ऋग्वेदः सूक्तं २.२२
← सूक्तं २.२१ | ऋग्वेदः - मण्डल २ सूक्तं २.२२ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः |
सूक्तं २.२३ → |
दे. इन्द्रः। १ अष्टिः, २-३ अतिशक्वरी, ४ अष्टिः अतिशक्वरी वा । |
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत् ।
स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥१॥
अध त्विषीमाँ अभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे ।
अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥२॥
साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः ।
दाता राधः स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥३॥
तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् ।
यद्देवस्य शवसा प्रारिणा असुं रिणन्नपः ।
भुवद्विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम् ॥४॥
सायणभाष्यम्
' त्रिकद्रुकेषु ' इति चतुर्ऋचमेकादशं सूक्तं गार्त्समदमैन्द्रम् । अत्रेयमनुक्रमणिका-' त्रिकद्रुकेषु चतुष्कमष्ट्याद्यतिशाक्वरमन्त्याष्टिर्वा ' इति । आद्यायामष्टिश्छन्दश्चतुःषष्ट्यक्षरा। अवशिष्टाः षष्ट्यक्षरा अतिशक्वर्यः । अन्त्याष्टिर्वा । षोडशिशस्त्रे ' त्रिकदुकेषु ' इति तृचः । सूत्रितं-' त्रिकद्रुकेषु महिषो यवाशिरं प्रो ष्वस्मै पुरोरथमिति तृचावातिच्छन्दसौ ' ( आश्व. श्रौ. ६. २) इति ।। अविवाक्येऽहनि मरुत्वतीये प्रतिपत्तृचस्य ' त्रिकद्रुकेषु ' इति प्रथमा । ' दशमेऽहनि ' इति खण्डे सूत्रितम्- ' आ त्वा रथं यथोतय इत्येतस्याः स्थाने त्रिकद्रुकेषु महिषो यवाशिरमिति ' ( आश्व. श्रौ. ८. १२) इति । आश्वमेधिके मध्यमेऽहनि मरुत्वतीय आद्या । ' तस्य विशेषान्वक्ष्यामः ' इति खण्डे सूत्रितं-' त्रिकद्रुकेषु महिषो यवाशिरमिति मरुत्वतीयस्य प्रतिपत् ' ( आश्व. श्रौ. १०. १०) इति ।। महाव्रतेऽपि माध्यंदिने सवने ब्राह्मणाच्छंसिनः स्तोत्रियस्तृचः । ' त्रिकद्रुकेषु महिषो यवाशिरमिति स्तोत्रियः ' (ऐ. आ. ५.१) इति सूत्रितम् ।।
त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाव॑शत् ।
स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ॥१
त्रिऽक॑द्रुकेषु । म॒हि॒षः । यव॑ऽआशिरम् । तु॒वि॒ऽशुष्मः॑ । तृ॒पत् । सोम॑म् । अ॒पि॒ब॒त् । विष्णु॑ना । सु॒तम् । यथा॑ । अव॑शत् ।
सः । ई॒म् । म॒मा॒द॒ । महि॑ । कर्म॑ । कर्त॑वे । म॒हाम् । उ॒रुम् । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥१
त्रिऽकद्रुकेषु । महिषः । यवाऽआशिरं । तुविऽशुष्मः । तृपत् । सोमं । अपिबत् । विष्णुना। सुतं । यथा । अवशत्।
