रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः २ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥

तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१-१-१॥

कोन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥१-१-२॥

चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान् कः कः समर्थश्च कश्चैक प्रियदर्शनः ॥१-१-३॥

आत्मवान् को जित क्रोधो द्युतिमान् कोऽनसूयकः ।
कस्य बिभ्यति देवाश्च जात रोषस्य संयुगे ॥१-१-४॥

एतदिच्छाम्यहँ श्रोतुं परं कौतूहलँ हि मे ।
महर्षे त्वम् समर्थोऽसि ज्ञातुमेवं विधं नरम् ॥१-१-५॥

श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामंत्र्य प्रहृष्टो वाक्यमब्रवीत् ॥१-१-६॥

बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्ष्याम्यहं बुद्ध्वा तैरुक्तः श्रूयताम् नरः ॥१-१-७॥

इक्ष्वाकु वंश प्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥१-१-८॥

बुद्धिमान् नीतिमान् वाङ्ग्मी श्रीमान् शत्रु निबर्हणः ।
विपुलांसो महाबाहुः कंबुग्रीवो महाहनुः ॥१-१-९॥

महोरस्को महेष्वासो गूढ जत्रुररिन्दमः ।
आजानु बाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥

समः सम विभक्ताङ्गः स्निग्ध वर्णः प्रतापवान् ।
पीन वक्षा विशालाक्षो लक्ष्मीवान् शुभ लक्षणः ॥१-१-११॥

धर्मज्ञः सत्यसन्धश्च प्रजानाञ्च हिते रतः ।
यशस्वी ज्ञानसंपन्नः शुचिर्वश्यः समाधिमान् ॥१-१-१२॥

प्रजापति समः श्रीमान् धता रिपु निषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परि रक्षिता॥१-१-१३॥

रक्षिता स्वस्य धर्मस्य स्व जनस्य च रक्षिता ।
वेद वेदाङ्ग तत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१-१-१४॥

सर्व शास्त्रार्थ तत्त्वज्ञो स्मृतिमान् प्रतिभानवान् ।
सर्वलोक प्रियः साधुः अदीनात्मा विचक्षणः ॥१-१-१५॥

सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
अर्यः सर्वसमश्चैव सदैव प्रिय दर्शनः ॥१-१-१६॥

स च सर्व गुणोपेतः कौसल्यानंद वर्धनः ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥१-१-१७॥

विष्णुना सदृशो वीर्ये सोमवत्प्रिय दर्शनः ।
कालाग्नि सदृशः क्रोधे क्षमया पृथिवी समः ॥१-१-१८॥

धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
तमेवं गुण संपन्नं रामं सत्य पराक्रमम् ॥१-१-१९॥

ज्येष्टँ श्रेष्ट गुणैर्युक्तं प्रियं दशरथस्सुतम् ।
प्रकृतीनाँ हितैर्युक्तं प्रकृति प्रिय काम्यया ॥१-१-२०॥

यौव राज्येन संयोक्तुम् ऐच्छत्प्रीत्या महीपतिः ।
तस्याभिषेक संभारान् दृष्ट्वा भार्याथ कैकयी ॥१-१-२१॥

पूर्वं दत्त वरा देवी वरमेनमयाचत ।
विवासनञ्च रामस्य भरतस्याभिषेचनम् ॥१-१-२२॥

स सत्य वचनाद्राजा धर्म पाशेन संयतः ।
विवासयामास सुतँ रामं दशरथः प्रियम् ॥१-१-२३॥

स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचन निर्देशात् कैकेय्याः प्रिय कारणात् ॥१-१-२४॥

तं व्रजंतं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
स्नेहाद्विनय संपन्नः सुमित्रानंद वर्धनः ॥१-१-२५॥

भ्रातरं दयितो भ्रातुः सौभ्रात्रमनु दर्शयन् ।
रामस्य दयिता भार्या नित्यं प्राण समाहिता ॥१-१-२६॥

जनकस्य कुले जाता देव मायेव निर्मिता ।
सर्व लक्षण संपन्ना नारीणामुत्तमा वधूः ॥१-१-२७॥

