जातकपारिजातः/अरिष्टाध्यायः
तत्रादौ द्वादशाप्दीमध्ये आयुषोऽनिश्वितता
आद्वादशाब्दान्तयोनिजन्मनामायुष्कला निश्चयुतिं न शक्यते ।
मात्रा च पित्रा कृतपापकर्मणा बालप्रहैर्नाशमुपैति बालकः ॥ १॥
आद्ये चतूष्के जननीकृताधैर्मध्ये तु पित्राऽजितपापसैः ।
बालस्तदन्त्यासु चतुः समासु स्वकीयदोषैः समुपैति नाशम् ॥ २॥
अथारिष्टपूर्वकमायुषां भेदाः ।
अष्टौ बालारिष्टमादौ नराणां योगारिष्टं प्राहुराविंशतिः स्यात् ।
अल्पं चान्द्रात्रिंशतान्मध्यमायुरासप्तत्याः पूर्णमायुः शतान्तम् ॥ ३॥
अथ अरिष्टदा ग्रहस्थितिः ।
विलग्नगतस्त्वपि देवमन्त्री विनाशरिःफारिगते शशाङ्के ।
विलोकिते पापवियचरेण विभानुना मृत्युमुपैति ग्र॥॥ः ॥ ४॥
गण्डान्ततारासहिते मृगाक्के पापेक्षिते पापसमन्विते वा ।
बालो लयं यति समृत्युभागे चन्द्रे तथा पापनिरीक्षिते वा ॥ ५॥
ताताविकासोदरभातुलाश्च मातामही मातृपता च बालः ।
सूर्यादिकैः पङ्चमधर्मयातैः क्रूरर्क्षगैराशु हताः क्रमेण ॥ ६॥
रसातलस्थौ यदि भानुचन्द्रौ शनिः स्मरस्थो मरणाय मातुः ।
यदा यदा क्रूरखगो विलग्नादरातिगः सोदरनाशहेतुः ॥ ७॥
अथ पित्रादीनामरिष्टयोगाः ।
तातान्विकासोदरमातुलाश्च मातामही मातृपिता च बालः ।
सूर्यादिकैः पङ्चमधर्मयातैः क्रूरर्क्षगैराशु हताः क्रमेण ॥ ६॥
रसातलस्थौ यदि भानुचन्द्रौ शनिः स्मरस्थो मरणाय मातुः ।
यदा य्(व्)दा क्रूरखगो विलग्नादरातिगः सोदरनाशहेतुः ॥ ७॥
क्रूरेक्षितौ चन्द्रविलग्नराशी सौम्यग्रहैर्वीच्चणयोगहीनौ ।
केन्द्रच्युतो यद्यमरेशमन्त्री जातस्य भाता समुपैति नाशम् ॥ ८॥
अथ सगर्भामृत्युयोगौ ।
सभानुजे शीतकरे विलग्नाद् दिवाकरे रिःफगृहोपयाति ।
धरासुते नधुगते तदानीं विपद्यते तज्जननी सगर्भा ॥ ९॥
विलग्नचन्द्रौ शुभदृक्विहीनावशोभनव्योमचरान्तरस्थौ ।
विनाशमेति प्रमदा सगर्भा वदन्ति सर्वे युगपत् पृथग्वा ॥ १०॥
षष्ठावसानाष्टमभावगेषु क्रूरेषु सौम्यग्रहवर्जितेषु ।
पापान्तरस्थे भृगुजे गुरौ वा नारी सपुत्रा म्रियते तु सद्यः ॥ ११॥
लग्नास्तयातौ यदि पापखेचरौ शुभैरयुक्तौ शुभदृईष्टिवर्जितौ ।
शस्त्रेण मृत्यु समुपैति गर्भिणी मासाधिपो नष्टकरो यदा वदेत् ॥ १२॥
अथ जातस्य मातृमरणयोगाः ।
चन्द्राचतुर्थोपगतैरसद्भिर्वा नस्थितैः शोभनदृष्टिमुक्तैः ।
व्यापारगैर्वा यदि वासरेशाज्जातस्य माता निधनं प्रयाति ॥ १३॥
