प्रमुखा विकल्पसूचिः उद्घाट्यताम्

जातकपारिजातः/प्रथमद्वितीयभावफलाध्यायः

  1. राशिशिलाध्यायः
  2. ग्रहनामस्वरूपगुणभेदाध्शाशः
  3. वियोनिजन्माद्यध्यायः
  4. अरिष्टाध्यायः
  5. आयुर्दायाध्यायः
  6. जातकभङ्गाध्यायः
  7. राजयोगाध्यायः
  8. द्व्यादिग्रहयोगाध्यायः
  9. मान्द्यब्दादिफलाध्यायः
  10. अष्टकवर्गाध्यायः
  11. प्रथमद्वितीयभावफलाध्यायः
  12. तृतीयचतुर्थभावफलाध्यायः
  13. पञ्चमषष्ठभावफलाध्यायः
  14. सप्तमाष्टमनवमभावफलध्यायः
  15. दशमैकादशद्वादशभावफलाध्यायः
  16. स्त्रीजातकाध्यायः
  17. कालचक्रदशाध्यायः
  18. दशापहलाध्यायः
  19. ग्रन्थोपसंहारः


होरलग्नात्मुख्यप्रभवशुभफलादीनि सर्वाणि पुंसां
चत्तद्भावोद्भवानि ह्यचरबलवशाद्यार्न नानि प्रवचिम् ।
ये ये भावाः सितज्ञामर्गुरुपतिभिः संयुता वीक्षिता वा
नान्यैर्दष्टा ज युक्ता यादि शुभफलदा मूर्तियावादिदेषु ॥ १॥

तन्वादिभावेषु शुभोदयेषु तद्भावनाथोपगतेक्षितेषु ।
तदुक्तभाबस्य समृद्धिरुक्ता नपापखेटेक्षितसंयुतेषु ॥ २॥

नीचस्थो रिपुराशिस्थः खेटो भावविनाशकः ।
मूलस्वतुङ्गमित्रस्थो भाववृद्धिकरो भवेत् ॥ ३॥

यद्भावनाथो रिपुरिष्फरन्ध्रे दुःस्थानपो तद्भवनस्थित॥।

तद्भावनाशं कथयन्ति तज्ज्ञाः शुभग्रहेण ॥॥॥॥॥॥। ॥ ४॥

यद्भावपे केन्द्रगते विलग्नात्त्रिकोणगे वा यदि सौम्यदृष्टे ।
तुङ्गादिवर्गोपगते बलाढ्ये तद्भावपुष्टिं फलमाहुरार्याः ॥ ५॥

तत्तद्भावत्रिकोणे सुखमदनगृहे वाऽस्पदे सौम्ययुक्ते
पापानां दृष्टेहीने भवनपसहिते पापखेटैरयुक्ते ।
भावानां पुष्टिमाहुः सकलशुभकरं चान्यथा चेत्प्रणाशं
मिश्रं मिश्रग्रहेन्दैरखिलमापि तथा मूर्तिभावादिकानाम् ॥ ६॥

नाशस्थानगतो दिवाकरकरच्छग्रस्तु यद्राशिपो
नीचारातिगतोऽथवा यदि शुभैः खेटैर्युक्तेक्षितः ।
तद्रावस्य विनाशनं मुनिगणाः शंसन्ति खेटैर्युतो
यद्यत्रापि फलप्रदो नहि तथा मूत्यार्दीभानां क्रमात् ॥ ७॥

दुःस्थाने वाअरिगे मूढे दुर्बले भावनायके ।
भावस्य सम्पदं कर्तुं न शक्ता भावमाश्रिताः ॥ ८॥

दुष्टस्थितो वापि यदा नभोगः पापोऽरिनीचांशकसंयुतो यः ।
स्वतुङ्गमित्रांशकराइयुक्तः शुभेक्षितो वा यदि शोभनः स्यात् ॥ ९॥

भवेशाक्रन्तराशीशे दुःस्थे भावस्य दुर्बलम् ।
स्वोव्च्चमित्रस्वराशिस्थे भावपुष्टिं वदेद् बुधः ॥ १०॥

वद्भावलाभधनविक्रमराशियाता यद्भावनाथसुहृदश्च तदुच्चनाथाः ।
तद्रभावपुष्टिबलमम्बरचारिणस्ते कुर्वन्ति मूढरिपुनीचविवर्जिताश्चेत् ॥ ११॥

