← सूक्तं २.९ ऋग्वेदः - मण्डल २
सूक्तं २.१०
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.११ →
दे. अग्निः। त्रिष्टुप्


जोहूत्रो अग्निः प्रथमः पितेवेळस्पदे मनुषा यत्समिद्धः ।
श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी ॥१॥
श्रूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरमृतो विचेताः ।
श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ॥२॥
उत्तानायामजनयन्सुषूतं भुवदग्निः पुरुपेशासु गर्भः ।
शिरिणायां चिदक्तुना महोभिरपरीवृतो वसति प्रचेताः ॥३॥
जिघर्म्यग्निं हविषा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।
पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नै रभसं दृशानम् ॥४॥
आ विश्वतः प्रत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत ।
मर्यश्री स्पृहयद्वर्णो अग्निर्नाभिमृशे तन्वा जर्भुराणः ॥५॥
ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद्वदेम ।
अनूनमग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि ॥६॥

सायणभाष्यम्

' जोहूत्रः ' इति षडृचं दशमं सूक्तं गार्त्समदं त्रैष्टुभमाग्नेयं ' जोहूत्रः ' इत्यनुक्रान्तत्वात् । सूक्तविनियोगः पूर्वेण सहोक्तः ।।


जो॒हूत्रो॑ अ॒ग्निः प्र॑थ॒मः पि॒तेवे॒ळस्प॒दे मनु॑षा॒ यत्समि॑द्धः ।

श्रियं॒ वसा॑नो अ॒मृतो॒ विचे॑ता मर्मृ॒जेन्यः॑ श्रव॒स्य१॒ः॑ स वा॒जी ॥१

जो॒हूत्रः॑ । अ॒ग्निः । प्र॒थ॒मः । पि॒ताऽइ॑व । इ॒ळः । प॒दे । मनु॑षा । यत् । सम्ऽइ॑द्धः ।

श्रिय॑म् । वसा॑नः । अ॒मृतः॑ । विऽचे॑ताः । म॒र्मृ॒जेन्यः॑ । श्र॒व॒स्यः॑ । सः । वा॒जी ॥१

जोहूत्रः । अग्निः । प्रथमः । पिताऽइव। इळः । पदे । मनुषा । यत् । सं ऽइद्धः।।

श्रियं । वसानः । अमृतः । विऽचेताः । मर्मजेन्यः । श्रवस्यः । सः । वाजी ॥१॥

जोहूत्रः सर्वैर्यज्ञार्थं ह्वातव्यो होतव्यो वा ॥ ह्वयतेर्जुहोतेर्वा रूपं । तादृशः प्रथमः । अग्निर्वै देवानामवम इत्याम्नानात्। मुख्यो योऽग्निः । यत् यदेळ इळायाः पद उत्तरवेद्यात्मके स्थाने मनुषा मनुष्येण यजमानेन समिद्धः सोऽग्निः पितेव देवानां हविष्प्रापणेन पालको भवति । श्रियं दीप्तिं वसान आच्छादयन् अमृतो मरणधर्मरहितो विचेता विविधप्रज्ञः श्रवस्यः । श्रव इत्यन्ननाम । तस्मै हितः । वाजी बलवान् । सोऽग्निर्मर्मृजेन्यः सर्वैः परिचरणीयो भवति । यङ्लुगंतात्केन्यप्रत्ययः ॥


श्रू॒या अ॒ग्निश्चि॒त्रभा॑नु॒र्हवं॑ मे॒ विश्वा॑भिर्गी॒र्भिर॒मृतो॒ विचे॑ताः ।

श्या॒वा रथं॑ वहतो॒ रोहि॑ता वो॒तारु॒षाह॑ चक्रे॒ विभृ॑त्रः ॥२

श्रु॒याः । अ॒ग्निः । चि॒त्रऽभा॑नुः । हव॑म् । मे॒ । विश्वा॑भिः । गीः॒ऽभिः । अ॒मृतः॑ । विऽचे॑ताः ।

श्या॒वा । रथ॑म् । व॒ह॒तः॒ । रोहि॑ता । वा॒ । उ॒त । अ॒रु॒षा । अह॑ । च॒क्रे॒ । विऽभृ॑त्रः ॥२