शुक्राद्रवौ विक्रमगे बलाध्ये मन्देक्षिते मन्दसमन्विते वा ।
क्षीणे शशाङ्ले यदि वा सपापे माता सपुत्रा म्रियते,अचिरेण ॥ १४॥
लग्नादिने वाऽष्टमगे धराजे पापेक्षिते सौम्यदृशा विहीने ।
ताराधिपे वृद्धिकलाविहीने माता कृतान्तस्य पदं समेति ॥ १५॥
शुक्रात् कुजेऽहनि तपः सुतराशियात् चन्द्रात्रिकोणगृहगे रविजे रजन्याम् ।
पापेक्षिते च शुभयोगदृशा विहीने नाशं समेति जननी विबले शशाङ्के ॥ १६॥
अथ गर्भस्य मासधिपाः(होरायाम्)
कललग्ननाक्कुरास्थिचर्माङ्गज्चेतनताः
सितकुजजीवरविचन्द्रार्कुबुधाः परतः ।
उदयकुजजीवरविचन्द्रार्किम्बुधाः गदिता
वदन्ति शुभाशुभं च मासाधिपतेः सदृशम् ॥ १७॥
अथ गर्भ सुखम् ।
शशाङ्कलग्नोपगतैः शुभग्रहैस्त्रिकोणजायार्थसुखास्पदस्थितैः ।
तृतीयलाभर्क्षगतैश्च पापकैः सुखी च गर्भो रविणा निरीक्षितः ॥ १८॥
अथ जातस्य पितृमरणयोगाः ।
व्ययस्थितेऽर्के ससुते विलग्नादपि क्षयेन्दौ मदनोपयाते ।
पितुर्वियोगं प्रव्दन्ति सद्यः शुभेक्षिते तु त्रिभिरब्दमानैः ॥ १९॥
चरोपगे चन्द्रमसि क्षपायां बुधेक्षिते दूरदिशं प्रयातः ।
चरे शनौ भानुयुते निशायां विदेशगो वाति पिता विनाशम् ॥ २०॥
अथ जातस्य मृत्युयोगाः ।
क्षीणे शशिन्युदयगे यदि कण्टकस्थे पापेऽथवा निधनगे म्रियतेऽथ बालः ।
रन्ध्ररिगैरशुभखेटदृशा समेतैः सौम्यैः कृतान्तनगरं समुपैति मासात् ॥ २१॥
एकत्र मन्दावनिनन्दनार्का रन्ध्रस्थिता वा रिपुराशियाताः ।
सौम्यैरयुक्ता अविलोकितास्ते जातस्य सद्यो मरणप्रदाः स्युः ॥ २२॥
चन्द्रांशे सओप्तमे भौमे सौम्यदृष्टिविवर्जिते ।
सप्तसप्ततितारायामुपैति मरणं शिशुः ॥ २३॥
मन्दावनिजमार्तण्डैः पुत्रस्यानसमन्वितैः ।
सप्तसप्ततिनक्षत्रे जातस्य मरणं वदेत् ॥ २४॥
धरसुते चन्द्रनवांशकस्थे लग्नांशके वा न च जीवदृष्टे ।
सुधाकरे नन्दनराशियाते समेति याम्यं पदभाशु बालः ॥ २५॥
नीचं गते लग्नपतौ विलग्नान्नाशं गते वा रविजे तथाऽस्ते ।
जातो मृतप्रायकलेवरः सन्कृच्छेण वैवस्वतलोकमिति ॥ २६॥
अपोक्लिमस्थानगता न भोगा विधूतवीर्यां यदि भानुमुख्याः ।
मासद्वयं तस्य वा जातस्य चायुः कथयन्ति तज्ज्ञाः ॥ २७॥
लग्नारिरन्ध्रव्ययगे शशाङ्के पापेन दृष्टे शुभदृष्टिहीने ।
केन्द्रेषु सौम्यग्रहवर्जितेषु प्राणैवियोगं व्रजति प्रजातः ॥ २८॥
सौरे मदस्थे यदि वा विलग्ने जलोदयऽब्जे यदि कीटगे वा ।
सौम्येषु केन्द्रोपगतेषु सद्यो जातस्य नाशं यवनोपदिष्टम् ॥ २९॥