सीताप्यनुगता रामँ शशिनँ रोहिणी यथा ।
पौरैरनुगतो दूरं पित्रा दशरथेन च ॥१-१-२८॥

शृन्गिबेर पुरे सूतं गङ्गा कूले व्यसर्जयत् ।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥१-१-२९॥

गुहेन सहितो रामो लक्ष्मणेन च सीतया ।
ते वनेन वनङ्गत्वा नदीस्तीर्त्वा बहूदकाः ॥१-१-३०॥

चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
रम्यमावसथङ्कृत्वा रममाणा वने त्रयः ॥१-१-३१॥

देव गन्धर्व संकाशाः तत्र ते न्यवसन् सुखम् ।
चित्रकूटङ्गते रामे पुत्र शोकातुरस्तथा ॥१-१-३२॥

राजा दशरथस्स्वर्गं जगाम विलपन् सुतम् ।
गते तु तस्मिन् भरतो वसिष्ठ प्रमुखैर्द्विजैः ॥१-१-३३॥

नियुज्यमानो राज्याय नैच्छत् राज्यं महाबलः ।
स जगाम वनं वीरो राम पाद प्रसादकः ॥१-१-३४॥

गत्वा तु स महात्मानँ रामँ सत्य पराक्रमम् ।
अयाचद्भ्रातरँ रामम् आर्य भाव पुरस्कृतः ॥१-१-३५॥

त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।
रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥१-१-३६॥

न चैच्छत् पितुरादेशात् राज्यँ रामो महाबलः ।
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥१-१-३७॥

निवर्तयामास ततो भरतं भरताग्रजः ।
स काममनवाप्यैव राम पादावुपस्पृशन् ॥१-१-३८॥

नन्दि ग्रामेऽकरोद्राज्यँ रामागमन काङ्क्षया ।
गते तु भरते श्रीमान् सत्य सन्धो जितेन्द्रियः ॥१-१-३९॥

रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥

प्रविश्य तु महारण्यँ रामो राजीव लोचनः ।
विराधँ राक्षसँ हत्वा शरभङ्गं ददर्श ह ॥१-१-४१॥

सुतीक्ष्णञ्चाप्यगस्त्यञ्च अगस्त्य भ्रातरं तथा ।
अगस्त्य वचनाच्चैव जग्राहैन्द्रम् शरासनम् ॥१-१-४२॥

खड्गञ्च परम प्रीतः तूणी चाक्षय सायकौ ।
वसतस्तस्य रामस्य वने वन चरैस्सह ॥१-१-४३॥

ऋषयोऽभ्यागमन् सर्वे वधायासुर रक्षसाम् ।
स तेषाम्प्रति शुश्राव राक्षसानां तथा वने ॥१-१-४४॥

प्रतिज्ञातश्च रामेण वधस्संयति रक्षसाम् ।
ऋषीणामग्नि कल्पानां दंडकारण्य वासीनाम् ॥१-१-४५॥

तेन तत्रैव वसता जनस्थान निवासिनी ।
विरूपिता शूर्पणखा राक्षसी काम रूपिणी ॥१-१-४६॥

ततः शूर्पणखा वाक्यात् उद्युक्तान् सर्व राक्षसान् ।
खरम् त्रिशिरसम् चैव दूषणञ्चैव राक्षसम् ॥१-१-४७॥

निजघान रणे रामः तेषाम् चैव पदानुगान् ।
वने तस्मिन्निवसता जनस्थान निवासिनाम् ॥१-१-४८॥

रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।
ततो ज्ञाति वधँ श्रुत्वा रावणः क्रोध मूर्छितः ॥१-१-४९॥

सहायं वरयामास मारीचं नाम राक्षसम् ।
वार्यमाणस्सुबहुशो मारीचेन स रावणः ॥१-१-५०॥

न विरोधो बलवता क्षमो रावण तेन ते ।
अनादृत्य तु तद्वाक्यँ रावणः काल चोदितः ॥१-१-५१॥

