← अध्यायः २५ अनिरुद्धसंहिता
अध्यायः २६
[[लेखकः :|]]
अध्यायः २७ →
अनिरुद्धसंहितायाः अध्यायाः

अथ षड्‌विंशोऽध्यायः
श्रीभगवान्--
नीराजनविधिं वक्ष्ये देवदेवस्य शार्ङ्गिणः।
कृत्तिकादिवसाद्ब्रह्मन् न परेद्यु र्निशामुखे।। 1 ।।
देवदासीगणान् सर्वान् सर्वालङ्कारशोभितान्।
महानसद्वारमासाद्य दीपान्प्रज्वालयेद्बहून्।। 2 ।।
सर्वे पात्रकरा विप्र गच्छेषु र्देवसन्निधौ।
श्रेणिबद्धा स्तथा सर्वे गीतवाद्यपुरस्सरम्।। 3 ।।
मण्डपं समलंकृत्य आनयेन्मण्डपान्तरे।
औत्सवं बिम्ब मादाय विष्टरे सन्निवेशयेत्।। 4 ।।
श्रीभूमिसहितं देव मलंकारै रलंकृतम्।
महानृत्तं दर्शयित्वा देवं नीराजनं चरेत्।। 5 ।।
सहस्रं वा तदर्धं वा तदर्धं वापि देशिकः।
शथं वापि तदर्धं वा तदर्धं वापि कारयेत्।। 6 ।।
सर्वपात्रकराश्चैव तिष्ठेषु र्देवसन्निधौ।
आचार्यस्समलंकृत्य उत्तरीयोष्णीषभूषणैः।। 7 ।।
देवस्य दक्षिणे पार्श्वे आसने तु समाविशेत्।
अर्घ्यादि पात्राण्यभ्यर्च्य प्राणायामपुरस्सरम्।। 8 ।।
आत्मार्चनं ततः कृत्वा देवदेवं समर्चयेत्।
दीपार्चनं ततः कृत्वा वेदान् संश्रावयेद्बुधः।। 9 ।।
दीपकुम्भं समादाय आधारोपरि विन्यसेत्।
दीपकुम्भं समम्यर्च्य देवमिष्ट्वा विशेषतः।। 10 ।।
षडङ्गन्यासं कृत्वा तु भ्रामयेद्देवमूर्धनि।
दक्षिणं पादमारभ्य वामपादं तु पश्चिमम्।। 11 ।।
वाद्यमङ्गलसंयुक्तं गीतमङ्गलसंयुतम्।
योषित्करात्समादाय पात्रमादाय देशिकः।। 12 ।।
भ्रामयेद्देवदेवस्य मुखमध्ये विसर्जयेत्।
पात्रे पत्रे विशेषेण अर्घ्यपुष्पै स्समर्चयेत्।। 13 ।।
पुनः पात्रं समादाय प्रादक्षिण्येन मन्दिरम्।
गीतवाद्यादिसंयुक्तं बलिपीठाद्बहिः क्षिपेत्।। 14 ।।
नृत्तादि दर्शयन् दास्यः देवस्य पुरतः स्थितः।
पूजयित्वा च देवेश मपूपादि निवेदयेत्।। 15 ।।
उत्सवं बिम्बमारोप्य याने नीत्वा प्रदक्षिणम्।
अन्तरावरणमारभ्य वीथ्यावरणपश्चिमम्।। 16 ।।
शुद्धस्नानं ततः कृत्वा गर्भगेहे निवेशयेत्।
नीराजनविहीने तु सर्वकर्मासुरं भवेत्।। 17 ।।
अध्ययनोत्सवः--
अध्ययनोत्सवं वक्षे संक्षेपेण मया श्रुतम्।
पूजनं त्रिविधं प्रोक्तं तन्त्रेऽस्मिन् परमेष्ठिना।। 18 ।।
मानसं कायिकञ्चैव वाचिकं त्रिविधं भवेत्।
मानसं ध्यानमित्युक्तं कायिकं कर्म उच्यते।। 19 ।।
वाचिकं स्तोत्रमित्युक्तं तन्त्रेऽस्मिन् विष्णुना पुरा।
वेदान्नास्त्यपरं स्तोत्रं तस्माद्वेदांस्तु श्रावयेत्।। 20 ।।
अङ्कुरं पूर्ववत्कृत्वा पश्चात्प्रतिसरं बुधः।
मार्गशीर्षमासे तु एकादश्या मुपक्रमेत्।। 21 ।।
दशम्यां कौतुकं कुर्यात् तत्पूर्वे चाङ्कुरार्पणम्।
संकल्पं पूर्वतः कृत्वा पञ्चाहं दशाहं तु वा।। 22 ।।
मण्डपे देवमारोप्य भक्तिबिम्बं निवेशयेत्।
तथा भक्तजनै र्युक्तं वेदान् संश्रावयेत्सुधीः।। 23 ।।
महाहवि र्निवेद्याथ अपूपादि निवेदयेत्।
यात्रापूर्वं ततः कुर्यात् वाहनानि तु पूर्ववत्।। 24 ।।
समाप्तिदिवसे प्राप्ते विष्वक्‌सेनं समर्चयेत्।।
इति श्रीपञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
(नीराजन) अध्ययनोत्सवविधानं नाम षड्विंशोध्यायः।।


***************--------------