भौमक्षेत्रगते जीवे नीचराशिगतेऽथवा ।
सन्ध्यात्रये च सङ्जातो मासान्मृत्युमुपैति सः ॥ ३०॥
रन्ध्रे धरासूनुदिनेशसौरा जातस्तु मृत्युं समुपैति मासात् ।
केतुस्तु यस्मिन्नुदितोऽत्र जातो मासद्वयेनैव यमं प्रयाति ॥ ३१॥
पापाबुदयास्तगतौ क्रूरेण युतश्च शशी ।
दृष्टश्च शुभैर्न यदा मृत्युश्च भवेदचिरात् ॥ ३२॥
क्षीणे हिमगौ व्ययगे पापैरुदयाष्टमगैः ।
केन्द्रेषु शुभाश्च न चेत् क्षिप्रं निधनं प्रवदेत् ॥ ३३॥
क्रूरेण संयुतः शशी स्मरान्त्यमृत्युलग्नगः ।
कण्टकाद्विःशुभैरवीक्षितश्च मृत्युदः ॥ ३४॥
शशिन्यरिविनाशगे निधनमाशु पापेक्षिते ।
शुभैरथ समाष्टकं दलमतश्च मिश्रेक्षिते ।
असद्भिरवलोकिते बलिभिरत्र म्(भ)आसं शुभे
कलत्रसहिते च पापविजिते विलग्नाधिपे ॥ ३५॥
अशुभसहिते ग्रस्ते चन्द्रे कुजे निधनाश्रिते
जननिसुतयोर्मृत्युलग्ने रवौ तु सशस्त्रजः ।
उदयति रवौ शीतांशौ वा त्रिकोणविनाशगै-
र्निधनमशुभैर्वीर्योपेतैः शुभैरयुतेक्षिते ॥ ३६॥
असितरविशशाङ्कभूमिजैर्व्ययनवमोदयनैधनाश्रितैः ।
भवति मरणमाशु देहनां यदि बलिना गुरुणा न वीक्षितैः ॥ ३७॥
सुतमदननवान्त्यलग्नरन्ध्रेष्वशुभयुते मरणाय शीतश्मिः ।
भृगुसुतशशिपुत्रदेवपूज्यैर्यदि बलिभिर्न युतोऽवलोकितां वा ॥ ३८॥
अथ वर्षमध्ये मरणम् ।
योगे स्थानं बलनश्चन्द्रे स्वं वा तनुगृहमथवा ।
पपैर्दृष्टे बलवति मरणं वर्धस्यान्तः किल मुनिगदितम् ॥ ३९॥
अथ वर्षद्भयमायुः ।
वक्री शनिभौमगृहोपयातः केन्द्रेऽथवा शत्रुगृहे विनाशे ।
कुजेन सम्प्राप्तबलेन दृष्टो वर्षद्वयं जीवयति प्रजातम् ॥ ४०॥
अथ वर्षत्रयमायुः ।
बृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूनिः ।
अब्दैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्रापयति प्रजातम् ॥ ४१॥
अथ चतुर्थवर्ष मरणम् ।
षष्ठाष्टमे कर्किणि जन्मलग्नात् सौम्ये सुधारश्मिनिरीक्ष्यमाणो ।
अब्दैश्चतुर्भिः समुपैति नाशं जातो नरः सर्वबलान्वितोऽपि ॥ ४२॥
अथ पङ्चमेऽब्दे मरणम् ।
रविचन्द्रभौमगुरुभिः कुजगुरुसौरेन्दुभिः सहैकस्थैः ।
रविशनिभौमशशाङ्कैर्मरणं खलु पङ्चमिवर्षैः ॥ ४३॥
अथ षद्वर्षमायुः ।
यदा सुधारशिमनवांशकस्थे निरीक्षिते शीतकरेण मन्दे ।
लग्नाधिपे चन्द्रदृशा समेते जातस्य षद्वर्षमितं तदाऽयुः ॥ ४४॥
अथ सप्तमेऽब्दे मरणम् ।
लग्ने यद्द्रेक्काणो निगलाहिहिहङ्गपाशधरसूज्ञः ।
