जातकपारिजातः/दशापहलाध्यायः
दशानुसारेण फलं वदन्ति मुनीश्वरा जातशुभाशुभं यत् ।
सारं समुद्रधृत्य तथैव वक्ष्ये भेदं यथाविस्तरतो दशायाम् ॥ १॥
बलानुसारेण यथा हि योगो योगानुसरेण दशाभुपैति ।
दशाफलः सर्वफलं नराणां वर्णानुसरेण यथा विभागः ॥ २॥
अथ विंशोत्तरी महादशा ।
आदित्यचन्द्रकुजराहुसुरेशमन्त्रिमन्दज्ञकेतुभृगुजा नव कृतिकाद्याः ।
तेनो नयः सिनदयातटघन्यसेव्यसेनानरा दिनकरादिदशाब्दसङ्ख्याः ॥ ३॥
अथ दशापतेः शुभाशुभस्वम् ।
आरोहवीर्याधिकभावतुल्यबिन्वाधिकाः कर्मभवोदययाः ।
तुन्गादीवर्गोपगता लभोगाः षड्वीर्यवन्तश्च शुभप्रदाः स्युः ॥ ४॥
मान्दिराशिपतिमान्दिभावगाः स्वल्पबिदुरिपुनीचमूढगाः ।
पापखेटयुतभावसन्धिगा राशिसन्धिलवगास्त्वनिष्टकाः ॥ ५॥
दशापतिर्लग्नगतो यदि स्यात् त्रिंषड्दशैकादशगश्च लग्नात् ।
तसप्तवर्गोऽपिअथ तत् सुहृदा लग्ने शुभो वा शुभदा दशा स्यात् ॥ ६॥
दशादिनाथस्य सुहृद्गृहस्थतदुच्चगो वाऽथ् दशाधिनायात् ।
स्मरत्रिकोणोपचयोपगश्च ददति चन्द्रः खलु सत्फलानि ॥ ७॥
उक्तेषु राशीसू गतस्य विघोः स भावः स्याज्जन्मकालभवमूर्तिघनादिभावः ।
तत्तत्प्रवृद्धिकृदसौ केथितो नराणां तद्रावहानिकृदयेतरराशिसंस्थः ॥ ८॥
दशाप्रवेशे स्वगृहदिसंस्थे हिमद्युतौ यत्फलमुक्तमाइः ।
तद्वाच्यमिन्दुहि शुभाशुभाश्च्य फलम् मनोरूपतया ददाति ॥ ९॥
उत्पादितं हि द्युचरस्य पूर्व शुभादिकं कष्टफलं हि यत्तत् ।
तेनानुसरेण दआसु कल्प्यं शरीरभाजामशुभं शुभं वा ॥ १०॥
इष्टोत्कटत्वे हि शुभानि पुंसां फलान्यनिष्टान्यशुभोत्कटत्वे ।
साम्ये तु मिश्राणि फलानि नृनं सर्वत्र चैवं परिकल्पनीयम् ॥ ११॥
संज्ञाध्याये यस्य यद्द्रव्यमुक्तं कर्माजीवो यस्य यश्चोपदिष्टः ।
भावस्थानलोकयोगोद्भवं च तत्तत्सर्व तस्य योज्यं दशायाम् ॥ १२॥
शुभफलदशायं ताद्दगेवान्तरात्मा बहु जनयति पुंसां सौख्यमर्थागमं च ।
कर्यतफलविपाइकस्तर्कयेर्द्वतमानां परिणमति फलोक्तिः स्वप्रचिन्तास्ववीर्यैः ॥ १३॥
पाकस्वामिनी लग्नगे सुहृदि वा वर्गेऽस्य वा सौम्येऽपि वा
प्रारब्धा शुभदा दशा त्रिदशषड्लाभेषु वा पाकपे ।
मीत्रिचोपचयत्रिकोणमदने पाकेश्वरस्य स्थित-
चन्द्रः सत्फलषोधनाणी कुरुते पापानि चातोऽन्यथा ॥ १४॥
लग्नादिष्टगृहोपगः स्वभवने तुङ्गे सुहृद्भेऽथवा
पाकेशः शुभमित्रवीक्षणयुतस्तत्पाकभुक्तौ शुभम् ।
केन्द्रे वा यदि कोणगोऽतीशुभदा पापास्त्रीषष्ठायगा-
स्तुङ्गायोपचयेषु ये बलयुवआस्तेषां दशायां शुभं ॥ १५॥
अन्योन्यमिष्टप्रहयोर्दशायां भुक्तौ शुभं षड्बलशालिनोरतु ।
शत्रुप्रहौ दुर्बलशालिनौ चेत् पाकापहारे तु तयोरनर्थः ॥ १६॥
करोति यभावगतः स्वपाके तद्भावजन्यं त्वशुभं शुभं वा ।
शुभं शुभव्योमचरस्य दाये पापस्य दाये स्वशुभं वदन्ति ॥ १७॥
सम्यान्वितप्रहदशाऽतिशुभप्रदा स्यात् पापान्वितस्य विफलं परिपाककाले ।
मिश्रप्रहेण सहितस्य दशापहरे मिश्रं फलं भवति मिश्रबलान्वितस्य ॥ १८॥
