अथ प्रभाते वीरवरो द्वारस्थः पुनर् भूपालेन पृष्टः संन् आह-देव ! सा रुदती माम् अवलोक्यादृश्याभवत्। न काप्य् अंया वार्ता विद्यते।
तद् वचनम् आकर्ण्य संतुष्टो राजा साश्चर्यं चिंतयामास-कथम् अयं श्लाघ्यो महा-सत्त्वः ? यतः-
प्रियं ब्रूयाद् अकृपणः शूरः स्याद् अविकठनः। दाता नापात्र-वर्षी च प्रगल्भः स्याद् अनिष्ठुरः॥हित्_३.१०४॥
एतन् महापुरुष-लक्षणम् एतस्मिन् सर्वम् अस्ति। ततः स राजा प्रातः शिष्ट-सभां कृत्वा, सर्वं वृत्तांतं प्रस्तुत्य प्रसादात् तस्मै कर्णाटक-राज्यं ददौ। तत् किम् आगंतुको जाति-मात्राद् दुष्टः ? तत्राप्य् उत्तमाधम-मध्यमाः संति।
चक्रवाको ब्रूते- यो कार्यं कार्यवच् छास्ति स किं मंत्री नृपेच्छया। वरं स्वामि-मनो-दुःखं तन्-नाशो न त्व् अकार्यतः॥हित्_३.१०५॥वैद्यो गुरुश् च मंत्री च यस्य राज्ञः प्रियंवदाः। शरीर-धर्म-कोशेभ्यः क्षिप्रं स परिहीयते॥हित्_३.१०६॥
शृणु देव ! पुण्याल् लब्धं यद् एकेन तन् ममापि भविष्यति। हत्वा भिक्षुं यतो मोहान् निध्य्-अर्थी नापितो हतः॥हित्_३.१०७॥
राजा पृच्छति--कथम् एतत् ?
मंत्री कथयति-

अस्त्य् अयोध्यायां पुरि चूडामणिर् नाम क्षत्रियः। तेन धनार्थिना महता क्लेशेन भगवांश् चंद्रार्ध-चूडामणिश् चिरम् आराधितः। ततः क्षीण-पापो सौ स्वप्ने दर्शनं दत्त्वा, भगवद्-आदेशाद्य्-अक्षेश्वरेणादिष्टो यत् त्वम् अद्य प्रातः क्षौरं कारयित्वा, लगुड-हस्तः सन् स्व-गृह-द्वारि निभृतं स्थास्यसि, ततो यम् एवागतं भिक्षुकं प्रांगणे पश्यसि तं निर्दक्षं लगुड-प्रहारेण हनिष्यसि। ततो सौ भिक्षुकस् तत्-क्षणात् सुवर्ण-कलसो भविष्यति। तेन त्वया यावज्-जीवं सुखिना भवितव्यम्। ततस् तथानुष्ठिते तद् वृत्तम्।
तत्र क्षौर-करणायानीतेन नापितेन तत् सर्वम् आलोक्य चिंतितम्-अये निधि-प्राप्तेर् अयम् उपायः। तद् अहम् अप्य् एवं किं न करोमि ? ततः प्रभृति स नापितः प्रत्यहं तथाविधो लगुड-हस्तः सुनिभृतं भिक्षोर् आगमनं प्रतीक्षते। एकदा तेन प्राप्तो भिक्षुर् लगुडेन व्यापादितः। तस्माद् अपराधात् सो पि नापितो राज-पुरुषैर् व्यापादितः। अतो हं ब्रवीमि-पुण्याल् लब्धं यद् एकेन इत्य् आदि।
--ओ)०(ओ--
राजाह- पुरावृत्त-कथोद्गारैः कथं निर्णीयते परः। स्यान् निष्कारण-बंधुर् वा किं वा विश्वास-घातकः॥हित्_३.१०८॥
