जातकपारिजातः/सप्तमाष्टमनवमभावफलध्यायः

(सप्तमाष्टमनवमभावफलध्यायः इत्यस्मात् पुनर्निर्दिष्टम्)
  1. राशिशिलाध्यायः
  2. ग्रहनामस्वरूपगुणभेदाध्शाशः
  3. वियोनिजन्माद्यध्यायः
  4. अरिष्टाध्यायः
  5. आयुर्दायाध्यायः
  6. जातकभङ्गाध्यायः
  7. राजयोगाध्यायः
  8. द्व्यादिग्रहयोगाध्यायः
  9. मान्द्यब्दादिफलाध्यायः
  10. अष्टकवर्गाध्यायः
  11. प्रथमद्वितीयभावफलाध्यायः
  12. तृतीयचतुर्थभावफलाध्यायः
  13. पञ्चमषष्ठभावफलाध्यायः
  14. सप्तमाष्टमनवमभावफलध्यायः
  15. दशमैकादशद्वादशभावफलाध्यायः
  16. स्त्रीजातकाध्यायः
  17. कालचक्रदशाध्यायः
  18. दशापहलाध्यायः
  19. ग्रन्थोपसंहारः

तत्र सप्तमभावफलम् ।

यात्रापुत्रकलत्रसौख्यमखिलं सङ्चिन्तयेत्सप्तमा-
दुक्तं पुत्रसुखासुखागमफलं सर्वं च यत्तद्वदेत् ॥ १/२॥

जारः कामगते सिते मदनपे साहिध्वजे वा तवा
कामे जीवय्गीक्षिते शुभगृहे जातो न जारो भवेत् ॥ १॥

दुःस्थे कामपतौ तु पापगृहगे पापेक्षिते तद्युते
तज्जायाभवनस्य मध्यफलं सर्व शुभं चान्यथा ।
कामस्थानपतौ सितेन सहिते पापर्क्षगे कामधीः
सौम्यर्क्षे शुभखेटवीक्षितयुते जातः सितच्छत्रवान् ॥ २॥

वित्तास्तारिपभार्गवास्तनुगताः पापान्विताः कामुकः
पापव्योमचरान्वितौ तनुरिपुस्थानधिपौ चेत्तथा ।
कामस्थे रिपुवित्तलग्नपयुते पापे परस्त्रीरतः
पापारातिकलत्रपा नवमगाः कामातुरो जायते ॥ ३॥

जारः कर्मधनास्तपा दशमगाः पुत्रादिकारग्रहा-
दुःस्था धीगुरुकामपाः सुतगृहे पापेक्षितेऽनात्मजः
जीवज्ञौ यदिवा निशाकरसितौ कामे बहुस्त्रीरतः
शुक्रे मन्मथराशिगे बलवति स्त्रीणां बहुनां पतिः ॥ ४॥

शुक्रारौ मदगौ कलत्ररहितो धर्मात्मजस्थौ तथा
शत्रुस्थानगतौ निशाकरसितौ यद्येकपुत्रो भवेत् ।
लग्नास्तव्ययगेषु पापखेचरेष्विन्दौ सुते दुर्बले
वन्ध्यास्त्रीपतिरेव जातमनुजो जायविहीनोऽथवा ॥ ५॥

बन्ध्यापतिः सितरवी मदनोदयस्थौ चन्द्रेदये समगृहे लल्लनाकृतिः स्यात् ।
पुंराशिगे पुरुषभावयुतं कलत्रं स्त्रीपुङ्ग्रहेक्षितयुते सति मिश्ररूपम् ॥ ६॥

भौमांशे वा भौमराशौ विलग्नात् कामस्थाने जन्मभे वा वधूनाम् ।
जाया दासी नीचमूढग्रहांशे दुष्टा वा स्याद्यैवने भर्तृहीना ॥ ७॥

शुभाम्शराशौ यदि सद्गुणाढ्या शुभेक्षिते चारुतरं कलत्रम् ।
चन्द्रांशके दुर्बलचन्द्रराशौ जाता पतिग्नी सबले तु साध्वी ॥ ८॥

अर्काशे कुलटा निजोच्चगृहगे साध्वी शुभालोकिते
लग्ने शीतकरेऽथवा मदनभे नीचारिमूढान्विते ।
पापव्यालविहङ्गपाशनिगलद्रेक्काणभागान्विते
सन्ध्यंशे विगतब्रता च विधवा जातस्य जाया भवेत् ॥ ९॥