यद्भातुखेटस्य दशापहारे तद्भातुवित्तायतिभाहुरार्यः ।
धातुक्षयं पापवियचरस्य पाकेऽभिवृद्धिं शुभदस्य धातोः ॥ १९॥
सपन्नखेटोपगतस्य पाके सपन्नवृद्धिं सकलार्थनाशम् ।
यत्कर्मकर्तृप्रहपाककाले तत्क्र्मसिद्धि प्रवदन्ति सन्तः ॥ २०॥
यत्कार्यकारिद्युचरस्य दये तत्कर्यसिद्धिं प्रवदेन्नराणाम् ।
शुभग्रहोऽसौ यदि कर्यसिद्धिं पापस्तु तत्कार्यविनाशनेव ॥ २१॥
राज्यस्थानपराज्यकारकदशा राजप्रसादप्रदा
देवव्योमचरस्य पाकसमये तद्देवताराधनम् ।
धर्माधीशदशागते लति तपोधर्मादिसिधिं वदेत्
कर्मेशस्य दशापाकसमये यज्ञदिकर्मोत्सवम् ॥ २२॥
सत्त्वादिग्रहपाकभुक्तिसमये तत्तद्गुणो जायते
जन्मर्क्षादिनवर्क्षग्ग्र्हदशा कुर्वीत भूतं फलम् ।
कर्मर्क्षादिनवर्क्षगस्य बलिनः पाके भविष्यत्फलं
चाधानादिगतस्य सर्वमफलं पाके फलं वा वदेत् ॥ २३॥
शीर्षोदयगतः खेटः पाकादौ फलदो भवेत् ।
पृष्ठोदयस्थः पाकान्ते चोभयोदयगः सदा ॥ २४॥
षष्ठेशस्य दशा विलापकरणी मृत्युविनाशप्रभो-
रस्तव्योमचरस्य बन्धुमरणं पाकेऽपहारेऽथवा ।
सम्पत्साधकमैत्रपाः परममैत्रक्षेमताराधिपा-
वेतेषामपहारभुक्तिसमये सम्पत्समृधिं वदेत् ॥ २५॥
त्रिमण्डलेष्वथैकस्मिन् पापस्तिष्ठति दुर्बलः ।
तद्रशायां मृतिं विड्यात् ससौम्यो यदि शोभनम् ॥ २६॥
राशिसन्धिगदाये तु शोकरोगादिपीडनम् ।
त्रिंशद्भागमनुक्रान्तदशा मृत्युफलप्रदा ॥ २७॥
नीचस्थितो जन्मनि यो ग्रहः स्यात् स चापि तद्युक्तखगो न शक्तः ।
दातुं शुभं राहुयुतस्त्वनिष्टं तत्क्षेत्रगस्तद्युतराशिपश्च ॥ २८॥
तत्तद्भावाधीश्चरस्याधिशत्रुर्यो वा खेटो बिन्दुशून्यर्क्षयुक्तः ।
तत्तत्पाके मूर्तिभावादिकानां नाशं ब्रूयादेवमाद्दुर्मुनीन्द्राः ॥ २९॥
बाधास्थानपतद्युतग्रहदशा शोकादिरोगप्रदा
तत्केन्द्रस्थदशापहारसमये उःखं विदेशाटनम् ।
अन्योन्याष्टमषष्ठगद्युचरयोः पाकापहारे भयं
देशत्यागमनर्थमिष्टशुभयोः सर्वं विमिश्रं वदेत् ॥ ३०॥
पाके दीप्तस्य राजा भवति धनयशोदानविद्याविनोदी
स्वस्थस्याचारधर्मश्रवणबहुसुखारोग्यवित्तान्वितः स्यात् ।
राजप्रीतिं विभूतिं सुखमिह मुदितव्योमवासस्य दाये
शान्तस्यारोग्यसौख्यश्रियमवार्नपतिप्रीतिमुत्साहमेति ॥ ३१॥
पाके शक्तस्य विद्यानिवयधनतपःसिद्धिधर्मप्रवृत्ति-
श्चोरारातिक्षितीशैर्भयमनुजमृतिः पीडितस्य ग्रहस्य ।
दाये दीनस्य दैन्यं विकलखगदशा शोकरोगप्रदा स्यात्
चित्तक्लेशः खलस्य प्रतिदिनमरिभिर्भीतखेटस्य भीतिः ॥ ३२॥
विलग्नतारेन्दुभनामताराप्रश्नेन्दुनक्षत्रगणेषु मध्ये ।
बलाधिलर्क्षेशदशाक्रमेण फलं शुभं वाऽशुभमाहुरार्याः ॥ ३३॥
उतपन्ननक्षत्रविलग्नतो वा भूयात् क्रमेणैव दशाफलानि ।
दशावसानेष्वशुभं च सर्वे कुर्वन्ति सामान्यफलं नराणाम् ॥ ३४॥
जन्मर्क्षात्परतस्तु पञ्चमभवाऽथोत्पन्नसंज्ञा दशा
स्यादाधानदशाऽप्यथाष्टमभवात् क्षेमान्महाख्या दशा ।
आसां चैव दशावसानसमये मृत्युं वदेत्प्राणितां