यातु, प्रस्तुतम् अनुसंधीयताम्। मलयाधित्यकायां चेच् चित्रवर्णस् तद् अधुना किं विधेयम् ? मंत्री वदति-देव ! आगत-प्रणिधि-मुखान् मया श्रुतं, यत् महा-मंत्रिणो गृध्रस्योपदेशे चित्रवर्णेनानादरः कृतः ततो सौ मूढो जेतुं शक्यः। तथा चोक्तम्-
लुब्धः क्रूरो लसो सत्यः प्रमादी भीरुर् अस्थिरः। मूढो योधावमंता च सुख-च्छेद्यो रिपुः स्मृतः॥हित्_३.१०९॥
ततो सौ यावद् अस्मद् दुर्ग-द्वार-रोधं न करोति, तावन् नद्य्-अद्रि-वन-वर्त्मसु तद्-बलानि हंतुं सारसादयः सेनापतयो नियुज्यंताम्। तथा चोक्तम्-
दीर्घ-वर्त्म-परिश्रांतं नद्य्-अद्रि-वन-संकुलम्। घोराग्नि-भय-संत्रस्तं क्षुत्-पिपासार्दितं तथा॥हित्_३.११०॥प्रमत्तं भोजन-व्यग्रं व्याधि-दुर्भिक्ष-पीडितम्। असंस्थितम् अभूयिष्ठं वृष्टि-वात-समाकुलम्॥हित्_३.१११॥पंक-पांशु-जलाच्छन्नं सुव्यस्तं दस्यु-विद्रुतम्। एवंभूतं महीपालः पर-सैंयं विघातयेत्॥हित्_३.११२॥
अंयच् च- अवस्कंद-भयाद् राजा प्रजागर-कृत-श्रमम्। दिवा-सुप्तं सदा हंयान् निद्रा-व्याकुल-सैनिकम्॥हित्_३.११३॥
अतस् तस्य प्रमादितो बलं गत्वा यथावकाशं दिवा-निशं घ्नंत्व् अस्मत्-सेनापतयः। तथानुष्ठिते चित्रवर्णस्य सैनिकाः सेनापतयश् च बहवो निहताः। ततश् चित्रवर्णो विषंणः स्व-मंत्रिणं दूर-दर्शिनम् आह-तात ! किम् इत्य् अस्मद्-उपेक्षा क्रियते ? किं क्वाप्य् अविनयो ममास्ति ? तथा चोक्तम्-
न राज्यं प्राप्तम् इत्य् एव वर्तितव्यम् असांप्रतम्। श्रियं ह्य् अविनयो हंति जरा रूपम् इवोत्तमम्॥हित्_३.११४॥
अपि च- दक्षः श्रियम् अधिगच्छति पथ्य् आशी कल्यतां सुखम् अरोगी। उद्युक्तो वियांतं धर्मार्थ-यशांसि च विनीतः॥हित्_३.११५॥
गृध्रो वदत्-देव ! शृणु- अविद्वान् अपि भू-पालो विद्या-वृढोपसेवया। परां श्रियम् अवाप्नोति जलासन्न-तरुर् यथा॥हित्_३.११६॥
अंयच् च- पापं स्त्री मृगया द्यूतम् अर्थ-दूषणम् एव च। वाग्-दंडयोश् च पारुष्यं व्यसनानि महीभुजाम्॥हित्_३.११७॥
किं च- न साहसैकांत-रसानुवर्तिना न चाप्य् उपायोपहतांतरात्मना। विभूतयः शक्यम् अवाप्तुम् ऊर्जिता नये च शौर्ये च वसंति संपदः॥हित्_३.११८॥
त्वया स्व-बलोत्साहम् अवलोक्य, साहसैक-रसिकेन मयोपंथस् तेष्व् अपि मंत्रेष्व् अनवधानं, वाक्-पारुष्यं च कृतम्। अतो दुर्नीतेः फलम् इदम् अनुभूयते। तथा चोक्तम्- दुर्मंत्रिणं कम् उपयांति न नीति-दोषाः ? संतापयंति कम् अपथ्य-भुजं न रोगाः ? कं श्रीर् न दर्पयति कं न निहंति मृत्युः कं स्त्री-कृता न विषयाः परितापयंति॥हित्_३.११९॥
