राजाह--कथम् एतत् ?
दूरदर्शी कथयति-

कथा ११ सम्पाद्यताम्

अस्त्य् उज्जयिंयां माधवो नाम विप्रः। तस्य ब्राह्मणी प्रसूता, बालापत्यस्य रक्षार्थं ब्राह्मणम् अवस्थाप्य स्थातुं गता। अथ ब्राह्मणाय राज्ञः पार्वण-श्राढं दातुम् आह्वानम् आगतम्। तच् छ्रुत्वा ब्राह्मणो पि सहज-दारिद्र्याद् अचिंतयत्-यदि सत्वरं न गच्छामि, तदांया कश्चिच् छ्रुत्वा श्राढं ग्रहीष्यति। यतः- आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः। क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्-रसम्॥हित्_४.१०१॥
किंतु बालाकस्यात्र रक्षको नास्ति। तत् किं करोमि ? यातु, चिर-काल-पालितम् इमं नकुलं पुत्र-निर्विशेषं बालक-रक्षायां व्यवस्थाप्य गच्छामि। तथा कृत्वा गतः। ततस् तेन नकुलेन बालक-समीपम् आगच्छन् कृष्ण-सर्पो दृष्टो व्यापाद्य कोपात् खंडं खंडं कृत्वा भक्षितश् च। ततो सौ नकुलो ब्राह्मणम् आयांतम् अवलोक्य रक्त-विलिप्त-मुख-पदः सत्वरम् उपगम्य तच्-चरणयोर् लुलोठ। ततः स विप्रस् तथा-विधं दृष्ट्वा मम बालको नेन खादित इत्य् अवधार्य नकुलः व्यापादितवान्। अनंतरं यावद् उपसृत्यापत्यं पश्यति ब्राह्मणस् तावद् बालकः सुस्थः स्वपिति सर्पश् च व्यापादितस् तिष्ठति। ततस् तम् उपकारकं नकुलं निरीक्ष्य, भावित-चेताः स ब्राह्मणः परं विषादम् अगमत्। अतो हं ब्रवीमि-यो र्थ-तत्त्वम् अविज्ञाय इत्य् आदि। अपरं च-
कामः क्रोधस् तथा लोभो हर्षो मानो मदस् तथा। षड्-वर्गम् उत्सृजेद् एनं तस्मिंस् त्यक्ते सुखी नृपः॥हित्_४.१०२॥
राजाह-मंत्रिन् ! एष ते निश्चयः ?
मंत्री ब्रूते-एवम् एव। यतः- स्मृतिस् तत्-परतार्थेषु वितर्को ज्ञान-निश्चयः। दृढता मंत्र-गुप्तिश् च मंत्रिणः परमो गुणः॥हित्_४.१०३॥
तथा च- सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम्। वृणुते हि विमृश्य कारिणं गुण-लुब्धाः स्वयम् एव संपदः॥हित्_४.१०४॥
तद् देव ! यदीदानीम् अस्मद्-वचनं क्रियते, तदा संधाय गम्यताम्। यतः-
यद्यप्य् उपायाश् चत्वारो निर्दिष्टाः सध्य-साधने। संख्या-मात्रं फलं तेषां सिढिः साम्नि व्यवस्थिता॥हित्_४.१०५॥
राजाह-कथम् एवं सत्वरं संभाव्यते ?