दीर्घस्वल्पसमायुषां वधाविपत्प्रत्यग्-दशासु क्रमात् ॥ ३५॥
अथ निर्याणदशा ।
जातोऽह्नि चेदर्कसनिस्फुटैक्यतारादिनेर्याणदशा प्रकल्प्या ।
तारेशराहुस्फुटयोगतारापूर्वा दशारिष्टकरा रजन्याम् ॥ ३६॥
अथ गुलिकदशा
गुलिकस्थितनक्षत्रादशा तस्य प्रकल्पिता ।
तद्युक्तभवनांशेशौ सहकारी च मृत्युदाः ॥ ३७॥
अथ शूलदशा ।
दिनेशाविनशुक्रौ च राजारौ कारकाः स्मृताः ।
कारकस्य त्रिशूलर्क्षे यदा चरति या दशा ॥ ३८॥
तत्कारलस्थित्तगृहादिषु सर्वभेषु चक्रप्रमाणदलवत्सरसंयुतेषु ।
वीर्यान्वितेषु शुभदृष्टियुतेषु सौख्यं नीचारिपापयुतभेषु वदन्त्यनिष्टम् ॥ ३९॥
अथ महादशविशेषः ।
यत्तारांशगतः शशी तदधिपेनालोकितो वा युत-
स्तेषां चक्रदशा विशेषफलदा वक्षयामि तचक्रजम्
देहे पापयुते तु रोगमाधिकं जीवे तु जीवभ्रमं
दद्याद्यनयोः सहाबलयुतिर्मृत्युं दशायां नृणाम् ॥ ४०॥
अथान्तर्दशाविशेषफलम् ।
पापो विलग्नगृहगो यदि तद्दशायं पापापहतसमये बहुशोकरोगम् ।
वित्तक्षयं नृसपत्नभयं नराणं सौम्यस्य मिश्रमखिलं प्रवदन्ति सन्तः ॥ ४१॥
लग्नाधिपद्शाकाले मन्दभुक्तौ धनक्षयम् ।
इष्टबन्धुविरोधश्च भविश्यति न संशयः ॥ ४२॥
धनाधिपः पापखगो(पापस्वगो)यदि स्याच्छन्यारभोगीशदिनेष्वराणाम् ।
अन्तर्दशायां धननाशमाहुः पापान्विते तद्भवने तथैव ॥ ४३॥
धनान्वितः पापखगस्तदीशः स्यात्तदशायां क्षितिपालकोपात् ।
मानार्थनाशं निगलं नराणां स्थानच्युतिं मित्रविरोधमेति ॥ ४४॥
पापग्रहे विक्रमभावनाथे पापवियच्चराणाम् ।
अन्तर्दशायामरिशत्रुचोरैर्दुःखं समायाति शुभान्विते वा ॥ ४५॥
दुश्चिक्यह्भावाधिपदायकाले मन्दारभोगिध्वजभानुभुक्तौ ।
नाशं वदेत्तत्र सहोदराणां भवेद्विशेषात्सहजैर्विरोधः ॥ ४६॥
क्षेत्राधिनाथस्य शुभेतरस्य पाके तु पापग्रहभुक्तिकाले ।
स्थानच्युतिं बन्हुजनैर्विरोधं कृष्यादिगोवित्तविनाशमाहुः ॥ ४७॥
पापापहारसमये सुतराशिपस्य पाके नृपालभयमिष्तसुतार्तिमाहुः ।
सौम्यापहारसमये सुतवित्तलाभमुर्विशबन्धुजनलालनमिष्टसिद्धिम् ॥ ४८॥
षष्ठेशपाकसमये तु शुभेतराणां भुक्तौ नृपानलभयं व्यसनं च रोगम् ।
पाके कलत्रगृहपस्य खलापहरे पलीविनाशमटनं च विदो वदन्ति ॥ ४९॥
रन्ध्रस्वामिदशागमे रिपुभयं पापापहरे नृणा-
भायुर्वित्तयशोविनाशमटनं स्थानच्युतिं वा वदेत् ।
पाके धर्मगृहाधिपस्य भरणं पित्रोरधर्मायतिं
भुक्तौ पापवियचरस्य निगलप्राप्तिं च वित्तक्षयम् ॥ ५०॥
कर्मेशस्य खलस्य पाकसमये भुक्तौ यदा पापीना-
मिष्टातिं पदविच्युतिं सुखयशोहानिं च वित्तक्षयम् ॥
मन्दारार्कफणिशभुक्तिसमये लाभेशदाये सुखं
कृष्यादिप्रविनायनं नृपभयं वित्तस्य नाशं विदुः ॥ ५१॥
व्ययेशदाये रविमन्दभौमभुक्तौ कलत्रात्मजबन्धुवैरम् ।
बलक्षयं मानधनक्षयं च फणीशभुक्तौ विषभीतिमाहुः ॥ ५२॥
अन्योन्यषष्ठाष्तमपाकभुक्तौ पदच्युतिं वा मरनं नराणाम् ।
एकस्थयोरन्तरदायकाले मृत्युं वदेद् दुर्बलशालिनोस्तु ॥ ५३॥
क्रूरग्रहदशाकले क्रूरस्यान्तर्दशागमे ।
