प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. राशिशिलाध्यायः
  2. ग्रहनामस्वरूपगुणभेदाध्शाशः
  3. वियोनिजन्माद्यध्यायः
  4. अरिष्टाध्यायः
  5. आयुर्दायाध्यायः
  6. जातकभङ्गाध्यायः
  7. राजयोगाध्यायः
  8. द्व्यादिग्रहयोगाध्यायः
  9. मान्द्यब्दादिफलाध्यायः
  10. अष्टकवर्गाध्यायः
  11. प्रथमद्वितीयभावफलाध्यायः
  12. तृतीयचतुर्थभावफलाध्यायः
  13. पञ्चमषष्ठभावफलाध्यायः
  14. सप्तमाष्टमनवमभावफलध्यायः
  15. दशमैकादशद्वादशभावफलाध्यायः
  16. स्त्रीजातकाध्यायः
  17. कालचक्रदशाध्यायः
  18. दशापहलाध्यायः
  19. ग्रन्थोपसंहारः


क्रूरग्रहैः सुबलिभिर्विबलैश्च सौम्यैः चतुष्टयगतेत दवेक्षणाद्वा ।
चन्द्रोपगद्विरसमागसमानरूपं सत्त्वं वदेद्यादि भवेत्स वियोनिसंज्ञः ॥ १॥

पापा बलिनः स्वभागगाः पारक्ये विबलाश्च शोभनाः ।
लग्नं च वियोनिसंज्ञकं दृष्टाऽत्रापि वियोनिमादिशेत् ॥ २॥

क्रियः शिरो वक्त्रगलो वृषोऽन्ये पादांसकं पृष्ठोमुरोऽथ पार्श्वे ।
कुक्षिस्त्वपानोऽघ्न्यथ मेद्रभुष्कौ स्फिक्पुच्छमित्याह चतुष्पदाङ्गे ॥ ३॥

लग्नांशकाद्ग्रहयोगेक्षणाद्वा वर्णान् वदेद्बलयुक्ताद् वियोनौ ।
दृष्टया समानान् प्रवदेत्तु सङ्ख्यां रेखां वदेत्स्मरसंस्थैश्च पृष्ठे ॥ ४॥

देहाम्बुगौ सुखाङ्गेशौ वतुष्पाज्जननं भवेत् ।
देहेशे सुखपे वाऽहिकेतुयुक्ते पशोर्जनिः ॥ ५॥

अथ ग्रहविशेषक्षणादिना पशुविशेषजनिः ।

श्क्रेक्षिते गोजननं महिष्यार्कियुतेक्षिते ।
राहुकेतुयुक्ते मेषः पापाढ्येऽन्यपशोजनिः ॥ ६॥

अथ स्थलाम्बुजनियोगकरी ग्रहस्थितिः ।

खगे दृकणे बलसंयुतेन वा ग्रहेण युक्ते चरभांशकोदये ।
बुधांशके वा विहगाः स्थलाम्बुजाः शनैश्चरेन्द्वीक्षणयोगसम्भवाः ॥ ७॥

होरेन्दुसूरिरविभिर्विबलैस्तरूणां तेयस्थले तरुभुर्वोऽशकृतः प्रभेदः ।
लग्नाद्ग्रहः स्थलजलर्क्षपतिस्तु यावांस्तावन्त एव तरवः स्थलतोयजाताः ॥ ८॥

अथ रव्यादीनां वृक्षविशेषजनिकारणता ।

अन्तःसारान् जनयति रविर्दुर्भुगान् सूर्यसूनुः
क्षीरोपेतांस्तुहिनकिरणः कण्टकाढ्यांश्च भौमः ।
वागीशज्ञौ सफलविफलान् पुष्पवृक्षांश्च शुक्रः
स्निग्धानिन्दुः कटुकविटपान् भूमिपुत्रस्तु भूयः ॥ ९॥

शुभोऽशुभर्क्षे रुचिरं कुभूमिजं करोति वृक्षं विपरीतमन्यथा ।
परांशके थावति विच्युतः स्वकाद् भवन्ति तुल्यास्तरवस्तथाविधाः ॥ १०॥

