← सूक्तं २.१ ऋग्वेदः - मण्डल २
सूक्तं २.२
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.३ →
दे. अग्निः। जगती


यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा ।
समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम् ॥१॥
अभि त्वा नक्तीरुषसो ववाशिरेऽग्ने वत्सं न स्वसरेषु धेनवः ।
दिव इवेदरतिर्मानुषा युगा क्षपो भासि पुरुवार संयतः ॥२॥
तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योररतिं न्येरिरे ।
रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं न क्षितिषु प्रशंस्यम् ॥३॥
तमुक्षमाणं रजसि स्व आ दमे चन्द्रमिव सुरुचं ह्वार आ दधुः ।
पृश्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु ॥४॥
स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष ऋञ्जते गिरा ।
हिरिशिप्रो वृधसानासु जर्भुरद्द्यौर्न स्तृभिश्चितयद्रोदसी अनु ॥५॥
स नो रेवत्समिधानः स्वस्तये संददस्वान्रयिमस्मासु दीदिहि ।
आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये ॥६॥
दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि ।
प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो वि दिद्युतः ॥७॥
स इधान उषसो राम्या अनु स्वर्ण दीदेदरुषेण भानुना ।
होत्राभिरग्निर्मनुषः स्वध्वरो राजा विशामतिथिश्चारुरायवे ॥८॥
एवा नो अग्ने अमृतेषु पूर्व्य धीष्पीपाय बृहद्दिवेषु मानुषा ।
दुहाना धेनुर्वृजनेषु कारवे त्मना शतिनं पुरुरूपमिषणि ॥९॥
वयमग्ने अर्वता वा सुवीर्यं ब्रह्मणा वा चितयेमा जनाँ अति ।
अस्माकं द्युम्नमधि पञ्च कृष्टिषूच्चा स्वर्ण शुशुचीत दुष्टरम् ॥१०॥
स नो बोधि सहस्य प्रशंस्यो यस्मिन्सुजाता इषयन्त सूरयः ।
यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे ॥११॥
उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश्च शर्मणि ।
वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ॥१२॥
ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः ।
अस्माञ्च ताँश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥१३॥


सायणभाष्यम्

' यज्ञेन वर्धत ' इति त्रयोदशर्चं द्वितीयं सूक्तं मण्डलद्रष्टुर्गृत्समदस्यार्षम् । ' मण्डलादिष्वाग्नेयम् ' इति परिभाषयाग्नेयम् । तुशब्दानुकर्षादिदमपि जागतम् । ' यज्ञेन सप्तोना ' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दसि अस्य विनियोगः । सूत्रं तु पूर्वसूक्ते एवोक्तम् । तथा चातुर्विंशिके तृतीयसवने जातवेदस्य निविद्धानीयम् इदम् । ' यज्ञेन वर्धतेत्याग्निमारुतम् ' ( आश्व. श्रौ. ७. ४) इति सूत्रितत्वात् । पृष्ठ्याभिप्लवषडहयोर्द्वितीयेऽह्न्यपि जातवेदस्यनिविद्धानम् इदम् । चातुर्विंशिकं तृतीयसवनम् इति चतुर्विंशादतिदिष्टत्वात् ।


य॒ज्ञेन॑ वर्धत जा॒तवे॑दसम॒ग्निं य॑जध्वं ह॒विषा॒ तना॑ गि॒रा ।

स॒मि॒धा॒नं सु॑प्र॒यसं॒ स्व॑र्णरं द्यु॒क्षं होता॑रं वृ॒जने॑षु धू॒र्षद॑म् ॥१

य॒ज्ञेन॑ । व॒र्ध॒त॒ । जा॒तऽवे॑दसम् । अ॒ग्निम् । य॒ज॒ध्व॒म् । ह॒विषा॑ । तना॑ । गि॒रा ।

स॒म्ऽइ॒धा॒नम् । सु॒ऽप्र॒यस॑म् । स्वः॑ऽनरम् । द्यु॒क्षम् । होता॑रम् । वृ॒जने॑षु । धूः॒ऽसद॑म् ॥१