मंत्री ब्रूते-देव ! सत्वरं भविष्यति। यतः-
मृद्-घटवत् सुख-भेद्यो दुःसंधानश् च दुर्जनो भवति। सुजनस् तु कनक-घटवद् दुर्भेद्यश् चाशु संधेयः॥हित्_४.१०६॥
अज्ञः सुखम् आराध्यः सुखतरम् आराध्यते विशेषज्ञः। ज्ञान-लव-दुर्विदग्धं ब्रह्मापि नरं न रञ्जयति॥हित्_४.१०७॥कर्मानुमेयाः सर्वत्र परोक्ष-गुण-वृत्तयः। तस्मात् परोक्ष-वृत्तीनां फलैः कर्म विभावयेत्॥हित्_४.१०८॥
राजाह-अलम् उत्तरोत्तरेण, यथाभिप्रेतम् अनुष्ठीयताम्। एतन् मंत्रयित्वा गृध्रो महामंत्री-तत्र यथार्हं कर्तव्यम् इत्य् उक्त्वा दुर्गाभ्यंतरं चलितः। ततः प्रणिधि-बकेनागत्य राज्ञी हिरण्यगर्भस्य निवेदितं-देव ! संधि-कर्तुं महामंत्री गृध्रो स्मत्-समीपम् आगच्छति।
राजहंसो ब्रूते-मंत्रिन् ! पुनर् अभिसंधिना केनचिद् अत्रागमनम्।
सर्वज्ञो विहस्याह-देव ! न शंकास्पदम् एतत्। यतो सौ महाशयो दूरदर्शी। अथवा स्थितिर् इयं मंद-मतीनां, कदाचिच् छंकैव न क्रियते, कदाचित् सर्वत्र शंका। तथा हि-
सरसि बहुशस् ताराच्छायेक्षणात् परिवञ्चितः कुमुद-विटपांवेषी हंसो निशास्वविचक्षणः। न दशति पुनस् ताराशंकी दिवापि सितोत्पलं कुहुक-चकितो लोकः सत्येप्य् अपायम् अपेक्षते॥हित्_४.१०९॥
दुर्जन-दूषित-मनसः सुजनेष्व् अपि नास्ति विश्वासः। बालः पायस-दग्धो दध्य् अपि फूत्कृत्य भक्षयति॥हित्_४.११०॥
तद् देव ! यथा-शक्ति तत्-पूजार्थं रत्नोपहारादि-सामग्री सुसज्जीक्रियताम्। तथानुष्ठिते सति स गृध्रो दुर्ग-द्वाराच् चक्रवाकेणोपगम्य, सत्कृत्यानीय राज-दर्शनं कारितो दत्तासने चोपविष्टः। चक्रवाक उवाच-मंत्रिन् ! युष्मद्-आयत्तं सर्वं स्वेच्छयोपभुज्यताम् इदं राज्यम् æ
राजहंसो ब्रूते-एवम् एव।
दूरदर्शी कथयति-एवम् एवैतत्। किंत्व् इदानीं बहु-प्रपञ्च-वचनं निष्पर्योजनम्। यतः-
लुब्धम् अर्थेन गृह्णीयात् स्तब्धम् अञ्जलि-कर्मणा। मूर्खं छंदानुरोधेन याथातथ्येन पंडितम्॥हित्_४.१११॥
अंयच् च- सद्-भावेन हरेन् मित्रं संभ्रमेण तु बांधवान्। स्त्री-भृत्यौ दान-मानाभ्यां दाक्षिण्येनेतरान् जनान्॥हित्_४.११२॥
तद् इदानीं संधातुं गम्यताम्। महा-प्रतापश् चित्रवर्णो राजा।
चक्रवाको ब्रूते-यथा संधानं कार्यम्। तद् अप्य् उच्यताम्।
राजहंसो ब्रूते-कति प्रकाराः संधीनां संभवंति ?
गृध्रो ब्रूते-कथयामि श्रूयताम्-