अपरं च- मुदं विषादः शरदं हिमागमस् तमो विवस्वान् सुकृतं कृतघ्नता। प्रियोपपत्तिः शुचम् आपदं नयः श्रियः समृढा अपि हंति दुर्नयः॥हित्_३.१२०॥
ततो मयाप्य् आलोचितम्-प्रज्ञा-हीनो यं राजा। न चेत् कथं नीति-शास्त्र-कथा-कौमुदीं वाग्-उल्काभिस् तिमिरयति। यतः-
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ? लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति॥हित्_३.१२१॥
इत्य् आलोच्याहम् अपि तूष्णीं स्थितः। अथ राजा बढाञ्जलिर् आह-तात ! अस्त्य् अयं ममापराधः, इदानीं यथाहम् अवशिष्ट-बल-सहितः प्रत्यावृत्त्य विंध्याचलं गच्छामि, तथोपदिश।
गृध्रः स्वगतं चिंतयति-क्रियताम् अत्र प्रतीकारः। यतः,
देवतासु गुरौ गोषु राजसु ब्राह्मणेषु च। नियंतव्यः सदा कोपो बाल-वृढातुरेषु च॥हित्_३.१२२॥
मंत्री प्रहस्य ब्रूते-देव मा भैषीः। समाश्वसिहि। शृणु देव-
मंत्रिणां भिन्न-संधाने भिषजां सांनिपातिके। कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पंडितः॥हित्_३.१२३॥
अपरं च- आरंभंतेल्पम् एवाज्ञाः कामं व्यग्रा भवंति च। महारंभाः कृत-धियस् तिष्ठंति च निराकुलाः॥हित्_३.१२४॥
तद् अत्र भवत्-प्रतापाद् एव दुर्गं भंक्त्वा, कीर्ति-प्रताप-सहितं त्वाम् अचिरेण कालेन विंध्याचलं नेष्यामि।
राजाह-कथम् अधुना स्वल्प-बलेन तत् संपद्यते ?
गृध्रो वदति-देव ! सर्वं भविष्यति। यतो विजिगीषोर् अदीर्घ-सूत्रता विजय-सिढेर् अवश्यंभावि लक्षणम्। तत् सहसैव दुर्ग-द्वारावरोधः क्रियताम्।
अथ प्रहित-प्रणिधिना बकेनागत्य हिरण्यगर्भस्य कथितम्-देव ! स्वल्प-बल एवायं राजा चित्रवर्णो गृध्रस्य वचनोपष्टंभाद् आगत्य दुर्ग-द्वारावरोधं करिष्यति।
राजहंसो ब्रूते-स्व-बले सारासार-विचारः क्रियताम्। तज् ज्ञात्वा सुवर्ण-वस्त्रादिकं यथार्हं प्रसाद-प्रदानं च क्रियताम्। यतः-
यः काकिणीम् अप्य् अपथ-प्रपन्नां समुढरेन् निष्क-सहस्र-तुल्याम्। कालेषु कोटिष्व् अपि मुक्त-हस्तस् तं राज-सिंहं न जहाति लक्ष्मीः॥हित्_३.१२५॥
अंयच् च- क्रतौ विवाहे व्यसने रिपु-क्षये यशस्करे कर्मणि मित्र-संग्रहे। प्रियासु नारीष्व् अधनेषु बांधवेष्व् अतिव्ययो नास्ति नराधिपाष्टसु॥हित्_३.१२६॥
यतः- मूर्खः स्वल्प-व्यय-त्रासात् सर्वनाशं करोति हि। कः सुधीः संत्यजेद् भांडं शुक्लस्यैवातिसाध्वसात्॥हित्_३.१२७॥
राजाह-कथम् इह समयेतिव्ययो युज्यते ? उक्तं च-आपद्-अर्थे धनं रक्षेद् इति।
मंत्री ब्रूते-श्रीमतां कथम् आपदः ?
