हितोपदेशम् 05
--ओ)०(ओ--
चतुर्थः कथा-संग्रहः
इव्. संधिः
पुनः कथारंभ-काले राज-पुत्रैर् उक्तम्-आर्य ! विग्रहः श्रुतो स्माभिः। संधिर् अधुनाभिधीयताम्।
विष्णुशर्मेणोक्तम्-श्रूयताम्। संधिम् अपि कथयामि। यस्यायम् आद्यः श्लोकः-
वृत्ते महति संग्रामे राज्ञोर् निहत-सेनयोः। स्थेयाभ्यां गृध्र-चक्राभ्यां वाचा संधिः कृतं क्षणत्॥हित्_४.१॥
राजपुत्रा ऊचुः-कथम् एतत् ?
विष्णुशर्मा कथयति-ततस् तेन राजहंसेन उक्तम्-केनास्मद्-दुर्गे निक्षिप्तो ग्निः ? किं पारक्येण ? किं वास्मद्-दुर्ग-वासिना केनापि विपक्ष-प्रयुक्तेन ?
चक्रवाको ब्रूते-देव ! भवतो निष्कारण-बंधुर् असौ मेघवर्णः सपरिवारो न दृश्यते। तन् मंये तस्यैव विचेष्टितम् इदम्।
राजा क्षणं विचिंत्याह-अस्ति तावद् एवम्। मम दुर्दैवम् एतत्। तथा चोक्तम्-
अपराधः स दैवस्य न पुनर् मंत्रिणाम् अयम्। कार्यं सुचरितं क्वापि दैव-योगाद् विनश्यति॥हित्_४.२॥विषमां हि दशां प्राप्य दैवं गर्हयते नरः। आत्मनः कर्म-दोषांश् च नैव जानात्य् अपंडितः॥हित्_४.३॥अपरं च- सुहृदां हित-कामानां यो वाक्यं नाभिनंदति। स कूर्म इव दुर्बुढिः काष्ठाद् भ्रष्टो विनश्यति॥हित्_४.४॥अंयच् च- रक्षितव्यं सदा वाक्यं वाक्याद् भवति नाशनम्। हंसाभ्यां नीयमानस्य कूर्मस्य पतनं यथा॥हित्_४.५॥
राहाह-कथम् एतत् ?
मंत्री कथयति-
कथा १
सम्पाद्यताम्अस्ति मगध-देशे फुल्लोत्पलाभिधानं सरः। तत्र चिरं संकट-विकट-नामानौ हंसौ निवसतः। तयोर् मित्रं कंबुग्रीव-नामा कूर्मश् च प्रतिवसति। अथैकदा धीवरैर् आगत्य तथोक्तं यत्-अत्रास्माभिर् अद्योषित्वा प्रातर् मत्स्य-कूर्मादयो व्यापादयितव्याः।
तद् आकर्ण्य कूर्मो हंसाव् आह-सुहृदौ ! श्रुतो यं धीवरालापः। अधुना किं मया कर्तव्यम्?
हंसाव् आहतुः-ज्ञायतां तावत्। पुनस् तावत् प्रातर् यद् उचितं तत् कर्तव्यम्।
कूर्मो ब्रूते-मैवम्। यतो दृष्ट-व्यतिकरो हम् अत्र। यथा चोक्तम्-
अनागत-विधाता च प्रत्युत्पन्न-मतिस् तथा। द्वाव् एव सुखम् एधेते यद्-भविष्यो विनश्यति॥हित्_४.६॥
ताव् ऊचतुः-कथम् एतत् ?
कूर्मः कथयति-
कथा २
सम्पाद्यताम्पुरास्मिंन् एव सरस्य् एवंविधेष्व् एव धीवरेषूपस्थितेषु मत्स्य-त्रयेणालोचितम्। तत्रानागत-विधाता नामैको मत्स्यः। तेनोक्तं-अहं तावज्-जलाशयांतरं गच्छामि। इत्य् उक्त्वा स ह्रदांतरं गतः। अपरेण प्रत्युत्पन्नमति-नाम्ना मस्त्येनाभिहितम्-भविष्यद्-अर्थे प्रमाणाभावात् कुत्र मया गंतव्यम् ? तद् उत्पंने यथा-कार्यं तद् अनुष्ठेयम्। तथा चोक्तम्-
उत्पन्नाम् आपदं यस् तु समाधत्ते स बुढिमान्। वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा॥हित्_४.७॥
यद्भविष्यः पृच्छति-कथम् एतत् ?
प्रत्युत्पन्नमतिः कथयति-
कथा ३
सम्पाद्यताम्पुरा विक्रमपुरे समुद्रदत्तो नाम वणिग् अस्ति। तस्य रत्नप्रभा नाम गृहिणी स्व-सेवकेन सह सदा रमते। यतः-
न स्त्रीणाम् अप्रियः कश्चित् प्रियो वापि न विद्यते। गावस् तृणम् इवारण्ये प्रार्थयंते नवं नवम्॥हित्_४.८॥
अथैकदा सा रत्नप्रभा तस्य सेवकस्य मुखे चुंबनं ददती समुद्रदत्तेनावलोकिता। ततः सा बंधकी सत्वरं भर्तुः समीपं मत्वाह-नाथ ! एतस्य सेवकस्य महती निकृतिः। यतो यं चौरिकां कृत्वा कर्पूरं खादतीति। मयास्य मुखम् आघ्राय ज्ञातम्। तथा चोक्तम्-
आहारो द्विगुणः स्त्रीणां बुढिस् तासां चतुर्-गुणा। षड्-गुणो व्यवसायश् च कामाश् चाष्टगुणः स्मृतः॥हित्_४.९॥
तच् छ्रुत्वा सेवकेनापि प्रकुप्योक्तं-नाथ ! यस्य स्वामिनो गृहे एतादृशी भार्या तत्र सेवकेन कथं स्थातव्यम् ? यत्र च प्रतिक्षणं गृहिणी सेवकस्य मुखं जिघ्रति। ततो साव् उठाय चलितः। साधुना च यत्नात् प्रबोध्य धृतः। अतो हं ब्रवीमि-उत्पन्नाम् आपदम् इत्य् आदि।
--ओ)०(ओ--
ततो यद्भविष्येणोक्तम्-
यद् अभावि न तद् भावि भावि चेन् न तद् अंयथा। इति चिंता-विष-घ्नो यम् अगदः किं न पीयते॥हित्_४.१०॥
ततः प्रातर् जालेन बढः प्रत्युत्पन्नमतिर् मृतवद् आत्मानं संदर्श्य स्थितः। ततो जालाद् अपसारितो यथाशक्त्य् उत्प्लुत्य गभीरं नीरं प्रविष्टः। यद्भविष्यश् च धीवरैः प्राप्तो व्यापादितः। अतो हं ब्रवीमि-अनागत-विधाता च इत्य् आदि। तद् यथाहम् अंयं ह्रदं प्राप्नोमि तथा क्रियताम्।
हंसाव् आहतुः-जलाशयांतरे प्राप्ते तव कुशलम्। स्थले गच्छतस् ते को विधिः ?