कामस्थे तनुपे शुभग्रहयुते सद्वंशजामिच्छति
क्रूरर्क्षे मदगे विलग्नरमणे दुर्वशजाताङ्गनाम् ।
वर्णं रूपगुणाकृतिं च सकलं यतद्गृहोक्तं वदेत्
दुङ्यार्पारकरग्रहाकृतिनरप्रीतिं प्रयात्यङ्गना ॥ १०॥

पापाप्रकाशसंयुक्ते कलत्रे दुष्टचारिणी ।
रवौ बन्ध्या तु शीतांशौ क्षीणे तु व्यभिचारिणी ॥ ११॥

कुजे तु भ्रियते मन्दे दुर्भगाराहुसंयुते ।
परदारोऽरतिः स्वीयां निषेकाभावकोऽसुतः ॥ १२॥

धूमे विवाहहीनः स्यान्भ्रयते कार्मुके सति ।
परिवेषे तु दुःशीला केतौ बन्ध्या सती भवेत् ॥ १३॥

काले विदारः पापे तु गर्भस्त्रावेण संयुता ।
सुशीला स्त्री प्रसूता च पूर्यमाणे सुधाकरे ॥ १४॥

बुधे सुपुत्रा वागीशे गुणयुक्ता सुपुत्रिणी ।
शुक्रे सौभाग्यसंयुक्ता श्रीमती च बलान्विते ॥ १५॥

स्त्रीपुत्रपे बलिनिशोभनखेटदृष्टे षष्ठाधिपेन सहिते सति विक्षिते वा ।
जारेण पुत्रनिलाभमुपैति जाया तस्या धवो वहुकलत्रयुतोऽप्यपुत्रः ॥ १६॥

नीचे गुरौ मदनगे सति नष्ट्दारो मीने कलत्रभवने रविजे तथैव ।
मन्दारराशिनवभागगते सुरेज्ये जारो भवेदिनसुतारसमन्विते वा ॥ १७॥

सुवंशजातं प्रथमं कलत्रं लग्नेश्वरो दारपसंयुतश्चेत् ।
दिनेशकान्त्याभिहतस्तदानी स्वरूपहीनां सुतरां वदन्ति ॥ १९॥

वित्ते पापबहुत्वे च कलत्रेशे तथास्थिते ।
अशत्रुस्वानगते केतौ कलत्रत्रयभाग्भवेत् ॥ २०॥

केन्द्रत्रिकोणे दारेशे स्वोच्चमित्रस्ववर्गगे ।
कर्माधिपेन वा दृष्टे बहुस्त्रीसहितो भवेत् ॥ २१॥

कलत्राधिपतौ केन्द्रे शुभग्रहनिरीक्षिते ।
शुभाम्शे सुभराशौ वा पत्नी व्रतपरायणा ॥ २२॥

दाराधिपे सोमसुते सपापे नीचारिवर्गे रिपुनाशभावे ।
पापान्तरे पापदृशा समेते जाया पतिघ्नी कुलनाशिनी स्यात् ॥ २३॥

शुभांशे शुभ्सन्दृष्टे नाथे जाया सुवंशजा ।
पापारूढे पापवर्गे तस्य जाया कुवंशजा ॥ २४॥

कामस्थाने सखेटे सितयुतस्वचरैर्दरसंस्व्यां - वदन्ति
स्वोच्चस्वङ्षोमवासो न भवति गणने शुक्रयुक्तग्रहैर्वा ।
जायाधीशे सितर्क्षे सति धनभवने शुक्रसंयुक्तसङ्ख्या
शुक्रानङ्गेशयुक्तद्युचरनववधूवल्लभो जायते वा ॥ २५॥

दारेशेन कुटुम्बपेन सहिता यावद्ग्रहा दुर्बला-
स्तत्सङ्ख्याककलत्रनाशनकरा दुःस्थानाथा यदि ।
यावन्तो बलशालिनः शुभकरास्तत्तुल्यजायासुखं
कुर्वन्त्येकवियच्चरो बलयुतो यद्येकदारो भवेत् ॥ २६॥

अथ विवाहकाज्ञः ।

लग्नानङ्गपतिस्फुटैव्यगृहगे जीवे विवाहं वदे-
च्चन्द्राधिष्ठिततारकावधुपयोरैक्यांशके वा तथा ॥