भाविंशतुल्यः स्वलु वर्तमानो भावोद्भवं पूर्णफलं विघत्ते ।
भावोनके चाप्यधिके च खेटे त्रैराशिकेनात्र फलं विचार्यम् ॥ १२॥

अथ तनुभावफलम् ।

शरीरवर्णाकृतिलक्षणानि यशोगुणस्थानसुखासुखानि ।
प्रवासतिजोबलदुर्बलानि फलानि लग्नस्य वदन्ति सन्तः ॥ १३॥

नरश्विरायुर्नृपपूजितः सुखी लग्ने भवेत्सौम्यगृहं यया तथा ।
लग्ने यदा स्वामिनिरीक्षिते धनी कुशाग्रबुद्धिः कुलकीर्तिंवर्द्धनः ॥ १४॥

लग्नांशपाद्वीर्ययुतग्रहाद्वा तनुस्वरूपाकृतिलक्षणानि ।
वर्ण वदेच्चान्द्रनवांशनाथाद्विलग्नभात्सर्वशुभाशुभानि ॥ १५॥

त्रिकोणकेन्द्रे यादि लग्ननाथे शुभान्विते शोभनवीक्षिते वा ।
शुभग्रहागारगते बलाढ्ये चतुःसमुद्रान्तयशः समेति ॥ १६॥

होराधिनाथे रिपुरन्ध्ररिष्फे पापान्विते पापनिरीक्षिते वा ।
पापग्रहाणां भवनोपयते जातोऽप्रकाशो भवतीह भर्त्यः ॥ १७॥

कीर्तिस्थानपतौ विलग्नभवने जातः स्वयं कीर्तिमान् ।
वित्तस्थे तु विशेषकीतिसहितः स्वोच्चादिवर्गान्विते ।
दुःस्थे चङ्चलयात्रया हततनुर्जातोऽथवा दुर्जनः
केन्द्रे कोणगते शुभग्रहयुते यात्रासुखं जायते ॥ १८॥

होरास्वामिनि पङ्चमे यदि सुतस्थानेशयुक्तेऽथवा
भाग्ये वा यादि भाग्यपेन सहिते लग्ने यशस्वी पिता ।
भ्रात्रृस्थानपतौ विलग्नगृहगे तत्कारकभ्रातृपा-
वेकस्थौ कलशालिनौ च यदि वा तत्सोदरः कीर्तिसान् ॥ १९॥

विद्याधिपे वा यदि चन्द्रसूर्ना लग्ने सुखे लग्नपासंयुते वा ।
बलान्विते पापदृशा विहीने विद्यायशस्वी भवति प्रजातः ॥ २०॥

धर्मोदयेशौ नवमोदयस्थौ धर्मोदयेशौ तनुधर्मगौ वा ।
सुरेन्द्रवन्द्येक्षितसंयुतौ चेत् समेति जातश्चिरकालभाग्यम् ॥ २१॥

लग्नाधिपस्य व्ययगे तदुच्चमित्रे सुहृत्तङ्गस्वगेक्षिते वा ।
तद्राशिगे वा यदि मित्रखेटे तस्य स्थितिर्जन्मवसुन्धरायाम् ॥ २२॥

लग्नेशाद्व्ययपे विलग्नपरिपौ नीचेऽथवा दुर्बले
जातो याति विदेशमिष्टदनुजाचार्येण दृष्टे यदि ।
तत्रैव स्थितिरन्त्यपे राविकरच्छन्ने विलग्नाधिपा-
दल्पग्नामचरो बलिन्यापि धनप्रामाधिवासो भवेत् ॥ २३॥

होरेशाद्वययपे विलग्नभवनात् केन्द्रत्रिकोणस्थिते
मित्रस्योषगृहोपगे शुभयुते पार्श्वद्वये मानवः ।
चेतोरम्यमहीचरो दिवचराचार्येन्दुशुक्रेक्षिते
दिव्यक्षेत्रमुपैति जन्मधरणीवासस्तदर्थे रिपौ ॥ २४॥

विदेशभाग्यं चरभे विलग्ने चरे तदीशे चरखेटदृष्टे ।
स्थिते स्वदेशे बहुभाग्ययुक्तः स्थिरहैर्भूरिधनान्वितः स्यात् ॥ २५॥

