रामायणम्/किष्किन्धाकाण्डम्/सर्गः ५६
← सर्गः ५५ | रामायणम्/किष्किन्धाकाण्डम् किष्किन्धाकाण्डम् वाल्मीकिः |
सर्गः ५७ → |
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥४-५६॥
उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले। हरयो गृध्रराजश्च तं देशमुपचक्रमे॥ १॥ सम्पातिर्नाम नाम्ना तु चिरजीवी विहंगमः। भ्राता जटायुषः श्रीमान् विख्यातबलपौरुषः॥ २॥ कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः। उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत्॥ ३॥ विधिः किल नरं लोके विधानेनानुवर्तते। यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः॥ ४॥ परम्पराणां भक्षिष्ये वानराणां मृतं मृतम्। उवाचैतद् वचः पक्षी तान् निरीक्ष्य प्लवंगमान्॥ ५॥ तस्य तद् वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः। अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत्॥ ६॥ पश्य सीतापदेशेन साक्षाद् वैवस्वतो यमः। इमं देशमनुप्राप्तो वानराणां विपत्तये॥ ७॥ रामस्य न कृतं कार्यं न कृतं राजशासनम्। हरीणामियमज्ञाता विपत्तिः सहसाऽऽगता॥ ८॥ वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा। गृध्रराजेन यत् तत्र श्रुतं वस्तदशेषतः॥ ९॥ तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि। प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम्॥ १०॥ अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः। ततस्तस्योपकारार्थं त्यजतात्मानमात्मना॥ ११॥ प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा। राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः॥ १२॥ कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम्। स सुखी गृध्रराजस्तु रावणेन हतो रणे। मुक्तश्च सुग्रीवभयाद् गतश्च परमां गतिम्॥ १३॥ जटायुषो विनाशेन राज्ञो दशरथस्य च। हरणेन च वैदेह्याः संशयं हरयो गताः॥ १४॥ रामलक्ष्मणयोर्वासमरण्ये सह सीतया। राघवस्य च बाणेन वालिनश्च तथा वधः॥ १५॥ रामकोपादशेषाणां रक्षसां च तथा वधम्। कैकेय्या वरदानेन इदं च विकृतं कृतम्॥ १६॥ तदसुखमनुकीर्तितं वचो भुवि पतितांश्च निरीक्ष्य वानरान्। भृशचकितमतिर्महामतिः कृपणमुदाहृतवान् स गृध्रराजः॥ १७॥ तत् तु श्रुत्वा तथा वाक्यमङ्गदस्य मुखोद्गतम्। अब्रवीद् वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः॥ १८॥ कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे। जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः॥ १९॥ कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः। नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम्॥ २०॥ इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम्। यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः॥ २१॥ अतिदीर्घस्य कालस्य परितुष्टोऽस्मि कीर्तनात्। तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः॥ २२॥ भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः। तस्यैव च मम भ्रातुः सखा दशरथः कथम्॥ २३॥ यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः। सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम्। इच्छेयं पर्वतादस्मादवतर्तुमरिंदमाः॥ २४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥४-५६॥
स्रोतः
सम्पाद्यताम्पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।