कूर्म आह-यथाहं भवद्भ्यां सहाकाश-वर्त्मना यामि, तथा विधीयताम्।
हंसाव् ब्रूतः-कथम् उपायः संभवति ?
कच्छपो वदति-युवाभ्यां चञ्चु-धृतं काष्ठ-खंडम् एकं मया मुखेनावलंबितव्यम्। ततश् च युवयोः पक्ष-बलेन मयापि सुखेन गंतव्यम्।
हंसौ ब्रूतः-संभवत्य् एष उपायः। किंतु-
उपायं चिंतयेत् प्राज्ञो ह्य् अपायम् अपि चिंतयेत्। पश्यतो बक-मूर्खस्य नकुलैर् भक्षिताः सुताः॥हित्_४.११॥
कूर्मः पृच्छति--कथम् एतत् ?
तौ कथयतः-
कथा ४
सम्पाद्यताम्अस्त्य् उत्तरा-पथे गृध्रकूट-नाम्नि पर्वते महान् पिप्पल-वृक्षः। तत्रानेके बका निवसंति। तस्य वृक्षस्याधस्ताद् विवरे सर्पस् तिष्ठति। स च बकानां बालापत्यानि खादति। अथ शोकार्तानां विलापं श्रुत्वा केनचिद् वृढ-बकेनाभिहितं-भो एवं कुरुत, यूयं मत्स्यान् उपादाय नकुल-विवराद् आरभ्य सर्प-विवरं यावत्-पंक्ति-क्रमेण एकैकशो विकिरत। ततस् तद्-आहार-लुब्धैर् नकुलैर् आगत्य सर्पो द्रष्टव्यः। स्वभाव-द्वेषाद् व्यापदयितव्यश् च। तथानुष्ठिते सति तद् वृत्तम्।
अथ नकुलैर् वृक्षोपरि बक-शावकानां रावः श्रुतः। पश्चात् तद्-वृक्षम् आरुह्य बक-शावकाः खादिताः। अत आवां ब्रूवः-उपायं चिंतयन् इत्य् आदि।
आवाभ्यां नीयमानं त्वाम् अवलोक्य लोकैः किंचिद् वक्तव्यम् एव। यदि त्वम् उत्तरं दास्यसि, तदा त्वन्-मरणम्। तत् सर्वथैव स्थीयताम्।
कूर्मो वदति-किम् अहम् अप्राज्ञः ? नाहम् उत्तरं दास्यामि। न किम् अपि मया वक्तव्यम्। तथानुष्ठिते तथा-विधं कूर्मम् आलोक्य सर्वे गो-रक्षकाः पश्चाद् धावंति, वदंति च-अहो ! महद् आश्चर्यम् ! पक्षिभ्यां कूर्मो नीयते।
कश्चिद् वदति-यद्य् अयं कूर्मः पतति, तदात्रैव पक्त्वा खादितव्यः।
कश्चिद् वदति-सरसस् तीरे दग्ध्वा खादितव्यो यम्।
कश्चिद् वदति-गृहं नीत्वा भक्षणीयः। इति।
तद्-वचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृत-पूर्व-संस्कारः प्राह-युष्माभिर् भस्म भक्षितव्यम् इति वदंन् एव पतितस् तैर् व्यापादितश् च। अतो हं ब्रवीमि-सुहृदां हित-कामानाम् इत्य् आदि।
अथ प्रणिधिर् बकस् तत्रागत्योवाच-देव ! प्राग् एव मया निगदितं दुर्ग-शोध हि प्रतिक्षणं कर्तव्यम् इति। तच् च युष्माभिर् न कृतं, तद्-अनवधानस्य फलम् इदम् अनुभूतम्। दुर्ग-दाहो मेघवर्णेन वायसेन गृध्र-प्रत्युक्तेन कृतः। राजा निःश्वस्याह-
प्रणयाद् उपकाराद् वा यो विश्वसिति शत्रुषु। स सुप्त इव वृक्षाग्रात् पतितः प्रतिबुध्यते॥हित्_४.१२॥
अथ प्रणिधिर् उवाच-इतो दुर्गदाहं विधाय, यदा यतो मेघवर्णस् तदा चित्रवर्णेन प्रसादितेनोक्तम्-अयं मेघवर्णो त्र कर्पूर-द्वीप-राज्येभिषिच्यताम्। तथा चोक्तम्-
कृत-कृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत्। फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत्॥हित्_४.१३॥
चक्रवाको ब्रूते-देव ! श्रुतं यत् प्रणिधिः कथयति ?
राजा प्राह--ततस् ततः ?
प्रणिधिर् उवाच-ततः प्रधान-मंत्रिणा गृध्रेणाभिहितम्-देव ! नेदम् उचितम्। प्रसादांतरं किम् अपि क्रियताम्। यतः-
अविचारयतो युक्ति-कथनं तुष-खंडनम्। नीचेषूपकृतं राजन् बालुकास्व् इव मूत्रितम्॥हित्_४.१४॥
महताम् आस्पदे नीचः कदापि न कर्तव्यः। तथा चोक्तम्-
नीचः श्लाघ्य-पदं प्राप्य स्वामिनं हंतुम् इच्छति। मूषिको व्याघ्रतां प्राप्य मुनिं हंतुं गतो यथा॥हित्_४.१५॥
चित्रवर्णः पृच्छति--कथम् एतत् ?
मंत्री कथयति-
कथा ५
सम्पाद्यताम्अस्ति गौतमस्य महर्षेस् तपोवने महातपा नाम मुनिः। तत्र तेन आश्रम-संनिधाने मूषिक-शावकः काक-मुखाद् भ्रष्टो दृष्टः। ततो दया-युक्तेन तेन मुनिआ नीवार-कणैः संवर्धितः। ततो बिडालस् तं मूषिकं खादितुम् उपधावति। तम् अवलोक्य मूषिकस् तस्य मुनेः क्रोडे प्रविवेश। ततो मुनिनोक्तम्-मूषिक ! त्वं मार्जारो भव। ततः स बिडालः कुक्कुरं दृष्ट्वा पलायते। ततो मुनिनोक्तं-कुक्कुराद् बिभेषि, त्वम् एव कुक्कुरो भव। स च कुक्कुरो व्याघ्राद् बिभेति ततस् तेन मुनिना कुक्कुरो व्याघ्रः कृतः।
अथ तं व्याघ्रं मुनिर् मूषिको यम् इति पश्यति। अथ तं मुनिं व्याघ्रं च दृष्ट्वा सर्वे वदंति-अनेन मुनिना मूषिको व्याघ्रतां नीतः। एतच् छ्रुत्वा स-व्यथो व्याघ्रो चिंतयत्-यावद् अनेन मुनिना स्थीयते, तावद् इदं मे स्वरूपाख्यानम् अकीर्तिकरं न पलायिष्यते इत्य् आलोच्य मूषिकस् तं मुनिं हंतुं गतः। ततो मुनिना तज् ज्ञात्वा-पुनर् मूषिको भव इत्य् उक्त्वा मूषिक एव कृतः। अतो हं ब्रवीमि-नीचः श्लाघ्य-पदं प्राप्येत्य् आदि॥हित्_४.