जीवे मित्रनवांशके बलयुते यद्येकदारान्वितः
स्वांशे द्वित्रिकलत्रवान् बहुवधुनाथः स्वतुङ्गांशके ॥ २७॥

कलत्रनाथस्थितभांशकेशयोः सितक्षपानायकयोर्बलीयसः ।
दशागमे द्यूनयुक्तभांशकत्रिकोणगे देवगुरौ करग्रहः ॥ २८॥

शुक्रोपेतकलत्रराशिपदशामुक्तोविवाहप्रदा
लग्नाद्वित्तपतिस्थराशिपदशाभुक्तौ च पाणिग्रहः ।
कर्मायुर्भवनाधिनायकदशाभुक्तौ विवाहः क्रमात्
कामेशेन यूतः कलत्रगृहगस्तत्पाकमुक्तौ तु वा ॥ २९॥

सौम्यवुओमचरः स्थितः शुभगृहे चादौ ददाति श्रियं
पापर्क्षे शुभखेचरो यदि दशामध्ये विवाहादिकम् ।
क्रूरः पापगृहोपगो यदि फलं पाकावसाने तथा
सौम्य्र्क्षे यदि सर्वकालफलदः सौम्यान्वितः शोभनः ॥ ३०॥

लग्नेश्वरस्थितनवांशपतिः स्वराशौ चन्द्रे पुरन्दरगुरौ च कलत्रलाभम् ।
कामेशसुक्रगृहगेऽमरमन्त्रिणिन्दौ केन्द्रेऽथवा गुरुयुते सति गोचरेण ॥ ३१॥

यसङ्ख्याकमजादि कामभवनं तद्वत्सरे वा नृणां
साष्टाब्दे कृतभौङ्जिकर्मपरतः कन्यानकालो भवेत् ।
लग्नादस्तविलग्ननायकयुतक्षेत्रांशके सभवा
या सा भर्तृमनःप्रसादकरणि भर्ता तथैव स्त्रियाः ॥ ३२॥

कामान्वितेक्षकवियणरराशिजाता चन्द्रादतीव सुभगा च पतिप्रिया स्यात् ।
स्त्रीजातके च पतिरिष्टकरो वधूनां दिग्देशजा भृगुसुतादबलाधिपय ॥ ३३॥

अथ वरवधूजातकसंयोगः ।

धनावसानस्मरयानरन्ध्रगो धरासुतो जन्मनि यस्य दारहा ।
तथिव कन्याजनजन्मलग्नपो यदि क्षमासूनुरनिष्टदः पतेः ॥ ३४॥

क्रूरव्योमचरः स्त्रीणामष्टमस्थो विलग्नतः ।
नीचारिपापवर्गेषु यदि मृत्युकरः पतेः ॥ ३५॥

द्यूनकुटुम्बगतौ यदि पापौ दारवियोगजदुस्वकरौ तौ ।
ताद्राशयोगजदारयुतश्चेज्जीवति पुत्रधनादियुतश्च ॥ ३६॥

कलत्रराशित्रितयेऽथवा स्यात्तदीशसंयुक्तभराशिकोणे ।
कलत्रराशिर्यदि पुत्रशाली तदान्यराशिर्यदि पुत्रहीनः ॥ ३७॥

अथ स्त्रियाः स्तनविचारः ।

काठिन्योरुकुचा मदे दिनकरे कामाधिपे केन्द्रगे
जीवेन्दुज्ञसितान्विते गुरुकुचा शुष्कस्तना भूमिजे ।
लम्बापीनपयोधरा सगुलिकच्छायासुताहिग़्ह्वजे
धूमादौ विषमाकृतिस्तनवती दुःस्थेऽथवा कामपे ॥ ३८॥

अथ गम्यस्त्रीविचारणम् ।

बन्ध्यासङ्गमिनेऽस्तगे समवधूकेलि निशानायके
भूपुत्रे तु रजस्वलाजनरति बन्ध्यावधूमेति वा ।
वेश्यामिन्दुसुते तु विप्रवनितां जीवे सिते गर्भिणी
नीचस्त्रीरतिमर्कजोरगशिस्विप्राप्तेऽथवा पुष्पनीम् ॥ ३९॥

अथ स्त्रीसङ्गमे स्थानविचारः ।

क्रीडागरमिने वनं सुखगते चारु स्वगेहं विधौ
भूपुत्रे सति कुङ्यमिच्छति बुधे जातो विहारस्थलम् ।
जीवे देवगृअं सिते तु सलिलं मन्देऽथवा पत्नगे
केतौ भाधवशक्करप्रियसुतस्थानं वधूसङ्गमे ॥ ४०॥