अथ निषेकधिधिः ।

कुजेन्दुहेतु प्रतिमासमार्तवं गते तु पीडर्क्षमनुष्णदीधितौ ।
अतोऽन्यथास्थे शुभपुङ्ग्रहेक्षिते नरेण संयोगमुपैति कामिनी ॥ ११॥

यथाऽस्तराशिर्मिथुनं समेति तथैव वाच्यो मिथुनप्रयोगः ॥

असद्ग्रहालोकितसंयुतेऽस्ते सरोष इष्टैः सविलामहासः ॥ १२॥

रवीन्दुशुक्रावनिजैः स्वभावगैः गुरौ त्रिकोणोदयसंस्थितेऽपि। वा ।
भवत्यपत्यं हि विबीजिनागिने करा हिमांशोर्विदृशामिवाफलाः ॥ १३॥

दिवाकरेन्द्वोः स्मरगौ कुजर्कजौ गदप्रदौ पुङ्गलयोषितोस्तदा ।
व्ययस्वगौ मृत्युकरौ युतौ तथा तदेकदृष्त्या मरणाय कल्पितौ ॥ १४॥

विवाऽर्कशुक्रौ पितृमातृसंज्ञितौ शनैश्चरेन्दू निशि तद्विपर्ययात् ।
पितृव्यमातृष्वसृसंज्ञितौ च तावथौजयुग्मर्क्षगतौ तयोः शुभौ ॥ १५॥

शीतज्योतिषि ज्योषितोऽनुपचयस्थाने कुजेनेक्षिते ।
जातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलम् ।
दृष्टेऽस्मिन् गुरुणा निजोपचयगे कुर्यान्निवेकं पुमान् ।
अत्याज्ये च समूलभे शुभगुणे पर्वादिकालोज्भिते ॥ १६॥

अथ स्त्रीणामृतुकालपरिमाणम् ।

विभावरीषोडश भामिनीनामृतुद्रमाद्या ऋतुकालमाहुः ।
नाद्याश्चतस्रोऽत्र निशेकयोग्याः पराश्च युग्माः सुतदाः प्रशस्ताः ॥ १७॥

अथ तुर्यादिरात्रिषु निषेके सताने विशेषः ।

पुत्रोऽल्पायुदारिका वंशकर्ता बन्ह्या पुत्रः सुन्दरीशो विरूपा ।
श्रीमान् पापा धर्मशीलस्तथा श्रीःसर्वज्ञः स्यातुर्यरात्रात् क्रमेण ॥ १८॥

अथ सुतादियोगकरी ग्रहस्थितिः ।

अष्टमाष्टमगे सूर्ये निषेकर्क्षात्सुतोद्भवाः ।
अथवाऽधानलग्नात्तु त्रिकोणस्थे दिनेश्वरे ॥ १९॥

अस्मिन्नाधनलग्ने तु शुभदृष्टियुतेऽथवा ।
दीर्घायुर्भाग्यवान् जातः सर्वविद्यान्नमेष्यति ॥ २०॥

ओजर्क्षे पुरुषांशकेषु बलिभिर्लग्नार्कगुर्विन्दुभिः
पुङ्जन्म प्रवदेत्समांशकगतैर्युग्मेषु तयोर्षितः ।
गुर्वर्कौ विषमे नरं शशिसितौ वक्रश्च युग्मे स्त्रियम्
द्व्याङ्गस्था बुधवीक्षणाच्च यमलौ कुर्वन्ति पक्षे स्वके ॥ २१॥

विहाय लग्नं विषमर्क्षसंस्थः सौरोऽपि पुञ्जन्मकरो विलग्नात् ।
प्रोक्तग्रहाणावलोक्य वीर्यं वाच्यः प्रसूतौ पुरुषोऽङ्गना वा ॥ २२॥

अथ क्रीयत्वकरा योगाः ।

अन्योन्यं यदि पश्यतः शशिरवी यद्यार्किसौम्यावपि
वक्रो वा समगं दिनेशमसमे चन्द्रोदयौ चेत्स्थितौ ।
युग्मौजर्क्षगतावपिन्दुशशिजौ भूम्यात्मजेनेक्षितौ
पुम्भागे सितलग्नशीतकिरणाः षट् क्लीबयोगस्त्विमे ॥ २३॥