होराधीशे पापस्वेटे रिपुस्थे पापक्षेत्रे भानुपुत्रेण युक्ते ।
शूद्रप्रायो राहुणा केतुना वा जातश्चाण्डालोऽथवा नीचतुल्यः ॥ २६॥

लग्नाधिपे शोभनराशियुक्ते बलोपयते तनुपुष्टिमेति ।
लग्नस्थखेटे रिपुणिचभागे दुःस्थानपे देहसुखं न याति ॥ २७॥

विलग्नदर्शी तनुपो विलग्नगस्त्रयोऽपि षष्ठाष्टमरिष्फराशिपाः ।
सपत्ननीचोपगताश्च दुर्बला यदि स्वपाके न फलं प्रकुर्युः ॥ २८॥

लग्ने जलर्क्षे शुभखेचरेन्दैर्युक्ते तनोः स्थौल्यमुदाहरन्ति ।
लग्नाधिपे तोयरव(स्व)गे बलाढ्ये सौम्यान्विते तत्तनुपुष्टिमाहुः ॥ २९॥

लग्नाधिपे नाशगते तु शुष्कराशौ तनोः कष्टमतीव कृच्छ्रम् ।
लग्नांशपस्थांशपराशिनाथः शुष्कग्रहः स्यात्तनुशुष्कमाहुः ॥ ३०॥

मध्यस्थे रिपुस्वेटयोस्तनुपतौ जातोऽरिभीतो भवेत्
केतौ लग्नगतेऽथवा फणिपतौ दुःस्थे विलग्नाधिपे ।
तत्पाके तदरीशभुक्तिसमये वैकल्यमङ्गे वदेत्
लग्ने शत्रुपतौ फाणिघ्वजयुते देहव्रणं देहिनाम् ॥ ३१॥

बलाइर्विहीने यदि लग्ननाथे केन्द्रत्रिकोणे सति लग्नभाक् स्यात् ।
लग्नेश्वराधिष्ठितराशिनाये दुःस्थानगे दुर्बलदेहवान् स्यात् ॥ ३२॥

सक्रूरो देहपोइ देहसौख्यहाऽन्त्यआरिरन्ध्रगः ।
सारीशे देहपे दुःस्थे लग्नस्थे वाऽथ रोगवान् ॥ ३३॥

लग्ने सपापे लग्नेशे बलहीनोऽपि रोगवान् ।
लग्नेशे दुर्बले कोपी निर्व्याधिः केन्द्रकोणगे ॥ ३४॥

देहेशस्थितराशीशे नाशगे दुर्बलो भवेत् ।
भावेशाक्रान्तराशईशैदुःस्थैर्भार्वाश्च दुर्बलाः ॥ ३५॥

सर्पारयोर्बृहद्वीजो योगो वा सर्पमन्दयोः ।
लग्ने कुजे नाभिगुल्फव्रणस्थौल्यं समादिशेत् ॥ ३६॥

लग्नेशे यदि रिष्फगे दिनकरस्थारातिनाथान्विते
जायावान् बहुरोगवान् कृशतनुः संरक्तगौरद्युतिः ।
लग्नर्क्षादरिनाथपेन च युते जातोऽसिताङ्गो यदा
साहौ लग्नपतौ तु वञ्चनविषाद्भीतिं समेति ध्रवम् ॥ ३७॥

लग्ने शुभे शोभनदृष्तेयुक्ते बाल्यात् सुखं तन्नहि पापयोगात् ।
दुःखी भवेत्पापबहुत्वयोगे लग्ने तु बाल्यान्मरणान्तमाहुः ॥ ३८॥

देवलोकांशके शुक्रे लग्नेशे गोपुरांशके ।
लग्ने शुभग्रहैर्दृष्टे मध्येऽन्ते सौख्यभाप्नुयात् ॥ ३९॥

लग्ने शुभे धने पापे केन्द्रे पापसमन्विते ।
लग्नेश्वरोत्तमांशस्थे चादौ दुःखमतः सुखम् ॥ ४०॥

लग्नेशे शुभराशिस्थे शुभग्रहनिरीक्षिते ।
गोपुरांशगते वापि षोडशाब्दात्परं सुखम् ॥ ४१॥