यज्ञेन । वर्धत । जातऽवेदसम् । अग्निम् । यजध्वम् । हविषा । तना । गिरा ।

सम्ऽइधानम् । सुऽप्रयसम् । स्वःऽनरम् । द्युक्षम् । होतारम् । वृजनेषु । धूःऽसदम् ॥१

हे यजमाना ऋत्विजो वा यूयं “जातवेदसं जातानां वेदितारं जातधनं जातप्रज्ञं वा “अग्निं “यज्ञेन यागेन “वर्धत प्रवर्धत । सामान्येनोक्त्वा विशेषेणाह । “हविषा चरुपुरोडाशादिना “तना विस्तृतया "गिरा स्तुत्या च “यजध्वं पूजयध्वम् । कीदृशं तम् । “समिधानं समिध्यमानम् । “सुप्रयसं शोभनान्नम् । “स्वर्णरं स्वर्गे नेतव्या यजमाना यस्य तादृशम् । यद्वा स्वरिति सर्वपर्यायः । स्तुतीनां नेतारः स्तोतारः । बहुस्तोतारमित्यर्थः । “द्युक्षं दीप्तं द्युनिवासिनं वा । "होतारं होमसंपादकम् । "वृजनेषु बलेषु “धूर्षदं बलस्य कर्तारमित्यर्थः । अग्निपाटवे सति शारीरं बलं भवतीति प्रसिद्धम् ॥


अ॒भि त्वा॒ नक्ती॑रु॒षसो॑ ववाशि॒रेऽग्ने॑ व॒त्सं न स्वस॑रेषु धे॒नवः॑ ।

दि॒व इ॒वेद॑र॒तिर्मानु॑षा यु॒गा क्षपो॑ भासि पुरुवार सं॒यतः॑ ॥२

अ॒भि । त्वा॒ । नक्तीः॑ । उ॒षसः॑ । व॒वा॒शि॒रे॒ । अग्ने॑ । व॒त्सम् । न । स्वस॑रेषु । धे॒नवः॑ ।

दि॒वःऽइ॑व । इत् । अ॒र॒तिः । मानु॑षा । यु॒गा । आ । क्षपः॑ । भा॒सि॒ । पु॒रु॒ऽवा॒र॒ । स॒म्ऽयतः॑ ॥२

अभि । त्वा । नक्तीः । उषसः । ववाशिरे । अग्ने । वत्सम् । न । स्वसरेषु । धेनवः ।

दिवःऽइव । इत् । अरतिः । मानुषा । युगा । आ । क्षपः । भासि । पुरुऽवार । सम्ऽयतः ॥२

हे “अग्ने “त्वा त्वां “अभि प्रति “नक्तीः रात्रीः "उषसः अहानि । सर्वासु रात्रिषु सर्वेष्वपि अहःसु । यद्वा नक्तशब्दः सायंकालं लक्षयति सायंप्रातरग्निहोत्रस्य सद्भावात् । सर्वेषु कालेषु सायंप्रातःकालेषु वा "ववाशिरे आकांक्षन्ते यजमाना यष्टुम् । यद्वा अहानि रात्रयश्च त्वामेव कामयन्ते होतुम् । काले कर्मणश्चोदनात् कालानां कामनमुपचर्यते । तत्र दृष्टान्तः । “स्वसरेषु स्वयंसरणशीलेष्वहःसु सुखसरणाधिकरणेषु गोष्ठेषु वा “धेनवः "वत्सं “न । वत्समिव । किंच हे “पुरुवार बहुभिर्वरणीयाग्ने “संयतः नियतस्त्वं “दिवइव द्युलोकस्येव “अरतिः। व्याप्तो विस्तृतः। तत्रत्यानां देवानां हविःप्रदानायैव सर्वत्र व्याप्त इत्यर्थः । “मानुषा मनुष्याणां यजमानानां संबन्धीनि “युगा युगानि । युगशब्दः कालोपलक्षकः । प्रातरादिसवनानि । सर्वेषु सवनेषु ॥ अत्यन्तसंयोगे द्वितीया ॥ “क्षपः रात्रीः । सर्वासु रात्रिष्वपि “आ “भासि समन्ताद्दीप्यसे ।।