अथ थमलादिजनिकरा योगाः ।

युग्मे चन्द्रसितौ तथौजभवने स्युर्ज्ञारजीवोदयाः
लग्नेन्दू नृनरीक्षितौ च समगौ युग्मेषु वा प्राणिनः ।
कुर्युस्ते मिथुनं गृहोदयगतान्द्व्यङ्गांशकान्पश्यति
स्वांशे ज्ञे त्रितयं ज्ञगांशकवशाद्युग्मं त्वमिश्चैः समम् ॥ २४॥

अथ व्यदिकजननयोगः ।

धनुर्धरस्यान्त्यगते विलग्ने ग्रहैस्तदंशोपगतैर्बलिष्टैः ।
ज्ञेनार्किणा वीर्ययुतेन दृष्टे सन्ति।प्रभूता आपि कोशसंस्थाः ॥ २५॥

द्विशरीरांशसंयुक्तान् ग्रहान् लग्नं च पश्यति ।
कन्यांशकगतश्चान्दिर्गर्भस्थं त्रितयं वदेत् ॥ २६॥

युग्मांशकस्तु कन्यैका द्वौ पुमांसौ च गर्भजाः ।
युग्मांशगान्विलग्नं च गर्भस्थाः पुरुषास्त्रयः ॥ २७॥

कन्यायुग्मांशकोपेतांस्तय्हा युग्मांशगो बुधः ।
कन्यानवांशकः सौम्यस्तिस्त्रो गर्भगताङ्गनाः ॥ २८॥

द्विस्वभावगतार्कगुरू बुधनिरीक्षितौ ।
पुंयुग्मं कुरुतस्तद्वत् शशिशुक्रमहीसुताः ॥ २९॥

कुर्वन्ति स्त्रीयुगं तत्र बलाबलविशेषतः ॥ २९ १/२॥

स्त्रीनपुंसकदश्चान्द्रिः पुंनपुंसक्दोऽर्कजः ॥ ३०॥

निषेककाले चन्द्रार्कावन्योन्यं यदि पश्यतः ।
तथैव चन्द्रमन्दौ वा क्लीबजन्मप्रदौ तथा ॥ ३१॥

निषेके भ्रातृलग्नेशयोगे यमलसम्भवः ।
लग्नेशे भ्रातृपक्षस्थे स्वोच्चे वा यमलोद्भवः ॥ ३२॥

षष्ठेशो देहसम्बन्धी बुधः षष्ठगतो यदि ।
बुधक्षेत्रे च यस्य स स्त्रीनपुंसकः ॥ ३३॥

बुधस्थानेन शनिना पुंनपुंसकता भवेत् ॥ १/२॥

निषेकलग्नेशतृतीयनाथौ लग्नस्थितौ चेद्यमलोद्भवः स्यात् ॥ १/२॥

अथ पादजातस्वप्रदौ योगौ ।

तृतीनाथेन युते निषेके भोगीशयुक्ते यदि पादजातः ॥ ३४॥

राहूदये लग्ननाथे कर्मस्थे पादपूर्वजः ॥ १/२॥

अथ सर्पवेष्टितदेहयदा योगाः ।

सराहौ रन्ध्रपे लग्ने जातः स्यात् सर्पवेष्टितः ॥ ३५॥

रन्ध्रेश्वरे पापयुते विलग्ने जातो नगोर्वेष्टिदेहवान्स्यात् ।
केन्द्रे सरहौ गुलिकेन युक्ते लग्नेश्वरे वावा निधनेशयुक्ते ॥ ३६॥

क्रूरग्रहाणां च दृगाणल्ग्ने जातो नगैर्वेष्टितदेहवान् स्यात् ।
लग्नत्रिभागेऽण्डजसर्पकोलास्रन्नाथयुक्तस्तु तथा त्रिभागः ।
शुभप्रदाणां च दृशा विहीने जातो नगैर्वेष्टितदेहवान् स्यात् ॥ ३७॥