मरणं तस्य जातस्य भविश्यति न संशयः ॥ ५४॥
क्रूरराशिगताः पापाः शत्रुखेटनिरीक्षिताः ।
शत्रुखेचरसंयुक्तास्तदशायां मृतिर्भवेत् ॥ ५५॥
दशाधिपस्य यः शत्रुस्तस्य भुक्त्यन्तरान्तरे ।
मृत्युकालो भवेन्नूनं पापखेटस्य नीश्चयः ॥ ५६॥
स्वोचादिजन्यमशुभस्य दशाप्रवेशे भावादिजं फलमशोभनपाकमध्ये ।
इष्टयुद्भवं सकलपापवियचराणां पाकावसानसभये फलमाहुरार्याः ॥ ५७॥
पाकस्यादौ भावजन्यं शुभानां तत्तद्राशिस्थानजं पाकमध्ये ।
दायस्यान्ते दृष्टसजातमेवं सर्वे तारापाकभेदं वदन्ति ॥ ५८॥
अथान्तर्दशाफलाणि ।
अथ तरणिदशायां चौर्यमुचाटनाद्यैर्धनमनलचतुष्पात्पीडनं नेत्रतापम् ।
उदरदशनरोगः पुत्रदारैर्वियोगो गुरुजनपितृनाशो भृत्यगोवित्तहानिः ॥ ५९॥
दशा दशाहता मासाश्वैकस्थानं विना परे ।
एकस्थानं त्रिगुणितं दिनान्यन्तर्दशाक्रमः ॥ ६०॥
अथ रविदाशायांअन्तर्दशाफलानि ।
द्विजभूपतिशास्त्राद्यैर्धनप्राप्तिं मनोरुजम् ।
विदेशवनसङ्चारं भानोरन्तर्गते स्वौ ॥ ६१॥
बन्धुमित्रजनैरर्थं प्रमादं मित्रसज्जनैः ।
पाण्डुरोगादिसन्तापं चन्द्रे भानुदशान्तरे ॥ ६२॥
रत्नकाङ्चनवित्ताप्तिं राजस्नेहं शुभावहम् ।
पैत्यरोगादिसङ्चारं कुजे भानुदशान्तरे ॥ ६३॥
अकाले मृत्युसन्तापं बन्धुगर्गारिपीडनम् ।
पदच्युतिं मनोदुःखं रवेरन्तर्गतेऽप्यहौ ॥ ६४॥
सर्वपूज्यं सुताद्वित्तं देवब्राह्मणपूजनम् ।
सत्कर्माचारसद्रोष्टी रवेरन्तर्गते गुरौ ॥ ६५॥
सर्वशत्रुत्वमालस्यं हीनवृत्तिं भनोरुजम् ।
राजचोरभयप्राप्तिं रवेरन्तर्गते शनौ ॥ ६६॥
बन्धुपीडां मनोदुःखं सन्नोस्साहं धनक्षयम् ।
किङ्चित्सुखमवानोति रवेरन्तर्गते बुधे ॥ ६७॥
कण्ठरोगं मनस्तापं नेत्ररोगमथापि वा ।
अकालमृत्युमाप्नोति रवेरन्तर्गते ध्वजे ॥ ६८॥
जले द्रव्याप्तिमायासं कुस्त्रीजननिषेवणम् ।
शुष्कसंवादमाप्नोति रवेरन्तर्गते भृगौ ॥ ६९॥
दशादौ दिननाथस्य पितृरोगं धनक्षयम् ।
सर्ववाधाधरं मध्ये दशान्ते सुखमाप्नुयात् ॥ ७०॥
स्वोच्चे नीचनवांशगस्य तरणेर्दयेऽपवादं भयं
पुत्रस्त्रीपितृवर्गबन्धुमरणं कृष्यादिवित्तक्षयम् ।
नीचे तुङ्गनवांशगस्य च रवेः पाके नृपालश्रुयं
सौख्यं याति दशावसानसमये वित्तक्षयं वा मृतिम् ॥ ७१॥
अथ चन्द्रदशाफलम् ।
हिमकिरणदशायां मन्त्रदिवद्विजाप्तिर्युवतिजनविभूतिः स्त्रीधनक्षेत्रसिद्धिः ।
कुसुमवसनभूषागनानाधनाढ्यो भवति बलविरोधे चार्थहा वातरोगी ॥ ७२॥
अथ चन्द्रदशायामन्तर्दशाफलानि ।
विद्यास्त्रीगीतवाद्येष्वभिरतिशमनं पटुवस्त्रादिसिद्धिं
सत्सङ्गं देहसौख्यं नृपसचिवचमूनायकैः पूज्यमानम्
सत्कीर्तिं तीर्थयात्रां वितरति हिमगुः पुत्रामित्रैः प्रियं च ।
क्षोणीगोवाजिलाभं बहुजनविभवं स्वे दशान्तर्विपाके ॥ ७३॥
रोगं विरोधबुद्धि च स्थाननाशं धनक्षयम् ।
मित्रभ्रातृवशात् क्लेशं चन्द्रस्यान्तर्गते कुजे ॥ ७४।
रिपुरोगभयात् क्लेशं बन्धुनाशं धनक्षयवम् ।
न किञ्चित्सुखमाप्नोति राहौ चन्द्रदशान्तरे ॥ ७५॥
