← अध्यायः २ अनिरुद्धसंहिता
अध्यायः ३
[[लेखकः :|]]
अध्यायः ४ →
अनिरुद्धसंहितायाः अध्यायाः

अथ तृतीयोऽध्यायः
भगवान्---
आचार्यलक्षणं वक्ष्ये समासान्मुनिपुङ्गव।
ब्राह्मणं योनिजं शुद्धं नियर्तब्रह्मवादिनम्।। 1 ।।
पञ्चरात्रविदं दान्तं सदाचारसमन्वितम्।
युवानं कोमलं शान्तं सर्वावयवशोभितम्।। 2 ।।
वेददेदाङ्गतत्त्वज्ञं श्रौतस्मार्तक्रियापरम्।
मच्चित्तं मद्गतप्राणं मदाराधनतत्परम्।। 3 ।।
मन्नामकीर्तनपरं मत्कथालोलुपंमनः।
गुणवन्तं शुचिं दक्षं सत्यवादिजितेन्द्रियम्।। 4 ।।
शास्त्रज्ञं कर्मकुशलं पञ्चरात्रार्थवेदिनम्।
पवित्रपाणिनिरतं प्राणायामपरायणम्।। 5 ।।
पञ्चकालक्रियायुक्तं पञ्चयज्ञसमन्वितम्।
मुद्रामण्डलकुण्डज्ञं मण्डलार्चनतत्परम्।। 6 ।।
व्रतोपवासनिरतं दयाशीलगुणान्वितम्।
सर्वपापविनिर्मुक्तं सर्वदोषविवर्जितम्।। 7 ।।
कर्षणादिक्रियादक्षं नित्यस्नानक्रियापरम्।
पवित्रकर्मकुशलं प्रतिष्ठाकर्मलंपटम्।। 8 ।।
उत्सवादिक्रियादक्षं सहस्रकलशे क्षमम्।
द्वादश्याराधनपरं द्वादशाक्षरचिन्तकम्।। 9 ।।
स्वतन्त्रकर्मकुशलं योगाग्निनिरतं शुचिम्।
शङ्कचक्राङ्कितभुजं धृतपंचाङ्गभूषणम्।। 10 ।।
चिदचिदीश्वरतत्त्वज्ञं मन्त्रयन्त्रक्रियापरम्।
शिल्पशास्त्रविचारज्ञं शिल्पनिर्माणकोविदम्।। 11 ।।
स्मितपूर्वाभिभाषं च गुरुपूजापरान्वितम्।
स्वदारनिरतं भोगसुखिनं पुत्रसंयुतम्।। 12 ।।
क्षयकुष्ठादिरहितमनाचारविवर्जितम्।
समयाचारसंयुक्तं जितक्रोधं जितेन्द्रियम्।। 13 ।।
सर्वभूतदयायुक्तं कल्याणावयवान्वितम्।
कल्याणकर्मसंयुक्तं काममोहविवर्जितम्।। 14 ।।
सालग्रामार्चनपरं गीतनृत्तविशारदम्।
वाद्यवादनवर्गज्ञं तालवर्गविशारदम्।। 15 ।।
एभिर्गुणैस्समायुक्तमाचार्यं वरयेत्सुधीः।
शिष्य स्सर्वगुणोपेत स्सत्यवादी दयापरः।। 16 ।।
विनयादिगुणैर्युक्तः धर्मश्रुतिपरायणः।
ब्राह्मणः क्षत्रियश्चैव वैश्यशूद्रौ तथापरौ।। 17 ।।
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः
एतच्छास्त्रोक्तमार्गेण दीक्षयेत्प्रथमं द्विजः।। 18 ।।
इति श्रीपाञ्चरात्रे अनिरुद्धसंहितायां आचार्यलक्षणं नाम
तृतीयोऽध्यायः


*************--------------