लग्नेशस्थानाथे तु केन्द्रकोणोच्चसंयुते ।
लाभे वा बलसंयुक्ते त्रिंशद्वर्षात्परं सुखम् ॥ ४२॥

लग्ने रव्यादिसन्दृष्टे पादशः फलमुच्यते ।
राजसेवी पितृधनो जलपण्यो महाधनः ॥ ४३॥

धार्मिकः स्थूलशिश्नः स्याद्विद्याशिल्पयशोऽन्वितः ।
राजपूज्यो व्रतयुतो वेश्यासक्तो धनी सुखी ॥ ४४॥

मन्ददृष्टे विलग्ने तु वृद्धस्त्रीको मली खलः ।
केनाप्यदृष्टम् लग्नं चेद्राशिग्रहवशाद्वदेत् ॥ ४५॥

लग्ने स्वामीक्षिते राजा तात्प्रियो वा धनी सुखी ।
सौम्येक्षितेऽखिलं सौम्यं पापदृष्टे त्वशोभनम् ॥ ४६॥

सुखी लग्ने द्व्यादिदृष्टे सर्वदृष्टे नृपो भवेत् ।
लग्ने त्रयः शुभा राजा दुःखी पापग्रहत्रयम् ॥ ४७॥

लग्नाधिपोऽतिबलवानशुभैरदृष्टः केन्द्रस्थितः शुभकगौरवलोक्यमानः ।
मृत्युं विधूय विदघाति सुदीर्घमायुः सार्द्ध गुणैर्बहुभिरुजितया च लक्ष्म्या ॥ ४८॥

अथ द्वितीयभावफलम् ।

तत्रादौ धनाविचारः ।

वित्तं नेत्रं मुखं विद्या वाक्कुदुम्बाशनानि च ।
द्वितीयस्थानजन्यानि क्रमाज्ज्योतिविदो विदुः ॥ ४९॥

वित्तायेदयराशयः पातियुता वित्ताधिको जायते
लाभस्थौ धनलाभपौ निजसुहृत्तुङ्गादिगौ चेत्तथा ।
तद्वन्ताभधनाधिपौ तनुगतावन्योन्यमिष्टग्रहौ
लग्नेशे धनलाभराशिपयुते लग्ने बहुद्रव्यवान् ॥ ५०॥

धनोपयातः प्रथमोऽथ दर्शी ग्रहो द्वितीयो धनपत्तृतीयः ।
तत्पाकभुक्तौ धनलाभमेति क्रमेण तत्कारकवर्गमूलात् ॥ ५१॥

धनस्थे यदि लग्नेशे निधिमान् बलसंयुते ।
दुर्बले पापसंयुक्ते वङ्चनादिफलं वदेत् ॥ ५२॥

धनस्थितः पापदृशा समेतः सपत्ननीचार्ककराभितप्तः ।
तत्पाकभुक्तौ धननाशमाहुः स गोचरे दुष्टबलान्विते वा ॥ ५३॥

कुतुम्बभावे बहुखेटयुक्ते धनप्रदव्योमचरे बलाढये ।
स्वतुङ्गमित्रस्वगृहोपगे वा धनं समेत्यामरणन्तमाहुः ॥ ५४॥

वित्ताधीशे सोदरेशेन युक्ते लग्नस्थे च भ्रातृवित्तं समेति ।
मातृस्थानस्वामिना मातृवित्तं यद्भावेशेनान्वितस्तद्भनं स्यात् ॥ ५५॥

वित्ताधीशे लग्नगे लग्ननाथे वित्तस्थानेऽयत्नतो वित्तमेव ।
यद्भावस्थौ लग्नवित्तेश्वरौ चेत्तन्मूला तु द्रव्यवृत्तिर्नरणाम् ॥ ५६॥

चन्द्रः कुटुम्बभवने शुक्रेण निरीक्षितः प्रदाता च ।
सौम्ये शुभसन्दृष्टे स एव धनवान् सदा ज्ञेयः ॥ ५७॥

अर्थाधीशो यत्र संस्थो नराणां तस्मिन् काले तत्र वृद्धिर्विशेषात् ।
तद्भागे च द्रव्यलाभं करोति वक्रोऽसौ चेदृभु सर्धार्थसिद्धिः ॥ ५८॥

धनेशे लाभसंयुक्ते लाभेशे धनलाभगे ।
तावुभौ केन्द्रगौ वापि धनवान् ख्यातिभान् भवेत् ॥ ५९॥