बलीयसाभियुक्तस् तु नृपो नांय-प्रतिक्रियः। आपन्नः संधिम् अंविच्छेत् कुर्वाणः काल-यापनम्॥हित्_४.११३॥कपाल उपहारश् च संतानः संगतस् तथा। उपंयासः प्रतीकारः संयोगः पुरुषांतरः॥हित्_४.११४॥अदृष्ट-नर आदिष्ट आत्मामिष उपग्रहः। परिक्रयस् तथोच्छिन्नस् तथा च पर-दूषणः॥हित्_४.११५॥स्कंधोपनेयः संधिश् च षोडशः परकीर्तितः। इति षोडशकं प्राहुः संधिं संधि-विचक्षणाः॥हित्_४.११६॥कपाल-संधिर् विज्ञेयः केवलं सम-संधिकः। संप्रदानाद् भवति य उपहारः स उच्यते॥हित्_४.११७॥संतान-संधिर् विज्ञेयो दारिका-दान-पूर्वकः। सद्भिस् तु संगतः संधिर् मैत्री-पूर्व उदाहृतः॥हित्_४.११८॥यावद् आयुः-प्रमाणस् तु समानार्थ-प्रयोजनः। संपत्तौ वा विपत्तौ वा कारणैर् यो न भिद्यते॥हित्_४.११९॥संगतः संधिर् एवायं प्रकृष्टत्वात् सुवर्णवत्। तथांयैः संधि-कुशलैः काञ्चनः समुदाहृतः॥हित्_४.१२०॥आत्म-कार्यस्य सिढिं तु समुद्दिश्य क्रियेत यः। स उपंयास-कुशलैर् उपंयास उदाहृतः॥हित्_४.१२१॥मयास्योपकृतं पूर्वं ममाप्य् एष करिष्यति। इति यः क्रियते संधिः प्रतीकारः स उच्यते॥हित्_४.१२२॥उपकारं करोम्य् अस्य ममाप्य् एष करिष्यति। अयं चापि प्रतीकारो राम-सुगृवयोर् इव॥हित्_४.१२३॥एकार्थां सम्यग् उद्दिश्य यात्रां यत्र हि गच्छतः। सुसंहित-प्रयाणस् तु संधिः संयोग उच्यते॥हित्_४.१२४॥आवयोर् योध-मुख्याभ्यां मद्-अर्थः साध्यताम् इति। यस्मिन् पणः प्रक्रियते स संधिः पुरुषांतरः॥हित्_४.१२५॥त्वयैकेन मदीयो र्थः संप्रसाध्यस् त्व् असाव् इति। यत्र शत्रुः पणं कुर्यात् सो दृष्ट-पुरुषः स्मृतः॥हित्_४.१२६॥यत्र भूम्य्-एक-देशेन पणेन रिपुर् ऊर्जितः। संधीयते संधि-विद्भिः स चादिष्ट उदाहृतः॥हित्_४.१२७॥स्व-सैंयेन तु संधानम् आत्मादिष्ट उदाहृतः। क्रियते प्राण-रक्षार्थं सर्व-दानाद् उपग्रहः॥हित्_४.१२८॥कोशांशेनार्ध-कोशेन सर्व-कोशेन वा पुनः। शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः॥हित्_४.१२९॥भुवां सारवतीनां तु दानाद् उच्छिन्न उच्यते। भूम्य्-उठ-फल-दानेन सर्वेण पर-भूषणः॥हित्_४.१३०॥परिच्छिन्नं फलं यत्र प्रतिस्कंधेन दीयते। स्कंधोपनेयं तं प्राहुः संधिं संधि-विचक्षणाः॥हित्_४.१३१॥परस्परोपकारस् तु मैत्री संबंधकस् तथा। उपहारश् च विज्ञेयाश् चत्वारश् चैव संधयः॥हित्_४.१३२॥एक एवोपहारस् तु संधिर् एतन् मतं हि नः। उपहारस्य भेदास् तु सर्वेंये मैत्र-वर्जिताः॥हित्_४.१३३॥अभियोक्ता बली यस्माद् अलब्ध्वा न निवर्तते। उपहाराद् ऋते तस्मात् संधिर् अंयो न विद्यते॥हित्_४.१३४॥
राजाह-भवंतो महांतः पंडिताश् च। तद् अत्रास्माकं यथा-कार्यम् उपदिश्यताम्।
दूरदर्शी ब्रूते-आः किम् एवम् उच्यते?