यानादिविविधार्थाप्तिं वस्त्राभरणसम्पदः ।
यत्नात् कार्यमवाप्नोति जीवे चन्द्रदशान्तरे ॥ ७६॥
मातृपीडा मनोदुःखं वातपैत्त्यादिपीडनम् ।
स्तब्धवागरिसंवादं शनौ चन्द्रदशान्तरे ॥ ७७॥
मातृवर्गाद्धनप्राप्तिं विद्वज्जनसमाश्रयम् ।
वस्त्रभूषणसप्राप्तिं बुधे चन्द्रदशान्तरे ॥ ७८॥
स्त्रीरोगं बन्धुनाशं च कुक्षिरोगादिपीडनम् ।
द्रव्यनाशमवाप्नोति केतौ चन्द्रदशान्तरे ॥ ७९॥
स्त्रीधन कृषिपश्वादिजलवस्त्रागमं सुखम् ।
मातृरोगभवाप्नोति भृगौ चन्द्रदशान्तरे ॥ ८०॥
नृपप्रायकमैश्च्वर्यं व्याधिनाशं रिपुक्षयम् ।
सौख्यं शुभमवाप्नोति रवौ चन्द्रदशान्तरे ॥ ८१॥
आदौ भावफलं मध्ये राशिस्थानफलं विदुः ।
पाकावसानसमये चाङ्गजं दृष्तिजं फलम् ॥ ८२॥
अथ कुजदशाफलम् ।
पाके भूमिसुतस्य शस्त्रहुतभूवाहनाद्यैर्घनं
भैषज्यान्नपङ्चनैश्च विविधैः क्रौर्यैर्धनस्थानगमम् ।
पित्तासृग्ज्वरपीडनं तु सततं नीचाङ्गनासेवनं
विद्वेषं सुतदारबन्धुगुरुभिर्दुष्टान्नभोगं विदुः ॥ ८३॥
अथ कुजदशायामन्तर्दशाफलानि ।
उष्णाधिक्यं सुहृद्द्वेषं मातृपीडां नृपाद्भयम् ।
सर्वकार्यर्थनाशं च कुजे कुजदशान्तरे ॥ ८४॥
नृपचोरादिभीतिञ्च धनधान्या दनाशनम् ।
दुष्टकर्मादिसंसिद्धि राहौ कुजदशान्तरे ॥ ८५॥
द्विजमूलाद्धनपाप्तिं भूलाभं च निरामयम् ।
सम्पूजनञ्जयं सौख्यं गुरौ कुजदशान्तरे ॥ ८६॥
बहुदुःखाकरव्याधिमरिचोरनृपैर्भयम् ।
धनक्षयमवाप्नोति शनौ भौमदशान्तरे ॥ ८७॥
वैश्यवर्गाद्धनप्राप्तिं गृहगोधान्यसम्पदः ।
शत्रुबाधां मनक्लेशं बुधे कुजदशान्तरे ॥ ८८॥
कुक्षिरोगेण सन्तापं बन्धुसोदरपीडनम् ।
दुष्टमानषशत्रुत्वं केतौ कुजदशान्तरे ॥ ८९॥
कलत्रभूषणं वस्त्रं बन्धुवर्गाद्धनागमम् ।
स्त्रीजन्द्वेष्यतद्रोष्ठी शुक्रे बौमदशान्तरे ॥ ९०॥
अपवादं गुरुद्वेषं कलहं व्याधिपीडनम् ।
आत्मवर्गान्मनोदुःखं रवौ भौमदशान्तरे ॥ ९१॥
नामावित्तसुखं वस्त्रमुक्तामणिविभूषणम् ।
निद्रालस्यमथोद्वेगं चन्द्रे भौमदशान्तरे ॥ ९२॥
भूनन्दनस्य पाकादौ मानहानिर्धनक्षयः ।
मध्ये नृपाग्निचोरद्यैर्भीतिश्चान्ते तथ भवेत् ॥ ९३॥
उच्चस्थितस्य धरणीतनयस्य पाके नीचांशगस्य मरणं सुतसोदराणाम् ।
नीचे तु तुङ्गभवनांशगतस्य दाये कृष्यादिभिधनधान्यसुखं वदन्ति ॥ ९४॥
राहुदशाफलम् ।
सौख्यादिवित्तस्थितिनाशनं च कलत्रपुत्रादिवियोगदुःखम् ।
अतीव रोगं परदेशवासं विवादबुद्धि कुरुते फणिशः ॥ ९५॥
अथ राहुदशायामन्तर्दशाफलानि ।
जायारोगं विवादं च बुद्धिनाशं धनक्षयम् ।
दूरदेशाटनं दुःखं राहौ राहुदशान्तरे ॥ ९६॥
व्याधिशत्रुविनाशं च राजप्रीतिं धनागमम् ।
पुत्रलाभं तथोत्साहं गुरौ राहुदशान्तरे ॥ ९७॥
वातपित्तकृतं रोगं बन्धुमित्रादिपीडनम् ।
दूरदेशनिवासं च शनौ राहुदशान्तरे ॥ ९८॥
मित्रबन्धुकलत्रादिसंयोगं च धनागमम् ।
राजप्रीतिभवाप्नोति बुधे राहुदशान्तरे ॥ ९९॥
चौर्यं च मानहानि च पुत्रनाशं पशुक्षयम् ।
सर्वोपद्रवभाप्नोति केतौ राहुदशान्तरे ॥ १००॥