यशाङ्के पापल्ग्ने वा वृश्चिकेशत्रिभागगे ।
शुभैः स्वायस्थितैर्जातः सर्पस्तद्वेष्टितोऽपि वा ॥ ३८॥

चतुष्पादगते भानौ शेषैर्वीर्यसमन्वितैः ।
द्वितनुस्थैश्च यमलौ भवतः कोशवेष्टितौ ॥ ३९॥

छागसिंहवृषे लग्ने तत्स्थे सौरेऽथवा कुजे ।
राश्यंशसदृशे गात्रे जतस्थेनालवेष्टितः ॥ ४०॥

लग्ने सपापे बहुपापदृष्टे राहुध्वजाभ्यां सहितेऽथवाऽत्र ।
पापग्रहाणां विलग्नभे वा जातो नरो नालविदेष्टिताङ्गः ॥ ४१॥

क्रूरान्तरे लनगते सराहौ लग्ने कुजे वासरनाथदृष्टे ।
लग्ने शनु भुमिसुतेन दृष्टे जातो नरो नालविवेष्टिताङ्गः ॥ ४२॥

अथ प्रसूतिकालज्ञापिका ग्रहस्थितिः ।

तत्काल इन्दुसहितो द्विरसंशको यस्ततुल्यराशिसहिते पुरतः शशाङ्के ।
यावानुदेति दिनरात्रिसमानभागस्तावद्रते दिननिशोः प्रवदन्ति जन्म ॥ ४३॥

उदयति मृदुभांशे सप्तमस्थे च मन्दे ।
यदि भवति निषेकः सूतिरब्दत्रय्ण ।
शशिनि तु विधिरेष द्वादशाब्दैः प्रकुर्यात् ।
निगदितमिह चिन्त्यं सूतिकालेऽपि युक्त्या ॥ ४४॥

अथ संस्कारविहीनपुत्रजन्मज्ञापका योगाः ।

पितृकर्मेश्वरौ दुःस्थौ देहेशे बलसंयुते ।
विना सीमन्तकमादि जातः पुत्रो न संशयः ।
लाभे पापे पापगृहे न सीमन्तयुतो भवेत् ॥ ४५ १/२॥

अथ पितुरसन्निधौ जन्मयोगाः ।

पितुर्जातः परोक्षस्य लग्नमिन्दावपश्यति ।
विदेशस्थस्य चरभे मध्याद्दष्टे दिवाकरे ॥ ४६॥

उदयस्थेऽथवा मन्दे वाऽस्तं समागते ।
स्थिते वाऽन्तः चपानाथे शशाङ्कसुतशुक्रयोः ॥ ४७॥

पितरय्रसः क्षेत्रजो वेति ज्ञपिका द्युचरस्थितिः ।

लग्ने वा यदि शीतांशौ शुभखेचरराशिगे ।
ओरसोऽयं भवेज्जातो गुरुर्गसमन्विते ॥ ४८॥

जीवो न भौमसन्दृष्टः स्ववर्गे चार्कचन्द्रमाः ।
क्षेत्रजोऽयं भवेज्जातः ससौम्यो वा बलान्वितः ॥ ४९॥

मन्दवर्गगते चन्द्रे मन्दयुक्ते तु पङ्चमे ।
भानुभार्गवसन्दृष्टे पुत्रः पौनर्भवो भवेत् ॥ ५०॥

अथ अनूढापत्यत्व्सराधको ग्रहयोगः ।

व्यये भास्करसन्दृष्टे वर्गे भास्करचन्द्रयोः ।
चन्द्रसूर्ययुते वाऽपि कानीनोऽयं भवेन्नरः ॥ ५१॥

अथ दत्तपुत्रत्वसाधको योगः ।

चन्द्रदृष्टियुतो मान्दिर्भानुपुत्रसमन्वितः
तद्वीक्षणयुतो वाऽपि दत्तपुत्रो भवेन्नरः ।
शन्यङ्गारकसंयुक्ते सप्तमे वाऽथ पङ्चमे
अन्यैरवीक्षिते खेटैः कृत्रिमं तु विनिर्दिशेत् ॥ ५२॥