जगाम सह मारीचः तस्याश्रम पदं तदा ।
तेन मायाविना दूरम् अपवाह्य नृपात्मजौ ॥१-१-५२॥

जहार भार्याँ रामस्य गृध्रँ हत्वा जटायुषम् ।
गृध्रञ्च निहतं दृष्ट्वा हृताँ श्रुत्वा च मैथिलीम् ॥१-१-५३॥

राघवश्शोक संतप्तो विललापाकुलेन्द्रियः ।
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥१-१-५४॥

मार्गमाणो वने सीताँ राक्षसँ सन्ददर्श ह ।
कबन्धं नाम रूपेण विकृतं घोर दर्शनम् ॥१-१-५५॥

तन्निहत्य महाबाहुः ददाह स्वर्गतश्च सः ।
स चास्य कथयामास शबरीं धर्म चारिणीम् ॥१-१-५६॥

श्रमणां धर्म निपुणाम् अभिगच्छेति राघव ।
सोऽभ्य गच्छन्महातेजाः शबरीँ शत्रु सूदनः ॥१-१-५७॥

शबर्या पूजितस्सम्यक् रामो दशरथात्मजः ।
पम्पा तीरे हनुमता सङ्गतो वानरेण ह ॥१-१-५८॥

हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
सुग्रीवाय च तत्सर्वम् शँसद्रामो महाबलः ॥१-१-५९॥

आदितस्तद्यथा वृत्तँ सीतायाश्च विशेषतः ।
सुग्रीवश्चापि तत्सर्वँ श्रुत्वा रामस्य वानरः ॥१-१-६०॥

चकार सख्यँ रामेण प्रीतश्चैवाग्नि साक्षिकम् ।
ततो वानर राजेन वैरानुकथनम्प्रति ॥१-१-६१॥

रामायावेदितँ सर्वं प्रणयात् दुःखितेन च ।
प्रतिज्ञातञ्च रामेण तदा वालि वधम्प्रति ॥१-१-६२॥

वालिनश्च बलं तत्र कथयामास वानरः ।
सुग्रीवश्शंकितश्चासीत् नित्यं वीर्येण राघवे ॥१-१-६३॥

राघवः प्रत्ययार्थन्तु दुन्दुभेः कायमुत्तमम् ।
दर्शयामास सुग्रीवः महापर्वत सन्निभम् ॥१-१-६४॥

उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्ति महाबलः ।
पादाङ्गुष्ठेन चिक्षेप संपूर्णं दश योजनम् ॥१-१-६५॥

बिभेद च पुनस्सालान् सप्तैकेन महेषुणा ।
गिरिँ रसातलञ्चैव जनयन् प्रत्ययं तथा ॥१-१-६६॥

ततः प्रीत मनास्तेन विश्वस्तस्स महाकपिः ।
किष्किन्धाम् राम सहितो जगाम च गुहां तदा ॥१-१-६७॥

ततोऽगर्जद्धरिवरः सुग्रीवो हेम पिङ्गलः ।
तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥

अनुमान्य तदा ताराँ सुग्रीवेण समागतः ।
निजघान च तत्रैनँ शरेणैकेन राघवः ॥१-१-६९॥

ततस्सुग्रीव वचनात् हत्वा वालिनमाहवे ।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥

स च सर्वान् समानीय वानरान् वानरर्षभः ।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥१-१-७१॥

ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली ।
शत योजन विस्तीर्णं पुप्लुवे लवणार्णवम् ॥१-१-७२॥

तत्र लङ्काँ समासाद्य पुरीँ रावण पालिताम् ।
ददर्श सीतां ध्यायन्तीम् अशोक वनिकां गताम् ॥१-१-७३॥

निवेदयित्वाभिज्ञानं प्रवृत्तिञ्च निवेद्य च ।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥१-१-७४॥

पंच सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।
शूरमक्षञ्च निष्पिष्य ग्रहणँ समुपागमत् ॥१-१-७५॥

अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् ।
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥१-१-७६॥

ततो दग्ध्वा पुरीं लङ्काम् ऋते सीताञ्च मैथिलीम् ।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥१-१-७७॥

सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥१-१-७८॥

ततस्सुग्रीव सहितो गत्वा तीरं महोदधेः ।
समुद्रं क्षोभयामास शरैरादित्य सन्निभैः ॥१-१-७९॥

दर्शयामास चात्मानँ समुद्रस्सरिताम्पतिः ।
समुद्र वचनाच्चैव नलँ सेतुमकारयत् ॥१-१-८०॥

तेन गत्वा पुरीँल्लङ्काँ हत्वा रावणमाहवे ।
रामस्सीतामनुप्राप्य परां व्रीडामुपागमत् ॥१-१-८१॥

तामुवाच ततो रामः परुषं जन संसदि ।
अमृष्यमाणा सा सीता विवेश ज्वलनँ सती ॥१-१-८२॥

ततोऽग्नि वचनात्सीतां ज्ञात्वा विगत कल्मषाम् ।
कर्मणा तेन महता त्रैलोक्यँ स चराचरम् ॥१-१-८३॥

स देव ऋषि गणं तुष्टँ राघवस्य महात्मनः ॥
बभौ रामस्संप्रहृष्टः पूजितस्सर्व देवतैः ॥१-१-८४॥

अभ्यषिच्य च लङ्कायाँ राक्षसेन्द्रं विभीषणम् ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥

देवताभ्यो वराम्प्राप्य समुत्थाप्य च वानरान् ।
अयोध्याम्प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥१-१-८६॥

भरद्वाजाश्रमङ्गत्वा रामस्सत्यपराक्रमः ।
भरतस्यान्तिकँ रामो हनूमन्तं व्यसर्जयत् ॥१-१-८७॥

पुनराख्यायिकां जल्पन् सुग्रीव सहितस्तदा ।
पुष्पकंस्तत् समारूह्य नन्दिग्रामँ ययौ तदा ॥१-१-८८॥

नन्दिग्रामे जटाँ हित्वा भ्रातृभिस्सहितोऽनघः ।
रामस्सीतामनुप्राप्य राज्यम्पुनरवाप्तवान् ॥१-१-८९॥

प्रहृष्टो मुदितो लोकः तुष्टः पुष्टस्सुधार्मिकः ।
निरामयो ह्यरोगश्च दुर्भिक्ष भय वर्जितः ॥१-१-९०॥

न पुत्र मरणं केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥१-१-९१॥

न चाग्निजं भयं किञ्चित् नाप्सु मज्जन्ति जन्तवः ।
न वातजं भयं किञ्चित् नापि ज्वर कृतं तथा ॥१-१-९२॥

न चापि क्षुद्भयन्तत्र न तस्कर भयन्तथा ।
नगराणि च राष्ट्राणि धन धान्य युतानि च ॥१-१-९३॥

नित्यम्प्रमुदितास्सर्वे यथा कृतयुगे तथा ।
अश्वमेध शतैरिष्ट्वा तथा बहु सुवर्णकैः ॥१-१-९४॥

गवां कोट्ययुतं दत्त्वा विद्वभ्यो विधि पूर्वकम् ।
असंख्येयं धनं दत्त्वा ब्राह्मणेभो महायशाः ॥१-१-९५॥

राज वँशान् शतगुणान् स्थापयिष्यति राघवः ।
चातुर्वर्ण्यञ्च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥

दश वर्ष सहस्राणि दश वर्ष शतानि च ।
रामो राज्यमुपासित्वा ब्रह्म लोकम्प्रयास्यति ॥१-१-९७॥

इदम्पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
यः पठेद्राम चरितँ सर्व पापैः प्रमुच्यते ॥१-१-९८॥

एतदाख्यानमायुष्यं पठन् रामायणं नरः ।
स पुत्र पौत्रस्सगणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥

पठन् द्विजो वागृषभत्वमीयात् ।
स्यात् क्षत्रियो भूमि पतित्वमीयात् ॥
वणिक् जनः पण्य फलत्वमीयात् ।
जनश्च शूद्रोऽपि महत्त्वमीयात् ॥१-१-१००॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥१-१॥