विदेशाद्वाहनप्राप्निश्छात्रचामरसम्पदः ।
रोगारिबन्धुभीतिः स्यात् शुक्रे राहुदशान्तरे ॥ १०१॥
दानधर्मरतिः प्रीतिः सर्वोपद्रवनाशनम् ।
संसाररोगसङ्चारो रवौ राहुदशान्तरे ॥ १०२॥
भोगसम्पद्भवेन्नित्यं सस्यवृद्धिधर्नागमः ।
स्वबन्धुजनसंवादश्चन्द्रे राहुदशान्तरे ॥ १०३॥
सर्वोपद्रवसंयोगः सर्वकार्येषु मूढता ।
वित्तविस्मृतिदोषः स्यात् कुजे राहुदशान्तरे ॥ १०४॥
कुलीरगोमेषयुतस्य राहोर्दशाविपाके धनधान्यलाभम् ।
विद्याविनोदं नृपमाननं च कलत्रनृत्यादिसुखं वदन्ति ॥ १०५॥
पाथोनमीनाश्वयुतस्य राहिर्दशाविपके सुतदारलाभम् ।
देशाधिपत्यं नरवाहनं च दशावसाने सकलं विनाशम् ॥ १०६॥
मृगपतिवृषकन्याकर्कटस्थस्य राहोर्र्भवति च परिपाके राजतुल्यो नृपो वा ।
गजतुरगचमूपः सर्वजीवोपकारी बहुधनसुखशीलः पुत्रदारानुरक्तः ॥ १०७॥
दशादौ दुःखमाप्नोति दशाम्ध्ये महत्सुखम् ।
द्शान्ते फणिनाथस्य पितृनाशं पदच्युतिम् ॥ १०८॥
अथ गुरुदशाफलम् ।
स्थानप्राप्तिं वित्तयानाम्बराप्तिं राजस्नेहं चित्तशुद्धि विभूक्तिम् ।
ज्ञानाचारं पुत्रदारादिलाभं देवाचार्यः स्वे विपाके करोति ॥ १०९॥
अथ गुरुदशायामन्तर्दशाफलानि ।
नृपप्रीति तथोत्साहं सर्वकार्यार्थसाधनम् ।
विद्याविज्ञानमाप्नोति गुरौ गुरुदशान्तरे ॥ ११०॥
द्वेषबुद्धिं मनस्तापं पुत्रमूलाद्धनव्ययम् ।
कर्मनाशभवाप्नोति शनौ जीवदशान्तरे ॥ १११॥
वैश्यवर्गेण वित्ताप्तिं राजस्नेहं सुखावहम् ।
सत्कर्माचरसिद्धिं च बुधे जीवदशान्तरे ॥ ११२॥
मुक्ताप्रवालभूषाप्तिस्तीर्थयात्रा धनायतिः ।
गुरुभूपवशादाप्तिः केतौ जीवदशान्तरे ॥ ११३॥
वाहनादिधनप्राप्तिः छत्रचामरवैभवम् ।
स्त्रीपीडा जनविद्वेषो भृगौ जीवदशान्तरे ॥ ११४॥
शत्रुनाशं जयं सौख्यं चित्तोत्साहं धनागमम् ।
राजप्रसादमारोग्यं रवौ जीवदशान्तरे ॥ ११५॥
स्त्रीकृतोत्साहमैश्चर्य राजप्रीतिः सुखावहम् ।
दिव्यवस्त्रविभूषाप्तिं चन्द्रे जीवदशान्तरे ॥ ११६॥
कर्मनाशं च सङ्चारं ज्वरतापं महद्भयम् ।
वननाशं निरुत्साहं कुजे जीवदशान्तरे ॥ ११७॥
सर्वक्लेशभयं रोगं सर्वोपद्रवकारणम् ।
धनच्छेदभवाप्नोति राहौ जीवदशान्तरे ॥ ११८॥
नीचांशोपगतः स्वतुङ्गभवने जीवस्य पाके भयं
चोरारातिनृपैः कलत्रतनयद्वेषं करोत्यश्रियम् ।
नीचे तुङ्गनवांशको यदि महाराजप्रसादं सुखं
विद्याबुद्धियशोधनादिविभवं देशाधिपत्यं तु वा ॥ ११९॥
अथ शनिदशाफलम् ।
शनेर्दशायामजगर्दभोष्द्रवृद्धाङ्गनापक्षिकुधान्यलाभम् ।
क्षेणीपुरग्रामजनाधिकाराद्धनं वदेन्निचकुलाधिपत्यम् ॥ १२०॥
अथ शनेर्दशायामन्तर्दशाफलानि ।
क्लेशादिभिर्व्याधिनिपीडनं च मार्सर्यमानैर्बहुशोकतापम् ।
भूपालचोरैर्धनधान्यनाशं करोति मन्दः स्वदशापहारे ॥ १२१॥
रवितनयदशायां स्वापहारे विरोधं नरपति जनकिपं प्रेष्यवृद्धाङ्गनाप्तिम् ।
पशुगणविषभीतिं पुत्रदारादिपीडां ज्वरपवनकफातिं शूलरोगं वदन्ति ॥ १२२॥
सुखवित्तयशोवृद्धिं सत्कर्माचारसम्पदः ।
