ऋग्वेदः सूक्तं २.२६
← सूक्तं २.२५ | ऋग्वेदः - मण्डल २ सूक्तं २.२६ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः |
सूक्तं २.२७ → |
दे. ब्रह्मणस्पतिः। जगती । |
ऋजुरिच्छंसो वनवद्वनुष्यतो देवयन्निददेवयन्तमभ्यसत् ।
सुप्रावीरिद्वनवत्पृत्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम् ॥१॥
यजस्व वीर प्र विहि मनायतो भद्रं मनः कृणुष्व वृत्रतूर्ये ।
हविष्कृणुष्व सुभगो यथाससि ब्रह्मणस्पतेरव आ वृणीमहे ॥२॥
स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरते धना नृभिः ।
देवानां यः पितरमाविवासति श्रद्धामना हविषा ब्रह्मणस्पतिम् ॥३॥
यो अस्मै हव्यैर्घृतवद्भिरविधत्प्र तं प्राचा नयति ब्रह्मणस्पतिः ।
उरुष्यतीमंहसो रक्षती रिषोऽंहोश्चिदस्मा उरुचक्रिरद्भुतः ॥४॥
सायणभाष्यम्
' ऋजुः ' इति चतुर्ऋचं चतुर्थं सूक्तं गृत्समदस्यार्षं जागतं ब्राह्मणस्पत्यम् । तथा चानुक्रान्तम्- ' ऋजुश्चतुष्कम् ' इति । गतो विनियोगः ।।
ऋ॒जुरिच्छंसो॑ वनवद्वनुष्य॒तो दे॑व॒यन्निददे॑वयन्तम॒भ्य॑सत् ।
सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नम् ॥१
ऋ॒जुः । इत् । शंसः॑ । व॒न॒व॒त् । व॒नु॒ष्य॒तः । दे॒व॒ऽयन् । इत् । अदे॑वऽयन्तम् । अ॒भि । अ॒स॒त् ।
सु॒प्र॒ऽअ॒वीः । इत् । व॒न॒व॒त् । पृ॒त्ऽसु । दु॒स्तर॑म् । यज्वा॑ । इत् । अयज्योः॑ । वि । भ॒जा॒ति॒ । भोज॑नम् ॥१
ऋजुः । इत्। शंसः। वनवत् । वनुष्यतः । देवऽयन्। इत्। अदेवऽयंतं । अभि। असत्।
सुप्रऽअवीः। इत् । वनवत् । पृत्ऽसु । दुस्तरं । यज्वा। इत्। अयज्योः । वि। भजाति। भोजनं ॥१॥
ऋजुरित् आर्जवयुक्त एव । यद्वा ऋंजतिः प्रसाधनकर्मा । स्तोत्राणां प्रसाधक एव शंसो ब्रह्मणस्पतेः स्तोता वनुष्यतो हिंसतः शत्रून वनवत् । वनुयात् हिंस्यात् ॥ वनोतेर्हंतिकर्मण एतद्रूपं । तथा देवयन्नित् देवं दानादिगुणयुक्तं ब्रह्मणस्पतिमात्मन इच्छन्नेव अदेवयंतं तद्विपरीतं पुरुषमभ्यसत्। अभिभवेत् ॥ अस्तेर्लेट्येतद्रूपं ॥ तथा सुप्रावीरित् ॥ अवतेस्तृप्त्यर्थादौणादिक ईकारप्रत्ययः ॥ सुष्ठु प्रकर्षेण ब्रह्मणस्पतेस्तर्पयितैव पृत्सु पृतनासु संग्रामेषु दुस्तरं तरीतुमशक्यं वनवत् । हिंस्यात् । तथा यज्वेत् ब्रह्मणस्पतिं हविषेष्टवानेव अयज्योरयज्वनो भोजनं भोगसाधनं विभजाति । विशेषेण भजेतेत्यर्थः ।
यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॑ ।
ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ॥२
यज॑स्व । वी॒र॒ । प्र । वि॒हि॒ । म॒ना॒य॒तः । भ॒द्रम् । मनः॑ । कृ॒णु॒ष्व॒ । वृ॒त्र॒ऽतूर्ये॑ ।
ह॒विः । कृ॒णु॒ष्व॒ । सु॒ऽभगः॑ । यथा॑ । अस॑सि । ब्रह्म॑णः । पतेः॑ । अवः॑ । आ । वृ॒णी॒म॒हे॒ ॥२
यजस्व । वीर । प्र। विहि । मनायतः । भद्रं । मनः । कृणुष्व। वृत्रऽतूर्ये ।
हविः। कृणुष्व। सुऽभगः। यथा। असंसि। ब्रह्मणः। पतेः । अवः। आ। वृणीमहे ॥२॥