मरणाय सप्तवर्षैः क्रूरयुतो न स्वपतिसन्दृष्टः ॥ ४५॥
अथ सप्ताष्टवर्षे मृत्युः ।
लग्ने रविशनिभौमाः शुक्रगृहे सप्तमे शशी क्षीणः ।
दृष्टो न देवगुरुणा सप्तभिरष्टभिरब्दकैर्वा स्यात् ॥ ४६॥
अथ नवमेऽब्दे मृत्युः ।
दिवकरेन्दुभूपुत्रः पुत्रस्यानसमन्विताः ।
जातो यमपुरं याति नवमाब्दे न संशयः ॥ ४७॥
पापो विलग्नाधिपतिः शशाङ्कादन्यस्थतः क्रूरनिक्षितश्चेत् ।
चन्द्रांशकस्थे यदि वा तदीशो जातः शिशुर्याति लयं नवाब्दैः ॥ ४८॥
अथ दशवर्शायुः ।
मृगांशकस्थिते मन्दे सौम्यदृष्टिसमन्विते ।
जन्मप्रभृतिशत्रुत्वं तस्यायुर्दशवत्सरम् ॥ ४९॥
अथ एकादशे वर्षे मरणम् ।
रविणा युक्तः शशिजः सौम्यैर्दृष्टो विनाशयति ।
एकादशभिर्वर्षैर्जातं नृपतुल्यभोगसम्पन्नम् ॥ ५०॥
अथ द्वादशेऽब्दे मरणम् ।
चन्द्रलग्नाधिपः सूर्यः स्वपुत्रेण समन्वितः ।
लग्नादष्तमराशिस्थो द्वादशाब्दे सितेक्षितः ॥ ५१॥
अल्यांशकस्थिते मन्दे सूर्येणैव निरीक्षिते ।
पितृद्वषसमायुक्तो द्वादशाब्दं च जीवति ॥ ५२॥
अथ त्रयोदशेऽब्दे मृत्युः ।
लग्नांशकस्थिते मन्दे जीवदृष्टिसमन्विते ।
त्रयोदशाब्दे मरणम् जातस्य पितृवैरिणः ॥ ५३॥
अथ चतुर्थदशऽब्दे मृत्युः ।
कन्यांशकस्थिते मन्दे सौम्यदृष्टिसमन्विते ।
चतुर्दशाब्दे मरणं जातः कोपी समेति च ॥ ५४॥
अथ पङ्चदशाब्दय्युः ।
सिमांशकस्थिते मन्दे राहुणा च निरीक्षिते ।
शस्त्रपीडा भवेत्तस्य चायुः पङ्चदशाब्दकम् ॥ ५५॥
अथ षोदशेऽब्दे मरणम् ।
कर्काशकस्थिते मन्दे जीवदृष्टिसमन्विते ।
सर्पपीडा भवेत्तस्य षोडशाब्दान्मृतिं वदेत् ॥ ५६॥
अथ सप्तदशेऽब्दे मृत्युः ।
यमांशकस्थिते मन्दे लग्ननाथेन वीक्षिते ।
रणशूरो महाभोगी मृतः सप्तदशाब्दके ॥ ५७॥
अथ अष्टादशेऽब्दे मृत्युः ।
परस्परक्षेत्रसमन्वितौ वा रन्ध्रेशलग्नाधिपती न सौम्यौ ।
रिःफारिभे वा गुरुणा वियुक्ते त्वष्टादशाब्दे निधनं प्रयाति ॥ ५८॥
अथ सद्यो मृत्युः ।
जीवांशकस्थिते मन्दे राहुणा च निरीक्षिते ।
देहाधिपे शुभादृष्टे जातः सद्यो वुनश्यति ॥ ५७॥
अथ १९ वर्षे मृत्युः ।
तदीशस्तुङ्गभागश्चेदायुरेकोनविंशतिः ॥ ५८॥
अथ २० वर्षे मृत्युः ।
केन्द्रेषु पापेषु निशाकरेण सौम्यग्रहैरीक्षणवर्जितेषु ।
षष्ठाष्टमे वा यदि शीतरश्मौ जातः सुखी विंशतिवत्सरान्तम् ॥ ५९॥
अथ २२ वर्षे मृत्युः ।
जीवेन सहितः सूर्यो लग्नस्थः कीटराशिगः ।
अष्टमाधिपतौ केन्द्रे द्वाविंशत्यब्दके मृतिः ॥ ६१॥