सः। ईं। ममाद । महि । कर्म । कर्तवे। महां। उरुं। सः । एनं । सश्चत् । देवः । देवं । सत्यं । इन्द्रं । सत्यः । इन्दुः ॥१॥
गृत्समदो ब्रूते । महिषो महान् पूज्यस्तुविशुष्मो बहुबलस्तृपत् ॥ तृप प्रीणने तुदादिः । आगमानुशासनस्यानित्यत्वान्नुमभावः । तृप्यन् इंद्रस्त्रिकद्रुकेषु ज्योतिर्गौरायुरित्येतन्नामकेष्वाभिप्लविकेष्वहःसु सुतमभिषुतं यवाशिरं यवमयैः सक्तुभिर्मिश्रितं ॥ आङ्पूर्वस्य श्रीणातेः क्विपि अपस्पृधेथामित्यादिना शिर इत्यादेशः । तं सोमं विष्णुना सहापिबत् । यथावशत् । पूर्वं यथा तं सोममकामयत तथापिबत् ॥ वश कांतौ । बहुलं छंदसीति शपो लुगभावः । पीतः स सोमो महां महांतमुरुं तेजसा विस्तीर्णमीमेनमिंद्रं ममाद । अमादयत् । किमर्थं । महि महद्वृत्रहननादिलक्षणं कर्म कर्तवे कर्तुं । सत्य इंदुः स्रवन् देवो दीप्यमानः स सोमः सत्यं यथार्थभूतं देवं सोमं कामयमानमिंद्रं सश्चत् ॥ सश्चतिर्व्याप्तिकर्मा ॥ व्याप्नोतु ॥
अध॒ त्विषी॑माँ अ॒भ्योज॑सा॒ क्रिविं॑ यु॒धाभ॑व॒दा रोद॑सी अपृणदस्य म॒ज्मना॒ प्र वा॑वृधे ।
अध॑त्ता॒न्यं ज॒ठरे॒ प्रेम॑रिच्यत॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ॥२
अध॑ । त्विषि॑ऽमान् । अ॒भि । ओज॑सा । क्रिवि॑म् । यु॒धा । अ॒भ॒व॒त् । आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । अ॒स्य॒ । म॒ज्मना॑ । प्र । व॒वृ॒धे॒ ।
अध॑त्त । अ॒न्यम् । ज॒ठरे॑ । प्र । ई॒म् । अ॒रि॒च्य॒त॒ । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥२
अध । त्विषिऽमान्। अभि । ओजसा। क्रिविं । युधा। अभवत्। आ। रोदसी इति । अपृणत् । अस्य । मज्मना । प्र। ववृधे।।
अधत्त। अन्यं । जठरे। प्र। ईं। अरिच्यत । सः । एन। सश्चत् । देवः । देवं । सत्यं । इंद्रं । सत्यः । इंदुः ॥२॥
अध अथ सोमपानानंतरं त्विषीमान् दीप्तिमानिंद्र ओजसा बलेन क्रिविं नामासुरं युधा युद्धेनाभ्यभवत् । अभिभूतवान् । किंच स इंद्रो रोदसी द्यावापृथिव्यावापृणत् । स्वतेजसा समंतात्पूरयामास । तथास्य पीतस्य सोमस्य मज्मना बलेन प्रवावृधे। प्रकर्षेण वर्धते । यद्वा अस्य क्रिवेरसुरस्य मज्मना सारेण रोदसी अपूरयत्। स इंद्रः सोमं द्वेधा विभज्यान्यं भागं स्वकीये जठरेऽधत्त । ईमेनमपरं भागं देवेभ्यः प्रारिच्यत । प्रारेचयत् । एतेनार्धमिंद्राय अर्धमन्येभ्यो देवेभ्य इत्युक्तं भवति । तथा तैत्तिरीयकं । यत्सर्वेषामर्धमिंद्रः प्रति तस्मादिंद्रो देवतानां भूयिष्ठभाक्तमः । तै° सं° ५. ४. ८. ३.। इति ॥
सा॒कं जा॒तः क्रतु॑ना सा॒कमोज॑सा ववक्षिथ सा॒कं वृ॒द्धो वी॒र्यैः॑ सास॒हिर्मृधो॒ विच॑र्षणिः ।
दाता॒ राधः॑ स्तुव॒ते काम्यं॒ वसु॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ॥३