--ओ)०(ओ--
अपरं च, देव ! सुकरम् इदम् इति न मंतव्यम्। शृणु-
भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान्। अतिलोभाद् बकः पश्चान् मृतः कर्कटक-ग्रहात्॥हित्_४.१६॥
चित्रवर्णः पृच्छति--कथम् एतत् ?
मंत्री कथयति-
कथा ६
सम्पाद्यताम्अस्ति मालव-विषये पद्मगर्भाभिधानं सरः। तत्रैको वृढो बकः सामर्थ्य-हीन उद्विग्नम् इवात्मानं दर्शयित्वा स्थितः। स च केनचित् कुलीरणे दूराद् एव दृष्टः। पृष्टश् च-किम् इति भवान् अत्राहार-त्यागेन तिष्ठति ?
बकेनोक्तम्-मत्स्या मम जीवन-हेतवः। ते कैवर्तैर् आगत्य व्यापादयितव्या इति वार्ता नगरोपांते मया श्रुता। अतो वर्तनाभावाद् एवास्मन् मरणम् उपस्थितम् इति ज्ञात्वाहारेप्य् अनादरः कृतः। ततो मत्स्यैर् आलोचितम्-इह समये तावद् उपकारक एवायं लक्ष्यते। तद् अयम् एव यथा-कर्तव्यं पृच्छ्यताम्। तथा चोक्तम्-
उपकर्त्रारिणा संधिर् न मित्रेणापकारिणा। उपकारापकारो हि लक्ष्यं लक्षणम् एतयोः॥हित्_४.१७॥
मत्स्या ऊचुः-भो बक ! को त्र अस्माकं रक्षनोपायः ?
बको ब्रूते-अस्ति रक्षणोपायो जलाशयांतराश्रयणम्। तत्राहम् एकैकशो युष्मान् नयामि।
मत्स्या आहुः-एवम् अस्तु। ततो सौ दुष्ट-बकस् तान् मत्स्यान् एकैकशो नीत्वा खादति। अनंतरं कुलीरस् तम् उवाच-भो बक ! माम् अपि तत्र नय। ततो बको प्य् अपूर्व-कुलीर-मांसार्थी सादरं तं नीत्वा स्थले धृतवान्। कुलीरो पि मस्त्य-कंटकाकीर्णं तं स्थलम् आलोक्याचिंतयत्-हा हतो स्मि मंद-भाग्यः। भवतु इदानीं समयोचितं व्यवहरिष्यामि। यतः-
तावद् भयेन भेतव्यं यावद् भयम् अनागतम्। आगतं तु भयं दृष्ट्वा प्रहरत्वयम् अभीतिवत्॥हित्_४.१८॥
किं च- अभियुक्तो यदा पश्येन् न किञ्चिद् गतिम् आत्मनः। युध्यमानस् तदा प्राज्ञो म्रियते रिपुणा सह॥हित्_४.१९॥
इत्य् आलोच्य स कुलीरकस् तस्य बकस्य ग्रीवां चिच्छेद। अथ स बकः पञ्चत्वं गतः। अतो हं ब्रवीमि-भक्षयित्वा बहून् मत्स्यान् इत्य् आदि।
--ओ)०(ओ--
ततश् चित्रवर्णो वदत्-शृणु तावन् मंत्रिन् ! मयैतद् आलोचितम्। अस्ति यद् अत्रावस्थितेनानेन मेघवर्णेन राज्ञा यावंति वस्तूनि कर्पूर-द्वीपस्योत्तमानि तावंत्य् अस्माकम् उपनेतव्यानि। तेनास्माभिर् महा-सुखेन विंध्याचले स्थातव्यम्। दूरदर्शी विहस्याह-देव !
अनागतवतीं चिंतां कृत्वा यस् तु प्रहृष्यति। स तिरस्कारम् आप्नोति भग्न-भांडो द्विजो यथा॥हित्_४.२०॥
राजाह--कथम् एतत् ?
मंत्री कथयति-
कथा ७
सम्पाद्यताम्अस्ति देवी-कोट-नाम्नि नगरे देवशर्मा नाम ब्राह्मणः। तेन महाविषुवत्-संक्रांत्यां सक्तुपूर्णशराव एकः प्राप्तः। ततस् तम् आदायासौ कुंभकारस्य भांडपूर्ण-मंडपैक-देशे रौद्रेणाकुलितः सुप्तः। ततः सक्तु-रक्षार्थं हस्ते दंडम् एकम् आदायाचिंतयत्-अद्याहं सक्तुशरावं विक्रीय दश कपर्दकान् प्राप्स्यामि, तदात्रैव तैः कपर्दकैर् घटशरावादिकम् उपक्रीयानेकधा वृढैस् तद्-धनैः पुनः पुनः पूर्ग-वस्त्रादिम् उपक्रीय, विक्रीय लक्ष-संख्यानि धनानि कृत्वा, विवाह-चतुष्टयं करिष्यामि। अनंतरं तासु स्व-पत्नीषु या रूप-यौवनवती तस्याम् अधिकानुरागं करिष्यामि। सपत्ंयो यदा द्वंद्वं करिष्यामि, तदा कोपाकुलो हं ताः सर्वा लगुडेन ताडयिष्यामीत्य् अभिधाय तेन लगुडः प्रक्षिप्तः। तेन सक्तुशरावश् चूर्णितो भांडानि च बहूनि भग्नानि। ततस् तेन शब्देनागतेन कुंभकारेण तथा-विधानि भांडांय् अवलोक्य, ब्राह्मणस् तिरस्कृतो मंडपाद् बहिष्कृतश् च। अतो हं ब्रवीमि - अनागतवतीं चिंताम् इत्य् आदि।
--ओ)०(ओ--
ततो राजा रहसि गृध्रम् उवाच-तात ! यथा कर्तव्यं तथोपदिश।
गृध्रो ब्रूते-
मदोढतस्य नृपतेः प्रकीर्णस्येव दंतिनः। गच्छंत्य् उन्मार्ग-यातस्य नेतारः खलु वाच्यताम्॥हित्_४.२१॥
शृणु देव ! किम् अस्माभिर् बल-दर्पाद् दुर्गं भग्नम् ? उत तव प्रतापाधिष्ठितेनोपायेन ?
