जातकपारिजातः/ग्रन्थोपसंहारः

(ग्रन्थोपसंहारः इत्यस्मात् पुनर्निर्दिष्टम्)
  1. राशिशिलाध्यायः
  2. ग्रहनामस्वरूपगुणभेदाध्शाशः
  3. वियोनिजन्माद्यध्यायः
  4. अरिष्टाध्यायः
  5. आयुर्दायाध्यायः
  6. जातकभङ्गाध्यायः
  7. राजयोगाध्यायः
  8. द्व्यादिग्रहयोगाध्यायः
  9. मान्द्यब्दादिफलाध्यायः
  10. अष्टकवर्गाध्यायः
  11. प्रथमद्वितीयभावफलाध्यायः
  12. तृतीयचतुर्थभावफलाध्यायः
  13. पञ्चमषष्ठभावफलाध्यायः
  14. सप्तमाष्टमनवमभावफलध्यायः
  15. दशमैकादशद्वादशभावफलाध्यायः
  16. स्त्रीजातकाध्यायः
  17. कालचक्रदशाध्यायः
  18. दशापहलाध्यायः
  19. ग्रन्थोपसंहारः

शाखाभिरष्टादशसङ्ख्यकाभिरध्यायरूपाभिरतिप्रकाशः ।
ज्योतिर्मयः सर्वफलप्रधानः सङ्किर्तितो जातकपारिजातः ॥ १॥

उक्तं राशिगुणालयं ग्रहगतिस्थानस्वभावाकृति-
राधानादिसमस्तजीवजननं बालाद्यनिष्टाकरम् ।
आयुर्ज्जातकभङ्गयोगजविधिः श्रीराजयोगादिजो
द्विव्यादिग्रहयोगजः शुभकरि मान्द्यब्दजं च क्रमात् ॥ २॥

पश्चादष्टकवर्गबिन्दुगणितं होराधनस्थानजं
दुश्चिक्यावनिभावजं सुतरिपुस्थानप्रयुक्तं फलम् ।
कन्दर्पाष्टमधर्मराशिजनितं व्यापारलाभान्त्यजं
नारीजातकलक्षणं निगदितं चक्रं दशान्तर्दशा ॥ ३॥

श्रीविद्याधिकवेङ्कटाद्रितनयः श्रीवैद्यनाथः सुधी-
रादित्यादिसमस्तखेटकृपया विद्वज्जनप्रीतये ।
होरासिन्धुसमुद्धृतामृतमयीमष्टादशाव्यायिनी
चक्रे जातकपारिजातसरणिं गीतोत्सुकश्लोकिनीम् ॥ ४॥

इति जातकपारिजातः समाप्तः ।
समाप्तोऽथं ग्रन्थः ।