श्रुयाः। अग्निः। चित्रभानुः। हवं। मे। विश्वाभिः। गीःऽभिः। अमृतः। विऽचेताः ।

श्यावा। रथं। वहतः । रोहिता। वा। उत । अरुषा । अह। चक्रे। विऽभृत्रः ॥२॥

अमृतो मरणधर्मरहितो विचेता विशिष्टप्रज्ञश्चित्रभानुर्विचित्रदीप्तिश्चायनीयदीप्तिर्वा सोऽग्निर्विश्वाभिर्गीर्भिः स्तुतिसाधनभूतैः सर्वैर्वाक्यैः क्रियमाणं मे मम हवं स्तोत्रं श्रूयाः। शृणोतु । तस्याग्ने रथं श्यावा श्याववर्णावश्वौ वहतः । वा अपि वा रोहितो रोहिद्वर्णावश्वौ रथं वहतः । रोहिद्वर्णयोरश्वयोः श्यावादिवर्णपरिग्रहः स्वेच्छया भवति । विभृत्रो नानास्थानेषु विहृतश्चक्रे । ऋत्विग्भिरकारि खलु ॥ करोतेः कर्मणि लिट् ॥


उ॒त्ता॒नाया॑मजनय॒न्सुषू॑तं॒ भुव॑द॒ग्निः पु॑रु॒पेशा॑सु॒ गर्भः॑ ।

शिरि॑णायां चिद॒क्तुना॒ महो॑भि॒रप॑रीवृतो वसति॒ प्रचे॑ताः ॥३

उ॒त्ता॒नाया॑म् । अ॒ज॒न॒य॒न् । सुऽसू॑तम् । भुव॑त् । अ॒ग्निः । पु॒रु॒ऽपेशा॑सु । गर्भः॑ ।

शिरि॑णायाम् । चि॒त् । अ॒क्तुना॑ । महः॑ऽभिः । अप॑रिऽवृतः । व॒स॒ति॒ । प्रऽचे॑ताः ॥३

उत्तानायां । अजनयन् । सुऽसूतं । भुवत् । अग्निः । पुरुऽ पेशासु । गर्भः ।

शिरिणायां। चित् । अक्तुना। महःऽभिः । अपरिऽवृतः । वसति । प्रऽचेताः ॥३॥

उत्तानायामुत्तानशयायामरण्यां सुषूतमग्निहोत्रार्थं सुष्ठ प्रेरितमग्निमजनयन् । अध्वर्ध्वादय उदपादयन् ।। सोऽग्निः पुरुपेशासु । पेश इति रूपनाम । बहुरूपास्वोषधीषु गर्भो भुवत् । अंतर्वर्तमानतया गर्भ इव भवेत् ।। भवतेर्लिङि रूपं ॥ शिरिणायां । शीर्यंतेऽस्यां भूतानीति शिरिणा रात्रिः । तस्यामप्यक्तुना। अंजनादतक्तुस्तमः । तेन तमसापरीवृतोऽसंस्पृष्टः अत एव महोभिस्तेजोभिर्युक्तः प्रचेताः प्रकृष्टप्रज्ञः सन् वसति । दीप्यमानो वर्तते ।


जिघ॑र्म्य॒ग्निं ह॒विषा॑ घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑ ।

पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम् ॥४

जिघ॑र्मि । अ॒ग्निम् । ह॒विषा॑ । घृ॒तेन॑ । प्र॒ति॒ऽक्षि॒यन्त॑म् । भुव॑नानि । विश्वा॑ ।

पृ॒थुम् । ति॒र॒श्चा । वय॑सा । बृ॒हन्त॑म् । व्यचि॑ष्ठम् । अन्नैः॑ । र॒भ॒सम् । दृशा॑नम् ॥४

जिघर्मि । अग्निं । हविषा। घृतेन । प्रतिऽक्षियंतं । भुवनानि विश्वा ।

पृथुं । तिरश्चा। वयसा। बृहंतं । व्यचिष्ठं । अन्नैः । रभसं । दृशानं ॥ ४॥

विश्वा सर्वाणि भुवनानि प्रतिक्षियंतं वैश्वानरात्मनाधितिष्ठंतं पृथुं महांतं तिरश्चा सर्वतः प्रवर्तमानेन वयसा पेशसा बृहंतं प्रवृद्धमन्नैर्हविर्लक्षणैर्व्यचिष्ठं व्याप्तं रभसं बलवंतं दृशानमेवंगुणवत्तया दृश्यमानमग्निं पुरोडाशादिलक्षणेन हविषा घृतेन च जिघर्मि ॥ प्रति ह्येष सर्वाणि भूतानि क्षेति पृथुं तिरश्चा वयसा धूमेन बृहंतं व्यचिष्ठमन्नै रभसं दृशानमित्यवकाशनवंतमन्नैरन्नादं दीप्यमानमित्येतदा विश्वत इत्या सर्वतः प्रत्यंचं जुहोमीत्येतदरक्षसेत्यहेळमानेन मनसेदं जुषेतेत्येतन्मर्यश्रीरिति मर्यश्रीरित्येष स्पृहयद्वर्णो अग्निनाभिमृश इति न ह्येष मृशेत दीप्यमानो भवतीति ।