राजाह-भवताम् उपायेन।
गृध्रो ब्रूते-यद्य् अस्मद्-वचनं क्रियते, तदा स्व-देशे गम्यताम्। अंयथा वर्षा-काले प्राप्ते पुनस् तुल्य-बलेन विग्रहे सत्य् अस्माकं पर-भूमिष्ठानां स्व-देश-गमनम् अपि दुर्लभं भविष्यति। तत्-सुख-शोभार्थं संधाय गम्यताम्। दुर्गं भग्नं, कीर्तिश् च लब्धेव। मम संमतं तावद् एतत्। यतः-
यो हि धर्मं पुरस्कृत्य हित्वा भर्तुः प्रियाप्रिये। अप्रियाण्य् आह पथ्यानि तेन राजा सहायवान्॥हित्_४.२२॥
अंयच् च- सुहृद्-बलं तथा राज्यम् आत्मानं कीर्तिम् एव च। युधि संदेहदोलास्थं को हि कुर्याद् अबालिशः॥हित्_४.२३॥
अपरं च- संधिम् इच्छेत् समेनापि संदिग्धो विजयो युधि। नहि संशयितं कुर्याद् इत्य् उवाच बृहस्पतिः॥हित्_४.२४॥
अपि च- युढे विनाशो भवति कदाचिद् उभयोर् अपि। सुंदोप-सुंदाव् अंयोंयं नष्टौ तुल्य-बलौ न किम्॥हित्_४.२५॥
राजोवाच--कथम् एतत् ?
मंत्री कथयति-
कथा ८
सम्पाद्यताम्पुरा दैत्यौ सहोदरौ सुंदोपसुंद-नामानौ महता काय-क्लेशेन त्रैलोक्य-राज्य-कामनया चिराच् चंद्र-शेखरम् आराधितवंतौ। ततस् तयोर् भगवान् परितुष्टः सन् वरं वरयतम् इत्य् उवाच। अनंतरं तयोः कंठाधिष्ठितायाः सरस्वत्याः प्रभावात् ताव् अंयद् वक्तु-कामाव् अंयद्-अभिहितवंतौ-यद्य् आवयोर् भवान् परितुष्टस् तदा स्व-प्रियां पार्वतीं परमेश्वरो ददातु।
अथ भगवता क्रुढेन वरदानस्यावश्यकतया, विचार-मूढयोः पार्वती प्रदत्ता। ततस् तस्या रूप-लावण्य-लुब्धाभ्यां, जगद्-घातिभ्यां मससोत्सुकाभ्यां, पाप-तिमिराभ्याम्, ममेत्य् अंयोंयं कलहायमानाभ्यां, प्रमाण-पुरुषः कश्चित् पृच्छ्यताम् इति मतौ कृतायां, स एव भट्टारको वृढ-द्विज-रूपः समागत्य तत्रोपस्थितः। अनंतरं-आवाभ्याम् इयं स्व-बल-लब्धा, कस्येयम् आवयोर् भवति इति ब्राह्मणम् अपृच्छताम्। ब्राह्मणो ब्रूते-
ज्ञान-श्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवान् अपि। धन-धांयाधिको वैश्यः शूद्रस् तु द्विज-सेवया॥हित्_४.२६॥
तद् युवां क्षात्र-धर्मानुगौ। युद्द एव युवयोर् नियम इत्य् अभिहिते सति साधूक्तम् अनेनेति कृत्वांयोंय-तुल्य-वीर्यौ, सम-कालम् अंयोंय-घातेन विनाशम् उपागतौ। अतो हं ब्रवीमि-संधिम् इच्छेत् समेनापि इत्य् आदि।
--ओ)०(ओ--
राजाह-तत् प्राग् एव किं नेदम् उपदिष्टं भवद्भिः ?
मंत्री ब्रूते-तदा मद्-वचनं किम् अवसान-पर्यंतं श्रुतं भवद्भिः ? तदापि मम संमत्या नायं विग्रहारंभः। यतः-साधु-गुण-युक्तो यं हिरण्यगर्भो न विग्राह्यः। तथा चोक्तं-
सत्यार्थौ धार्मिको नार्यो भ्रातृ-सङ्हातवान् बली। अनेक-युढ-विजयी संधेयाः सप्त कीर्तिताः॥हित्_४.२७॥सत्यो नुपालयन् सत्यं संधितो नैति विक्रियाम्। प्राण-बाधेपि सुव्यक्तम् आर्यो नायात्य् अनार्थताम्॥हित्_४.२८॥धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते। प्रजानुरागाद् धर्माच् च दुःखोच्छेद्यो हि धार्मिकः॥हित्_४.२९॥संधिः कार्यो प्य् अनार्येण विनाशे समुपस्थिते। विना तस्याश्रयेणार्यो न कुर्यात् काल-यापनम्॥हित्_४.३०॥संहतत्वाद् यथा वेणुर् निविडैः कंटकैर् वृतः। न शक्यते समुच्छेत्तुं भ्रातृ-संघातवांस् तथा॥हित्_४.३१॥बलिना सह योढव्यम् इति नास्ति निदर्शनम्। प्रतिवातं न हि घनः कदाचिद् उपसर्पति॥हित्_४.३२॥जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा। अनेक-युढ-जयिनः प्रतापाद् एव भज्यते॥हित्_४.३३॥अनेक-युढ-विजयी संधानं यस्य गच्छति। तत्-प्रतापेन तस्याशु वशम् आयांति शत्रवः॥हित्_४.३४॥
तत्र तावद् बहुभिर् गुणैर् उपेतः संधेयो यं राजा। चक्रवाको वदत्-प्रणिधे ! सर्वम् अवगतम्। व्रज। पुनर् आगमिष्यसि।
अथ राजा हिरण्यगर्भश् चक्रवाकं पृष्ठवान्-मंत्रिन् ! असंधेयाः कति ? तान् श्रोतुम् इच्छामि। मंत्री ब्रूते-देव ! कथयामि। शृणु-