तं दे॒वा बु॒ध्ने रज॑सः सु॒दंस॑सं दि॒वस्पृ॑थि॒व्योर॑र॒तिं न्ये॑रिरे ।

रथ॑मिव॒ वेद्यं॑ शु॒क्रशो॑चिषम॒ग्निं मि॒त्रं न क्षि॒तिषु॑ प्र॒शंस्य॑म् ॥३

तम् । दे॒वाः । बु॒ध्ने । रज॑सः । सु॒ऽदंस॑सम् । दि॒वःपृ॑थि॒व्योः । अ॒र॒तिम् । नि । ए॒रि॒रे॒ ।

रथ॑म्ऽइव । वेद्य॑म् । शु॒क्रऽशो॑चिषम् । अ॒ग्निम् । मि॒त्रम् । न । क्षि॒तिषु॑ । प्र॒ऽशंस्य॑म् ॥३

तम् । देवाः । बुध्ने । रजसः । सुऽदंससम् । दिवःपृथिव्योः । अरतिम् । नि । एरिरे ।

रथम्ऽइव । वेद्यम् । शुक्रऽशोचिषम् । अग्निम् । मित्रम् । न । क्षितिषु । प्रऽशंस्यम् ॥३

“तं प्रसिद्धम् उक्तगुणविशिष्टमग्निं “देवाः प्रसिद्धा व्यवहर्तार ऋत्विजो वा “रजसः रञ्जनात्मकस्य लोकस्य “बुध्ने मूले । पृथिव्यां वेद्यामित्यर्थः । तत्र “न्येरिरे नितरामीरयन्ति । व्यापारयन्ति स्वस्वहविर्लाभाय । ऋत्विक्पक्षे स्तोत्रादिना नितरां गच्छन्ति भजन्ते । कीदृशमित्याह । “सुदंससं शोभनदर्शनं “दिवस्पृथिव्योः द्यावापृथिव्योः “अरतिम्। ईश्वरं गन्तारं व्याप्तं वा । “वेद्यम् । वेदो धनम् । तस्मै हितम् । “रथमिव । रथं यथा स्वाभिमतलाभाय आश्रयन्ते तद्वत् । यद्वा रथमिव प्राप्तिसाधनत्वेन वर्तमानं वेद्यं वेदितव्यम् । “शुक्रशोचिषं दीप्तवर्णम् “अग्निं "मित्रं "न सखिवत्कार्यसाधकम् । यद्वा आदित्यमिव । “क्षितिषु यागभूमिषु मनुष्येषु वा "प्रशंस्यं प्रकर्षेण स्तुत्यम् । एवं महानुभावमग्निं न्येरिर इति ॥


तमु॒क्षमा॑णं॒ रज॑सि॒ स्व आ दमे॑ च॒न्द्रमि॑व सु॒रुचं॑ ह्वा॒र आ द॑धुः ।

पृश्न्याः॑ पत॒रं चि॒तय॑न्तम॒क्षभिः॑ पा॒थो न पा॒युं जन॑सी उ॒भे अनु॑ ॥४

तम् । उ॒क्षमा॑णम् । रज॑सि । स्वे । आ । दमे॑ । च॒न्द्रम्ऽइ॑व । सु॒ऽरुच॑म् । ह्वा॒रे । आ । द॒धुः॒ ।

पृश्न्याः॑ । प॒त॒रम् । चि॒तय॑न्तम् । अ॒क्षऽभिः॑ । पा॒थः । न । पा॒युम् । जन॑सी॒ इति॑ । उ॒भे इति॑ । अनु॑ ॥४

तम् । उक्षमाणम् । रजसि । स्वे । आ । दमे । चन्द्रम्ऽइव । सुऽरुचम् । ह्वारे । आ । दधुः ।

पृश्न्याः । पतरम् । चितयन्तम् । अक्षऽभिः । पाथः । न । पायुम् । जनसी इति । उभे इति । अनु ॥४