शुक्रांशे मदनस्थितेऽवनिसुते कामाधिपे पङ्चमे
जायारिष्टमुपैति सप्तमगते भानौ कलत्रार्थवाण् ।
दुःस्थौ कामकुतुम्बपौ सभृगुजौ दुश्चिक्ययात् तु वा
तस्मद्ख्याककलत्रहा बलयुतौ वित्तास्तपौ दारवाण् ॥ ४१॥

अथ भगचुम्बनयोगः ।

जातः समेति भगचुम्बनसन्तनाथे शुक्रेण वीक्षितयुते भृगुमन्दिरे वा ।
एवं कुतुम्बभववाधिपतौ तथा स्याद् दारर्क्षगे दशमपे ससिते तथैव ॥ ४२॥

अथ स्त्रिया भगविचारः ।

कामेश्वरे देवगुरुः सितो वा समं भगं चारुतरं तरुण्याः ।
हस्वं भगं सप्तमराशिनाथे शनीन्दुतारासुतमध्याते ॥ ४३॥

दीर्घ समेति भगमस्तपतौ जलर्क्षे तत्कारके जलगृहोपगते तथैव ।
सार्द्रं भगं मदनगे भृगुवीक्षितेऽब्जे गुह्यं त्वनार्द्रमुपयाति वधूः सपापे ॥ ४४॥

लग्नेशस्थनवांशनाथगृहगे जीवे समेति स्त्रियं
नीचारातिनवांशके सति मृतस्त्रीको विदारेऽथवा ।
लग्ने कामपतिस्फुटादपह्वते राशित्रिकोणे गुरौ
लग्ने सप्तमराशिपस्फुटह्वते जीवे मृतिं योषितः ॥ ४५॥

लग्नात्कामपकारकौ शुभकरौ वीर्याधिके सप्तमे
पत्या साकमुपैति भृत्युमबला षापैर्युक्तेक्षिते ।
कामच्छिद्रदशापहारसमये शुक्राष्टवर्ग्र्दिते
राशौ भानुसुते कलत्र करणं जीवे तदाम्शान्विते ॥ ४६॥

मदनभवननाथे परिजातादिवर्गे सुरगुरुयुतदृष्टे शोभनस्थानयाते ।
दधिमधुधृतसूपक्षीरपकोपदंशैः सह शुचि रुचिरात्नं चारुकान्तामुपैति ॥ ४७॥

इति सप्तमभावविचारः ।

अथाष्टमभावफलम् ।

आयुर्दायमनिष्टहेतुमुदयव्योमायुरीशार्कजै-
रुक्तं तत्सकलं तथापि निधनप्राप्तिं प्रवक्ष्ये पुनः ।
चल्पायुर्व्ययगेऽथवा रिपुगते पापान्विते रन्ध्रपे
लग्नेशेन युते तु तत्र विबले जातोऽल्पजीवी नरः ॥ ४८॥

स्वस्थे रन्ध्रपतौ चिरायुरुदयाच्छिद्राधिपौ षष्ठगौ
रिष्फस्थौ यदि वा समेति मनुजो जातश्विरायुर्बलम् ।
ज्यापारोदयरन्ध्रराशिपतयः केन्द्रत्रिकोणायगा
दीर्घायुविबलाः सभानुतनया यद्यल्पमायुर्वदेत् ॥ ४९॥

कर्मेशरन्ध्रतनुपा बलशालिनश्चेज्जातश्विरायु रिननन्दनयोगहीनाः ।
द्वावप्यतीव बलिनौ यदि मध्यमायुरेको बली तधुतरायुरनायुरन्यः ॥ ५०॥

रन्ध्राधिपे पापगृहोपयाते दुःस्थानगे पापयुतेऽल्पमायुः ।
शुभान्विते शोभनराशियुक्ते शुभेक्षिते रन्ध्रगते चिरायुः ॥ ५१॥

नाशस्थे तनुपेऽथवा निधनपे पापेन युक्तेक्षिते
मूढेऽदृश्यगतेऽथवा रिपुगृहे जातो गतायुर्भवेत् ।
जीर्घायुर्निजतुङ्गगे शुभयुते केन्द्रत्रिकोणेऽथवा
रन्ध्रे रन्ध्रपतौ चिरायुरुदयं यातो विलग्नाधिपे ॥ ५२॥