राजाह-कदाचिच् चलिता लक्ष्मीः।
मंत्री ब्रूते-सञ्चितापि विनश्यति। तद् देव ! कार्पण्यं विमुच्य स्व-भटा दान-मानाभ्यां पुरस्क्रियंताम्। तथा चोक्तम्-
परस्परज्ञाः संहृष्टास् त्यक्तुं प्राणान् सुनिश्चिताः। कुलीनाः पूजिताः सम्यग् विजयंते द्विषद्-बलम्॥हित्_३.१२८॥
अपरं च- सुभटाः शील-संपन्नाः संहताः कृत-निश्चयाः। अपि पञ्च-शतं शूरा निघ्नंति रिपु-वाहिनीम्॥हित्_३.१२९॥
किं च- शिष्टैर् अप्य् अवशेषज्ञ उग्रश् च कृत-नाशकः। त्यज्यते किं पुनर् नांयैर् यश् चाप्य् आत्मंभरिर् नरः॥हित्_३.१३०॥
यतः- सत्यं शौर्यं दया त्यागो नृपस्यैते महा-गुणाः। एतैस् त्यक्तो महीपालः प्राप्नोति खलु वाच्यताम्॥हित्_३.१३१॥
ईदृशि प्रस्तावेमात्यास् तावद् अवश्यम् एव पुरस्कर्तव्याः। तथा चोक्तम्-
यो येन प्रतिबढः स्यात् सह तेनोदयी व्ययी। स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च॥हित्_३.१३२॥
यतः- धूर्तः स्त्री वा शिशुर् यस्य मंत्रिणः स्युर् महीपतेः। अनीति-पवन-क्षिप्तो कार्याब्धौ स निमज्जति॥हित्_३.१३३॥
शृणु देव! - हर्ष-क्रोधौ यतौ यस्य शास्त्रार्थे प्रत्ययस् तथा। नित्यं भृत्यानुपेक्षा च तस्य स्याद् धनदा धरा॥हित्_३.१३४॥येषां राज्ञा सह स्याताम् उच्चयापचयौ ध्रुवम्। अमात्या इति तान् राजा नावमंयेत् कदाचन॥हित्_३.१३५॥महीभुजो मदांधस्य संकीर्णस्येव दंतिनः। स्खलतो हि करालंबः सुशिष्टैर् एव कीयते॥हित्_३.१३६॥
अथागत्य प्रणम्य मेघवर्णो ब्रूते-देव ! दृष्टि-प्रसादं कुरु। इदानीं विपक्षो दुर्ग-द्वारि वर्तते। तद् देव-पादादेशाद् बहिर् निःसृत्य स्व-विक्रमं दर्शयामि। तेन देव-पादानाम् आनृण्यम् उपगच्छामि।
चक्रवाको ब्रूते-मैवम्। यदि बहिर् निःसृत्य योढव्यम्। तदा दुर्गाश्रयणम् एव निष्प्रयोजनम्। अपरं च-
विषमो पि यथा नक्रः सलिलान् निसृतो वशः। वनाद् विनिर्गतः शूरः सिंहो पि स्याच् छगालवत्॥हित्_३.१३७॥