२६/२७ वर्षे मृत्युः ।
मन्दोद्ये शत्रुराशौ सौम्यैरापोक्लिमोपगैः ।
षड्विंशत्यब्दके वा स्यात् सप्तविंशतिवत्सरे ॥ ६२॥
अथ २८ वर्षे मरणम् ।
रन्ध्रेशे जीवसन्दृष्टे पापे पापनिरीक्षिते।
रन्ध्रस्थे जन्मपे मृत्युरष्टाविंशतुवत्सरे ॥ ६३॥
अथ २९ वर्षे मृत्युः ।
चन्द्रे मन्दसहायस्तु सूर्यश्चाष्टमसंस्थितः ।
एकोनत्रिंशके वर्षे जातो यम्पुरं व्रजेत् ॥ ६४॥
अथ २९ वा ३० वर्षे मृत्युः ।
जन्मरन्ध्रपयोर्मध्ये निशानाथे व्यये गुरौ ।
सप्तविंशतिवर्षे वा त्रिंशद्वयसि वा मृतिः ॥ ६५॥
अथ ३२ वर्षे मरणम् ।
अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जिते ।
त्रिंशद्वर्षमितायुष्मान् द्वात्रिंशद्वत्सरे मृतिः ॥ ६६॥
क्षीणे शशाङ्के यदि पापयुक्ते रन्ध्राधिपे केन्द्रगतेऽष्टमे वा ।
पापान्विते हीनबले विलग्ने द्वात्रिंशदब्दे निधनं प्रयाति ॥ ६७॥
अथ अल्पायुर्योगाः ।
षष्ठाष्टमे व्यये पापे लग्नेशे दुर्बले सति ।
अल्पायुरनपत्यो वा शुभदृग्योगवर्जिते ॥ ६८॥
क्रूरषष्ठ्यंशकए वाऽपि रन्ध्रेशे भानुजेऽपि वा ।
पापान्विते पापखेटे चाल्पमायुर्विनिर्दिशेत् ॥ ६९॥
व्ययार्थौ पापसंयुक्तौ शुभदृष्टिविवर्जितौ ।
क्रूरषष्ठ्यंशसंयुक्तौ वाऽल्पमायुर्विनिरिदिशेत् ॥ ७०॥
इति द्वात्रिंशद्वत्सरान्तर्भूतबालारिष्टयोगारिष्टस्वल्पायुर्भेदाः समाप्ताः ।
अथआरिष्टभङ्गाः ।
अत्यन्तसत्त्वे यदि लग्ननाथे सौम्यान्विते तादृशदृष्टियोगे ।
केन्द्रस्थिते पापदृशा विहीने सद्भाग्ययुग् जीवति दीर्घमायुः ॥ ७१॥
अथ चन्द्रकृतोऽरिष्टभङ्गः ।
चन्द्रः सन्पूर्णगात्रस्तु सौम्यक्षेत्रांशगोऽपि वा ।
सर्वारिष्टनिहन्ता स्याद् विशेषाच्छुक्रवीक्षितः ॥ ७२॥
अथ शुभग्रहकृतोऽरिष्टभङ्गः ।
जीवभार्गवसौम्यानामेकः केन्द्रगतो बली ।
पापकृद्योगहीनश्चेत्सद्योऽरिष्टस्य भङ्गकृद् ॥ ७३॥
अथ चद्रकृतोऽरिष्टभङ्गः ।
स्वोच्चस्थः स्वगृहेऽथवापि सुहृदां वर्गे च सौम्यस्य वा ।
सम्पूर्णः शुभवीक्षितः शशधरो वर्गे स्वकीयेऽपि वा ॥ ७४॥
शत्रूणामवलोकनादिरहितः पापैरयुक्तेक्षितो।
अरिष्टं हन्ति उदुस्तरं दिनमणिः प्रालेयराशिं यथा ॥ ७५॥
पक्षे सिते भवति जन्म यदि क्षपायां कृष्णेऽथवाऽहनि शुभाशुभदृष्टमूर्तिः ।
तं चन्द्रमा रिपुविनाशग्तोऽपि नूनमापत्सु रक्षति पितेव शिशुं प्रजातम् ॥ ७६॥
अथ गुरुकृतोऽरिष्टभङ्गः ।
केन्द्रोपगोऽतिबलवान् स्फुरदंशुमली स्वर्लोकराजसचिवः शमयेदवश्यम् ।