अथ जारजत्वसाधका योगाः ।

परस्परक्षेत्रगतौ तु होरारसातकेशौ यदि जन्मलग्नात् ।
लग्नेश्वरो वा हिबुकेश्वरो वा ध्वजाहियुक्तो जननं परेण ॥ ५४॥

लग्नं शशाङ्कं सुरराजमन्त्री न वीक्षते नैकगृहस्थितौ वा ।
न जीववर्गगेण युतौ तदानीं जातं वदेदन्यसमागमेन ॥ ५५॥

स्वातीद्वितीया रविवारयुक्ता ससप्तमी सोमजरेवती च ।
सद्वादशीभानुसुतश्रविष्ठा चैतेषु जातः परतो वदन्ति ॥ ५६॥

भद्राण्यतिथियुक्तेषु त्रिपादर्क्षन्वितेषु च ।
मन्दार्कभौमवारेषु जात्मन्योद्भवं विदुः ॥ ५७॥

न लग्नमिन्दु च गुरुनिरीक्षते न वा शशाङ्कं रविणा समागतम् ।
सपापकोऽर्केण युतोऽथवा शशी परेण जातं प्रवदन्ति निश्चयात् ॥ ५८॥

गुरुक्षेत्रगते चन्द्रे तद्युक्ते चान्यराशिगे ।
तद्द्रेष्काणे तदंशे वा न परैर्जात इष्यते ॥ ५९॥

अथ जन्मनि पितुर्बद्धत्वादि ।

क्रूरर्क्षगतावशोभनौ सूर्याद् द्यूननवात्मजस्थितौ ।
बद्धस्तु पिता विदेशगः स्वे वा राशिवशात्तथा पथि ॥ ६०॥

अथ जन्मदेशाः ।

पूर्णे शशिनि स्वराशिगे सौम्ये लग्नगते शुभे सुखे ।
लग्ने जलजोऽस्तगेऽपि वा चन्द्रे पोतगता प्रसूयते ॥ ६१॥

आओयोदयमाप्यगः शशी सम्पूर्णः समवेक्षतेऽथवा ।
मेषूरणबन्धुलग्नगः स्यात् सूतिः सलिले न संशयः ॥ ६२॥

उदयोडुपयोर्व्ययस्थिते गुप्त्यां पापनिरीक्षिते यमे ।
अलिकर्कियुते विलग्नगे सौरे शीतलरेक्षितेऽवटे ॥ ६३॥

मन्देऽब्जगते विलग्नगे बुधसूर्येन्दिनिरीक्षिते क्रमात् ।
कीडाभवने सुरालये जननं* चोषरभूमिषूदिशेत् ॥ ६४॥

नृलग्नगं प्रेक्ष्य कुजः श्मशाने रम्ये सितेन्दू गुरुरग्निहोत्रे ।
रविर्नरेन्द्रामरगोकुलेषु शिल्पालयो ज्ञः प्रसवं करोति ॥ ६५॥

राश्यंशसमानगोचरे मार्गे जन्म चरे स्थिरे गृहे ।
स्वर्क्षाशगते स्वमन्दिरे बलयोगात्फलमशकर्क्षयोः ॥ ६६॥

अथ मात्रा स्यक्तस्य दीर्घयुष्टम् ।

आरार्कजयास्त्रिकोणगे चन्द्रोऽस्ते च विसृज्यतेऽम्बया ।
दृष्टेऽमरराजमन्त्रिणा दीर्घयुः सुखभाक् च स स्मृतः ॥ ६७॥

अथ मात्रा स्यक्तस्य विनाशयोगः ।

पापेक्षिते तुहिनगाबुदये कुजेऽस्ते स्यक्तो विनश्यति कुजार्कजयोस्तथाऽये ।
सौम्येऽपि पश्यति तथाविधहस्तमेति सौम्ये तरेषु परहस्तगतोऽप्यनायुः ॥ ६८॥

अथ प्रसवस्थानम् ।

पितृमातृगृहेषु तद्बलात्तरुशालाइषु नीचगतैः शुभैः ।
यदि नैकगतैश्च वीक्षितौ लग्नेन्दू विजने प्रसूयते ॥ ६९॥