धनेशे व्ययषष्ठस्थे व्ययेशे वित्तगेऽथवा ।
लाभेशे रिपुरन्ध्रस्थे व्यये वा धननाशनम् ॥ ६०॥

व्ययभावगते जीवे वित्तेशे बलवर्जिते ।
शुभैरनीक्षिते लग्ने वित्तनाशं वदेद् बुधः ॥ ६१॥

लग्नेशे धनराशिस्थे धनेशे लाभराशिगे ।
लाभेशे वा विलग्नस्थे निध्यादिधनमाप्नुयात् ॥ ६२॥

लग्नायधनभाग्येशाः परमोच्चांशसंयुताः ।
वैशेषिकांशगा वापि तदा कोटीश्वरो भवेत् ॥ ६३॥

दिनेश्वरकरच्छन्ने धनेशे नीचराशिगे ।
पापषष्थ्यंशसंयुक्ते शुणग्नस्ते भवेन्नरः ॥ ६४॥

अथ नेत्रविचारः ।

शुक्रेन्दुनयनाधिशैरिकस्थैस्तु निशान्धकः ।
सूर्युअशुक्रविलग्नेशैरदृश्यैर्मध्यलोचनः ॥ ६५॥

विलग्नवित्तास्ततपः सुतेशा रिपुव्ययच्छिद्रगृहोपयाताः ।
विलग्नसम्बन्धकरः सितश्वेद्विलोचनाभावमुपैति जातः ॥ ६६॥

सितः सुतारीशयुतो विलग्ने निरेशकोपान्नयनप्रमादः ।
धनेशभौमौ यदि लग्नयातौ कर्णस्य रोगं कथयन्ति तज्ज्ञाः ॥ ६७॥

शन्यारयोगे गुलिकेन युक्ते नेत्रेश्वरे तत्र तु नेत्ररोगः ।
नेत्र् यदा पापबहुत्वयोगे यमेन दृष्टे सति रुग्णनेत्रः ॥ ६८॥

नेत्रेश्वरे शुभयुते शुभदृष्टियुतेऽथवा ।
शुभांशकस्थिते वाऽपि शुभदृक स नरो भवेत् ॥ ६९॥

अथ मुखविचारः

जातोऽसौ सुमुखः शुभे धनगते तुङ्गदिवर्गन्विते
तद्भावे यदि सौम्यवर्गसहिते वाल्सिद्धिमेति ध्रुवम् ।
आज्यस्पर्शमुपैति वित्तगृहगे भौमे च पापेक्षिते
जातः किद्रवमुख्यभुग् धनगते रहौ च पापेक्षिते ॥ ७०॥

लग्नास्तार्थाष्टमस्थेऽर्के भौमे वाऽन्यतरेक्षिते ।
आव्यस्पर्शोऽग्निभीतिर्षा सम्भवन्ति मसूरिकाः ॥ ७१॥

पापैर्युते मुखस्थाने दुर्मुखः पापवीक्षिते ।
कोधाननो नरः पापी तदीशे गुलिकान्विते ॥ ७२॥

प्रफुल्लवदनः श्रीमान् केन्द्रे मुखपतौ यदा ।
स्वोच्चस्वमित्रवर्गस्थे सुमुखः शुभवीक्षिते ॥ ७३॥

वाग्भावेशे राहुयुक्ते च दुःस्थे राहुक्रान्तस्थाननाथान्विते च ।
पाके भुक्तौ तस्य दन्ताभयः स्याद् जिह्वारोगं तारकामूनुभुक्तौ ॥ ७४॥

राहुद्वितीयगृहपौ सहजेशयुक्तौ जातः समेति गलरोगमतीव कष्टं ।
दारिद्रयदौ शशिरवी धनराशियातौ भौमार्कजौ सकलरोगकरौ भवेताम् ॥ ७५॥

अथ विद्या-वग्विचारः ।

वाग्भावेशे गुरुयुते नाशस्ये मूकता भवेत् ।
देषकृन्नतु सर्वत्र स्वोच्चस्वर्क्षगतो ग्रहः ॥ ७६॥

वागीशबुधजीवेषु निर्विद्यो नाशगेषु च ।
केन्द्रेषु ते त्रिकोणे वा स्वर्क्षे वा विद्ययाऽन्वितः ॥ ७७॥