एको बहुनि दुरितानि उदुतराणि भक्त्या प्रयुक्त इव शूलधरे प्रणामः ॥ ७७॥
अथ लग्नेशकृतोऽरिष्टभङ्गः ।
लग्नेशे बलयुक्तश्चेत् त्रिकोणे वा चतुष्टये ।
अरिष्टयोगजातोऽपि बालो जीवति निश्चयः ॥ ७७॥
अथ ग्रहकृतोऽरिष्टभङ्गः ।
यस्य जन्मनि तुङ्गस्याः स्वक्षेत्रस्थान्माश्रिताः ।
चिरायुषं शिशु जातं कुर्वन्त्यत्र न संशयः ॥ ७८॥
अथ राहुकृतोऽरिष्टभङ्गः ।
राहुस्त्रिषष्ठलाभे लग्नत्सौम्यैर्निरीक्षितः सद्यः ।
नाश्यति सर्वदुरितं मारुत् इव तलसङ्गातम् ॥ ७९॥
अजव्वृषकर्किविलग्ने रक्षति राहुर्निरन्तरं बालम् ।
वृथिवीपतिः प्रसन्नः कृतापराधं यथा पुरुषम् ॥ ८०॥
अथ पुमश्चन्द्रकृतोऽरिष्टभङ्गः ।
निशाकरः शोभनवर्गयुक्तः शुभेक्षितः पूरितदीप्तिजालः ।
जानस्य निःशोषमरिष्टमाशु निहन्ति यद्वद् गरलं गरुत्मान् ॥ ८१॥
अथ राशीशकृतोऽरिष्टभङ्गः ।
चन्द्राधिष्ठतराशीशे लग्न्स्थे शुभवीक्षिते ।
भृगुणा वीक्षिते चन्द्रे स्वोच्चेऽरिष्टं हरेत्तदा ॥ ८२॥
अथ लग्नेशकृतोऽरिष्टभङ्गः ।
लग्नाधिपोऽतिबलशुभैरदृष्टः केन्द्रस्थितः शुभखगैरवलोक्यमानः ।
मृत्युंविधूय विदधाति स दीर्घमायुः सार्धं गुणैर्बहुभिरूर्जितराजलक्ष्म्या ॥ ८३॥
अथ मध्यमायुःप्रदता जीवस्य ।
बलहीने विलग्नेशे जीवे केन्द्रत्रिकोणगे ।
षष्ठामव्यये पापे मध्यमायुरुदाहृतम् ॥ ८४॥
द्वात्रिंशद्वत्सरादुपति सप्ततिपर्यन्तं मध्यमायुर्योगः ।
अथ पूर्णयुःप्रदा योगाः ।
चतुष्टये शुभैर्युक्ते लग्नेशे शुभसंयुते ।
गुरुणा दृष्टिसंयोगे पूर्णमायुर्विनिर्दिशेत् ॥ ८५॥
केन्द्रान्विते विलग्नेशे गुरुशुक्रसमन्विते ।
ताम्यां निरिक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ॥ ८६॥
उच्चान्वितैर्स्त्रिभिः खेटैर्लग्नरन्ध्रेशसंयुतैः ।
रन्ध्रे पापविहीने च दीर्घमायुविनिर्दिशेत् ॥ ८७॥
रन्ध्रेस्थितैर्स्त्रिभिः खेटैः स्वोच्चमित्रस्ववर्गगैः ।
लग्नेशे बलसंयुक्ते दीर्घमायुविनिर्दिशेत् ॥ ८८॥
स्वोच्चस्थितेन केनापि खेचरेण समन्वितः ।
शनिर्वा रन्ध्रनाथो वा दीर्घमायुविनिर्दिशेत् ॥ ८९॥
त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ।
लग्नेशे बलसंयुक्तः पूर्णमायुर्विनिर्दिशेत् ॥ ९०॥
षट्सप्तर्न्ध्रभावेषु उभेषु सहितेषु च ।
त्रिषडायेषु पापेषु दीर्घमायुर्विनिर्दिशेत् ॥ ९१॥
रिःफशत्रुगताः पापा ल्ग्नेशे यदि केन्द्रगः ।
