रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४८
← सर्गः ४७ | रामायणम्/किष्किन्धाकाण्डम् किष्किन्धाकाण्डम् वाल्मीकिः |
सर्गः ४९ → |
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ॥४-४८॥
सह तार अंगदाभ्याम् तु सहसा हनुमान् कपिः ।
सुग्रीवेण यथा उद्दिष्टम् तम् देशम् उपचक्रमे ॥४-४८-१॥
स तु दूरम् उपागम्य सर्वैः तैः कपि सत्तमैः ।
ततो विचित्य विन्ध्यस्य गुहाः च गहनानि च ॥४-४८-२॥
पर्वताग्र नदी दुर्गान् सरांसि विपुल द्रुमान् ।
वृक्ष खण्डान् च विविधान् पर्वतान् वन पादपान् ॥४-४८-३॥
अन्वेषमाणाः ते सर्वे वानराः सर्वतो दिशम् ।
न सीताम् ददृशुर् वीरा मैथिलीम् जनक आत्मजाम् ॥४-४८-४॥
ते भक्षयन्तो मूलानि फलानि विविधानि अपि ।
अन्वेषमाणा दुर्धर्षा न्यवसन् तत्र तत्र ह ॥४-४८-५॥
स तु देशो दुर्अन्वेषो गुहा गहनवान् महान् ।
निर्जलम् निर्जनम् शून्यम् गहनम् घोर दर्शनम् ॥४-४८-६॥
ता दृशानि अन्या अपि अरण्यानि विचित्य भृइश पीडिताः ।
स देशः च दुर्अन्वेष्यो गुहा गहनवान् महान् ॥४-४८-७॥
त्यक्त्वा तु तम् ततः देशम् सर्वे वै हरि यूथपाः ।
देशम् अन्यम् दुराधर्षम् विविशुः च अकुतो भयाः ॥४-४८-८॥
यत्र वन्ध्य फला वृक्षा विपुष्पाः पर्ण वर्जिताः ।
निस्तोयाः सरितो यत्र मूलम् यत्र सुदुर्लभम् ॥४-४८-९॥
न सन्ति महिषा यत्र न मृगा न च हस्तिनः ।
शार्दूलाः पक्षिणो वा अपि ये च अन्ये वन गोचराः ॥४-४८-१०॥
न च अत्र वृक्षा न ओषध्यो न वल्ल्यो न अपि वीरुधः ।
स्निग्ध पत्राः स्थले यत्र पद्मिन्यः फुल्ल पंकजाः ॥४-४८-११॥
प्रेक्षणीयाः सुगन्धाः च भ्रमरैः च वर्जिताः ।
कण्डुर् नाम महाभागः सत्य वादी तपो धनः ॥४-४८-१२॥
महर्षिः परम अमर्षी नियमैः दुष्प्रधर्षणः ।
तस्य तस्मिन् वने पुत्रो बालको दश वार्षिकः ॥४-४८-१३॥
प्रणष्टो जीवित अन्ताय क्रुद्धः तेन महामुनिः ।
तेन धर्माअत्मना शप्तम् कृत्स्नम् तत्र महद् वनम् ॥४-४८-१४॥
अशरण्यम् दुराधर्षम् मृग पक्षि विवर्जितम् ।
तस्य ते कानन अन्तान् तु गिरीणाम् कन्दराणि च ॥४-४८-१५॥
प्रभवाणि नदीनाम् च विचिन्वन्ति समाहिताः ।
तत्र च अपि महात्मानो न अपश्यन् जनक आत्मजाम् ॥४-४८-१६॥
हर्तारम् रावणम् वा अपि सुग्रीव प्रिय कारिणः ।
ते प्रविश्य तु तम् भीमम् लता गुल्म समावृतम् ॥४-४८-१७॥
ददृशुः भीम कर्माणम् असुरम् सुर निर्भयम् ।
तम् दृष्ट्वा वनरा घोरम् स्थितम् शैलम् इव असुरम् ॥४-४८-१८॥
गाढम् परिहिताः सर्वे दृष्ट्वा तम् पर्वत उपमम् ।
सो अपि तान् वानरान् सर्वान् नष्टाः स्थ इति अब्रवीत् बली ॥४-४८-१९॥
अभ्यधावत सम्क्रुद्धो मुष्टिम् उद्यम्य संगतम् ।
तम् आपतन्तम् सहसा वालि पुत्रो अंगदः तदा ॥४-४८-२०॥
रावणो अयम् इति ज्ञात्वा तलेन अभिजघान ह ।
स वालि पुत्र अभिहतो वक्त्रात् शोणितम् उद्वमन् ॥४-४८-२१॥
असुरो न्यपतत् भूमौ पर्यस्त इव पर्वतः ।
ते तु तस्मिन् निर् उच्छ्वासे वानरा जित काशिनः ॥४-४८-२२॥
व्यचिन्वन् प्रायशः तत्र सर्वम् तत् गिरि गह्वरम् ।
विचितम् तु ततः सर्वम् सर्वे ते कानन ओकसः ॥४-४८-२३॥
अन्यत् एव अपरम् घोरम् विविशुर् गिरि गह्वरम् ।
ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः ।
एकांते वृक्ष मूले तु निषेदुर् दीन मानसाः ॥४-४८-२४॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ॥४-४८॥