आधि-व्याधि-परीतापाद् अद्य श्वो वा विनाशिने। को हि नाम शरीराय धर्मापेतं समाचरेत्॥हित्_४.१३५॥जलांतश् चंद्र-चपलं जीवितं खलु देहिनाम्। तथा-विधम् इति ज्ञात्वा शश्वत्-कल्याणम् आचरेत्॥हित्_४.१३६॥
वाताभ्र-विभ्रमम् इदं वसुधाधिपत्यम् आपात-मात्र-मधुरो विषयोपभोगः। प्राणास् तृणाग्र-जल-बिंदु-समान-लोला धर्मः सखा परम् अहो परलोक-याने॥हित्_४.१३७॥
मृग-तृष्णा-समं वीक्ष्य संसारं क्षण-भंगुरम्। सज्जनैः संगतं कुर्याद् धर्माय च सुखाय च॥हित्_४.१३८॥
तन् मम संमतेन तद् एव क्रियताम्। यतः-
अश्वमेध-सहस्रं च सत्यं च तुलया धृतम्। अश्वमेध-सहस्राद् धि सत्यम् एव विशिष्यते॥हित्_४.१३९॥
अतः सत्याभिधान-दिव्य-पुरःसरम् अनयोर् भूपालयोः काञ्चनाभिधानः संधिर् विधीयताम्। सर्वज्ञो ब्रूते-एवम् अस्तु। ततो राजहंसेन राज्ञा वस्त्रालंकारोपहारैः स मंत्री दूरदर्शी पूजितः। प्रहृष्ट-मनाश् चक्रवाकं गृहीत्वा, राज्ञो मयूरस्य संनिधानं गतः। तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्र-वचनाद् बहु-मान-दान-पुरः-सरं संभाषितस् तथा-विधं संधिं स्वीकृत्य राजहंस-समीपं प्रस्थापितः।
दूरदर्शी ब्रूते-देव ! सिढं नः समीहितम्। इदानीं स्वस्थानम् एव विंध्याचलं व्यावृत्य प्रतिगम्यताम्। अथ सर्वे स्व-स्थानं प्राप्य, मनाभिलषितं फलं प्राप्नुवंन् इति।
विष्णुशर्मेनोक्तं-अपरं किं कथयामि, तद् उच्यताम्।
राज-पुत्रा ऊचुः-आर्य ! तव प्रसादात् सकल-राज्य-व्यवहारांगं जातम्। ततः सुखिनो भूता वयम्।
विष्णु-शर्मोवाच-यद्यप्य् एवं तथाप्य् अपरम् अपीदम् अस्तु।
संधिः सर्व-मही-भुजां विजयिनाम् अस्तु प्रमोदः सदा संतः संतु निरापदः सुकृतिनां कीर्तिश् चिरं वर्धताम्। नीति-वार-विलासिनीव सततं वक्षः-स्थले संस्थिता वक्त्रं चुंबतु मंत्रिणाम् अहरहर् भूयान् महान् उत्सवः॥हित्_४.१४०॥
अंयच् चास्तु- प्रालेयाद्रेः सुतायाः प्रणय-निवसतिश् चंद्रमौलिः स यावद् यावल् लक्ष्मीर् मुरारेर् जलद इव तडिन् मानसे विस्फुरंती। यावत् स्वर्णाचलो यं दव-दहन-समो यस्य सूर्यः स्फुलिंगस् तावन् नारायणेन प्रचरतु रचितः संग्रहो यं कथानाम्॥हित्_४.१४१॥
किं च- उर्वीम् उद्दाम-सस्यां जनयतु विसृजन् वासवो वृष्टिम् इष्टाम् इष्टैस् त्रैविष्टपानां विदधतु विधिवत् प्रीणनं विप्र-मुख्याः। आकल्पांतं च भूयात् स्थिर-समुपचिता संगतिः सज्जनानां निःशेषं यांतु शांतिं पिशुन-जन-गिरो दुःसहा वज्र-लेपाः॥हित्_४.१४२॥
अपरं च- श्रीमांधवलचंद्रो सौ जीयान् मांडलिको रिपून्। येनायं संग्रहो यत्नाल् लेखयित्वा प्रचारितः॥हित्_४.१४३॥
इति हितोपदेशे संधिर् नाम चतुर्थः कथा-संग्रहः।। समाप्तश् चायं हितोपदेशः॥

संबंधित कड़ियाँ सम्पाद्यताम्

  1. हितोपदेशम्
    1. मंगलाचरणम् १-४६
    2. प्रथम: कथा-संग्रहः - मित्र-लाभः १-१००
    3. प्रथम: कथा-संग्रहः - मित्र-लाभः १०१-२०१
    4. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १-१००
    5. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १०१-१८४
    6. तृतीयः कथा-संग्रहः - विग्रहः १-१००
    7. तृतीयः कथा-संग्रहः - विग्रहः १०१-१५१
    8. चतुर्थः कथा-संग्रहः - संधिः १-१००
    9. चतुर्थः कथा-संग्रहः - संधिः १०१-१४३
  2. हितोपदेश (hindi wikipedia)
  3. पञ्चतन्त्रम्
  4. कथासरित्सागर
  5. सिंहासनद्वात्रिंशति

बाहरी कडियाँ सम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=हितोपदेशम्_05क&oldid=17782" इत्यस्माद् प्रतिप्राप्तम्