अथ ते सर्वे दुर्ग-द्वारं गत्वा महाहवं कृतवंतः। अपरेद्युश् चित्रवर्णो राजा गृध्रम् उवाच-तात ! स्व-प्रतिज्ञातम् अधुना निर्वाहय।
वायसो ब्रूते-देव ! स्वयं गत्वा दृश्यतां युढम्। यतः-
पुरस्कृत्य बलं राजा योधयेद् अवलोकयन्। स्वामिनाधिष्ठितः श्वापि किं न सिंहायते ध्रुवम्॥हित्_३.१३८॥
गृध्रो ब्रूते-देव ! शृणु तावत्-
अकाल-सहमत्य्-अल्पं मूर्ख-व्यसनि-नायकम्। अगुप्तं भीरु-योधं च दुर्ग-व्यसनम् उच्यते॥हित्_३.१३९॥
तत् तावद् अत्र नास्ति-
उपजापश् चिरारोधो वस्कंदस् तीव्र-पौरुषम्। दुर्गस्य लंघनोपायाश् चत्वारः कथिता इमे॥हित्_३.१४०॥
अत्र यथाशक्ति क्रियते यत्नः। कर्णे कथयति-एवम् एवम्। ततो नुदित एव भास्करे चतुर्ष्व् अपि दुर्ग-द्वारेषु प्रवृत्ते युढे, दुर्गाभ्यंतर-गृहेष्व् एकदा काकैर् अग्नि-निक्षिप्तः। ततः गृहीतं गृहीतं दुर्गम् इति कोलाहलं श्रुत्वा सर्वतः प्रदीप्ताग्निम् अवलोक्य राज-हंस-सैनिका बहवो दुर्ग-वासिनश् च सत्वरं ह्रदं प्रविष्टाः, यतः-
सुमंत्रितं सुविक्रांतं सुयुढं सुपलायितम्। कार्य-काले यथा-शक्ति कुर्यान् न तु विचारयेत्॥हित्_३.१४१॥
राजा हंसश् च स्वभावान् मंद-गतिः। सारस-द्वितीयश् चित्रवर्णस्य सेनापतिना कुक्कुटेनागत्य वेष्टितः। हिरण्यगर्भः सारसम् आह-सेनापते ! सारस ! ममानुरोधाद् आत्मानं कथं व्यापादयसि। अधुनाहं गंतुम् असमर्थः। त्वं गंतुम् अधुनापि समर्थः। तद् गत्वा जलं प्रविश्यात्मानं परिरक्ष। अस्मत्-पुत्रं चूडामणि-नामानं सर्वज्ञस्य संमत्या राजानं करिष्यसि।
सारसो ब्रूते-देव ! न वक्तव्यम् एवं दुःसहं वचः, यावच् चंद्रार्कौ दिवि तिष्ठतस् तावद् विजयतां देवः। अहं देव दुर्गाधिकारी। तन् मम मांसासृग् विलिप्तेन द्वार-वर्त्मना तावत् प्रविशतु शत्रुः। अपरं च, देव--
दाता क्षमी गुण-ग्राही स्वामी दुःखेन लभ्यते।
राजाह-सत्यम् एवैतत्। किंतु- शुचिर् दक्षो नुरक्तश् च जाने भृत्यो पि दुर्लभः॥हित्_३.१४२॥
सारसो ब्रूते-शृणु देव!