“तं स्तुत्यतरं “रजसि अन्तरिक्षे “आ “उक्षमाणं सर्वतः सिञ्चन्तं वृष्टिजलं रजसि पृथिव्यां वेद्यां घृतादिना आसिच्यमानं वा। "स्वे स्वकीये "ह्वारे विजने “दमे यागगृहे "आ "दधुः आदधते । कीदृशं तम् । “चन्द्रमिव "सुरुचम् । चन्द्रमिति हिरण्यनाम। हिरण्यमिव शोभन1दीप्तिम् । पश्चात् प्रवृद्धावस्थायां “पृश्न्याः "पतरं द्युलोकस्यान्तरिक्षस्य गन्तारम् । “अक्षभिः स्वकीयैर्ज्वालारूपैरवयवैः “चितयन्तं चेतयमानम् । "पाथो “न "पायुम् । उदकमिव रक्षकम् । “उभे "जनसी सर्वस्य जनयित्र्यौ द्यावापृथिव्यौ "अनु व्याप्तम् । भूम्यां होमाधारत्वेन स्थित्वा हविष्प्रापणाय द्युलोकगामिनमिति भावः । एवंरूपमग्निमादधते ॥


स होता॒ विश्वं॒ परि॑ भूत्वध्व॒रं तमु॑ ह॒व्यैर्मनु॑ष ऋञ्जते गि॒रा ।

हि॒रि॒शि॒प्रो वृ॑धसा॒नासु॒ जर्भु॑र॒द्द्यौर्न स्तृभि॑श्चितय॒द्रोद॑सी॒ अनु॑ ॥५

सः । होता॑ । विश्व॑म् । परि॑ । भू॒तु॒ । अ॒ध्व॒रम् । तम् । ऊं॒ इति॑ । ह॒व्यैः । मनु॑षः । ऋ॒ञ्ज॒ते॒ । गि॒रा ।

हि॒रि॒ऽशि॒प्रः । वृ॒ध॒सा॒नासु॑ । जर्भु॑रत् । द्यौः । न । स्तृऽभिः॑ । चि॒त॒य॒त् । रोद॑सी॒ इति॑ । अनु॑ ॥५

सः । होता । विश्वम् । परि । भूतु । अध्वरम् । तम् । ऊं इति । हव्यैः । मनुषः । ऋञ्जते । गिरा ।

हिरिऽशिप्रः । वृधसानासु । जर्भुरत् । द्यौः । न । स्तृऽभिः । चितयत् । रोदसी इति । अनु ॥५

“सः अग्निः “होता होमनिष्पादकः सन् “विश्वं सर्वम् “अध्वरं यागं “परि “भूतु परितो भवतु । “तमु तमेवाग्निं “हव्यैः हविर्भिः “गिरा स्तुत्या च "मनुषः मनुष्याः “ऋञ्जते प्रसाधयन्ति । ऋञ्जतिः प्रसाधनकर्मा । “हिरिशिप्रः हरणशीलहनुर्दीप्तोष्णीषो वा । ‘ शिप्राः शीर्षसु वितता हिरण्ययीः ' (ऋ. सं. ५. ५४. ११ ) इत्यादि मन्त्रान्तरात् । “वृधसानासु प्रवर्धमानास्वोषधीषु ज्वालासु वा “जर्भुरत् । पूर्यमाणो यज्ञं गन्ता । शत्रन्तं पदम् । यद्वा द्वितीयार्थे सप्तमी । वर्धमाना ओषधीर्जर्भुरत् पुनःपुनर्दहन्नित्यर्थः । “द्यौः द्युलोकान्तरिक्षं “स्तृभिः "न नक्षत्रैरिव “रोदसी “अनु द्यावापृथिव्यावनु “चितयत् चेतयति । ज्वालाभिर्विस्फुलिङ्गैश्च भुवमन्तरिक्षं च व्याप्नोतीत्यर्थः ॥ ॥ २० ॥