लग्नादन्त्यगृहाधिपे बलवति स्वर्क्षे चिरायुः सुखी
लग्नेशो यदि रन्ध्रपश्च बलिनौ केन्द्रस्थितौ चेत्तथा ।
आधानोदयराशिऽष्ट्मगृहान्मेषुरणं जन्मभं
शुक्रज्ञामरवन्दितेक्षितयुतं यद्यायुरारोग्यभाक् ॥ ५३॥

अथ मृत्युविचारः

रन्ध्रेशे रिपुरन्ध्ररिष्फगृहगे तत्पाकभुक्तौ मृतिं
मन्दाकान्तगृहेशपाकसमये रन्ध्रेशभुक्तौ तथा ।
पाके रन्ध्रगृहाधिपस्य तदनुक्रान्तस्य भुक्तौ तु वा
खेटानां बलदुर्बलेन सकलं सञ्चिन्त्य यत्तद्वदेत् ॥ ५४॥

लग्नेशे निधनारिरिष्फगृहगे साहौ सकेतौ तु वा
होरारन्ध्रपसंयुतग्रहदशा जातस्य मृत्युप्रदा ।
तत्खेटान्वितराशिनायकदशा नाशप्रदा देहिनां
खेटानां प्रथमागतस्य फणिनः पाकापहारे क्रमात् ॥ ५५॥

व्यापाररन्ध्रतनुनाथशनैश्चराणां मध्ये विधुन्तुदयुतो विबलग्रहो यः ।
तत्पाकभुक्तिसमये मरणं नराणां तद्युक्तवीक्षकनभोगदशान्तरे वा ॥ ५६॥

नाशे नाशपतौ तु तद्ग्रहदशाभुक्तौ समेत्यामयं
लग्ने लग्नपतौ तु लग्नपदशाभुक्तौ शरीरातिभाक् ।
पश्चादामयनाशनं तनुसुखं मोदश्च सञ्जायते
रन्ध्रेशे बलसंयुते तनुपतेर्दाये मृतिर्देहिनां ॥ ५७॥

जातस्य जन्मसमये विबले विलग्ने लग्नेशरन्ध्रपतिपाकलतिव कष्टम् ।
पश्चादतीव सुखमेति विलग्ननाथे वीर्यान्विते निधनपस्य मृतिं दशायाम् ॥ ५८॥

देहेशे च विनाशपे बलयुते केन्द्रत्रिकोणस्थिते
तद्युक्तग्रहपाकभुक्तौसमये रोगापवादः फलम् ।
रन्ध्रेशस्तनुपश्च खेचरयुतौ केन्द्रत्रिकोणस्थितौ
रन्ध्रस्थानगतस्य पाकसमये मृत्युं समेति ध्रुवम् ॥ ५९॥

नो चेदष्टमखेचरौ यदि तनुप्राप्तेन सङ्चिन्तये-
न्मन्दे लग्नगतेऽथवाष्टभगते तत्पाकभुक्तौ मृतिः ।
रन्ध्रेशोदयनायकौ सखचरौ युक्तग्रहो दुर्बलो
यस्तस्य द्युचरस्य पाकसमये भुक्तौ च मृत्युं वदेत् ॥ ६०॥

लग्नात्पङ्चमराशिपेन सहितव्योमाटनानां दशा-
सङ्ख्याभानुह्वतावशेषगृहगे मृत्युं दनेशे सति ।
पुत्रेशो न वियच्चरेण सहितः स्वाब्देन सङ्चिन्तये-
ल्लग्नेशेन युताब्दमञ्गविहृतः सङ्क्रान्तिपूर्वं दिनम् ॥ ६१॥

त्रिकोणे केन्द्रे वा यदि पितृतनुक्षेत्रपतयो
दशाभुक्तौ तेषामनुमरणमाहुर्मुनिगणाः ।
सभौमे मन्दाढ्ये फणियुजि तु वेन्दुअ निधनगे
त्वपस्मारस्तस्मान्मरणमथवेन्दौ कृशतनौ ॥ ६२॥

चन्द्रे वित्तगतेऽथवा निधनगे जातो बहुस्वेदवाम्
कर्मस्थानगते कुजे बुधयुते दुर्गन्धदेहो भवेत् ।
पापे रन्ध्रगते तु पापसहिते रोगप्रभादाकरः
सौम्यव्योमगृहेऽतिशोभनयुते जातः समोदः सुखी ॥ ६३॥