ऋषिरात्मीयं पुरुषं शास्ति । हे वीर विशेषेण स्तुतीनां प्रेरक सखे यजस्व । ब्रह्मणस्पतिं स्तुत्या पूजय । मनायतो मन इव शीघ्रं प्रवर्तमानान् हिंसकान् यदा अभिमन्यमानान् शत्रून्प्रति प्रविहि । प्रकर्षेण युद्धार्थं गच्छ ॥ वी गत्यादिषु । छांदसो ह्रस्वः ॥ वृत्रतूर्ये वृत्राणामावारकाणां शत्रूणां हिंसाहेतुभूते संग्रामे भद्रं कल्याणं धार्ष्ट्योपेतं मनः कृणुष्व। कुरुष्व । ब्रह्मणस्पतेरनुग्रहात्तवैव जयो भविष्यति । तथा ब्रह्मणस्पतये हविश्चरुपुरोडाशादिकं कृणुष्व । कुरु । यथा त्वं सुभगः शोभनधनोऽससि । भवेः । अस्तेर्लेट्याडागमः ॥ ब्रह्मणस्पतेर्यागेन त्वं शोभनधनो भविष्यसीति यावत् । अपि च वयं ब्रह्मणस्पतेरवो रक्षणमाभिमुख्येन वृणीमहे । प्रार्थयामहे । ।
स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑ ।
दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म् ॥३
सः । इत् । जने॑न । सः । वि॒शा । सः । जन्म॑ना । सः । पु॒त्रैः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ ।
दे॒वाना॑म् । यः । पि॒तर॑म् । आ॒ऽविवा॑सति । श्र॒द्धाऽम॑नाः । ह॒विषा॑ । ब्रह्म॑णः । पति॑म् ॥३
सः। इत्। जनेन। सः । विशा। सः । जन्मना। सः। पुत्रैः। वाजं। भरते। धना। नृऽभिः।
देवानां । यः । पितरं । आऽविवसति । श्रद्धाऽमनाः। हविषा। ब्रह्मणः । पतिं ॥३॥
यो यजमानः श्रद्धामनाः श्रद्धा मनसि यस्य तादृशः सन् देवानां पितरं पालयितारं ब्रह्मणस्पतिं हविषा चरुपुरोडाशादिनाविवासति । परिचरति ॥ विवासतिः परिचरणकर्मा ॥ स इत् स एव यजमानो जनेन जातेन सर्वेण लोकेन वाजमन्नं भरते । बिभर्ति संभरति वा । स एव विशा प्रजया जन्मनात्मीयेन बंधुजनेन वाजं भरते। स एव पुत्रैरात्मीयैरपत्यैर्वाजं भरते । तथा नृभिर्नेतृभिरन्यैः परिचारकैर्धना धनानि भरते। बिभर्ति संपादयति वा । ब्रह्मणस्पतिमिष्टवतो यजमानस्य सर्वतो जना अन्नधनयोः साधका भवंतीति यावत् ।
यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पतिः॑ ।
उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षों॒३॒॑ऽहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः ॥४
यः । अ॒स्मै॒ । ह॒व्यैः । घृ॒तव॑त्ऽभिः । अवि॑धत् । प्र । तम् । प्रा॒चा । न॒य॒ति॒ । ब्रह्म॑णः । पतिः॑ ।
उ॒रु॒ष्यति॑ । ई॒म् । अंह॑सः । रक्ष॑ति । रि॒षः । अं॒होः । चि॒त् । अ॒स्मै॒ । उ॒रु॒ऽचक्रिः॑ । अद्भु॑तः ॥४
यः । अस्मै। हव्यैः। घृतवत्ऽभिः। अविधत्। प्र। तं। प्राचा।नयति । ब्रह्मणः । पतिः।
उरुष्यति।ईं। अंहसः। रक्षति । रिषः।अंहोः।चित्। अस्मै। उरुऽचक्रिः। अद्भुतः ॥४॥
यो यजमानोऽस्मै ब्रह्मणस्पतये ॥ क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थी । इमं ब्रह्मणस्पतिं घृतवद्भिरुपस्तरणाभिघारणात्मकेनाज्येनोपेतैर्हव्यैर्हविर्भिरविधत् । परिचरति ॥ विध विधाने तौदादिकः । अयं परिचरणकर्मसु पठितः । तं यजमानं ब्रह्मणस्पतिः प्राचा प्राचीनेन ऋजुना मार्गेण प्रणयति । प्रकृष्टफलं प्रापयति । अपि च ईमेनमंहसः पापादुरुष्यति । रक्षति ॥ उरुष्यतो रक्षाकर्मेति यास्कः । तथा रिषो हिंसकादेनं रक्षति । अंहोश्चित् । अवृत्तेर्दारिद्र्यात् । यद्वा आगत्य हंतुरपि रक्षति । अपि चास्मै यजमानायाद्भुतः । महन्नामैतत् । आश्चर्यभूतो महान् ब्रह्मणस्पतिरुरुचक्रिरुरोर्विस्तीर्णस्योपकारस्य कर्ता भवति ॥ ॥५
मण्डल २ | |
---|---|
|