स नो॑ रे॒वत्स॑मिधा॒नः स्व॒स्तये॑ संदद॒स्वान्र॒यिम॒स्मासु॑ दीदिहि ।

आ नः॑ कृणुष्व सुवि॒ताय॒ रोद॑सी॒ अग्ने॑ ह॒व्या मनु॑षो देव वी॒तये॑ ॥६

सः । नः॒ । रे॒वत् । स॒म्ऽइ॒धा॒नः । स्व॒स्तये॑ । स॒म्ऽद॒द॒स्वान् । र॒यिम् । अ॒स्मासु॑ । दी॒दि॒हि॒ ।

आ । नः॒ । कृ॒णु॒ष्व॒ । सु॒वि॒ताय॑ । रोद॑सी॒ इति॑ । अग्ने॑ । ह॒व्या । मनु॑षः । दे॒व॒ । वी॒तये॑ ॥६

सः । नः । रेवत् । सम्ऽइधानः । स्वस्तये । सम्ऽददस्वान् । रयिम् । अस्मासु । दीदिहि ।

आ । नः । कृणुष्व । सुविताय । रोदसी इति । अग्ने । हव्या । मनुषः । देव । वीतये ॥६

हे अग्ने “सः तादृशस्त्वं “नः अस्माकं “स्वस्तये। स्वस्तीत्यविनाशनाम। क्षेमाय। “रेवत् रयिमत् “रयिं धनं उपर्युपरिवृद्धिमद्दानयोग्यं वा धनम् “अस्मासु “संददस्वान् सम्यक् प्रयच्छन् “समिधानः अस्माभिः सम्यगिध्यमानः सन् “दीदिहि दीप्यस्व । यद्वा रेवदिति क्रियाविशेषणम्। रा धनं समृद्धिमद्यथा तथा दीप्यस्वेति । तथाभूतः सन् 'नः अस्मभ्यं “सुविताय सुहिताय शोभनफलाय “रोदसी द्यावापृथिव्यौ “आ “कृणुष्व सर्वतः कुरुष्व । उभौ लोकौ भोगप्रदौ कुर्वित्यर्थः । किमर्थमिति तदुच्यते । हे “देव “अग्ने “मनुषः मनुष्यस्य यजमानस्य मम संबन्धीनि “हव्या हवींषि “वीतये देवेभ्यो भक्षणाय । पुनःपुनर्यागाद्यनुष्ठानायेत्यर्थः ।


दा नो॑ अग्ने बृह॒तो दाः स॑ह॒स्रिणो॑ दु॒रो न वाजं॒ श्रुत्या॒ अपा॑ वृधि ।

प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ स्व१॒॑र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतः ॥७

दाः । नः॒ । अ॒ग्ने॒ । बृ॒ह॒तः । दाः । स॒ह॒स्रिणः॑ । दु॒रः । न । वाज॑म् । श्रुत्यै॑ । अप॑ । वृ॒धि॒ ।

प्राची॒ इति॑ । द्यावा॑पृथि॒वी इति॑ । ब्रह्म॑णा । कृ॒धि॒ । स्वः॑ । न । शु॒क्रम् । उ॒षसः॑ । वि । दि॒द्यु॒तः॒ ॥७

दाः । नः । अग्ने । बृहतः । दाः । सहस्रिणः । दुरः । न । वाजम् । श्रुत्यै । अप । वृधि ।

प्राची इति । द्यावापृथिवी इति । ब्रह्मणा । कृधि । स्वः । न । शुक्रम् । उषसः । वि । दिद्युतः ॥७

हे “अग्ने “नः अस्मभ्यं "बृहतः महतः प्रभूतान् गवाश्वादिधनविशेषान् “दाः देहि । तथा “सहस्रिणः सहस्रसंख्योपेतान् पुत्रभृत्यादीन् “दाः देहि॥ ददातेश्छान्दसे लुङि रूपम्। वाक्यभेदादनिघातः॥ “श्रुत्यै कीर्त्यै “वाजम् अन्नं “दुरो “न तस्य द्वाराण्यपि । नशब्दश्चार्थे। “अपा "वृधि अपवृणु । प्रेरयेत्यर्थः । यद्वा द्वाराणीव । तत्प्राप्त्युपायान् विशदयति । तदर्थं “द्यावापृथिवी “ब्रह्मणा परिवृढेन कर्मणा “प्राची प्रकृष्टाञ्चने अस्मदनुकूले “कृधि कुरु । “स्वर्ण आदित्य इव । स यथा जगत्प्रकाशयति तद्वत् । “शुक्रं दीप्तं त्वाम् “उषसः उषःकालाः “वि “दिद्युतुः विद्योतयन्ति । उषःकाले ह्यग्नयः प्रज्वाल्यन्ते ॥