शीर्षोदयेषु चरभादिषु वित्तपस्य लग्नाधिपस्य भुजगस्य दशापहारे ।
पृष्ठोदये सति तदीयदृगाणपस्य तद्वीक्षितादिसहितस्य मृतिं वदेद्वा ॥ ६४॥

इति अष्टमभावफलविचारः

अथ नवमभावफलम् ।

भाग्यप्रमावगुरुधर्मतपःशुभानि सञ्चिन्त्येन्नवमदेवपुरोहिताभ्याम् ।
भाग्येशदेवसचिवौ शुभवर्गयातौ भाग्ये शुभग्रहयुते समुपैति भाग्यम् ॥ ६५॥

पापारिनीचरविलुप्तकरा नभोगा भाग्यस्थिता यदि यशोधनधर्महीनाः ।
पापेऽपि तुङ्गजमित्रगृहोपगश्चेद्भाग्ये तु भाग्यफलदः सतत्ं नराणाम् ॥ ६६॥

सौम्यस्वामियुतेक्षितं नवमभं भाग्यप्रदं प्राणिनां
तद्राशीशसमेतराशिरमणो भाग्यस्य कर्त्ता भवेत् ।
भाग्येशाः परिपाचको भवति तत्पुत्रेश्वरो बोधक
स्तुञ्गस्वर्क्षगृहोपगो यदि चिरं भाग्ये प्रकुर्वन्ति ते ॥ ६७॥

भाग्यस्थे दशवर्गजोच्चभवनस्वांशस्थिते पङ्चके
भाग्यं श्रीविपुलं समेति नृपतिस्तत्स्वामियुक्तेक्षिते ।
चत्वारे बलशालिनो नवमगा भाग्यं प्रयच्छन्ति ते
तुङ्गस्वांशगताः स्वदेशविभवं त्वन्यत्र चान्याम्शगाः ॥ ६८॥

अथ नवमे गुरौ ग्रहदृष्टिफलानि ।

भाग्ये तत्पतोशोभनेक्षितयुते भाग्यं समेति ध्रुवं
धर्मे पापयुते भृगौ शशिनि वा जातो गुरुस्त्रीरतः ।
दृष्टेऽर्केण गुरौ नृपः क्षितिभुवां मन्त्री बुधेनार्थवान्
शुक्रेणाश्वपतिः सुखी तु शशिना मन्देन चोष्टादिभाख़् ॥ ६९॥

विद्वान् वारणगोतुङ्गधनवानिन्द्वर्कदृष्टे गुरौ
सेनावाहनरत्नवान्नवमगे जीवेकुजार्केक्षिते ।
विद्यावादविनोदवित्तविपुलः सूर्येन्दुजालोकिते
शुक्रादित्यनिरीक्षिते विनयवाग् जीवे तपःस्थानगे ॥ ७०॥

मन्ददित्यनिरीक्षिते गुणनिधिः प्राज्ञो बहुग्रामवान्
जीवे चन्द्रकुजेक्षिते पृथुयशाः सेनासुखश्रीयुतः ।
तारेशेन्दुप्रविलोकिते गृहसुखश्रेष्ठार्थशय्यासनः
शुक्रेन्दुप्रविलोकिते वितनयः शूरो धनी कर्मकृत् ॥ ७१॥

चन्द्रादित्यसुतेक्षिते तु गुणवान् वादी विदेशं गतो-
जीवे शुक्रबुधेक्षिते नवमगे विद्याधिको जायते ।
सर्वव्योमचरेक्षिते नरवरो राजा बहुद्रव्यवान्
सौभाग्याचरराज्यवित्तफलदाः सर्वे तपःस्थानगाः ॥ ७२॥

नवमे द्विग्रहयोगफलानि

भाग्यस्थे शशिनि प्रभाकरसुतज्ञारेक्षिते भूपति-
स्तुङ्गव्योमचरे तपःस्थलगते भूपः शुभालोकिते ।
सेन्दौ तिग्मकरे तु तत्र धनिको नेत्रामयार्त्तो भवेद्
दुःखी वादरतः कुजेन सहिते भानौ नृपालप्रियः ॥ ७३॥