सा॒कम् । जा॒तः । क्रतु॑ना । सा॒कम् । ओज॑सा । व॒व॒क्षि॒थ॒ । सा॒कम् । वृ॒द्धः । वी॒र्यैः॑ । स॒स॒हिः । मृधः॑ । विऽच॑र्षणिः ।
दाता॑ । राधः॑ । स्तु॒व॒ते । काम्य॑म् । वसु॑ । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥३
साकं । जातः । क्रतुना । साकं । ओजसा । ववक्षिथ। साकं । वृद्धः। वीर्यैः। ससहिः । मृधः । विऽचर्षणिः ।
दाता । राधः । स्तुवते । काम्यं । वसु। सः । एनं । सश्चत् । देवः । देवं । सत्यं । इंद्रं । सत्यः । इंदुः ॥३॥
क्रतुना कर्मणा प्रज्ञया वा साकं सह जातः साकमोजसा बलेन सह ववक्षिथ । विश्वं वोढुमिच्छसि ॥ वहेः सनंतस्य लिटि मंत्रत्वादाम्न भवति । किंच त्वं वीयैः शत्रुहननादिलक्षणैः पराक्रमैः साकं सह वृद्धः प्रवृद्धो मृधो हिंसकान् संग्रामान्वा सासहिः ॥ न लोकाव्ययेति षष्ठीप्रतिषेधः । तेषामभिभविता । विचर्षणिः पुण्यकृतो ऽपुण्यकृतश्च विशेषेण द्रष्टा स्तुवते स्तोत्रं कुर्वाणाय यजमानाय राधः साधकं काम्यं प्रार्थनीयं वसु धनं दाता सन् ववक्षिथेति समन्वयः । सैनमिति परोक्षनिर्देशः सिद्धार्थश्च ।।
तव॒ त्यन्नर्यं॑ नृ॒तोऽप॑ इन्द्र प्रथ॒मं पू॒र्व्यं दि॒वि प्र॒वाच्यं॑ कृ॒तम् ।
यद्दे॒वस्य॒ शव॑सा॒ प्रारि॑णा॒ असुं॑ रि॒णन्न॒पः ।
भुव॒द्विश्व॑म॒भ्यादे॑व॒मोज॑सा वि॒दादूर्जं॑ श॒तक्र॑तुर्वि॒दादिष॑म् ॥४
तव॑ । त्यत् । नर्य॑म् । नृ॒तो॒ इति॑ । अपः॑ । इ॒न्द्र॒ । प्र॒थ॒मम् । पू॒र्व्यम् । दि॒वि । प्र॒ऽवाच्य॑म् । कृ॒तम् ।
यत् । दे॒वस्य॑ । शव॑सा । प्र । अरि॑णाः । असु॑म् । रि॒णन् । अ॒पः ।
भुव॑त् । विश्व॑म् । अ॒भि । अदे॑वम् । ओज॑सा । वि॒दात् । ऊर्ज॑म् । श॒तऽक्र॑तुः । वि॒दात् । इष॑म् ॥४
तव । त्यत् । नर्यं। नृतो इति । अपः। इंद्र। प्रथमं । पूर्व्यं । दिवि। प्रऽवाच्यं । कृतं ।
यत् । देवस्य । शवसा । प्र। अरिणाः । असुं । रिणन् । अपः ।
भुवत्। विश्वं । अभि। अदेवं। ओर्जसा। विदात्। ऊर्जं। शतऽक्रतुः।विदात्। इषं ॥४॥
नृतो सर्वेषां नर्तयितः हे इंद्र नर्यं नराणां हितकरं प्रथमं प्रततं ॥ प्रथमं प्रततमिति यास्कः ॥ पूर्व्यं पूर्वकालभवं त्वया कृतं । तव त्यत् तदपः कर्म दिवि स्वर्गलोके प्रवाच्यं । प्रकर्षेण वक्तव्यं । श्लाघनीयमित्यर्थः । किं तत् । देवस्य विजिगीषोरसुरस्यासुं प्राणं रिणन् हिंसन् त्वमपस्तेन निरुद्धान्युदकानि प्रारिणाः । प्रैरयः । इति यदेतत्कर्म तत्प्रवाच्यमिति समन्वयः । परोक्षनिर्देशोऽवशिष्टः । स इंद्रो विश्वं व्याप्तमदेवं तमोरूपमसुरमोजसा बलेनाभिभुवत् । अभिभवतु । किंच शतक्रतुरिंद्र ऊर्जं बलं विदात् । इषं हविर्लक्षणमन्नं च विदात् ॥ विदिर् लाभे शविकरणी । लेट्यडागमः ॥ ॥२८॥ ॥२॥
टिप्पणी
मण्डल २ | |
---|---|
|