कृषिवाणिज्यमाप्नोति बुधे मन्ददशान्तरे ॥ १२३॥
वातपित्तकृतं रोगं कलहं नीचदुर्जनैः ।
दुःस्वप्नभयमाप्नोति केतौ मन्दद्शान्तरे ॥ १२४॥
बन्धुस्नेहं जनप्रीतिं जायावित्तधनायतिम् ।
कृष्यादिसुखमाप्नोति भृगौ मन्ददशान्तरे ॥ १२५॥
पुत्रदारविनाशं च् नृपचोरादिपीडनम् ।
मनोभयमवाप्नोति भानौ मन्ददशान्तरे ॥ १२६॥
गुरुस्त्रीमरणं दुःखं बन्धुद्वेषं धनागमम् ।
वातरोगमवाप्नोति चन्द्रे मन्ददशान्तरे ॥ १२७॥
स्थानच्युतिं महारोगं नानाविघमनोभयम् ।
सहोदरसुहृत्पीडां भौमे मन्दद्शान्तरे ॥ १२८॥
स्र्वाङ्गरोगसन्तापं चोरारिनृपपीडनम् ।
धनच्छेदमवाप्नोति राहौ मन्ददशान्तरे ॥ १२९॥
देवभूदेवभक्तिं च राजप्रीतिं महत्सुखम् ।
स्थानलाभमवाप्नोति गुरौ मन्ददशान्तरे ॥ १३०॥
स्वोच्चे नीचनवांशगो रविसुतः कुर्वीत सौख्यं फलं
पाकादौ तु दशावसानसमये कष्टं फलं प्राणिनाम् ।
तुङ्गांशोपगते स्वनीचभवने पाकावसाने सुखं
दायादौ रिपुचोरभीतिमधिकं दुःखं विदेशाटनम् ॥ १३१॥
अथ बुधदशाफलम् ।
स्वकीयदाये गुरुबन्धुमित्रैरर्थार्जनं कीर्तिसुखं करोति ।
दैत्यं च सत्कर्महिरण्यपुण्यैर्धनायतिं वातरुजं कुमारः ॥ १३२॥
अथ बुधदशायामन्तर्दशाफलानि ।
विचित्रगृहवित्ताप्तिं राजप्रीतिं महत्सुखम् ।
सर्वकार्यार्थसंसिद्धिं बुद्धे सौम्यदशान्तरे ॥ १३३॥
बन्धुपीडां मनस्तापं सौख्यहानिमरेर्भयम् ।
कार्यनाशभवाप्नोति केतौ सौम्यदशान्तरे ॥ १३४॥
गुरुदेवाग्निविप्रेषु दानं धर्मप्रियं तपः ।
धनवस्त्रविभूषाप्तिं शुक्रे सौम्यदशान्तरे ॥ १३५॥
वस्त्रभूषणवित्ताप्तिं राजप्रीतिं महत्सुखम् ।
धर्मश्रवणमाप्नोति रवौ बुधदशान्तरे ॥ १३६॥
रोगारातिजनद्वेषं सर्वकार्यार्थनाशनम् ।
चतुष्पाद्भयमाप्नोति चन्द्रे सौम्यदशान्तरे ॥ १३७॥
रोगारेभयनाशं च पुण्यकर्मफलं यशः ।
राजप्रीतिमवाप्नोति कुजे सौम्यदशान्तरे ॥ १३८॥
मित्रबन्धुधनप्राप्नोति सुखविद्याविभुषणम् ।
राजप्रीतिमवाप्नोति राहौ सौम्यदशान्तरे ॥ १३९॥
इष्टबन्धुगुरुद्वेषं धनलाभं सुतायतिम् ।
रोगादिभयमाप्नोति गुरौ सुअम्यदशान्तरे ॥ १४०॥
धर्मसत्कर्मवित्ताप्तिं सुखमल्पजनाधिपैः
कृष्यादिनाशमाप्नोति शनौ सौम्यदशान्तरे ॥ १४१॥
उच्चराशिगतः सौम्यो नीचांशकसमन्वितः ।
करोति कर्मवैकल्यं निजदाये च वर्धनम् ॥ १४२॥
नीचस्थानगतश्चान्द्रिस्तुङ्गांशकसमन्वितः ।
पाकादौ विफलं सर्वं शुभमन्ते प्रयच्छति ॥ १४३॥
अथ केतुदशाफलम् ।
दीनो नरे भवति बुद्धिविवेकनष्टो
नानाऽमयाकुलविवर्ज्द्धितदेहतापः ।
पापादिवृद्धिरतिकष्टचरित्रयुक्तः
किङ्चित्सुखी च शिखिनः परिपाककाले ॥ १४४॥
अथ केतुदशायामन्तर्दशाफलानि ।
कलत्रपुत्रमरणं सुखवित्तविनाशनम् ।
रिपुभीतिमबाप्नोति केतौ केतुदशान्तरे ॥ १४५॥
स्त्रीपुत्ररोगकलहं बन्धुमित्रादिनाशनम् ।
स्वरातिसारमाप्नोति शुक्रे केतुदशान्तरे ॥ १४६॥
मनोभङ्गं शरीरर्ति विदेशगमनं भयम् ।
सर्वकार्यविरोधं च रवौ केतुदशान्तरे ॥ १४७॥