भानौ सेन्दुसुते सपत्नबद्दुलो दुःस्वी रुगार्तः सदा
वागीशेन युते पितृप्रियकरो जातः स्वयं वित्तवान् ।
रोगी शुक्रयुते रवौ शनियुते र्ग्णः पिता कुक्षिरुक्
चन्द्रे सावनिनन्दने तु जननीहन्ता धनत्यागवान् ॥ ७४॥

वाग्मी शास्त्रकलापवान् नवमगे चन्द्रे सतारसुते
सेन्दौ मन्त्रिणि धीरधीर्नरवरः श्रीमान् गुरुस्थानगे ।
तारेशे कुलतापतिः सभृगुजे सापत्नमातृप्रिय-
श्चन्द्रे मन्दयुते विधर्मगुणवान् माता कुलप्रच्युता ॥ ७५॥

शास्त्री भोगसुखी कुजे बुधयुते सेव्ये धनी पूजितः
शुक्रेण द्विवधूपतिः सहकुजे वादी विदेशं गतः ।
भौमे भानुसुतान्विते नवमगे पापी परास्त्रीरतः
सौम्ये सामरवन्दिते पटुमतिविद्वान् धनी पण्डितः ॥ ७६॥

प्राज्ञो गीतरतिप्रियः सभृगुजे चन्द्रात्मजे पण्डितः
सौम्ये मन्दयुते तु रोगितनुको वित्ताधिकोऽसत्यवाक् ।
जीवे शुक्रयुते चिरायुरधिकश्रीमान् समन्दे गुरौ
रोगीरत्नधनः सितेऽसितयुते भूपालतुल्यो भवेत् ॥ ७७॥

अथ नवमे त्रिग्रहयोगफलानि ।

रवीन्दुभौमा नवमोपयाता यदि क्षताङ्गः पितृमातृईनः ।
हिंसी विकर्मा राविचन्द्रसौम्या रविन्दुजीवाः सुखवाहनाढ्यः ॥ ७८॥

चन्द्रार्कौससितौ वधूकलहकृद् राजप्रियो वित्तहा
भाग्यस्थौ रविशीतगू शनियुतौ भृत्यो विरोधि सताम् ।
रव्यारौ सबुधौ तु तत्र सुभगः क्रुद्धो विवादप्रियः
सेज्यौ देवपितृप्रियः सुतवधूवित्तान्वितो जायते ॥ ७९॥

सूर्यारौ ससितौ विवादनिरतः कोपी वधुदुषक-
श्छायासूनुयुतौ विबन्धुरधनोसाधुः पितुमारकः ।
धर्मस्थौ रविचन्द्रजौ गुरुयुतौ राजप्रियो वित्तवान्
साच्छ्यौ राजसम्ः सभानुतनयौ पापी परस्त्रीपतिः ॥ ८०॥

जीवार्कौ सितसंयुतौ परवधूसक्तो धनी पण्डितः ।
सार्की जीवदिवाकरौ यदि विटस्वामी तपःस्थानगौ ।
आदित्याप्तितभार्गवा नवमगा हीनो नृपैर्दण्डतो
बाल्ये तप्तमनाः सुखी च परतश्चन्द्रारशीतांशुजाः ॥ ८१॥

देवाराधनतत्परो नवमगैश्चन्द्रारवागीश्वरै-
र्जातो नष्टकलत्रवान् क्षततनुः शुक्रेन्दुभूनन्दनैः ।
क्षुद्रो मातृहरो महीपतिसमश्चन्द्रारसूर्याम्तजै-
राचार्यो धनवान् विभुश्च रजनीनाथज्ञदेवाचिञ्चतैः ॥ ८२॥

मातुः सपत्नीजनको विभुः स्यात् चन्द्रज्ञशुक्रा नवमोपयाताः ।
पापी विवादप्रियबुद्धियुक्तो जातः सुधारशिमबुधार्कपुत्राः ॥ ८३॥

चन्द्रामरेज्यौ ससितौ महीपः सार्कात्मजौ सद्गुणकर्मशीलः ।
मन्दज्ञशुक्रा नरपालतुल्यः कृषिक्रियावित्तपरो गुरुत्थाः ॥ ८४॥

राजप्रियो माण्डलिकः सजीवीभावस्थितौ भुसुतचन्द्रपुत्रां ।
शास्त्री सशुक्रौ चपलश्च भीरुः सभनुजौ वाद समर्थः ॥ ८५॥