बालो वृढो दीर्घ-रोगी तथाज्ञाति-बहिष्कृतः। भीरुको भीरुक-जनो लुब्धो लुब्ध-जनस् तथा॥हित्_४.३५॥विरक्त-प्रकृतिश् चैव विषयेष्व् अतिसक्तिमान्। अनेक-चित्त-मंत्रस् तु देव-ब्राह्मण-निंदकः॥हित्_४.३६॥दैवोपहतकश् चैव तथा दैव-परायणः। दुर्भिक्ष-व्यसनोपेतो बल-व्यसन-संकुलः॥हित्_४.३७॥अदेशस्थो बहु-रिपुर् युक्तः कालेन यश् च न। सत्य-धर्म-व्यपेतश् च विंशतिः पुरुषा अमी॥हित्_४.३८॥एतैः संधिं न कुर्वीत विगृह्णीयात् तु केवलम्। एते विगृह्यमाणा हि क्षिप्रं यांति रिपोर् वशम्॥हित्_४.३९॥बालस्याल्प-प्रभावत्वान् न लोको योढुम् इच्छति। युढायुढ-फलं यस्माज् ज्ञातुं शक्तो न बालिशः॥हित्_४.४०॥उत्साह-शक्ति-हीनत्वाद् वृढो दीर्घामयस् तथा। स्वैर् एव परिभूयेते द्वाव् अप्य् एताव् असंशयम्॥हित्_४.४१॥सुख-च्छेद्यो हि भवति सर्व-ज्ञाति-बहिष्कृतः। त एवैनं विनिघ्नंति ज्ञातयस् त्व् आत्म-सात्कृताः॥हित्_४.४२॥भीरुर् युढ-परित्यागात् स्वयम् एव प्रणश्यति। तथैव भीरु-पुरुषः संग्रामे तैर् विमुच्यते॥हित्_४.४३॥लुब्धस्यासंविभागित्वान् न युध्यंतेनुजीविनः। लुब्धानुजीवी तैर् एव दान-भिन्नैर् निहंयते॥हित्_४.४४॥संत्य् अज्यते प्रकृतिभिर् विरक्त-प्रकृतिर् युधि। सुखाभियोज्यो भवति विषयेव् अतिसक्तिमान्॥हित्_४.४५॥अनेक-चित्त-मंत्रस् तु द्वेष्यो भवति मंत्रिणाम्। अनवस्थित-चित्तत्वात् कर्यतः स उपेक्ष्यते॥हित्_४.४६॥सदाधर्म-बलीयस्त्वाद् देव ब्राह्मण-निंदकः। विशीर्यते स्वयं ह्य् एष दैवोपहतकस् तथा॥हित्_४.४७॥संपत्तेश् च विपत्तेश् च दैवम् एव हि कारणम्। इति दैवपरो ध्यायंन् आत्मना न विचेष्टते॥हित्_४.४८॥दुर्भिक्ष-व्यसनी चैव स्वयम् एव विषीदति। बल-व्यसन-सक्तस्य योढुं शक्तिर् न जायते॥हित्_४.४९॥अदेश-स्थो हि रिपुणा स्वल्पकेनापि हंयते। ग्राहो ल्पीयान् अपि जले जलेंद्रम् अपि कर्षति॥हित्_४.५०॥बहु-शत्रुस् तु संत्रस्तः श्येन-मध्ये कपोतवत्। येनैव गच्छति पथा तेनैवाशु विपद्यते॥हित्_४.५१॥अकाल-युक्त-सैंयस् तु हंयते काल-योधिना। कौशिकेन हत-ज्योतिर् निशीथ इव वायसः॥हित्_४.५२॥सत्य-धर्म-व्यपेतेन संदध्यान् न कदाचन। स संधितो प्य् असाधुत्वाद् अचिराद् याति विक्रियाम्॥हित्_४.५३॥
अपरम् अपि कथयामि-संधि-विग्रह-यानासन-संश्रय-द्वैधी-भावाः षाड्गुण्यम्। कर्मणाम् आरंभोपायः। पुरुष-द्रव्य-संपत्। देश-काअ-विभागः। विनिपात-प्रतीकारः। कार्य-सिढिश् चेति पञ्चांगो मंत्रः। साम-दान-भेद-दंडाश् चत्वार उपायाः। उत्साह-शक्तिः, मंत्र-शक्तिः, प्रभु- शक्तिश् चेति शक्ति-त्रयम्। एतत् सर्वम् आलोच्य नित्यं विजिगीषवो भवंति महांतः। यतः-
या हि प्राण-परित्याग-मूल्येनापि न लभ्यते। सा श्रीर् नीतिविदं पश्य चञ्चलापि प्रधावति॥हित्_४.५४॥
यथा चोक्तं- वित्तं सदा यस्य समं विभक्तं गूढश् चरः संनिभृतश् च मंत्रः। नचाप्रियं प्राणिषु यो ब्रवीति स सागरांतां पृथिवीं प्रशास्ति॥हित्_४.५५॥
किंतु देव यद्यपि महा-मंत्रिणा गृध्रेण संधानम् उपंयस्तं, तथापि तेन राज्ञा संप्रति भूत-जय-दर्पान् न मंतव्यम्। देव ! तद् एवं क्रियतां। सिंहल-द्वीपस्य महाबलो नाम सारसो राजास्मन्-मित्रं जंबुद्वीपे कोपं जनयतु। यतः- सुगुप्तिम् आधाय सुसंहतेन बलेन वीरो विचरंन् अरातिम्। संतापयेद् येन समं सुतप्तस् तप्तेन संधानम् उपैति तप्तः॥हित्_४.५६॥
राज्ञा एवम् अस्त्व् इति निगद्य विचित्र-नामा बकः सुगुप्त-लेखं दत्त्वा सिंहल-द्वीपं प्रहितः।
अथ प्रणिधिः पुनर् आगत्योवाच-देव ! श्रूयतां तावत् तत्रत्य-प्रस्तावः।
एवं तत्र गृध्रेणोक्तम्-देव ! मेघवर्णस् तत्र चिरम् उषितः। स वेत्ति किं संधेय-गुण-युक्तो हिरण्यगर्भो राजा, न वा ? इति।
ततो सौ मेघवर्णश् चित्रवर्णेन राज्ञा समाहूय पृष्टः-वायस ! कीदृशो हिरण्यगर्भो राजा ? चक्रवाको मंत्री वा कीदृशः ?
वायस उवाच-देव ! स हिरण्यगर्भो राजा युधिष्ठिर-समो महाशयः सत्य-वाक्। चक्रवाक-समो मंत्री न क्वाप्य् अवलोक्यते।
राजाह-यद्य् एवं तदा कथम् असौ त्वया वञ्चितः ?
विहस्य मेघवर्णः प्राह-देव !