यदि समरम् अपास्य नास्ति मृत्योर् भयम् इति युक्तम् इतो ंयतः प्रयातुम्। अथ मरणम् अवश्यम् एव जंतोः किम् इति मुधा मलिनं यशः क्रियते ?॥हित्_३.१४३॥
अंयच् च- भवेस्मिन् पवनोद्भ्रांत-वीचि-विभ्रम-भंगुरे। जायते पुणय्-योगेन परार्थे जीवित-व्ययः॥हित्_३.१४४॥स्वाम्य्-अमात्यश् च राष्ट्रं च दुर्गं कोशो बलं सुहृत्। राज्यांगानि प्रकृतयः पौराणां श्रेणयो पि च॥हित्_३.१४५॥
देव ! त्वं च स्वामी सर्वथा रक्षणीयः। यतः-
प्रकृतिः स्वामिनं त्यक्त्वा समृढापि न जीवति। अपि धंवंतरिर् वैद्यः किं करोति गतायुषि॥हित्_३.१४६॥
अपरं च- नरेशे जीव-लोको यं निमीलति निमीलति। उदेत्य् उदीयमाने च रवाव् इव सरोरुहम्॥हित्_३.१४७॥
अत्रापि प्रधानांगं राजा।
अथ कुक्कुटेनागत्य राजहंसस्य शरीरे खरतर-नखाघातः कृतः। तदा सत्वरम् उपसृत्य सारसेन स्व-देहांतरितो राजा जले क्षिप्तः।
अथ कुक्कुट-नख-प्रहार-जर्जरीकृतेनापि सारसेन कुक्कुट-सेना बहुशो हता। पश्चात् सारसो पि बहुभिः पक्षिभिः समेत्य चञ्चु-प्रहारेण विभिद्य व्यापादितः। अथ चित्रवर्णो दुर्गं प्रविश्य, दुर्गावस्थितं द्रव्यं ग्राहयित्वा वंदिभिर् जय-शब्दैर् आनंदितः स्व-स्कंधावारं जगाम।
अथ राज-पुत्रैर् उक्तं-तस्मिन् राजहंस-पक्षे पुण्यवान् स सारस एव, येन स्व-देह-त्यागेन स्वामी रक्षितः। यतः-
जनयंति सुतान् गावः सर्वा एव गवाकृतीन्। विषाणोल्लिखित-स्कंधं काचिद् एव गवां पतिम्॥हित्_३.१४८॥
विष्णुशर्मोवाच-स तावत् सत्त्व-क्रीतान् अक्षय-लोकान् विद्याधरी-परिवृत्तो नुभवतु महा-सत्त्वः। तथा चोक्तम्-
आहवेषु च ये शूराः स्वाम्य्-अर्थे त्यक्त-जीविताः। भर्तृ-भक्ताः कृतज्ञाश् च ते नराः स्वर्ग-गामिनः॥हित्_३.१४९॥
यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः। अक्षयान् लभते लोकान् यदि क्लैब्यं न गच्छति॥हित्_३.१५०॥
अथ विष्णुशर्मा प्राह-विग्रहः श्रुतो भवद्भिः।
राजपुत्रैर् उक्तम्-श्रुत्वा सुखिनो भूता वयम्।
विष्णुशर्माब्रवीत्-अपरम् अप्य् एवम् अस्तु-
विग्रहः करि-तुरंग-पत्तिभिर् नो कदापि भवतान् महीभुजाम्। नीति-मंत्र-पवनैः समाहताः संश्रयंतु गिरि-गह्वरं द्विषः॥हित्_३.१५१॥
इति श्री-नारायण-पंडित-कृते हितोपदेशे नीति-शास्त्रे विग्रहो नाम तृतीयः कथा-संग्रहः।

संबंधित कड़ियाँ

सम्पाद्यताम्
  1. हितोपदेशम्
    1. मंगलाचरणम् १-४६
    2. प्रथम: कथा-संग्रहः - मित्र-लाभः १-१००
    3. प्रथम: कथा-संग्रहः - मित्र-लाभः १०१-२०१
    4. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १-१००
    5. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १०१-१८४
    6. तृतीयः कथा-संग्रहः - विग्रहः १-१००
    7. तृतीयः कथा-संग्रहः - विग्रहः १०१-१५१
    8. चतुर्थः कथा-संग्रहः - संधिः १-१००
    9. चतुर्थः कथा-संग्रहः - संधिः १०१-१४३
  2. हितोपदेश (hindi wikipedia)
  3. पञ्चतन्त्रम्
  4. कथासरित्सागर
  5. सिंहासनद्वात्रिंशति

बाहरी कडियाँ

सम्पाद्यताम्
"https://sa.wikisource.org/w/index.php?title=हितोपदेशम्_04क&oldid=17780" इत्यस्माद् प्रतिप्राप्तम्