स इ॑धा॒न उ॒षसो॒ राम्या॒ अनु॒ स्व१॒॑र्ण दी॑देदरु॒षेण॑ भा॒नुना॑ ।

होत्रा॑भिर॒ग्निर्मनु॑षः स्वध्व॒रो राजा॑ वि॒शामति॑थि॒श्चारु॑रा॒यवे॑ ॥८

सः । इ॒धा॒नः । उ॒षसः॑ । राम्याः॑ । अनु॑ । स्वः॑ । न । दी॒दे॒त् । अ॒रु॒षेण॑ । भा॒नुना॑ ।

होत्रा॑भिः । अ॒ग्निः । मनु॑षः । सु॒ऽअ॒ध्व॒रः । राजा॑ । वि॒शाम् । अति॑थिः । चारुः॑ । आ॒यवे॑ ॥८

सः । इधानः । उषसः । राम्याः । अनु । स्वः । न । दीदेत् । अरुषेण । भानुना ।

होत्राभिः । अग्निः । मनुषः । सुऽअध्वरः । राजा । विशाम् । अतिथिः । चारुः । आयवे ॥८

“सः अग्निः "राम्याः रमणहेतुभूताः “उषसः “अनु अनुलक्ष्य "इधानः इध्यमानो दीपितः सन् “अरुषेण रोचमानेन “भानुना तेजसा “स्वर्ण आदित्य इव “दीदेत् दीप्यते । सः “अग्निः “मनुषः मनुष्यस्य होतुः “होत्राभिः । होत्रेति वाङ्नाम । होमसाधनभूताभिः स्तुतिभिः स्तूयमानः “स्वध्वरः शोभनयागः "विशां प्रजानां “राजा राजमानः स्वामी “आयवे मनुष्याय यजमानाय तदर्थं “चारुः चरणशीलः “अतिथिः अतिथिवत्पूज्यो भवति ।


ए॒वा नो॑ अग्ने अ॒मृते॑षु पूर्व्य॒ धीष्पी॑पाय बृ॒हद्दि॑वेषु॒ मानु॑षा ।

दुहा॑ना धे॒नुर्वृ॒जने॑षु का॒रवे॒ त्मना॑ श॒तिनं॑ पुरु॒रूप॑मि॒षणि॑ ॥९

ए॒व । नः॒ । अ॒ग्ने॒ । अ॒मृते॑षु । पू॒र्व्य॒ । धीः । पी॒पा॒य॒ । बृ॒हत्ऽदि॑वेषु । मानु॑षा ।

दुहा॑ना । धे॒नुः । वृ॒जने॑षु । का॒रवे॑ । त्मना॑ । श॒तिन॑म् । पु॒रु॒ऽरूप॑म् । इ॒षणि॑ ॥९

एव । नः । अग्ने । अमृतेषु । पूर्व्य । धीः । पीपाय । बृहत्ऽदिवेषु । मानुषा ।

दुहाना । धेनुः । वृजनेषु । कारवे । त्मना । शतिनम् । पुरुऽरूपम् । इषणि ॥९

"बृहद्दिवेषु प्रभूतद्युतिषु "अमृतेषु देवेषु मध्ये हे “पूर्व्य पूर्वभाविन् “अग्ने त्वां “मानुषा मनुष्याणां मध्ये "नः अस्मदीया “धीः बुद्धिः स्तुतिः कर्म वा “एव एवं “पीपाय प्याययति । यद्वा मानुषा। मनुष्यान् धीस्त्वदीया बुद्धिः कर्म वा प्याययतु । तथा त्वदीया धीः "वृजनेषु यज्ञेषु “कारवे स्तोत्रे “दुहाना “धेनुः । दोग्ध्री धेनुरिव । लुप्तोपममेतत् । “त्मना आत्मनैव "इषणि एषणायां सत्यां “शतिनम् अपरिमितसंख्याकं “पुरुरूपं गवाश्वादिरूपेण नानारूपं धनसमूहं दुहाना भवति ॥