रन्ध्रस्थानगता पापाः कर्मेशः बहुसम्मतम् ॥ ९२॥
रन्ध्रे शस्थगृहाधीशो यस्मिन् राशौ व्यवस्थितः ।
तदीशो लग्ननाथश्च केन्द्रगो यदि ताद्दशम् ॥ ९३॥
द्विस्वभावं गते लग्ने तदीशे केन्द्रगेऽपि वा ।
स्वोच्चमूलत्रिकोणे वा चिरं जीवति भाग्यवान् ॥ ९४॥
द्विस्वभावं गते लग्ने लग्नेशात् केन्द्रगौ यदि ।
द्वौ पापौ यस्य जनने तस्यायुर्दीर्घमादिशेत् ॥ ९५॥
चरांशकस्था रविमन्दभौमाः स्थिरांशकस्थौ गुरुदानवेज्यौ ।
शेषाश्च युग्मांशगता यदि स्युस्तदा समुद्भूतनरः शतायुः ॥ ९६॥
अथ पूर्णयुषः प्रमाणम् ।
सप्तत्युपरिशतान्तं पूर्णमायुः ।
अथ योगविदेषात् युगान्तमायुः ।
मन्दांशकस्था रविजीवभौमा धर्मस्थितास्तन्नवभागसंस्थाः ।
बलान्विता लग्नगतो हिमांशुर्युगान्तमायुः श्रियमादधाति ॥ ९७॥
अथ मुनित्वप्रदो ग्रहयोगः ।
एकांशभागौ गुरुसूर्यपुत्रौ धर्मस्थितौ वा यदि कर्मसंस्थौ ।
अर्कोदये सौम्यनिरीक्ष्यमाणौ मुनिर्भवेदत्र भवश्चिरायुः ॥ ९८॥
अथ अमितमायुः ।
गुरुशशिसहिते कुलिरलग्ने शशितनये भृगुजे च केन्द्रयाते ।
भवरिपुहजोपगैश्च शेषैरमितमिहायुरनुक्रममाद्विना स्यात् ॥ ९९॥
अथ देवसादृश्यप्रदा ग्रहस्थितिः ।
त्रिकोणे पापनिर्मुक्ते केन्द्रे सौम्यविवर्जिते ।
रन्ध्रे पापविहीने च जातस्त्वमरसन्निभः ॥ १००॥
शन्यादिभौमपर्यन्तं लग्नादौ खेचराः स्थिताः ।
वैशेषिकांशसंयुक्ता जातस्त्वमरसन्निभः ॥ १०१॥
अथ श्रसङ्ख्यायुःप्राप्तिः ।
मेषान्त्यलग्ने सगुरौ भृगौ वा निशाकरे गोगृहमध्यमांशे ।
सिंहासनांशे यदि वा धराजे जातस्त्वसङ्ख्यातमुपैति मन्त्रैः ॥ १०२॥
अथ मुनिसमत्वम् ।
देवलोकांशके मन्दे भौमे पारावतांशके ।
सिंहासने गुरौ लग्ने जातो मुनिसमो भवेत् ॥ १०३॥
अथ युगान्तमायुः ।
गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके ।
त्रिकोणे कर्कटे लग्ने युगान्तं स तु जीवति ॥ १०४॥
अथ ब्रह्मपदप्राप्तिः ।
चापांशे कर्कटे लग्ने तस्मिन् देवेन्द्रपूजिते ।
त्रिचतुर्भिर्ग्रहैः केन्द्रे जातो ब्रह्मपदं व्रजेत् ॥ १०५॥
लग्ने सेव्ये भृगौ कामे कन्यायामुडुनायके ।
चापे मेषांशके लग्ने जातो याति परं पदम् ॥ १०६॥
अथ आयुषः सप्तविधता ।
बालारिष्टं योगसङ्जातमल्पं तेषां भङ्गान्मध्यमं दीर्घमायुः ।
दिव्यं योगाम्यासमन्त्रक्रियाद्यैरायुः सपतैतानि सङ्कीर्तितानि ॥ १०७॥
इति श्रीनवग्रहकृपया वैद्यनाथरचिते जातकपारिजाते
बालारिष्टाध्यायः चतुर्थः ॥ ४॥