दारपुत्रजनालस्यं धानधान्यविनाशनम् ।
मन्स्तापमवाप्नोति चन्द्रे केतुदशान्तरे ॥ १४८॥
पुत्रदारानुजद्वेषं रोगारिनृपपीडनम् ।
बन्धुनाशमवाप्नोति कुजे केतुदशान्तरे ॥ १४९॥
राजचोरभयं दुःखं सर्वकार्यविनाशनम् ।
दुष्टमानवसंवादं राहौ केतुदशान्तरे ॥ १५०॥
देवद्विजगुरुप्रीतिं राजस्नेहं निराम्यम् ।
भूपुत्रलाभमाप्नोति गुरौ केतुदशान्तरे ॥ १५१॥
मनोभयं मनस्तापं स्वबन्धुजनविग्रहम् ।
देशत्यागमवाप्नोति शनौ केतुदशान्तरे ॥ १५२॥
बन्धुमित्रादिसंयोगं पुत्रदारधनागमम् ।
विद्यासुखमवाप्नोति बुधे केतुदशान्तरे ॥ १५३॥
शुभग्रहयुतः केतुः स्वदशायां सुखप्रदः ।
यदि शोभनसन्दृष्तः करोति विपुलं धनम् ॥ १५४॥
सपापः कुरुते केतुः स्वपाके दुष्टमानवैः ।
भीतिं कृतिमरोगाध्यैर्व्यसनं धननाशनम् ॥ १५५॥
दशादौ गुरुबन्ध्वार्ति दशामध्ये धनायतिम् ।
दशान्ते सुखमाप्नोति केतोर्दयफलं त्रिधा ॥ १५६॥
अथ शुक्रदशाफलम् ।
स्त्रीपुत्रवित्ताप्तिमतीव सौख्यं युगन्धमाल्याम्बरभूषणाप्तिम् ।
यानादिभाग्यं नरपालतुल्यं यशः स्वपाके भृगुजः करोति ॥ १५७॥
अथ शुक्रदशायामन्तर्दशाफलानि ।
शव्यास्त्रीधनवस्त्राप्तिं धर्मादिसुखसम्पदः ।
रिपुनाशं यशोलाभं शुक्रे शुक्रदशान्तरे ॥ १५८॥
मुर्धोदराक्षिरागं च कृषिगोवित्तनाशनम् ।
नृपक्रोधमवाप्नोति रवौ शुक्रदशान्तरे ॥ १५९॥
शीर्षोष्णरोगसन्तापं कामादिरिपुपीडनम् ।
किङ्चिर् सुखमवाप्नोति चन्द्रे शुक्रदशान्तरे ॥ १६०॥
पित्तासृगक्षिरोगं च चित्तोत्साहं धनागमम् ।
दारमूलाभमाप्नोति कुजे शुक्रदशान्तरे ॥ १६१॥
नीलवस्तुधनप्राप्नोति बन्धुद्वेषं सुहृद्भयम् ।
अग्निबाधामवाप्नोति रहौ शुक्रदशान्तरे ॥ १६२॥
धनवस्त्रविभूषाप्तिं धर्मचारं सुखावहम् ।
स्त्रीसुतार्ति च वैषम्य गुरौ शुक्रदशान्तरे ॥ १६३॥
वृद्धस्त्रीजनसम्भोगं गृहक्षेत्रधनागमम् ।
शत्रुनाशमवाप्नोति मन्दे शुक्रदशान्तरे ॥ १६४॥
सुतमित्रसुखार्थाप्ति नृपप्रीतिं महत्सुखम् ।
सुभमारेज्यमाप्नोति बुधे शुक्रदशान्तरे ॥ १६५॥
कलहं बन्धुनाशं च शत्रुपीडां मनोभयम् ।
धनच्छेदमवाप्नोति केतौ शुक्रदशान्तरे ॥ १६६॥
उच्चराशिं गतः शुक्रो नीचांशकसमन्वितः ।
स्वपाके धन्ननाशं च कुर्वीत पदविच्युतिम् ॥ १६७॥
भार्गवो नीचराशिस्थः स्वोच्चांशकसमन्वितः ।
स्वदाये कृषिवाणिज्यं धनलाभं प्र्यच्छति ॥ १६८॥
दशाफले विशेषता ।
सम्यग्बलिनः स्वतुङ्गभागे सम्पूर्णा बलवर्जितस्य रिक्ता ।
नीचाम्शगतस्य शत्रुभगो ज्ञेयाऽनिष्टफला दशा प्रसूतौ ॥ १६९॥
तत्तद्भावार्थलामेशदशास्वन्तर्दशासु च ।
तत्तद्भावविनाशः स्यात् तद्युतेइतकारकैः ॥ १७०॥
त्रिकोणधनलाभस्था बलिनो यदि शोभनाः ।
स्वदशान्तर्दशाकाले कुर्वन्ति विपुल्कं सुखम् ॥ १७१॥
अस्टादशाध्यायिनि सर्वहोरासमुद्धृते जातकपरिजाते ।
राशिस्वरूपादि दशाफलान्तं प्रोक्तं मया भानुमुखप्रसादात् ॥ १७२॥
इति श्रीनव्ग्रहकृपया वैद्यनाथविरचिते जातकपारिजातेऽष्टादशोऽध्यायः ॥ १८॥