ऋग्वेदः मण्डल ४
|
टिप्पणी
वामदेवोपरि संक्षिप्त टिप्पणी एवं वैदिकसंदर्भाः
सोमयागे सुत्यादिवसे सामगानस्य क्रमः एवं भवति – प्रथमतः सामवेदिऋत्विग्भ्यः रथन्तरसाम्नः गानं भवति। होता ऋत्विक्तः अस्य सम्बन्धं भवति। तदोपरि वामदेव्यं साम्नः गानं भवति। मैत्रावरुणऋत्विक्तः अस्य संबन्धं अस्ति। तदोपरि नौधसं साम, तदोपरि कालेयं साम।
वामदेवसामोपरि ये वैदिकाः संदर्भाः सन्ति, तेषां एकः अभिप्रायः अयं प्रतीयते – अस्मिन् जगति यत्किंचित् विकीर्णमस्ति, वालमस्ति, तस्मात् यत्किंचित् संभरणीयमस्ति, संभृत्य देवेभ्यः अर्पणीयमस्ति, तत् वामं अस्ति। किंतु अत्र शंका भवति। रथन्तरस्य साम्नः अपि अयमेव लक्ष्यं अस्ति – यत्किंचित् पृथिव्योपरि श्रेष्ठतमं अस्ति, तत् पृथिवी आकाशे सूर्ये अथवा चन्द्रमसि स्थापयति। रथन्तरस्य सम्बद्धता होतृऋत्विजेन सह अस्ति। होता ऋत्विजः लक्षणं अस्ति – वह्निरसि हव्यवाहनः। सः अग्निरूपं भूत्वा हविषां देवेषु ऋजुरूपेण वहनं करोति। वामदेव्यं साम्नः संबद्धता मैत्रावरुण ऋत्विक्तः अस्ति। मैत्रावरुणस्य ऋत्विजः लक्षणं अस्ति – श्वात्रो असि प्रचेताः। सोमयागे सुत्यादिवसानां द्वौ प्रकारौ भवतः – अद्यसुत्या एवं श्वःसुत्या। यत्किंचित् अद्य, वर्तमानकाले करणीयं संभवं अस्ति, तत् सर्वं अद्यसुत्या दिवसे भवति। पापस्य लेपनकारणे यत्किंचित् अद्यकरणीयं संभवं नास्ति, तस्य शोधनं श्वः करणाय प्रयत्नं करणीयं। मैत्रावरुणस्य वैशिष्ट्यं अस्ति – श्वात्रः। यस्य अद्यैव उद्धारकरणे कोपि बाधा अस्ति, तस्य उद्धारकर्त्ता। श्वः, भविष्यतः अश्वं, वर्तमानं प्रति गमयिता। ब्राह्मणग्रन्थेषु अस्य व्याख्या एवं प्रकारेण अस्ति। एका जाग्रत् चेतना अस्ति, एका सुप्त, अर्धसुप्त चेतना। सुप्तायाः संज्ञा पृष्ठं अस्ति। यथा पृष्ठभागः अदृश्यं अस्ति, एवमेव । रजनीश महाभागः सुप्तचेतनायाः जागरणे अत्यन्त मुखरः आसीत्। सः कथयति – विपश्यनाध्यानस्य किं लक्ष्यं अस्ति। अचेतनचेतना उपरि यः महान् भारः अस्ति, तस्य भारस्य जाग्रतचेतना उपरि स्थान्तरणस्य आवश्यकता अस्ति। वृषभस्य पृष्ठे ककुद् अपि भवति। वामदेवसाम्नः लक्ष्यं पृष्ठे ककुद् निर्माणं भवति। तां ७,८,२ अस्य अनुमानस्य पुष्टिः करोति।
जै १,३०५ अनुसारेण रथन्तरसामः रेतस्सिक्तिः अस्ति। सिक्ते रेतसि प्राणानां सञ्चारः वामदेव्येन भवति।
ब्राह्मणेषु सार्वत्रिकरूपेण कथनमस्ति यत् यावत् प्राणाः, चेतना खण्डिताः सन्ति, तेषु अन्तःसंवादं नास्ति, तावत् स वामदेवः नास्ति। यदा प्राणेषु मध्ये अन्तःसंबंधं स्थापितं भविष्यति, तदा तत् वामदेवं भविष्यति। पुराणेषु अस्य कथनस्य रूपं एकादशी अस्ति। दश प्राणाः सन्ति। तेषां उपरि एकादशी दशप्राणानां व्यूहरूपा भवति। पुराणेषु वामदेवऋषिः पापानां शोधनाय एकादशी-द्वादशी तिथीनां महत्त्वं वर्णयति। अतीतकाले महर्षि महेशयोगी सामूहिकध्यानस्य पक्षधरः आसीत्।
ब्राह्मणग्रन्थेषु वामदेव्यस्य साम्नः सम्बन्धं योनिना सह अपि कथितं भवति(जै ३.३०१)। सर्वासां प्राणानां योनिः वामदेव्यं सामं अस्ति। यदा प्राणाः संवत्सरस्य दशमासपर्यन्तं योन्यां वसिष्यन्ति, तदा तेषां नवीनरूपे उत्पादनं भविष्यति। संवत्सरः मन, प्राण एवं वाचः सम्बन्धकरणतः सूचकः अस्ति। पुराणेषु वामदेव शिवस्य लक्षणरूपेण ओंकारस्य अ, उ, म अक्षरत्रय मध्ये उकारेण सह वामदेवशिवस्य सम्बद्धता कथितमस्ति। उकारः योनिरस्ति। अ अक्षरः ब्रह्मणा आदानस्य प्रतीकमस्ति, उकारः विष्णुना आधृतप्राणानां धारणस्य, मकारः शिवेन विसर्जनस्य। ब्राह्मणग्रन्थेषु (जै ३.३०१) वामदेवस्य साम्नः विशेषणं सद् अपि अस्ति। अयं सदः योनिरेव प्रतीयते।
जैमिनीयब्राह्मणः १,३३३ संकेतं करोति यत् ब्रह्माण्डे या वैश्वामैत्री विकृता सृष्टिः अस्ति, यथा अविपशोः स्थाने उष्ट्रस्य (उष्ट्रोपरि टिप्पणी द्रष्टव्यः), गौस्थाने महिषी आदि, वामदेव्यतन्त्रे तस्याः निषेधमस्ति।
मूर्तिकलासु वामदेवशिवस्य या मूर्तिरस्ति, तस्यां स्त्रीतत्त्वस्य, प्रकृतेः प्रधानता अस्ति। वामपक्षः अपि स्त्रीतत्त्वप्रधानएव भवति। अग्निपुराण ३०४.२६ अनुसारेण वामदेवशिवस्य स्वरूपं स्त्रीविलासी अस्ति। किन्तु गोपथब्राह्मणे २.३.२३ वामदेवेन दक्षिण दिशायाः गोपायनस्य उल्लेखं भवति। दक्षिणः पक्षः पुरुषप्रधानः भवति। अस्मिन् संदर्भे पुराणेषु वामनअवतारः उल्लेखनीयं अस्ति। वामनस्य आरंभिक स्थितिः अल्पाकारः अस्ति, किन्तु सैव विष्णुः उरुक्रमः भवितुं शक्यते।
वामदेवसम्बन्धि एतेषां सर्वेषां लक्षणानां प्रस्फुटनं वैदिकऋचासु केन प्रकारेण भवति, अयं अन्वेषणीयः।