द्वितीये दुर्बले सौम्ये द्वन्द्वयुद्धहतो भवेत् ।
जीवार्थेशौ दुर्बलौ वा पवनव्याधिभान्नरः ॥ ७८॥

वाक्स्थानपे देवपुरोहितेन युक्ते यदा नाशगते तु मूकः ।
वाक्स्थानपे सौम्ययुते त्रिकोणे केन्द्रस्थिते वा शुभदे च वाग्मी ॥ ७९॥

वागीशस्थांशपे औम्ये स्वोच्चे वा शुभवीक्षिते ।
पारावतांशके वाऽपि वाग्मी पटुतरो भवेत् ॥ ८०॥

केन्द्रत्रिकोणगे जीवे शुक्रे स्वोच्चं गते यदि ।
वाग्भावपेन्दुपुत्रे वा गणितज्ञो भवेन्नरः ॥ ८१॥

गणितज्ञो भवेज्जातो वाग्भावे भूमिनन्दने ।
ससौम्ये बुधसन्दृष्टे केन्द्रे वा सोमनन्दने ॥ ८२॥

वाग्भवपे रवौ भौमे गुरुशुक्रानिरीक्षिते ।
पारावतांशके वापि तर्कयुक्तिपरायणः ॥ ८३॥

सम्पूर्णबलसंयुक्ते गुरौ तद्भवनेश्वरे ।
दिनेशभृगुसन्दृष्टे शाब्दिकोऽयं भवेश्वरः ॥ ८४॥

वेदान्तपरीशीली स्यात्केन्द्रकोणे गुरौ यदि ।
बुधेन भृगुणा दृष्टे शनौ पारावतांशके ॥ ८५॥

षट्शास्त्रवल्लभः केद्न्रे जीवे दानवपूजिते ।
सिंहासने गोपुराम्शे वाग्भावस्यांशपे बुधे ॥ ८६॥

अथ कुटुम्बविचारः ।

उपजीव्य नरं सर्वे तदीशे गोपुरांशके ।
वर्द्धन्ते मुदितास्तस्य भृगौ पातावतांशके ॥ ८७॥

जायाकुटिम्बगृहपौ सितपापयुक्तौ दुःस्थौ च तत्समकलत्रहरौ भवेतम् ।
वित्ताधिपे बलवति स्मरराशिपे वा तुङ्गादिगे यदि समेति कलत्रमेकम् ॥ ८८॥

अथ पात्राशनयोविञ्चारः ।

भिक्तिस्थानपतौ सितेन्दुसहिते लग्नादिकेन्द्रस्थिते
रौप्यं पात्रमुपैति कालश्चनमयं जीवेन्दुशुक्रान्विते ।
भुक्तिस्थानपदेहपौ शनियुतौ लोहादिपात्रं वदेद्
भौमे पापनिरीक्षिते धनगते जातः कदग्नादिभुक् ॥ ८९॥

वह्नाशनो भुक्तिपतौ सपापे दावाग्निदण्डायुधकालभागे ।
नीचांशके पापनिरीक्षिते च शुभैर्न दोषः सहितेक्षिते वा ॥ ९०॥

भुक्तिस्थाने शुभयुते तदीशे शुभसंयुक्ते ।
शुभग्रहेण सन्दृष्टे सुखभुक् स नरो भवेत् ।
पराग्नभुक् तदीशेऽपि नीचशत्रुसमन्विते ।
नीचखेचरसन्दृष्टे तद्दूषणपरायणः ॥ ९२॥

कालोचिताशनो भुक्तिनाथे लग्नेशवीक्षिते ।
पापग्रहेण सन्दृष्टे नीचांशादियुते न तु ॥ ९३॥

स्वल्पाशी रुचिकामः स्याद् भुक्तिनाथे शुभे गृहे ।
स्वोच्चे शुभेन सन्दृष्टे मृद्वंशादिसमविते ॥ ९४॥

भुक्तिस्थानाधिपे मन्दे तदीशे वाऽर्किसंयुते ।
नीचेऽर्कसूनुना दृष्टे श्राद्धभुक् सततं नरः ॥ ९५॥

इति जातकपारिजाते एकादशे तनु-धनभावफलाध्याये विभला हिन्दी टिका समाप्ता ॥ ११॥