मन्दर्क्षाशे शशिनि हिबुके मन्ददृष्टेऽब्जगे वा
तद्युक्ते वा तमसि शयनं नीचसंस्थैश्च भूमौ ।
यद्भद्राशिर्ब्रजति हरिजं गर्भमोक्षस्तु तद्वत् ॥ ७०॥

अथ सूतीगृहे दीपज्ञानं द्वारज्ञानं च ।

स्नेहः शशाङ्कादुदयाच्च वर्ती दीपोऽर्कयुक्तर्क्षवशाणराद्यः ।
द्वारं च तद्वास्तुनि केन्द्रसंस्थैर्क्ष्यं ग्रहैर्वीर्यसमनिव्तैर्वा ॥ ७१॥

अथ सूतीगृहस्वरूपम् ।

जीर्ण संस्कृतमर्कजे क्षितिसुते दग्धं नवं शीतगौ
काष्ठाढ्यं सुदृढं रवौ शशिसुते चानेकशिल्प्युद्भवम् ।
रम्यं चित्रयुतं नवं च भृगुजे जीवे दृढं मन्दिरं
चक्रस्थैस्तु यथोपदेशरचनां सामन्तपूर्वां वदेत् ॥ ७२॥

अथ सुतीगृहदिशा ।

मेषकुलीरतुलालिघतैः प्रगुत्तरते गुरुसौम्यगृहेषु ।
पश्चिमतश्च वृषेण निवासो दक्षिणभागकरौ मृगसिंहौ ॥ ७३॥

अथ सूतीगृहे जन्मस्थानम् ।

प्राच्यादिगृहे क्रियादयो द्वौ द्वौ कोणगता द्विमूर्त्तयः ।
शय्यास्वपि वास्तुवद्वदेत् पातैः षट्त्रिनवान्त्यसंस्थितैः ॥ ७४॥

अथ उपसुतिकाज्ञानम् ।

लग्नचन्द्रान्रगतैर्ग्रहैः स्युरुपसूतिकाः ।
बहिरन्तश्च चक्रार्द्धे दृशादश्येऽन्षवा परे ॥ ७५॥

अथ जातकस्य स्वरूपादिज्ञानम् ।

लग्ननवांशपतुल्यतनुः स्याद्वीर्ययुतग्रहतुल्यतनुर्वा ।
चन्द्रसमेतनवांशपर्वणः कादिविलग्नविभक्तभगात्रः ॥ ७६॥

कन्दृक्ष्रोत्रनसाकपोलहनवो वक्त्रं च होरादय-
स्ते कण्ठांसकबाहुपाश्वहृदयक्रोडानि नाभिस्ततः ।
बस्तिः शिश्नगुदे ततश्च वृषणावूरू ततो जानुनी
जडाङ्ध्रीत्युन्जयत्र वाममुदितैर्द्रेक्काणभागैर्स्त्रधा ॥ ७७॥

अथ जाताङ्गे चिह्वज्ञानम् ।

तस्मिन्पापयुते व्रणं शुभयुते दृष्टे च लक्ष्मादिशेत्
स्वर्क्षंशे स्थिरसंयुते च सहजः स्यादन्यथाऽगन्तुकः ।
मन्देऽश्मानिलजोऽग्निशस्त्रविषजो भौमे बुधे भूभवः
सूर्ये काष्ठचतुष्पदेन हिमगौ शृङ्ग्यब्जजोऽन्यैः शुभम् ॥ ७८॥

समनुपतिता यस्मिन् भागे त्रयः सबुधा ग्रहा
भवति नियमातस्यावाप्तिः शुभेष्वशुभेषु वा ।
व्रणकृदशुभः षष्ठे देहे तनोर्भसमाश्रिते
तिलकमशकृद्दृष्टः सौम्यैर्युतश्च स लक्ष्मवान् ॥ ७९॥

वियोनिजन्मविज्ञानं निषेकोदयजं फलम् ।
जन्मकालप्रिज्ञानं यत्तदाचार्यभाषितम् ॥ ८०॥

इति नवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते
आधानजन्माध्यायस्तृतीयः ॥ ३॥