रामायणम्/किष्किन्धाकाण्डम्/सर्गः ६७
← सर्गः ६६ | रामायणम्/किष्किन्धाकाण्डम् किष्किन्धाकाण्डम् वाल्मीकिः |
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तषष्ठितमः सर्गः ॥४-६७॥
तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम्। वेगेनापूर्यमाणं च सहसा वानरोत्तमम्॥ १॥ सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः। विनेदुस्तुष्टुवुश्चापि हनूमन्तं महाबलम्॥ २॥ प्रहृष्टा विस्मिताश्चापि ते वीक्षन्ते समन्ततः। त्रिविक्रमं कृतोत्साहं नारायणमिव प्रजाः॥ ३॥ संस्तूयमानो हनुमान् व्यवर्धत महाबलः। समाविद्ध्य च लाङ्गूलं हर्षाद् बलमुपेयिवान्॥ ४॥ तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः। तेजसाऽऽपूर्यमाणस्य रूपमासीदनुत्तमम्॥ ५॥ यथा विजृम्भते सिंहो विवृते गिरिगह्वरे। मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते॥ ६॥ अशोभत मुखं तस्य जृम्भमाणस्य धीमतः। अम्बरीषोपमं दीप्तं विधूम इव पावकः॥ ७॥ हरीणामुत्थितो मध्यात् सम्प्रहृष्टतनूरुहः। अभिवाद्य हरीन् वृद्धान् हनूमानिदमब्रवीत्॥ ८॥ आरुजन् पर्वताग्राणि हुताशनसखोऽनिलः। बलवानप्रमेयश्च वायुराकाशगोचरः॥ ९॥ तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः। मारुतस्यौरसः पुत्रः प्लवनेनास्मि तत्समः॥ १०॥ उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम्। मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः॥ ११॥ बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे। समाप्लावयितुं लोकं सपर्वतनदीह्रदम्॥ १२॥ ममोरुजङ्घावेगेन भविष्यति समुत्थितः। समुत्थितमहाग्राहः समुद्रो वरुणालयः॥ १३॥ पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम्। वैनतेयमहं शक्तः परिगन्तुं सहस्रशः॥ १४॥ उदयात् प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम्। अनस्तमितमादित्यमहं गन्तुं समुत्सहे॥ १५॥ ततो भूमिमसंस्पृष्ट्वा पुनरागन्तुमुत्सहे। प्रवेगेनैव महता भीमेन प्लवगर्षभाः॥ १६॥ उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान्। सागरान् शोषयिष्यामि दारयिष्यामि मेदिनीम्॥ १७॥ पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमः। हरिष्याम्युरुवेगेन प्लवमानो महार्णवम्॥ १८॥ लतानां विविधं पुष्पं पादपानां च सर्वशः। अनुयास्यति मामद्य प्लवमानं विहायसा॥ १९॥ भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे। चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च॥ २०॥ द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः। महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवङ्गमाः॥ २१॥ दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम्। विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान्। सागरं शोषयिष्यामि प्लवमानः समाहितः॥ २२॥ वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा। ऋते सुपर्णराजानं मारुतं वा महाबलम्। न तद् भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत्॥ २३॥ निमेषान्तरमात्रेण निरालम्बनमम्बरम्। सहसा निपतिष्यामि घनाद् विद्युदिवोत्थिता॥ २४॥ भविष्यति हि मे रूपं प्लवमानस्य सागरम्। विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमानिव॥ २५॥ बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा। अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः॥ २६॥ मारुतस्य समो वेगे गरुडस्य समो जवे। अयुतं योजनानां तु गमिष्यामीति मे मतिः॥ २७॥ वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः। विक्रम्य सहसा हस्तादमृतं तदिहानये॥ २८॥ लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः। तमेवं वानरश्रेष्ठं गर्जन्तममितप्रभम्॥ २९॥ प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः। तच्चास्य वचनं श्रुत्वा ज्ञातीनां शोकनाशनम्॥ ३०॥ उवाच परिसंहृष्टो जाम्बवान् प्लवगेश्वरः। वीर केसरिणः पुत्र वेगवन् मारुतात्मज॥ ३१॥ ज्ञातीनां विपुलः शोकस्त्वया तात प्रणाशितः। तव कल्याणरुचयः कपिमुख्याः समागताः॥ ३२॥ मङ्गलान्यर्थसिद्ध्यर्थं करिष्यन्ति समाहिताः। ऋषीणां च प्रसादेन कपिवृद्धमतेन च॥ ३३॥ गुरूणां च प्रसादेन सम्प्लव त्वं महार्णवम्। स्थास्यामश्चैकपादेन यावदागमनं तव॥ ३४॥ त्वद्गतानि च सर्वेषां जीवनानि वनौकसाम्। ततश्च हरिशार्दूलस्तानुवाच वनौकसः॥ ३५॥ कोऽपि लोके न मे वेगं प्लवने धारयिष्यति। एतानीह नगस्यास्य शिलासंकटशालिनः॥ ३६॥ शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च। येषु वेगं गमिष्यामि महेन्द्रशिखरेष्वहम्॥ ३७॥ नानाद्रुमविकीर्णेषु धातुनिष्पन्दशोभिषु। एतानि मम वेगं हि शिखराणि महान्ति च॥ ३८॥ प्लवतो धारयिष्यन्ति योजनानामितः शतम्। ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः। आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः॥ ३९॥ वृतं नानाविधैः पुष्पैर्मृगसेवितशाद्वलम्। लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम्॥ ४०॥ सिंहशार्दूलसहितं मत्तमातङ्गसेवितम्। मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम्॥ ४१॥ महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः। विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः॥ ४२॥ पादाभ्यां पीडितस्तेन महाशैलो महात्मना। ररास सिंहाभिहतो महान् मत्त इव द्विपः॥ ४३॥ मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः। वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः॥ ४४॥ नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः। उत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि॥ ४५॥ त्यज्यमानमहासानुः संनिलीनमहोरगः। शैलशृङ्गशिलोत्पातस्तदाभूत् स महागिरिः॥ ४६॥ निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः। सपताक इवाभाति स तदा धरणीधरः॥ ४७॥ ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः। सीदन् महति कान्तारे सार्थहीन इवाध्वगः॥ ४८॥ स वेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता। मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी॥ ४९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तषष्ठितमः सर्गः ॥४-६७॥
स्रोतः
सम्पाद्यताम्पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।