व॒यम॑ग्ने॒ अर्व॑ता वा सु॒वीर्यं॒ ब्रह्म॑णा वा चितयेमा॒ जनाँ॒ अति॑ ।

अ॒स्माकं॑ द्यु॒म्नमधि॒ पञ्च॑ कृ॒ष्टिषू॒च्चा स्व१॒॑र्ण शु॑शुचीत दु॒ष्टर॑म् ॥१०

व॒यम् । अ॒ग्ने॒ । अर्व॑ता । वा॒ । सु॒ऽवीर्य॑म् । ब्रह्म॑णा । वा॒ । चि॒त॒ये॒म॒ । जना॑न् । अति॑ ।

अ॒स्माक॑म् । द्यु॒म्नम् । अधि॑ । पञ्च॑ । कृ॒ष्टिषु॑ । उ॒च्चा । स्वः॑ । न । शु॒शु॒ची॒त॒ । दु॒स्तर॑म् ॥१०

वयम् । अग्ने । अर्वता । वा । सुऽवीर्यम् । ब्रह्मणा । वा । चितयेम । जनान् । अति ।

अस्माकम् । द्युम्नम् । अधि । पञ्च । कृष्टिषु । उच्चा । स्वः । न । शुशुचीत । दुस्तरम् ॥१०

हे “अग्ने “वयं यजमानाः “सुवीर्यं शोभनसामर्थ्योपेतं यथा तथा “अर्वता “वा अरणकुशलेनाश्वेन । वाशब्दश्चार्थे । “ब्रह्मणा “वा अन्नेन च त्वद्दत्तेन “जनान् अस्मत्समानान् “अति “चितयेम अतिक्रम्य ज्ञायेमहि । कर्मणि कर्तृप्रत्ययः । यद्वा त्वद्दत्तेनाश्वेनान्नेन च सुवीर्यं चितयेम प्रकाशयेम । तदर्थम् “अस्माकं “पञ्च पञ्चसु “कृष्टिषु जनेषु निषादपञ्चमेषु चतुर्षु वर्णेषु "उच्चा उच्चैरतिप्रभूतं “दुस्तरम् अन्येनाप्राप्तं "द्युम्नं धनं “स्वर्ण सूर्य इवाधिकं “शुशुचीत दीप्यताम् । अधीत्ययमनर्थको वा ।


स नो॑ बोधि सहस्य प्र॒शंस्यो॒ यस्मि॑न्सुजा॒ता इ॒षय॑न्त सू॒रयः॑ ।

यम॑ग्ने य॒ज्ञमु॑प॒यन्ति॑ वा॒जिनो॒ नित्ये॑ तो॒के दी॑दि॒वांसं॒ स्वे दमे॑ ॥११

सः । नः॒ । बो॒धि॒ । स॒ह॒स्य॒ । प्र॒ऽशंस्यः॑ । यस्मि॑न् । सु॒ऽजा॒ताः । इ॒षय॑न्त । सू॒रयः॑ ।

यम् । अ॒ग्ने॒ । य॒ज्ञम् । उ॒प॒ऽयन्ति॑ । वा॒जिनः॑ । नित्ये॑ । तो॒के । दी॒दि॒ऽवांस॑म् । स्वे । दमे॑ ॥११

सः । नः । बोधि । सहस्य । प्रऽशंस्यः । यस्मिन् । सुऽजाताः । इषयन्त । सूरयः ।

यम् । अग्ने । यज्ञम् । उपऽयन्ति । वाजिनः । नित्ये । तोके । दीदिऽवांसम् । स्वे । दमे ॥११

