ऋग्वेदः सूक्तं ४.४९
← सूक्तं ४.४८ | ऋग्वेदः - मण्डल ४ सूक्तं ४.४९ वामदेवो गौतमः |
सूक्तं ४.५० → |
दे. इन्द्राबृहस्पती। गायत्री |
इदं वामास्ये हविः प्रियमिन्द्राबृहस्पती ।
उक्थं मदश्च शस्यते ॥१॥
अयं वां परि षिच्यते सोम इन्द्राबृहस्पती ।
चारुर्मदाय पीतये ॥२॥
आ न इन्द्राबृहस्पती गृहमिन्द्रश्च गच्छतम् ।
सोमपा सोमपीतये ॥३॥
अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम् ।
अश्वावन्तं सहस्रिणम् ॥४॥
इन्द्राबृहस्पती वयं सुते गीर्भिर्हवामहे ।
अस्य सोमस्य पीतये ॥५॥
सोममिन्द्राबृहस्पती पिबतं दाशुषो गृहे ।
मादयेथां तदोकसा ॥६॥
सायणभाष्यम्
‘इदं वामास्ये ' इति षडृचं चतुर्थं सूक्तं वामदेवस्यार्षं गायत्रमैन्द्राबार्हस्पत्यम् । अत्रानुक्रमणिका- इदं वां षळैन्द्राबार्हस्पत्यं गायत्रम्' इति । सूक्तविनियोगो लैङ्गिकः ॥
इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमि॑न्द्राबृहस्पती ।
उ॒क्थं मद॑श्च शस्यते ॥१
इ॒दम् । वा॒म् । आ॒स्ये॑ । ह॒विः । प्रि॒यम् । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ ।
उ॒क्थम् । मदः॑ । च॒ । श॒स्य॒ते॒ ॥१
इदम् । वाम् । आस्ये । हविः । प्रियम् । इन्द्राबृहस्पती इति ।
उक्थम् । मदः । च । शस्यते ॥१
हे "इन्द्राबृहस्पती “वामास्ये “इदं प्रियं “हविः सोमरूपम् । प्रक्षिपामीति शेषः । “उक्थं शस्त्रं “च "मदः मदजनकं “शस्यते ॥
अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती ।
चारु॒र्मदा॑य पी॒तये॑ ॥२
अ॒यम् । वा॒म् । परि॑ । सि॒च्य॒ते॒ । सोमः॑ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ ।
चारुः॑ । मदा॑य । पी॒तये॑ ॥२
अयम् । वाम् । परि । सिच्यते । सोमः । इन्द्राबृहस्पती इति ।
चारुः । मदाय । पीतये ॥२
हे “इन्द्राबृहस्पती "वाम् आस्ये “चारुः शोभन: “अयं “सोमः “परि “षिच्यते परितो दीयते । “मदाय हर्षाय “पीतये पानाय च ॥
ऐन्द्राबार्हस्पत्यायामिष्टौ प्रधानस्य ' आ न इन्द्रा' इति तृतीयानुवाक्या उत्तरा याज्या । सूत्रितं च - ‘ आ न इन्द्राबृहस्पती अस्मे इन्द्राबृहस्पती ' ( आश्व. श्रौ. २. ११) इति ।
आ न॑ इन्द्राबृहस्पती गृ॒हमिन्द्र॑श्च गच्छतम् ।
सो॒म॒पा सोम॑पीतये ॥३
आ । नः॒ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । गृ॒हम् । इन्द्रः॑ । च॒ । ग॒च्छ॒त॒म् ।
सो॒म॒ऽपा । सोम॑ऽपीतये ॥३
आ । नः । इन्द्राबृहस्पती इति । गृहम् । इन्द्रः । च । गच्छतम् ।
सोमऽपा । सोमऽपीतये ॥३
हे “इन्द्राबृहस्पती । अथ विविच्योच्यते । हे बृहस्पते त्वं च "इन्द्रश्च “सोमपा सोमपौ युवाँ “सोमपीतये सोमपानाय “नः “गृहम् अस्मद्यागसंबन्धि “आ “गच्छतम् ॥
अ॒स्मे इ॑न्द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विन॑म् ।
अश्वा॑वन्तं सह॒स्रिण॑म् ॥४
अ॒स्मे इति॑ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । र॒यिम् । ध॒त्त॒म् । श॒त॒ऽग्विन॑म् ।
अश्व॑ऽवन्तम् । स॒ह॒स्रिण॑म् ॥४
अस्मे इति । इन्द्राबृहस्पती इति । रयिम् । धत्तम् । शतऽग्विनम् ।
अश्वऽवन्तम् । सहस्रिणम् ॥४
अस्या विनियोगः पूर्वमन्त्रेण सहोक्तः । हे "इन्द्राबृहस्पती “अस्मे अस्मभ्यं “रयिं धनं “धत्तम् । कीदृशं रयिम् । “शतग्विनं शतसंख्याकाभिर्गोभिर्युक्तम् “अश्वावन्तम् अश्ववन्तं “सहस्रिणं सहस्रसंख्यायुक्तम् ॥
इन्द्रा॒बृह॒स्पती॑ व॒यं सु॒ते गी॒र्भिर्ह॑वामहे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥५
इन्द्रा॒बृह॒स्पती॒ इति॑ । व॒यम् । सु॒ते । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥५
इन्द्राबृहस्पती इति । वयम् । सुते । गीःऽभिः । हवामहे ।
अस्य । सोमस्य । पीतये ॥५
“सुते सोमेऽभिषुते “गीर्भिः स्तुतिभिः । शिष्टं गतम् ॥
सोम॑मिन्द्राबृहस्पती॒ पिब॑तं दा॒शुषो॑ गृ॒हे ।
मा॒दये॑थां॒ तदो॑कसा ॥६
सोम॑म् । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । पिब॑तम् । दा॒शुषः॑ । गृ॒हे ।
मा॒दये॑थाम् । तत्ऽओ॑कसा ॥६
सोमम् । इन्द्राबृहस्पती इति । पिबतम् । दाशुषः । गृहे ।
मादयेथाम् । तत्ऽओकसा ॥६
हे “इन्द्राबृहस्पती युवां “दाशुषः हविर्दातुर्यजमानस्य “गृहे “तदोकसा । तदेव यजमानगृहमोको निवासस्थानं ययोस्तौ । तादृशौ सन्तौ “सोमं “पिबतम् । पीत्वा च "मादयेथाम् इति ॥ ॥२५॥
मण्डल ४ | |
---|---|
|