आ वि॒श्वतः॑ प्र॒त्यञ्चं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत ।

मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒न्वा॒३॒॑ जर्भु॑राणः ॥५

आ । वि॒श्वतः॑ । प्र॒त्यञ्च॑म् । जि॒घ॒र्मि॒ । अ॒र॒क्षसा॑ । मन॑सा । तत् । जु॒षे॒त॒ ।

मर्य॑ऽश्रीः । स्पृ॒ह॒यत्ऽव॑र्णः । अ॒ग्निः । न । अ॒भि॒ऽमृशे॑ । त॒न्वा॑ । जर्भु॑राणः ॥५

आ। विश्वतः । प्रत्यंचं । जिघर्मि । अरक्षसा । मनसा। तत् । जुषेत ।।

मर्यऽश्रीः। स्पृहयत्ऽवर्णः । अग्निः । न। अभिऽमृशे । तन्वा। जर्भुराणः ॥५॥

विश्वतः सर्वत्र व्याप्य वर्तमानं प्रत्यंचं यज्ञं प्रत्यागच्छंतमग्निं येन घृतेनाजिघर्मि । आसिंचामि । अरक्षसा बाधकरहितेन मनसा स्तोत्रेण सह तदाज्यं जुषेत । भवान् सेवेत । मर्यश्रीः । मर्यैर्मर्त्यैः श्रयणीयो भजनीयः ।। स्पृहयद्वर्णः । यादृशं वर्णं यजमानः स्पृहयति तादृशवर्णोपेतः । तन्वा तेजसा जर्भुराणः पूर्यमाणोऽग्निर्नाभिमृशे । अतितेजस्वितयाभिमर्शनीयो न भवति । अभिपूर्वान्मृशेः कृत्यार्थे केन्प्रत्ययः । ।


ज्ञे॒या भा॒गं स॑हसा॒नो वरे॑ण॒ त्वादू॑तासो मनु॒वद्व॑देम ।

अनू॑नम॒ग्निं जु॒ह्वा॑ वच॒स्या म॑धु॒पृचं॑ धन॒सा जो॑हवीमि ॥६

ज्ञे॒याः । भा॒गम् । स॒ह॒सा॒नः । वरे॑ण । त्वाऽदू॑तासः । म॒नु॒ऽवत् । व॒दे॒म॒ ।

अनू॑नम् । अ॒ग्निम् । जु॒ह्वा॑ । व॒च॒स्या । म॒धु॒ऽपृच॑म् । ध॒न॒ऽसाः । जो॒ह॒वी॒मि॒ ॥६

ज्ञेयाः । भागं । सहसानः । वरेण । त्वाऽदूतासः । मनुऽवत्। वदेम ।

अनूनं । अग्निं । जुह्वा। वचस्या। मधुऽपृचं । धनऽसाः । जोहवीमि ॥६॥

वरेण । वारयत्यनेन शत्रूनिति वरं तेजः । तेन सहसानः शत्रूनभिभवन् त्वं भागं भजनीयं स्तोत्रं ज्ञेयाः । जानीहि ॥ आशीर्लिङि वान्यस्य संयोगादेः । पा°६. ४. ६८.। इत्यत्वं ॥ त्वादूतासः । त्वं दूतो येषामसि ते त्वादूतासः । यद्वा त्वया प्रेरिता वयं मनुवत् मनुरिव वदेम । स्तोत्रं ब्रूयामः । जुह्वा । ह्वयतेऽस्यामिति जुहूर्ज्वाला पात्रविशेषो वा । तथानूनं संपूर्णं मधुपृचं मधुना कर्मफलेन यजमानं संयोजयंतमग्निं धनसा धनस्य संभक्ताहं वचस्या स्तुतिकामनया जोहवीमि । आह्वयामि । ॥२॥


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.१०&oldid=307865" इत्यस्माद् प्रतिप्राप्तम्