ख्यातो विद्वान् धर्मवान् जीवसौर्यौ धर्मस्थाने ॥। ।
विद्यावान्मी सासितौ धर्मरतो रा ॥॥॥॥॥॥॥॥॥। ॥ ८६॥

जातः साहसविक्रमार्जितधनः सूर्यरजीवार्कजैः
शूरः सर्वगुणप्रप[न्चरसिकः युक्रारजीवेन्दुभिः ।
षट्पङ्चत्रिचतुर्विशच्चरयुते भाग्ये समेति य्रियं
राजत्यं सबुधे विबोधनगुरौ जातः समेत्यश्रियम् ॥ ८७॥

जनयन्ति भाग्यसंस्था गुरुसौम्यविवर्जिता ग्रहा पुरुषम् ।
व्याधिप्रायमकान्तं जनहीनं बन्धनार्तमतिदीनम् ॥ ८८॥

भाग्याधिपे विनाशस्थे नीचसत्रुस्वगेक्षिते ।
क्रूरांशे नीचराश्यादौ भाग्यहीनो भवेन्नरः ॥ ८९॥

भाग्याधिपे शुभयुते शुभग्रहनिरिक्षिते ।
तद्भावे शुभसम्बन्धे तत्कीर्तिधनभाग्यवान् ॥ ९०॥

सिंहासनांशे तन्नाथे लग्नेशेन निरीक्षिते ।
कर्माधिपेन सन्दृष्टे ॥॥॥ऽकरो भवेत् ॥ ९१॥

जातः पुरोहितो ॥॥॥॥॥॥॥॥॥॥॥॥॥। ।
दानाध्यक्षोपकारी ॥। वर्णमेदविकल्पना ॥ ९२॥

गुरौ तद्भावसंयुक्ते नवांशाधिपतौ तथा ।
शुभग्रहेक्षिते वाऽपि गुरुभक्तियुतो भवेत् ॥ ९३॥

गुरुस्थाने सौम्ययुते गुरुवर्गसमन्विते ।
तदीशे गुरुभागस्थे गुरुभक्तिरतः सुखी ॥ ९४॥

गुरुशुक्रबुधांशस्थे धर्मनाथेन वीक्षिते ।
शुभग्रहाणां मध्यस्थे धर्मकृत्स नरो भवेत् ॥ ९५॥

धर्मे पापे पापभाक् स्यात् तदीशे पापसंयुते ।
क्रूरषष्ट्यंशके वाऽपि धर्महीनो भवेन्नरः ॥ ९६॥

बलवति शुभनाथे केन्द्रकोणोपयाते शुभशतमुपैआति स्वामिदृष्टे विलग्ने ।
सुरगुनवभागस्त्रीम्शदंशत्रिभागे दशमभवनपे वा वीतभोगस्तपस्वी ॥ ९७॥

सकलगगनवासाः स्वोच्चगा भाग्यराशौ धनकनकसमृद्धिं श्रेष्ठमुत्पादयन्ति ।
यदि शुभस्वचरेन्दैस्तत्र दृष्टा नभोगा विनिहातरिपुपक्षौ दिव्यदेहः सुकीर्तिः ॥ ९८॥

तातेशतत्कारकखेचरेन्द्रौ दुःस्थौ तयोः पुत्रमुखं न दृश्यम् ।
केन्द्रत्रिकोणे यदि तौ नभोगौ वदेतयोः पुत्रमुखं हि दृश्यम् ॥ ९९॥

इदनीं जातस्य पितुर्मरणं दिने रावौ स स्यादित्याह ।

पितुर्नशायां मरणं सुखेशशुक्रेन्दवः षष्ठगता बलाध्याः ।
नारीश्वरास्तन्भरणं तथैव चन्द्रेण हीनास्तु दिवा मृतः स्यात् ॥ १००॥

सौम्ये चराद्यभागस्थे भाग्येशे बलसंयुते ।
गुरुशुक्रयुते दृष्टे जपध्यानसमाधिमान् ॥ १०१॥

देवलोकदिभागस्थे कर्मेशे भाग्यपेऽपि वा ।
पारावतांशके सौम्ये ब्रह्मनिष्टापरो भवेत् ॥ १०२॥

पारावतादिभागस्थे धर्मेशे गुरुसंयुते ।
लग्नेशे गुरुसन्दृष्टे महादाअकरो भवेत् ॥ १०३॥

इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते चतुर्दशोऽध्यायः ॥ १४॥