विश्वास-प्रतिपन्नानां वञ्चने का विदग्धता। अंकम् आरुह्य सुप्तं हि हत्वा किं नाम पौरुषम्॥हित्_४.५७॥
शृणु देव ! तेन मंत्रिणाहं प्रथम-दर्शने एवं विज्ञातः, किंतु महाशयो सौ राजा, तेन मया विप्रलब्धः। तथा चोक्तम्-
आत्मौपम्येन यो वेत्ति दुर्जनं सत्य-वादिनम्। स तथा वञ्च्यते धूर्तैर् ब्राह्मणाश् छागतो यथा॥हित्_४.५८॥
राजोवाच-कथम् एतत् ?
मेघवर्णः कथयति-
कथा ९
सम्पाद्यताम्अस्ति गौतमस्यारण्ये प्रस्तुत-यज्ञः कश्चिद् ब्राह्मणः। स च यज्ञार्थं ग्रामांतराच् छागम् उपक्रीय, स्कंधे नीत्वा, गच्छ धूर्त-त्रयेणावलोकितः। ततस् ते धूर्ताः-यद्य् एष छागः केनाप्य् उपायेन लभ्यते, तदा मति-प्रकर्षो भवतीति समालोच्य, वृक्ष-त्रय-तले क्रोशांतरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः।
तत्रैकेन धूर्तेन गच्छन् स ब्राह्मणो भिहितः-भो ब्राह्मण ! किम् इति त्वया कुक्कुरः स्कंधेनोह्यते।
विप्रेणोक्तं-नायं श्वा, किंतु यज्ञ-च्छागः।
अथांतर-स्थितेनांयेन धूर्तेन तथैवोक्तम्। तद् आकर्ण्य ब्राह्मणश् छागं भूमौ निधाय मुहुर् निरीक्ष्य, पुनः स्कंधे कृत्वा दोलायमान-मतिश् चलितः। यतः-
मतिर् दोलायते सत्यं सताम् अपि खलोक्तिभिः। ताभिर् विश्वासितश् चासौ म्रियते चित्रकर्णवत्॥हित्_४.५९॥
राजाह--कथम् एतत् ?
स कथयति-
कथा १०
सम्पाद्यताम्अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः। तस्य सेवकास् त्रयः काको व्याघ्रो जंबुकश् च। अथ तैर् भ्रमद्भिः सार्थ-भ्रष्टः कश्चिद् उष्ट्रो दृष्टः। पृष्टश् च-कुतो भवान् आगतः सार्थाद् भ्रष्टः ?
स चात्म-वृत्तांतम् अकथयत्। ततस् तैर् नीत्वा सिंहायासौ समर्पितः। तेन चाभय-वाचं दत्त्वा, चित्रकर्ण इति नाम कृत्वा स्थापितः।
अथ कदाचित् सिंहस्य शरीर-वैकल्याद् भूरि-वृष्टि-कारणाच् चाहारम् अलभमानास् ते व्यग्रा बभूवुः। ततस् तैर् आलोचितम्। चित्रकर्णम् एव यथा स्वामी व्यापादयति तथानुष्ठीयताम्। किम् अनेन कंटक-भुजास्माकम् ?
व्याघ्र उवाच-स्वामिनाभय-वाचं दत्त्वानुगृहीतो यं, तत् कथम् एवं संभवति ?
काको ब्रूते-इह समये परिक्षीणः स्वामी पापम् अपि करिष्यति। यतः-
त्यजेत् क्षुधार्ता महिला स्वपुत्रं खादेत् क्षुधार्ता भुजगी स्वमंडम्। बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवंति॥हित्_४.६०॥
अंयच् च- मत्तः प्रमत्तश् चोन्मत्तः श्रांतः क्रुढो बुभुक्षितः। लुब्धो भीरुस् त्वरा-युक्तः कामुकश् च न धर्म-वित्॥हित्_४.६१॥
इति सञ्चिंत्य सर्वे सिंहांतिकं जग्मुः। सिंहेनोक्तम्-आहारार्थं किञ्चित् प्राप्तम् ?
तैर् उक्तम्-देव ! यत्नाद् अपि प्राप्तं किञ्चित् ?
सिंहेनोक्तं-को धुना जीवनोपायः ?
काको वदति-देव ! स्वाधीनाहार-परित्यागात् सर्व-नाशो यम् उपस्थितः ?
सिंहेनोक्तम्-अत्राहारः कः स्वाधीनः ?
काकः कर्णे कथयति-चित्रकर्ण इति। सिंहो भूमिं स्पृष्ट्वा कर्णौ स्पृशति। अब्रवीच् च-अभय-वाचं दत्त्वा धृतो यम् अस्माभिः। तत् कथम् एवं संभवति ? तथा हि- न भूत-दानं न सुवर्ण-दानं न गो-प्रदानं न तथान्न-दानम्। यथा वदंतीह महा-प्रदानं सर्वेषु दानेष्व् अभय-प्रदानम्॥हित्_४.६२॥
अंयच् च- सर्व-काम-समृढस्य अश्वमेधस्य यत् फलम्। तत्-फलं लभते सम्यग् रक्षिते शरणागते॥हित्_४.६३॥
काको ब्रूते-नासौ स्वामिना व्यापादयितव्यः। किंत्व् अस्माभिर् एव तथा कर्तव्यं, यथासौ स्व-देह-दानम् अंगीकरोति।
सिंहस् तच् छ्रुत्वा तूष्णीं स्थितः। ततो सौ लब्धावकाशः कूटं कृत्वा सर्वान् आदाय सिंहांतिकं गतः। अथ काकेनोक्तं-देव ! यत्नाद् अप्य् आहारो न प्राप्तः। अनेकोपवास-क्लिष्टश् च स्वामी। तद् इदानीं मदीय-मांसम् उपभुज्यताम्। यतः-
स्वामि-मूला भवंत्य् एव सर्वाः प्रकृतयः खलु। समूलेष्व् अपि वृक्षेषु प्रयत्नः सफलो नृणाम्॥हित्_४.६४॥
सिंहेनोक्तं-भद्र ! वरं प्राण-परित्यागो, न पुनर् ईदृशे कर्मणि प्रवृत्तिः।
जंबुकेनापि तथोक्तम्। ततः सिंहेनोक्तं-मैवम्।
अथ व्याघ्रेणोक्तं-मद्-देहेन जीवतु स्वामी।
सिंहेनोक्तं-न कदाचिद् एवम् उचितम्।
अथ चित्रकर्णो पि जात-विश्वासस् तथैवात्म-देह-दानम् आह-ततस् तद्-वचनात् तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः। सर्वैर् भक्षितश् च। अतो हं ब्रवीमि-मतिर् दोलायते सत्यम् इत्य् आदि।
ततस् तृतीय-धूर्त-वचनं श्रुत्वा, स्व-मति-भ्रमं निश्चित्य छागं त्यक्त्वा, ब्राह्मणः स्नात्वा गृहं ययौ। छागश् च तैर् धूर्तैर् नीत्वा भक्षितः। अतो हं ब्रवीमि-आत्मौपम्येन यो वेत्तीत्य् आदि।
राजाह-मेघवर्ण ! कथं शत्रु-मध्ये त्वया सुचिरम् उषितम् ? कथं वा तेषाम् अनुनयः कृतः ?