हे अग्ने “सहस्य शत्रूणामभिभवितर्बलप्रभव वा “प्रशंस्यः स्तुत्यः “सः त्वं “नः अस्मदीयं स्तोत्रादिकं "बोधि बुध्यस्व । स इत्युक्तं क इत्याह । “यस्मिन् अग्नौ “सुजाताः शोभनजननाः “सूरयः स्तोतार ऋत्विजः “इषयन्त गमयन्ति स्तोत्राणि । किंच हे “अग्ने “यज्ञं यजनीयं “यं “वाजिनः हविर्लक्षणान्नवन्तो यजमानाः “नित्ये “तोके औरसे पुत्रे निमित्तभूते सति । यद्वा । तस्मिन् यथा दीप्यते । पुत्रगृहे यथा पिता दीप्यते तद्वत् "स्वे "दमे स्वकीये यागगृहे सवनीयादिस्थाने “दीदिवांसं दीप्यमानम् “उपयन्ति हविःस्तोत्रादिना । स बोधि इत्यन्वयः ॥


उ॒भया॑सो जातवेदः स्याम ते स्तो॒तारो॑ अग्ने सू॒रय॑श्च॒ शर्म॑णि ।

वस्वो॑ रा॒यः पु॑रुश्च॒न्द्रस्य॒ भूय॑सः प्र॒जाव॑तः स्वप॒त्यस्य॑ शग्धि नः ॥१२

उ॒भया॑सः । जा॒त॒ऽवे॒दः॒ । स्या॒म॒ । ते॒ । स्तो॒तारः॑ । अ॒ग्ने॒ । सू॒रयः॑ । च॒ । शर्म॑णि ।

वस्वः॑ । रा॒यः । पु॒रु॒ऽच॒न्द्रस्य॑ । भूय॑सः । प्र॒जाऽव॑तः । सु॒ऽअ॒प॒त्यस्य॑ । श॒ग्धि॒ । नः॒ ॥१२

उभयासः । जातऽवेदः । स्याम । ते । स्तोतारः । अग्ने । सूरयः । च । शर्मणि ।

वस्वः । रायः । पुरुऽचन्द्रस्य । भूयसः । प्रजाऽवतः । सुऽअपत्यस्य । शग्धि । नः ॥१२

हे “जातवेदः जातानां वेदितः “अग्ने "स्तोतारः त्वां स्तुवन्त ऋत्विजः “सूरयः मेधाविनो यजमानाः “च इति “उभयासः उभये वयं “शर्मणि सुखे निमित्तभूते सति “ते त्वत्संबन्धिनः “स्याम भवेम । यद्वा । ते शर्मणि स्याम । त्वं च नः अस्माकं “वस्वः निवासहेतोर्वसिष्ठस्य “रायः गवादिधनस्य “पुरुश्चन्द्रस्य अतिशयेनाह्लादकस्य बहुहिरण्योपेतस्य वा “भूयसः प्रभूतस्य “प्रजावतः भृत्याद्युपेतस्य पुत्रादिभोगपर्याप्तस्य वा “स्वपत्यस्य शोभनपुत्रस्य । ईदृग्रूपं धनं “नः अस्मभ्यं “शग्धि देहि। दातुं शक्तो भवसि ॥


ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने॑ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑ ।

अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥१३

ये । स्तो॒तृऽभ्यः॑ । गोऽअ॑ग्राम् । अश्व॑ऽपेशसम् । अग्ने॑ । रा॒तिम् । उ॒प॒ऽसृ॒जन्ति॑ । सू॒रयः॑ ।

अ॒स्मान् । च॒ । तान् । च॒ । प्र । हि । नेषि॑ । वस्यः॑ । आ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥१३

ये । स्तोतृऽभ्यः । गोऽअग्राम् । अश्वऽपेशसम् । अग्ने । रातिम् । उपऽसृजन्ति । सूरयः ।

अस्मान् । च । तान् । च । प्र । हि । नेषि । वस्यः । आ । बृहत् । वदेम । विदथे । सुऽवीराः ॥१३

‘ ये स्तोतृभ्यः' इति त्रयोदशी व्याख्याता ॥ ॥ २१ ॥

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.२&oldid=360648" इत्यस्माद् प्रतिप्राप्तम्