प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.6 षष्ठप्रपाठकः/1.1.6.6 षष्ठी दशतिः

< सामवेदः‎ | कौथुमीया‎ | संहिता‎ | पूर्वार्चिकः‎ | छन्द आर्चिकः‎ | 1.1.6 षष्ठप्रपाठकः(1.1.6.6 षष्ठी दशतिः इत्यस्मात् पुनर्निर्दिष्टम्)
← 1.1.6.5 पञ्चमी दशतिः (५३३-५४४) सामवेदः/कौथुमीया/संहिता - सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.6 षष्ठप्रपाठकः
1.1.6.6 षष्ठी दशतिः (५४५-५५३)
[[लेखकः :|]]
1.1.6.7 सप्तमी दशतिः (५५४-५६५) →
ऋ. ५४६ नहुषो मानवः, ५४७ ययातिर्नाहुषः, ५४८ मनुः सांवरणः, ५४९ ऋजिष्वाम्बरीषौ, ५५० रेभसूनू काश्यपौ, ५५१ रेभसूनू काश्यपौ, ५५२ ऋजिष्वाम्बरीषौ, ५५३ प्रजापतिर्वाच्यो वा।

ग्रामगेय - ५४६ क्रौञ्चानि त्रीणि। त्रयाणां क्रुङनुष्टुप्पूषाभगोद्यावापृथिवी। ५४७त्वाष्ट्री सामनी द्वे। द्वयोस्त्वाष्ट्र्योनुष्टुप्सोमेन्द्रौ।।

पुरोजिती वो अन्धसः सुताय मादयित्नवे |
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं || ५४५ ||

१अ
१छ्

अयं पूषा रयिर्भगः सोमः पुनानो अर्षति |
पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे || ५४६ ||

२अ
२छ्

सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः |
पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः || ५४७ ||

३अ
३छ्

सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः |
मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः || ५४८ ||

४अ
४छ्

अभी नो वाजसातमं रयिमर्ष शतस्पृहं |
इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहं || ५४९ ||

५अ
५छ्

अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यं |
वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः || ५५० ||

६अ
६छ्

आ हर्यताय धृष्णवे धनुष्टन्वन्ति प्ॐस्यं |
शुक्रा वि यन्त्यसुराय निर्णिजे विपामग्रे महीयुवः || ५५१ ||

७अ
७छ्

परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण |
यो देवान्विश्वां इत्परि मदेन सह गच्छति || ५५२ ||

८अ
८छ्

प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः |
अप श्वानमराधसं हता मखं न भृगवः || ५५३ ||

९अ
९छ्