मेघवर्ण उवाच-देव ! स्वामि-कार्यार्थितया स्व-प्रयोजन-वशाद् वा किं किं न क्रियते ? पश्य-
लोको वहति किं राजन् न मूर्ध्ना दग्धुम् इंधनम्। क्षालयंत्य् अपि वृक्षांघ्रिं नदी-वेला निकृंतति॥हित्_४.६५॥
तथा चोक्तम्- स्कंधेनापि वहेच् छत्रून् कार्यम् आसाद्य बुढिमान्। यथा वृढेन सर्पेण मंडूका विनिपातिताः॥हित्_४.६६॥
राजाह-कथम् एतत् ?
मेघवर्णः कथयति-
कथा ११
सम्पाद्यताम्अस्ति जीर्णोद्याने मंद-विषो नाम सर्पः। सो तिजीर्णतया स्वाहारम् अप्य् अंवेष्टुम् अक्षमः सरस्-तीरे पतित्वा स्थितः। ततो दूराद् एव केनचिन् मंडूकेन दृष्टः, पृष्टश् च-किम् इति त्वाम् आहारं नांविष्यति ?
सर्पो वदत्-गच्छ भद्र ! किं ते मम मंद-भाग्यस्य वृत्तांत-प्रश्नेन ? ततः सञ्जात-कौतुकः स च भेकः सर्वथा कथ्यताम् इत्य् आह। सर्पो प्य् आह-भद्र ! पुर-वासिनः श्रोत्रियस्य कौंडिंयस्य पुत्रो विंशति-वर्ष-देशीयः सर्व-गुण-संपंनो दुर्दैवान् मया नृशंसेन दष्टः। ततस् तं सुशील-नामानं पुत्रं मृतम् अवलोक्य, शोकेन मूर्च्छितः कौंडिंयः पृथिव्यां लुलोठ। अनंतरं ब्रह्मपुर-वासिनः सर्वे बांधवास् तत्रागत्योपविष्टाः। तथा चोक्तम्-
उत्सवे व्यसने युढे दुर्भिक्षे राष्ट्र-विप्लवे। राज-द्वारे श्मशाने च यस् तिष्ठति स बांधवः॥हित्_४.६७॥
तत्र कपिलो नाम स्नातको वदत्-अरे कौंडिंय ! मूढो सि येनैवं विलपसि। शृणु- क्रोडीकरोति प्रथमं यदा जातम् अनित्यता। धात्रीव जननी पश्चात् तदा शोकस्य कः क्रमः॥हित्_४.६८॥
तथा च- क्व गताः पृथिवी-पालाः स-सैंय-बल-वाहनाः। वियोग-साक्षिणी येषां भूमिर् अद्यापि तिष्ठति॥हित्_४.६९॥
तथा च- जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च। अद्य वाब्द-शतांते वा मृत्युर् वै प्राणिनां ध्रुवः॥हित्_४.७०॥
अपरं च- कायः संनिहितापायः संपदः पदम् आपदाम्। समागमाः सापगमाः सर्वम् उत्पादि भंगुरम्॥हित्_४.७१॥प्रतिक्षणम् अयं कायः क्षीयमाणो न लक्ष्यते। आमकुंभ इवांभः-स्थो विशीर्णः सन् विभाष्यते॥हित्_४.७२॥आसन्नतरतामेति मृत्युर् जंतोर् दिने दिने। आघातं नीयमानस्य वध्यस्येव पदे पदे॥हित्_४.७३॥
यतः- अनित्यं यौवनं रूपं जीवितं द्रव्य-सञ्चयः। ऐश्वर्यं प्रिय-संवासो मुह्येत् तत्र न पंडितः॥हित्_४.७४॥यथा काष्ठं च काष्ठं च समेयातां महोदधौ। समेत्य च व्यपेयातां तद्वद् भूत-समागमः॥हित्_४.७५॥यथा हि पथिकः कश्चिच् छायाम् आश्रित्य तिष्ठति। विश्रम्य च पुनर् गच्छेद् तद्वद् भूत-समागमः॥हित्_४.७६॥
अंयच् च- पञ्चभिर् निर्मिते देहे पञ्चत्वं च पुनर् गते। स्वां स्वां योनिम् अनुप्राप्ते तत्र का परिदेवना॥हित्_४.७७॥यावतः कुरुते जंतुः संबंधान् मनसः प्रियान्। तावंतो स्य निखंयंते हृदये शोक-शंकवः॥हित्_४.७८॥नायम् अत्यंत-संवासो लभ्यते येन केनचित्। अपि स्वेन शरीरेण किम् उतांयेन केनचित्॥हित्_४.७९॥
अपि च- संयोगो हि वियोगस्य संसूचयति संभवम्। अनतिक्रमणीयस्य जन्म मृत्योर् इवागमम्॥हित्_४.८०॥आपात-रमणीयानां संयोगानां प्रियैः सह। अपथ्यानाम् इवान्नानां परिणामो हि दारुणः॥हित्_४.८१॥
अपरं च- व्रजंति न निवर्तंते स्रोतांसि सरितां यथा। आयुर् आदाय मर्त्यानां तथा रात्र्य्-अहनी सदा॥हित्_४.८२॥सुखास्वाद-परो यस् तु संसारे सत्-समागमः। स वियोगावसानत्वाद् दुःखानां धुरि युज्यते॥हित्_४.८३॥अत एव हि नेच्छंति साधवः सत्-समागमम्। यद्-वियोगासि-लूनस्य मनसो नास्ति भेषजम्॥हित्_४.८४॥सुकृतांय् अपि कर्माणि राजभिः सगरादिभिः। अथ तांय् एव कर्माणि ते चापि प्रलयं गताः॥हित्_४.८५॥
संचिंत्य संचिंत्य तम् उग्र-दंडं मृत्युं मनुष्यस्य विचक्षणस्य। वर्षांबु-सिक्ता इव चर्म-बंधाः सर्वे प्रयत्नाः शिथिलीभवंति॥हित्_४.८६॥
याम् एव रात्रिं प्रथमाम् उपैति गर्भे निवासं नरवीर लोकः। ततः प्रभृत्य् अस्खलित-प्रयाणः स प्रत्यहं मृत्यु-समीपम् एति॥हित्_४.८७॥
अज्ञानं कारणं न स्याद् वियोगो यदि कारणम्। शोको दिनेषु गच्छत्सु वर्धताम् अपयाति किम्॥हित्_४.८८॥
तद् भद्र ! तद् आत्मानम् अनुसंधेहि। शोक-चर्चां च परिहर, यतः-
अकांड-पात-जातानाम् अस्त्राणां मर्म-भेदिनाम्। गाढ-शोक-प्रहाराणाम् अचिंतैव महौषधम्॥हित्_४.८९॥
ततस् तद्-वचनं निशम्य, प्रबुढ इव कौंडिंय उठायाब्रवीत्। तद् अलम् इदानीं गृह-नरक-वासेन वनम् एव गच्छामि। कपिलः पुनर् आह-
वनेपि दोषाः प्रभवंति रागिणां गृहेपि पञ्चेंद्रिय-निग्रहस् तपः। अकुत्सिते कर्मणि यः प्रवर्तते त्रिवृत्त-रागस्य गृहं तपोवनम्॥हित्_४.९०॥
यतः- दुःखितो पि चरेद् धर्मं यत्र कुत्राश्रमे रतः। समः सर्वेषु भूतेषु न लिंगं धर्म-कारणम्॥हित्_४.९१॥
उक्तं च- वृत्त्य्-अर्थं भोजनं येषां संतानार्थं च मैथुनम्। वाक् सत्य-वचनार्थाय दुर्गाण्य् अपि तरंति ते॥हित्_४.९२॥
तथा हि- आत्मा नदी संयम् अपुण्य-तीर्था सत्योदका शील-तटा दयोर्मिः। तत्राभिषेकं कुरु पांडु-पुत्र ! न वारिणा शुष्यति चांतरात्मा॥हित्_४.९३॥
विशेषतश् च- जन्म-मृत्यु-जरा-व्याधि-वेदनाभिर् उपद्रुतम्। संसारम् इमम् उत्पन्नम् असारं त्यजतः सुखम्॥हित्_४.९४॥
यतः- दुःखम् एवास्ति न सुखं यस्मात् तद् उपलक्ष्यते। दुःखार्तस्य प्रतीकारे सुख-संज्ञा विधीयते॥हित्_४.९५॥
कौंडिंयो ब्रूते-एवम् एव। ततो हं तेन शोकाकुलेन ब्राह्मणेन शप्तो, यद् अद्यारभ्य मंडूकानां वाहनं भविष्यतीति।
कपिलो ब्रूते-संप्रत्य् उपदेशासहिष्णुर् भवान्। शोकाविष्टं ते हृदयम्। तथापि कार्यं शृणु- संगः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते। स सद्भिः सह कर्तव्यः सतां संगो हि भेषजम्॥हित्_४.९६॥
अंयच् च- कामः सर्वात्मना हेयः स चेद् धातुं न शक्यते। स्व-भार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम्॥हित्_४.९७॥
एतच् छ्रुत्वा स कौंडिंयः कपिलोपदेशामृत-प्रशांत-शोकानलो यथाविधि दंड-ग्रहणं कृतवान्। अतो ब्राह्मण-शापान् मंडूकान् वोढुम् अत्र तिष्ठामि। अनंतरं तेन मंडूकेन गत्वा मंडूक-नाथस्य जालपाद-नाम्नो ग्रे तत् कथितम्। ततो साव् आगत्य मंडूक-नाथस् तस्य सर्पस्य पृष्ठम् आरूढवान्। स च सर्पस् तं पृष्ठे कृत्वा चित्रपद-क्रमं बभ्राम।
परेद्युश् चलितुम् असमर्थं तं मंडूक-नाथम् अवदत्-किम् अद्य भवान् मंद-गतिः ?
सर्पो ब्रूते-देव ! आहार-विरहाद् असमर्थो स्मि।
मंडूक-नाथो वदत्-अस्माद् आज्ञया मंडूकान् भक्षय। ततः गृहीतो यं महा-प्रसाद इत्य् उक्त्वा क्रमशो मंडूकान् खादितवान्। अथ निर्मंडूकं सरो विलोक्य मंडूक-नाथो पि तेन खादितः। अतो हं ब्रवीमि-स्कंधेनापि वहेच् छत्रून् इत्य् आदि। देव ! यात्व् इदानीं पुरावृत्ताख्यान-कथनं सर्वथा संधेयो यं हिरण्यगर्भ-राजा संधीयताम् इति मे मतिः।
राजोवाच-को यं भवतो विचारः ? यतो जितस् तावद् अयम् अस्माभिः। ततो यद्य् अस्मत् सेवया वसति, तद् आस्ताम्। नो चेद् विगृह्यताम्।
अत्रांतरे जंबूद्वीपाद् आगत्य शुकेनोक्तं-देव ! सिंहल-द्वीपस्य सारसो राजा संप्रति जंबूद्वीपम् आक्रम्यावतिष्ठते।
राजा स-संभ्रमं ब्रूते-किं किम् ?
शुकः पूर्वोक्तं कथयति। गृध्रः स्वगतम् उवाच-साधु रे चक्रवाक मंत्रिन् ! साधु !
राजा स-कोपम् आह-आस्तां तावद् अयं गत्वा तम् एव स-मूलम् उन्मूलयामि।
दूरदर्शी विहस्याह-
न शरन्-मेघवत् कार्यं वृथैव घन-गर्जितम्। परस्यार्थम् अनर्थं वा प्रकाशयति नो महान्॥हित्_४.९८॥
अपरं च- एकदा न विगृह्णीयाद् बहून् राजाभिघातिनः। स-दर्पो प्य् उरगः कीटैर् बहुभिर् नाश्यते ध्रुवम्॥हित्_४.९९॥
देव ! किम् इतो विना संधानं गमनम् अस्ति ? यतस् तदास्माकं पश्चात् प्रकोपो नेन कर्तव्यः। अपरं च-
यो र्थ-तत्त्वम् अविज्ञाय क्रोधस्यैव वशं गतः। स तथा तप्यते मूढो ब्राह्मणो नकुलाद् यथा॥हित्_४.१००॥
संबंधित कड़ियाँ
सम्पाद्यताम्- हितोपदेशम्
- मंगलाचरणम् १-४६
- प्रथम: कथा-संग्रहः - मित्र-लाभः १-१००
- प्रथम: कथा-संग्रहः - मित्र-लाभः १०१-२०१
- द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १-१००
- द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १०१-१८४
- तृतीयः कथा-संग्रहः - विग्रहः १-१००
- तृतीयः कथा-संग्रहः - विग्रहः १०१-१५१
- चतुर्थः कथा-संग्रहः - संधिः १-१००
- चतुर्थः कथा-संग्रहः - संधिः १०१-१४३
- हितोपदेश (hindi wikipedia)
- पञ्चतन्त्रम्
- कथासरित्सागर
- सिंहासनद्वात्रिंशति